[highlight_content]

श्रीरङ्गराजस्तवे पूर्वशतकम्

श्रीपराशरभट्टाचैरनुगृहीते

।। श्रीरङ्गराजस्तवे पूर्वशतकम् ।।

श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतश्श्रीमान्श्रेयसे मेऽस्तु भूयसे ॥
श्रीवत्सचिह्नमिश्रेभ्यो नमउक्तिमधीमहे । यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥ १ ॥
रामानुजपदच्छाया गोविन्दाह्वाऽनपायिनी । तदायत्तस्वरूपा सा जीयान्मद्विश्रमस्थली ॥ २ ॥
रामानुजमुनिर्जीयाद्यो हरेर्भक्तियन्त्रतः । कलिकोलाहलक्रीडामुधाग्रहमपाहरत् ॥ ३ ॥
विधाय वैदिकं मार्गमकौतस्कुतकण्टकम् । नेतारं भगवद्भक्तेर्यामुनं मनवामहै ॥ ४ ॥
नौमि नाथमुनिं नाम जीमूतं भक्त्यवग्रहे । वैराग्यभगवत्तत्वज्ञानभक्त्यभिवर्षुकम् ॥ ५ ॥
ऋषिं जुषामहे कृष्णतृष्णातत्त्वमिवोदितम् । सहस्रशाखां योद्राक्षीद्द्राविडीं ब्रह्मसंहिताम् ॥ ६ ॥
नमः श्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः । ईशेशितव्यवैषम्यनिम्नोन्नतमिदं जगत् ॥ ७ ॥
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये । चिन्तामणिमिवोद्वान्तमुत्सङ्गेऽनन्तभोगिनः ॥ ८ ॥
अस्ति वस्त्विदमित्थंत्वप्रसंख्यानपराङ्मुखम् । श्रीमत्यायतने लक्ष्मीपदलाक्षैकलक्षणम् ॥ ९ ॥
लक्ष्मीकल्पलतोत्तुङ्गस्तनस्तबकचञ्चलः । श्रीरङ्गराजभृङ्गो मे रमतां मानसाम्बुजे ॥ १० ॥
स्वस्ति श्रीस्तनकस्तूरीमकरीमुद्रितोरसः । श्रीरङ्गराजाच्छरदश्शतमाशास्महेतमाम् ॥ ११ ॥
पातु प्रणतरक्षायां विलम्बमसहन्निव । सदा पञ्चायुधीं बिभ्रत्स नः श्रीरङ्गनायकः ॥ १२ ॥
अमतं मतं मतमथामतं स्तुतं परिनिन्दितं भवति निन्दितं स्तुतम् । इति रङ्गराजमुदजूघुषत्त्रयी स्तुमहे वयं किमिति तन्न शक्नुमः ॥ १३ ॥
यदि मे सहस्रवदनादिवैभवं निजमर्पयेत्स किल रङ्गचन्द्रमाः । अथ शेषवन्मम च तद्वदेव वा स्तुतिशक्त्यभावविभवेऽपि भागिता ॥ १४ ॥
सो अङ्ग ! वेद यदि वा न किलेति वेदस्सन्देग्ध्यनर्घविदमात्मनि रङ्गनाथम् । स्थाने(य)तदेष खलु दोषमलीमसाभिर्मद्वाग्भिरैशमतिशायनमावृणोति ॥ १५ ॥
स्वं संस्कृतद्राविडवेदसूक्तैर्भान्तं मदुक्तैर्मलिनीकरोति । श्रीरङ्गकम्रः कलभं क एव स्नात्वाऽपि धूलीरसिकं निषेद्धा ॥ १६ ॥
किन्तु प्रपत्तिबलतारितविष्णुमायमद्वंश्यराजकुलदुर्ललितं किलैवम् । श्रीरङ्गराजकमलापदलालितत्वं यद्वाऽपराध्यति मम स्तुतिसाहसेऽस्मिन् ॥ १७ ॥
नाथस्य च स्वमहिमार्णवपारदृश्वविज्ञानवाग्विलसितं सहते न वेदः । आपेक्षिकं यदि तदस्ति ममापि तेन श्रीरङ्गिणस्स्तुतिविधावहमध्यकार्षम् ॥ १८ ॥
अन्यत्रातद्गुणोक्तिर्भगवति न तदुत्कर्षचौर्यैः परेषां स्तुत्यत्वाद्यावदर्था फणितिरपि तथा तस्य निस्सीमकत्वात् । आम्नायानामसीम्नामपि हरिविभवे वर्षबिन्दोरिवाब्धौ संबन्धात्स्वात्मलाभो न तु कबलनतः स्तोतुरेवं न किं मे ॥ १९ ॥
कावेरीमवगाहिषीय भगवद्भोगान्तरायीभवत्कर्मक्लेशफलाशयप्रशमनोद्वलामलस्रोतसम् । जन्तोस्संसरतोऽर्चिरादिसरणिव्यासङ्गभङ्गाय या लोकेऽस्मिन् विरजेव वेल्लितजला श्रीरङ्गमालिङ्गति ॥ २० ॥
दुग्धाब्धिर्जनको जनन्यहमियं श्रीरेव पुत्री वरश्श्रीरङ्गेश्वर एतदर्हमिह किं कुर्यामितीवाकुला । चञ्चच्चामरचन्द्रचन्दनमहामाणिक्यमुक्तोत्करान्कावेरी लहरीकरैर्विदधती पर्येति सा सेव्यताम् ॥ २१ ॥
तीर्थं शुन्धति पाति नन्दनतरून् रथ्याङ्गणान्युक्षति स्नानीयार्हणपानवारि वहति स्नातः पुनीते जनान् । श्यामं वेदरहो व्यनक्ति पुलिने फेनैर्हसन्तीव तद्गङ्गां विष्णुपदीत्वमात्रमुखरां हेमापगा हन्त्वघम् ॥ २२ ॥
अगणितगुणावद्यं सर्वं स्थिरत्रसमप्रतिक्रियमपि पयःपूरैराप्याययन्त्यनुजाग्रती । प्रवहति जगद्धात्री भूत्वेव रङ्गपतेर्दया शिशिरमधुराऽगाधा सा नः पुनातु मरुद्वृधा ॥ २३ ॥
तरलतनुतरङ्गैर्मन्दमान्दोल्यमानस्वतटविटपिराजीमञ्जरीसुप्तभृङ्गा । क्षिपतु कनकनाम्नी निम्नगा नारिकेलक्रमुकजमकरन्दैर्मांसलापा मदंहः ॥ २४ ॥
कदलवकुलजम्बूपूगमाकन्दकण्ठद्वयससरसनीरामन्तरा सह्यकन्याम् । प्रबलजलरपिपासालम्बमानाम्बुदौघभ्रमकरतरुबृन्दं वन्द्यतामन्तरीपम् ॥ २५ ॥
यद्विष्णोः पदमतमः परोरजोऽग्र्यं मुक्तानामनुविरजं विदीप्रमाहुः । तत्पुण्यं पुलिनमिदंतयाऽद्य मध्येकावेरि स्फुरति तदीक्षिषीय नित्यम् ॥ २६ ॥
त्रय्यन्तप्रहतिमतीषु वैष्णवानां प्राप्यासु प्रचुरभवश्रमापहासु । कावेरीपरिचरितासु पावनीषु श्रीरङ्गोपवनतटीषु वर्तिषीय ॥ २७ ॥
स्फुरितशफरदीर्यन्नालिकेरीगुलुच्छप्रसृमरमधुकुल्यावर्धितानोकहानि । रतिमविरति रङ्गारामरम्यम्थलानि क्रमुकपदसमोचामेचकानि क्रियासुः ॥ २८ ॥
अधिपरमपदं पुरीमयोध्याममृतवृतामपराजितामुशन्ति । पुलिनमुपरि रङ्गराजधानी पिशितदृशामपि सा पुरश्चकास्ति ॥ २९ ॥
भवपदमपि दिव्यधाम कर्तुं तदुभयतन्त्रितहर्म्यमालिकेव । भवनमणितलैर्विजृम्भमाणा जयतितरामिह रङ्गराजधानी ॥ ३० ॥
मणिमकररुचीर्वितत्य पाशान् विसृमरकेतुकरैर्मृगं हिमांशोः । श्रिय इव नवकेलये जिघृक्षुस्सुखयतु रङ्गपुरी चकासती नः ॥ ३१ ॥
जनपदसरिदन्तरीपपुष्यत्पुरपरिपालननित्यजागरूकान् । प्रहरणपरिवारवाहनाढ्यान् कुमुदमुखान् गणनायकान् नमामि ॥ ३२ ॥
अहृतसहजदास्याः सूरयस्स्रस्तबन्धा विमलचरमदेहा इत्यमी रङ्गधाम । महितमनुजयतिर्यक्स्थावरत्वाश्श्रयन्ते सुनियतमिति ह स्म प्राहुरेभ्यो नमः स्तात् ॥ ३३ ॥
श्रीरङ्गदिव्यभवनं भुवि गोपुराणां प्राकारितेन निकरेण गरुत्मतेव । पार्श्वप्रसारितपतत्त्रपुटेन भक्त्या नानातनूभिरुपगूढमुपघ्नयामः ॥ ३४ ॥
प्रकारमध्याजिरमण्डपोक्त्या सद्वीपरत्नाकररत्नशैला । सर्वसहा रङ्गविमानसेवां प्राप्तेव तन्मन्दिरमाविरस्ति ॥ ३५ ॥
जितबाह्यजिनादिमणिप्रतिमा अपि वैदिकयन्निव रङ्गपुरे । मणिमण्डपवपगणान् विदधे परकालकविः प्रणमेमहि तान् ॥ ३६ ॥
स्मेराननाक्षिकमलैर्नमतः पुनानान् दंष्ट्रागदाभ्रुकुटिभिर्द्विषतो धुनानान् । चण्डप्रचण्डमुखतः प्रणमामि रङ्गद्वारावलीषु चतसृष्वधिकारभाजः ॥ ३७ ॥
सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि दुष्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्रस्थूणादिनाऽऽम्नातमवाप्नवानि ॥ ३८ ॥
विहरति हरौ लक्ष्म्या लीलातपत्रपरिष्क्रियाविनिमयविधासूनासूनिक्रियासफलोत्पलाम् । अथ मुनिमनःपद्मेष्वब्जासहायविहारजश्रमहरतटीं यामस्तामैन्दवीमरविन्दिनीम् ॥ ३९ ॥
तापत्रयीमैन्दवपुष्करिण्यां निमज्ज्य निर्वापयिताऽस्मि यस्याः । अभ्यासतोऽपामघमर्षणीनां चन्द्रस्सुधादीधितितामवाप ॥ ४० ॥
पूर्वेण तां तद्वदुदारनिम्नप्रसन्नशीताशयमग्ननाथाः । पराङ्कुशाद्याः प्रथमे पुमांसो निषेदिवांसो दश मां दयेरन् ॥ ४१ ॥
आधारशक्तिमुपरि प्रकृतिं परेण तां कूर्ममत्र फणिनं पृथिवीं फणासु । पृथ्व्यां पयोधिमधितन्नलिनं निधाय श्रीरङ्गधाम सुनिविष्टमभिष्टवानि ॥ ३२ ॥
परेण नाकं पुरि हेममय्यां यो ब्रह्मकोशोऽस्त्यपराजिताख्यः । श्रीरङ्गनाम्ना तमपौरुषेयं विमानराजं भुवि भावयानि ॥ ४३ ॥
अनाद्याम्नातत्वात्पुरुषरचनादोषरहितं जने तांस्तान् कामान् विदधदपि सायुज्यहृदयम् । असन्देहाध्यासं भगवदुपलम्भस्थलममी प्रतीमः श्रीरङ्गं श्रुतिशतसमानर्द्धि शरणम् ॥ ४४ ॥
अपि फणिपतिभावाच्छभ्रमन्तश्शयालोर्मरकतसुकुमारैरङ्गभर्तुर्मयूखैः । सकलजलधिपानश्यामजीमूतजैत्रं पुलकयति विमानं पावनं लोचने नः ॥ ४५ ॥
व्यापि रूपमपि गोष्पदयित्वा भक्तवत्सलतयोज्झितवेलम् । तद्द्विषन्तपनृकेसरिरूपं गोपुरोपरि विजृंभितमीडे ॥ ४६ ॥
अहमलमवलम्बस्सीदतामित्यजस्रं निवसदुपरिभागे गोपुरं रङ्गधाम्नः । क्वचन नृपरिपाटीवासितं क्वापि सिंहक्रमसुरभितमेकं ज्योतिरग्रे चकास्ति ॥ ४७ ॥
संशोध्य पावनमनोहरदृष्टिपातैर्देवाय मामपि निवेदयतां गुरूणाम् । सव्योत्तरे भगवतोऽस्य कटाक्षवीक्षापङ्क्तिं प्रपद्य परितः परितो भवेयम् ॥ ४८ ॥
श्रीरङ्गराजकरनम्रितशाखिकाभ्यो लक्ष्म्या स्वहस्तकलितश्रवणावतंसम् । पुन्नागतल्लजमजस्रसहस्रगीतिसेकोत्थदिव्यनिजसौरभमामनामः ॥ ४९ ॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं विन्यस्य विश्वचिदचिन्नयनाधिकारम् । यो निर्वहत्यनिशमङ्गुलिमुद्रयैव सेनान्यमन्यविमुखास्तमशिश्रियाम ॥ ५० ॥
सैन्यधुरीणप्राणसहायां सूत्रवतीमाशिश्रियमम्बाम् । श्रीपदलाक्षालाञ्छितसेवाप्रोतलसद्दोर्वल्लिविलासाम् ॥ ५१ ॥
विदधतु सुखं विष्वक्सेनस्य ते प्रथमे भटाः करिमुखजयत्सेनौ कालाह्वसिंहमुखौ च न । जगति भजतां तत्तत्मत्यूहतूलदवानलाः दिशिदिशि दिवारात्र श्रीरङ्गपालनकर्मठाः ॥ ५२ ॥
श्रुतिमयमतिहर्षप्रश्रयस्मेरवक्त्रं मणिमुकुरमिवाग्रे मङ्गलं रङ्गधाम्नः । शरणमभिगताः स्मो यत्र रूपस्वरूपखगुणमहिमदर्शी मोदते रङ्गशायी ॥ ५३ ॥
तार्क्ष्यपक्षतिवदस्य वल्लभां रुद्रया सह सुकीर्तिमर्चये । हर्षबाष्पमपि कीर्तिमर्थिनां यन्मुखेन कमला कटाक्षयेत् ॥ ५४ ॥
स्वास्त्ररूपस्फुरन्मौलि मा शब्द इत्युद्धुनानां सुरांस्तर्जनीमुद्रया । नाथनिद्रोचितोन्निद्रताम्रेक्षणां सञ्चरन्तीं स्तुमस्तां च पञ्चायुधीम् ॥ ५५ ॥
अस्त्रग्रामाग्रेसरं नाथवीक्षाशीधुक्षीबोद्वेलनृत्ताभिरामम् । चक्रं दैत्यच्छेदकल्माषिताङ्गं भ्राम्यज्ज्वालामालभारि प्रपद्ये ॥ ५६ ॥
हनुभूषविभीषणयोः स्यां यतमाविह मोक्षमुपेक्ष्य । रघुनायकनिष्क्रयभूतं भुवि रङ्गधनं रमयेते ॥ ५७ ॥
इतो बहिः पञ्च पराञ्चि खानि प्रत्यञ्चि तानि स्युरितोऽन्तरित्थम् । औपाधिकेभ्यो निरुपाधिभोग्ये प्रत्याहरद्वेत्रवरं व्रजामि ॥ ५८ ॥
शेषशयलोचनामृतनदीरयाकुलितलोलमानानाम् । आलम्बमिवामोदस्तम्भद्वयमन्तरङ्गमभियामः ॥ ५९ ॥
श्रीरङ्गान्तर्मन्दिरं दीप्रशेषं श्रीभूमीतद्रम्यजामातृगर्भम् । पश्येम श्रीदिव्यमाणिक्यभूषामञ्जूषायास्तुल्यमुन्मीलितायाः ॥ ६० ॥
लीलालताकृपाणीभृङ्गारपतद्ग्रहार्पितकराग्राः । प्रोतावतंसितकुचाः पदाब्जसंवाहिनीर्वयं स्तुमहे ॥ ६१ ॥
मुकुलितनलिनास्सकौमुदीका इव सुनिशा विमलादिका नवापि । शिरसि कृतनमस्यदेकहस्ता इतरकरोच्चलचामराः श्रयेयम् ॥ ६२ ॥
उत्फुल्लपङ्कजतटाकमिवोपयानि श्रीरङ्गराजमिह दक्षिणसव्यसीम्नोः । लक्ष्मीं विहाररसिकामिव राजहंसीं छायामिवाभ्युदयिनीमवनीं च तस्याः ॥ ६३ ॥
पिब नयन ! पुरस्ते रङ्गधुर्याभिधानं स्थितमिव परिफुल्लत्पुण्डरीकं तटाकम् । श्रियमपि विहरन्तीं राजहंसीमिवास्मिन् प्रतिफलनमिवास्याः पश्य विश्वंभरां च ॥ ६४ ॥
सौशील्यशीतलमवेलकृपातरङ्गसंप्लाविताखिलमकृत्रिमभूम निम्नम् । लक्ष्म्या च वासितमभूम विगाहमानाः श्रीरङ्गराजमिषपद्मसरः प्रसन्नम् ॥ ६५ ॥
सिंहासने कमलया क्षमया च विश्वमेकातपत्रयितुमस्मदसून्निषण्णम् । लक्ष्मीस्वयंवरसनाथितयौवनश्रीसौन्दर्यसंपदवलिप्तमिवालिहीय ॥ ६६ ॥
आपादमूलमणिमौलि समुल्लसन्त्या स्वातन्त्र्यसौहृदतरङ्गितयाऽङ्गभङ्ग्या । सख्यं समस्तजनचेतसि सन्दधानं श्रीरङ्गराजमनिमेषमनुस्त्रियास्म ॥ ६७ ॥
क्षितिकमलनिवासाकल्पवल्लीसलीलोल्लुठनदशदिशोद्यद्यौवनारम्भजृम्भः । श्रममपहरतां मे रङ्गधामेति तत्तद्वरमयफलनम्रः पत्रलः पारिजातः ॥ ६८ ॥
संभाषमाणमिव सर्ववशंवदेन मन्दस्मितेन मधुरेण च वीक्षणेन । दिव्यास्त्रपुष्पितचतुर्भुजमत्युदारं रङ्गास्पदं मम शुभाश्रयमाश्रयाणि ॥ ६९ ॥
एते शङ्खगदासुदर्शनभृतः क्षेमंकरा बाहवः पादद्वन्द्वमिदं शरण्यमभयं भद्रं च वो हे जनाः ! । इत्यूचुष्यभयङ्करे करतले स्मेरेण वक्त्रेण तद्व्याकुर्वन्निव निर्वहेन्मम धुरं श्रीरङ्गसर्वंसहः ॥ ७० ॥
अङ्गैरहंप्रथमिकाचरितात्मदानैरामोदमाननवयौवनसावलेपैः । है ! पारिजातमिव नूतनतायमानशाखाशतं (हृदि दधी) कथमधीमहि रङ्गधुर्यम् ॥ ७१ ॥
आलोका हृदयालवो रसवशादीशानमीषत्स्मितं प्रच्छायानि वचांसि पद्मनिलयाचेतश्शरव्यं वपुः । चक्षुष्मन्ति गतागतानि त इमे श्रीरङ्गशृङ्गार ! ते भावा यौवनगन्धिनः किमपरं सिञ्चन्ति चेतासि नः ॥ ७२ ॥
आयत्किरीटमलिकोल्लसदूर्ध्वपुण्ड्रमाकर्णलोचनमनङ्कुशकर्णपाशम् । उत्फुल्लवक्षसमुदायुधबाहुमर्हन्नीवि च रङ्गपतिमब्जपदं भजामः ॥ ७३ ॥
अब्जन्यस्तपदाब्जमञ्चितकटींसवादिकौशेयकं किञ्चित्ताण्डवगन्धिसंहननकं निर्व्याजमन्दस्मितम् । चूडाचुम्बिमुखाम्बुजं निजभुजाविश्रान्तदिव्यायुधं श्रीरङ्गे शरदश्शतं तत इतः पश्येम लक्ष्मीसखम् ॥ ७४ ॥
अग्रे तार्क्ष्येण पश्चादहिपतिशयनेनात्मना पार्श्वयोश्च श्रीभूमिभ्यामतृप्त्या नयनचुलकनैस्सेव्यमानामृतौघम् । वक्त्रेणाविःस्मितेन स्फुरदभयगदाशङ्खचक्रैर्भुजाग्रैर्विश्वस्मै तिष्ठमानं शरणमशरणा रङ्गराजं भजाम ॥ ७५ ॥
आर्तापाश्रयमर्थिकल्पकमसह्यागस्करक्ष्मातलं सद्यस्संश्रितकामधेनुमभियत्सर्वस्वमस्मद्धनम् । श्रीरङ्गेश्वरमाश्रयेम कमलाचक्षुर्महीजीवितं श्रीरङ्गे स सुखाकरोतु सुचिरं दास्यं च धत्तां मयि ॥ ७६ ॥
स्वफणवितानदीप्रमणिमालिसुदामरुचिम्रदिमसुगन्धिभोगसुखशायितरङ्गधनम् । मदभरमन्थरोच्छ्वसितनिश्श्वसितोत्तरलं फणिपतिडोलिकातलिममाश्वसिमः प्रणताः ॥ ७७ ॥
वटदलदेवकीजठरवेदशिरःकमलास्तनशठकोपवाग्वपुषि रङ्गगृहे शयितम् । वरदमुदारदीर्घभुजलोचनसंहननं पुरुषमुपासिषीय परमं प्रणतार्तिहरम् ॥ ७८ ॥
उदधिपरमव्योम्नोर्विस्मृत्य पद्मवनालयाविनिमयमयीं निद्रां श्रीरङ्गनामनि धामनि । फणिपरिबृढस्फारप्रश्वासनिःश्वसितक्रमस्खलितनयनं तन्वन् मन्वीत नः परमः पुमान् ॥ ७९ ॥
जलधिमिव निपीतं नीरदेनाद्रिमब्धौ निहितमिव शयानं कुञ्जरं वाऽद्रिकुञ्जे । कमलपदकराक्षं मेचकं धाम्नि नीले फणिनमधिशयानं पूरुषं वन्दिषीय ॥ ८० ॥
श्रीरङ्गेशय इह शर्म निर्मिमीतामाताम्राधरपदपाणिविद्रुमो नः । कावेरीलहरिकरोपलाल्यमानो गम्भीराद्भुत इव तर्णकोऽर्णवस्य ॥ ८१ ॥
सिञ्चेदिमं च जनमिन्दिरया तटित्वान् भूषामणिद्युतिभिरिन्द्रधनुर्दधानः । श्रीरङ्गधामनि दयारसनिर्भरत्वादद्रौ शयालुरिव शीतलकालमेघः ॥ ८२ ॥
आमौलिरत्नमकरात्पुनरा च पद्भ्यां धामक्रमोन्नमदुदारमनोहराङ्गम् । श्रीरङ्गशेषशयनं नयनैः पिबामः पश्यन्मनःप्रवणमोघमिवामृतस्य ॥ ८३ ॥
अरविन्दितमङ्घ्रिपाणिवक्त्रैरपि तापिञ्छितमञ्चिताङ्गकान्त्या । अधरेण च बन्धुजीवितं श्रीः नियतं नन्दनयेत रङ्गचन्द्रम् ॥ ८४ ॥
अन्योन्यरञ्जकरुचोऽनुपमानशोभाः दिव्यस्रगम्बरपरिष्करणाङ्गरागाः । संस्पर्शतः पुलकिता इव चिन्मयत्वाद्रङ्गेन्दुकान्तिमधिकामुपबृंहयन्ति ॥ ८५ ॥
द्रुतकनकजगिरिपरिमिलदुदधिप्रचलितलहरिवदहमहमिकया । स्नपयति जनभिममपहरति तमः फणिशयमरतकमणिकिरणगणः ॥ ८६ ॥
भोगीन्द्रनिःश्वसितसौरभवर्धितं श्रीनित्यानुषक्तपरमेश्वरभावगन्धि । सौरम्यमाप्लुतदिशावधि रङ्गनेतुरानन्दसंपदि निमज्जयते मनांसि ॥ ८७ ॥
रङ्गभर्तुरपि लोचनचर्चां साहसावलिषु लेखयमानम् । पुष्पहास इति नाम दुहानं सौकुमार्यमतिवाङ्मनसं नः ॥ ८८ ॥
एकैकस्मिन्परमवयवेऽनन्तसौन्दर्यमग्नं सर्वं द्रक्ष्ये कथमिति मुधा मामथा मन्दचक्षुः ! । त्वां सौभ्रात्रव्यतिकरकरं रङ्गराजाङ्गकानां तल्लावण्यं परिणमयिता विश्वपारीणवृत्ति ॥ ८९ ॥
वपुर्मन्दारस्य प्रथमकुसुमोल्लाससमयः क्षमालक्ष्मीभृङ्गीसकलकरणोन्मादनमधु । विकासस्सौन्दर्यस्रजि रसिकताशीधुचुलको युवत्वं रङ्गेन्दोस्सुरभयति नित्यं सुभगताम् ॥ ९० ॥
किरीटचूडरत्नराजिराधिराज्यजल्पिका । मुखेन्दुऽकान्तिरुन्मुखं तरङ्गितेव रङ्गिणः ॥ ९१ ॥
शिखारत्नोद्दीप्रं दिशिदिशि च माणिक्यमकरीलसच्छृङ्ग रङ्गप्रभुमणिकिरीटं मनुमहे । समुत्तुङ्गस्फीतं चिदचिदधिराजश्रिय इव प्रियाक्रीडं चूडामणिमपि नितम्बं तमभितः ॥ ९२ ॥
विहरतु मयि रङ्गिणश्चूलिकाभ्रमरकतिलकोर्ध्वपुण्ड्रोज्ज्वम् । मुखममृततटाकचन्द्राम्बुजस्मयहरशुचिमुग्धमन्दस्मितम् ॥ ९३ ॥
मुखपुण्डरीकमुपरि त्रिकण्टकं तिलकाश्च केसरसमास्समौक्तिकाः । इह रङ्गभर्तुरभियन्मधुव्रतप्रकरश्रियं भ्रमरकाणि बिभ्रति ॥ ९४ ॥
हृदयं प्रसा(ध)दयति रङ्गपतेः मधुरोर्ध्वपुण्ड्रतिलकं ललितम् । अलिकार्धचन्द्रदलसंवलिताममृतस्रुतिं यदभिशङ्कयते ॥ ९५ ॥
सरसीरुहे समवनाम्य मदादुपरि प्रनृत्यदलिपंक्तिनिभे । स्फुरतो भ्रुवावुपरि लोचनयोः सविलासलास्यगति रङ्गभृतः ॥ ९६ ॥
स्मरशरनलिनभ्रमान्नेत्रयोः परिसरनमदिक्षुचापच्छवि । युगमुदयति रङ्गभर्तुर्भ्रुवोः गुरुकुलमिव शार्ङ्गनृत्तश्रियः ॥ ९७ ॥
कृपया परया करिष्यमाणे सकलाङ्गं किल सर्वतोऽक्षि नेत्रे । प्रथमं श्रवसी समास्तृणाते इति दैर्घ्येण विदन्ति रङ्गनेतुः ॥ ९८ ॥
श्रवोनासारोधात्तदवधिकडोलायितगते विशालस्फीतायद्रुचिरशिशिराताम्रधवले । मिथो बद्धस्पर्धस्फुरितशफरद्वन्द्वललिते क्रियास्तां श्रीरङ्गप्रणयिनयनाब्जे मयि दयाम् ॥ ९९ ॥
करुणामृतकूलमुद्वहैषा प्रणमत्स्वागतिकी प्रसन्नशीता । मयि रङ्गधनोपकर्णिकाऽक्ष्णोः सरितोर्वीक्षणवीचिसन्ततिःस्तात् ॥ १०० ॥
विलसति नासा कल्पकवल्ली मुग्धेव रङ्गनिलयस्य । स्मितमपि तन्नवकुसुमं चुबुककपोलं च पल्लवोल्लसितम् ॥ १०१ ॥
नयनशफरिविद्धौ कर्णपाशावरुद्धौ रुष इव लुठतोऽर्चिर्मञ्जरीरुद्गिरन्तौ । परिमिलदलकालीशैवलामंसवेलाम् अनु मणिमकरोद्धौ रङ्गधुर्यामृताब्धेः ॥ १०२ ॥
अधरमधुराम्भोजं तत्कर्णपाशमृणालिकावलयमभि मामास्तां रङ्गेन्दुवक्त्रसरश्चिरम् । नयनशफरं नासाशैवालवल्लरि कर्णिकामकरमलकश्रेणीपर्यन्तनीलवनावलि ॥ १०३ ॥
रमयतु स मां कण्ठः श्रीरङ्गनेतुरुदञ्चितक्रमुकतरुणग्रीवाकम्बुप्रलम्बमलिम्लुचः । प्रणयविलगल्लक्ष्मीविश्वंभराकरकन्दलीकनकवलयक्रीडासंक्रान्तरेख इवोल्लसन् ॥ १०४ ॥
अधिष्ठानस्तम्भौ भुवनपृथुयन्त्रस्य कमलाकरेणोरालाने अरिकरिघटोन्माथमुसलौ । फणीद्रस्फीतस्रग्व्यतिकरितसन्दिग्धविभवौ भुजौ मे भूयास्तामभयमभि रङ्गप्रणयिन ॥ १०५ ॥
प्रतिजलधितो वेलाशय्यां विभीषणकौतुकात् पुनरिव पुरस्कर्तुं श्रीरङ्गिणः फणिपुङ्गवे । समुपदधतः कञ्चित्कञ्चित्प्रसारयतो भुजद्वयमपि सदा दानश्रद्धालु दीर्घमुपास्महे ॥ १०६ ॥
कुसुमभरालसौ स्फटिकवेदिशयौ विटपावमरतरोः परं परिहसत् पृथु रङ्गभुजः । बहुमणिमुद्रिकाकनककङ्कणदोर्वलयैः किसलयि दोर्द्वयं फणिनि निर्भरसुप्तमिमः ॥ १०७ ॥
मद्रक्षाव्रतकौतुके सुकटके विक्रान्तिकर्णेजपे शार्ङ्गज्याकिणकर्कशिम्नि सुमनस्स्रङ्मोहने मार्दवे । दोर्द्वन्द्वं बहुश प्रलोभ्य कमलालीलोपधानं भवत्तच्चित्रालकमुद्रितं विजयते श्रीरङ्गसंसङ्गिनः ॥ १०८ ॥
भवार्तानां वक्त्रामृतसरसि मार्गं दिशदिव स्वयं वक्त्रेणेदं वरदमिति सन्दर्शितमिव । कराम्भोजं पङ्केरुहवनरुषा पाटलमिव श्रयामि श्रीरङ्गेशयितुरुपधानीकृतमहम् ॥ १०९ ॥
किरीटं श्रीरङ्गेशयितुरुपधानीकृतभुजः विधीशाधीशत्वाद्धटत इति संस्पृश्य वदति । निहीनानां मुख्यं शरणमिति बाहुस्तदितरः स्फुटं ब्रूते पादाम्बुजयुगलमाजानुनिहितः ॥ ११० ॥
मलयजशशिलिप्तं मालतीदामतल्पं सुमणिसरवितानं कौस्तुभस्वस्तिदीपम् । दनुजवृषविषाणोलेखचित्रं च लक्ष्मीललितगृहमुपासे रङ्गसर्वंसहोरः ॥ १११ ॥
हारस्फारितफेनमंशुलहरीमालर्द्धि मुक्ताफलश्रेणीशीकरदुर्दिनं तत इतो व्याकीर्णरत्नोत्करम् । आविःकौस्तुभलक्ष्मि रङ्गवसतेर्निस्सीमभूमाद्भुतं वक्षो मन्दरमथ्यमानजलधिश्लाघं विलोकेमहि ॥ ११२ ॥
वक्षःस्थल्यां तुलसिकमलाकौस्तुभैर्वैजयन्ती सर्वेशत्वं कथयतितरां रङ्गधाम्नस्तदास्ताम् । कूर्मव्याघ्रीनखपरिमिलत्पञ्चहेती यशोदानद्धा मौग्ध्याभरणमघिकं नस्समाधिं धिनोति ॥ ११३ ॥
कियान् भरो मम जगदण्डमण्डलीत्यतृप्तितः क्रशितमिवोदरं विभोः । रिरक्षिषोचितजगतीपरम्परा परामिव प्रथयति नाभिपङ्कजम् ॥ ११४ ॥
त्रिविधचिदचिद्बृन्दं तुन्दावलम्बिवलित्रयं विगणयदिवैश्वर्यं व्याख्याति रङ्गमहेशितुः । प्रणतवशतां ब्रूते दामोदरत्वकरः किणः तदुभयगुणाकृष्टं पट्टं किलोदरबन्धनम् ॥ ११५ ॥
त्रयो देवास्तुल्यास्त्रितयमिदमद्वैतमधिकं त्रिकादस्मात्तत्त्वं परमिति वितर्कान् विघटयन् । विभोर्नाभीपद्मो विधिशिवनिदानं भगवतस्तदन्यद्भ्रूभङ्गीपरवदिति सिद्धान्तयति नः ॥ ११६ ॥
गर्भे कृत्वा गोप्तुमनन्तं जगदन्तर्मज्जद्भ्रम्या वाच्छति साम्यं ननु नाभिः । उत्क्षिप्यैतत्प्रेक्षितुमुद्यद्भ्रमिभूयं नाभीपद्मो रंहति रङ्गायतनाब्धेः ॥ ११७ ॥
मदमिव मधुकैटभस्य रम्भाकरभकरीन्द्रकराभिरूप्यदर्पम् । स्फुटमिव परिभूय गर्वगुर्वोः किमुपमिमीमहि रङ्गकुञ्जरोर्वोः ॥ ११८ ॥
कटीकान्तिसंवादिचातुर्यनीवीलसद्रत्नकाञ्चीकलापानुलेपम् । महाभ्रंलिहन्मेरुमाणिक्यसानूरिवाभाति पीताम्बरं रङ्गबन्धोः ॥ ११९ ॥
भर्मस्थलाशुपरिवेष इवाम्बुराशेस्सन्ध्याम्बुवाहनिकुरुम्बमिवाम्बरस्य । शम्पाकदम्बकमिवाम्बुमुचो मना नः पीताम्बरं पिबति रङ्गधुरन्धरस्य ॥ १२० ॥
वैभूषण्या कान्तिराङ्गी निमग्ना विष्वद्रीची क्वापि सोन्मादवृत्तिः । जाने जानुद्वन्द्ववार्ताविवर्तो जातः श्रीमद्रङ्गतुङ्गालयस्य ॥ १२१ ॥
श्रीरङ्गेशयजङ्घे श्रीभूम्यामर्शहर्षकण्टकिते । तत्केलिनलिनमांसलनालद्वयललितमाचरतः ॥ १२२ ॥
वन्दारुबृन्दारकमौलिमालायुञ्जानचेतःकमलाकरेम्यः । संक्रन्तरागाविव पादपद्मौ श्रीरङ्गभर्तुर्मनवै नवै च ॥ १२३ ॥
यद्बृन्दावनपण्डितं दधिरवैर्यत्ताण्डवं शिक्षितं यल्लक्ष्मीकरसौख्यसाक्षि जलजप्रस्पर्धमानर्द्धि यत् । यद्भक्तेष्वजलस्थलज्ञमपि यद्दूत्यप्रसङ्गोत्सुकं तद्विष्णोः परमं पदं वहतु नः श्रीरङ्गिणो मङ्गलम् ॥ १२४ ॥
शिञ्जानश्रुतिशिञ्जिनीमणिरवैर्वज्रारविन्दध्वजच्छत्रीकल्पकशङ्खचक्रमुकुरैस्स्तैस्तैश्च रेखामयैः । ऐश्वर्येण जयं त्रिविक्रममुखं घुष्यद्भिराम्रेडितं श्रीरङ्गेशयपादपङ्कजयुगं वन्दामहे सुन्दरम् ॥ १२५ ॥
पुनानि भुवनान्यहं बहुमुखीति सर्वाङ्गुलीझलज्झलितजाह्नवीलहरिबृन्दसन्देहदाः । दिवा निशि च रङ्गिणश्चरणचारुकल्पद्रुमप्रवालनवमञ्जरीः नखरुचीर्विगाहेमहि ॥ १२६ ॥
श्रीरङ्गेन्दोः पदकिसलये नीलमञ्जीरमैत्र्या वन्दे वृन्तप्रणयिमधुपव्रातराजीवजैत्रे । नित्याभ्यर्चानतविधिमुखस्तोमसंशय्यमानै हेमाम्भोजैर्निबिडनिकटे रामसीतोपनीतैः ॥ १२७ ॥

 

।। इति श्रीरङ्गराजस्तवे पूर्वशतकं समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.