श्री भगवद् गुण दर्पण: (1-100)
श्री विष्णुसहस्रनामभाष्ये प्रथमशतकप्रारंभ:
अथ पञ्चसिद्धान्तनिष्ठानिर्णयेन पर-व्यूह-विभवविशेषेषु स्वनाम अर्थ प्रकरण- औचित्य- अपौनरुक्त्य- प्रभूतिभिः न्यायैः व्यवस्थाप्य, व्याकरण निरुक्त- आर्ष- निर्वचनप्रस्थानेन नामानि निरुच्यन्ते।
1.1 विश्वम्
*1 1. तत्र पूर्वं सर्वतोमुखं भगवतः पूर्णत्वमाह– विश्वम् इति । विशति अवयवान् इत्यर्थे “अशुप्रुषि लटिकणि खटि विशिभ्यः क्वन्” इति क्वन् प्रत्ययः । (उणा.पा.-1.157) । यथा मोक्षधर्मे संयमाय पञ्चशिखः – 2 “वेशनात् विश्वमित्याहुः लोकानां काशिसत्तम ! । लोकांश्च विश्वमेव इति प्रवदन्ति नराधिप ! ।। ” इति । (मोक्षधर्म) स्वाभाविक-अनवधिकातिशय-माङ्गल्यैकतानैः स्वरूप-रूप-गुणविभवैः परिपूर्णः इत्यर्थः; कार्त्स्न्य-वचनत्वात् अस्य, आदौ अनवच्छेद्य-महाविभूतित्वस्य संकीर्तन- योग्यत्वाच्च । 3 “तदशिष्यं संज्ञाप्रमाणत्वात्” इति यथोपलंभं सर्वत्र लिङ्गनियमः । (अष्टा.-1.2.53) कार्यवाचि “विश्व” शब्दः कारणे वर्तते इति केचित् । तत् वार्तम् ; सर्वेषां नाम्नां योगरूढित्वात् भगवति स्वशब्दत्वोपपादनात्, जघन्यवृत्तेः अयुक्तत्वाच्च । अन्ये “विश्वम्” इति ब्रह्मप्रपञ्चयोः अभेदपरं प्रपञ्चितवन्तः, तत् वञ्चनमात्रम् तथाहि–न तावत् “विश्व” पदम् अभेदवाचि । न च “तत्वमस्यादि” (छा.-6.8.7) वत् सामानाधिकरण्येन ऐक्यपरम्, संज्ञानां स्वातन्त्र्येण ऐक्यपरत्व-अविवक्षणात् । अत्र एव हि “विश्वं विष्णुः” इति अविशेष्यलिङ्गत्वम् । निरस्तश्च अयम् अर्वागेव पक्षः अन्यत्र च अनेकत्र । इदमेवपूर्णत्वं सर्वैः नामभिः “विष्णुः” इत्यादिभिः विशिष्यते ।।
1.2 विष्णुः
*2 सर्वं विशति इति । यथा– 1 “विवेगश भूचतानिग चराचचराणिग”, निरुक्तम्–विष्णुः (2) [259,663] (तै.ना. 1) 2 “तदेचवानुचप्राविगशत्” इत्यादि । चराचरेषु भूतेषु वेशनात् विष्णुरुच्यते ।। (तै.आ.6) 3 “व्याप्य सर्वान् इमान् लोकान् स्थितः सर्वत्र केशवः । ततश्च विष्णुनामाऽसि विशेर्धातोः प्रवेशनात् ।।” (स्वेच्छया यो वशे सर्वं वषट्कारः करोति सः । “विश प्रवेशने” इति धातुः । तत्र ‘क्नु’ प्रत्ययात् ‘विष्णुः’ इति । (श्रीवराहे ?) ताच्छील्यादिविषयेण क्नुप्रत्ययेन अस्य महिम्नः स्वाभाविकत्वम् उच्यते । पूर्णत्व- व्याप्ति-विषयत्वेन नाम्नोः अपुनरुक्तिः ।।
1.3 वषट्कारः
*3 आकाशादि-वैलक्षण्येन एतद्व्याप्तेः प्रयोजनमुच्यते– वषट्कारः इति । सर्वं वशं -स्वेच्छानुवर्ति करोति इति । करोतेः कर्मणि अण् । “वश कान्तौ” इत्यस्मात् धातोः “प्रच्छि”, “दंसेः” इति बाहुलकानुवृत्तेः ‘अट्’ प्रत्ययः ; वशेः षादेशश्च । 1 “सर्वस्य वशी सर्वस्य ईशानः ;” (बृ 6.4.22) 2 “जगद्वशे वर्ततेदम्” इति ।। (भारत.आनु.149-137)
1.4 भूतभव्यभवत्प्रभुः
*4 अतः भूत-भव्य-भवत्प्रभुः — कालत्रयवर्तिनां प्रभुः — स्वामी; शेषी इति यावत् । “विप्रसंभ्यो डु असंज्ञायां” इति डुः । (अष्टा.-3.2.180) समुदायस्य संज्ञा त्वात् प्रत्ययाविरोधः । घुष्यन्ति हि शास्त्राणि – 4 “पतिंच विश्वगस्य” (तै.ना.11) 5 “पतिं पतीनाम्”, (श्वे.- 6.7) 6 “भूचतस्यग जाचतः पतिचरेकग आसीत्”; (तै.सं 4.1.8), 7 “तत्पुरुगषस्यच विश्वघम्” (पुरुषसू.) 8 “यस्येचमाः प्रदिशः” (तै.सं.4.1.8) 9 “कृष्णस्य हि कृते भूतम् इदं विश्वं चराचरम्”; (भा.स.38.23) 10 “भूत-भव्य-भवन्नाथः केशवः केशिसूदनः” ( भार.स.31.11) 11 “जगन्नाथस्य भूपते” इत्यादीनि ।। ( सहस्र ) पुनः शेषित्वोपपादकानि पञ्च नामानि ।
1.5 भूतकृत् –
*5 सर्वाणि भूतानि स्वतन्त्रः सृजति इति भूतकृत् । यथा 1 “सर्वऐग हेचदं ब्रह्मगणा हैचव सृष्टम्”, 2 “यतोच वा इचमानिग” इत्यादि ।। (तै.भृ.1)
1.6 भूतभृत्
*6 भूतानि बिभर्ति इति भूतभृत् । 1 “विचश्वं बिगभर्तिच भुवगनस्यच नाभिः”, (तै.ना.1), 2. “तद्यथा रथस्यारेषु नेमिरर्पिता नाभावरा अर्पिताः एवमेव एता भूतमात्राः प्रज्ञामात्रासु अर्पिताः, प्रज्ञामात्राः प्राणेष्वर्पिताः”, (कौषी.-3.61) 3. “स दागधार पृथिचवीम्”, (तै,सं 4.1.8) 4. “विभर्तिं अव्यय ईश्वरः” इति ।। (गीता 15.17)
1.7 भावः
*7 उक्त-वक्ष्यमाण-सर्वविभूतिभिः कलापीः इव प्रचलाकेन विशिष्टतया भवति इति भावः । “भवतेश्च इति वक्तव्यम्” इति णप्रत्ययः । तस्मिन् भगवति प्रकारतया अन्तर्भावा
1.8 भूतात्मा
*8 इमं विभूति-विभूतिमद्भावं शरीरात्मभाव-लक्षणं विशिनष्टि भूतात्मा इति । सर्वेषां भूतानाम् आत्मा । अवरात्मनोऽपि इदमेव स्वशरीरं प्रति आत्मत्वं यत् व्याप्य साक्षा त्प्रवृत्त्यादिषु नियच्छति; एवं परः सर्वमिति विशेषः । दार-अगार-केदारादि-विलक्षणेन अत्यन्तपारतन्त्र्येण अन्तरंगो हि देहस्य आत्मविभूतिभावः । “यः पृथिव्यां तिष्ठन्” , (बृ 3.7.3) “य आत्मनि तिष्ठन्”, (बृ.माध्यं) “यस्य पृथिवी शरीरम्”, (बृ.3.7.3) “यस्य आत्मा शरीरम्”, (बृ.माध्यं) “एष सर्वभूतान्तरात्मा “, (सु.-7) “जगत् सर्वं शरीरं ते”, (रा.यु.120.25) “तानि सर्वाणि तद्वपुः”, (वि.पु.1.22.86) “तत् सर्वं वै हरेस्तनुः”, इत्यादि उदाहार्यम् ।। (वि.पु.1.22.38)
1.9 भूतभावनः
*9 तानि धारक-पोषक-भोग्यप्रदानेन वर्धयति इति भूतभावनः । “नन्द्यादिभ्यो ल्युः” । (अष्टा.- 3.1.134), “कृत्यल्युटो बहुलम्” इति वा कर्तरि ल्युट् । (अष्टा.-3.3.113), एवं ‘भावनः’ (32) ‘प्रतर्दनः’ (60) इत्यादयोऽपि ल्युट्प्रत्ययान्ताः । यथा- “भूतभावन भूतेशः”, (गी.10.15) “एष भूतपालः”, इति । (बृ.4.4.22) एवं स्वरूप-स्थिति-प्रवृत्तिपालनैः शेषित्वम् उपपादितम् । उत्पादन-पोषणादिभिः उपादीयमानं प्रति उद्देश्यं हि शेषी इति “शेषः परार्थत्वात्” इति समर्थितम् ।। (पूर्व मी.3.3.1) पूतात्मा परमात्मा च मुक्तानां परमा गतिः । अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ।। 2 ।।
2.10 पूतात्मा
*10 आत्मत्वेऽपि संसारिवत् अस्य शरीरभूत-चिदचिद्दोष-अननुषङ्गात् पूतात्मा-शुद्ध- स्वभावः । परावरयोः तुल्यत्वेऽपि शरीरसंबन्धे अवर एवात्मा कर्मफलानि भुञ्जानः क्लिश्यते । “जहाघत्येनां भुचक्तभोगगाचम् अजोघऽन्यः” । (तै.ना.10.5) । भोजयिता तु परः स्वातन्त्र्येण न भुंक्ते, चकास्ति च परम् । यथा च शिष्यशासित्रोः अविशिष्टेऽपि कशास्पर्शे, कर्म-कर्तृभाव-भेदेन शिष्य एक एव कशया पीड्यते, न शासिता । विज्ञायते च – 1. “अनश्नन् अन्यो अभिचाकशीति”, (मु.-3.1.1) 2. “एष सर्वभूतान्तरात्मा अपहतपाप्मा”, (सु.-7) 3. “न मां कर्माणि लिम्पन्ति”, (गीता 4.14) 4. “पश्य देवस्य माहात्म्यं महिमानं च नारद ! शुभाशुभैः कर्मभिर्यो न लिप्यति कदाचन ।।”, इत्यादि । (भार.शा.340.26) सूत्रितं च “संभोगप्राप्तिरिति चेन्न वैशेष्यात्” इति ।। (ब्र.सू.1.2.8)
2.11 परमात्मा
*11 यथा सर्वाणि भूतानि अनेन आत्मवन्ति, नैवम् अयम् अन्येन केनचित् । अतः 2. “आचत्मेश्वगरम्”, (तै.ना.11) 3. “तस्माघत् ह अचन्यन्न पचरः किञ्चचनासग”, (तै.सं.2.8.9) 4. “न तत्समश्च अभ्यधिकश्च दृश्यते”, (श्वे.- 6.8) 5. “यस्माचत् परंच नापगरचम् अस्तिच किञ्चिगत्”, (श्वे.-3.9) 6. “न परं पुण्डरीकाक्षात् दृश्यते भरतर्षभ !”, (भार.भी.62.2) 7. “परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति “, (भार.भी.67.18) 8. “न दैवं केशवात् परम्”, (भार.आश्व.2.21) 9. “यस्मात् परस्मात् पुरुषात् अनन्तात् अनादिमध्यात् अधिकं न किंचित्”, 10. “मत्तः परतरं नान्यत् किंञ्चिदस्ति”, (गीता 7.7) 11. “परं हि अमृतम् एतस्मात् विश्वरूपात् न विद्यते”, 12. “परः पराणां परमः परमात्मा”, इति । (वि.पु.1.2.10)
2.12 मुक्तानां परमा गतिः
*12 एवं सर्वशेषिणमेव परमप्राप्यमाह-मुक्तानां परमा गतिः । प्रकृतिबन्धाविद्या-कर्म संस्कार-रुचि-विपाकेभ्यः आवरणेभ्यः एकान्ततोऽत्यन्तञ्च विश्लिष्टाः मुक्ताः । आम्नायते हि– 1. “तत्सुकृत-दुष्कृते धूनुते”, (कौषी.- 1.37) 2. “अश्व इव रोमाणि विधूय पापम्”, (छा.-8.13.1) 3. “पुण्यपापे विधूय”, (मु.3.2.8) [पाठभेदः “नामरूपे विहाय पुण्यपापात् विमुक्तः”] 4. “तथा विद्वान् नामरूपात् विमुक्तः”, (मु.-2.2.9) 5. “ज्ञात्वा देवं मुच्यते सर्वपाशैः”, (श्वे.-1.4) 6. “भिद्यते हृदयग्रन्थिः”, (मु.-2.2.8) 7. “मायामेतां तरन्ति ते”, (गीता 7.14) श्री नारायणीये– 8. “ये हीनाः सप्तदशभिः गुणैः कर्मभिरेव च । कलाः पञ्चदश त्यक्त्वा ते मुक्ता इति निश्चयः ।। “, इत्यादि (भार.शा.335.40) एवं स्रस्त-समस्त-संसार-निगलानाम् अनन्तसंविद्-आनन्दघनेन स्वरूपेण अपहत-पाप्म त्वादि सत्यसंकल्पत्वावधिना गुणाष्टकेन भोगेन च परेण आत्मना साम्यं च सिद्धान्तितम् । 1.”दिव्येन चक्षुषा मनसा एतान् कामान् पश्यन् रमते”, (छा.8.12.5) 2.”निरञ्जनः परमं साम्यम् उपैति”, (मु.-3.1.3) 3.”मम साधर्म्यम् आगताः”, (गीता 14.2) 4.”एवमपि उपन्यासात् पूर्वभावात् अविरोधं बादरायणः”, इत्यत्र । (ब्र.सू.4.4.7) प्रकृष्टसत्त्वोपादानेन रूपेण साम्यं च 1. “स एकधा भवति [द्विधा भवति]”, ( छा.-7.26.2) 2. “जक्षत् क्रीडन् रममाणः” , (छा.8.12.3.) 3. “कामान्नी कामरूप्यगनुसचञ्चरन्”, (तै.भृ.10) 4. “तं ब्रह्मगन्धः प्रविशति”, “तं ब्रह्मरसः प्रविशति”, (कौषी.-1.40) 5. “तं ब्रह्मालंकारेण अलंकुर्वन्ति”, (कौषी 1.4) 6. “द्वादशाहवत् उभयविधं बादरायणः “, इति । (ब्र.सू.4.4.12) अत्र मुक्तानाम् इति बहुवचनेन तेषां भेदो बहुत्वं च स्पष्टम् । तथा च — 1. “परागमृताचत् परिगमुच्यन्तिच सर्वेघ” (मु.-3,2,6), 2. “मचहिचमानः सचन्ते’, (पु.सू) 3. “साधर्म्यम् आगताः’, (गीता 14.2) 4. “माम् उपयान्ति ते”, इत्यादि च । (गीता 10.10) 1 “जुष्टं यदा पश्यत्यन्यम् ईशम् अस्य महिमानम् इति वीतशोकः”, (मु.-3.1.2) 2. “पृथगात्मानं प्रेरितारं च मत्वा”, (श्वे.-1.6) 3. “पुरुषमुपैति दिव्यम् “, (मु.-3.2.8) 4. “सचह ब्रह्मगणा विपचश्चिताघ”, (तै.आ) 5. “परं ज्योतिरुपस्पद्य”, (छा.-8.12.2) 6. “मुक्तोपसृप्यव्यपदेशाच्च”, इत्यादि । (ब्र.सू.1.3.2) स्पष्टं च मोक्षधर्मे– 7. “स हि नारायणो ज्ञेयः सर्वात्मा पुरुषो हि सः । न लिप्यते मलैश्चापि पद्मपत्रम् इव अंभसा ।। कर्मात्मा तु अपरो योऽसौ मोक्षबन्धैः स युज्यते । स सप्तदशकेनापि राशिना युज्यते तु सः ।।”, इति । (भार.शा.352.14,15) अतः तथ्येन मिथ्यामूतेन वा उपाधिना, कुंभादिना इव नभः अवच्छिन्नं ब्रह्मैव संसरति, मुक्तौ तु भेद एव नास्ति इति मतं शास्त्रेणैव पर्युदस्तम् ।। अमुष्मादेव परमात् साम्यात् भिन्नानामपि “ब्रह्म वेद ब्रह्मैव भवति”, इति अभेदवादाश्च मुख्या एव । यथा सोऽयं गौः इति खण्डमुण्डादिषु । अभेदवादिनां तु मुक्तिविषय-अभेद-साम्यवादाः भज्येरन् । औपाधिक-भेदवादिनां च मुक्तस्वरूप-भंगोपगमात् मुक्तेः अपुरुषार्थत्वं भेदवाद- असामञ्जस्यं च स्याताम् । इदमेव साम्यं मुक्तौ अभेदो व्याख्यातः — “तद्भावभावम् आपन्नः तदाऽसौ परमात्मना । भवत्यभेदी…. ” इति । (वि.पु.6.7.95) तस्य – परस्य ब्रह्मणः भावाः – ज्ञानशक्त्यादयः स्वभावाः, तेषां भावः – आविर्भावः, गुणैः सादृश्यम् । अन्येषां द्वितीयः भावशब्दः व्यर्थः । मुक्तौ भेद-निषेधश्च देवादि- उपाधिविषयो व्यञ्जितः- “देवादिभेदेऽपध्वस्ते नास्त्येवावरणो हि सः” इति । (वि.पु.2.14.33) गतिशब्दश्च एषः कर्मणि क्तिन्नन्तः । गतिः — प्राप्तिः । ईप्सिततमं कर्म उद्देश्यम् । एतेन मुक्त-तत्प्राप्ययोः शेषशेषिभावो दर्शितः । श्रूयते च “एतम् आनन्दमयम् आत्मानम् उपसंक्रम्य”, (तै.भृ.10) “अनुसञ्चरन्”, (तै.भृ.10) “येन येन धाता गच्छति तेन तेन सह गच्छति, तद्यथा तरुणवत्सा वत्सं, वत्सो वा मातरम् “, “छाया वा सत्वम् अनुगच्छेत्”, तथाप्रकारम् इति ।। (परमसंहिता) धर्मिग्राहक-प्रमाणसिद्धं च अवरस्य आत्मनः स्वाभाविकं शेषत्वं ज्ञानादिवत् मोक्षे न तिरस्क्रियते । किंतु निवारकवारणात् आविर्भवति । उक्तं हि “स्वेन रूपेण अभिनिष्पद्यते”, । (छा 8.12.2) वैष्णवे धर्मे– “यथा न क्रियते ज्योत्स्ना मलप्रक्षालनात् मणेः । तता हेयगुणध्वंसात् अवबोधादयो गुणाः ।। प्रकाश्यन्ते, न जन्यन्ते, नित्या एव आत्मनो हि ते ।। ज्ञानं वैराग्यम् ऐश्वर्यं धर्मश्च मनुजेश्वर ! । आत्मनो ब्रह्मभूतस्य नित्यमेतत् चतुष्टयम् ।। “, (वि.ध.104.55.56) “संपद्य आविर्भवः स्वेन शब्दात्”, इति च ।। (ब्र.सू.4.4.1) ननु “आचप्नोतिच स्वाराघज्यम्”, (तै.शी.6) “स्वराट् भवति”, (छा.7.25.2) इति उदाहृत्य, तन्त्रस्य –पा.) मन्द! मैवं परिभूः । आत्माधिपतिं भगवन्तम् अन्तरेण अन्येन क्लेशकर्मादिना परव त्त्वनिवृत्तिः अनन्याधिपतित्वम् ; न पुनः अनाथत्वम् । तथा सति ‘अनधिपतिः’ इति एतावत् उच्येत; न तु ‘अनन्याधिपतिः’ इति । न च प्रियतम-स्वपति-पारतन्त्र्यम् अपुरुषार्थः ; राज्ञो दारादौ प्रियंकरतमत्वोपलंभात् । सूचितश्च बहुधागुणप्रधानभावः “जगद्व्यापारवर्जम्” (ब्र.सू.4.4.17.) “भोगमात्रसाम्यलिङ्गाच्च”, (ब्र.सू.4.4.21) ईश्वर-ईशितव्य-भाववर्जम् भोगमात्रेण तयोः साम्यम् इति ।। श्रीविष्णुतत्त्वे– “पारतन्त्र्यं परे पुंसि प्राप्य निर्गतबन्धनः । स्वातन्त्र्यम् अतुलं लब्ध्वा तेनैव सह मोदते ।।” (वि.तत्त्व) तत्रैव अन्यत्र– “स्वत्वम् आत्मनि सञ्जातं स्वामित्वं ब्रह्मणि स्थितम् । उभयोरेष संबन्धो न परोऽभिमतो मम ।। “, (वि.तत्त्व ) श्रीनारायणीये– “व्रतावसाने सुशुभान् नरान् ददृशिमो वयम् । श्वेतान् चन्द्रप्रतीकाशन् सर्वलक्षणलक्षितान् ।। नित्याञ्जलिकृतान् ब्रह्म जपतः प्रागुदङ्मुखान् ।।”, (भार.मो.337.34) “कृताञ्जलिपुटा हृष्टा नम इत्येव वादिनः ।”, (भार.मो.337.40) “अतीन्द्रिया अनाहारा अनिष्यन्दाः सुगन्धिनः ।”, (भार.मो.337.28) इत्यादिना श्वेतद्वीपवासिनां दिव्यरूपाद्युपेतत्वं भगवद्दास्यपरिचरणैक-प्रियत्वं च प्रपञ्च्य, तदेव मुक्तानां लक्षणमुक्तम् । “येऽपि मुक्ता भवन्तीह नरा भरतसत्तम ! । तेषां लक्षणम् एतद्धि यत्-श्वेत-द्वीपवासिनाम् ।। “, इति ।। ‘परमा’इति विशेषणेन मुक्तानामेव केषांचित् अर्वाचीना गतिः गम्यते । गीयते च निर्मुक्तजरामरणात्मिका कैवल्य-लक्षणा — “जरामरण-मोक्षाय मामाश्रित्य यतन्ति ये “, इति । (गीता 7.29) संसारपरमपदयोः मध्ये तेषां च “योगिनाम् अमृतं स्थानं स्वात्म-सन्तोषकारिणाम्”, इति । (वि.पु.1.6.38) एवं मुक्तानां परमा गतिः “सा काष्ठा सा परा गतिः”, (कठ.-1.3.11) “विचश्वात्मागनं पचरायगणम्”, (तै.ना.6.11) “मामेव अनुत्तमां गतिम्”, (गीता 7.18) “सोऽध्वनः पारम् आप्नोति”, (कठ.-1.3.9) “आत्मलाभात् न परं विद्यते”, इत्यादि सुलभम् ।।
2.13 अव्ययः
*13 न वीयते–न व्यपगम्यते अस्मात् इति अव्ययः । ‘एरच्’ । एवं ‘प्रत्ययः’ (94), ‘विनयः?’ (510), ‘जयः’ (511) इत्येवमादयः । न हि भगवान् कथंचित् संसार-महार्णवात् “एतेन प्रातिपद्यमाना इमं मानवम् आवर्तं न आवर्तन्ते” (छा.-4.15.6) “न च पुनरावर्तते न च पुनरावर्तते”, (छा.-8.15.1) “अनावृत्तिः शब्दात् अनावृत्तिः शब्दात्”, इति । (ब्र.सू.4.4.4) यमस्मृतौ– “सत्त्वं वहति सूक्ष्मत्वात् परं नारायणं प्रभुम् । परमात्मानम् आसाद्य परं वैकुण्ठम् ईश्वरम् ।। अमृतत्वाय कल्पेत न निवर्तेत वै पुनः ।”, इति । (यम) हारीते यतिधर्मे– “यतिधर्मगतः शान्तः सर्वभूतसमो वशी । प्राप्नोति परमं स्थानं यत् प्राप्य न निवर्तते ।।”, इति च ।। (हारीत)
2.14 पुरुषः
*14 पुरु बहु सनोति इति पुरुषः । सनोतेः दानकर्मंणः (अष्टा.-3.2.101) “अन्येष्वपि दृश्यते”, इति डः । (तै.आ.7.1) । मुक्तेभ्योऽपि वाङ्मनस-अपरिच्छेद्य -गुणविभव-स्वानुभवं ददाति हि भगवान् । यथा–“एष ह्येव आनगन्दयाति”, (तै.आ.1.2) “सोघऽश्नुतेच सर्वाचन् कामाघन् सचह । ब्रह्मगणा विपचश्चिताघ”, (छा.-8.12.5) “दिव्येन चक्षुषा मनसा एतान् कामान् पश्यन् रमते”, (छा.-8.12.3) “स तत्र पर्येति, जक्षत् क्रीडन् रममाणः “, (तै.भृ.10.5) “कामान्नी कामरूपी”, (तै.आ.7.1) “रगसो वैच सः । रसऍ ह्येव अयं लब्ध्वा आनगन्दी भचवति”, (तै.आ.7) “अस्मिन्नस्य च तद्योगं शास्ति”, (ब्र,सू.4.4.12) “तद्वेतुव्यपदेशाच्च”, इति ।। (ब्र.सू.1.1.15)
2.15 साक्षी
*15 एवं तान् आनन्दयन्, स्वयमपि तृप्यन् साक्षात्करोति इति साक्षी । “साक्षात् द्रष्टरि संज्ञायाम्”, इति इनिः । (अष्टा.-5.2.91) । विशिनष्टि हि मुक्तप्राप्यम् “ब्रह्मणा विपश्चिता”, इति (तै.उ.आ.1.1.2) । विविधं पश्यत् चित्त्वं हि विपश्चित्त्वम् ।
2.16 क्षेत्रज्ञः
*16 इत्थं तेभ्यः स्वानुभवं दातुं तदेकान्तं क्षेत्रं जानाति इति क्षेत्रज्ञः । “आतोनुपसर्गे कः” इति कः (अष्टा.-3.2.3) । स्वभोगसमृद्धि-समुद्भव-भूमित्वात् क्षेत्रं-परमव्योम, तादृश- शरीरत्वात् वा, यथा-“आकाशशरीरं ब्रह्म”, इति।(तै.शी.6.2) तथा च श्री नारायणीये मुक्तप्राप्यः क्षेत्रज्ञतया विशेष्यते । “मुक्तानां तु गतिः ब्रह्मन् ! क्षेत्रज्ञ इति कल्प्यते”, इति । (भारत मोक्ष) तद्धि मुक्तानां भगवदनुभव-स्थानम्– “पचरचमे व्योगमन् । सोघऽश्नुते”, (तै.आ.2.1) “ते हच नाकंग महिचमानःग सचन्ते”, (पुरुषसू) “नाकपृष्ठे विराजति”, “स मोदेत त्रिविष्टपे । तथा अपुनर्बुभूषोः आशीर्मन्त्रः–“, “रात्रिः खमेतत् पुष्पान्तम्, यत् पुराणमाकाशं तत्र मे स्थानं कुर्वन् न पुनर्भवेयम्”, “यद्गत्वा न विवर्तन्ते तद्धाम परमं मम”; (गीता 8.21) मोक्षधर्मे– “श्रुतिप्रमाणागम मङ्गलैस्तु युक्ते जरा-मृत्युभयात् अतीतः । ततो निमित्ते च फले विनष्टे हि वैष्णवे– “एकान्तिनः सदा ब्रह्म ध्यायन्ते योगिनो हि ये । तेषां तत् परमं स्थानं यद्वै पश्यन्ति सूरयः ।।”, (वि.पु.1.6.39) ब्राह्मे– “यत् तन्न किञ्चित् इत्युक्तं महाव्योम तदुच्यते ।”, इत्यादि बहु उक्त्वा, (ब्राह्म) “तन्मोक्षः तत् परं तेजो विष्णोरिति विनिश्चयः । “, (ब्राह्म) श्रीवाराहे अगस्त्यं प्रति भगवान्– “पश्य लोकमिमं मह्यं यो न वेदैस्तु दृश्यते । त्वत्प्रियार्थम् अयं लोकः दर्शितस्ते द्विजोत्तम ।।”, (वराह) वाराहे अगस्त्यः — “भगवन् त्वन्मयो लोकः सर्वलोक वरोत्तमः । सर्वलोका मया दृष्टाः ब्रह्मशक्रादिनां मुने ।। अयं त्वपूर्वलोको मे प्रतिभाति तपोधन ! । संपदैश्वर्य-तेजोभिः हर्म्यैः रत्नमयैस्तथा ।। अद्यापि तं लोकवरं ध्यायन् तिष्ठामि सुव्रत ! । कदा प्राप्स्येत् तु असौ लोकः सर्वलोकवरोत्तमः ।। “, (वराह) इति चिन्तापरोऽभवम्” इत्यादि । ऋग्विधौ– “कार्याणां कारणं पूर्वं वचसां वाच्य उमुत्त्मम् । योगानां परमां सिद्धिं परमं ते पदं विदुः ।।”, इति । (ऋग्विधि जितंते 7) आरण्यपर्वणि धौम्यः– “यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवाम् । अनादि निधनं देवं प्रभुं नारायणं परम् ।। ब्रह्मणः सदनात् तस्य परं स्थानं प्रकाशते ।” (भार.वन) इत्यादिना तत्पदं बहुधा विशेष्य, “तत्र गत्वा पुनर्नेमं लोकम् आयान्ति भारत ! । स्थानमेतत् महाराज ! ध्रुवम् अक्षरम् अव्ययम् ।। ईश्वरस्य सदा ह्येतत् प्रणमात्र युधिष्ठिर! ।। ” इति । (भार.वन) (प्राणमात्रं-पा) श्रीहरिवंशे वैदिकपुत्रानयने भगवान्– “ब्रह्मतेजोमयं दिव्यम् आश्चर्यं दृष्टवान् असि । अहं स भरतश्रेष्ठ ! मत्तेजः तत् सनातनम् ।। प्रकृतिः सा मम परा व्यक्ताव्यक्ता च भारत ! तां प्रविश्य भवन्तीह मुक्ता भरतसत्तम ! ।। सा सांख्यानां गतिः पार्थ ! योगिनां च तपस्विनाम् । तत् परं परमं ब्रह्म सर्वं विभजते जगत् ।।” इत्यादि । ब्रह्मसंहितायां तत्वक्रमम् उक्त्वा, “हृत्पद्म-कर्णिकान्तस्थः पुरुषः सर्वतोमुखः । शुद्ध-स्फटिक-सङ्काशं निर्वाणं परमं पदम् । तत्पदं प्राप्य तत्त्वज्ञाः मुच्यन्ते च शुभाशुभात् ।। त्रसरेणु-प्रमाणास्ते रश्मिकोटि विभूषिताः । भूयस्ते नैव जायन्ते न लीयन्ते च ते क्वचित् ।।”, (ब्रह्मसं) इत्यादि प्रसिद्धेः ।। अस्मिन् परमपदे अयोध्या अपराजिता पुरी; अपराजितम् आयतनम्; सहस्र-स्थूणादि- परिकरं दिव्य-आस्थानरत्नम् । तत्र पर्यङ्के “श्रिया सनाथ” इत्यादि अनन्तमुक्त भोग्यं छान्दोग्य-तैत्तिरीय-कौषीतकी-प्रभृति-प्रसिद्धम् अनुसन्धेयम् ।।
2.17 अक्षरः
*17 (365,483). तत्र मुक्तैः सदा अनुभूयमानोऽपि मधूत्सवत् निस्सीम-गुणोन्मज्जनेन उपर्युपरि भोग्यतया उपचीयते, न तु क्षरति इति अक्षरः । “पचाद्यच्” । ‘विक्रमः’ -79-‘सुरानन्दः’ (188) इत्यादयः अजन्ताः । “निरवद्यः परः प्राप्तेः निरधिष्ठोऽक्षरक्रमः” इति । शारीरके चतुर्थाध्याये अनेनैव क्रमेण मोक्षो निरणायि । न च एषोऽध्यायः अर्वाचीनफलविषयः कल्प्यः, तत्साधनादि विषयाणां पूर्वेषामपि त्रयाणाम् अध्यायानां तदुदाहृतानाम् उपनिषदां स्मृति-इतिहासा-दीनां च अर्वाचीन- विषयत्वेन बहिःशास्त्रं मोक्षनिर्णयप्रसङ्गात् । इत्थं मुक्तानां परमा गतिः । योगो योगविदां नेता प्रधानपुरुषेश्वरः । नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ।। (18) ।।
3.18 योगः
*18 अस्यैव निरुपाधिक-मुक्त्युपायत्वमपि वक्ति-योगः । युज्यते प्राप्यते अनेन इति । “अकर्तरि च कारके संज्ञायाम्” (अष्टा.-3.3.19) इति घञ् । एनम् *’मार्गः’ (367,399) ‘सर्गः’ (161) इत्यादीनि घञन्तानि । स सायुज्यस्य अनन्यापेक्षः साक्षात् हेतुः इत्यर्थः । “एष ह्येवानगन्दयाति”, (तै.आन.2.71) “तद्धेतुव्यपदेशाच्च”, (ब्र.सू.1.1.15) “अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि”, इति ।। (गीता.18.66) (* अमोघः-पा)
3.19 योगविदां नेता
*19 व्यवहितोपाय-निष्ठानामपि योगविदां नेता । नयतेः तृच् । भर्ता (33) धाता (43,951) इत्यादयोऽपि, तृजन्ताः । फलपर्यन्तनिर्वाहकः । “तेषामेव अनुकंपार्थम्”, (गीता.10.11) “तेषाम् अहं समुद्धर्ता “, (गीता 12.7) “संसारपारं परम् ईप्समानैः आराधनीयो हरिः एक एव ।”, (श्वे.-1.6) “परागमृताचत् परिगमुच्यन्तिच सर्वेघ”, (तै.3.3.26) “जुष्टस्ततस्तेन अमृतत्वम् एति”, इति ।। (श्वे.1.6)
3.20 प्रधानपुरुषेश्वरः
*20 इदमेव उपपाद्यते-प्रधानपुरुषेश्वरः । प्रधानस्य-बन्धहेतोः पुरुषाणां च बध्यमानानां सर्वथा नियामकः । “स्थेशभास”, इत्यादिना वरच् । एवं स्थावरः (428) (अष्टा.-3.2.175) यथा– “संयुक्तमेतत् क्षरम् अक्षरं च व्यक्ताव्यक्तं भरते विश्वम् ईशः । अनीशश्चात्मा बध्यते भोक्तृभावात् ज्ञात्वा देवं मुच्यते सर्वपाशैः ।। “, (श्वे.-1.8) “प्रधान-क्षेत्रज्ञ-पतिः गुणेशः”, (श्वे.-6.16) “क्षरात्मानौ ईशते देव एकः”, इति । (श्वे.- 1.10) एवम् ईश्वरो हि स्वमायया जीवान् अपराध्यतो बध्नन्, प्रपद्यमानांश्च मुञ्चन्, क्रीडितुं प्रभवति ।। “ईश्वरः सर्वगभूतानाम् “, (याज्ञिकोप – नारा 21) “दैवी ह्येषा गुणमयी”, (गीता 7.14) “दैवी देवस्य क्रीडतः”, “क्रीडनकम्”, “संसार-मोक्ष-स्थिति-बन्ध हेतुः”, श्रीविष्णुतत्वे– “तत्कृतायास्तु मायायाः तत्प्रसादं विना क्वचित् । नास्ति निर्णाशने हेतुः संक्षिप्यैतत् प्रभाषितम् ।।”, इति । (वि.तत्त्व) “पराभिध्यानात् तु तिरोहिते ततो ह्यस्य बन्धविपर्ययौ “, (ब्र.सू.3.2.4) “देहयोगाद्वा सोऽपि”, इति सूत्रे । ताच्छील्य-विषयेण वरचा तत्वत्रय-भेदः, ईश्वर-ईशितव्यभावश्च अनौपाधिको ज्ञाप्यते । (ब्र.सू.3.2.5)
3.21 नारसिंहवपुः
*21 स्वभक्त्यन्तराय-निवारणमपि प्रदर्शयति-नारसिंहवपुः । भक्त-भयापह-तदपेक्षा- समक्षण-प्रतिपन्नयथाकाम-दिव्य-महानृसिंह-संहननः ।।
3.22 श्रीमान्
*22 (180,222) अतः परस्पर-दुर्धर-अपूर्व-विकृतरूप-परिग्रहात् अपि श्रीमान्- सौन्दर्य -लावण्यादिभिः अतिमनोहर-दिव्यरूपः । तत्र नृसिंहत्वयोः सुघटितत्वं पश्यतां शुद्धिमत् अन्यत् नृमात्रं सिंहमात्रं वा दृष्ट्वा जुगुप्सा जायेतापि । तादृग्रूप- परिग्रह-मात्रैणैव हि जगत् त्रातम् । “दंष्ट्रा-करालं सुर-भीति-नाशनं कृत्वा वपुः दिव्य-नृसिंह-रूपिणा । त्रातं जगत् येन …. “, इति ।। (वि.ध.43.21)
3.23 केशवः
*23 एवंविध- ऐश्वर्य- सौंदर्य- एकान्त लक्षणानि उपलक्षयति – केशवः । प्रशस्त- स्निग्ध- नील- कुटिल- कुन्तलः । ” केशाद्वो ऽन्यतरस्याम् ” इति प्रशंसायां वः ।।
3.24 पुरुषोत्तमः
*24 सालक्ष्ण्य-प्रसक्त्या परमं वैलक्षण्यमाह-पुरुषेत्तमः । पुरुषेभ्यः उत्कृष्टतमः ‘पुरुष’ शब्देन चेतनवाचिना अचेतयमाना व्यक्ताव्यक्तरूपा प्रकृतिः व्यावर्त्यते । ‘उत्’ इति उत्कृष्ट-वाचितया बद्धाः; सामर्थ्य-प्राप्तेन तरपा मुक्तः; तमपा नित्य मुक्ताः सूरयो अनन्त-वैनतेयादयः । इदं च तेभ्यो वैलक्षण्यम् अवद्य-प्रतिभटतया व्यापन-भरणा- द्युपकारैः स्वाम्येन च स्वभावतः एव उत्कर्षात् । इदं हि बहुभिः तात्पर्य-लिङ्गैः परमं गुह्यम् अगीयत– “द्वाविमौ पुरुषौ लोके”, इत्यत्र । (गीता 15.16) “भूमिरापोऽनलो वायुः”, (गीता 7.4) “यो माम् अजम् अनादिं च”, (गूता 10.3) “अविकाराय शुद्धाय”, (सहस्रनाम) “परः पराणां परमः”, (वि.पु.1.2.10) इत्यादि बहु इदंपरं द्रष्टव्यम् । अत्रापि भोक्तृ-भोग्य-नियन्तॄणाम् अत्यन्तभेदः स्पष्टः । अतो ब्रह्म-परिणाम-पक्षश्च प्रतिक्षिप्तः । ब्रह्मणः सर्वविकारस्य ब्रह्मसंसारस्य ईश्वरातिरिक्त-ब्रह्मसद्भावस्य अव्यक्त-मुक्तेश्वराणां ब्रह्मणि प्रलयोत्पादयोः च अभ्युपगमो हि यथोक्त-पुरुषोत्तमत्वेन सर्वेण वेद सिद्धान्तेन च विरुध्यते ।। सर्वः शर्वः शिवः स्थाणुः भूतादिः निधिः अव्ययः । संभवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ।। 4 ।।
4.25 सर्वः
*25 एवं सर्वनिर्व्यपेक्षोऽपि अनुपेक्षमाणः सर्वं स्वरूप स्थित्याभिः स्व निर्वाह्यतया, शरीरमिव आत्मा अनुसन्धत्ते; अतः सर्वः । सरतेः “इण्शीभ्यां वन्”, (उणा. पाद.-1.158) “सर्वनिघृष्व”,(उणा.पाद.-1.159) इत्यादिना ‘सरति अवयवान्’, इत्यर्थे ‘वन्’ प्रत्ययः । सरतिः गत्यर्त्वात् अत्र बुद्ध्यर्थः । “असतश्च सतश्चैव सर्वस्य प्रभवाप्ययः । (भार. 70.13) सर्वस्य च सदा ज्ञानात् सर्वम् एनं प्रचक्षते ।। इति निर्वचनात् । ईदृशी व्याप्तिरेव सर्वं-सामानाधिकरण्य-निबन्धनम् उक्तम् । “, “येनच सर्वगम् इचदं प्रोतघम्”, इति आरभ्य, (तै.ना.50 ) “स वै सर्वगमिचदम्”, इति श्रुतेः। (गीता. 11.40) “सर्वं समाप्नोषि ततोऽसि सर्वः”, इति च ।।
4.26 शर्वः
*26 स्वशरीरभूतानाम् अशुभपपि शृणाति इति शर्वः । पूर्ववत् (?) वः ।।
4.27 शिवः
*27 (607). शुभावहश्च शिवः ; शीङः शुभार्थवात् । “सर्वनिधृष्वरिप्वलष्व” (उणा.पाद.-1.159) इत्यादिना ‘वन्’ प्रत्ययः । ह्रस्वत्वं गुणाभावश्च निपात्यते । यथा– “शाश्वतम् शिचवम् अगच्युतम्”, (तै.ना. 11) “मंगलायतनं हरिः”, “मंगलानां च मंगलम्”, (भार.आनु.149.10) “मंगल्यं मंगलं विष्णुम्”, इत्यादि ।। (वि.ध.69.9)
4.28 स्थाणुः
*28 (428). तत्र च, स्थाणुः । तिष्ठतेः “स्थो णुः” (उणा.पा.-3.37) इति णुः । दृढानु ग्रहः इति भावः । न हि भगवतः स्पर्शः प्रायश्चित्तादिसामान्य-धर्मवत् उपात्त-दुरित- क्षेपेण, कारीरी-चित्रा-दर्श-पूर्णमासादिवत् देवतान्तरवत् वा काम्यमानैक-काम प्रदानेन वाऽनृणो विरमति, प्रबलैर्वा अन्तरायैः प्रतिबध्येत, हीयेत, अवह्रियेत वा । किं तु अशेषम् अशिवं संशमय्य, अखिलम् अभिलषितं च बहुमुखं विश्राण्यापि, न जातुचित् विश्राम्यति । यथा– “एको बहूनां यो विदधाति कामान्”, (श्वे.6.13); (कठ.5.13); “एतद्धि एव अक्षरं ज्ञात्वा यो यदिच्छति, तस्य तत्”, (कठ.2.16); “तस्मिन् प्रसन्ने किमिहास्ति अलभ्यम् ?”, (वि.पु.1.17.91); “सकलफलप्रदो हि विष्णुः”, (वि.पु.43.47); “रत्नपर्वतम् आरुह्य यथा रत्नं नरो मुने !। सत्त्वानुरूपम् आदत्ते तथा कृष्णात् मनेरथान्”, (वि.ध.7.3); “भौमं मनोरथं स्वर्गं स्वर्गिवन्द्यं च यत् पदम् । प्राप्नोति आराधिते विष्णौ मुक्तिमपि अतिदुर्लभम् ।।”, (वि.पु.3.8.6) “यत् दुर्लभं यत् अप्राप्यं मनसो यत् अगोचरम् । तदपि अप्रार्थितं ध्यातो ददाति मधुसूदनः ।। “, इति ।।
4.29 भूतादिः
*29 अपि च स्पृहणीयतमत्वात् भूतैः उपादीयते इति भूतादिः । “उपसर्गे घोः किः”। (अष्टा.-3.3.92) । एवं सर्वादिः (100) निधिः (30) इत्यादयः । “किं प्रजया करिष्यामो येषां नोऽयमात्मा ।”(बृ.4.4.22) । उपबृंह्यते च — “एते वयं सर्वसमृद्धकामाः येषामयं नो भविता प्रशास्ता” इत्यादिभिः ।। (रामा.अ.16.45)
4.30 निधिः अव्ययः
*30 अतः निधिः अव्ययः महालोभेन आपद्धनवत् निधेयत्वात् । यथा च “तत् यथा हिरण्य निधिं निहितम्” (छा.-8.3.2) इत्यादि । सर्वदा सर्वथा उपजीव्यमानत्वेऽपि कलयाऽपि अनुपक्षयात् अव्ययः । निधि विशेषणम् एतत्; न स्वतन्त्रं नाम । अन्यथा “अव्ययः पुरुषः”, (14,15) इति पौनरुक्त्यात् ।।
4.31 सम्भवः
*31 एवं निहितमपि आत्मानं तत्संश्लेषत्वरया अर्थिम्यः प्रकाशयन् संभवः । समन् तात् भवः यस्य इति । तत्र तत्र सर्वदेशकालादिषु मत्स्य-कूर्म-वराह-नृसिंह-वामन-राम- कृष्णादिभिः रूपैः एकैकपुनरुक्तैः असंख्येयैः अभीक्ष्णम् आविर्भवति इत्यर्थः । “यदा यदा हि धर्मस्य”, (गीता 4.7)
4.32 भावनः
*32 एवं संभूय अनिष्टनिवारणादिना उज्जीवयति इति भावनः । यथा– “परित्राणाय साधूनाम्”, इत्यादि ।। (सहत्रनाम.)
4.33 भर्ता
*33 किं च तान् आत्मदानेन तच्छीलः पुष्णाति इति भर्ता अयम् ।। [नि–33. यस्मात् पुष्णाति आत्मदानात् स भर्ता परिकीर्तितः ।।]
4.34 प्रभवः
*34 अस्य भवः प्रकृष्ट इति प्रभवः । प्रकर्षश्च जन्मनो अनाघ्रात-दोषगन्धत्वेन, स्ववेदनमात्रेण सकल-जन्म-निगल-निर्मूलन-हेतुत्वेन च देवादिजन्म-वैजात्यात् । यथा- “अचजायगमानः”, (पु.सू.21) “तस्यच धीराःच परिगजानन्तिच योनिघम्”, (पु.सू.21) “नैष गर्भत्वम् आपेदे न योन्याम् अवसत् प्रभुः । आत्मनस्तेजसा कृष्णः सर्वेषां कुरुते गतिम् ।। “, (भार.सभा.62.35) “अप्रमेयम् अनाद्यन्तं कामात् जातम् अजं नृषु । पाण्डवः तर्कयामास कर्मभिः देव-संमितैः ।।”, (भार.) “जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्त्वतः । त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन !।।”, इत्यादि ।(गीता 4.9) [नि–34. देवादिजन-वैजात्यात् प्रकृष्टोत्पत्तिमत्त्वतः । अविद्या-दोष-वैधुर्यात् प्रभवः परिकीर्तितः ।। ]
4.35 प्रभुः
*35 300 एवम् अमन्द-परतन्त्र मनुष्यादि-साम्येन अवतरन्नपि प्रभुः । भवतेः “बहुलवचनात् अन्येऽपि कृतः प्राप्तमभिधेयम् व्यभिचरन्ति”, इति संज्ञायामपि डुः । देवाद्यसुकरपद-ऐश्वर्यानुगुण-भोगापवर्गादि-फलसमर्पण-समर्थः । स्पष्टं च एतत् अपदान चिन्तयन्ती-शिशुपाल-सायुज्यादिषु ।। [नि–35. ब्रह्मादीनां च सर्वेषां भोग-मोक्ष-समर्पणे । समर्थः प्रभुः इत्युक्तः सर्वेष्टफलदो मनुः ।।]
4.36 ईश्वरः
*36 अतः पारमेष्ठ्यादपि जन्मसु अधिकतम-प्रयोजन-ऐश्वर्यात् ईश्वरः । यथा । “मानुषीं तनुम् आश्रितम् । परं भावम् अजानन्तः”, (गीता 9.11) “भूतानाम् ईश्वरोऽपि सन्”,इत्यादि ।। (गीता 4.6) [नि–36. मनुष्याद्यावतारेऽपि ब्रह्मादींश्च प्रयोजने । नियंता तु ईश्वरः प्रोक्तः प्राधान्य-फलदो मनुः ।। ] स्वयंभूः शम्भुः आदित्यः पुष्कराक्षो महास्वनः । अनादिनिधनो धाता विधाता धातुरुत्तमः ।। 5 ।।
5.37 स्वयंभूः
*37 कुतः इदं सर्वं वैभवम् ? यतः स्वयंभूः । “भुवः संज्ञान्तरयोः”, इति क्विप् । स्वलीलादि-प्रयोजनाय स्वेच्छया स्वासाधारणीं परम-सत्त्वमयीं प्रकृतिमेव सुर-नर- “स्वचयंचभु ब्रह्मग परचमं (तपोच यत्”?) कवीनाम्”, (तै.का.3.3)(अष्टा.-3.2.179) “प्रकृतिं स्वाम् अधिष्ठाय संभवामि आत्ममायया ।”, (गीता 4.6) त्रिगुण-जीव-प्रकृत्योरपि स्वत्वेऽपि, स्वभोग-विभूतित्व-असाधारण्यात् विशिनष्टि- ‘प्रकृतिं स्वाम्’ इति । तथा श्रीहरिवंशे वैदिकपुत्रानयने लीलोपकरण-प्रकृति-द्वयोपन्यासोपरि- “ब्रह्मतेजोमयं दिव्यम् आश्चर्यं दृष्टवान् असि । अहं स भरतश्रेष्ठ ! मत्तेजः तत् सनातनम् ।। प्रकृतिः सा मम परा व्यक्ताव्यक्ता च भारत! । तां प्रविश्य भवन्तीह मुक्ता भरतसत्तम ! ।।”, इति । व्यक्तं हि श्रीविष्णुतत्त्वे पञ्चशक्तिम् उक्त्वा — (हरिवंश) “मत्स्य-कूर्म-वराहाणाम् आविर्भावो महात्मनः । अनयैव द्विजश्रेष्ठ ! नान्यथा तद्विरोधतः ।। ” इति । (वि.त) वैष्णवे– “समस्ताः शक्तयश्च एताः” इत्यादिना (वि.पु.6.7.70) प्रादुर्भाव- प्रयोजन-निमित्त-उपादान-काल-संख्यादि-वैलक्षण्यं सुव्यञ्जितम् ।। श्रीमति रामायणे– “सर्वलोकेश्वरः साक्षात् लोकानां हितकाम्यया”, (रा.यु.114.17) “स हि देवैः उदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुः सनातनः ।।”, (रा.बा.1.7) “स एव स्वयम् उद्बभौ”, इत्यादौ च ।। (अष्टा.- 3.2.180) [नि.37. भवति स्वेच्छया योऽसौ स्वयंभूः परिकीर्तितः ।]
5.38 शम्भुः
*38 एवं स्वसौन्दर्य-सौशील्यादि-गुणाविष्कारेण शं-शुखं, भावयति इति शंभुः । ‘डु’ प्रकरणे “मितद्र्वादिभ्यः उपसंख्यानम्” इति डुः । यथा– “विश्वाक्षं विश्वशंभुवम्”, उपबृंहितं च — (तै.ना.6.11) “रूपौदार्य-गुणैः पुंसां दृष्टि-चित्तापहारिणम्” (राम.अ.3.29) “चन्द्रकान्ताननं रामम् अतीव प्रियदर्शनम्” । इत्यादिभिः ।। (राम.अ.3.28) [नि.–38 स्वसौन्दर्या योऽदि-गुणानां दो ह्याविष्कारेण शं सुखम् । पुंसां सम्यक् भावयति स शंभुः परिकीर्त्यते ।।]
5.39 आदित्यः
*39 अथ एषां प्रादुर्भावानाम् उदाहरणं पुष्णि पुरुषमाह–आर्दित्यः । आदित्यो अस्य निवासः इति “दित्यदित्यादित्य” (अष्टा.-4.1.85) इत्यादिना ‘ण्यः’ । एवं हि ब्रह्म मीमांसितम्– “अन्तस्तद्धर्मोपदेशात्” इति । (ब्र.सू.1.1.21) “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते”, (छा.-1.6.6) “स पश्चायं पुरुषे, यश्चासावादित्ये, स एकः”, (तै.आ.2.8.5) “ध्येयः सदा सवितृ-मण्डल-मध्यवर्ती”,(बृहत्पाराशर) इति उदाहृत्य, आदित्यान्तरस्य “तस्य यथा कप्यासं पुण्डरीकम्, एवम् अक्षिणी”,(छा.1.6.67) इति आम्नातम् ।। [नि.39 निवासः सविता यस्य स आदित्यः प्रकीर्तितः ।]
5.40 पुष्कराक्षः
*40 561. सर्वैंश्वर्य-असाधारण-लक्षणं पुण्डरीकाक्षत्वं सङ्गमयति– पुष्कराक्षः । “अक्ष्णोऽदर्शनात्” इति अच्.समासान्तः ।। (अष्टा.-5.4.76) [नि.–40 अक्षिणी पुण्डरीके व भक्तानुग्रहकारिणी ।
5.41 महास्वनः
*41 तस्यैव चिह्नान्तरं च सूचयति-महास्वनः । महान्-पूज्यः, स्वनः-शब्दः यस्य इति । “आन्महतः” (अष्टा.-6.3.46) इत्यादिना आत्वम् । आमनन्ति हि- “तस्य उत् इति नाम” इति । (छा.-1.6.7) तस्य एतस्य नामरूपं सशब्दम्- “सैषा त्रयी एव विद्या तपति य एषोऽन्तरादित्ये हिरण्मयः पुरुषः” (तै.ना.13) इति त्रयीरूपं वा ; पूज्यतमं सावित्री-प्रतिपाद्यतया वा । अतो हि मोक्षधर्मेषु । “विद्या-सहायवन्तं माम् आदित्यस्थं सनातनम्” इति ।। (भार.मो) [नि. 41 महान् पूज्यः त्रयीरूपः स्वनो यस्य महास्वनः ।]
5.42 अनादिनिधनः
*42 एतद्दिव्य-नामरूप-विशिष्ट एव अनादिनिधनः । नित्य-यौवनस्य जनि-जरादि-दुरित-दूर नित्यविग्रहः । न तत्स्वरूप-नित्यवपरम् एतत्, तस्य चतुर्मुखादीवापितुल्यत्वात् । “भारूपः सत्यसङ्कपः” (छा.-3.14.2) “हिरण्मयः पुरुषः”, (छा.1.6.6:तै.ना. 8) “विद्युतः पुरुषादधि”, (तै.ना.8) “आदित्यवर्णं तमसः परस्तात्”,(पु.सू.20) “सर्वकर्मा सर्वगन्धः सर्वरसः”, (छा.-3.14.2) “रुक्माभं स्वप्नधी-गम्यं विद्यात् तु पुरुषं परम्”, (मनु.12.122) “पुरुषः पुण्डरीकाक्षः”, (वराहे) इत्यादि-श्रुति-स्मृति-सहसैः, अमल-नील उज्जवल मध्यस्थ-नीलतोयद-विद्युल्लेखा-प्रख्यम्”, अति सौन्दर्य-सावण्य-यौवनाद्यभिमत- गुणकतया स्वस्यापि नित्यम् इच्छागृहीतं रूपं तावत् समर्थ्यते । अस्य च “सदैकरूपरूपाय”, (वि.पु.1.2.1) “श्रीवत्सवक्षा वित्यश्रीः”, (श.यु.114.15) “स एवभगवान् कालः सर्वम् आत्मवशं नयेत्”, (पराशर्ये) “नास्ति विष्णोः परं तत्वं तस्य कालात् परा तनुः”, इत्यादि-कण्ठोक्तेः, सदा कारणत्वात् ज्ञानादिवत् स्वरूपनिरूपणानुप्रवेशात्, तपसयः परत्वेन जन्मादि- विकारातिवितिंत्वात्, अक्षरत्व-कालातीतत्वादि-विशेषणात्, तत्क्तुन्यायाच्च नित्यत्वं च सुदृढम् ।। ईदृग्बलवदागम-न्यायविरोध-दोष-मूषिकाघ्रातम् अस्य रूपस्य काल्पनिक आगन्तुकत्व- अनुमानं न प्ररोहेत् । अत एव नीरूप-वादाः अपि भौतिक हेयेदेह निषेधकाः नेतव्याः । नीताश्च “न भूतसंघ-संस्थानो देहोऽस्य परमात्मनः”, (भार.शा.206.60) “न तस्य प्राकृता मूर्तिः मांस-मेदोस्थि-संभवा”,इत्यादिभिः शास्त्रैरेव । (वराहपु.75.44) । सूत्रकारवत् वाक्य-तद्भाष्यकाराभ्यामपि आदित्यान्तरं परं ब्रह्म नित्यरूपं न्यरूपि ।। “रूपं वा अतीन्द्रियम्, अन्तःकरणप्रत्यक्षनिर्देशात्”, (बोधा.बृत्ति) “अञ्जसैव विश्वसृदो रूपम्”,इति अत्र । (द्रामिडभाष्य) अवतारेषु च न अस्य आद्यन्तौ, यथा सौकिकम् ; किन्तु यवनिकाया इव परमव्योम्नो निर्गम-पिरमेव । “भुजैः चतुर्भिः समुपेतं मम इदं रूपं विशिष्टं दिवि संस्थितं च । भूमौ गतं पूजयत अपिरमेयं सदाऽपि तस्मिन् निवसामि देवाः ! ।। ” (भार.मौ.5.34) “स्वर्लोकम् आगच्छ गतज्वरः चिंरं सुरेन्द्रगुप्तं गतदोष-किल्बिषम् ।।”, (रा.बा. 15.33) “विवेश वाष्णवं तेजः सशरीरः सहानुगः” इति हि मुनिगुह्यम् ।। (रामा.उ.110.12) अनादिनिधनोपास्यो नित्ययौवनविग्रहः ।। ]
5.43 धाता
*43 951. कारणत्वेनापि ब्रह्मादिभ्यो वैलक्षण्यम् आह-धाता । तृन् । एवं ‘भर्ता’ (33) इत्यादयः अनिरुद्ध-स्वरूपः सर्वयोनौ अचित्-समष्टि भूतायां प्रकृतौ चित्समष्टिभूतं विरिञ्चात्मकं गर्भं दधाति इति । यथा– “मम योनिः महत् ब्रह्म तस्मिन् गर्भं दधाम्यहम्। (गीता 14.3) मौलसंहितायां—, “धाता क्षेत्रे कर्मबीजभूतं गर्बं दधाति” इति । “अप एव ससर्ज आदौ तासु वीर्यम् अपासृजत्” इत्यादि ।। (मनु 1.8) [नि.-43 अचित्समष्टि-भूतायां प्रकृतौ चित्समष्टिकम् । गर्भं विध्यात्मकं धत्ते यस्तु धाता इति चक्षते ।। ]
5.44 विधाता
*44 (486) तं गर्भं परिणमय्य आविभावयति इति च विधाता । “यो ब्रह्माणं विदधाति पूर्वम्” इति ; (श्वे.-6.18) “अथं पुनरेव नारायणः” इत्युपक्रमे, “तत्र ब्रह्मा चतुर्मुखोऽजायत” , (महोप) “हिरण्यगर्भं पश्यत जायमानम् “, (तै.ना.) “तस्मात् विराट् अजायत”, (पु.सू.) “तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोक-पितामहः”, इत्यादि वचनेभ्यः ।। (मनु.1.9) [नि-44.तद्गर्भपरिणामे स्यात् आविर्भावयिता स्वयम् । धारणात् लीलया यस्मात् विधाता अयं प्रकीर्तितः ।। ]
5.45 धातुरुत्तमः
*45 अतो धातुरुत्तमः– स्रष्टुः उत्कृष्टतमः, * दाण्डापूपिकया तत्सृष्टेभ्यः प्रजापति-प्रभृतिभ्यश्च ; यथा— [*- दण्डापूपि.-पा] “तत्वं नारायणः परः”, (तै.ना.6.11) “एतेषां कतमो देवः परः को वाऽथवा अपरः ? “, इति पृष्टे (वराह पु.) “परो नारायणो देवः तस्मात् जातः चतुर्मुखः” इत्यादि । (वराह) ब्रह्मरुद्र-संवाद- * यज्ञाग्रहरणादौ इदं स्पष्टम् ।। (*- यज्ञार्घहरण) [नि-45. यो वै स्यात् धातुः उत्कृष्टः स च स्यात् धातुरुत्तमः ।] अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः । विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थाविरो ध्रुवः ।। 6 ।।
6.46 अप्रमेयः
*46 तेषां करणैः प्रमातुम् अशक्यः अप्रमेयः । “ईद्यति” इतीकारः । यथा– (अष्टा.-6.4.45) “यं नायं भगवान् ब्रह्मा जानाति पुरुषोत्तमम् ।” स्वयं च ब्रह्मा– “न ह्यादिमध्यान्तम् अजस्य यस्य विद्मो वयं सर्वमयस्य धातोः । न च स्वरूपं न परप्रभावं न चैव सारं परमेश्वरस्य ।। “, ब्रह्मरुद्र-संवादे च — “न स शक्यः त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम! । सगुणो निर्गुणो विश्वः ज्ञानदृश्यो ह्यसौ स्मृतः ।।”, (भार-मो.179.4) “तवान्तरात्मा मम च ये चान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनचित् क्वचित् ।।”, इति । [नि-46. ब्रह्मादीनां च करणैः नो मातुमपि शक्यते । द्रष्टुं हि असौ अप्रमेयः वचसामपि अगोचरः ।।]
6.47 हृषीकेशः
*47 तत्करणानामपि नियामकत्वात् हृषीकेशः । यथा– श्रीहरिवंशे– “हृषीकाणि इन्द्रियाण्याहुः तेषाम् ईशो यतो भवान् । हृषीकेशः ततो विष्णुः ख्यातो देवेषु केशवः ।।”, इति । (हरि वं.) “हर्षात् सौख्यात् सुखैश्वर्यात् हृषीकेशत्वम् अश्नुते” इति वा ।। [नि-47. इन्द्रियाणां नियन्तृत्वात् हृषीकेशः प्रकीर्तितः ।]
6.48 पद्मनाभः
*48 (198,348). उक्तं हि सर्वं व्यनक्ति-पद्मनाभः, पद्मभुवः प्रभवः पद्मो नाभौ अस्य इति । “अच्प्रत्यन्ववपूर्वात् ” इत्यत्र योगविभागात् अच् । यथा– (अष्टा.-5.4.75) “धातोत्तानः संविशति पञ्चवर्षशतानि तु ” “धातुर्नाभ्यां पुष्करं प्रादुर्भवति, पुष्करं पुण्डरीकं च पद्मं चक्रम् इत्येष कालः”, “अजस्य नाभावध्येकम् अर्पितम्” (तै.यजु.4,6,2) “अजस्य नाभावध्येकं यस्मिन् विश्वं प्रतिश्ठितम्” इत्यादि ।। [नि-48. कालात्मकं तु यत्पद्मं नाभौ यस्य स उच्यते । पद्मनाभश्च अष्टवर्णो महासन्तानदो मनुः ।।]
6.49 अमरप्रभुः
*49 तेषाम् अमराणां सृष्ट्याद्यधिकार-दानेन निर्वाहकश्च अमरप्रभुः । श्रीमति रामायणे ब्रह्मा- “महार्णवे शयानौऽप्सु मां त्वं पूर्वम् अजीजनः । प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् ।।” (राम.उ.104.4) महाभारते– “एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ स्मृतौ । तदादर्शित-पन्थानौ सृष्टि-संहार-कारकौ ।।” इत्यादि ।। (भार.मो.169.19) [नि-49. सृष्ट्यादिष्वपि देवानाम् अधिकार-प्रदानतः । अमरप्रभुः इत्युक्तो नवार्णः सर्वदो मनुः ।।]
6.50 विश्वकर्मा
*50 अतो विश्वकर्मा, ब्रह्मसृष्टेः प्राक् ऊर्ध्वं च विद्यमानं विश्वं कर्म-जगद् व्यापारः अस्यैव इति । यथा– “विश्वकर्मणः समवर्तताधि”, (मु.सू. 19) “पुरुषं विश्वकर्माणम् आदिदेवम् अजं विभुम् ।” इति । सर्वं चैतत् “य इमा विश्वा भुवनान् जुह्वत ” इति उपक्रमे विश्वकर्मसूक्ते स्पष्टं द्रष्टव्यम् ।। (तै. यजु. 4.6.2) विश्वकर्मत्वं च “तदैक्षत बहु स्यां प्रजायेय”, इति, (छा.-6.2.3) “स ऊक्षत लोकान् नु सृजा इति”, (ऐ.उ.1.1) “सोऽकामयत बहु स्यां प्रजायेय इति “, (तै.आ.6) “अथ पुनरेव नारायणः सोऽन्यं कामं मनसा ध्यायीत”, (महोप) “तदसदेव सत् मनोऽकुरुत स्याम् इति”, (यदुरष्टक 2.2.9) “सोऽभिध्याय शरीरात् स्वात् सिसृक्षिः विविधाः प्रजाः”, (मनु.1.8) “स सिसृक्षुः सहस्राशात् असृजत् पुरुषं द्विधा”, प्राक् ब्रह्म-सृष्टेः ऊर्ध्वं च विश्वकर्मा इति कश्यते ।। ]
6.51 मनुः
*51 प्रसिद्धात् संकल्पलवमात्रात् मननादेव इति मनुः मन ज्ञाने, “शृस्वृस्निहि त्रप्यसिवसि हनिक्लिदि बन्धिमनिभ्यः उः” ।। (उणा.पा.-1.10) [नि-51. संकल्प-लवमात्राच्च मननात् मनुः उच्यते ।।]
6.52 त्वष्टा
*52 एवं निर्मितं मांरूप-व्याकतणेन सुरनरादि-वैचित्र्य-विभक्तं व्यनक्ति; अतः त्वष्टा । त्वश्रतेः तनूकरणकर्मणः तृच् “स्कोः संयोगाद्योरन्ते च”इति ककारलोपः । (अषाटा 8.2.29) । तनूकरणम्–व्यक्तावयवीकरणम् । त्विषेर्वा दीप्तिकर्मणः “नप्तृनेष्टृ” इत्यादिना तृन्, (उणा.पा.-2.95), उपधाया अत्वं च निपात्यते । “त्विषेर्देवतायाम् अकारश्च उपधाया अनिट्त्वम च” इति वानिपातः । (अष्टा.-वा.3.2.135) दीपनं-प्रकाशनम्, अवयवोन्मीलनम् इत्यर्थः । यथा— “त्वष्चारं रूपाणि विकुर्वन्तं विपश्चितम्”, (यजुरार 3.11) “वेदेन रूपे व्यकरोत् सतासती प्रजापतिः”, (यजुरष्टक 2.6.2) “सर्वाणि रूपाणि विच्त्य धीरः”, (पु.सू.16) “नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम्” इत्यादि ।। (वि.पु.1.5.63) [नि-52. नामरूप-व्याकरणात् त्वष्टा सृष्टस्या गद्यते ।]
6.53 स्थविष्ठः
*53 (4,8). अतः स्थविष्ठः– स्थूलतमः । स्थूलशब्दात् इष्ठन् । “स्थूलदूर” इत्यादिना यणादि परलोपः पूर्वस्य च गुणः । (अष्टा.-6.4.156) “बहु स्याम्” इति यथास्कल्पः, बहुभवन् (तै.आ.6) सूक्ष्म-अव्यक्त-समष्टिकारण- पर्वणो भोक्तृ-सुर-नर-तिर्यक्-स्थावर-करणकलेबर-तद्गोचर-शब्दस्पर्शादि-तदास्पद- चतुर्दश-भुवन-गर्भ-ब्रह्माण्ड-तदावरणरूप-स्थूल-व्यक्त-व्यष्टिकार्यं-विस्तारवान् जायते इत्यर्थः । यथा– “नास्त्यन्तो विस्तरस्य मे”, (गीता 10.19) “व्योमाम्बु-वाय्नग्नि-मही-स्वरूपैः विस्तारवान् योऽणुतरोणुभावात्”, (वि.ध.4.3.6) “विस्तारः सर्वभूतस्य विष्णोः सर्वमिदं जगत्”, (वि.पु.1.17.84) “त्वद्विस्तारो यतो देव ! ” इत्यादि ।। [नि-53. बहूभवश्च सूक्ष्माणां स्थूलावस्थतया च सः । विस्तारवत्त्वात् यः स्थूलः स्थविष्ठः परिकीर्तितः ।।]
6.54 स्थविरः
*54 एवं सकलमूलकारणत्वेऽपि लौकिक-मृदादि-कारण-वैलक्षण्यं विवक्षति–स्थविरः । तिष्ठतेः “अजिर शिशिर”(उणा.पाद.-1.56) इत्यादिना किरच् प्रत्ययो ह्रस्वत्वं वुगागमश्च निपात्यते । सकलं कालं स्थास्नुः लीलया कालम् अपेक्षमाणोऽपि अतत्तन्त्रः । अनेन कालविशेषापेक्ष-परिणाम-दुग्धदध्यादि-वैलक्षण्यं विवक्षितम् ; कालस्यापि सर्वा आत्मना तादधीन्यात् । यथा– “कालस्य च हि मृत्योश्च जह्गम-स्थावरस्य च । ईशिता भगवान् एकः सत्यमेतत् ब्रवीमि ते ।।” (भार.उ.67.13) “कालचक्रं जगच्चक्रं युगचक्रं च केशवः । आत्मयोगेन भगवान् परिवर्तयतेऽनिशम् ।।” “कालं स पचते तत्र न कालस्तत्र वै प्रभुः ।।”इत्यादि ।। (भार.मो.2.59) विद्यते यः सर्वकैलं स्थविरः परिकीर्तितः ।।]
6.55 ध्रुवः
*55 (350). अनन्तपरिणामादपि अविकुर्वाणतया स्वरूपात् अप्रच्याव्यः ध्रुवः । “गतिस्थैर्ययोः” (तुदादिः) “नुदादिभ्यो णल्कौ”,इति कः । एवं ‘गुहः’ (365), ‘वृषः’ (314), ‘निमिषः'(215) इत्यादयोऽपि क प्रत्ययान्ताः । यथा– “अजय्यः शाश्वतो ध्रवः” (रा.यु.114.15) “अविकाराय शुद्धाय” (वि.पु.1.2.1), “अपक्षय-विनाशाभ्याम्” इति ।। (वि.पु.1.2.11) [नि-55. अप्रच्याव्य-स्वस्वरूपात् सदा योसौ ध्रुवः स्मृतः ।] अग्रह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः । प्रभूतस्त्रिककुद्धामा पवुत्रं मङ्गलं परम् ।।
7.56 अग्राह्यः
*56 मृत्-तन्त्वादिः इव कुलाल-कुविन्दादिना अनधिष्ठेयः अग्रह्यः । “ऋहलोर्ण्यत्”,इति ण्यदन्तः । (अष्टा.-3.1.124) एवं वेद्यः (165) मान्यः (175) इत्यादयोऽपि यथा — “नैनम् ऊर्ध्वं न तिर्यञ्चं न मध्ये परिजग्रवत्”, (तै.ना.1.9) “ब्रह्माध्यतिष्ठत्”, (यजुरष्ट 2.6.2) “अधितिष्ठति एकः” इत्यादि ।। (श्वे.- 4.11) [नि–56. अग्रह्यो योऽनधिष्ठेयो मृत्तिकेव कुलालकैः ।।]
7.57 शाश्वतः
*57 एवं शाश्वतः । अनवरत-जगद्व्यापार-प्रवाहत्वेन नित्यः । यथा– “अन्युच्छिन्नाः ततस्तु एते सर्ग-स्थितेयंत-संयमाः” इत्यादि ।। (वि.पु.1.2.26) [नि–57. अव्युच्छिन्नाः ततस्त्वेते सर्ग-स्थित्यंत-संयमाः । अतः सदाप्रवाहत्वात् नित्यः शाश्वतः उच्यते ।। ]
7.58 कृष्णः
*58 (554). एवविध-लीलारसेन नितान्त-निर्वृतः कृष्णः । आषं निरुकितम् — “कृषिः भूवातकः शब्दः णश्च निर्वृतिवाचकः । कृष्मतद्भावयोगाच्च ।”,इति ।। (भार.उ.69.5) [नि-58.एकान्त-सीसारसतो निर्वृतः कृष्ण उच्यते । कृषिः भूवाचकः शब्दः णश्च निर्वृति-वाचकः ।। ]
7.59 लोहिताक्षः
*59 ईदृङ्निर्वृति-पिशुन-रम्य-राजीव-ताम्र-नयनः लोहिताक्षः ।। [नि-59. रक्त-राजीव-नयनो लोहिताक्षः पिरकीर्तितः ।]
7.60 प्रतर्दनः
*60 सर्वेषां संहर्तृत्वं च आह-प्रतर्दनः । तर्दिः हिंसाकर्म। यथा– “यस्य ब्रह्मा च क्षत्रं च उभे भवतः ओदनः” (कठ.-1.2.25) “अत्ता चराचरग्रहणात्” इति ।। (ब्र.सू. 1.2.9) [नि-60. यस्य ब्रह्म च क्षत्रं च ह्योदनं भवतः सदा ।
7.61 प्रभूतः
*61 सर्वसंहारेऽपि प्रभूतः– समृद्धः नित्य-निर्मर्याद-भोगोपकरण-परमपदत्वात् ।। [नि-61. भोगोपकरणं नित्यं निर्मर्यादं परं पदम् । यस्य तेन समृद्धत्वात् प्रभूत इति कथ्यते ।। ]
7.62 त्रिककुद्धाम
*62 तत्र परमाणुमात्रं हि सृष्टि-संहार-गेचरम् इदं विश्वम् । तदेतत् स्पष्टयति- त्रिककिद्धाम इति । त्रिककुद्धामा इति केचित् । उभयथा अपि अवयवा लक्ष्यन्ते । त्रिककुत् -त्रिपाद्विभूति-लक्षणं परमं धाम यस्य सः त्रिककुद्धामा । आम्नायते हि– “पादेऽस्य विश्वा भूतानि, त्रिपादस्यामृतं दिवि” इति । (पु.सू. 3) ‘त्रीपात् – पाद’ इति परममहक्परमाणुपरिणामौ व्याख्यातौ । “यस्य अयितायुत-अंशाशे विश्वशक्तिः इयं स्थिता”, (वि.पु.1.9.53) “मेरोरिव अणुः यस्यैतत्” इति । यद्वा आर्ष-निरुक्तं त्रिककुत् । यथा मोक्षधर्मे स्वयम् — “तथैव आसं त्रिककुदो वाराहं रूपम् आस्थितः । ‘त्रिककुत्’ तेन विख्यातः शरीरस्य प्रमापणात् ।।” इति । (भार.मो.343.63) अस्मिन् पक्षे धांम इति नामान्तरम् । ज्योतिः इति च अर्थः ।। [नि–62. त्रिपाद्विभूतिः त्रिककुत् सैव स्थानं विशेषतः । यस्य स त्रिककुद्धामा, यदा त्रियुग-धर्मवान् ।। आर्ष निरुक्तम् आश्रित्य त्रिककुत् स्यात् त्रिलक्षणः । अस्मिन् पक्षे भिन्ननाम धाम ज्योतिस्स्वरूपवान् ।। व्याख्यातॄणाम् अभिप्रायो नामैकत्वेऽपि कीर्तितः । “तथैव आसं त्रिककुदो वाराहं रूपम् आस्थितः । त्रिककुत् तेन विख्यातः शरीरस्य प्रमापणात्।।” ]
7.63 पवित्रम्
*63 ईदृग्गुण-विभव-रूप-निरूपक-सोपानेन तन्निरूपियं स्वरूपम् अनुप्रविशति- पवित्रम् । पुनः “अशित्रादिभ्यः इत्रोत्रौ”, इति इत्र प्रत्ययः । (उणा.पाद.-4.174) “कर्तरि च ऋषिदेवतयोः” इति वा ।। (अष्टा.- 3.2.186) [नि-63. गुणस्य विभवानां च रूपस्य च निरन्तरम् । निरूपकस्य सर्वैश्च तन्निरूप्यं स्वरूपकम् । अनुप्रविश्य वसति तत् पवित्रम् इति स्मृतम् ।।]
7.64 मङगळं परम्
*64 समस्त -हेय-प्रत्यनीकं मंगलं परम् । मंगिः गत्यर्थः, “मंगेः अलच्”। (उणा.पाद.-5.71) । स्वयं प्रभानन्दतया कल्याणैकतानम् । परम् इति आनन्त्य-परम् । सत्यपि नैसर्गिकः नित्य-निरवधिक-निसिसीम-निसिसंख्य-स्वगुण- विभव-अनुभव-वैभवे सदातने, स्वतः एव अशेषपरिपन्थि-शान्त -अनन्त-अनुपम-अनुकूलतम- स्वयंप्रभात्मानुभव-निबन्धन-निरंकुशानन्द-न्यक्कृत-निस्तरङ्ग-स्तिमित-अमृत-महोदधि न्यायया परावस्थया एव सर्वनिरपेक्षो नित्यतृप्तश्च इति शक्य-निरूपणो भगवान् । न्यरूपि च — “आनन्दमयोऽभ्यासात्”, (ब्र.सू. 1.1.13), “आनन्दादयः प्रधानस्य”, (ब्र.सू.3.3.11), “अक्षरधियां त्ववरोधः”इत्यादौ । अवादि च. (ब्र.सू.3.3.3.3), “सत्यं ज्ञानम् अनन्तम्”, (तै.आनं 1), “आनन्दो ब्रह्म”, (तै.भृ.6) “शान्ति समृद्धम् अमृतम्”, (तै.शी.6) “अतरङ्गम् अनिर्देश्यम् अपदानन्दलक्षणम्” इत्यादिभिः । ज्ञप्तिमात्रैकरस-वादस्तु अखण्ड-खण्डने शतशः खण्डितः । संवित्-आनन्द-शक्ति- ऐश्वर्यादि-गुणकोऽपि, अतिवेलम् आनुकूल्येन स्वयं स्वस्मै प्रकाशते इति अस्य ज्ञानानन्द-व्यपदेशः, न तु ज्ञप्ति-सुखमात्रतया । यथा मि-तरणि-दीपादिकं स्वप्रभा- विषयं प्रकाशयति, स्वयं च तदनपेक्षं प्रकाशते, ततः तेजः तेजस्वी इति च व्यपदिश्यते । एवम्, अयं स्वगुणेन ज्ञान्न सर्वम् अपरोक्षयति, तदनपोक्षश्च स्वयं प्रकाशते; ‘ज्ञानं ज्ञाता’ इति च व्यपदिश्यते । “तद्गुण-सारत्वात् तद्व्यपदेशः प्राज्ञत्वात्”,इति न्यायेन वा ज्ञानादि-व्यपद्शः । एवं च (ब्र.सू. 2.3.29) “सत्यं ज्ञानम्”, (तै. आनं 1) “यः सर्वज्ञः सर्ववित्” (मु.-2.2.7) इत्यादयो न परस्परम् उपरुन्ध्युः । यथा वार्ष्णय-अध्यात्मने जीवप्रसंगे– “यथा दीवः प्रशान्तात्मा ह्रस्वो वा यदि वा महान् ष ज्ञानात्मानं तथा विद्यात् पुरुषं सर्वजन्तुषु ।। सोऽत्र वेदयते वेद्यम् ” इति ।। [नि-64. सर्वहेय-प्रत्यनीकम् अनन्त-आनन्द-सक्षणम् । वेदान्त-पारगम् नित्यम् उच्यते म्गलं परम् ।। ] ईशानः प्राणदः प्राणः ज्येष्ठः श्रेष्ठः प्रजापतिः । हिरण्यगर्भो भागर्भो माधवो मधुसूदनः ।। 5 ।।
8.65 ईशानः
*65 निमीलद्-उन्मीलद्-ईदृश-स्वरूपेभ्यो बद्धमुक्त-नित्येभ्यः अस्य व्यावृत्तिः कीर्त्यते–ईशानः । “ताच्छील्य” इत्यादिना चानश् । सर्वावस्थ-स्वपर-वस्तु-व्यवस्थापन-स्वभाव (अष्टा3.2.129) इत्यर्थः । यथा– “तम् इश्वराणां परमं महेश्वरम्”, (श्वे.-6.7) “स्वाभाविकीं ज्ञानबलक्रिया च” (श्वे.-6.8) “न तस्य कश्चित् पतिरस्ति लोके न चेशिता नैव च तसेय लिङ्गम् । स कारणं करणाधिपाधिपः न चास्य कश्चित् जनिता न च अधिपः ।।” (श्वे.-6.9) “सर्वस्य वशी सर्वस्य ईशानः सर्वस्य अधिपतिः ; स न साधुना कर्मणा भूयान्, नो एव असाधुना कनीयान्; एष सर्वेश्वरः , एष भूताधिपतिः एष भूतपालः एष सेतुः विधरण एषां लोकानाम् असंभेदाय” ; (बृ. 4.4.22) “स वा अयमात्मा सर्वेषां भूतानाम् अधिपतिः, सर्वेषां भूतानां राजा” (बृ.2.5.15) “एक इद्राजा जगतो बभूव”, (तै.यजु 4.1.8) “स इशोऽस्य जगतो नित्यमेव नान्यो हेतुः विद्यते इशनाय”, (श्वे.-6.17) “इश्वरः सर्व भूतानाम्”, (गीता 18.61) “इशते भगवान् एकः सत्यमेतत् ब्रवीमि ते”, (भार.उ.67.13) “परमात्मा च सर्वेषाम् आधारः परमेश्वरः “, इत्यादि । (वि.पु.6.4.40) अतः कल्पना -उपाधि-परिणाम-सव्याजैश्वर्य-सार्वज्ञादिकं जल्पद्भ्यः त्रिः तिल- जलाञ्जलिः ।। [नि-65. सर्वावस्थासु सर्वेषां व्यवस्थापन-शीलतः । वस्तूनां भगवान् साक्षात् ईशानः परिकीर्तितः ।। ]
8.66 प्राणदः
*66 ददाति’ इति कः । सीरिभ्यः सदा-दर्शवरूप-स्वानुभव-परिचरण-अनुकूल-बलदः इति भावः । यथा– “य आत्मदाः बलदाः”, (ता.यजु. 4.1.8) “सदैवः प्राण आविशति”, इत्यादि ।। [नि–66. सूरिभ्यः परिचर्यादौ बलदः प्राणदः स्मृतः ।]
8.67 प्राणः
*67 (322, 408). तेषां प्राणः उज्जीवन-हेतुश्च । यथा– “ततो देवानां निरवर्ततासुरेकः “, (तै.यजु.4.1.8) “को ह्येव अन्यात् ? कः प्राण्यात् ?” (ता.आनं 7) “प्राणो रक्षति विश्वम् एजत्”, (यजुरष्टक 2.5.1) “प्राणस्तथा अनुगमात्” । अत्र उभयत्र निपुणोन्नेयानि उदाहरणानि । (ब्र.सू.1.1.29) , “अथैनम् एते देवाः प्राणा अमृता आविशन्ति”, “तदेतत् अक्षरं ब्रह्मा स प्राणः तदु वाङ् -मनः,” (मु.-2.2.2) “सत्यात्म-प्राणारामं मन आनन्दम्”, (तै.शी.6.2) “मनोमयः प्राणसरीरो भारूपः सत्यसंकल्पः “, (छा-3.14.2) श्रीपौष्करे- “अथोपकरणं द्व्यं पञ्च-शक्ति-उपलक्षितम् । काल-ज्ञान-क्रिया-इच्छाख्य-प्राण-संज्ञं महामते! ।। प्राणशक्तेस्तु च अध्यात्मं षाड्गुम्यम् अखिलं हि यत् । अधिदैवतम् अब्जाक्षो वासुदेवः सनातनः ।।” इति (पौष्करसंहिता) “झान-क्रियोच्छा- प्राणाख्यं शक्तिव्यूहं द्विज ! अचयुतम् ।।” इति च ।। (दौ.सं) [नि. 67. उज्जीवनस्य हेतुत्वात् नराणां प्राणः ईरितः ।]
8.68 ज्येष्ठः
*68 ज्येष्ठः । ‘प्रशस्य’ शब्दात् इप्ठनि “ज्य च” इति ज्यादेशः । स्वेन सूरिभिश्च सर्वदा अनुभवेऽपि अदृष्टपार-महाविभूतित्वेन प्रशस्यतमः । यथा– “भगवान् वासुदेवो ज्यायसी विभूतिः”, इति । (अष्टा.-5.3.61) “ब्रह्मेव भूतानां ज्येष्ठम्” — वृद्धतमो वा सर्वेभ्यः पूर्वभावित्वात् । (यजुरष्टक 2.8) “वृद्धस्य च” इत् ज्यादेशः । (अष्टा.-5.3.62) सभापर्वणि– “एष प्रकृतिः अव्यक्तः कर्ता चैव सनातनः । परश्च सर्वभूतेभ्यः तस्मात् वृद्धतमोऽच्युतः ।।” इति ।। (भार.स.38.24) [नि-68. सर्वदा अनुभवेऽपि एतैः अदृषटापारभूतितः ज्येषठः ।]
8.69 श्रेष्ठः
*69 तैः सदा अनुभव-प्रीत्याः स्तोत्रैः परिचर्यमाणः श्रेषठः । “प्रशस्यस्य श्रः” । यथा– (अष्ठा 5.3.60) “तद्विप्रासो विपन्यवः जागृवांसः समिन्धते, विष्णोर्यत् परमं पदम्” इति । (सु.-6) विपन्यवः- स्तुतिशीलाः । सर्व-दास्य-उपलक्षणं च एतत् । “तस्मै देवा उपासते”, तस्मै-तच्छेषभूताः सन्तः, तम् उपासते- सेवन्ते इत्यर्थः ।। [नि-69. (ज्येष्ठः) श्रेष्ठः च तैर्नित्यं स्तुतत्वात् अभिधीयते ।]
8.70 प्रजापतिः
*70 (199). के ते ? कश्च तैः संबन्धः ? तत्र आह –प्रजापतिः । बद्धमुक्तेभ्यः प्रकृष्टतया जायन्ते -भवन्ति इति प्रजाः सूरयः । यथा– “रश्मिं रश्मीनां मध्ये तपन्तम् “यस्मिन् देवा अधि विश्वे निषेदुः” । (तै.ना.2) “अधिरीश्वरे” (अष्टा.-1.4.97) “यस्मादधिकं .स्य च ईश्वरवचनं तत्र सप्तमी ;” (अष्टा.-2.3.9) अधिब्रह्मदत्ते पाञ्चालाः इतिवत् । तेन नाथवन्तः सन्ति इत्यर्थः । “यो देवेषु अधिदेव एक आसीत्” (तै.यजु.4.1.8) “यत्र पूर्वे साध्याः सन्ति देवाः”, (पु.सू.3.5.11) “यत्र ऋषयः प्रथमजा ये पुराणाः”, (अच्छिद्र) “सदा पश्यन्ति सूरयः”, (पु.सू.14) “मध्ये वीमनम् आसीनं विश्वे देवा उपासते ।”, इत्यादिभिः श्रूयमाणाः । तेषां पतिः — स्वामी नित्य-परिचरणीयः ।। (कठ.-2.2.3) [नि-70. बद्धात् उत्कृष्टतो ये च जायन्ते सूरयः प्रजाः । तेषां यो नित्यसूरीणां पतिः स स्यात् प्रजापतिः ।। ]
8.71 हिरण्यगर्भः
*71 412. उचितेन देशेन विशिनष्टि-हिरण्यगर्भः । निर्दोष-निरवद्य-नित्य-परम सत्वात्मक-द्रव्य विशेषत्वेन हिरण्य-साम्यात् ; हितं रमणीयम् इति वा ; हिरण्यं- परमं धाम । तस्य गर्भयूतः तत्र नित्यवासात् । तद्विषये हि श्रूयते– “हिरण्मये परे लोके विरजं ब्रह्म निष्कलम् । तत् शुभ्रं ज्योतिषां ज्योतिः तद्यत् आत्मविदो विदुः ।। न तत्र सूर्यो भाति” इत्यादि । (मु.-2.2.11) “देवानां पूः अयोध्या । तस्यां हिरण्मयः कोशः । परं हिरण्मयीं ब्रह्मा । विवेश अपराजिता” इत्यादि ।। (यजु.आर.1.27) [नि–71. हिरण्यं परमं धाम हिरण्यस्य समानतः । हिरण्यगर्भः सः प्रोक्तः तस्मिन् वसति यः सदा ।।]
8.72 भूगर्भः
*72 अथ तत्र दिव्य-महिषीकत्वं भूगर्भः । भूः-भूमिः, भगवती ह्री-क्षणदि-अपर पर्याया, सदा अनुभवेन भरणीया गर्भपूता अस्य इति । आमन्ति हि ताम्– “महीं देवीं विष्णुपत्नीम् अजूर्याम्” (यजु. अष्टक. 3.1.2) “उद्धृताऽसि वराहेण” इत्यादौ । श्रीविष्णुस्मृतौ विस्तरः ।। (तै.ना.) [नि-72. यस्य भूः भरणीया अभूत् भूगर्भः अनुभवेन सः]
8.73 माधवः
*73 (169,741)माधवः-मायाः-श्रियः, धवः-स्वामी; श्रियः पतिः । यथा– “अस्येशाना जगतो विष्णुपत्नी” (नीलासूक्तं) “ह्रीश्चते सक्ष्मीश्च पत्न्यौ” । (पु.सू.) अस्याः स्वरूपवत् नित्य-निर्मल-रूपत्वं, विरूपाधिक-परमैश्वर्यादि,जगन्मातृत्वम्, औत्पत्तिको भगवत्संबन्धो नित्यानपायश्च इत्यादि तत्वपरेषु शास्त्रेषु अमर्यादम् । वेदेषु तावत् श्रीसूक्तं, श्रद्धासूक्तं, मेधासूक्तम्,उत्तरनारायणम् कौषीतकी- ब्राह्मणम् इत्यादौ । वैष्णवे– “नित्यैव एषा जगन्माता विष्णोः श्रीः अनपायिनी । यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम ! ।। ” इति (वि.पु. 1.8.17) उपक्रभ्य,अमृतमन्थने इन्द्र-स्तवादिः विस्तीर्णः ब्राह्मे– “तच्छक्तिः दुर्जया भीमा विष्णुशक्तिः इति स्मृता । “देवी भिन्नाञ्जन-श्यामा निर्गुणा व्योम एव हि” इति उक्तम् । (ब्राह्म) “तथैवैका परा शक्तिः श्रीः तस्य करुणाश्रया । ज्ञानादि-षाड्गुण्यमयी या प्रोक्ता प्रकृतिः परा ।। एकैव शक्तिः श्रीः तस्य द्वितीया परिवर्तते । परावरेण रूपेण सर्वाकारा सनातनी ।। अनन्त-नामधेया च शक्ति-चक्रस्य नायिका । जगत् चराचरम् इदं सर्वं व्याप्य व्यवस्थिता ।।” (सक्ष्मीसहस्रं 10) “महाविभूतेः समपूर्ण-षाड्गुण्य-वपुषः प्रभोः । भगवद् -वासुदेवस्य नित्यैव एषा अनपायिनी ।। एकैव वर्तते भिन्ना ज्योत्स्नेव हिमदीधितेः । सर्वशक्त्यात्मिका चेव विश्वं व्याप्य व्यवस्थिता ।। सर्वैश्वर्य-गुणोपेता नित्यं तद्धर्म-धर्मिणी । प्राण-शक्तिः परा ह्येषां प्राणिनां भूवि ।। शक्तीनां चेव सर्वासां योन्भूता परा कला ।।” (लक्ष्मीसह्स्र, उपोद्धात) इत्यादि लक्ष्मी लहस्रादि च लेख्यम् ।। तत्रैव– “यस्मात् लक्ष्म्यंश-संभूताः शक्तयो विश्ववगाः सदा । कारमत्वेन तिष्ठन्ति जगति अस्मिन् तदाज्ञया ।। तस्मात् प्रीता जगन्माता श्रीः यस्य अच्युत-वल्लभा । सुप्रीताः शक्तयः तस्य सिद्धम् इष्टां दिशन्ति च ।।” (लक्ष्मीसहस्रं 7) वैष्णव-स्मृति-धर्मेषु च एतद्विषयम् अशेषम् । श्रीरामायणं च कात्स्न्र्येन, यथा– “काव्यं रामायमं कृत्स्नं सीतायाः चरितं महत्” इति । (राम.बा.4.7) “श्रद्दया देवो देवत्वम् अश्रुते” इत्येतत् अस्याः तत्वरहस्यम् ।। (काठ.3.3) [नि-73. श्रियः श्रद्धादि-नाम्न्याश्च पतिः माधवः इष्यते ।]
8.74 मधुसूदनः
*74 एवं सर्व-निर्वाहकत्वात् असुर-निरसनादिना निष्पिरतुपक्ष-लक्ष्मीकरत्वाच्च मधुसूदनः । “नन्द्यादित्वात्” ल्युः । (अष्टा.-3.1.134)। एवं नन्दनः (530),वर्धनः (262) मदनः, संकर्षणः (556), जनार्दनः(128) इत्यादयो ‘ल्यु’ प्रत्ययान्ताः । “सर्व-तत्त्व-नयाच्चैव मधुहा मधुसूदनः” इति । आर्षं निरुक्तम् । आत्मनि नित्यानन्तरायतया सीरिजवकरण-उपसंहर्तृत्वात् वा । (भार.उ.69.4) “मधुः इन्द्रियनामा स ततो मधुनिषूदनः” इत्यादि ।। [नि–74. मध्वाख्यम् असुरं हन्ति सूरीणां करणं च वा । उपसंहरति स्वस्मिन् मधुसूदनः इष्यते ।।] ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः । अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ।। 9।।
9.75 ईश्वरः
*75 36. अपरेऽपि परभोगभूमौ अप्रतिहतस्वेच्छः ईश्वरः । यथा– “सत्यकामः सत्यसंकल्पः” (छा.-8.1.5) “यत्र कामगमो वशो” इत्यदि ।। [नि-75. ईशनात् रमणाच्चापि ईश्वरः परिकीर्तितः ।]
9.76 विक्रमी
*76 “मनसैव जगत्सृष्टिं संहारं च करोति यः । तस्य अरि-पक्ष-क्षपणे कियान् उद्यम-विस्तरः ।।” इत्यादि ।। (वि.पु.5.22.15) नि-76. विक्रमः पौरुषं प्रोक्तः तद्वत्त्वात् विक्रमी बुधैः]
9.77 धन्वी
*77 अथ ईदृश-निरतिशय-पौरुषानुरूपं दिव्यं शार्ङ्गं धनुः नित्यम् अस्य इति धन्वी । व्रीह्यादित्वात् यतोक्तार्थे ‘इनिः’ । सर्व-दिव्यायुध-प्रदर्शनं च एतत् । यथा– “शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः । अजितः खड्गधृक् विष्णुः कृष्णश्चैव बृहद्वलः ।।” (राम.यू.120.15) “शरा नानाविध-आकाराः धनुः आयत-विग्रहम् । अनुव्रजन्ति काकुस्थम सर्वे पुरुष-विग्रहाः ।।” (राम.उ.107.9) “ततो राजन् । भगवान् उग्रधन्वा नारायणः प्रभवश्च अप्ययश्च ।।”, “भूतादिम् इत्द्रियादिं च द्विधा अह्कारम् ईश्वरः । बिभर्ति शंख-रूपेण शार्ङ्ग-रूपेण च स्थितम् ।।” इत्यादि ।। (वि.पु. 1.22.70) [नि-77. पौरुषानुगुणं शार्ह्गं यस्य धन्वी स कथ्थते ।]
9.78 मेधावी
*78 मेधावी-निस्सीम-नित्य-भूमानुगुण-सहज-सार्वज्ञ्यः । “अस् मायामेधा स्रजो विनिः” इति उक्तार्थे विनिः ।। (अष्टा.- 5.2.121) [नि-78. निस्सीम-भूमानुगुण-नित्य-सार्वज्ञ्य-लक्षणा । मोधा यस्यास्ति स प्रोक्तः मेधावी इति विचक्षणैः ।।]
9.79 विक्रमः
*79 विना-पतगपतिना त्रयीमयेन,क्रमणं-तत्र तत्र स्वेच्छा-विहार-गतागतम् अस्य इति विक्तमः । यथा— “तत्पुरुश्य विद्महे सुवर्णं-पक्षाय धामहि । तन्नो गरुडः प्रचोदयात् ।।” (तै.ना.1.24) तस्य-महापुरुषस्य, पुरुषः-शेषः इत्यर्थः । सौपर्ण-सूक्तादिषु च अस्य तत्वं द्रष्टव्यम् ।। [नि-79. गमनं पक्षिराजेन यस्य विक्रम उच्यते ।]
9.80 क्रमः
*80 ईदृश्या नित्य-विभूत्या अत्यन्त-स्फीतः क्रमः । क्रमिः आत्मने पदित्वात् तायनार्थः । तायनं– स्फीतता ।। [नि-80. क्रमणात् क्रमहेतुत्वात् क्रम एष उदाहृतः ।]
9.81 अनुत्तमः
*81 अतः अनुत्तमः -यथा “तस्मात् ह अन्यात् न परं किंचन आस” (यजुरष्टक 2.8.9) “तेन अर्हत् ब्रह्मणा स्पर्धितुं कः” (यजुरष्टक 2.7) “तेन कोऽर्हति स्पर्धितुम्” (यजुरष्टक 2.7) “मत्तः परतरं नान्यत् किञ्चित् अस्ति धनञ्जय!” (गीता. 7.7) “परं हि अपरम् एतस्मात् विश्वरूपात् न विद्यते ।” इत्यादि ।। [नि-81. उत्तमो नास्ति यस्मात् सः अनुत्तम उदाहृतः ।]
9.82 दुराधर्षः
*82 अतः दुराधर्षः । गांभीर्यातिशयेन अंभोधिवत् अनभि-भवनीयः । यथा– “मनोमयः प्राणशरीरो भारूपः सत्यसंकल्पः आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धःसर्वरसः सर्वमिदम् अभ्यात्तः अवाकी अनादरः ।” (छा.-3.14.2) “गंभीरः परमो देवः ” (राम.आ.47.32) “महोदधिम् इव अक्षोभ्यम्” (राम.आ.47.32) “गांभीर्यात् सागरोपमम्” इत्यादि च ।। तदनेन प्रघट्टकेन “तद्विष्णोः परमं पदम्” (कठ.-1.3.9) “तदक्षरे परमे व्योमन्” (तै.ना.1.2) “ते ह नाकम्” (पु.सू.18) “तद्धाम परमं मम” (गीता 15.6) “दिव्यं स्थानम् अजरं च अप्रमेयम् ” (बार.मो.) “स्वर्लोकम् आगच्छ गतज्वरः चिरम्” (राम.बा.15.33) “विवेश वैष्णवं तेजः” (राम उ.110.13) “कलामुहूर्तादिमयश्च कालः न यद्विभूतेः परिणामहेतुः” (वि.पु.4.1.84) “तेषां तत् परमं स्थानम्”, इत्यादिभिः (वि.पु.1.6.39) पूर्वोदाहृतैश्च धुष्यमाणे कालातीतत्व-अक्षरत्व-अपरिणामित्व-तमोऽतितत्व-नित्यत्व-अपुनरावृत्तिस्थानत्वादिना भगवत्-स्वरूप-गुणादिवत्- “एकमेव अद्वितीयम्”, (छा.-6.2.1) “न असत् असीत् नो सत् आसीत् तदानीम् ” इति (यजुरष्टक 2.8.9) एकत्व-अवधारणादि-निमित्ताम् अनित्यत्व-शङ्काम् अतीत्य वर्तमाने वैष्णवे परमषदे, श्रीभूमिभ्यां दिव्य-महुषीभ्यां सह कौषीतकी- पर्यङ्क-विद्याद्यवगत-दिव्य-आस्थान- रत्ने दिव्य-पर्यङ्कोपरि, अनन्त-वैनतेय-विष्वक्सेनादिभिः पूर्वोपपादितैः नित्य सिद्धैः परिचर्यमाण-चरणारविन्दस्य भगवतः सर्वैश्वर्य-अपर-पर्वायं सार्वभौमं सुराजंभवम् अशेष-वेदरहस्यम् आविष्कृतम् ।। तथा वायुप्रोक्तशैवे स्पष्टम्– “वैकुंठे तु परे लोके श्रिया शार्धं जगत्पतिः । आस्ते विष्णुः अचिन्त्यात्मा भक्तैः भागवतैः सह ।।” इति । श्रीविष्णुतत्त्वे — “पञ्चशक्तिमयो देवः बहिर्लोकेश्वरेश्वरः । आस्ते स्वानन्दभावेन परमव्योम्नि सुस्थित।।” इति च ।। [नि-82. अपां निधिवत् अक्षोभ्यः दुराधर्षः इतीरितः । दुर्विज्ञेयगतिः यस्मात् दुराधर्षः प्रकीर्तितः ।]
9.83 कृतज्ञः
*83 536. अथ विस्मृत-यथोक्त-निरूपाधिक-दास्य-निर्ममत्वानाम् अनादि-अविद्या- आरोपित-स्वातन्त्र्या-प्रवृत्तानां संसारिणां कृतज्ञः- आनुकूल्य-लवं जानाति इति । “आतोनुपसर्गे कः ।” (अष्टा.- 3.2.3) ब्रह्मज्ञः (674), प्राणदः (66,323,409,956) इत्यादयोऽपि एवम् । यः खलु आह– “अपि चेत् सुदुराचरः…सम्यक् व्यवसितो हि सः ।।” इति । न च प्रयुपकारं पश्यति ईदृशे । यथा– (गीता 9.30) “गोविन्देति यदाक्रन्दत् कृष्मा मां दूरवासिनम् । ऋणं प्रवृद्धमिव मे हृदयात् न अपसर्पति ।।”इत् च ।। (भार.3.58.22) [नि- 83. प्राणिभिः यत् कृतं तत् ज्ञात्वा फलदो यतः । पत्रपुष्पादिना तुष्टः कृतज्ञो मोक्षदानतः ।।]
9.84 कृतिः
*84 तच्च तेषां सुकृतम् अस्मादेव प्रसन्नात् इति कृतिः । “अकर्तरि च कारके संज्ञायाम्” इत्यधिकारे स्त्रियां क्तिन्नन्तः ।(अष्टा.-3.3.19) “एष एव साधु कर्म कारयति तं यम् एभ्यो लोकेभ्यः उन्निनीषति ।।” (कौषी.-3.64) [नि-84. यस्मात् प्रसन्नात् सुकृतं तेषां स कृतिः इष्यते। प्रयत्नो वा क्रिया वा अथ कृतिः उक्ता क्रियावताम् ।।]
9.85 आत्मवान्
*85 तस्य कर्तरोऽपि आत्मानः तदायत्त-स्वरूप-प्रवृत्त्यादिकतया अस्य स्वभूताः इति आत्मवान् ।। [नि–85. एषाम् आत्मशरीरादि-निरासात् अथवा आत्मवान् । स्वे महिम्नि प्रतिष्ठानात् आत्मवान् अभिधीयते ।।] सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः । अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ।। 10 ।।
10.86 सुरेशः
*86 फल्गु-पद-लिप्सूनां ब्रह्मादीनामपि संविधाता सुरेशः । याथा ब्रह्मा– “यस्य प्रसादात् अहम् अच्युतस्य भूतः प्रजायसर्गकरोऽन्तकारी । क्रोधाच्च रुद्रः स्थितिहेतुभूतः …. ।। “इत्यादि ।। (वि.पु.4.1.85) [नि–86. ब्रह्मादीनां फल्गु-फल-ल्प्सूनां त्रिदिवोकसाम् । संविधाता सुरेशश्र प्रोच्यते विबुधोत्तमैः ।।]
10.87 शरणम्
*87 अविशेषेण सर्वेषां शरणम् । शृणातेः रक्षणार्थात् ल्युट् । एवं करणम् (380), कारणं (381), प्रमाणं (430,959), इत्यादयोऽपि । निरुपाधिकः प्रापकः । यथा- “तं ह देवम् आत्म-बुद्धि-प्रसादं मुमुक्षुर्वै शरणमहं प्रपद्ये”, (श्वे.- 6.18) “निवासः शरणं शरणं सुहृत् गतिः नारायणः “, (सु.-6) “शरण्यं शरणं च त्वाम् आहुः दिव्या महर्षयः” इत्यादि । (राम.यु.120.18) [नि-87. आर्तानाम् आर्तिहन्तृत्वात् शरणं परिकीर्तितः । यदुपासं भयं दुःखं पापं बंधो न बाधते । प्रतिष्ठा च सुखं ज्ञानं भवेत् शरणं इत्यतः ।।]
10.88 शर्म
*88 शर्म-सुखं परमप्राप्यं च इति शर्म । तस्मात् एव सुखार्थात् मनिन् । यथा– “सर्वगन्दः सर्वरसः”, (छा.-3.14.2) “कं ब्रह्मा खं ब्रह्मा”, (छा.-4.10.4) “आनन्दो ब्रह्मा” इति (ता.भृ.6) [नि-88. परमानन्द-रूपत्वात् शर्न हिंसादि-मन्थनात् ।]
10.89 विश्वरेताः
*89 शरण-शर्म-प्रकारान् विवक्षति-विश्वरेताः-विश्वं कार्यम् अस्य इति । स हि स्वज्ञान-स्थान-परिचरण-ऐदमर्थ्ये प्रजानां ज्ञान-कर्मेन्द्रियादिकं विश्वं करोति । यथा- “एतस्मात् जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायुः ज्योतिः आपः पृथिवी विश्वस्य धारिणी ।।” (मु.2.1.3) “सप्त प्राणाः प्रभव र्पभवन्ति तस्मात्” (मु. 2.1.8) “भवन्ति भावा भूतानां मत्त एव पृथग्विधाः”। (गीता 10.5) श्रीविष्णुतत्वे “विचित्र देह-संपत्तिः ईश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन् ! हस्त-पादादि-स्युता ।।” इति ।। (पांचरात्र) ज्ञानेन्द्रियादिकं विश्वं परिचर्यार्थमेव हि । यः प्रजानां करोति इति विश्वरेताश्च स स्मृतः ।।]
10.90 प्रजाभवः
*90 सर्वाः प्रजाः तद्दत्तैः तैरेव उपकरणैः तस्मिन् भवन्ति, तदाभिमुख्य-योग्या भवन्ति इति प्रदाभवः । अधिकरणे “पुंसि संज्ञायां घः प्रायेण” इति घः एवम् आश्रमः(856) नियमः (163,869) यमः (164,870) इत्यादयः ।। (अष्टा.- 3.3.118) [नि-90. तद्दत्तैरेव करणैः तस्मिन् अभिमुखाः प्रजाः । सर्वाश्चैव भवन्ति इति प्रजाभवः उदाहृतः ।।]
10.91 अहः
*91 न हीनः अस्य अस्तीति अहः । “अहः अहीनम्” इति मौलं निरुक्तम् । (मूलसं) “नहि कल्यामकृत् कश्चित् दुग्तिं तात गचाछति” इति । (गीता 6.40) अनाद्यविद्या-निद्रावधौ स्वावबोध-हेतुत्वात् वा अहरिव इति अहः ।। [नि-91. न सन्ति हीना यस्येति अहः स परिकीर्तितः । अनाद्यविद्या-निद्रायां स्वधी-हेतितया हि अहः ।]
10.92 संवत्सरः
*92 (423). एवं प्रबुद्धेषु समुद्धरणाय संवसति इति संवत्सरः। वसेः “संपूर्वात् चित्” इति ‘सरन्’ प्रत्ययः । (उणा.पा.-3.72) “सस्यार्धधातुके” इति तकारः । यथा- (अष्टा.-7.4.49) “ददामि बुद्धियोगं तं येन माम् उपयान्ति ते”(गीता 10.10) “तेषां अहं समुद्धर्ता” इति ।। (गीता 12.7) [नि-92. इत्थं तेषु प्रबुद्धेषु वसत्युद्धरणाय यः । संवत्सरः]
10.93 व्यालः
*93 “आनयैनं हरिश्रेष्ठ! दत्तम् अस्य अभयं मया” इति प्रस्थानेन तान् आत्मसात्करोति इति व्यालः । (राम.युद्ध.18.34) “ला आदाने” । (अदादि) “आतश्च उपसर्गे” इति ‘क’ प्रतेययः ।। (अष्टा.-3.1.136) [नि-93. तान् आत्मसात् व्यालः उक्तः करोति यः ।]
10.94 प्रत्ययः
*94 प्रतीयते अस्मिन् इति प्रत्ययः । स हि तान् प्रत्याययति-विस्रंभयति । यथा– “तं देवम् आत्म-बुद्धि-प्रसादम् ।” इति । (श्वे.-6.18) । श्रीविष्णुतत्त्वे– “भूयो भूयोऽपि ते ब्रह्मन् ! विश्वास्यः पुरुषोत्तमः ।” (वि.त) स्वयं च सभापर्वाणि– “यदि ते हृदयं वेत्ति यदि ते प्रत्ययो मयि । भीमसेनार्जुनौ शीघ्रं न्यासभूतौ प्रयच्छ मे ।।” (भार.स.20.7) [नि-94. योऽसौ प्रत्याययति तान् प्रत्ययः स उदाहृतः ।।]
10.95 सर्वदर्शनः
*95 तेषां सर्वं स्वमहिमानं दर्शयति इति सर्वदर्शनः । यथा– “तमक्रतुं पश्यति वीतशोकः धातुः प्रसादात् महिमानम् ईशम्”, (श्वे.-3.20) “तस्यैष आत्मा विवृणुते तनूं स्वाम् ” इति ।। (मु.-3.2.3) [नि-95. महुमानं सर्वसहं तेषां दर्शयति इति सः । अजः सर्वेश्वरः सिद्धः सिद्धिः अच्युतः । वृषाकपिः अमेयात्मा सर्वयोगः विनिस्मृतः ।। 11।।
11.96 अजः
*96 (206,524). तेषां स्वप्राप्ति-परिपन्थि सर्वं स्वयमेव क्षिपति इति अजः । “अज गति क्षेपणयोः” । अच् यथा– (भ्वादिः) “तेषामेव अनुकेपार्थम् अहम् अज्ञानजं तमः ।” नाशयामि आत्मभावस्थः ज्ञानदीपेन भास्वता ।। (गीता 10.11) “अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि” इत्यादि ।। (गीता 18.66) [नि-96. प्रत्यर्थिनः स्वसंप्रातौ प्रजानां क्षिपति इति अजः ।]
11.97 सर्वेश्वरः
*97 समर्थानाम् असमर्थानां च सर्वेषां शरणागतानां विलंबनं वैक्लबेयं च परिहर्तुम् आशु तान् अश्नुते इति सर्वेश्वरः । “अश्नोतेः आशुकर्ममि वरट् च” (उणा.पाद.-5.58) इति वरट्,उपधाया ई कापश्च । “विभीषणेन आशुजगाम सङ्गमम्” इति ।। (राम.यु.18.39) [नि-97. अशक्तानां च शक्तानां वैरूप्यं शरणैषिणाम् । अश्नुते परिहर्तुं यः स सर्वेश्वरः ईरितः ।।]
11.98 सिद्धः
*98 (825).तेषां स्वरूपाण लिद्दः । निष्ठा । एवं ‘प्रथितः’ (321) हितः इत्यादऽयोपि न उपायैः साध्यः यथा– “न्यास इत्याहुः मनीषिणो ब्रह्माणम्” इति ।। (तै.ना.50) [नि-98. स्वरूपेणैव भक्तानां लिद्धत्वात् सिद्धः इच्यते ।]
11.99 सिद्धिः
*99 उपायेरपि अयमेव साध्यते इति सिद्धढ । यथा– “यदिच्छन्तो ब्रह्मचर्यं चरन्ति” (कठ 2.15), “यं पृथक् धर्मचरमाः पृथग्धर्म-फलैषिणः । पृथग्धर्मैः समर्चन्ति तस्मै धर्मात्मने नमः ।।” इति ।। [नि-99. अयमेव हि उपायैश्च सिद्धिः स्यात् साध्यते यतः ।।]
11.100 सर्वादिः
*100 तेषां परावर-सर्वपुरुषार्थ-मीलम् इति सर्वादिः । यथा– “ये त्वा ध्रवं भक्ताः पुरामं पुरुषोत्तमम् । प्राप्नुवन्ति सदा कामान् इह लोके परत्र च ।।” (राम.यु. 120.31) “सर्वान् कामान् प्राप्नुवन्ते व्शालान् त्रैलेक्येऽस्मिन् कृषण-नामाभिधानात्” इति ।। [नि.100. सर्वेषां पुरुषार्तानां मूलं सर्वादि ईरितः ।।] इति श्रीहरितकुलतिलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराज-दिव्याज्ञालब्ध-श्रीपराशरङट्ट-अपर नामधेयस्य श्रीरंगनाथस्य कृतौ श्रीविष्णुनामसहस्रविवरमे श्रीभगवद्गुणदर्पणे प्रथमम् शतकम् समाप्तम् ।।
….Continued