॥ श्रीः ॥
॥ श्रीमते रामानुजाय नमः ॥
॥ श्रीभक्तिसारोदयम् ॥
भूमौ भार्गव-वामदेव-भृगवोऽप्यत्रिर्वसिष्ठोऽङ्गिराः
ब्रह्माणम् प्रणिपेतुरुत्तमगुणम् क्षेत्रम् विजिज्ञासवः ।
स त्वष्टुस्तुलयैकतो वसुमतीम् भूसारमप्येकतः
धृत्वा योगिवरेभ्य आदिशदिमम् भूसारमप्युत्तमम् ॥ १ ॥
भूसाराभिधया विदेहभवनक्षेत्रम् विनिर्दिश्य ते
ष्वासीनेष्वथ भार्गवो मुनिवरो देवम् जगन्नायकम् ।
सत्रेणायतवर्तिना स्म यजते पत्नी तथात्वे मुनेः
अम्शेनाम्बुजलोचनायुधवरस्यापन्नसत्वाऽभवत् ॥ २ ॥
मासे द्वादशगे मुनीन्द्रगृहिणी सा द्वापरे तैष्यके
सिद्धार्थिन्यहिमाम्शुवारसहिते तारे मखाख्याधरे ।
राकाया अपरेद्युरस्य जगतः क्षेमाय सौदर्शनम्
प्रासूतोल्बविवेष्टनावृततनुम् पिण्डम् प्रचण्डार्चिषम् ॥ ३ ॥
अव्यक्तम् मुनिदम्पती किमिदमित्युत्सृज्य वेत्रे गतौ
गर्भोऽथेन्दिरया समस्तजगताम् धात्रा भुवा चेक्षितः ।
सम्पूर्णस्सकलाङ्गतुङ्गसुषमस्स्तन्याभिलाषादृते
तत्तादृग्जगदीशदिव्यकरुणादुग्धेन वृद्धिम् गतः ॥ ४ ॥
देवस्य स्वयमेव दर्शितवतो दिव्यम् स्वकीयम् वपुः
विश्लेषेण रुदन्तमेत्य शिशुकम् श्रीमत्समाख्यो नरः ।
गृह्णन्वेत्रकृदुद्गतातिपुलको हृष्टस्त्रियै नामतः
श्रीमत्यै समदादसौ च जगृहे हृष्टाऽनपत्याऽचिरम् ॥ ५ ॥
उल्लोकस्थ शिशुःप्रचारममुकम् दृष्ट्वा महीसारगो
वृद्धश्शूद्रवरो ह्यपत्यविदुरो जायासहायः पयः ।
आदायार्थयते स्म सोऽपि कृपया तस्मिन्पपौ तत्पयः
शिष्टम् तत्पिबतम् सुतो भवति वामित्याह सत्याशिषम् ॥ ६ ॥
पुत्रोऽभूत्कणिकृष्ण इत्युरुगुणाचारस्तयोर्वृद्धयोः
सूनुस्त्वेष भृगूत्तमस्य भगवत्कारुण्यसम्वर्धितः ।
आर्षत्वादनुसप्तमात्तु वयसो योगे धृताशो जगद्-
धेतुम् ध्यातुमनाश्चचार समयान् सर्वानखर्वात्मना ॥ ७ ॥
विद्वान् वर्षशतेन बाह्यसमयान्सर्वानसारान्विदन्
विन्दन्विष्णुपरत्ववैदिकमते निष्ठाम् गरिष्ठाम् दधौ ।
तेनैवाश्रितवत्सलो मुररिपुस्स्वीयस्वरूपादिकम्
लीलाभोगविभूतिभेदमपि च प्राकाशयद्योगिने ॥ ८ ॥
एषः श्रीपतिना प्रकाशितबहुत्रय्यन्तपर्यन्तधीः
स्वानर्थान् द्रविडप्रबन्धविधया निर्माय शर्मावहान् ।
लोकानाम् जगदीश्वरम् क्षितिरमानाथम् सदा चिन्तयन्
बृन्दारण्य उवास सप्तशतकम् वर्षम् गजेन्द्रह्रदे ॥ ९ ॥
तत्तादृक्कमलासखस्मृतिमहाऽऽनन्दैरमन्दायितम्
कन्थासीवनबन्धुरम् त्रिणयनः पश्यन्मृडान्या सह ।
मत्तस्त्वम् वरमर्थयेति कथयन् मोक्षोऽस्त्विति प्रार्थितः
तत्राशक्तिविदाऽमुना स कथितः सूचेः पथा सूत्रणम् ॥ १० ॥
रुद्रो रौद्रजुषा प्रहासभवया रुष्टो निटालाग्निना
सम्स्प्रष्टुम् मुनिपुङ्गवम् कृतमतिस्तस्याग्रपादाग्निना ।
ज्वालाजालविलापितत्रिजगता सन्तापितो वारिदैः
वर्षन्निर्विदमाकलय्य भृगुजम् तम् भक्तिसारम् जगौ ॥ ११ ॥
कश्चिद् व्याघ्रचरोऽन्तरिक्षगमनस्तम् शुक्तिहाराभिधः
प्राप्य स्तम्भितनैजयानगमनस्स्वम् वारवाणम् दिशन् ।
सद्यस्तत्कृतरत्नकञ्चुकदृशा ह्रीणः स्वहारम् ददत्
तत्पद्माक्षमयीम् स्रजम् मणिमयीम् पश्यन्स्तुवन्निर्गतः ॥ १२ ॥
नाम्ना कोङ्कणसिद्ध इत्यतितराम् ख्यातो मुनीन्द्रम् गतः
लेशेनापि च कोटिवेधनपटुम् सैद्धम् रसम् दर्शयन् ।
तद्दत्तम् शतकोटिवेधनचणम् किट्टम् परीक्ष्य श्रुतेः
प्रीतस्तम् गुणरत्नरोहणगिरिम् सस्मार विस्मापितः ॥ १३ ॥
श्रीभूसारपुरीन्द्रदिव्यमहसाम् राशिम् सुदूरोज्ज्वलम्
दृष्ट्वा सारसभूतयोगिमहदाख्यानाः प्रहृष्टागताः ।
पृष्ट्वा क्षेममिमे सुयुक्तकुशलास्तेनापि तेन्योन्यतः
नेमुर्मोदजबाष्पशीतलदृशस्त्वामन्त्रय तम् ते गताः ॥ १४ ॥
तीरात्कैरविणीसरोवरमणेरागत्य भूसारकम्
मृत्स्नाया अलभाकुलश्शुचिमृदस्स्थानम् वृषाद्रीश्वरात् ।
स्वप्ने प्राप्य मृदम् सिताम् प्रहृषितो गृह्णन् तनौ धारयन्
श्रीसत्यव्रतनामदिव्यनगरीम् प्रापद्भृगोर्वम्शजः ॥ १५ ॥
गत्वा तत्र यथोक्तकारिचरणद्वन्द्वम् प्रणम्यादरात्
ध्यायन् तत्र च सप्तवर्षशतकम् तस्थौ मुनीन्द्रो मुदा ।
तत्र श्रीकणिकृष्णके मुनिवरम् सम्सेव्यमाने सदा
वृद्धा काचन रङ्गवल्लिमुखया शुश्रूषयोऽसेवता ॥ १६ ॥
तस्यै दिव्यदयारसेन भरितः श्रीभक्तिसारो मुनिः
पीनोत्तुङ्गकुचद्वयम् रतिपतेस्सर्वस्वसर्वाङ्गकम् ।
तारुण्यम् समदात्तया मुदितया राजाऽपि लज्जापितः
तच्छिष्यम् कणिकृष्णमुञ्छनपरम् योगीन्द्रमाकारयत् ॥ १७ ॥
राज्ञा तेन चिरम् मुनीन्द्रचरणासक्तस्स निर्बन्धितो
निष्क्रम्यार्यवराय वृत्तिममुकामावेद्य चामन्त्र्य च ।
साकम् योगिवरेण पन्नगशयेनाद्येन पुम्सा समम्
सर्वैर्देववरैस्सहैव निरगात्सान्द्रम् तमोऽभूत्पुरे ॥ १८ ॥
राजा पल्लवनामकस्स सचिवैस्सम्मन्त्र्य योगीश्वरम्
वन्दित्वा सुचिरम् प्रसाद्य बहुधा शिष्येण साकम् गुरुम् ।
सार्धम् देववरेण वार्धितनयाकान्तेन सर्वैस्समम्
काञ्चीम् प्रापितवान्पुरीम् अथ यथापूर्वम् पुरम् निर्बभौ ॥ १९ ॥
कावेरीवृतकुम्भकोणनगरम् प्राप्तुम् समुत्कण्ठया
गच्छन्व्याघ्रमहापुरे क्वचिदपि प्रान्ते गृहस्य स्थितः ।
दृष्ट्वा स्वम् विनिवृत्तवेदपठनान्विप्रान्व्यपेतस्मृतीन्
कृष्णव्रीहिनखक्षतैर्निपुणयन् तस्थौ तदाराधितः ॥ २० ॥
याम् याम् याति दिशम् मुनिर्मुररिपुस्तस्यामभूत्सम्मुखः
तद् दृष्ट्वाऽद्भुतमग्रजा अपि विभोरर्चास्वभावादिकम् ।
तद्ग्रामेश्वरदीक्षिताय जगदुस्तेनाग्रपूजार्पणात्
ईजे गर्वितदुर्मतान्प्रशमयन् स्वान्तस्थलक्ष्मीभृता ॥ २१ ॥
गत्वैषोऽप्यथ कुम्भकोणनगरम् तत्राहिभोगेशयम्
सम्सेव्य स्वशुभोक्तिकोशशतकम् मारुद्वृताम्भस्सु तम् ।
क्षिप्त्वाऽभ्यागतकोशयुग्ममचिराद् गृह्णन्जगज्जीवयन्
तत्रोत्थानशयम् हरिम् विरचयन् तेनातिसम्मानितः ॥ २२ ॥
तत्रैवम् त्रिशतोत्तरम् स शरदाम् योगे सहस्रद्वयम्
स्थित्वा दिव्यवचस्सुधालहरिभिस्सर्वम् जगद्वर्धयन् ।
लक्ष्मीनायकमेव सर्वजगताम् नाथम् जगत्कारणम्
सर्वात्मानमिहापि राजितपुरम् सूक्ष्मैरुपापीपदत् ॥ २३ ॥
पश्चात्सुन्दरयोगिवर्यफणितैर्ग्रेन्थैस्सहस्रैस्त्रिभिः
वर्षैस्सप्तशताधिकैर्भृगुपतेर्व्यक्तम् वयो वर्णितम् ।
क्षेमाशम्सनके सहस्रमधिकम् पक्षैस्तदर्हान्वयात्
स्पर्धाम् तेन जहातु कल्पभिदया नेयाश्च ऋष्युक्तयः ॥ २४ ॥
इत्थम् श्रीवरदार्यदिव्यकरुणासन्धुक्षितस्वात्मना
तत्तादृङ्नरसिम्हदेशिकभुवा तत्पादसम्सेविना
गृह्णन्वीररघूद्वहेन रचितम् श्रीभक्तिसारोदयम्
निर्दुःखः सुसुखो दधाति विमते शार्दूलविक्रीडितम् ॥ २५ ॥
॥ इति श्रीवाधूलवीरराघवाचार्यकृतिषु
श्रीभक्तिसारोदयम् समाप्तम् ॥