श्रीः
श्रीमते रामानुजाय नमः
श्री पराङ्कुशपञ्चविंशतिः
श्रीपराङ्कुशनुतिं य आतनोत् तत्पदाब्जपरभक्तिचोदितः।
तं वधूलकुलभूषणं दया-वारिधिं वरददेशिकं भजे ॥
श्रीमन् पराङ्कुशनिरङ्कुशतत्त्वबोध
वात्सल्यपूर्णकरुणापरिणामरूप।
सौशील्यसागरमनन्तगुणाकरं त्वां
संसारतापहरणं शरणं वृणेहम्॥ (१)
कासारसंयमिमुखाः कमलासहाय –
भक्ताः प्रपत्तिपदवीनियता महान्तः।
यस्याभवन्नवयवा इव पारतन्त्र्यात्
तस्मै नमो वकुळभूषणदेशिकाय॥ (२)
श्रीरङ्गराजपदपङ्कजसङ्गशीलं
श्रेयःपरं मधुरपूर्वकवेरपूर्वम्।
नाथार्ययामुनयतीश्वरभागधेयं
नाथं कुलस्य मम नौमि पराङ्कुशार्यम् ॥ (३)
पापक्रियासु निरताः शृणुतास्मदुक्तिं
तापत्रयेण भविनः परितप्यमानाः।
आपद्धनं मधुरिपोर्भवतामविद्या
स्वापप्रहाणनिपुणः शरणं शठारिः॥ (४)
नित्योऽथ मुक्त उत तद्गुणको मुमुक्षुः
व्यासादिवद्भगवता किमनुप्रविष्टः।
अत्र्यादिसूनुरिह वर्णयुगक्रमात् किम्
आसीत्पुराणपुरुषः शठवैरियोगी॥ (५)
कर्मेति केचिदपरे मतिरित्यथान्ये
भक्तिं परे प्रपदनं प्रवदन्त्युपायम्।
आम्नायसारचतुरास्त्वमितानुभावं
त्वामेव यान्ति शरणं शठजिन्मुनीन्द्र ॥ (६)
भक्त्याधुपायरहितः पतितो भवाब्धौ
त्वत्पादसेवनरसेपि च दुर्बलोऽहम्।
इत्थं सतीह शठकोप दयैकमूर्ते
कृत्यं किमस्ति मम संसृतिमोचनाय ॥ (७)
त्वद्दिव्यसूक्तिपरिशीलनमात्रमेव
निःश्रेयसाधिगमने निरपेक्षहेतुः।
तच्चास्ति मे न शठवैरिगुरो महात्मन्
उज्जीवनं कथमहो मम जाघटीति॥ (८)
त्वन्नामकीर्तनमकृत्रिममातनोति
यस्तस्य संसरणनिस्तरणं घटेत।
दुर्वासनाकलुषितस्य न मेऽस्ति बुद्धिः
तत्रापि केसरविभूष किमात्मनीनम्॥ (९)
त्वत्किङ्करत्वरसिकाः तव दासदास
दास्यैकरस्यमुदिताश्च भजन्ति मुक्तिम्।
तत्राप्यहं शकनवान् न शठारियोगिन्
अत्याहितं कथमपैतु भवोत्थितं मे ॥ (१० )
त्वद्विग्रहेक्षणमथो तव संस्मृतिश्च
मुक्त्यै भवेदिति वदन्ति पराङ्कुशार्य।
निद्राप्रमादमलिनीकृतमानसस्य
तत्रापि शक्तिरिह मे न कथं भवेयम्॥ (११)
एवं कदाचिदपि कुत्रचिदस्त्युपायः
नैवाघनाशनविधौ मम तावकस्य।
आकस्मिकी तव कृपामपहाय माया –
कोलाहलप्रशमनीं कुरुकापुरीश ॥ (१२)
अव्याजबन्धुमविशेषमशेषजन्तोः
उद्वेलवत्सलतया कृपया च पूर्णम्।
त्वामामनन्ति शठवैरिमुने ततस्ते
हातुं न युक्तमपराधिनमप्यहो माम्॥ (१३)
यावच्च यच्च दुरितं सकलस्य जन्तोः
तावच्च तत्तदधिकञ्च ममास्ति सत्यम्।
एतद्वचः कथमभूत् सततानृतोक्ति –
शीलस्य मे शठरिपो तदिदं विचित्रम्॥ (१४)
शास्त्रेण यद्विहितमाचरणीयमेतत्
सर्वैर्निषिद्धमिह यत्तदुपेक्षणीयम्।
इत्यादिकं शठरिपो सदसि ब्रवीमि
है सन्तनोमि रहसि स्ववचोविरुद्धम्॥ (१५)
प्रच्छन्नपातकशतावृतचेतसो मे
संप्रीणिताः प्रणतिभूमिकया कयाचित्।
सत्कारमादरभरेण परावरज्ञाः
कुर्वन्ति हन्त शठवैरिमुने हतोऽस्मि॥ (१६)
पद्भ्यां शपे तव शठारिमुनीन्द्र योऽभूत् ।
उद्दामदोषगणनान्तिमकोटिनिष्ठः।
सोऽपि प्रकृष्टविभवो यदपेक्षया स्यात्
तस्माच्च पापभरितोऽहमितो न पापः॥ (१७)
पूर्वैः स्वनैच्यमनुसंहितमार्यवर्यैः
मामेव वीक्ष्य महतां न तदस्ति तेषाम्।
नैच्यं त्विदं शठरिपो मम सत्यमेव
मत्तः परो न मलिनो यत आविरस्ति॥ (१८)
उक्त्वा स्वदोषविषयं वचनं त्वदने
संसारभीरुरिव तेन च वञ्चकोऽहम्।
सामर्थ्यमेव शठकोप विभावयामि
संवीक्ष्य कं गुणमिहासि मयि प्रसन्नः॥ (१९)
किन्तु क्रियासमभिहारकृतापराधः
हन्तानुतप्य पुनरप्यपराधकारी।
पद्मासखस्य परिहासरसोचितोऽहम्
एतद्विलोक्य शठकोप मयि प्रसीद॥ (२० )
कामप्रमोऽहमदमत्सरमन्युलोभैः
पारम्परीत उदितैः परिपीड्यमानम्।
दैवात्त्वदीक्षणपथं दयया शठारे
पाहि प्रपन्नमिममुन्नमदागसं माम्॥ (२१)
कार्या कृपा सुमतिभिः खलु दुःखितेषु
दुःखी मया न सदृशो भृशदुःखभाजाम्।
तस्मात्तवाखिलजनेषु च यानुकम्पा
मय्येव तां शठरिपो निभृतं निधेहि ॥ (२२)
विश्वोपकारकमघार्णवतारकं त्वाम्
अप्राप्य है शठरिपो हत एव पूर्वम्।
अद्य त्वदीयकृपया प्रतिलब्धसत्त्वः
त्वत्सेवनामृतरसेन सुखी भवानि ॥ (२३)
अत्राप्यमुत्र करणत्रितयप्रवृत्त्या
त्वत्पादपङ्कजजुषां विदुषां प्रसादम्।
नित्यं लभेमहि न चान्यदपेक्षितं नः
प्रत्यग्रकेसरपरिष्कृतकारिसूनो ॥ (२४)
वाधूलवेङ्कटपतिं वरदार्यसूनुम्
अस्मद्गुरुं तव पदप्रवणं समीक्ष्य।
अज्ञं कृतागसमनाथमकिञ्चनं मां
त्वत्किङ्करं शठरिपो सततं कुरुष्व ॥ (२५)
इति श्री पराङ्कुशपञ्चविंशतिः