श्रीः
श्रीमते रामानुजाय नमः
चक्रध्यानम्
तिर्यग् ज्वालाग्निरूपम् ज्वलितशिखिशिखोत्तुङ्गकेयूरबाहुम् ।
पिङ्गाक्षम् दीप्तजिह्वम् दशशतविलसत्तीक्ष्णधारातिरौद्रम् ।।
शार्ङ्गम् चक्राब्जशङ्खान् शरमुसलधरम् सर्वशत्रून् दहन्तम् ।
षट्कोणभ्यन्तरस्थम् रविनियुतनिभम् चक्रराजम् प्रसन्नम् ।।
सुदर्शनचक्र-षोडशनामावलिः
ॐ आचक्राय नमः
ॐ विचक्राय नमः
ॐ सुचक्राय नमः
ॐ धीचक्राय नमः
ॐ भूचक्राय नमः
ॐ सूर्यचक्राय नमः
ॐ षट्चक्राय नमः
ॐ सहस्राराय नमः
ॐ सहस्रज्वालाय नमः
ॐ चक्रराजाय नमः
ॐ ज्वलत् चक्राय नमः
ॐ सुदर्शनाय नमः
ॐ हेतिराजाय नमः
ॐ महाज्वालाय नमः
ॐ ज्वालाचक्राय नमः
ॐ ज्वालामालाय नमः
श्रीसुदर्शनाष्टोत्तरशतनामावलिः
ॐ श्रीसुदर्शनाय नमः
ॐ चक्रराजाय नमः
ॐ तेजोव्यूहाय नमः
ॐ महाद्युतये नमः
ॐ सहस्रबाहवे नमः
ॐ दीप्ताङ्गाय नमः
ॐ अरुणाक्षाय नमः
ॐ प्रतापवते नमः
ॐ अनेकादित्यसङ्काशाय नमः
ॐ प्रोद्यद्ज्वालाभिरञ्जिताय नमः १०
ॐ सौदामिनीसहस्राभाय नमः
ॐ मणिकुण्डलशोभिताय नमः
ॐ पञ्चभूतमयोरूपाय नमः
ॐ षट्कोणान्तरसम्स्थिताय नमः
ॐ हरान्तः करोणोद्भूतरोषभीषणविग्रहाय नमः
ॐ हरिपाणिलसत् पद्माविहारार मनोहराय नमः
ॐ साकाररूपाय नमः
ॐ सर्वज्ञाय नमः
ॐ सर्वलोकार्चितप्रभाय नमः
ॐ चतुर्दशसहस्राराय नमः २०
ॐ चतुर्वेदमयाय नमः
ॐ अनघाय नमः
ॐ भक्तचन्द्रमसज्योतिषे नमः
ॐ भवरोगविनाशनाय नमः
ॐ शेषात्मकाय मकाराय नमः
ॐ रक्षोसृग्रूषिताङ्गकाय नमः
ॐ सर्वदैत्यग्रीवनालविभेदनमहागजाय नमः
ॐ भीमदम्ष्ट्रोज्वलाकाराय नमः
ॐ भीमकर्माय नमः
ॐ त्रिलोचनाय नमः ३०
ॐ नीलवर्मणे नमः
ॐ नित्यसुखिने नमः
ॐ निर्मलश्रीनिरञ्जनाय नमः
ॐ रक्तमाल्याम्बरधराय नमः
ॐ रक्तचन्द्रनरूषिताय नमः
ॐ रजोगुणाकृतये नमः
ॐ शूराय नमः
ॐ रक्षः कुलयमात्मकाय नमः
ॐ नित्यक्षेमङ्कराय नमः
ॐ प्राज्ञाय नमः ४०
ॐ पाषण्डजनखण्डनाय नमः
ॐ नारायणाज्ञानुवृत्तये नमः
ॐ नैगमान्तप्रकाशकाय नमः
ॐ बलिनन्दनदोर्दण्डखण्डने विजयीकृताय नमः
ॐ मित्रभाविने नमः
ॐ सर्वमयाय नमः
ॐ तमोविध्वम्सनाय नमः
ॐ अव्ययाय नमः
ॐ रजस्सत्वतमोद्वर्तिने नमः
ॐ त्रिगुणात्मने नमः ५०
ॐ त्रिलोकधृते नमः
ॐ अरिमर्दिने नमः
ॐ गुणोपेताय नमः
ॐ अव्ययाक्षस्वरूपभाजे नमः
ॐ परमात्मने नमः
ॐ परञ्ज्योतिषे नमः
ॐ पञ्चकृत्यपरायणाय नम:
ॐ ज्ञानशक्तिबलैश्वर्यवीर्यतेजः प्रभामयाय नमः
ॐ सदसत्परमाय नमः
ॐ पूर्णाय नमः ६०
ॐ वाङ्मयाय नमः
ॐ वरदाय नमः
ॐ अच्युताय नमः
ॐ जीवाय नमः
ॐ गुरवे नमः
ॐ हम्सरूपिणे नमः
ॐ पञ्चाशत् पीठरूपकाय नमः
ॐ मातृकामण्डलाध्यक्षाय नमः
ॐ मधुध्वम्सिने नमः
ॐ मनोमयाय नमः ७०
ॐ अनन्ताय नमः
ॐ अनन्तारूपाय नमः
ॐ क्रूराज्ञानतमोरवये नमः
ॐ बुद्धिरूपाय नमः
ॐ चित्तसाक्षिणे नमः
ॐ साराय हम्साक्षरद्वयाय नमः
ॐ मन्त्रयन्त्रप्रभावज्ञाय नमः
ॐ मन्त्रयन्त्रमयाय नमः
ॐ विभवे नमः
ॐ स्रष्ट्रे नमः ८०
ॐ क्रियास्पदाय नमः
ॐ शुद्धाय नमः
ॐ आधाराय नमः
ॐ चक्ररूपकाय नमः
ॐ निरायुधाय नमः
ॐ असम्रम्भाय नमः
ॐ सर्वायुधसमन्विताय नमः
ॐ ओङ्काररूपिणे नमः
ॐ पूर्णात्मने नमः
ॐ आङ्काराय साध्यबन्धनाय नमः ९०
ॐ ह्रीङ्कारभूतकोभद्राय नमः
ॐ क्रोम् साध्याकर्षण प्रभवे नमः
ॐ ऐङ्कारवाक्प्रदाय वाग्मिने नमः
ॐ श्रीङ्कारैश्वर्यवर्धनाय नमः
ॐ क्लीङ्कारमोहनाकाराय नमः
ॐ हुम् फट् सन्क्षोभणाकृतये नमः
ॐ इन्द्रार्चिताय नमः
ॐ मनोवेगाय नमः
ॐ धरणीभारनाशनाय नमः
ॐ वीराराध्याय नमः १००
ॐ विश्वरूपाय वैष्णवाय नमः
ॐ विष्णुरूपकाय नमः
ॐ सत्यभूताय नमः
ॐ सत्यपराय नमः
ॐ सत्यधर्मानुषङ्गाय नमः
ॐ नारायणकृपाव्यूहाय नमः
ॐ तेजश्चक्रायसुदर्शनाय नमः
इति श्रीसुदर्शनाष्टोत्तर शतनामावलिः सम्पूर्णा