॥ श्रीः ॥
श्रीमते रामानुजाय नमः
श्रीमद्वाधूलकुलतिलकवीरराघवगुरुकृतम्
लक्ष्मीस्तोत्रम्
श्रिया युक्तः श्रीमान् स्थितिजनिलयादीन् कलयते
जगत्या नैवम् चेत् स्वमपि न च पुष्णात्यशरणः ।
अतस्त्वाम् तत्तादृग्दुरधिगमनिःसीमविभवाम्
भजामो रुद्राणीपरिचितपदाम्भोजयुगलीम् ॥ १ ॥
अयि ! श्रीस्त्वम् पूर्वम् जनकतनयीभूय जगताम्
प्रभो रामस्याभूः प्रियसहचरी कोसलपतेः ।
तथाऽपुष्यः कृष्णम् नतजननि ! रुक्मीन्द्रतनया
विना त्वाम् गोविन्दः प्रभवति जगत्याम् क्वचन वा ॥ २ ॥
त्वया दृष्टः शम्भुस्त्रिपुरमथनायालमरुण-
क्षपानाथावाज्ञाम् शिरसि निदधानावुदयतः ।
पिवन् भक्त्या पद्मे ! तव चरणनिर्णेजनजलम्
फणीनामीशानः परिवहति मूर्ध्ना वसुमतीम् ॥ ३ ॥
त्वदीये नम्रार्तिक्षपणनिपुणे पादकमले
वहन् मूर्ध्ना जम्भद्विषदवति गीर्वाणनगरीम् ।
त्वदीयभ्रूभङ्गाज्जनयति जगत् पङ्कजजनिः
त्वया दृष्टः को वा जननि ! पदमुच्चैर्न भजते ॥ ४ ॥
हरेर्वक्षःपीठीमनुकलमुपास्थाय विपुलाम्
सुधासारैः श्रीमच्चरणनलिनान्तर्विगलितैः ।
प्रसिञ्चन्त्यञ्चन्ती कुमुदवनमम्भोजनिलये !
कथम् वा नाधत्से मयि पदयुगम् नम्रजननि! ॥ ५ ॥
पुरा ते पादाब्जप्रसृमरपरागान् स्वमकुटे
वहन् रुद्रोऽप्यद्रेर्दुहितरमुदारामुदवहत् ।
शरण्ये ! लोकानाम् मुनिजनवरेण्ये! तनुभृताम्
अपाङ्गस्ते भूयादतुलकुशलायाब्जनिलये! ॥ ६ ॥
पुरारेस्त्वाम् पुष्पैः सह गिरिजयाऽऽराधितवतो
गलम् गत्वा घोरम् गरमभवदिन्दूपलमिव ।
अतः श्रीः ! श्रुत्यन्ताः प्रणिजगुरुदाराम्स्तव गुणान्
इयत्तानिर्मुक्ताननवधिकवात्सल्यजलधे! ॥ ७ ॥
शरज्ज्योत्स्नाकान्तिस्तुहिनकरबिम्बाभवदना
कुचाभ्यामानम्रा कुवलयदलस्पर्धिनयना ।
दधाना हस्ताभ्याम् नलिनयुगलम् काऽपि महसाम्
ततिर्विष्णोर्वक्षःस्थलमधिवसन्ती विजयते ॥ ८ ॥
सचन्द्रे सोष्णाम्शौ विरमति विरिञ्चे सहशिवे
कृतान्ते जातान्ते भजति च विरामम् सुरपतौ ।
अनूपे सर्वस्मिन् वटदलतले त्वत्पतिरसौ
मुकुन्दः सानन्दम् विहरति रमे ! कल्पविरमे ॥ ९ ॥
पयःपारावारे मणिविरचिते मण्टपतले
प्रतीहारे वाणीधरणिधरकन्यापरिवृते ।
मणीपीठे तस्मिन् कनकमयपद्मे स्थितिजुषो
हरेरङ्कस्थाम् त्वाम् कतिचन भजन्ते कृतधियः ॥ १० ॥
परव्योम्नः पत्युः प्रियमहिषि ! ते पादयुगली-
निदिध्यासा यस्मिन्नुदयमयते लोकजननि! ।
तदैवास्मै देवि! प्रदिशसि सुरेन्द्राभिलषितम्
पदम् वाणीम् चापि प्रचुरकरुणासारभरिताम् ॥ ११ ॥
वदन्ति त्वाम् सन्तो हुतभुजमधिष्ठाय सकलम्
समश्नन्तीम् होत्रा हुतमनुसवम् श्रीर्भगवति ! ।
पुराणा वाण्येवम् प्रणिगदति बिम्बे दिनपतेः
समम् पत्याऽनर्घाण्यनुदिनमिहार्ध्याणि भजते ॥ १२ ॥
त्वमात्मा त्वम् कालस्त्वमसि च परञ्ज्योतिरुदधिः
त्वमक्ष्णोरानन्दस्त्वमसि च परब्रह्ममहिषी ।
चिदात्मा त्वम् लक्ष्मीर्जगदिह तवापाङ्गचलनम्
समालम्ब्य श्रीमान् सृजति भगवानत्त्यवति च ॥ १३ ॥
गुणैः पूर्णे ! निर्णेजनजलपवित्रत्रिभुवने !
जरादूरीभूते ! जननि ! निगमान्तस्तवपदे! ।
नतानाम् स्तोतॄणाममितफलविश्राणनचणौ
वयम् वैकुण्ठेशप्रणयिनि ! भजामस्तव पदौ ॥ १४ ॥
क्षमाऽऽचारौ दूरे गुरुचरणभक्तिस्तु सुतराम्
तथाऽधर्मेऽप्यास्था तव चरणचिन्ता मयि कुतः ।
तथाऽप्यङ्गापाङ्गानयि ! कलय लक्ष्मीस्तव दयाम्
प्रशम्सन्त्युद्दामाम् यमनियमवन्तो मुनिजनाः ॥ १५ ॥
तवापाड्रैर्दृष्टो जननि ! करुणार्द्वैर्भवति यः
स वेत्ता शास्त्राणाम् स खलु कुलशीलादिसहितः ।
स दर्पम् कान्दर्पम् शमयति च दान्तेन मनसा
प्रशास्त्येनामीशश्चतुरुदधिवेलाम् वसुमतीम् ॥ १६ ॥
अदोषः को वाऽऽस्ते जन इति रुषम् शेषशयितुः
परिष्वङ्गैस्तुङ्गैः प्रशमयसि कारुण्यभरिते! ।
मदीयानार्द्रानप्यधिकमपराधान् भगवति !
क्षमस्वेमाम् लक्ष्मि ! स्तुतिमपि ममाङ्गीकुरु मुदा ॥ १७ ॥
कदाऽरण्ये पुण्ये कमलवनवापीपरिवृते
तरूणाम् छायाभिस्तरणिकिरणान्तर्धिनि तले ।
वसन् मातर्लक्ष्मीः ! कमलवनवासैकरसिके !
प्रसीदेति क्रोशन् कलुषमपनेष्ये परिणतम् ॥ १८ ॥
इति श्रीभूसारम् पुरमधिवसन् राघवकविः
कुले वाधूलाख्ये महति जनिमान् लोकविनुते ।
सताम् सेवी सत्त्वाधिकरघुवराचार्यतनयात्
समुत्पन्नो लक्ष्म्याः स्तुतिभिरधुनाऽऽनर्च चरणौ ॥ १९ ॥
॥ इति श्रीवाधूलवीरराघवाचार्यकृतिषु
श्रीलक्ष्मीस्तोत्रम् समाप्तम् ॥