श्रीः
श्रीमते रामानुजाय नमः
श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम्
सुदर्शनश्चक्रराजः तेजोव्यूहो महाद्युतिः ।
सहस्रबाहुः दीप्ताङ्गः अरुणाक्षः प्रतापवान् ॥ १ ॥
अनेकादित्यसङ्काशः प्रोद्यज्ज्वालाभिरञ्जितः ।
सौदामिनीसहस्राभो मणिकुण्डलशोभितः ॥ २ ॥
पञ्चभूतमयोरूपः षट्कोणान्तरसम्स्थितः।
हरान्तःकरणोद्भूत-रोषभीषणविग्रहः ॥ ३ ॥
हरिपाणिलसत्पद्म-विहारार-मनोहरः ।
साकाररूपः सर्वज्ञः सर्वलोकार्चितप्रभः ॥ ४ ॥
चतुर्दशसहस्रारः चतुर्वेदमयोऽनघः ।
भक्तचन्द्रमसज्यो ति: भवरोगविनाशनः ॥ ५ ॥
शेषात्मकमकारश्च रक्षोसृग्रूषिताङ्गकः।
सर्वदैत्यग्रीवनाल-विभेदनमहागजः ॥ ६ ॥
भीमदम्ष्ट्रोज्ज्वलाकारो भीमकर्मा त्रिलोचनः ।
नीलवर्मा नित्यसुखी निर्मलश्रीनिरञ्जन: ॥ ७ ॥
रक्तमाल्याम्भरधरो रक्तचन्दनरूषितः ।
रजोगुणाकृतिः शूरो रक्षःकुलयमात्मक: ॥ ८ ॥
नित्यक्षेमङ्करः प्राज्ञः पाषण्डजनखण्डनः ।
नारायणाज्ञानुवृत्ति: नैगमान्तप्रकाशक: ॥ ९ ॥
बलिनन्दनदोर्दण्ड-खण्डने विजयीकृतः।
मित्रभावी सर्वमयः तमो-विध्वम्सनोऽव्ययः ॥ १० ॥
रजस्सत्वतमोद्वर्ती त्रिगुणात्मा त्रिलोकधृत्।
अरिमर्दी गुणोपोतः अव्ययाक्षस्वरूपभाक् ॥ ११ ॥
परमात्मा परञ्ज्योतिः पञ्चकृत्यपरायणः ।
ज्ञानशक्तिबलैश्वर्यवीर्यतेजप्रभामयः ॥ १२ ॥
सदसत्परमः पूर्णः वाङ्मयो वरदोऽच्युतः ।
जीवो गुरुः हम्सरूपी पञ्चाशत्पीठरूपकः ॥ १३ ॥
मातृकामण्डलाध्यक्षो मधुध्वम्सी मनोमयः ।
अनन्तोऽनन्तरूपश्च क्रूराज्ञानतमोरवि: ॥ १४ ॥
बुद्धिरूपश्चित्तसाक्षी सारो हम्साक्षरद्वयः ।
मन्त्रयन्त्रप्रभावज्ञो मन्त्रयन्त्रमयो विभुः ॥ १५ ॥
स्रष्टा क्रियास्पदः शुद्धः आधारश्चक्ररूपकः |
निरायुधो ह्यसम्रम्भः सर्वायुधसमन्वितः ॥ १६ ॥
ओङ्काररूपी पूर्णात्मा आङ्कारः साध्यबन्धनः।
ह्रीङ्कारभूतको भद्रः क्रोन्साध्याकर्षणप्रभुः ॥ १७ ॥
ऐड्डारवाक्प्रदो वाग्मी श्रीङ्कारैश्वर्यवर्धनः ।
क्लीङ्कारमोहनाकार: हुम्फट् सन्क्षोभणाकृतिः ॥ १८ ॥
इन्द्रार्चितो मनोवेगः धरणीभारनाशनः ।
वीराराध्यो विश्वरूपो वैष्णवो विष्णुरूपक: ॥ १९ ॥
सत्यभूत: सत्यपर: सत्यधर्मानुषङ्गकः।
नारायणकृपाव्यूहः तेजश्चक्रस्सुदर्शन: ॥ २० ॥
इति श्रीसुदर्शनाष्टोत्तरशतनामस्तोत्रम् सम्पूर्णम्