श्रीः
श्रीमते रामानुजाय नमः
श्रीसुदर्शनकवचम्
प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद ।
सौदर्शनम् तु कवचम् पवित्रम् ब्रूहि तत्वतः ।। १ ।।
नारद उवाच –
शृणुष्वेह द्विजश्रेष्ठ ! पवित्रम् परमाद्भुतम् ।
सौदर्शनम् तु कवचम् दृष्टादृष्टार्थसाधकम् ।। २ ।।
कवचस्यास्य ऋषिर्ब्रम्हा छन्दोऽनुष्टुप् तथा स्मृतम् ।
सुदर्शनमहाविष्णुर्देवता सम्प्रचक्षते ।। ३ ।।
हाम् बीजम् शक्तिरत्रोक्ता ह्रीम् क्रोम् कीलकमिष्यते ।
शिरस्सुदर्शनः पातु ललाटम् चक्रनायक: ।। ४ ।।
घ्नाणम् पातु महादैत्य-रिपुव्यादृशौ मम।
सहस्रारश्श्रुतिम् पातु कपोलम् जिह्वाम् देववल्लभः ।। ५ ।।
विश्वात्मा पातु मे वक्त्रम् जिह्वाम् विद्यामयो हरिः।
कण्ठम् पातु महाज्वालः स्कन्धौ दिव्यायुधेश्वर: ।। ६ ।।
भुजौ मे पातु विजयी करौ कैटभनाशनः ।
षट्कोणसम्स्थितः पातु हृदयम् धाम मामकम् ।। ७ ।।
मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ।
सर्वायुधमय: पातु कटिम् श्रोणिम् महाद्युतिः ।। ८ ।।
सोमसूर्याग्निनयनः ऊरू पातु च मामकौ ।
गुह्यम् पातु महामाय: जानुनी तु जगत्पतिः ।। ९ ।।
जङ्घे पातु ममाजस्रम् अहिर्बुध्न्यसुपूजितः ।
गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ।। १० ।।
सकलायुधसम्पूर्णः निखिलाङ्गम् सुदर्शनः ।
य इदम् कवचम् दिव्यम् परमानन्ददायिनम् ।। ११ ।।
सौदर्शनमिदम् यो वै सदा शुद्धः पठेन्नरः ।
तस्यार्थसिद्धिर्विपुला करस्था भवति ध्रुवम् ।। १२ ।।
कूश्माण्ड-चण्डभूताद्याः ये च दुष्टा ग्रहाः स्मृताः।
पलायन्तेऽनिशम् भीताः वर्मणोस्य प्रभावत: ।। १३ ।।
कुष्ठापस्मारगुल्माद्याः व्याधयः कर्महेतुकाः ।
नश्यन्त्येतन् मन्त्रिताम्बुपानात् सप्तदिनावधि ।। १४ ।।
अनेन मन्त्रिताम् मृत्स्नाम् तुलसीमूलसम्स्थिताम् ।
लालाटे तिलकम् कृत्वा मोहयेत् त्रिजगन्नरः ।। १५ ।।
वर्मणोऽस्य प्रभावेन सर्वान्कामानवाप्नुयात् ||
इति श्रीभृगुसम्हितोक्तम् श्रीसुदर्शनकवचम् सम्पूर्णम्