अवतारत्तनियन्
‘ज्ञेशोपाये’ शकाब्दे विबुधवरहिते सर्वधार्याख्यवर्षे
विष्ण्वृक्षे पूर्वपक्षे सवितरि च तुलां सादरं सेवमाने।
श्रीमान् लोकार्यवर्यः शुभगुणजलधिः कृष्णपादार्यपुत्रो
हस्त्यद्रीशावतार स्समजनि सकलाम्नायसंरक्षणार्थम्॥
:- तिरुमुडि अडैवु (यज्ञना)
तुलायां श्रवणे जातं लोकार्यमहमाश्रये।
श्रीकृष्णपादतनयं तत्पादाब्जसमाश्रयम्॥
:- तिरुमुडि अडैवु (कंदाडै)
यस्य सारस्वतं शास्त्रं दिव्यं वचनभूषणम्।
तस्मै हस्तिगिरीशाय श्रीजगद्गुरवे नमः॥
:- उत्तरसूरिचरितम् (संग्रहः)
नित्यतनियन्
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे।
संसारभोगिसंदष्ट जीवजीवातवे नमः॥
:- ईयुण्णि पद्मनाभप्पॆरुमाळ् कृतिः
चरमश्लोकः
अक्षयाब्दे ज्येष्ठशुद्धद्वादश्यां लोकदेशिकः।
ज्योतिष्कुट्यां तु चित्रायां जोतिश्चक्रमगात् पदम्॥
श्रीवचनभूषणत्तनियन्
आकण्ठोत्कण्ठ वैकुण्ठप्रियाणां कण्ठभूषणम्।
गुरुणा जगतामुक्तं व्यक्तं वचनभूषणम्॥
तंदॆ कृष्णपादरतनियन्
श्रीकृष्णपादपादाज्जे नमामि शिरसा सदा।
यत्प्रसादप्रभावेन सर्वसिद्धिरभून्मम॥
अवर अवतारतनियन्
मिथुने स्वातिसंजातं कलिवैरिपदाश्रितम्।
उदक्प्रतोळीनिलयं कृष्णपादमहं भजे॥
मूलपुरुष मुडुंबैनंबितनियन्
श्रीमद्रामानुजाचार्य श्रीपदाब्जमधुव्रतम्।
श्रीवत्सपूर्णमनघं वन्दे वरदसंज्ञकम्॥