श्रीनारसिंह–पञ्चकम्
श्री नारसिंहवपुषे निगृहीतभक्त
सर्वां ह से व्रतजुषे प्रणतावनाय ।
प्रख्यातदिव्य-महसे कमलोरसे-
ऽस्मत्सर्वार्थसंचयपुषेस्तु नमः परस्मै ।। (१)
सन्तु प्रत्यर्थि-गर्वप्रकरतिमिर-सन्दोहसंहारकारि
प्रादुर्भाव प्रकारानरहरिमुखदंष्ट्रा प्रभासारधाराः।
धीरा हैरण्यवक्षो-विदळनसमयोऽद्भूतघोरासृगाक्त
श्वेताश्वेतस्वरोचिः नखरुचिभिदुरा श्श्रेयसे भूयसेनः ।। (२)
नरहरिमहमीडे यादवक्ष्माधरेन्द्रं
पुरहरसुरबृंदाधीश्वराद्यर्चिताङ्घ्रिम् ।
वरपरमपुमर्थप्रापणैकान्तमेकं
परमरिकुलमालोन्मूलनं साधनं नः ।। (३)
हर्ता दुर्वारगर्व-प्रचुरतरधियां संविहर्ता मुनीनां
हार्दाम्भोजान्तरन्तः स्फुरदखिलजगदिभ्रदार्तार्तिहन्ता ।
भर्ता सर्वेश्वराणां जगदुदयलयस्थेमकर्ता प्रहर्ता
दुर्दान्तक्रूरकृत्या सुरपति विततेः पातु मां नारसिंहः ।। (४)
नरहरिमरिगर्वभंजनोऽद्यन्नख-
दंष्ट्राद्युतिभास्वराखिलाशम् ।
पुरहरविधिपूर्वसर्वदेव-
प्रणत पदाम्बुजमाश्रये सदाहम् ।। (५)
इति विदधे स्तुतिसंज्ञं यतिपतिकृपया कृतार्थतापन्नः ।
सत्कारमादिपुंसो वाचिकमक्कारकन्नि नरसिह्मः ।। (६)
कमलाकुच-कस्तूरी-कर्दमाङ्कितवक्षसे ।
यादवाद्रिनिवासाय संपत्पुत्राय मङ्गलम् ।।
इति श्रीनारसिंह–पञ्चकम्