॥ श्रीः ॥
॥ वरणपञ्चविम्शतिः ॥
वरणोपायभावस्य वक्तुम् निरवकाशताम् ।
निबिरीसौ करीशस्य चरणौ निदधे हृदि ॥ १ ॥
फलायन्त्याम् प्रीतौ करिगिरिपतेर्यन्निरुपमम्
निदानम् सौहार्देऽपि च फलतया यत्प्रणिजगुः ।
उपासान्यासाभ्याम् तदिदमनवाप्या (प्ता) त्मविभवम्
प्रसज्योपायम् नश्शरणवरणम् प्रापयति सः ॥ २ ॥
गौणम्मुख्यमितीव यच्छ्रुतिगणैर्गूढाशयैराश्रुतम्
न्यासोपासननामकीर्तनमुखम् नानाविधम् साधनम् ।
तत्र क्वापि कदाऽप्यलब्धनियमास्तत्(त्वत्)पारतन्त्र्याश्रयाः
स्वीकर्तुम् वरद! श्रियो घटकताम् निश्चिन्वते भावुकाः ॥ ३ ॥
सिद्धोपायाधिकारशरणवरणधीस्तत्र चीन्मुख्यमात्रम्
पर्याप्तोऽस्याधिकारो घटकविषयकस्तेन नातिप्रसङ्गः ।
या दृष्टा तत्प्रपत्तिस्स्मृतिषु च यदि वा भाष्यकारैः कृता वा
सा तत्पूर्त्यै तदेषा निरुपधिघटना देवराजस्य कान्ता ॥ ४ ॥
क्रोडीकृताऽपि ननु नारपदे द्वयस्थे
लक्ष्मीरुपक्रमपदे पुनरप्युपात्ता ।
वात्सल्यमुख्यगुणवर्धनतोऽपराध-
भीतस्य मे पुरुषकारतयोपयुङ्क्ते ॥ ५ ॥
अहम्मत्याप्त्यादिप्रभुगदितनिष्कर्षवचनै –
रुपायत्वम् यद्वत्करिशिखरिनाथे व्यवसितम् ।
तथा तैरेवास्या अपि घटकभावो नियमितः
प्रमाणानामेषाम् विषयनियतिस्तन्त्रविशदा ॥ ६ ॥
गुणान्त्रीनाचार्याः कतिचिदवदन्केऽपि दश तान्
परे सर्वानेतान्निगमचतुराः केऽपि चतुरः ।
द्विकम् चान्ये प्राहुस्त्वयि वरद! विश्वासजनने
गुणानाम् सर्वेषाम् यदयमुपयोगोऽस्त्यभिदुरः ॥ ७ ॥
कार्पण्यवाक्यविशदेन निसर्गजेन
त्वत्पारतन्त्र्यविभवेन सुशिक्षितेन ।
भक्तया च शक्तिविरहेण कृताधिकाराः
सन्तः करीशचरणौ शरणम् व्रजन्ति ॥ ८ ॥
सौलभ्यपर्यवसितम् चरणोपलक्ष्यम्
अर्चाऽऽत्मना परिणतम् तव दिव्यरूपम् ।
न्यासस्य देव ! शरणागतिशब्दभाजो
वाञ्छन्ति वेद्यमितरत्त्वितरस्य वेद्यम् ॥ ९ ॥
एवोक्तिरेकपदमन्यविमुक्तिवाणी
निष्कर्षिका शरणवागपि हस्तिनाथ! ।
भिन्दन्त्युपायवरणम् भिदुरात्षडङ्गाद्
देशादिभेदनियमाश्च दिशन्ति भेदम् ॥ १० ॥
उपाये साध्ये स्यादधिकृतिषु सिद्धत्वनियमः
प्रसिद्धे सिद्धेऽस्मिन्प्रभवति तु साध्याऽप्यधिकृतिः ।
प्रपत्तौ “त्वा” शब्दः प्रघटयति सिद्धानुवदनम्
विधूतम् हस्तीश! स्फुटमिह विरुद्धत्रिकवचः ॥ ११ ॥
स्वविषयवरणाप्तोपायसम्बन्धमूर्त्तौ
शरणवरणमेतत्सन्निविष्टम् यदासीत् ।
अत इदमनुपायोऽप्यागतावश्यभावम्
करिगिरिनिलयाभूत्क्वाप्युपायोक्तिमात्रम् ॥ १२ ॥
अहेतुस्सन्यस्मात्प्रणुददमतापादनकथाम्
तदस्य व्याजत्वम् वरद! बभणुः पूर्वगुरवः ।
उपायस्वीकारे प्रभुमतविघातात्ययतया
नियुक्ता तन्त्रज्ञैर्निपुणमविवादानुमतिगीः ॥ १३ ॥
अनात्मेशात्यन्ताभिमतिविषयोपायकृतिता
स्वरूपम् जीवानाम् वरद ! कथयामासुरनघाः ।
विमोक्षे भोगे वा करणयतनार्हत्वविरहम्
तदाहुस्तस्येदम् शरणवरणम् स्यादनुगुणम् ॥ १४ ॥
उपासनादेरनुपायतेष्टा यद्वा स्वरूपानुचितत्वमिष्टम् ।
तत्साधितम् सातिशयम् फलम् स्यात्त्वत्साध्यमेकम् वरदातितुङ्गम् ॥ १५ ॥
तदितरनिरपेक्षोपायभावम् करिशे
शरणवरणवेद्याकारमाहुर्नयज्ञाः ।
लघुनि ननु षडङ्गे रक्षकत्वम् तदाहुः
प्रपदनपरविद्या भिद्यतेsद्यात्मनाsतः ॥ १६ ॥
पञ्चर्य ह्यङ्गानि पूर्वाण्यथ निजभरनिक्षेपणम् त्वङ्गिभूतम्
साङ्गञ्चाङ्गयुक्तराङ्गम् नहि भवति ततो लक्षणा षड्विधोक्तेः ।
स्वीकारे ह्यानुकूल्यप्रभृति किल यथासम्भवप्राप्तमिष्टम्
तस्मान्मादर्थ्यगर्भम् करिगिरिनिलयेदम् त्वदर्थत्वगर्भम् ॥ १७ ॥
करिगिरिपतिवीक्षाक्लृप्तनिष्कृष्टसत्त्वा
न्यसनभजनतोर्निर्गतास्सत्त्वभेदात् ।
विहितविषयचिन्ताम् विस्मरन्तो विशिष्टाः
कतिचन shaरणम् त्वाऽऽकाङ्क्षया कल्पयन्ते ॥ १८ ॥
बलवदभिमतानुबन्धहानेरनभिमतेष्वनुबन्धिनो यथैव ।
अपि भजनविधेः परापनुत्त्यै वरद! वदन्ति किल प्रवृत्तिमार्याः ॥ १९ ॥
प्रपत्तित्वेनैक्याद्वरद! निगमारम्भवचसोः
अभेदो निर्व्यूढः प्रपदनमतोद्व्यात्मकमिदम् ।
उपायस्वीकारप्रतिनियतधर्मान्जडधियाम्
षडङ्गे त्वश्रद्धाप्रशमनकृते केचिदवदन् ॥ २० ॥
विभीताः पुण्यादप्यनितरशरण्यत्वरसिकाः
प्रकामम् कैमुत्त्याद्भयपरवशा दुष्कृतलवात् ।
अपर्यन्तप्रेम्णः करिशिखरिनाथस्य निबिडाम्
स्ववात्सल्यापेक्षाम् सपदि परिशिष्यन्ति कृतिनः ॥ २१ ॥
धर्मिग्राहकमानतः प्रमितयोः कर्तृत्वभोक्तृत्वयोः
शेषत्वेन मनोरुपक्रमगतेनात्मार्थताप्रापणात् ।
स्वार्थत्वम् प्रविहाय केवलपरप्रीतेस्स्वभावास्पदम्
कैङ्कर्यम् फलयन्ति दिव्यमिथुनोद्देशेन मद्देशिकाः ॥ २२ ॥
परस्वस्वातन्त्र्यम् मनसि परिचिन्त्याकुलमतिः
षडङ्गोपासाभ्याम् शरणवरणादप्युपरतः ।
समुद्धर्त्तुम् लोकान्सदयगुरुभावेन सुलभे
करिक्ष्माभृत्कान्ते कलयति तु कश्चिच्छरणताम् ॥ २३ ॥
अज्ञानशक्तान्विदुषोऽतिभक्ता-
न्प्रपत्तिरार्याङ्घ्रियुगे प्रयुक्ता ।
अङ्गाङ्गिभावेन विकल्पभाजा
पुष्णाति तुल्यम् भगवत्प्रपत्त्या ॥ २४ ॥
वरवरमुनिनेतुर्वाक्यतात्पर्यवेदी
वरदगुरुरिमम् माम् वत्सलोऽवेक्ष्य दृष्ट्या ।
शरणवरणतत्त्वम् शब्दयामास सन्तः
सरसगुणनिकायास्सादरम् स्वीकुरुध्वम् ॥ २५ ॥
॥ इति श्रीवाधूलवीरराघवाचार्यकृतिषु वरणपञ्चविम्शतिः समाप्ता ॥
यस्स्तुतिम् करिगिरीशतोषिणीम्
व्याहरद्वरणपञ्चविम्शतिम् ।
तम् वाधूलकुलधुर्यमाश्रये
वीरराघवगुरुम् दयानिधिम् ॥ २६ ॥