श्री भगवद् गुण दर्पण: 601-700
63.601 वृषभाक्षः
*601 सप्तम-शतक-प्रारंभः तच्च धर्मद्वारेण इति वृषभाक्षः । फलवर्षी वृषभो धर्मः, सः अक्षः- संसार चक्राधारो यस्मात् ।। [नि-601. यतोऽक्षो वृषभो धर्मो वृषभाक्षः स उच्यते ।।]
63.602 वृषप्रियः
*602 एवं प्रवर्तकनिवर्तकधमाँ प्रियो अस्येति वृषप्रियः । तत्प्रियत्वेन हि द्वैधानां कर्मणां धर्मत्वम् । तत्प्रियत्वख्यापनमेव च विध्यर्थः । इदं च “फलमत उपपत्तेः” इत्यत्रन्यरूपि । (बृ.सू.3.2.37) तथा च द्रमिडाचार्याः– “फलसंबिभत्सया हि कर्मभिरात्मानं पिप्रीषन्ति, स प्रीतोऽलं फलाय इति हि शास्त्रे मर्यादा” इति । अतः कर्मतत्संस्कार-शक्त्यपूर्व-भावनाविधिपक्षा उपेक्ष्याः । (द्रमिडाचार्याः) [नि-602. धर्मौ प्रियो तावस्येति प्रवर्तकनिवर्तको । अनिर्वर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः । श्रीवत्सवक्षाः श्रीवासः श्रापतिः श्रीमतां वराः ।। 64 ।।
64.603 अनिवर्ती
*603 तत्र प्रवृत्तिकर्मरतान् धूमादि-पितृयाण-पुनरावृत्त्यां संसारात् न निवर्तय तीति अनिवर्ती । ग्रहादित्वात् णिनिः । एवं कामी (659) इत्यादयः । अतौ हि संसार- अनुच्छेदः । यथा “घूमो रात्रिस्तथा कृष्णाः षण्मासा दक्षिणायनम् । तत्र तान्द्रमसं ज्योतिः थोगी प्राप्य निवर्तते ।।” (गीता 8.25) “कृतात्ययेऽनुशयवान्” इत्यादौ च एतत् व्यचारि ।। (ब्र.सू.3.1.8) [नि-603. पितृयाणप्रवृत्तानां संसारादनिवर्तनात् । अनिवर्ती समाख्यातो हि अष्टार्णोभयदो मनुः ।।]
64.604 निवृत्तात्मा
*604 ततो निवृत्ताः-निवृत्ति-धर्माणोऽपि आत्मानोऽस्येति निवृत्तात्मा ।। [नि-604. सर्वो निवृत्तिधर्माणो यस्यात्मानः स तु स्मृतः । निवृत्तात्मा इत्यष्टवर्णों दृष्कर्मफलमोचकः ।।]
64.605 संक्षेप्ता
*605 तत्र प्रवृत्तान् संकुचित-स्वभाविक-ज्ञानप्रभावान् कर्तुं शीलंसस्योति संक्षेप्ता । यथा– “यथा क्षेत्रज्ञ-शक्तिः सा वेष्टिता नृप! सर्वगा” इत्यादौ । (वि.पु.6.7.62) [नि-605. स्वाभाविकासंकुचितमेदाया अप्रसारणम् । प्रवृत्तिधर्मणां कर्तु शीलं यस्यास्ति सर्वदा । स संक्षेप्ता इति कथितः षडर्णो धीविकासदः ।। ]
64.606 क्षेमकृत्
*606 निवृत्तानां तत्संकोचन-विमोचनं क्षेमं करोति इति क्षेमकृत् । [नि-606. असंकोचज्ञान रूपक्षेमस्य करणात् सताम् । क्षेमकृच्चापि सर्वेषाम् ।।]
64.607 शिवः
*607 एवं सर्व-बुभुक्षु-मुमुक्षु-शुवंकरत्वात् शिवः । यथा– “संसारमोक्षस्थितिबन्धहेतुः ।” “पितृलोके राज्यमनुशास्ति देवः”, “शिवः शिवानाम् अशिवोऽशिवानाम्” इति ।। (भार.उ.41.6) अथ शिवत्वोपपादकानि । [नि-607. शिवस्य करणात् शिवः ।।]
64.608 श्रीवत्सवक्षाः
*608 ईशितव्यात् विभाजक-लक्ष्मीवाल्लभ्य-सौभाग्यचिह्नं श्रीवत्स अस्य वक्षसि इति श्रीवत्सवक्षाः । “श्रीवत्सवक्षाः” इति ।। (राम.यु.114.15) [नि-608. लक्ष्मीवाल्लभ्य सौभाग्य-चिह्नं-श्रीवत्सनामकम् । श्रिवत्सवक्षा अस्यास्ति वक्षसीति स तु स्मृतः ।।]
64.609 श्रीवासः
*609 “नित्यश्रीः” (राम.114.15) इत्यनेन यत् सूच्यते तदुच्यते-श्रीवासः- श्रियो नित्य-स्वैरविहार-कल्पद्रुमोद्यानम् ।।
64.610 श्रीपतिः
*610 “तुल्यशीलवयोवृत्ताम्” (राम.सु.16.5) इतिवत् तस्याः समुचितो नित्य-स्वयं वरपतिः श्रीपतिः । यथा– “ह्रीश्च ते लक्ष्मीस्च पत्न्यौ” (तै.ना) “अस्येसाना जगतो विष्णुपत्नी” ।। (श्रीसू.) [नि-610. स्वयं श्रिया पतित्वेन वृतत्वात् श्रीपतिः स्मृतः ।।]
64.611 श्रीमतां वरः
*611 तस्याः सादर-पूर्णनिर्वर्णन-नित्यपात्रं भगवान्, ब्रह्मादयस्तु तन्नान्तरीयक- कटाक्षशीकर-क्षणलक्ष्यम् । यथा- “शुक्लमाल्यांबरधरा स्नाता भूषणभूषिता । (दिव्यमाल्य-पा.) पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः ।।” (वि.पु.1.9.106,107) तयाऽवलोकिता देवा हरिवक्षःस्थलस्थया । लक्ष्म्या मैत्रेय! सहसा परां निर्वृतिमागताः” इति । तस्मात् श्रीमतां वरः ।। [नि-611. देवानां श्रीमतां श्रेष्ठः श्रीमतां वर उच्यते ।। ] श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः । श्रीधरः श्रीकरः श्रेयः-श्रीमान् लोकत्रयाश्रयः ।। 65 ।।
65.612 श्रीदः
*612 नित्यनूतन-निर्व्याजप्रणयरस-श्रियं तस्यै ददातीति श्रीदः । तस्याः जीवातुः इत्यर्थः । तच्छ्रयणेन हि सा श्रीः निरुच्यते । “न च सीता त्वया हीना न चाहमपि राघव! । मुहूर्तमपि जीवावः जलात् मत्स्याविव उद्धृतौ ।।” (राम.अ.53.31) इति हि तस्याः प्रकृतिः । “विष्णोरेषा अनपायिनी”, (वि.पु.1.9.144) “अनन्या हि मया सीता भास्करेण प्रभा यथा ।” (राम.यु.121.19) “अनन्या राघवेणाहम्” इति च । (राम.सु.21.15) [नि-612. योऽसौ श्रियै स्वप्रणयरसदः श्रीश इरितः ।।]
65.613 श्रीशः
*613 “श्रियः श्रीश्च भवेदग्र्या” इति (राम.अ.44.15) तस्या अपि तथात्वनिदानत्वात् श्रीशः । यद्वा श्रीरेव अस्यापि इशा-सर्वावस्था-व्यवस्थापिका इति श्रौशः । “आदावात्मगुणत्वेन भोग्यरूपेण विग्रहे । आधारकस्वरूपेण दासीभावेन वा सदा ।।” “पुंप्रधानेश्वरी” इति हि तस्या नाम ।। (सन.सं.113) [नि-613. श्रीशः स श्रिय ईशत्वात् ईशा श्रीरस्येति वा ।।]
65.614 श्रीनिवासः
*614 दिव्यवल्ल्या इव कल्पद्रुमः तस्याः नित्यौपघ्रः श्रीनिवासः । [नि-614. नित्योपघ्रनिवासत्वात् श्रीनिवासः श्रियः स्मृतः ।।]
65.615 श्रीनिधिः
*615 रत्नमञ्जरी इव मञ्जूषायां श्रीः अस्मिन् निहिता इति श्रीनिधिः ।। [नि-615. श्रीरस्मिन् निहिता नित्यं श्रीनिधिः परिकीर्तितः ।।]
65.616 श्रीविभावनः
*616 “अप्रमेयं हि तत्तेजः यस्य सा जनकात्मजा” इतिवत् ।। (राम.आ.37.18) [नि-616. श्रीप्रख्योपाख्ययोर्हेतुः यस्य स श्रीविभावनः ।।]
65.617 श्रीधरः
*617 तां रत्नमिव अर्चिषं पुष्पमिव सुरभिम् इन्दुरिव चन्द्रिकाम् अमृतमिव स्वादुताम् औत्पत्तिकेन संबन्धेन धरतीति श्रीधरः । “न हि हातुम्यं शक्या कीर्तिरात्मवतो यता ।” इति ।। (राम अ.3.29) [नि-617. रुच्यर्चिः कौमुदीगन्धान् निसर्गात् धरति श्रियम् । सुधारत्नेन्दुपुष्पाणि यथाऽसौ श्रीधरः ततः ।।]
65.618 श्रीकरः
*618 तां परत्वे इव व्यूहावतारादिष्वपि स्वानुरूपां करोति इति श्रीकरः । “कृञो हेतुतच्छील्यानुलोम्येषु” इत्यानुलोम्ये टः । (अष्टा.-3.2.20) । एवं तीर्थकरः (696) इत्यादि । यथा– “देवत्वे देवदेहेयम्” इत्यादि ।। (वि.पु.1.9.145) [नि-618. व्यूहदिष्ववतारेषु स्वानुरूपां करोति ताम् । श्रियं योऽसौ श्रीकरः स्यात् मुन्यर्णः श्रीकरो मनुः ।।]
65.619 श्रेयःश्रीमान्
*619 श्रेयसे-सर्वपुरुषार्थाय श्रयणीया श्रीः श्रेयःश्रीः ।। सा अस्य नित्ययोगिनी इति श्रेयःश्रीमान् । यथा- “प्रणिपातप्रसन्ना हि मैथिली जनकात्मजा । अलमेषा परित्रातुं राक्षस्यो महतो भयात् ।।” (राम.सु.58.92) “शरीरारोग्यमैश्वर्यम् अरिपक्षक्षयः सुखम् ।” (वि.पु.1.9.125) “विमुक्तिफलदायिनी” (वि.पु.1.9.120) “यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम्” (श्रीसूक्तं-2) “श्रियं लोके देवजुष्टामुदाराम्” इति हि श्रियो निर्देशः । (श्रीसूक्तं-5) [नि-619. श्रेयसे श्रयणीया श्रीः श्रेयःश्रीः नित्ययोगिनी । श्रेयः श्रीमान् असौ अस्य वस्वर्णः पुरुषार्थदः ।।]
65.620 लोकत्रयाश्रयः
*620 सह तया जगन्मात्रा पितृवत् सर्वाश्रयो लेकत्रयाश्रयः । यथा- “त्वं माता सर्वलोकानां देवदेवो हरिः पिता” इति ।। (वि.पु.1.9.126) [नि-620. श्रिया सह जगन्मात्रा पितृवत् सकलाश्रयः । लोकत्रयाश्रयः स स्यात् दशरणो रक्षकत्वदः ।।] त्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः । विजितात्मा पिधेयात्मा सत्कीर्तिः छिन्नसंशयः ।। 66 ।।
66.621 स्वक्षः
*621 तत्सौन्दर्य-सुधोदधि-पारीण-दिव्यतरणःस्वक्षः ।। [नि-621. श्रीसौन्दर्य-सुधासिन्धु-पारीणकारणो हि यः ।]
66.622 स्वङ्गः
*622 अस्या अपि स्पृहणीय-दिव्यदेहः स्वङ्गः ।। [नि-622. स्वक्षः श्रीस्पृहणीयाङ्गः स्वह्गः इत्येष उच्यते ।।]
66.623 शतानन्दः
*623 परस्परप्रणय-प्रवहद्-अपरिमीतानन्दः शतानन्दः ।। शतानन्दः स विज्ञेयो दंपत्यानन्ददो मनुः ।।]
66.624 नन्दिः
*624 एवं सर्वदा सर्वत्र सर्वथा च अनया समृद्ध्यतीति नन्दिः । “इन्, सर्वधातुभ्यः ।।” (उणा.पा.-4.119) [नि-624. सर्वत्र सर्वथा नन्दिः श्रिया ऋद्ध््यति सर्वदा ।।]
66.625 ज्योतिर्गणेश्वरः
*625 उभयानुकूल-उज्जवल-शेषशेषाशनादि-नित्य परुचारकगण-परिचरणीयत्वात् ज्योति गैणेश्वरः । ज्योतिः शब्दो हि “मरीचीनां पदमिच्छन्ति वेधसः” (पु.सू.) “साध्याः सन्ति देवाः” इति (पु.सू.18) सदा द्योतमान-सूरिपरिकर-वाचकः ।। एवं परत्वं च काष्ठा ।। अथ शोशील्य-परमावधिः गुह्यतमः ।। [नि-625. नित्यसूरिगणानां य ईशो ज्योतिर्गणेश्वरः ।।]
66.626 विजितात्मा
*626 लक्ष्मी-कमनीयत्व-संपदुच्छंखृलमपि मनोऽस्य प्रणम्रैः प्रवणीकृतमिति विजितात्मा ।। [नि-626. सौशील्यस्य गुणस्याथ परमावधिवर्णनम् । विजितात्मा जितं यस्य मानसं प्रणतैश्च सः ।।]
66.627 विधेयात्मा
*627 तेषां विधेयं हि ‘इहागच्छ’ इह तिष्ठ इहाऽऽस्स्व, इदं भुंक्ष्व इति विधातुं च योग्यं स्वरूपमस्येति विधेयात्मा ।। [नि-627. इह गच्छेह तिष्ठेदं भुंक्ष्वेति प्रमतैः सदा । योग्यं विधातुं यद्रूपं विधेयात्मा स कीर्तितः ।।]
66.628 सत्कीर्तिः
*628 ईदृश-सौशील्य-सत्वेन अस्य अतिमहती कीर्तिः इति सत्कीर्तिः । एतावद्धि सुवचनम्, यदस्य कीर्त्यते तदस्ति तावदिति, न तु यावदस्ति तावदिति तदधिकं वेति । यता- “यथा सर्वेश्वरः कृष्णः प्रोच्यते सर्वपण्डितैः । तथाऽपि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिः ।। ” (विं.ध.75.44) “स्थाने हृषीकेश! तव प्रकीर्त्या ” इत्यादि च ।। (गीता 11.36) [नि-628. ईदृक्सौशील्यसत्वाद्धि सत्कीर्तिः इति कथ्यते ।।]
66.629 छिन्नसंशयः
*629 एवं सौशील्यप्रथया स्वविषयया सुज्ञान-दुर्ज्ञान-सुसाध-दुस्साध-सुलभदुर्ल- भत्वादि-संशयः छिन्नः अनेन इति छिन्नसंशयः यथा– “तं ह देवम् आत्मबुद्धि प्रसादतम्”, (श्वे.-5.18) “त्वदन्यः संशयस्यास्य छेता न ह्युपपचते” इत्यादि ।। (गीता 6.36) [नि-629. सौशील्यप्रथया चैवं दुष्करत्वादिसंशयः । छिन्नो येन विशेषोण स प्रोक्तः छिन्नसंशयः ।।] उदीर्णः सर्वतश्चक्षुः अनीशः शाश्रत-स्थिरः । भूशयो भूषणो भूतिः अशोकः शोकनाशनः ।। 67 ।।
67.630 उदीर्णः
*630 [नि-630. प्रतेयक्षविषयत्वेन ह्युत्पन्नः चर्मचक्षुषाम् । उदीर्ण इति स प्रोक्तः सप्तार्णो नयनप्रदः ।।]
67.631 सर्वतश्चक्षुः
*631 अतः अस्मादादिचक्षूंष्यपि तत्साक्षात्कार-कर्माणि इति सर्वतश्चक्षुः । अतः छिन्नसंशयत्वं सिद्धम् । न हि स्पष्टप्रत्यक्षे संशयः ।। [नि-631. यत्साक्षात्कार कर्माणि चर्मचक्षूष्यपि त्वतः । सर्वतः सर्वतश्चक्षुः नवार्णो नेत्रशक्तिदः ।।]
67.632 अनीशः
*632 तत्परेषु अनीशः-तदधीन-स्नान परिकर्म-गोष्ठ्यादि-सर्वा वस्थत्वात् ।। [नि-632. प्रोक्तो हि अनीशः भक्तेषु तदायत्ताखिलक्रियः ।।]
67.633 शाश्वतस्थिरः
*633 तथा असकृत्प्तत्यक्षीकृत-सदातन-नानाविबाकृतिः अव्यवहितश्च तिष्ठति इति शाश्वतस्थिरः । तथा च श्रीसात्वते- “ब्रिबाकृत्याऽऽत्मना बिंबे समागम्यावतिष्ठते” इति ।। [नि-633. बिंबाकृत्याऽऽत्मना बिंबे स्थितः स्यात् शाश्वतस्थिरः ।।]
67.634 भूशयः
*634 सन्निधियाच्ञया तद्दर्शित-आयतनादि-भूमिषु स्वयंव्यक्तः सिद्ध-मानुषादि- लक्षणासु तदनुग्रहसुखेन शेते इति भूशयः ।। [नि-634. स्वयंव्यक्तादिरूपेण कौ शेते भूशय ततः ।।]
67.635 भूषणः
*635 एवं विश्वजनीनेन शीलेन श्रियःपतिमात्मानं भूषयतीति भूषणः । “क्रुधमण्डार्थेभ्यश्च” इति युच् । (अष्टा.-3.2.151) न हि श्रीमताम् अनाथ-गृहातिथित्व-तत्संविभज्यभोज्यत्व-समान-योगक्षेमत्वादि दूषणम्; किं तु भूषणमेव ।। [नि-635. एवं विश्वजनीनेन कौ शेते एषः श्रियः पतिः । यदात्मानं भूषयति भूषणः तत् स कीर्तितः ।।]
67.636 भूतिः
*636 सर्व-बाह्यान्तर-उपायरिक्तानां तेषामेव सर्वसमृद्धा विभूतिः इति भूतिः । तेषां सुतसुरभिसुहृद इव विभूतिभूतः इत्यर्थः ।। [नि-636. योऽसौ समृद्धिमौश्वर्यं भक्तानां भूतिः ईरितः ।।]
67.637 अशोकः
*637 एवं कस्यचिदपि अनाथस्य अहानात् तद्विषये अशोकः, विशोको वा ।। [नि-637. नाथत्वाच्चापि सर्वेषाम् अशोकोऽनाथताहतेः ।।]
67.638 शोकनाशनः
*638 तेषां स्वसंबन्ध-व्यतिरेकाशोकं नाशयतीति शोकनाशनः । यथा– “श्रुतं ह्येव मो भगवदृशेभ्यः तरति शोकम् आत्मविदिति । सोहं भगवः शोचामि । तं मा भगवान् शोकस्य पारं तारयतु ।” इति । (छा 7.1.3) शोचन्ति हि स्वपरबन्धुभूत-भगवद्दर्शन-क्लेशविदः ।। अर्चिष्मान् अर्चितः कुंभो विशुद्धात्मा विशोधनः । अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ।। 68 ।।
68.639 अर्चिष्मान्
*639 तत्र गूढप्रभावो हि तद्वाह्यान्तर-चक्षुरुन्नयनक्षमदिव्यतेजोऽतिशयः अर्चिष्मान् ।। [नि-639. बाह्याभ्न्तरसद्भक्त-चक्षुरुन्नयनक्षमम् । दिव्यं तेजः सदा यस्य सः अर्चिष्मान् इति कथ्यते ।।]
68.640 अर्चितः
*640 सर्वमोतत् संभावयन् उदाहरति-अर्चितः । अर्चा-अर्चावतारः, सा अस्य सञ्जाता इति । स हि अवतारः व परत्ववत् विप्रकृष्टः । सुरनराद्यवतारवत् क्वचित् कदाचिद्वा । सदा सर्वेषु क्षेत्रयतनेषु गृहेषु च प्रत्यक्षत्वात् । अस्य च चत्वगुह्यं भगवच्छास्त्रे बोधायन-वैष्णवस्मृति पुराणादिषु निषेव्यम् । वैष्णवधर्मेषु– “सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मनः प्रीतिकरीं सुवर्णरजतादिभिः ।।” (वि.ध.103.19) “तामर्चयेत् तां प्रणमेत् तां यजेत् तां विचिन्तयेत् । विशत्यपास्त-दोषस्तु तामेव ब्रह्मरूपिणीम् ।।” इत्यादि ।। (वि.ध.103.28) [नि-640. अर्चां हि अर्चावतारोऽस्य क्षैत्रायतनसद्मसु । संजाता इति अर्चितः प्रोक्तः सप्तार्णो वेंछितप्रदः ।।]
68.641 कुम्भः
*641 तत्र तैः परिचित-सजातीयसौन्दर्यादिना काम्यते इति कुंभः । “कमेः कम् च” इति भप्रत्ययः कुमादेशश्च । (उणादि पा.4) कौ-भूमौ, उक्तक्षेत्रायतनादि-लक्षणायां ध्यान-आराधना-दीनां सीम्नि जन्ममरण मात्रेण वा स्वल्पलंबन्धवत्त्यां यमभटादि-भयापह-महाप्रभावत्वेन भाति इति वा कुंभः पृषोदरत्वात् साधुत्वम् । श्रीपौष्करभागे- “आभासयति भूभागं परितस्तद्वदेव हि । स्वक्षेत्रः” इत्यादि । “यस्मात् देवालयोद्देशात् सुध्मातजलजस्य च । भवेत् शब्दानुवेधश्च तावत् क्षेत्रं तदुच्यते ।। ” इत्यादौ सीमावधिविकल्पाश्च दर्शिताः । “ऐहिकामुश्मिकी यत्र सिद्धिर्भवति देहिनाम् । अणिमाद्यष्टकोपेता स्वशक्त्या स्वात्मना तु वैः ।” “अध्वावनिषु सर्वासु नित्यं कुर्वति सनिनिधिम् । मुक्तये सर्वभूतानां विशेषेण ति वै भुवि ।।” तत्र क्षेत्रेषु “त्राहियुक्त्वा जगन्नथं क्षिप्रं स्त्रीबालपूर्वकैः । ज्ञात्वा विमुक्तदेहं तु सह पुर्यष्टकेन तु । महता तूर्यघोषेण कृत्वा रथवरे तु वै । जित्वाऽन्तक-भटान् रौद्रान् बलात् क्षेत्रेशर्किकराः ।। आनीय क्षेत्रनाथस्य अभितः ख्यापयन्ति च ।। देव! क्षेत्रे त्वदीय्ऽस्य विमुक्तं पाञिचभौतिकम् । शरीरमद्यानाथस्य कुरु शश्वत् यथोचितम् ।। क्षेत्रनाथस्तु तद्वाक्यं समाकर्ण्य गणेरितम् । करुणानुगतेनैव तन्निरीक्ष्य तु चक्षुषा ।” तानां सद्यो वा पुण्यजन्मादिक्रमेण वा भगवत्प्राप्तिः प्रपञ्चिता ।। [नि-641. काम्यते स सजातीयर्गुणैः कुंभः प्रकीर्तितः । कौ स भातीति कुंभो वा षडर्णो भयनाशकः ।।]
68.642 विशुद्धात्मा
*642 एवम् अशेषाश्रितेषु निरवशेषितसर्वस्वात् विशुद्धात्मा ।। [नि-642. सर्वाश्रितेष्वशेषेण सर्वस्य त्यागतः सदा । विशुद्धात्मा ।।]
68.643 विशोधनः
*643 तत्र क्षेत्रेषु न्यस्तदेहान् स्वप्राप्त्यर्हान् विशोधयति इति विशोधनः ।। [नि-643. क्षेत्रमृतशोधकः स्वात् विशोधनः ।।]
68.644 अनिरुद्धः
*644 अथ क्षेत्रविशेषेषु पूर्वोक्तव्यूहविभवानां स्थितिविशेषः । जनार्दनाख्यया देवस्तु अनिरुद्धो जगत्प्रभुः । भूभागे वासुभाण्डाख्ये नित्यसंनिहुतः स्थितः ।। इति अनिरुद्धः ।। [नि-644. तत्तत्क्षेत्रेश्वरोक्तिः स्यात् अनिरुद्धादिनामभिः । वासुमाण्डाख्यभूभागे नित्यसन्निहितः स्थितः । अनिरुद्ध इति ख्यातो वस्वर्णो मनुरुत्तमः ।। ]
68.645 अप्रतिरथः
*645 स एव जनार्दनाख्यत्वात् अनिष्टजनार्दनेऽप्रतिपक्षत्वात् अप्रतिरथः ।। [नि-645. प्रतिपक्ष्स्य राहित्यात् बह्वनिष्टजनार्दनः । विख्यातो हि अप्रतिरथः नवार्णः शत्रुनाशकः ।।]
68.646 प्रद्युम्नः
*646 आत्मप्रद्योतवान् प्रद्युम्नः । “प्रद्योतयिता” इति मौलाः । “प्रद्युम्नः पिरुषोत्तमः ।” अधिष्ठाय स्थितः साक्षात् भक्तानां सुगतिप्रदः ।। [नि-646. आत्मप्रद्योतनत्वाच्च प्रद्युम्न इति कथ्यते । अधिष्ठाय स्थितः साक्षात् भक्तानां सुगतिप्रदः ।।]
68.647 अमितविक्रमः
*647 त्रैलोक्येऽपि अपर्यवसितविक्रमत्वात् त्रिविक्रमडः अमितविक्रमः “यामुनं जलमाश्रित्य देवदेवस्त्रिविक्रमः । स्थितः कमलसंभूत! नृणां च सुगतिप्रदः ।।” [नि-647. लोकत्रयेऽप्यपर्याप्तविक्रमो अमितविक्रमः ।।] केलनेमिनिहा शौरिः शूरः शूरजनेश्वरः । त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ।। 69 ।।
69.648 कालनेमिनिहा
*648 एतेषु क्षेत्रेषु स्थित्वा कलिकल्मषापहः कालनेमिनिहा । “अविद्याख्या च या नेमिः कालचक्रस्य दुर्धरा । सा मयीयं समाश्रित्य विग्रहं विधुनौति च ।।” ध्यायेत् तत्प्रसध्नं च देवम् ” इति हि कालनेमिघ्न-ध्यानम् ।। नवाक्षरो मनुरयम् अविद्यामूलमोचकः ।। ]
69.649 शौरिः
*649 “उत्पलावर्तके देशे शौरिसंज्ञो अच्युतः स्थितः” इति शौरिः । शूरस्य-वसुदेवस्य अपत्यमिति ।। [नि-649. शोरीनाम्ना स्थितः शौरिः उत्पलावर्तके शुभे ।।]
69.650 शूरः
*650 “धराधरे चित्रकूचे रक्षःक्षयकरो महान् । संस्थितश्च परो रामः पद्मपत्रायतेक्षणः ।।” इति शूरः-रामः । “शु गतौ” “शुसिचिमीनां दीर्घश्च” इति (उणा.पा.-2.28) ‘रक्’ प्रत्ययः ।। [नि-650. सर्वरक्षःक्षयकरः शूरः इत्यभिधीयते ।।]
69.651 शूरजनेश्वरः
*651 स एव विशेषयते शूरजनेश्वरः ।। [नि-651. पराक्रमिजनेशत्वात् स्मृतः शूरजनेश्वरः ।।]
69.652 त्रिलोकात्मा
*652 “मगघामण्डले विप्र महाबोधधराश्रितः । संस्थितो लोकनाथात्मा देवदेवो जनार्दनः ।। ” इति त्रिलोकात्मा । भक्तानुग्रहाय त्रीन् लोकान् सातत्येन गच्छतीति । “अत सातत्य- गमने”, “सातिभ्यां मनिनौ” इति ‘मनिन्’ प्रत्ययः (उणा.पा.-4.152) [नि-652. यः सातत्येन लोकांस्त्रीन् भक्तानुग्रहकाम्यया । गच्छत्यसौः विलोकात्मा वस्वर्णो भूतिदायकः ।।]
69.653 त्रिलोकेशः
*653 “शुभमासाग्य भूभागं प्राग्ज्योतिषपुरे तथा । देवं विश्वेश्वराख्यं तु स्थितमेत्य स्वगोचरात् ।।” इति त्रिलोकेशः ।। [नि-653. त्रीलोकानामीशतया त्रिलोकेशः प्रकीर्तितः ।।]
69.654 केशवः
*654 “केशवः केशिहा लोके देवैरूप्येण क्षितौ स्थितः । मथुराख्ये महाक्षेत्रे वाराणल्यामपि द्विज ! ।” इति केशवः ।। “क इति ब्रह्मणो नाम ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तदाङ्गे संभूतो तस्मात् केशवनामवान् ।” (हरिवंश 279.47. (131-48) इति निरुक्तिः ।। [नि-654. ब्रह्मेशयोः स्वाङ्गजत्वात् केशवः परिकीर्तितः ।।]
69.655 केशिहा
*655 “केशवं क्शिहन्तारम्” स्वयमेव विर्वचनान्तरमाह-केशिहा इति ।। [नि-655. असुरं केशिनामानं हतवान् केशिहः स्मृतः ।।]
69.656 हरिः
*656 “गिरौ गोवर्धनाख्ये तु देवः सर्वेश्वरो हरिः ।” संस्थितः पूजितः स्थाने ” इति हरिः । (भार.शा.343.39) “इडोपहूतं गेहेषु हरे भागं क्रतुष्वहम् । वर्णश्च मे हरिः श्रेष्ठः तस्मात् हरिः इति स्मृतः ।।” इति ।। कामदेवः कामपालः कामी कान्तः कृतागमः । अनिर्देश्यवपुर्विष्णुः वीरोंऽनन्तो धनञ्जयः ।। 70 ।।
70.657 कामदेवः
*657 “कामदेवस्तु भगवान् सर्वेषां सर्वकामदः । शङ्करालयमासाद्य संस्थितोऽप्सरार्चितः ।।” इति कामदेवः दीव्यति दानकर्मा ।। [नि-657. शंकरालयगः कामदेवः सर्वेष्टदः स्मृतः ।।]
70.658 कामपालः
*658 स एव दत्तानुपालनात् कामपालः ।। [नि-658. दत्तानुपालकश्चैव कामपालः प्रकीर्तितः ।।]
70.659 कामी
*659 प्रदेयातिशयात् कामी ।। [नि-659. प्रदेयातिशयात् कामी ।।]
70.660 कान्तः
*660 स एव स्वयमेव कमनीयः कान्तः । अतो हि अप्सरसार्चितः एवमुत्तरत्रापि संज्ञा सामर्थ्यादिना तत्तात्क्षेत्र संबन्धः उहनीयः [नि-660. कान्तश्च कमनीयकः । तत्तात्क्षेत्रेशोक्तिरेवमुपर्यपि यथोचितम् ।।]
70.661 कृतागमः
*661 अथ शक्तीशावतारः । “नानामन्त्रमर्यी विद्यां व्यञ्जयत्यमलात्मनाम्” इति कृतागमः ।। [नि-661. अथ शक्त्यवतारैत्र मन्त्रात्मास्यात् कृतागमः ।। (मन्त्रविद्याव्यञ्जकत् वाति कृतागमः इतीरितः ।–पा.]
70.662 अनिर्देश्यवपुः
*662 तत्तद्युगगुणानुग्रहक-रूपवैचिर्त्यात् अनिर्देश्यवपुः । “युगानुसारकान्तिश्च” इति ।। [नि-662. युगानुसारिरूपत्वात् अनिर्देश्येवपुः स्मृतः ।।]
70.663 विष्णुः
*663 एवं व्याप्तिनियमनादिशक्तिद्वारा विश्वव्याप्तेः विष्णुः । “सर्वशक्त्यात्मने” इति तन्मन्त्रवर्णे । (आदित्यपु.) आदित्यपुराणे- “यस्मात् विष्टमिदं सर्व तस्य शक्त्या महात्मनः । तस्मात् स प्रोच्यते विष्णुः विशेर्धातोः प्रवेशनात् ।।” उद्योगे “विष्णुर्विक्रमणात् देवः” इति वा ।। (भार.उ.69.13) [नि-663. स्वशक्त्या सर्वजगतो व्याप्तेः विष्णुः इति स्मृतः ।।]
70.664 वीरः
*664 “आज्ञाप्रतीक्षकेणैव गदाचक्रद्वयेन तु । प्रेरितेन हिनस्त्याशु साधुसन्तापकारिणः ।। ” इति वीरः । [नि-664. वीरः स्यात् साधुसन्तापकारिणोऽजति हन्ति यत् ।।]
70.665 अनन्तः
*665 नास्य देशकाल-वस्तुतोऽवधयः सन्ति इति अनन्तः । “अनन्तमूर्तये” इति तन्मन्त्रवर्णे । (मन्त्र) “सत्यं ज्ञानमनन्तं ब्रह्म” इति च । (तै.आन.1) सदा सर्वत्र सर्वथा च प्रवृत्तस्वभावः इत्यर्थः । न च वस्तुपरिच्छेदाभावो वस्त्वभेदः , देशकालयोः अतथात्वप्रसङ्गात् । न चैतदिष्टम् ।। [नि-665. देशतः कालतो वाऽपि गुणतो वस्तुतोऽपि वा । अवधिस्तु अल्य नास्तिति सोऽनन्तः समुदाहृतः ।।]
70.666 धनञ्जयः
*666 आनन्त्यं गुणविभूतिभ्यामपि उपपाद्यते । धनञ्जयः — प्रेप्सोपार्जन-लोभ-गूहन-उपजीवनादि-योग्यत्वाधिक्येन देमरत्नादिकं धनम् अधः करोति इति । “संज्ञायां भृतृवृजिधारिसहितपिदमः” इति खच् । (अष्टा.-3.2.46) [नि-666. प्रेप्सोपार्जनलोभादि योग्याधिक्यसत्वतः । मणिमौक्तिकरत्नादि-हेमरूप्यादिकं धनम् । जयति अधः करोतीति धनञ्जय इतीरितः ।।] ब्रह्मण्यो ब्रह्मकृद्ब्रह्मा ब्रह्म ब्रह्मविवर्धनः । ब्रह्मवित् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ।। 71 ।।
71.667 ब्रह्मण्यः
*667 इह हि बृहत्सु ब्रह्म शब्दं प्रयुञ्जते । तत्र तत्र तत्तत्कर्म ज्ञानाभ्यां अशेषभोगमोक्ष-भोक्तृत्व-बृहत्त्वात् जीवात्माऽपि ब्रह्म उच्यते । “तत् ज्ञानं ब्रह्मसंज्ञितम्” (वि.पु.6.7.53) “निर्दोषं हि समं ब्रह्म” इत्यादिषु । (गीता 5.19) तद्भोग्यम् अव्यक्तं च अनन्त-भोगोपकरण-परिणामात् “मम योनिर्महद्ब्रह्म” इत्यादिषु । (गीता 14.3) ताभ्यां स्वितिभोगादि-सर्वावस्था-हेतुत्वेन हितो ब्रह्मण्यः ।। [नि-667. जीवात्मा प्रकृतिश्चापि ब्रह्मेति व्यपदिश्यते । कारणं स्थितिभोगादेः सर्वावस्थासु यत् ततः । ताभ्यां हितः सन् ब्रह्मण्यः सप्तर्णो भोगदायकः ।।]
71.668 ब्रह्मकृद्ब्रह्मा
*668 तत्कार्यं महदहंकारादिप्रभृति च ब्रह्म, अस्तोक-विस्तारत्वात् “तत्मादेतत् ब्रह्म नामरूपमन्नं च जायते” इत्यादौ । (मु.-1.1.10) तस्य कर्ता ब्रह्मा यस्य सर्वथा नियाम्यः, सः ब्रह्मकृद्ब्रह्मा ।। (उणादिपा.4.145) [नि-668. महदादितमः कार्यं ब्रह्मेति ह्यभिधीयते । तस्य कर्ता स्वयं ब्रह्मा नियाम्यो यस्य सर्वदा । स तु स्यात् ब्रह्मकृद्ब्रह्मा नवार्णः सर्वशक्तिदः ।।]
71.669 ब्रह्म
*669 एवं व्यक्ताव्यक्त-समष्टिव्यष्टि पुरुषान् बृंहयति, निरतुशय कल्याणगुणगणैः स्वरूप-गुण-विभवैः स्वयं च बृंहति इति अनापेक्षिकं वेदान्तवेद्यं परं ब्रह्म-ब्रहम । “बृम्हे नोंच्च” (उणा.पा.-4.147) इति मनिन् प्रत्ययो नलोपश्च । “बृहत्वात् बृंहणत्वाच्च ब्रह्मेति परिकीर्त्यते” इति ।। (तै.भृ 2.1) [नि-669. व्यक्ताव्यक्तादि समष्ट्यादि पुरुषांश्चैव नित्यशः । गुणैश्च कल्याणतमैः ब्रह्म बृम्हयतीति च ।। रूपैः स्वरूपेण गुणैः विभवैश्च स्वयं सदा । बृब्हतीति च तद् ब्रह्म षडर्णः सन्ततिप्रदः ।।]
71.670 ब्रह्मविवर्धनः
*670 “तपो ब्रह्म” इति श्रृतेः । तं विवर्धयतीति ब्रह्मविवर्धनः ।। [नि-670. तपोविवर्धनान्नित्यं स्मृतो ब्रह्मविवर्धनः ।।]
71.671 ब्रह्मवित्
*671 तत्प्रतिपादको वेदोऽपि ब्रह्म “ब्रह्म अध्येष्यमाणः” इत्यादेः । “अनन्ता वै वेदाः” । (काठ.1.44) तानपि अवधिना वेत्ति इति ब्रह्मवित् । “अनादिनिधनं ब्रह्म न देवा नर्षयो विदुः । एकस्तद्वेद भगवान् धाता नारायणः स्वयम् ।।” (भार.मो.380.19) [नि-671. यो वेदानन्ततो वेत्ति स ब्रह्मवित् उदीरितः ।।]
71.672 ब्राह्मणः
*672 वेद्यव्यवस्थापनार्थ स्वयम् अत्रिगोत्रादौ दत्तात्रेयादिरूपेण ब्राह्मणो भवति इति ब्राह्णः । “ब्रह्म नयति, अणति” इति वा नैरुक्तः ।। [नि-672. दत्तात्रेयादिरूपेण ह्यदीर्णो ब्राह्मणः स्मृतः । पठनाद्वाऽथ वेदस्य ब्राह्मणः परिकीर्तितः ।।]
71.673 ब्रह्मी
*673 सर्वमेतत् प्रमाणप्रमेयरूपं ब्रह्म स्वम् इति ब्रह्मी । “सर्वब्रह्ममयो हरिः” इति ।। [नि- 673. मानमेयस्वरूपत्वात् स्वयं ब्रह्मीति शब्द्यते ।।]
71.674 ब्रह्मज्ञः
*674 वेदान् अर्थपर्यन्तं साक्षात्करोतीर्ति ब्रह्मज्ञः । “वेदविदेव चाहम्” इति ।। (गीता 15.15) [नि-674. यो वेदान् अर्थतो वेत्ति सोऽयं ब्रह्मज्ञः इरितः ।।]
71.675 ब्राह्मणप्रियः
*675 तदधिकारिणो बेराह्ममाः प्रिया अस्येति ब्राह्मणप्रियः । यथा- “घ्नन्तं शपन्तं परुषं वदन्तं यो ह्राह्मणं न प्रणमेत् यथाऽहम्” इत्यादि । (इति समु 30.100) “ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते । श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः” इति । (गीता 12.20) “यद् ब्राह्मणस्य मुखतः” “विप्रप्रसादाते असुरान् जयामि” (वि.ध.52.23) “किं पुनः ब्राह्मणाः पुण्याः” इत्यादि । (गीता 9.33) एवं बहुमुखमानन्त्यम् उक्तम् । यथा- “महतो महीयान्” (तै.ना.10) “परात् परं यन्महतो महान्तम्” (तै.ना.1) “महान्तं विङुमात्मानम्” (कठ.-1.2.22) “महतः परमो महान्” इत्यादि ।। [नि-675. वेदाधिकारिमो विप्राः प्रिया यस्येत् वै सदा । ब्राह्मणप्रिय इत्युक्तो वनार्णो धर्मदो मनुः ।।] महाक्रमो महाकर्मा महातेजा महोरगः । महाक्रतुर्महायज्वा महायज्ञो महाहविः ।। 72 ।।
72.676 महाक्रमः
*676 सोपानपर्वानुपूर्वी अस्य इति महाक्रमः । यथा जननी स्तनन्धयम् आदौ स्तन्यं धापयति, अथ दुग्धम्, अथ आहारम्, अथ भोगान्, गमयति । एवमयं सुकुत्नम् अद्वेषास्तिक्य- आभिमुख्य-अनुवर्तन-ज्ञान-भक्तिविस्रंभक्रमेणैव प्रापयति, अभ्युत्थानार्थ धन्दा- नुवर्तनार्तं च । अन्यथा- “बन्धायैव भवत्य्षा अविद्या ह्यक्रमोज्झिता” । अतः खलु आहुः- “जन्मान्तरसहस्रेषु तपोध्यानसमाधिभिः । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ।।” इति (वि.ध.लधुअत्रिस्मृति) “बहूनां जन्मनामन्ते ज्ञानवान् मां प्रपद्यते” (गीता 7.19) “अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय” इत्यादि ।। (गीता 8.8) [नि-676. परमोन्नतिमात्मानं मिन्नात् भवरसातलात् । जीवान् समारोहयतो ज्ञानभक्त्यादिरूपिणी । पूर्वानुपूर्वी यस्यास्ति स महाक्रम ईरितः ।।]
72.677 महाकर्मा
*677 क्रिमिकीटादिभावे दुर्जर-परोच्छिष्ट-सिक्थ-द्रष्समात्रं जन्तुं स्वमह्विभव- अनुभवाभियुक्तं करोति इति अतिविस्मयनीयं महदस्य कर्मेति महाकर्मा ।। [नि-677. अत्यन्त हीनाम् जन्तूंश्च योग्यान् स्वानुभवस्य हि । करोति महदाश्चर्यं कर्म तत् यस्य सर्वदा । महाकर्मा स विज्ञेयो ह्यष्टारणो मनुरुत्तमः ।।]
72.678 महातेजाः
*678 एवं तामसानामपि अनाद्यविद्या-तमस्तस्कर-तेजस्त्वात् महातेजाः । [नि-678. अनाद्यविद्याख्यतमो हारि तेजो महत् यतः । महातेजा ह्यतः ख्यातः तेजोदो वसुवर्णकः ।।]
72.679 महोरगः
*679 कथमयम् अतिमहान् क्षोदायसां नेदीयान् ? विषयान्तरवत्- तत्करणानि अनुप्रविश्य तत्रान्तः-करणानुप्रवेशात् महोरगः । उरः प्रदर्शितं हृदयम् उरः यद्द्वारा तान् गच्छति इति । “उरसो लोपश्च” इति डप्रत्ययः ।। (अष्टा.-3.2.48) [नि-679. महोरग इति ख्यातः चित्ताद्वारा प्रवेशनात् ।।]
72.680 महाक्रतुः
*680 “यो न वित्तैर्न विभवैः न वासोभिर्न भूषणैः । तोष्यते हृदयेनैव कस्तमीशं न तोषयेत् ।। ” इति (वि.ध.90.69) महत् सर्वसुकरम् आराधनमस्येति महाक्रतुः समर्पण-संस्कार-स्वादुकृतैः आगमशास्त्र-कारित-सर्वव्यापारैः आराध्यत्वात् । यथा- “यत् करोषि” इत्यादि ।। (गीता 9.27). [नि-680. सर्वैश्च सुकरा पूजा यस्य स्यात् स महाक्रतुः ।।]
72.681 महायज्वा
*681 स्वयाजिनाम् अन्ययाजिम्योऽपि अत्युत्कर्षात् महायज्वा । “सुमजोर्ङवनिप्” यथा– (अष्टा.-3.2.103) “तेषामेकान्तिनः श्रेष्ठाः ते चैव अनन्यदेवताः” इति ।। [नि-681. देवतान्तरयाजिम्यः स्वयाज्युत्कर्षकारकः । महायज्वा समुद्दिष्टः सत्कर्मफलदो मनुः ।।]
72.682 महायज्ञः
*682 “सर्वेषां किल धर्माणामुत्तमो वैष्णवो विधिः । रक्षते भगवान् विष्णुः भक्तान् आत्मशरीरवत् ।।” “याः क्रियाः संप्रयुक्ताः स्युः एकान्तगतबुद्धिभिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम्” ।। इति (भार.भो.17.163) “अहो ह्येकान्तिनः सर्वान् प्रीणाति भगवान् हरिः । विधिप्रयुक्तां पूजां च गृह्णाति शिरसा स्वयम् ” ।। इति ((सात्व.स.) [नि-682. अन्येभ्यो देवयागेभ्यः स्वयागोत्कर्षकारकः । महायज्ञः समाख्यातो ह्यष्टार्णो हरियागदः ।।]
72.683 महाहविः
*683 “न तत्र पशुघातोऽभूत्”, (भार.शा.337.9) “आरण्यकपदोद्गीता भागास्तत्र अनुवर्णिताः ।” (भार.शा.337.10) इत्यादि-अहिंस्र-सात्विकौपनिषदानि हवींषि अस्य इति महाहविः । यथा– “ब्रह्मार्पणं ब्रह्म हविः” इत्यादि, (गीता.4.25) “ज्ञानयज्ञेन”, (गीता.9.15) “योऽहमस्मि स सन् यजे यस्यास्मि न तमन्तरेमि” (यजुरष्टक (7.47) “इदमहं माम् अमृतयोनौ सूर्ये ज्योतिषि जुहोमि” (तै.नारा.25) “अहमेवाहं मां जुहोमि” इति (तै.नारा.41) प्रत्यगात्महविष्ट्वात् वा । अथ उपरिचरः परमैकान्ती “आत्मा राज्यं धनं चैव कलत्रं वाहनानि च । एतत् भगवते सर्वम् इति तत्प्रेक्षितं सदा ।।” इति (भार.शा.336.23) अथं च “श्रेयान् द्रव्यमयात् यज्ञात् ज्ञानयज्ञः परन्तप !” इति च । एवं मनश्शरीरयोः व्यापार-समाराध्यत्वम् ।। अथ वाचः । (गीता 4.33) [नि-683. अहिंस्रम् आत्मदिहविः यस्य स्यात् स महाहविः ।। ] स्तव्यः स्तवप्रियः स्तोत्रं स्तुतः स्तोता रणप्रियः । पूर्णः पूरयिता पुण्यः पुण्यकीर्तिः अनामयः ।। 73 ।।
73.684 स्तव्यः
*684 स्तव्यः स्तवमर्हतीति यत् । अनध्यारोप्य-महामंगल-नित्यनिरवधिक-निरवद्यगुणौ नामसहस्र-व्यपदेश्यः पतिरेव स्तुतिमर्हतीति, न तु वुपरीतगुणो देवातान्तरादिः । बार्हस्पत्यस्मृतौ- “आदरेण यथा स्तौति धनवन्तं धनेच्छया । एवं चेत् विश्वकर्तारं को न मुच्येत बन्धनात् ।।” (बृहस्पतिस्मृति) “इतीदं कीर्तनीयस्य” इत्यादि ।। (भार.आनु. 149.121) [नि-684. चेतःशरीरयोः जन्तोः व्यापाराराध्यता हरेः । उक्ता नारायणस्याथ वागाराध्यत्व मुच्यते । स्मृतः स्तुत्यर्हणात् स्तव्यः षडर्णो बन्धमोचकः ।।]
73.685 स्तवप्रियः
*685 यथाकथंचित् यथा कयाचिद्भाषया येन केनापि त्जस्करः तिरस्करो वा गुणसंकीर्त नाभिमानेन क्रियमाणः स्तवः स्वविषयः प्रियतमोऽस्येति स्तवप्रियः । अकण्टकम् एतत् घण्टाकर्णादिवृत्ते ।। [नि-685. यया कयाचित् भारत्या येन केनापि जन्तुना । यथा कथंचित् कथितो यस्य प्रियतमः स्तवः । स्तवप्रियः स कथितः वस्वर्णः प्रीतिवर्धकः ।।]
73.686 स्तोत्रम्
*686 इदं तु ध्रुवस्तवे द्रष्टव्यम् ।। (अष्टा.-3.2.182) [नि-686. स्वेनैव निष्पाद्यतयो स्वस्तुतेः स्तोत्रम् उच्यते ।।]
73.687 स्तुतः
*687 सहस्रफण-त्रयीमयादिभिः सूरिभिः अनन्तैः ब्रह्मादिभिः, अस्मदादिभिश्च अविशेषेण अनवधौ काले तत्तदभिलषितसिद्धये स्तुत इति स्तुतः । यथा– “अशेषदेशेनरेश्वरेश्वरैः सदा स्तुतं यच्चरितं महाद्भुतम्” इति , (वि.ध.43.27) “धाता पुरस्तात् यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः” इति । (पु.सू.17) अस्मदादि-सर्वस्तुतत्वं प्रदिशश्चतस्रः इति । [नि-687. शेषशेषाशनाद्यैः यः सूरिभिश्च अस्मदादिभिः । स्तुतत्वादविशेषेण स्तुतः इत्यभिधीयते ।।]
73.688 स्तोता
*688 स्वस्तोतारं स्तोतुं शीलमस्येति स्तोता । “यं स्तुवन् स्तव्यतामोति वन्दमानश्च वन्द्यताम्” इति । (वि.ध.75.55) एतत् कैलासयात्रायाम् ।। [नि-688. स्वस्तोतारं परं स्तोतुं शीलं यस्यास्ति सर्वदा । तोता स स्यात् पञ्चवर्णः सर्वस्तुत्यत्वदो मनुः ।। ]
73.689 रणप्रियः
*689 श्रीमद्रामायण-महाभारतप्रभृत्यभिष्टुत-अभीष्ट-दिव्यचेष्टितो रणप्रियः । सुहृत्प्रीणनरणदि चेष्टितो हि सः । यथा- “ततः सकामं सुग्रीवमङ्गदं च महाबलम् । चकार राघवः प्रीतो हत्या रावणमाहवे ।।” इति । (राम.यु.111.31) [नि-689. सुहृत्प्रीयं युद्धकर्म यस्यास्ति स रणप्रियः ।।]
73.690 पूर्णः
*690 बहुव्यय-आयास-सत्कारविरेहेऽपि स्तोत्रादिमात्र-साध्योऽयम् । कुतः? यतः पूर्णः । स्वत एव अवाप्तसमस्तकामः ।। [नि-690. अवाप्तसर्वकामत्वं यस्यासौ पूर्ण उच्यते ।।]
73.691 पूरयिता
*691 किं तर्हि पूरणीयवत् स्तोत्रादिकमपेक्षेत? तन्मनोरथ-पूरण-शीलत्वात् । तदाह-पूरयिता ।। [नि-691. सदा पूरयितुं शीलं यस्य स्तोतृमनोरथान् । सस्यात् पूरयिता ।।]
73.692 पुण्यः
*692 पातकिनोऽपि स्वस्तुत्यर्हयन् पुनातीति पुण्यः । “पूञो यण्णुक् ह्रस्वश्च” ।। (उणा.पा.5.15) [नि-692. पुण्यः सोऽपि पातकिपावनः ।।]
73.693 पुण्यकीर्तिः
*693 संकीर्तनमपि तथोपि तथेति पुण्यकीर्तिः । “नामसंकीर्तनं पुंसां विलायनमनुत्तमम् । पुमान् विमुच्यते सद्यः सिंहत्रस्तैः मृगैरिव” ।। (वि.पु.6.8.19) “कलौ संकीर्त्य केशवम्” इति । (वि.पु.6.2.17) अत एव हि तत्परसूक्तादीनां पङ्क्तिपावनपावनत्वश्रुतिः ।। [नि-693. पुण्यः श्लोकोऽस्ति यस्तस्य पुण्यकीर्तिः स तु स्मृतः ।।]
73.694 अनामयः
*694 एवं स्वसंस्पर्शदिव्यौषधेन अनामयः- संसार-महाव्याधिविरोधी । भवो हि व्याधिः, भगवदनुभव-शक्ति-प्रतिबन्धकत्वात् । “व्याधिभिः परिपूर्णोऽस्मि” इति तज्ज्ञवचनात् ।। (छा.-4.10.3) [नि-694. संसाराख्यमहाव्याधेः विरोधित्वात् अनामयः ।।] एवं स्वसंस्पर्शदिव्यौषधेन अनामयः- संसार-महाव्याधिविरोधी । भवो हि व्याधिः, भगवदनुभव-शक्ति-प्रतिबन्धकत्वात् । “व्याधिभिः परिपूर्णोऽस्मि” इति तज्ज्ञवचनात् ।। (छा.-4.10.3) [नि-694. संसाराख्यमहाव्याधेः विरोधित्वात् अनामयः ।।] मनोजवस्तीर्थकरो वसुरेता वसुप्रदः । वसुप्रदो वासुदेवो वसुर्वसुमना हविः ।। 74 ।।
74.695 मनोजवः
*695 उक्तेषु शीघ्रकारित्वात् मनोजवः । जगौ हि “क्षिप्रं भवति धर्मात्मा” इति । (गीता.9.31) “सप्तजन्मकृतं पापं स्वल्पं वा यदि वा बहु । विष्णोरालयविन्यास-प्रारंभादेव नश्यति ।।” इति च ।। (वि.ध.83.20) [नि-695. भक्तानां संपदः शीघ्रं करोतीति मनोजवः ।।]
74.696 तीर्थकरः
*696 आत्मवत् स्मरणकीर्तनादिमात्रेण सर्वपावनानां गङ्गा-पुष्करादितूर्थानां हेतुत्वात् तीर्थकरः । श्रुतिस्मृत्यादि-सत्समयप्रवर्तनाद्वा । यथा- “योगो ज्ञानं तथा सांख्यम् ” इत्यादि । (भार.आनु.150.141) अगाध-दुष्प्रवेश-सिन्धोरिव आतेमनः प्रवेश-अवतारसोपान-करणात् वा ।। [नि-696. गङ्गादितीर्थहेतुत्वात् श्रुतिस्मृत्योः प्रवर्तनात् । आत्मप्रवेशसोपानकृत्त्वात् तीर्थकरः स्मृतः ।।]
74.697 वसुरेताः
*697 तत्र कृष्णावतारः । दिव्यज्योतिरुपादनाहेतुत्वात् वसुरेताः वसु इति हि ज्योतिःपर्यायः । “उज्जहार आत्मनः केशौ सितकृष्णौ महामुने!” (वि.पु.5.1.60) “मम ते केशसंज्ञिताः” इति । (भार शा. 342.48) केशशब्दश्च व्याख्यातः ।। [नि-697. वसु शब्दो ज्योतिरर्थो र्तस्तत्कारणं मतम् । दिव्यज्योतिःकारणत्वात् वसुर्ताः प्रकीर्तितः ।।]
74.698 वसुप्रदः
*698 परमनिधिम् आत्मानं देवकीवसुदेवाभ्यां पुत्रत्वेन प्रददाति इति वसुप्रदः ।। [नि-698. देवकीवसुदेवाभ्याम् आत्मरूपं महद्धनम् । पुत्रत्वेन प्रकर्षेण ददातीति वसुप्रदः ।।]
74.699 वसुप्रदः
*699 ताभ्यां जगत्पितुः स्वस्य पितृत्वरूपं महत् तेजः प्रददाति इति पुनश्च वसुप्रदः ।। [नि-699. देवकीवसुदेवाभ्यां स्वपितृत्वं महद्वसु ।
74.700 वासुदेवः
*700 वसुदेवापत्यत्वाच्च वासुदेवः ।। [नि-700. वसुदेवापत्यभावात् वासुदेवः प्रकीर्तितः ।।] इति श्रीहरितकुलतिलक-श्रीवत्सांकमिश्रसूनोः श्रीरंगराजदिव्याज्ञालब्ध-श्रीपराशरभट्ट अपरनामधेयस्य श्रीरंगनाथस्य कृतौ श्रीमद्विष्णु सहस्र नामविवरणे भगवद्गुणदर्पणे सप्तमं शतकं समाप्तम् ।
….Continued