श्रीः
श्रीमते रामानुजाय नमः
अम्बरीषप्रोक्ता सुदर्शनचक्रस्तुतिः
त्वमग्निः भगवान् सूर्यस्त्वम् सोमो ज्योतिषाम् पतिः ।
त्वमापस्त्वम् क्षिति: व्योम वायुः मात्रेन्द्रियाणि च ।। १ ।।
सुदर्शन नमस्तुभ्यम् सहस्राराच्युतप्रिया ।
सर्वास्त्रघातिन् विप्राय स्वस्ति भूया इडस्पते ।। २ ।।
त्वम् धर्मस्त्वमृतम् सत्यम् त्वम् यज्ञोऽखिलयज्ञभुक् ।
त्वम् लोकपालः सर्वात्मा त्वम् तेजः पौरुषम् परम् ।। ३ ।।
नमः सुनाभाखिलधर्मसेतवे
ह्यधर्मशीलासुरधूमकेतवे ।
त्रैलोक्य गोपाय विशुध्दवर्चसे
मनोजवायाद्भुतकर्मणे गृणे ।। ४ ।।
त्वेत्तेजसा धर्ममयेन सम्हृतम्
तमः प्रकाशश्च धृतो महात्मनाम् ।
धुरत्ययस्ते महिमाम् गिराम् पते
त्वद्रूपमेतत् सदसत्परावरम् ।। ५ ।।
यदा विसृष्टस्त्वम् अनञ्जनेन वै
बलम् प्रविष्टोऽजितदैत्यदानवम् ।
बाहूदरोः ? वङ्घ्रिशिरोधराणि
वृक्णन्नजस्रम् प्रधने विराजसे ।। ६ ।।
स त्वम् जगत् प्राण खलप्रहाणये
निरूपितः सर्वसहो गदाभृता ।
विप्रस्य चास्मत्कुलदैवहेतवे
विधेहि भद्रम् तदनुग्रहो हि नः ।। ७ ।।
इति श्रीमद्भागवते नवमस्कन्धे पञ्चमोऽध्याये
अम्बरीषप्रोक्ता श्रीसुदर्शनचक्रस्तुति: