श्रीलोकाचार्य पञ्चाशत्
कावेरी पुळिनान्तराळ लहरी लावण्यमालालसत्
पर्यङ्कीकृतपन्नगेश्वरतनौ निद्रानिबद्धादरम् ।
कस्तूरी-तिलकाञ्चितं कमलजेनाराधितं श्रीसखं
वस्तु-स्वीकृतकौस्तुभं दिशतु नः स्वस्ति प्रशस्तं स्वत: ॥ (१)
नतलोकपालनधिया मरुद्वृधा
पुलिनं जगाम नलिनं विहाय या ।
मयि सा तरङ्गयतु रङ्गिणः प्रिया-
करुणातरङ्गविततीरपाङ्गजाः ॥ (२)
यत्पाणिपद्मधृतकाञ्चनवेत्रवल्ली
स्पन्दस्सुरेन्द्र भयभञ्जन लम्पटात्मा ।
वैकुण्ठसूरिपरिषत्प्रभुरत्र शर्म
सोऽयं विकासयतु सूत्रवतीपतिर्मे ॥ (३)
मुहुर्नत्वा मूर्ध्ना विनतविविधापत्प्रशमने शठारेः
पादाब्जे मधुरकविविदेवस्य शरणे ।
इदं याचे वाचाऽ प्यलकवकुलालीपरिगलन्
मधूलीमाधुर्यं मम वचनभङ्गयां स दिशतु ॥ (४)
विकासयित्वा निगमान्तभाष्य-
सिद्धाञ्जनात् कामपि दीर्घदृष्टिम्।
प्रादर्शयद्यः परमं पुमांसं
स पातु मां संयमिसार्वभौमः ॥ (५)
कूरेश गोविन्द पदारविन्द
सेवारसामोदित चित्तभूमा ।
भट्टार्यवर्योऽ पि सुरवं ददातु
ममाद्य वेदान्तिमुनीश्वरेण ॥ (६)
यज्जिह्वाग्र विशालरङ्गरसिका वाणी प्रवीणाऽनिशं
नृत्यन्ती द्रविडार्यसंस्कृतवपुर्धत्ते कवीनां प्रियम् ।
लोकार्यः कलिवैरिदासगुरुरित्यन्याभिधानस्स मे
कुर्यादुत्तरवीथि कृष्ण महिताचार्यः कलासम्पदम् ॥ (७)
अतुलः कलिवैरिदासवाणी
मणिवल्ली वलनावलम्बशारवी ।
गुरुरुत्तरवीथिकानिवासी
मम भद्राणि तनोतु कृष्णनामा ॥ (८)
वाणीपुण्यसुधापगां शठजितः स्वैरं विगाह्यादरात्,
आनीयामृतमत्र चक्रतुरुभौ पानीयशालात्मकम् ।
यौ वाग्भूषण देशिकेन्द्रहृदयाभिख्य प्रबन्धद्वयं,
तौ वन्दे भुवनार्यसुन्दरवरौ कृष्णात्मजौ देशिकौ ॥ (१० )
मधुरिपुमहिलायाः स्फीतवीक्षासरोजात्,
मधुरफणितिभृङ्गी निर्गता काचिदेषा ।
भुवनगुरुपादाब्ज-द्वन्द्वनिर्यन्मरन्दान्,
अनुदिनमनुभूयाऽऽनन्द सान्द्रा मामास्तु ॥ (११)
अन्तर्विलोचनमनन्ततमोनिगूढम्,
आलोक्य जन्तु निवहस्य दयार्द्रचेताः ।
उन्मीलयन्नुपहितेन रहस्त्रयार्थ दीपेन
यो जयति लोकगुरुं तमीडे ॥ (१२)
हृदयमुकुरबिम्बं यत्तवहङ्कारपङ्क
स्थगित विमलरूपं स्वोक्तिशुद्धाम्बुपूरैः ।
भुवनगुरुवर स्तच्छोधयित्वा जनानां
चिदचिदधिपतीं स्त्रीन् दर्शयन् भाति तत्र ॥ (१३)
मणिप्रवालाञ्चितसूक्तिसूनैः
विभूषिताऽशेष सहस्त्रशारवम्।
अकल्पयत् कञ्चन कल्पवृक्षं
कृष्णः क्षितौ लोकगुरूत्त्माख्यम् ॥ (१४)
कावेरीयुगलाम्बुपूर ललिते पुण्यान्तरीपेऽस्म्यहं
लोकार्यो व्रजतं व्रजेति वरदः प्रोवाच भक्ताय हि ।
इत्येवं गुरुसूक्तिभिर्गुरुवरं त्वां मन्यमानस्त्वहं
वन्दे वारणशैलशृङ्गनिलयं मद्दैवतं श्रीसखम् ॥ (१५)
यस्यासीत् कुलदैवतं रघुवरेणाराधितः श्रीसखः
कावेरीसरिदन्तरीपनगरी वासस्थली पुण्यभूः ।
कृष्णो मान्यगुरुर्वरॆण्यमहिमा वेदान्तविद्यानिधिः
भ्राता सौम्यवरः स्वयं च भुवनार्योऽसि कस्ते समः ॥ (१६)
श्रीवत्सरूपरुचिरोऽप्यरति: प्रिया ते
प्रीतिर्मधुद्यिषि भवप्रभवा न भीतिः ।
लोकावलीविमललोचनगोचराङ्गः
कृष्णात्मजस्त्वमपरः किमु मन्मथोऽसि ॥ (१७)
वक्त्रेन्दोर्भुवनार्यवर्य-भवतो वाणी सुधाधोरणी
जञ्जेऽष्टादशभेदपूर विहितत्राणात्मसस्या यतः ।
येषा संसृतिभूरभूत् फलवती तस्मान्नदीमातृका
कृष्णाम्भोदविलोकिनी किल पुरा न प्राप वृद्धिं पराम् ॥ (१८)
जनिजलधिपरीतागार लीनात्मपङ्क्त्यै
त्रिविधविशय तृष्णाराक्षसीपीडितायै ।
भुवनगुरुवरोऽदात् श्रीमतीं सूक्तिभूषां
पवनज इव देव्यै पाणिभूषां स्वभर्तुः ॥ (१९)
पटुप्रथमदेशिकैर्विरचिताः प्रबन्धाः परे
रहस्त्रयपदावलीविवरणे प्रवृत्ताः परम् ।
जगद्गुरुमुखोदिताः जगति भान्त्यमी भास्कराः
भवप्रभवशर्वरी विभवशेमुषीतस्कराः ॥ (२० )
श्रुतिनिकरगभीर काननान्त-
र्विहरण विश्रुतबुद्धिना त्वयैव ।
प्रपदनसरणिर्विशोधिताऽभूत्
भुवनगुरो भुवि लोकसाधनीया ।। (२१)
विगतविषयतृष्णः कृष्णपादाश्रयात्मा
द्रमिडनिगमदर्शी देशिकानां प्रधानः ।
मधुरकविवचोभि र्माननीयो ममासौ
शठरिपुरिव लोकाचार्यवर्यो विभाति ॥ (२२)
चुलुकितभवसिन्धुं चित्तजक्रोधदैत्य
प्रमथनपटुबुद्धिं श्रीजगद्देशिकेन्द्रम् ।
द्रमिडफणितिदक्षं दक्षिणाशानिषण्णं
कलशतनयमन्यं मन्यते मे मनस्त्वाम् ॥ (२३)
अगम्यमहिमाजनै र्निगममौलिकान्तारभू –
विहाररसिको वृषक्षितिभृतो वसन् कन्दरे ।
विभाति विमतोन्मदद्विरदकुम्भसम्भेदन
क्षमोक्तिनखरो महान् स जगदार्यकण्ठीरवः ॥ (२४)
अवनसवनकर्मण्यात्मलोकस्य रङ्गी
भुवनगुरुवर त्वां कल्पयित्वा समर्थम् ।
तदनुभुजगराजोत्तुङ्ग पर्यङ्कशायीं
रचयति सुखनिद्रां राघवाणां कुलेन्द्रः ॥ (२५)
कामं भवन्तु गुरवो विविधागमार्थ
विज्ञानविश्वविदिताः विहितप्रबन्धाः ।
त्वत्सूक्तिमौक्तिकगणो यदलञ्चकार
रङ्गाधिपश्रुतियुगं भुवनार्य किं तैः ॥ (२६)
देवीषु पद्मनिलया दयिता बभूव
भक्तेषु सोऽपि वकुलाङ्कमुनिर्वरेण्यः ।
आर्येषु निर्मलगुणस्त्वयमन्तरङ्गः
रङ्गाधिपस्य नृपते र्जगदार्यनामा ॥ (२७)
त्वयि विलसति रङ्गे शेषतल्पेन पुंसा
जगति गुरुवर श्रीदृष्टिपूराभिषिक्ते ।
कथमिव भुवनार्य त्वां विनाऽन्यं
भजन्ते सति दिनकरबिम्बे के प्रदीपं वहन्ति ॥ (२८)
परपदनिरतोऽसौ पद्मया रङ्गनाथः
पुलिनतटमवप्य त्वां भुवं प्रापयित्वा ।
चिरमभिलषितार्थं प्राप्य लोकार्य मन्ये
कलयति दरहासं फुल्लवक्त्रारविन्दः ॥ (२९)
भुवनगुरूत्तमश्चतुररङ्गपुरापणिकः
कलिरिपुदासवर्य कलितामलसूक्तिमणीन् ।
गुणपणसङ्ग्रहेण निपुणाय ददाति हि
तान् अथ पुनरेव व्रुद्धिमुपयान्ति विचित्रमिदम् ॥ (३० )
यतिप्रवर भारतीजलनिधिं प्रपीयामलं
जगद्गुरुवलाहकः पटु ववर्ष भूमौ जलम् ।
विकासमगमत् परां विनतसस्य पङ्क्तिस्तदा
प्रवाहबहुलाऽभवत् निगममौलिविद्यानदी ॥ (३१)
रूपं पुराणमणिभिः श्रुतिवज्रदीप्तं
पद्मापतेर्मुनिजनस्तदलञ्चकार ।
तत्र त्वया विरचितं तु मणिप्रवाल
नाग्भूषणं हि नितरां भुवनार्य भाति ॥ (३२)
क्रोधः क्वापि पयोनिधौ निपतितः कामस्त्वनङ्गोऽ
भवद्दर्पः सर्प इव द्रुतं खलबिले मग्नो न दृग्गोचरः ।
दम्भाहङ्कृतिलोभमत्सरभटाः कुत्रापि कोणे गताः
जाते भूमितले विवेकमहिते लोकार्यवर्य त्वयि ॥ (३३)
दया मुदमुपागमत् दमशमक्षमा भूषिताः
विरक्तिरपिशोभते विमलविद्ययाऽलङ्कृता ।
मुहुस्सुमतिसंस्कृता लसति विष्णुभक्तिर्गुणाः
विवेकजनकं जगद्गुरु मुपाश्रिता भान्त्यमी ॥ (३४)
चतुर्वदनसुन्दरी तव मुखारविन्दं श्रिता
रमापतिपदप्रिया लसति कापि भक्तिर्हृदि ।
विरक्तिरपि शोभते विदितनीलकण्ठाङ्गगा
वधुविमुखम् आः कथं भुवनदेशिकात्वां जगुः ॥ (३५)
जगद्गुरुवरक्षितौ क्षपितकल्मषौघां कलां
चतुर्थपुरुषार्थदामपि कलौ वितत्य त्वयि ।
कृतावतरणे पुनः कृतयुगक्रमः शोभते
न कोऽपि भुवि दृश्यते नरकवर्त्मगामी नरः ॥ (३६)
शुभानि किल तं भजन्त्यथ कला समुज्जृम्भते
भवन्ति नवसम्पदो भजति मोक्षलक्ष्मीः स्वयम्
गुरुर्भवति देहिनां भुवनदेशिकस्यादरात्
अपाङ्गलवविप्रुषः परिपतन्ति यस्याङ्गके ॥ (३७)
हृदन्तरमः प्रभामनुभवन्ति भक्तिं परे
प्रपत्तिमपि केचन प्रबलकर्मनिर्मूलिनीम् ।
जगद्गुरुवरद्वयं भवतु साधनं सिद्धिदं
वयं तव पदाम्बुजस्मरणमेव मन्यामहे ॥ (३८)
शिष्येषु वाग्भूषणभूषितेषु
जगद्गुरो ते करुणाऽभिषेकात् ।
स कूरवंशोत्तम दासनामा मान्यो
गुरुणामभवन्महिम्ना ॥ (३९)
तव चरणसरोजस्पर्शधन्यस्तु कश्चित्
फणिपतिपुरबाह्योद्यान सीमानिवासी ।
भुवनगुरुवर श्रीपद्मनाभस्य पादे
विलयमगमदारान्मानवैदृश्यमानः ॥ (४० )
जगद्गुरुवरानिशं चरणसम्भृता भूसुराः
मुमुक्षुजनशेखरास्त्विति न चित्रमत्रावनौ ।
विविच्य चिदचित्प्रभून् तव कृपाञ्जनोद्यदृशा
निवृत्तिपथगामिनी सपदि भामिनी काप्यभूत् ॥ (४१)
दृष्ट्वा ते भुवनार्य सुन्दरवपुः केचित् भवाम्भोनिधिं
सन्तीर्णाः श्रवणामृतं तव गुणं श्रुत्वा सकृत् केचन ।
अन्ये केऽपि सुधासहोदरगिरः पीत्वाऽभवन्निर्मलाः
तस्मात् संसृतिवर्तनी क्षितितलेक्षीणा बभूव क्षणात् ॥ (४२)
आचक्रवालमवनौ भुवनार्य सर्वे
शंसन्ति मङ्गळगुणान् विबुधप्रियांस्ते ।
तेषु त्वदीयकरुणां प्रगुणां तु मन्ये
रक्षां यया कलयसे भवभीतजन्तोः ॥ (४३)
बहुविधदुरितौघे मज्जतां मानवानां
द्वयमनुकरयुग्मं सम्प्रसार्याञ्जसा तान् ।
तटभुवमुपनीय प्रापिताशेष विद्यान्
कलयसि भुवनार्य त्वं कृपाचोदितात्मा ॥ (४४)
सञ्जीवनी चरणरेणुकणावली ते
संसारतक्षक मुखक्षत मुग्धजन्तोः ।
लोकार्यवर्य करुणामृत सारणी तु
संविल्लतां कलयते हृदये प्ररूढाम् ॥ (४५)
दृढभवदविद्यावल्लरी वासनाऽब्धिः
समयविहितपोषा विस्तृता कर्मवृक्षे ।
भुवनगुरुवरोक्तिप्रौढजञ्झामरुद्भिः
सतरुरपहृता सा क्षेत्रिणो भग्नमूला ॥ (४६)
विमतकुमतिपीडा मानसे सम्प्ररूढा
दृढममुमिह जीवं कृन्तति क्रूरवृत्तया ।
अमृतरससखेभिस्तां निवार्याशु दृग्भिः
विरचय विधिशक्तं श्रीजगद्येशिकेन्द्र ॥ (४७)
सुकृतलवविहीनं शुद्धभावैर्विमुक्तं
दुरितशतनिकेतं दूरयातं दयायाः ।
पुनरपि जनमॆनं वीक्षसे रक्षितुं त्वं
भुवनगुरुरसीत्थं कोऽपि वात्सल्यसिन्धुः ॥ (४८)
दोषा येन कृता मुरारिकरुणासारापगारोधिकाः
शैलेन्द्राः शतशो वसन्ति न गुणस्याणोरणुर्दृश्यते ।
लोकाचार्य जनं तमेनमलसं रक्षेभ्दवांश्चेत् ततः
पद्माकान्तदयादयो वरगुणास्तस्मिंस्तु तेभ्यो नमः ॥ (४९)
शृणोमि यदि वैदिकान् मखविधीन् जगद्येशिक
प्रकृष्टजनसेवितान् अहह मे मनः कम्पते ।
अहेतुकदयारसैरवति दीनजीवान् मुदा
रमापतिरिति त्वया रचितसूक्तिभिर्मोदते ॥ (५० )
प्रणम्य चरणौ तव प्रणतदेहिनां कामदौ
इदं किमपि वाञ्छितं भुवनदेशिक प्रार्थये ।
असारफणितिक्षमाचरणमद्य हित्वा मनः
प्रयातु पदवीं शुभां वचनभूषणालङ्कृताम् ॥ (५१)
इत्थं जगद्गुरुवरप्रवणेन सर्वतन्त्र
स्वतन्त्र कवितार्किकसिंहनाम्ना ।
श्रीवेङ्कटेशकविना कलितां स्तुतिं ये
स्निग्धाः पठन्ति भुवि यान्ति पराम् श्रियं ते ॥ (५२)
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य
वेदान्ताचार्यस्य कृतिषु लोकार्यपञ्चाशत् समाप्ता