श्रीपराशरभट्टाचैरनुगृहीतः
॥ श्रीगुणरत्नकोशः ||
श्रीपराशरभट्टार्यः श्रीरङ्गेशपुरोहितः । श्रीवत्साङ्कसुतः श्रीमान् श्रेयसे मेऽस्तु भूयसे ॥
श्रियै समस्तचिदचिद्विधानव्यसनं हरेः । अङ्गीकारिभिरालोकैः सार्थयन्त्यै कृतोऽञ्जलिः ॥ १ ॥
उल्लासपल्लवितपालितसप्तलोकीनिर्वाहकोरकितनेमकटाक्षलीलाम् । श्रीरङ्गहर्म्यतलमङ्गलदीपरेखां श्रीरङ्गराजमहिषीं श्रियमाश्रयामः ॥ २ ॥
अनुकलतनुकाण्डालिङ्गनारम्भशुम्भत्प्रतिदिशभुजशाखश्रीसखानोकहर्द्धिः । स्तननयनगुलुच्छस्फारपूष्पद्विरेफा रचयतु मयि लक्ष्मीकल्पवल्ली कटाक्षान् ॥ ३ ॥
यद्भ्रूभङ्गाः प्रमाणं स्थिरचररचनातारतम्ये मुरारेः वेदान्तास्तत्त्वचिन्तां मुरभिदुरसि यत्पादचिह्नैस्तरन्ति । भोगोपोद्घातकेलीचुलकितभगवद्वैश्वरूप्यानुभावा सा नः श्रीरास्तृणीताममृतलहरिधीलङ्घनीयैरपाङ्गैः ॥ ४ ॥
यद्यावत्तव वैभवं तदुचितस्तोत्राय दूरेस्पृहाः स्तोतुं के वयमित्यदश्च जगृहुः प्राञ्चो विरिञ्चादयः । अप्येवं तव देवि! वाङ्मनसयोर्भाषानभिज्ञं पदं कावाचः प्रयतामहे कवयितुं स्वस्ति प्रशस्त्यै गिराम् ॥ ५ ॥
स्तोतारं तमुशन्ति देवि! कवयो यो विस्तृणीते गुणान् स्तोतव्यस्य ततश्च ते स्तुतिधुरा मय्येव विश्राम्यति । यस्मादस्मदमर्षणीयफणितिस्वीकारतस्ते गुणाः क्षान्त्यौदार्यदयादयो भगवति! स्वां प्रस्नुवीरन् प्रथाम् ॥ ६ ॥
सूक्तिं समग्रयतु नः स्वयमेव लक्ष्मीः श्रीरङ्गराजमहिषी मधुरैः कटाक्षैः । वैदग्ध्यवर्णगुणगुम्भनगौरवैर्यां कण्डूलकर्णकुहराः कवयो धयन्ति ॥ ७ ॥
अनाघ्रातावद्यं बहुगुणपरीणाहि मनसो दुहानं सौहार्दं परिचितमिवाथापि गहनम् । पदानां सौभ्रात्रादानिमिषनिषेव्यं श्रवणयोः त्वमेव श्रीर्मह्यं बहुमुखय वाणीविलसितम् ॥ ८ ॥
श्रियःश्रीः! श्रीरङ्गेशय! तव च हृद्यां भगवतीं श्रियं त्वत्तोऽप्युच्चैर्वयमिह फणामः शृणुतराम् । दृशौ ते भूयास्तां सुखतरलतारे श्रवणतः पुनर्हर्षोत्कर्षात् स्फुटतु भुजयोः कञ्चुकशतम् ॥ ९ ॥
देवि! श्रुतिं भगवतीं प्रथमे पुमांसः त्वत्सद्गुणौघमणिकोशगृहं गृणन्ति । तद्द्वारपाटनपटूनि च सेतिहाससन्तर्कणस्मृतिपुराणपुरस्सराणि ॥ १० ॥
आहुर्वेदानमानं कतिचन कतिचाराजकं विश्वमेतद्राजन्वत्केचिदीशं गुणिनमपि गुणैस्तं दरिद्राणमन्ये । भिक्षावन्ये सुराजम्भवमिति च जडास्ते तलातल्यकार्षुः ये ते श्रीरङ्गहर्म्याङ्गण कनकलते! न क्षणं लक्ष्यमासन् ॥ ११ ॥
मनसि विलसताऽक्ष्णा भक्तिसिद्धाञ्जनेन श्रुतिशिरसि निगूढं लक्ष्मि! ते वीक्षमाणाः । निधिमिव महिमानं भुञ्जते येऽपि धन्याः ननु भगवति! दैवीं सम्पदं तेऽभिजाताः ॥ १२ ॥
अस्येशाना जगत इति तेऽधीमहे यां समृद्धिं श्रीः! श्रीसूक्तं बहुमुखयते तां च शाखानुशाखम् । ईष्टे कश्चिज्जगत इति यः पौरुषे सूक्त उक्तः तं च त्वत्कं पतिमधिजगावुत्तरश्चानुवाकः ॥ १३ ॥
उद्बाहुस्त्वामुपनिषदसावाह नैका नियन्त्रीं श्रीमद्रामायणमपि परं प्राणिति त्वच्चरित्रे । स्मर्तारोऽस्मज्जननि! यतमे सेतिहासैः पुराणैः निन्युर्वेदानपि च ततमे त्वन्महिम्नि प्रमाणम् ॥ १४ ॥
आकुग्रामनियामकादपि विभोरासर्वनिर्वाहकादैश्वर्यं यदिहोत्तरोत्तरगुणं श्रीरङ्गभर्तुः प्रिये! । तुङ्गं मङ्गलमुज्ज्वलं गरिमवत्पुण्यं पुनः पावनं धन्यं यत्तददश्च वीक्षणभुवस्ते पञ्चषा विप्रुषः ॥ १५ ॥
एको मुक्तातपत्रप्रचलमणिघणात्कारिमौलिर्मनुष्यः दृप्यद्दन्तावलस्थो न गणयति नतान् यत्क्षणं क्षोणिपालान् । यत्तस्मै तिष्ठतेऽन्यः कृपणमशरणो दर्शयन्दन्तपङ्क्ती तत्ते श्रीरङ्गराजप्रणयिनि! नयनोदञ्चितन्यञ्चिताभ्याम् ॥ १६ ॥
रतिर्मतिसरस्वतीधृतिसमृद्धिसिद्धिश्रियः सुधासखि! यतोमुखं चिचलिषेत्तव भ्रूलता । ततोमुखमथेन्दिरे! बहुमुखीमहंपूर्विकां विगाह्य च वशंवदाः परिवहन्ति कूलङ्कषाः ॥ १७ ॥
सहस्थिरपरित्रसव्रजविरिञ्चनाकिञ्चनैः अनोकहबृहस्पतिप्रबलविक्लबप्रक्रियम् । इदं सदसदात्मना निखिलमेव निम्नोन्नतं कटाक्षतदुपेक्षयोस्तव हि लक्ष्मि! तत्ताण्डवम् ॥ १८ ॥
काले शंसति योग्यतां चिदचितोरन्योन्यमालिङ्गतोः भूताहंकृतिबुद्धिपञ्चकरणीस्वान्तप्रवृत्तीन्द्रियैः । अण्डानावरणैस्सहस्रमकरोत्तान् भूर्भुवःस्वर्वतः श्रीरङ्गेश्वरदेवि! ते विहृतये सङ्कल्पमानः प्रियः ॥ १९ ॥
शब्दादीन् विषयान् प्रदर्श्य विभवं विस्मार्य दास्यात्मकं वैष्णव्या गुणमाययाऽऽत्मनिवहान् विप्लाव्य पूर्वः पुमान् । पुंसा पण्यवधूविडम्बिवपुषा धूर्तानिवायासयन् श्रीरङ्गेश्वरि! कल्पते तव परीहासात्मने केलये ॥ २० ॥
यद्वूरे मनसो यदेव तमसः पारे यदत्यद्भुतं यत्कालादपचेलिमं सुरपुरी यद्गच्छतो दुर्गतिः । सायुज्यस्य यदेव सूतिरथवा यद्दुर्ग्रहं मद्गिरां तद्विष्णोः परमं पदं तव कृते मातस्समाम्नासिषुः ॥ २१ ॥
हेलायामखिलं चराचरमिदं भोगे विभूतिः परा पुण्यास्ते परिचारकर्मणि सदा पश्यन्ति ये सूरयः । श्ररिङ्गेश्वरदेवि! केवलकृपानिर्वाह्यवर्गे वयं शेषित्वे परमः पुमान् परिकरा ह्येते तव स्फारणे ॥ २२ ॥
आज्ञानुग्रहभीमकोमलपुरीपाला फलं भेजुषां याऽयोध्येत्यपराजितेति विदिता नाकं परेण स्थिता । भावैरद्भुतभोगभूमगहनैस्सान्द्रा सुधास्यन्दिभिः श्रीरङ्गेश्वरगेहलक्ष्मि! युवयोस्तां राजधानीं विदुः ॥ २३ ॥
तस्यां च त्वत्कृपावन्निरवधिजनताविश्रमार्हावकाशं सङ्कीर्णं दास्यतृष्णाकलितपरिकरैः पुंभिरा नन्दनिघ्नैः । स्नेहादस्थानरक्षाव्यसनिभिरभयं शार्ङ्गचक्रासिमुख्यैः आनन्दैकार्णवं श्रीर्भगवति! युवयोराहुरास्थानरत्नम् ॥ २४ ॥
तत्र स्रक्स्पर्शगन्धं स्फुरदुपरिफणारत्नरोचिर्वितानं विस्तीर्यानन्तभोगं तदुपरि नयता विश्वमेका तपत्रम् । तैस्तैः कान्तेन शान्तोदितगुणविभवैरर्हता त्वामसंख्यैः अन्योन्याद्वैतनिष्ठाघनरसग हनान् देवि! बध्नासि भोगान् ॥ २५ ॥
भोग्या वामपि नान्तरीयकतया पुष्पाङ्गरागैस्समं निर्वृत्तप्रणयातिवाहनविधौ नीताः परीवाह ताम् । देवि! त्वामनु नीलया सह मही देव्यस्सहस्रं तथा याभिस्त्वं स्तनबाहुदृष्टिभिरिव स्वाभिः प्रियं श्लाघसे ॥ २६ ॥
ते साध्यास्सन्ति देवा जननि! गुणवपुर्वेषवृत्तस्वरूपैः भोगैर्वा निर्विशेषास्सवयस इव ये नित्यनिर्दोषगन्धाः । हे श्रीः! श्रीरङ्गभर्तुस्तव च पदपरीचारवृत्त्यै सदाऽपि प्रेमप्रद्राणभावा विलहृदयहठात्कारकैङ्कर्यभोगाः ॥ २७ ॥
स्वरूपं स्वातन्त्र्यं भगवत इदं चन्द्रवदने! त्वदाश्लेषोत्कर्षाद्भवति खलु निष्कर्षसमये । त्वमासीर्मातः! श्रीः! कमितुरिदमित्थंत्वविभवस्तदन्तर्भावात्त्वां न पृथगभिधत्ते श्रुतिरपि ॥ २८ ॥
तव स्पर्शादीशं स्पृशति कमले! मङ्गलपदं तवेदं नोपाधेरुपनिपतितं श्रीरसि यतः । प्रसूनं पुष्यन्तीमपि परिमलर्द्धिं जिगदिषुः न चैवंत्वादेवं स्वदत इति कश्चित्कवयते ॥ २९ ॥
अपाङ्गा भूयांसो यदुपरि परं ब्रह्म तदभूदमी यत्र द्वित्रास्स च शतमखादिस्तदधरात् । अतः श्रीराम्नायस्तदुभयमुशंस्त्वां प्रणिजगौ प्रशस्तिस्सा राज्ञो यदपि च पुरीकोशकथनम् ॥ ३० ॥
स्वतः श्रीस्त्वं विष्णोः स्वमसि तत एवैष भगवान् त्वदायत्तर्द्धित्वेऽप्यभवदपराधीनविभवः । स्वया दीप्त्या रत्नं भवदपि महार्घं न विगुणं न कुण्ठस्वातन्त्र्यं भवति च न चान्याहितगुणम् ॥ ३१ ॥
प्रशकनबलज्योतिर्ज्ञानैश्वरीविजयप्रथाप्रणतवरणप्रेमक्षेमङ्करत्वपुरस्सराः । अपि परिमलः कान्तिर्लावण्यमर्चिरितीन्दिरे! तव भगवतश्चैते साधारणा गुणराशयः ॥ ३२ ॥
अन्येऽपि यौवनमुखा युवयोस्समानाः श्रीरङ्गमङ्गलविजृम्भणवैजयन्ति! । तस्मिंस्तव त्वयि च तस्य परस्परेण संस्तीर्य दर्पण इव प्रचुरं स्वदन्ते ॥ ३३ ॥
युवत्वादौ तुल्येऽप्यपरवशताशत्रुशमनस्थिरत्वादीन्कृत्वा भगवति गुणान् पुंस्त्वसुलभान् । त्वयि स्त्रीत्वैकान्तान् म्रदिमपतिपारार्थ्यकरुणाक्षमादीन्वा भोक्तुं भवति युवयोरात्मनि भिदा ॥ ३४ ॥
घनकनकद्युती युवदशामपि मुग्धदशां युवतरुणत्वयोरुचितमाभरणादि परम् । ध्रुवमसमानदेशविनिवेशि विभज्य हरौ त्वयि च कुशेशयोदरविहारिणि! निर्विशसि ॥ ३५ ॥
अङ्गं ते मृदुशीतमुग्धमधुरोदारैर्गुणैर्गुम्भतः क्षीराब्धेः किमृजीषतामुपगता मन्ये महार्घास्ततः । इन्दुः कल्पलतासुधामधुमुखा इत्याविलां वर्णनां श्रीरङ्गेश्वरि! शान्तकृत्रिमकथं दिव्यं वपुर्नार्हति ॥ ३६ ॥
प्रणमदनुविधित्सावासनानम्रमग्रे प्रणयिपरिचिचीषाकुञ्चितं पार्श्वकेन । कनकनिकषचञ्चञ्चम्पकस्रक्समानप्रवरमिदमुदारं वर्ष्म वाचामभूमिः ॥ ३७ ॥
एकं न्यञ्च्य नतिक्षमं मम परं चाकुञ्च्य पादाम्बुजं मध्येविष्टरपुण्डरीकमभयं विन्यस्य हस्ताम्बुजम् । त्वां पश्येम निषेदुषी प्रतिकलं कारुण्यकूलङ्कषस्फारापाङ्गतरङ्गमम्ब! मधुरं मुग्धं मुखं बिभ्रतीम् ॥ ६८ ॥
सुरभितनिगमान्तं वन्दिषीयेन्दिरायाः तव कमलपलाशप्रक्रियं पादयुग्मम् । वहति यदुपमर्दैर्वैजयन्ती हिमाम्भःप्लुतिभिरिव नवत्वं कान्तबाहान्तराले ॥ ३९ ॥
त्वत्स्वीकारकलावलेपकलुषा राज्ञां दृशो दुर्वचाः नित्यं त्वन्मधुपानमत्तमधुपश्रीनिर्भराभ्यां पतिम् । दृग्भ्यामेव हि पुण्डरीकनयनं वेदो विदामास ते साक्षाल्लक्ष्मि! तवावलोकविभवः काक्वा कया वर्ण्यते ॥ ४० ॥
आनन्दात्मभिरीशमज्जनमदक्षीबालसैरागलप्रेमार्द्रैरपि कूलमुद्वहकृपासंप्लावितास्मादृशैः । पद्मे! ते प्रतिबिन्दुबद्धकलिकब्रह्मादिविष्कम्भकैः ऐश्वर्योद्गमगद्गदैरशरणं मां पालयालोकितैः ॥ ४१ ॥
पादारुन्तुदमेव पङ्कजरजश्चेटीभृशालोकितैः अङ्गम्लानिरथाम्ब! साहसविधौ लीलारविन्दग्रहः । डोला ते वनमालया हरिभुजे हा कष्टशब्दास्पदं केन श्रीरतिकोमला तनुरियं वाचां विमर्दक्षमा ॥ ४२ ॥
आमर्यादमकण्टकं स्तनयुगं नाद्यापि नालोकितभ्रूभेदस्मितविभ्रमा जहति वा नैसर्गिकत्वायशः । सूते शैशवयौवनव्यतिकरो गात्रेषु ते सौरभं भोगस्रोतसि कान्तदेशिककरग्राहेण गाहक्षमः ॥ ४३ ॥
आमोदाद्भुतशालि यौवनदशाव्याकोचमम्लानिमत्सौन्दर्यामृतसेकशीतलमिदं लावण्यसूत्रार्पितम् । श्रीरङ्गेश्वरि! कोमलाङ्गसुमनस्सन्दर्भणं देवि! ते कान्तोरःप्रतियत्नमर्हति कविं धिङ्मामकाण्डाकुलम् ॥ ४४ ॥
मर्मस्पृशो रससिरा व्यतिविध्य वृत्तैः कान्तोपभोगललितैर्लुलिताङ्गयष्टिः । पुष्पावलीव रसिकभ्रमरोपभुक्ता त्वं देवि! नित्यमभिनन्दयसे मुकुन्दम् ॥ ४५ ॥
कनकरशनामुक्ताताटङ्कहारललाटिकामणिसरतुलाकोटिप्रायैर्जनार्दनजीविके! । प्रकृतिमधुरं गात्रं जागर्ति मुग्धविभूषणैर्वलयशकलैर्दुग्धं पुष्पैश्च कल्पलता यथा ॥ ४६ ॥
सामान्यभोग्यमपि कौस्तुभवैजयन्तीपञ्चायुधादि रमणः स्वयमेव बिभ्रत् । तद्भारखेदमिव ते परिहर्तुकामः श्रीरङ्गधाममणिमञ्जरि! गाहते त्वाम् ॥ ४७ ॥
यदि मनुजतिरश्चां लीलया तुल्यवृत्तेः अनुजनुरनुरूपा देवि! नावातरिष्यः । असरसमभविष्यन्नर्म नाथस्य मातः! दरदलदरविन्दोदन्तकान्तायताक्षि ॥ ४८ ॥
स्खलितकटकमाल्यैर्दोर्भिरब्धिं मुरारेः भगवति! दधिमाथं मथ्नतः श्रान्तिशान्त्यै । भ्रमदमृततरङ्गावर्ततः प्रादुरासीः स्मितनयनसुधाभिस्सिञ्चती चन्द्रिकेव ॥ ४९ ॥
मातर्मैथिलि! राक्षसीस्त्वयि तदैवार्द्रापराधास्त्वया रक्षन्त्या पवनात्मजाल्लघुतरा रामस्य गोष्ठी कृता । काकं तं च विभीषणं शरणमित्युक्तिक्षमौ रक्षतः सा नस्सान्द्रमहागसस्सुखयतु क्षान्तिस्तवाकस्मिकी ॥ ५० ॥
मातर्लक्ष्मि! यथैव मैथिलजनस्तेनाध्वना ते वयं त्वद्दास्यैकरसाभिमानसुभगैर्भावैरिहामुत्र च । जामाता दयितस्तवेति भवतीसम्बन्धदृष्ट्या हरिं पश्येम प्रतियाम याम च परीचारान् प्रहृष्येम च ॥ ५१ ॥
पितेव त्वत्प्रेयान् जननि! परिपूर्णागसि जने हित(ः) स्रोतोवृत्त्या भवति च कदाचित् कलुषधीः । किमेतर्न्निर्दोषः क इह जगतीति त्वमुचितैः उपायैर्विस्मार्य स्वजनयसि माता तदसि नः ॥ ५२ ॥
नेतुर्नित्यसहायिनी जननि! नस्त्रातुं त्वमत्रागता लोके त्वन्महिमावबोधबधिरे प्राप्ता विमर्दं बहु । क्लिष्टं ग्रावसु मालतीमृदुपदं विश्लिष्य वासो वने जातो धिक् करुणां धिगस्तु युवयोः स्वातन्त्र्यमत्यङ्कुशम् ॥ ५३ ॥
अधिशयितवानब्धिं नाथो ममन्थ बबन्ध तं हरधनुरसौ वल्लीभञ्जं बभञ्ज च मैथिलि । अपि दशमुखीं लूत्वा रक्षःकबन्धमनर्तयत् किमिव न पतिः कर्ता त्वच्चाटुचुञ्चुमनोरथः ॥ ५४ ॥
दशशतपाणिपादवदनाक्षिमुखैरखिलैः अपि निजवैश्वरूप्यविभवैरनुरूपगुणैः । अवतरणैरतैश्च रसयन् कमिता कमले! क्वचन हि विभ्रमभ्रमिमुखे विनिमज्जति ते ॥ ५५ ॥
जननभवनप्रीत्या दुग्धार्णवं बहुमन्यसे जननि! दयितप्रेम्णा पुष्णासि तत् परमं पदम् । उदधिपरमव्योम्नोर्विस्मृत्य मादृशरक्षणक्षममिति धिया भूयः श्रीरङ्गधामनि मोदसे ॥ ५६ ॥
औदार्यकारुणिकताश्रितवत्सलत्वपूर्वेषु सर्वमतिशायितमत्र मातः! । श्रीरङ्गधाम्नि यदुतान्यदुदाहरन्ति सीतावतारमुखमेतदमुष्य योग्या ॥ ५७ ॥
ऐश्वर्यमक्षरगतिं परमं पदं वा कस्मैचिदञ्जलिभरं वहते वितीर्य । अस्मै न किञ्चिदुचितं कृतमित्यथाम्ब! त्वं लज्जसे कथय कोऽयमुदारभावः ॥ ५८ ॥
ज्ञानक्रियाभजनसम्पदकिञ्चनोऽहम् इच्छाधिकारशकनानुशयानभिज्ञः । आगांसि देवि! युवयोरपि दुस्सहानि बध्नामि मूर्खचरितस्तव दुर्भरोऽस्मि ॥ ५९ ॥
इत्युक्तिकैतवशतेन विडम्बयामि तानम्ब! सत्यवचसः पुरुषान् पुराणान् । यद्वा न मे भुजबलं तव पादपद्मलाभे त्वमेव शरणं विधितः कृताऽसि ॥ ६० ॥
श्रीरङ्गे शरदश्शतं सह सुहृद्वर्गेण निष्कण्टकं निर्दुःखं सुसुखं च दास्यरसिकां भुक्त्वा समृद्धिं पराम् । युष्मत्पादसरोरुहान्तररजः स्याम त्वमम्बा पिता सर्वं धर्ममपि त्वमेव भव नः स्वीकुर्वकस्मात्कृपाम् ॥ ६१ ॥
॥ इति श्रीगुणरत्नकोशः समाप्तः ।।