श्री भगवद् गुण दर्पण: 401-500
43.401 अनयः
*401 पञ्चम-शतक-प्ररंभः स एव, असुहृद्भिः न नयः अस्य अस्तीति अनयः । यथा रावणेन– “हिमवान् मन्दरो मोरुः त्रैलोक्यं वा सहामरैः । शक्यं भुजाभ्याम् उद्धर्तुं न संख्ये भरतानुजः ।।” (राम.यु. 59.110) यद्वा “अयः शुभावहो विधिः”, सः अस्मादन्यो जगतो नास्तीति अनयः । यथा–(अमरकोश) “एते वयं सर्वंसमृद्धकामा येषामयं नो भविता प्रशास्ता” इति ।। (राम.अ.16.45) [नि-401. असुहृद्भिर्नयो यस्य नास्तीति अनय उच्यते । अथवा जगतामस्मात् अयो नान्यस्ततः अनयः ।।]
43.402 वीरः
*402 रक्षसाम् अतिभयचलन-हेतुत्वात् वीरः । “अज गतिक्षोपणयोः” “स्फायितञ्चिवञ्चि” (उणा.पा.-2.13) इत्यादिना रक् । “अजेर्व्यधञपोः” (अष्टा.-2.4.56) इति वीभावः । यथा- “ब्रह्मदण्डप्रकाशानां विद्युत्सदृशवर्चसाम् । स्मरन् राघवबाणानां विव्यथे राक्षसेश्वरः ।।” (राम.यु.60.2) “मातङ्ग इव-सिंहेन गरुडेनेव पन्नगः । अभिभूतोऽभवद्राजा राघवेण महात्मना ।।” (राम.यु.60.2) यता च मारीचः “वृक्षे वृक्षे च पश्यामि चीरकृष्णाजिचाम्बरम् । गृहीतधनुषं रामं पाशहस्तमिव अन्तकम् ।।” इत्यादि ।। (राम.आ.39.14) [नि-402. वीरः कंपनहेतुत्वात् रक्षसाम् अतिभीमतः ।]
43.403 शक्तिमतां श्रेष्ठः
*403 शक्तिमतां सुरादीनाम् अतिशयेन प्रशस्यः इति शक्तिमतां श्रेष्ठं । यथाऽ ऽह परशुपरिकर्मा रामः “अक्षय्यं मधुहन्तारं जानामि त्वां सुरेश्वरम्” इति । (राम.बा.76.17) ब्रह्मा च — “कथं देवगणश्रोष्ठ! नात्मानम् अवबुद्ध्यसे ” (राम.यु.120.6) “देवाश्च दैत्याश्च निशाचरेन्द्र! गन्धर्व-विद्याधर-नागयक्षाः । रामस्य लोकत्रय-नायकस्य स्थातुं न शक्ताः समरेषु सर्वे ।। ” (राम.सु.51.44) “सर्वान् लोकान् सुसंहृत्य-स्हृतान् सचराचरान् । पुनरेव तता स्रष्टुं शक्तो रामो महाशरैः ।।” इति ।। (राम.सु.51.40)
43.404 धर्मः
*404 अभ्युदय-निःश्रेसाभ्यां सर्वस्य साक्षात् धरणात् धर्मः । “अर्तिस्तुसुहुसृधृक्षिक्षुभायावापदियक्षिनीभ्यो मन्” (उणा.पा.-1.145) इति मन् प्रतंययः । एवं सोमः (507) इत्यादयः । तदाह तमेव ब्रह्म ब्रह्मविदां वरः- “लोकानां त्वं परो धर्मः” इति । (रा.यु.120.14) लक्ष्मणश्च — “धर्मात्मा सत्यसन्धश्च रामो दासरथिर्यदि । पौरुषे च अप्रतिद्वन्द्वः शरैनं जहि रावणिम् ।।” इति । (रा.यु.91.37) अन्ये च – “ये च वेदविदो विप्राः ये च अध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनम् ।।” (भार.आ.88.25) “पुण्या द्वारवती तत्र यत्रास्ते मधुसूदनः ।” (भार.व.88.24) “साक्षात् देवः पुराणोऽसौ स हि धर्मः सनातनः इत्यादि ।” (बार.आ.88.24) अन्ये च — “साक्षात् रामात् विनिर्वृवत्तो धर्मश्चापि श्रिया सह” इति । (रा.अ.2.29) [नि-404. निःश्रयसाभ्युदयतो धर्मः सर्वस्य धारणात् ।]
43.405 धर्मविदुत्तमः
*405 धर्मवित्सु इत्तमः धर्मविदुत्तमः । धर्मज्ञाने वसिष्ठ-वाम-देवमार्कण्डेया- दीनां शिष्योऽपि उपजोव्यः । यथा– “सर्वदाऽभिगतः सद्भिः समुद्र इव सिव्धुभिः” (राम.बा.1.56) “धर्मज्ञः सत्यसम्धश्च” (रा.बा.1.12) “वेदविद्भिः सुपूजितः” (राम.सु.35.14) “यथावत् साङ्गवेदवित्” (राम.अ.1.20) “त्वम् अप्रमेयश्च दुरासदश्च जितेन्द्रियश्च उत्तमधार्मिकश्च। अक्षय्यकीर्तिश्च विचक्षणश्च क्षितिक्षमावन्् क्षतजोपमाक्षः ।। ” इत्यादिना ।। (राम.कि.24.31) [नि-405. वसिष्ठाद्युपजीव्यो यः धर्में धर्मविदुत्तमः ।] वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणमः पृथुः हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुः अधोक्षजः ।। 44 ।।
44.406 वैकुण्ठः
*406 सर्वेषां संश्लेषयिता वैकुण्ठः । “कुठि गतिप्रतिघाते” । स च अत्र श्लेषविघातः । स च विगतो येषां ते विकुण्ठाः । तेषाम् एष वैकुण्ठः । “मया संष्लेषिता भूमिः अद्भिर्व्योमच्च वायुना । वायुश्च तेजसा सार्धवैकुण्ठत्वं ततो मम ।।” इति । (भार.शा.343.50) ईदृशी हि शाली रामत्वेऽपि । यथा- “राममेव अनुपश्यन्तो नाभ्योहिंसन् परस्परम्” । (राम.यु.131.95) तदसन्निधौ परस्यनिर्व्यपोक्षा हि तत्रत्याः । यथाऽऽहुः पौर्यः पतीन्– “राघनं वा अनुगच्छध्वम् अश्रुतिं वाऽपि गच्छत” इति । (राम.अ.48.7) “व्यसृजन् कबलान् नागाः गावो वत्सान् न पाययन्” (राम.अ.41.10) “नष्टं दृष्ट्वा नाभ्यनन्दन् विपुलं वा धनागमम् । पुत्रं प्रथमजं लब्ध्वा जननी नाभ्यनन्दत ।।” (राम.अ.48.5) “स्तन्यार्थिनः सुताः स्त्रीणां भर्तारो भ्रातरस्तता । सर्वे सर्वं परित्यज्य राममेव अन्वयुस्तदा ।।” इति ।। (राम.अ.41.19) [नि-406. संश्लेष-प्रतिघातश्च कुठिधात्वर्थ उच्यते ।
44.407 पुरुषः
*407 ‘स यत् पूर्वोऽस्मात् सर्वस्मात् पाप्मन ओषः तस्मात् पुरुषः’ इति परमपावनत्वात् पुरुषः । “पावनः सर्वलोकानां त्वमेव रघुनन्दन!” इति (राम.उ.82.9) शबरी– “तवाहं चक्षुषा सौमेय! पुना सौम्येन मानद!” इति । (राम.अ.74.13) “पृपालनपूरमयोः” “पुरः कुषन्” (उणा.पा.-4.75) इति कुषन् प्रत्ययान्तो वा पुरुषः । स हि रामः सर्वथा पुरुष इष्यते, “राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्त्मम्” “शार्ङ्गधन्वा हृषीकेशः पुरुषः पुरुषोत्तमः” (राम.यु.120.15). [नि-407. “स यत्पूर्व” इति श्रुत्या पुरुषः पावनत्वतः । पृधातोः पालनार्थाद्धि कुषन् प्रत्यय-योगतः । सर्वपालकता-लब्ध्या पुरुषः प्रोच्यते बुधैः ।।]
44.408 प्राणः
*408 सर्वप्राणनात् प्राणः ।। [नि-408. प्राणः सर्वप्राणाद्धि ।]
44.409 प्राणदः
*409 प्रसिद्धानपि प्राणान् ददातीति प्राणदः । अतो हि तद्विरहे “अपि वृक्षाः परिम्लानाः सुपुष्पाङ्कुर-कोरकाः ।” (राम.अ.59.4) “परुशुष्क-पलाशानि वनान्युपवनानि च ।” इत्यादि ।। (राम.अ.59.5) [नि-409. तद्दानात् प्राणदः स्मृतः ।]
44.410 प्रणवः
*410 “प्रणामयति” इति (अथर्वशिर) श्रौत्या निरुक्त्या स्वगुणैः चराचर-नामनात् प्रणमः । “हृदयानि आममन्थेव जनस्य गुणवत्तया” इति ।। (राम.अ.26.2) [नि-410. गुणैश्चराचराणां हि नामनात् प्रणमः स्मृतः ।]
44.411 पृथुः
*411 यशसाऽपि विस्तीर्णः इति पृथुः । “प्रथ प्रख्याने” “प्रथिम्रदिभ्रस्जां संप्रसारणं सलोपश्च” इति कुप्रत्ययः । (उणा.पा.-1.28) “पृथुश्रीः पार्थिवात्मजः” (राम.बा.1.8) “रामो नाम जनैः श्रुतः” (राम.बा.77.28) “तेषामतियशा लोके रामः”, (राम.कि.15.20) “यशसश्च एकभाजनम्” इत्यादि ।। [नि-411. यशोविस्तारवत्वाच्च पृथुः इत्युच्यते बुधैः ।]
44.412 हिरण्यगर्भः
*412 अवतार-असमकाल-वतिंनामपि ध्यानादिना उपकारित्वम् आह-हिरण्यगर्भः । हितरमणीयस्य ध्यातृ-हृदयस्य शुभाश्रत्वेन निगीर्यत्वात्, हिरणायनिधि-साभ्यात् वा । तथा तन्मन्त्रवर्णः- “ध्येयः स विश्वात्मा” इति ।। (मंत्र) [नि-412. हितस्य रमणीयस्य ध्यातृणां हृदयस्य हि ।
44.413 शत्रुघ्नः
*413 विषयेषु विक्षेपमात् तेषां रावणवत् शत्रुम् इन्द्रियवर्ग विवेक शरैः हन्ति- शमयन्ति इति शत्रुघ्नः । “अमनुष्यकर्तृके च” इति टक् । (अष्टा.-3.2.53) । “गमहन” (अष्टा.-6.4.98) इत्यादिना उपधालोपः, “हो हन्तेः” इति कुत्वम् । (अष्टा.-7.3.54) “दशेन्द्रियाननं घोरं यो मनोरजनीचरम् । विवेक-शरजालेन शमं नयति योगिनाम् ।।” (सात्वतसं 12.154) इति तद्ध्याने ।। [नि-413. शत्रून् इन्द्रियवर्गान् यो हन्ति शत्रुघ्न उच्यते ।]
44.414 व्याप्तः
*414 मुग्धवृद्ध-भर्तृभृत्य-शत्रुमित्रादिषु वात्सल्याविशेषात् व्याप्तः । यथा- “पौरान् स्वजनवत् नित्यं कुशलं परुपृच्छति । पुत्रेष्वग्निषु दारेषु प्रेष्य-शिष्यगणेषु च ।। निखिलेन आनुपूर्व्याच्च पिता पुत्रानिव औरसान् ।।” (रा.आ.2.37.38) “रिपूणामपि वत्सलः” इत्यादि ।। (राम.यु.50.56) [नि-414. नीचपूज्याविशेषेण व्यापनात् व्याप्त उच्यते ।]
44.415 वायुः
*415 स्वयमेव तत्र तत्र तान् गच्छति इति वायुः । “कृवापाजिमि” इत्यादिना उण् । (उणा.पा.-1.1) “सोऽभ्यगच्छत् महातेजाः शबरीं शत्रुसूदनः” (राम.बा.1.87) “भरद्वाजाश्रमं गत्वा” (राम.बा.1.87) “गुहमासाद्य धर्मात्मा” इति ।। (राम.बा.1.29) [नि-415. तत्र तत्र स्थितान् सर्वान् भगद्वाजृगुहादिकान् । गच्छति स्वयमेव एतान् स वायुः इति शब्द्यते ।। ]
44.416 अधोक्षजः
*416 एवम् अमृतोदधिवत् सर्वैः सदा उपयुज्यमानोऽपि “अधो न क्षीयते जातु यस्मात् तस्मात् अधोक्षजः” (भार.उ.89.10) इति अधोक्षजः । “अक्षय्यं मधुहन्तारं जानामि त्वां सुरोत्तमम्” (राम.बा.76.17) “अक्षय्य-कीर्तिश्च” इत्यादि ।। (राम.बा. 24.31) [नि-416. सदोपभुज्यमानोऽपि सर्वैः अमृतसिन्धुवत् । अधो न क्षीयते जातु यस्मात् तस्मात् अधोक्षजः ।। ] ॠतुः सुदर्शन कालः परमेष्ठी परिग्रहः । उग्रः संवत्सरो जक्षो विश्रामो विश्वदक्षिणः ।। 45 ।।
45.417 ऋतुः
*417 सदाऽपि अपूर्वैः सर्वोलासकरैः उत्तरोत्तरैः गुणपर्यायैः ऋच्छति इति ऋतुः । “अर्तेश्च तुः” (उणा.पा.-1.74) इति तुः । इतो हि वसन्त-शिशिरादीनामपि ऋतुत्वम् । यथा– “घर्माभितप्ताः पर्जन्यं ह्लादयन्तमिव प्राजाः” इत्यादि ।। (राम.अ.3.29) [नि-417. ऋच्छतीति ऋतुः प्रोक्तः सर्वोल्लासकरैः गुणैः ।]
45.418 सुदर्शनः
*418 गुणप्रभाव-अनभिज्ञानामपि दर्शनमात्रमेव अस्य शोभनमिति सुदर्शनः ।। “सोमवत् प्रयदर्शनः” (राम.बा.1.18) “सदैक-प्रियदर्शनः” इति च ।। (राम.बा.1.16) [नि-418. मन्दानां च सुभं थस्य दर्शनं सुदर्शनः]
45.419 कालः
*419 [नि-419. चराचराणां कलनात् कालः स्वस्मिन् गुणैरसौ ।]
45.420 परमेष्ठी
*420 एवं राक्षस-मृगया जगद्रक्षणेन च अत्र विहृत्य पुनः परमे स्थाने तिष्ठति इति परमोष्ठी । “परमे कित्” इति इनि प्रत्ययः । (उणा.पा.-4.10) “अम्बाम्ब” इत्यादिना षत्वम् । (अष्टा.-8.3.97) “हलदन्तात्” इति सप्तम्या अलुक् । (अष्टा.-6.3.9) यथा– “विवेश वैष्णवं तेजः सशरीरः सहानुगः ।।” (राम.उ.110.12) तता सभापर्वणि– “एवमोष महाबाहुः इक्ष्वाकु-कुलवर्धनः । रावणं हत्वा दिवम् आक्रमिता प्रभुः ।।” इतियादि ।। (भार.स.55.47) [नि-420. परे पदे स्थितत्वाच्च परमेष्ठी प्रकीर्तितः ।]
45.421 परिग्रहः
*421 अत्र तत्र च परितो ग्रहः अस्येति परिग्रहः स्वसंबन्धिपौर-जानपद-तत्संबन्धिनां तत्तद्देवता-तदारामतरु-दूर्वादेरपि परमपदप्रापणात् । “ये हि भगवदंशेषु अनुरागिणः” इत्यादि । असेय सौरशील्ये तत्त्वम् ।। [नि-421. इहामुत्र समं सर्वग्रहणात् स्यात् परिग्रहः ।]
45.422 उग्रः
*422 अथ शालदुस्साध-असाधुसाधकः संहाराधिकारः पातालशयनः कल्की च ।। युगावसाने पापातिप्रसाङ्गिषु संकीर्ण-वर्णाश्रमव्यवस्थेषु उग्र, प्रचण्डः । “उच समवाये” “ऋज्रेन्दाग्र” (उणा.पा.-2.31) इत्यादिना रन्प्रत्ययान्तो निपातः । “सहारमूर्तये कालवैश्वानरार्चिषे” इति मन्त्रवर्णात् । (मंत्र) श्रीपौष्करे– “कल्की च विष्णुः भगवान् नष्टधर्मावतारकृत् । उर्व्यां म्लेच्छगमं हत्नाऽनस्थितो यः कलौ युगे ।।” इति ।। [नि-422. नष्टे धर्मे कल्किरूपो हि अवतीर्य महिभृतः । मंलेच्छादीन् हतवान् योऽसौ उग्र इत्युच्यते बुधैः ।।]
45.423 संवत्सरः
*423 पाताले संहारपरिकरैः कालप्रतीक्षः अनन्ते संबसति इति संवत्सरः । सं पूर्वात् वसतेः “संपूर्वाच्चित्” इति ‘सर’ प्रत्ययः ।। (उणा.पा.-3.72) “अनन्त-शयनारूढम्” (सात्वतसं. 12.168) “चक्ताद्यायुध-वृन्देन मूर्तेन परिवारितम्” (सात्वतसं 12.119) इति तद्ध्यान-विधेः ।। [नि-423. संहारस्य उपकारणैः साकं काल-प्रतीक्षया । संवत्सरः स्यात् पातालेऽनन्ते संवसतीति सः ।।]
45.424 दक्षः
*424 “कत्र्किः चरिष्यति महीं सदा दस्युवधे रतः । आक्रोशमानान् सृभृशं दस्यून् नेष्यति संक्षयम् ” इति (भार.व.191.15) दस्युवधे दक्षते-शीघ्रकारी इति दक्षः । “दक्ष वृद्धौ शीघ्रार्थे च” । “क्षिप्रकारी जनार्दनः” इति ।। [नि-424. शीघ्रार्थत्वात् दक्षधातोः निम्षात् दस्यवो हताः ।
45.425 विश्रामः
*425 पाप-तत्फलातिप्रसङ्ग-श्रान्त जन्तु-विश्रामभूतिः विश्रामः । “धर्मस्य च विवृद्ध्यर्थं विप्राणां हितकाम्यया” (भार.स.54.56) इति सभा पर्वणिणि । [नि-425. पापानि तत्फलान्येवं श्रान्ता भोक्तुं च ये जनाः । तेषां विश्रामबूमित्वात् विश्रामः परिकीर्तितः ।।]
45.426 विश्वदक्षिणः
*426 अपचरत्सु कतं हितकारी? तत्र आह-विश्वदक्षिणः । विश्वस्मिन् इष्टानिष्टकारिणि अविशेषेण दक्षते इति विश्वदक्षिणः । “द्रुदक्षिभ्याम्” इनन् । अपकारिष्वपि अतिक्षमत्वं हि दाक्षिण्यम्–(उणा.पा.-2.53) “स इमं सकलं लोकं प्रसादम् उपनेष्यति” इति । यद्वा अस्वमेधे विस्वं-विश्वंभरा, दक्षिणा अस्य इति वा । आरण्यपर्वणि । (भार.व.190.96) “ततश्चेरक्षय कृत्वा द्विजेभ्यः पृथिवीमिमाम् । वाजिमेध महायज्ञे विधिवत् कल्पयिष्यति ।।” इति ।। (भार.व.191.1) [नि-426. अपकारिषु अतिक्षान्तो विश्वदक्षिण उच्यते । यद्वा अश्वनेधे पृथिवीं दक्षिणात्वेन दत्तवान् । महिसुरेभ्यः कृत्स्नां यः स स्मृतो विश्वदक्षिणः ।] विस्तारः स्थावर-स्थाणुः प्रमामं बाजम् अव्ययम् । अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ।। 46 ।।
46.427 विस्तारः
*427 कलिप्रबलं-संहारेण कृतं प्रवर्तंयतोस्मात् वेदमर्यादा प्रतते इति विस्तारः । “प्रतने वाव शब्दे” इति घञ् । यथा– (अष्टा.-3.3.33) “ततोऽधर्मविनाशो वै धर्मवृद्धिश्च भारत! । भविष्यति कृते प्राप्ते क्रियावान् च जनस्तथा ।।” इति ।। [नि-427. प्रबलं यः कलिं हत्वा प्रवत्यं ट कृतं युगम् । विस्तार्य वेदमर्यादां स्थितो व्स्तार उच्यते ।।]
46.428 स्थावरस्थाणुः
*428 एवं धर्मे स्थावरीकृते, शमे स्थास्यति इति स्थावरस्थाणुः । “स्थापयित्ना स मर्यादां स्वयंभूविहितां शुभाम्” इति आरण्यके ।। (आरण्यकं) [नि-428. स्थावरीकृत्य घर्मान् यः शमे स्थास्यति नित्यशः । येन केनाप्यताल्यः सः स्थावरस्थाणुः उच्यते ।।]
46.429 प्रमाणम्
*429 अथ कार्तयिगानां हिताहितयोः प्रमाणम्-व्यवस्थापकः एतच्छकित-प्रेषितं हि प्रत्यक्षादि अपि प्रमाणं भवति । यथा– “तच्छीलम् अनुवर्तन्ते मनुष्या लेकवासिनः” इति ।। (भार.व.191.3) [नि-429. हिताहितस्थापकत्वात् प्रमामं स्यात् कृतादिषु ।।]
46.430 बीजम् अव्ययम्
*430 एवं कलिकालाद्यवग्रह-अवसानेषु पुनः पुनः धर्मं-प्ररोहमात् बीजम् अव्ययम् ।। [नि-430. यौ वै कलियुगस्यान्ते मुहुः धर्मप्ररोहमम् । करोति भक्तरक्षार्थं स भवेत् बीजमव्ययम् ।।]
46.431 अर्थः
*431 एकभक्तेः विशिष्टाधिकारिणः सम्यक्ज्ञानिनः स्वयं प्रयोजनत्वात् अर्थः । ‘उषिकुषि गातिभ्यः थन्’ (उणा.पा.-2.4) ‘ज्ञानवान् मां प्रपद्यते, वासुदेवः सर्वम्’ ।। (गीता 7.19) [नि-431. परमैकान्तिभिः नित्यम् एषणात्रय-वर्जितैः । स्वयं प्रयोजनतया प्राप्यमाणः अर्थः उच्यते ।। ]
46.432 अनर्थः
*432 मन्दसुकृतेन अर्थार्थिना निर्ध्याजं न अर्थ्यते इति अनर्थः । स हि अर्थ व्याजेन एनम् अर्थयते । यथा- “अर्थम् एकपिङ्गः” इति । (वि.ध.48.47) “येच शि टाः त्रयो भकेताः फलकामा हि ते मताः” इति च ।। (बार.शा.342.35) [नि-432. अर्ताथिना अल्पभाग्येन निर्व्याजं नार्थ्यते यतः । तस्मात् अनर्थनामाऽसौ वेदविद्भिः प्रकीर्तितः ।।]
46.433 महाकोशः
*433 सदा सर्वेभ्यः सर्वथा दानेऽमि अक्षयतेवात् महान्तः शंख-पद्मादि-निधि- रत्नाकर-रोहण-गिरिवरादयः कोशः भाण्डागाराणि अस्य इति महाकोशः ।। [नि-433. शंखपद्मादिनिधयो महान्तो रोहणो गिरिः । कोशा बाण्डगृहा यस्य महाकोशः स उच्यते ।।]
46.434 महाभोगः
*434 अर्थसाघ्यः कामभोगोऽपि महान् अस्मादिति महाभोगः । “लभते च ततः कामान् मयैव विहितान् हितान्” इति ।। (गीता.7.22) [नि-434. अर्थसाघ्यः कामभोगो यस्मादेषां महानिति । महाभोगः स विज्ञेयो हि अष्टार्णः चिन्तितार्थदः ।।]
46.435 महाधनः
*435 अनिरूप्य-अतिकृपण-प्रदेयम् अनन्तं धनम् अस्य इति महाधनः । सर्व चैतत् प्रह्लादः प्राह– “मरीतिमिश्रैः दक्षेण तथैव अन्यैः अनन्ततः । धर्मः प्राप्तः तथा च अन्यैः अर्थः कामः तता परैः ।।” इत्यादि ।।(वि.पु.1.18.23) [नि-435. अनिरूप्यातिकृपणप्रदेयं धनमक्षयम् । अस्यैवास्तीति सततं स महाधन ईरितः ।। ]
47.436 अनिर्विण्णः
*436 एवं सृष्ट्यादेः तत्तदिष्टदानस्य च असकृत् प्रयुक्तस्यापि स्सारिषु विष- योन्मादात् असंमुखीनेषु वैफल्येऽपि, पुनः तत्तदावर्जन-दुराशया अनिर्विण्ण- अनलसः अत एव हि अस्य अनाद्यन्तो जगद्व्यापारः । “अन्युच्छिन्नाः ततस्त्वेते सर्ग-स्थित्यन्त-संयमाः” इति ।। (वि.पु.1.2.26) [नि-436. अनिर्विण्णो जागरूको जगद्व्यापार-सन्ततौ ।]
47.437 स्थविष्ठः
*437 अथ अनिर्वेदोदाहरणं स्वाध्याय-ब्राह्मणोत्तमानुवाके वैष्णवे च पुराणे प्रसिद्धम् तारा-शिंशुमाराकृतिः । ताराप्रकारेण स्थैल्यात् स्थविष्ठः । यथा– “तारामयं भगबतः शिंशिमाराकृति प्रभोः” इति ।। (वि.पु.4.9.4) [नि-437. शिंशुमाराकृतितया तारारूपेण सर्वदा । स्थौल्यात् स्थविष्ठः संप्रोक्तः सप्तार्णः पापनाशनः ।।]
47.438 भूः
*438 ध्रुवानुबन्धेन सर्वाधारो भवतीति भूः । “तस्य पुच्छे ध्रुवः स्थितः” इति ।। (वि.पु.4.9.4) भवतीति च भूः प्रोक्तो भक्तानां भूतिदो मनुः ।।]
47.439 धर्मयूपः
*439 धर्मतत्वं शिरोऽवयवतया यौति धमंयूपः । “यु मिश्रणे”, “कुयुभयां च” इति (उमादि.पा.3.27) प्रत्ययो बहुल-वचनात् दीर्घश्च । “धर्मो मूर्धानमाश्रितः” “तच्छिरो धर्मः” इति च ।। [नि-439. उत्तमाङ्गतया धर्मतत्वं यौतीति सर्वदा । धर्मयूपः समाख्यातो हि अष्टार्णो धर्मदायकः ।। ]
47.440 महामखः
*440 धर्मशरीरतया पूज्यो यज्ञः अस्यावयव इति महामखः । यथा– “यज्ञो धर्मश्च विज्ञेयः” इति ।। [नि-440. धर्मदेहतया पूज्यो यज्ञोऽस्य अवयवो यतः । ततो महामखः प्रोक्तो हि अष्टार्णः कर्मकारकः ।।]
47.441 नक्षत्रनेमिः
*441 ज्योतिश्चक्रं नयतीति नक्षत्रनेमिः । “नियो मिः” इति मिः । यथा-(उणा.पा.-4.44) “अलात-चक्रवत् यानित वात-चक्रेरितानि तु । यस्मात् ज्योतीषि वहति प्रवहस्तेन स स्मृतः ।।” (वि.पु.2.12.28) “एवं भ्रामन् भ्रामयति चन्द्रादित्यकान् ग्रहान् । भ्रमन्तमनु तं यान्ति नक्षत्राणि च चक्रवत् ।।” इति ।। (वि.पु.2.9.2) [नि-441. यो नक्षत्रात्मकं चक्रं ज्योतीरूपम् अनामयम् । नयति भ्रामयति यं भ्रमन्तम् अनुयाति तत् । नक्षत्रनेमिः स ज्ञेयो नवार्णो भ्रमनायकः ।।]
47.442 नक्षत्री
*442 “शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । नारायणो नयन् धाम्ना तस्याधारः स्वयं हृदि ।।” इति नक्षत्री ।।(वि.पु.4.9.4) [नि-442. शिशुमाराकृति प्रोक्तं यद्रूपं ज्योतिषां दिवि । तत् यस्यास्ति स नक्षत्री सप्तार्मो लोकपावनः ।।]
47.443 क्षमः
*443 एवम् अखिल-भुवनभारम् अनायासेन क्षमते-वहति, इति क्षमः । “यस्मात् ज्योतिषि वहति प्रवहस्तेन स स्मृतः” इति ।। (वि.पु.4.14.48) [नि-443. अनायासेन निखिलं भारं च भुवनस्य यः । सहते स क्षमः प्रोक्तः षडर्णः क्षान्तिदायकः ।।]
47.444 क्षामः
*444 अवान्तरक्षये नक्षत्रान्तरैः क्षीणस्तिष्ठति इति क्षामः । “क्षै क्षयो” । “क्षायो मः” । (अष्टा.-8.2.53) यथा- “तारकाः शिशुमारस्य न अस्तमेति चतुष्टयम् ।” इति । (वि.पु.2.9.5) “यावन्मात्रे प्रदेशे तु मैत्रेय! अवस्थितो ध्रुवः । क्षयम् आयान्ति तावत् तु भूमेः आभूतसंप्लवे ।।” इति ।। (वि.पु.2.8.97) [नि-444. अवान्तरलये कैश्चित् क्षीणः कारागणैः स्मृतः । क्षामो ध्रुव-समीपस्थः चतुर्नक्षत्र-संयुतः]
47.445 समीहनः
*445 अथ सृष्टौ सर्वान् सर्वदा स्वेषु अधिकारेषु समीहयति इति समीहनः । विचेष्टयति भूतान् क्रीडन्निव जनार्दनः ।।” इति ।। [नि-445. स्वस्याधिकारे सर्वान् यः समीहयति सृष्टिषु । समीहनः स विज्ञेयस्तु अष्टार्णः कार्यदायकः ।।] यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः । सर्वदर्शी निवृत्तात्मा सर्वज्ञो ज्ञानम् उत्तमम् ।। 45 ।।
48.446 यज्ञः
*446 “…..ध्रुवो यत्र प्रतिष्ठितः । एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ।।” (वि.पु.2.8.98) इति आरभ्य, ध्रुव-ज्योतिर्-मेध-वृष्टेयादि-परंपरया “इज्याफलस्य भूरेषा इज्या तात्र प्रतिष्ठिता” “ततश्च आज्याहुतिद्वारा पोषितास्ते हविर्भुजः” इति (वि.पु.4.8.106) यज्ञ- तत्साधन-तत्फलावधित्वेन प्रतिपादितः । अतो यज्ञः । “यजयाच्यत विच्छप्रच्छरक्षो नङ् ।” (अष्टा.-3.3.90) “यज्ञो वै विष्णुः” इति ।। (यजु) [नि-446. यज्ञाराध्यतया यज्ञः ।]
48.447 इज्यः
*447 कामाधिकारैः इन्द्रादिद्वारा इज्याम् अर्हति इति इज्यः । “ये यजन्ति पितृन् देवान् ब्राह्मणान् सहुताशनान् । सर्नभूतान्तरात्नमानं विष्णुमेव यजन्ति ते ।।” (भार.शां.355.24) “येऽप्यन्य-देवता-भक्ताः” (गीता 9.23) “वर्णाश्रमाचारवता” इत्यादि ।। (वि.पु.3.8.9) [नि-447. …….इज्यः कर्मभिः अर्चितः ।]
48.448 महेज्यः
*448 अकामहता महती इजया अस्य अव्यवधानेन इति महेज्यः । “ये तु सर्वाणि कर्माणि” (गीता 3.30) “मयि सर्वाणि कर्माणि” इत्यादि ।। (गीता ) [नि-448. इज्या हि महती यस्य स महेज्य उदाहृतः ।]
48.449 क्रतुः
*449 पञ्च महायज्ञाः, औपासनादयः सप्त पाकयज्ञाः, श्रौईताग्निहेत्रादयः सप्त हविर्यज्ञाश्च यज्ञपदेन उपात्ताः अग्निष्टोमादयः सप्तसोमस्स्थाः क्रमवः तैः आराध्यः । क्तियते इति क्रतुः । “कृञः कतुः” इति क्रतुः ।। [नि-449. अग्निष्टोमादयः सप्त संस्थाः क्रतव ईरिताः । आराध्यः क्तियते तैरिति असौ क्रतुः उदीरितः ।]
48.450 सत्रम्
*450 दीर्घकाल-बहुयजमानक-मासचोदनालक्षणं सत्त्रम् । तत्र च आराध्यतया सततं सीदतीति सत्त्रम् । सीदतेः गतिकर्मणः “गुधुवी पचि वचि यमि सदिक्षदिभ्यस्त्रः” ।। [नि-450. अनेक-यजमाने च दीर्घ मासादि-चोदिते । सत्रे तैः आराध्यतया सत्रं स्यात् सीदतीति सः ।।]
48.451 सतां गतिः
*451 .एवमेष प्रवृत्तिधर्म-निष्ठानां गतिः । अथ निवृत्तिधर्म-निरतानां सतां गतिः । स्थानं तत् परमं विप्र! पुण्य-पाप-परिक्षये ।।” इति ।। [नि-451. धर्माधर्णै च तौ सर्वौ अद्यक्षयितुम् आदरात् । सर्वदा शीलम् अस्येति सर्वदर्सा ततः स्मृतः ।।]
48.452 सर्वदर्शी
*452 सर्वौं द्विविधावपि धर्मौ अध्यक्षयितुं शीलमस्य इति सर्वदर्सी । “सुप्यजातौ णिनिस्ताच्छील्ये” इति णिनिः ।। (अष्टा.-3.2.78) [नि-452. धर्माधर्मौ च तौ सर्वौ अध्यक्षयितुम् आदरात् । सर्वदा शीलम् अस्येति सर्वदर्शी ततः स्मृतः ।। ]
48.453 निवृत्तात्मा
*453 तत्र निवृत्तिधर्माचार्यो नरनारायणादिः । परमवैराग्यख्यापनाय विषयेभ्यः प्रत्याहृतमनाः-निधृतात्मा । “तद्ध्याने- “अन्तर्निविष्टभावं च”, मन्त्रे च — “आत्मध्यान-परायणाय” इति. “हृत्पद्मार्तित-मानसम्” इति च ।। [नि-453. निवृत्ति-धर्माचार्यत्वात् विषयेभ्यो निवृत्तिमत् । मनो यस्य निवृत्तात्मा नरनारायणात्मकः ।।]
48.454 सर्वज्ञः
*454 तथा सर्वात्मना आत्मानं जानातीति सर्वज्ञः । “यिञ्जानं च स्वमात्मानं परस्मिन् अव्यये पदे” इति । [नि-454. सर्वात्मना स्वमात्मानं यश्च जानाति केवलम् । सर्वज्ञः स तु विज्ञेयः सप्तार्मो ज्ञानदो मनुः ।।]
48.455 ज्ञानम् उत्तमम्
*455 ज्ञायते अस्मिन् सर्वः परो वैष्णवो धर्मः इति ज्ञानमुत्तमम् । “पठन्तम् अनिशं शास्त्रं पंचरात्र-पुरस्सरम् । ” इति ।। [नि-455. परश्च वैष्मवो धर्मः सर्वोऽस्मिन् ज्ञायते यतः । सर्वेषां श्रेयसां मूलं तत् ज्ञानं ज्ञेयम् उत्तमम् । ] सुव्रतः सुमुखः सुक्ष्मः सुघोषः सुखदः सुहृत् । मनोहरो जितक्रोधो वीरबाहुर्विदारणः ।। 49 ।।
49.456 सुव्रतः
*456 “न मे पार्थ! अस्ति कर्तव्यम् ” (गीता 3.22) इति न्याय्न केवलपरार्थत्वात्, शोभनं व्रतम् अस्य इति सुव्रतः । “एकपादेन तिष्ठन्तम् आहरन्तं च मारुतम् । पक्षमासोपवासाश्च दिशन्तम् अनुचिन्तयेत् ।।” इति ।। [नि-456. भक्तार्थ व्रतवान् येऽसो सुव्रतः स प्रकीर्तितः ।]
49.457 सुमुखः
*457 जपादौ अविकृत-प्रसन्न-मनोहर-मुखत्वात् सुमुखः । “ओंकार लक्षणं मन्त्रं जपन् आन्तरलक्षितम्” इति । “कृष्णाय कमलदल-अमल-नेत्राय” इति तन्मन्त्रवर्णः ।। [नि-457. ध्यातृणां सुप्रसन्नं यत् मुखं स सुमुखः स्मृतः । ]
49.458 सूक्ष्मः
*458 “सूचेः स्मन्”। (उणा.पा.-4.178) “सर्वे ब्रह्मपरायणाः” इति ।। [नि-458. सूक्ष्मो दुस्साध-योगैक-लक्ष्य-सूक्ष्म-स्वरूपतः । असुरेषु अथवा गूढाभिप्रायः सूक्ष्म उच्यते ।।]
49.459 सुघोषः
*459 ओपनिषदः स्नवाध्याय-घोषः अस्य इति सुघोषः ।। [नि-459. स्वाद्याय-गोषो यस्यास्ति सुधोष स तु कीर्तितः ।]
49.460 सुखदः
*460 एवं सदातार-समाधि-अनुष्ठापनेन तन्निष्ठेभ्यः फलं परममुकं ददाति इति सुखदः ।। [नि-460. समाध्यनुष्टापनेन तदनुष्ठान-शालिनाम् । सुखं बहु ददातीति सुखदः परुकीर्तितः ।। ]
49.461 सुहृत्
*461 कुतः इदं परोपकार-व्यसनित्वम्? यतः सुहृत् । अनुपकारिणि अपि किमस्य भविष्यति ? किं कर वाणि इति शुभास्सि-सोबन-हृदयत्वं सुहृत्त्व्म ।। [नि-461. किमस्मिन् करवाणि इति अपकारिण्यापि शोभनम् । यस्यास्ति हृदयं सोऽयं सुहृत् इत्यभिधीयते ।।]
49.462 मनोहरः
*462 एवं निसर्ग-सौहार्दैन तेषां मनो हरयतीति मनेहरः । “हरतेः अनुद्यमने अच्” ।। (अष्टा.-3.2.9) [नि-462. एवं निसर्ग-सौहार्दात् तेषां हृदय-हारकः । मनोहरः समाख्यातो हि अष्टार्णः शान्तिदायकः ।। ]
49.463 जितक्रोधः
*463 जिताश्च क्रोधादयः अनेन इति जितक्रोधः ।। [नि-463. रक्षसां देवविषये येन क्रोधो विनिर्जितः । स जितक्रोधः आक्यातः हि अष्टार्णः क्रोधनाशकः ।।]
49.464 वीरबाहुः
*464 स्फुरत्कटक-केयूरमाला-मथनखेला-अहमहमिका-व्यतीहार-विक्रान्त-बाहवः सहस्रम् अस्येति वीरबाहुः ।। [नि-464. विक्रान्त बाहवो यस्य वीरबाहुस्तु स स्मृतः ।]
49.465 विदारणः
*465 दिव्यहेतिभिः राहुमुखान् विदारितवान् इति विदारणः । “समग्रोग्र-भयविदारमाय” इति मन्त्रवर्णात ।। [नि-465. आयुधैः दारुणैः दिव्यैः दारणाच्च विदारणः ।] स्वापनः स्ववशो व्थपी नैकात्मा नैककर्मकृत् । वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ।। 47 ।।
50.466 स्वापनः
*466 नष्टशिष्टानपि तारु-चतुर स्मित-मधुरकटाक्ष-भ्रूविलासैः स्वापयति-परवशयतीति स्वापनः ।
50.467 स्ववशः
*467 तेषु सुप्तेषु स्वकीयैः सह स्वैरविहारात् स्ववशः । “सर्वेश्वराय” इति तन्मन्त्रे ।। [नि-467. स्वकीयैः सह सुप्तेषु स्वैरविहारवान् । भवति स्ववशः सोऽन्यान् आधीनत्वप्रदो मनुः ।।]
50.468 व्यापी
*468 सुरासुर-मन्दर-वासुकि-प्रभृतिषु शक्त्या आप्यायनाय व्यापनात् व्यापी ।। [नि-468. देवरक्षो मन्दरेषु वासुकि-प्रभृतिष्वपि । आप्यायनाय शक्त्या च व्यापी स्यात् व्यापनादसौ ।।]
50.469 नैकात्मा
*469 तदातनैः ब्राह्म-कौर्म-मोहिनी-मुखैः रूपैः नेकात्मा । [नि-469. तदातनैः ब्राह्मकौर्म मोहिन्याद्यवतारकैः । नैकात्मा इति श्रुतः सम्यक् मन्यर्णो मनुरूपदः ।।]
50.470 नैककर्मकृत्
*470 मथन-धारण-वैरिविदारण-सुधादानाग्यनेक-कर्मा नैककर्म-कृत् ।। [नि-470. समुद्रमथनेऽनेककर्मकृत् नैककर्मकृत् ।]
50.471 वत्सरः
*471 अथ धर्मात्मा । पुरुषार्थ-व्यवस्थापनाय सर्वान्तः वसतीति वत्सरः । “वसेश्च” (उणा.पा.-3.71) इति ‘सरन्’ प्रत्ययः । “सर्वान्तस्चारिमे धर्मात्मने” इति हि तन्मन्त्रवर्णः ।। [नि-471. पुरुषार्थस्थापनाय सर्वान्तर्वसनाच्च यः । धर्मात्मा वत्सरः स स्यात् मुन्यर्मेऽभीष्टदो मनुः ।।]
50.472 वत्सलः
*472 तत्र हेतुः वत्सलः-नत्सान् स्वोत्सुकान् कामयते इति । “वत्सांसाभ्यांकामवले” इति ‘लच्’ प्रत्ययः । सहि चिरं परुचीयमानेष्वपि शरणागतेषु कस्यापि हेतोः सद्यः प्रसूतेष्विव वत्सेषु सहुंकाराः सपयः-संस्नव-स्तन- वेदनाः कींकर्तव्यताकुला धेनव इव संभ्राभ्यति इति रावणेऽपि प्रसिद्धम् । (अष्टा5.2.98) “विदितः स हि घर्मज्ञः शरमागतवत्सलः” इति । तच्छील भगवदुपकरणत्वात् हि प्रसिद्धस्यापि धर्मस्य ताच्छील्यम् ।। (राम.सु.20.20) [नि-472. सर्वस्यान्तर्निवसने तस्य हेतुरथोच्यते । वत्से यतो धेनुरिव वत्सलः शरणागते ।।]
50.473 वत्सी
*473 एवं नित्यपोष्य-आत्मवर्ग-भूयस्तबात् वत्सी । “अत इनिठनौ” इति भूमनित्ययोगयोः इति ।। (अष्टा.-5.2.115) [नि-473. नित्यपोष्य-आतेमवर्गाख्य-वत्सभूयस्तवतः सदा । वत्सी सायद्धि विशेषेण पडर्णो गौप्रदो मनुः ।।]
50.474 रत्नगर्भः
*474 तेषु धनायद्भ्यः प्रदेय-धनाधिक्यात् रत्नगर्भः । यथा- “कामार्थौ उद्वहन्तं च श्खचक्रच्छलेन तु” इति ।। रत्नगर्भः समाख्यातः हि अष्टवर्णो धनदो मनुः ।।]
50.475 धनेश्वरः
*475 तत्तादिष्ट-धनदाने आशुकारित्वात् धनेश्वरः । “आशुकर्मणि ह्यश्नोतेः” ‘वरट्’ ।। (उणा.पा.-5.58) [नि-475. तत्तदिष्ट-द्रव्यदाने शीघ्रकारी धनेश्वरः] धर्मगुप् धर्मकृत् धर्मी सदक्षरम् असत् क्षरम् । अविज्ञाता सहस्रांशुः विधाता कृतलक्षणः ।। 51 ।।
51.476 धर्मगुप्
*476 दत्तावपि अर्थकामौ दुर्विषयात् निवर्त्यं ताभ्यां हितधर्म-रक्षणात् धर्मगुप् । “साधुमार्गे स्थितानां च संयच्चन्तं धिया च तो” इति ।। [नि-476. कामं दत्वाऽप्यर्थकामौ निवर्त्य विषयान्तरात् । ताभ्यां हितस्य धर्मस्य रक्षणात् धर्मगुप् स्मृतः ।।]
51.477 धर्मकृत्
*477 एवं सर्वान् धार्मिकयन् अकारणात् अनुग्रह हेतुं धर्मं करोति इति धर्मक़त् ।। “धर्म सामान्यम् अमलमतादिनिधनं विभूम् । दुर्लभं यत् प्रबुद्धानां तत्प्रसादधिया विना ।। ” इति । [नि-477. सर्वं जनं धार्मिकयन् लीलानुग्रहलक्षणम् । धर्मं करोति यस्माद्धि तस्मात् धर्मकृत् उच्यते ।।]
51.478 धर्मी
*478 प्रसिद्धोऽपि धर्मः अस्य सर्वसाधारणम् उपकरणम् इति धर्मी ।। [नि-478. साधारमोपकरणं धर्मो यस्यास्ति केवलम् । स वै धर्मीति विज्ञेयः षडर्णो धर्मदो मनुः ।।]
51.479 सत्
*479 उक्तदर्मप्रशस्तत्वात् सत् । “प्रसस्ते कर्मणि तथा सच्छब्दः पार्थ! युज्यते” इति । (गीता 17.26) तस्य च प्रशस्त्यं साध्यस्य भगवतः सत्वात् । तस्य च सत्वं विरुपाधिकात् सद्भावात् साद्गुण्याच्च । “सद्भावे साधुभावे च सदित्येतत् प्रयुज्यते” इति ।। (गीता 17.26) [नि-479. निरुपाधिकसद्भावात् नित्यसाद्गिण्ययोगतः । सच्छब्देन उच्यते विष्णुः वेदवेदान्तपारगैः ।।]
51.480 अक्षरसत्
*480 एवं नित्य-निरुपाधिक-सद्भाव-साद्गुण्याभ्यां सत् । अक्षरम् अस्य च विशेषणम् । क्षरं हि क्वचित् देशे काले वा व्याहन्यते । ताद्रूप्यं यथा — “अपक्षयविनाशाभ्यां परिणामर्धि-जन्मभिः । वर्जितः शक्यते वक्तुं यः सदाऽस्तीति केवलम्” ।। इति ।। (वि.पु.1.2.11) एतदेव हि श्रूयते – “सदेव सोम्य! इदमग्र आसीत्” इति ।। (छा.-6.2.1) [नि-480. अपक्षयविनाशादि-वर्जितो अक्षर उच्यते । ततोऽक्षरसत् इति एवमेकनाम च शस्यते ।।]
51.481 असत्
*481 अप्रशस्त-पाप-प्रसक्तेषु असत् क्षरं च असतां नित्यनिरवधिक भवदुरित प्रदत्वात् । आम्नातं हीदं द्वयम् — “एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्यः उन्निनीषति, एष एवासाधु कर्म कारयति तं यमधो निनीषति” (कौषी.-3.65) “असच्च सच्चैव च यद्विश्वं सदसतः परमं” इति ।। [नि-481. असतां यः सदाऽनन्तबवाख्याधप्रदानतः ।]
51.482 असत्क्षरम्
*482 असत् इत्युच्यते सद्भिः ।। [नि-482. तादृक्क्षरम् असत्क्षरम् ।।]
51.483 अविज्ञाता
*483 तत्र साधुषु अपराधान् अनन्तानपि दृष्ट्वा न दण्डयति, क्षमते च इति नैतावदेव, किन्तु तेषाम् अविज्ञाता– “उच्यमानोऽपि परुषं नोत्तरं प्रतिपद्यते” इतिवत् । प्रपन्नापराध-अपरिगणनं तु गुण एव । अतो हि तातपादाः- (राम.अ.1.10) “सर्वज्ञताम् एवम् उपालभामहे त्वं हि अज्ञ एव आश्रितदोषजोषणः” इति । (श्री.कूरेशः) ये पुनः ज्ञप्रिमात्रत्वात् सर्वज्ञस्य सर्वथा अज्ञत्वपरं व्याचक्षते, ते श्रुत्याचार्यसेवा, औचित्यन्यायबधिराः शोच्याः, न निरसनार्हाः ।। [नि-483. प्रपन्नकृतपापानां किंचिदप्यविचारणात् । अविज्ञाता इति कथितः बुधैः तद्गुणपारगैः ।।]
51.484 सहस्रांशुः
*484 अथ च सर्वज्ञः सहस्रांसुः सहस्रम्– अपरिमिताः, अंशवो ज्ञानानि अस्य इति । ननु आश्रीतापराध-व्यतिरिक्त-सर्वज्ञ इति विप्रतिषिद्धम्; न, तदपराधेषु अतात् पर्येण उपेक्षा हि अज्ञाने विवक्षिता । उपेक्षते हि तेषां दोषम्– “दोषो यद्यपि तस्य स्यात्” इति । (राम.यु. 28.3) “अपि चेत्सुदुराचारो भजते मामनन्यभाक्” इति ।। (गीता. 9.30) [नि-484. असवो बुद्धयः प्रोक्ताः सहस्रं सन्ति यस्य ते । सहस्रांशुः इति ख्यातः हि अष्टार्मो धीप्रदो मनुः ।।]
51.485 विधाता
*485 न च एवं पापफल-नियत-तन्नियामक-यम-तद्यातनादयो भगवत्क्षमायामपि कृतापराधं बाधेरन्, तेषामपि तदधीनत्वात् इत्यभिप्रेत्याह- विधाता । आह हि यम एव– “अहम् अमरवरार्जितेन धात्रा सम इति लोकहिताहिते नियुक्तः” (वि.पु.3.7.15) अत्र ब्राह्म-वैष्णव-वामन-नारसिंह-लैंग-वैष्णवधर्म-श्रीविष्णुतत्त्व-भागवत- प्रभृतिषु यं-किंकर-संवादः सर्वो द्रष्टव्यः ।। [नि-485. तादधीन्यात् यमादीनां विधाता इत्युच्यते बुधैः ।]
51.486 कृतलक्षणः
*486 यदि एष दोषसह; किं तर्हि हेयात् वर्गात् उपादेयस्य व्यावर्तकम्? तत्राह- कृतलक्षणः । कृतं हि तेन लक्षणम् उपादेयानाम् — “मित्रबावेन संप्राप्रम्” (राम.यु. 18.3) “सम्यग्व्ववसितो हि सः” इति । (गीता 9.30) स्वाभिमुक्यमात्रम् । श्रीहरिवंशे– “चक्रां किताः प्रवेष्टव्याः यावदागमनं मम । नामद्रिता- प्रवेष्टव्याः यावदागमनं मम ।। ” (हरिवंश) श्रीविष्णुधर्मे– “भवतां भ्रामतामत्र विष्णुसंश्रयमुद्राया । विनाऽऽज्ञभंगकृन्नैव भविष्यति नरः क्वचित् ।।” (वि.ध.) श्रीविष्णुतत्त्वे– इत्येवं वा वैष्णवलक्षणम्; अन्यत् हेयलक्षणम् । अतो न वैषम्यनैर्घृण्यादि-दोषप्रसक्तिः ।। [नि-486. कृतं हि लांछनं येन स्वोपादेयोषु जन्तुषु । परमात्मा हृषीकेशः स तु स्यात् कृतलक्षणः ।।] गभस्तिनेमिः सत्तवस्थः सिंहो भूतमहेश्वरः । आदिदेवो महादेवो देवेशो देवभृत् गुरुः ।।
52.487 गभस्तिनेमिः
*487 एवं कृतलक्षणाः यम-तत्किंकराणाम् अप्रधृष्याः, यतः तद्रक्षकोऽयं गभसितुनेमिः भास्वर-सहस्रार-चक्रः । गभस्तिः दीप्यते ज्योतिर्मयं नेमिलक्षितं चक्रं यस्य इति । यथा– “वसति मनसि यस्य सोऽव्यमात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिः अथवा ममास्ति चक्र- प्रतिहत-वीर्यबलस्य सोऽन्यलोक्यः ।। ” इति ।। (वि.पु.3.7.35) [नि-487. ज्योतिर्विशिष्ट नेम्योपलक्षितं यस्य तूत्तमम् । चक्रं गभस्तिनेमिः स नवार्णः पापनाशकः ।।]
52.488 सत्त्वस्थः
*488 किं च कर्मणो न्मित्तस्य अभावाच्च यमाद्यप्रधृष्याः । कृतस्तदभावः ? यस्मात् एषः तेषां सत्त्वस्थः ।। “सुपि स्थः” (अष्टा.-3.2.4) इति कः । हृदये स्थितः । “हृदि यदि भगवान् अनादिरास्ते हरिरपि चक्रगदाधरोऽव्ययात्मा । तदघम् अघविघात-कर्तृभिन्नं भवति कथं सति चान्धकारम् अर्के ।।” (वि.पु.2.2.25) “स्फटिकमणि -शिलामलः क्व विष्णुः । मनसि नृणां क्व मत्सरादिदोषः ।।” इत्यादि । (वि.पु.3.7.22) तथा श्रीविष्णुधर्मे– “किंकरा दण्डपाशौ वा न यमो न च यातनाः । समर्थाः तस्य यस्यात्मा केशवालंबनः सदा ।।” (वि.पु.2.2.28) श्रीवामने प्रह्लादः– “तताऽन्यदुक्तं नरसत्तमेन इक्ष्वाकुणां भक्तियुतेन नूनम् ये विष्णुभक्ताः पुरुषाः पृथिव्यां यमस्य ते निर्विषया भवन्ति ।। ” इति ।। (वामनं) [नि-488. सत्त्वे स्थितत्वात् स सत्त्वस्थः समुदीरितः ।।]
52.489 सिंहः
*489 यदिदमे अविदन्तो यमादयः तान् प्राकृतवत् धर्षयेयुः तान् हुनस्तीति सिंहः । यता– “प्रभवति संयमने ममापि विष्णुः” इति । (वि.पु.3.7.15) अतश्च छैगे मार्कण्डेयः — “वासुदेवपरं दृष्ट्वा वैष्णवं दग्धकिल्बिशम् । देवा विभीताः स्यन्ति प्रणिपत्य यथागतम् ।। दृष्ट्वा यमोऽपि वै भक्तं वैष्णवं दग्धकिल्बिषम् । तस्मात् सपूजयेत् भक्त्या वैष्णवान् विष्णुवत् नरः । स याति विष्णुसायुज्यं नात्र कार्या विचारणा ।।” तत्रैव कौशिकोपाख्याने भगवद्गायकान्, (लैंग,पु) “कौशिकादीस्तता दृष्ट्वा ब्रह्मा लोकपितामहः । प्रत्युद्गम्य यथान्यायं स्वागतेनाभ्यपूजयत् ।।” (लैंग पु.) इति उपक्रम्य प्रस्तुतं यथेष्टं द्रष्टव्यम् । श्रीविष्णुतत्त्वे नरकप्रस्तावे- “हरिपादप्रपन्नानां दूरिभूताः स्वभावतः । तेषां तु सर्वभूतानां हरुरेव पतुर्यतः ।। वैष्णवेभ्योऽपि बिभ्यन्ति देवा नरकरक्षकाः । अवमानक्रिया तेषां संहरत्यखिलं जगत् ।। कालेन एतावता तेषु नरकेषु हि कश्चिन । न दृश्यते महावीर्यप्रबावात् परमेष्टिनः ।। ” इति । (वि.त.) श्रीविष्णुधर्मे- “नरके पच्यमानस्तु यमेन परिबाषितः । किं त्वया नार्चितो देवः केशवः क्लोशनाशनः ।।” इत्यादि ।। (वि.ध.) [नि-489. हरिभक्तान् अविज्ञाय दम्डे प्रवणमानसान् । हिनस्ति च यमादीन् यः स सिंहः परुकीर्तितः ।।]
52.490 भूतमहेश्वरः
*490 यथोक्ते समर्थः यस्मात् भूतमहेश्वरः । भूतेश्वराणां ब्रह्मा-यमादीनामपि नियन्ता ।। [नि-490. भूतेश्वराणां स ब्रह्मयमादीनां नियन्त्रणात् । कारणं जगतां यश्च स स्यात् भूतमहेश्वरः ।। ]
52.491 आदिदेवः
*491 तेषामपि कारमं तदमिव-पटुप्रभावश्च आदिदेवः- आदिः द्योतमानश्च इति । “भीषा।स्मात् वातः पवते” इत्यादि ।। (ते.आनं.8.1) [नि-491. आदिदेवो हि भवति ब्रह्मादिभ्यो विशेषतः ।]
52.492 महादेवः
52.493 देवेशः
*492 तैः क्रीडनकैः कन्दुकादिभिरिव क्रीडति इति महादेवः ।। [नि-492. ब्रह्मादिभिः क्रीडति यो महादेवः स उच्यते ।।]
52.494 देवभृत्
*493 तेषां स्वामी च देवोशः ।। [नि-493. ब्रह्मादिनां च देवेशो यथार्हविनियोजकः ।]
52.494 *494 तेषां यतार्ह-विनियोगक्षमः तान् बिभर्ति इति देवभृत् ।। [नि-494. ब्रह्मशक्रयमादीनां भरणात् देवभृत् स्मृतः । ]
52.495 गुरुः
*495 तेषां वेदैः स्वस्वाधिकार-बोधनात् गुरुः । “यो वै वेदांश्च प्रहिणोति तस्मै”, (श्वे.-6.18) “हरि-गुरु-वशगोस्मि” इत्यादि ; (वि.पु.3.7.15) इदं गुरुत्वं हयशिरोख्याने पिरसिद्धम् । (योग.सू.1.1.7) “जग्राह वेदात् अखिलान् रसातलगतान् हरिः । प्रादाच्चं ब्रह्मणे राजन् ! ततः स्वां प्रकृतिं गतः ।।” इति । “रसातलात् योन पुरा समाहताः समस्तवेदाः” इत्यादौ च ।। (वि.ध.43.36) [नि-495. ब्रह्मेन्द्रवरुमादिनां गुरुः वेदोपदेशनात् ।।] उत्तरो गेपतिर्गोप्ता ज्ञानगम्यः पुरातनः । शरीरभूतभृत् भोक्ता कपीन्द्रो भूरिदक्षिणः ।। 53 ।।
53.496 उत्तरः
*496 एवं ब्रह्मादेः असुरापदुत्तारणात् उत्तरः । “एवं स्तुतः स भगवान् पुरुषः सर्वतेमुखः । जहौ निद्रामथ तदा देवकार्यार्थम् उद्यतः ।।” (भार.सा.348.47) इति च उत्तरः ।। [नि-496. आपदुत्तारणात् योऽसौ ब्रह्मादेः उत्तरः स्मृतः ।]
53.497 गोपतिः
*497 अशेषच्छन्दोभीषवाङ्निर्वाहकः गोपतिः । “वाक्पतये” इति तन्मन्त्रवर्णे ।। (मंत्र) [नि-497. छन्दोभाषावेदवाचां निर्वाहात् गोपतिः स्मृतः]
53.498 गोप्ता
*498 एवं सर्वविद्यापालनात् गोप्ता । “सर्वविद्येश्वराय” इति तन्मन्त्रवर्णः ।। (मंत्र) [नि-498. पालनात् सर्वविद्यानां गोप्ता इति परिकीर्तितः । ]
53.499 ज्ञानगम्यः
*499 परविद्यावेद्यः समाधिगम्य ज्ञानगम्य “पोरदुपाधात्” इति यत्प्रत्ययः । (अष्टा.-3.1.98) “वरवाजिमुखं ध्यायेत् अथ वागीश्वरं प्रभुम्” इति ।। [नि-499. परया विद्या वोद्यो ज्ञानगम्यः इति स्मृतः ।।]
53.500 पुरातनः
*500 नेदं विद्याप्रदेयोतनम् अद्यैव, किं तु प्रतिकल्पम् इति पुरातनः । “सायं चिरम्” इत्यादिना ट्युट्युलौ तुडागमश्च ।। (अष्टा.-43.23) [नि-500. विद्याप्रद्योतनात् योऽसौ प्रतिकल्पं पुरातनः ।] इति श्रीहरितकुलतुलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराज-दिव्याज्ञा-लब्ध-श्रीपराशरभट्ट-अपरनामधेयस्य श्रीरेगनाथस्य कृतौ श्रीविष्णुसहस्रनामविवरणे श्रीभगवद्गुणदर्पणे पञ्चमं शतकम् समाप्तम् ।।
…Continued