श्रीवरवरमुनिभिः अनुगृहीता
॥ यतिराजविंशतिः ॥
यः स्तुतिं यतिपतिप्रसादिनीं व्याजहार यतिराजविंशतिम् । तं प्रपन्नजनचातकाम्बुदं नौमि सौम्यवरयोगिपुङ्गवम् ॥
श्रीमाधवाङ्घ्रिजलजद्वयनित्यसेवाप्रेमाविलाशयपराङ्कुशपादभक्तम् । कामादिदोषहरमात्मपदाश्रितानां रामानुजं यतिपतिं प्रणमामि मूर्ध्ना ॥ १ ॥
श्रीरङ्गराजचरणाम्बुजराजहंसं श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् । श्रीभट्टनाथपरकालमुखाब्जमित्रं श्रीवत्सचिह्नशरणं यतिराजमीडे ॥ २ ॥
वाचा यतीन्द्र मनसा वपुषा च युष्मत्पादारविन्दयुगलं भजतां गुरूणाम् । कूराधिनाथकुरुकेशमुखाद्यपुंसां पादानुचिन्तनपरस्सततं भवेयम् ॥ ३ ॥
नित्यं यतीन्द्र तव दिव्यवपुस्मृतौ मे सक्तं मनो भवतु वाग्गुणकीर्तनेsसौ । कृत्यञ्च दास्यकरणे तु करद्वयस्य वृत्त्यन्तरेस्तु विमुखं करणत्रयञ्च ॥ ४ ॥ अष्टाक्षराख्यमनुराजपदत्रयार्थनिष्ठां ममात्र वितराद्य यतीन्द्रनाथ । शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे हृष्टास्तु नित्यमनुभूय ममास्य बुद्धिः ॥ ५ ॥
अल्पापि मे न भवदीयपदाब्जभक्तिः शब्दादिभोगरुचिरन्वहमेधते हा ॥ मत्पापमेव हि निदानममुष्य नान्यत् तद्वारयार्य यतिराज दयैकसिन्धो ॥ ६ ॥
वृत्त्या पशुर्नरवपुस्त्वहमीदृशोsपि श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोsयम् । इत्यादरेण कृतिनोsपि मिथः प्रवक्तुम् अद्यापि वञ्चनपरोsत्र यतीन्द्र वर्ते ॥ ७ ॥
दुःखावहोsहमनिशं तव दुष्टचेष्ट: शब्दादिभोगनिरतः शरणागताख्यः । त्वत्पादभक्त इव शिष्टजनौघमध्ये मिथ्याचरामि यतिराज ततोsस्मि मूर्खः ॥ ८॥
नित्यं त्वहं परिभवामि गुरुं च मन्त्रं तद्देवतामपि न किञ्चिदहो बिभेमि । इत्थं शठोप्यशठवद्भवदीयसङघे धृष्टश्चरामि यतिराज ततोsस्मि मूर्खः ॥ ९ ॥
हा हन्त हन्त मनसा क्रियया च वाचा योsहं चरामि सततं त्रिविधापचारान् । सोsहं तवाप्रियकरः प्रियकृद्वदेव कालं नयामि यतिराज ततोsस्मि मुर्खः ॥ १० ॥
पापे कृते यदि भवन्ति भयानुतापलज्जाः पुनः करणमस्य कथं घटेत । मोहेन मे न भवतीह भयादिलेशः तस्मात् पुनः पुनरहं यतिराज कुर्वे ॥ ११ ॥
अन्तर्बहिस्सकलवस्तुषु सन्तमीशम् अन्धः पुरस्स्थितमिवाहमवीक्षमाणः । कन्दर्पवश्यहृदयस्सततं भवामि हन्त त्वदग्रगमनस्य यतीन्द्र नार्हः ॥ १२ ॥
तापत्रयीजनितदु:खनिपातिनोsपि देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ । एतस्य कारणमहो मम पापमेव नाथ त्वमेव हर तद्यतिराज शीघ्रम् ॥ १३ ॥
वाचामगोचरमहागुणदेशिकाग्र्यकूराधिनाथकथिताखिलनैच्यपात्रम् । एषोsहमेव न पूनर्जगतीदृशस्तद् रामानुजार्य करुणैव तु मद्गतिस्ते ॥ १४ ॥
शुद्धात्मयामुनगुरूत्तमकूरनाथभट्टाख्यदेशिकवरोक्तसमस्तनैच्यम । अद्यास्त्यसङ्कुचितमेव मयीह लोके तस्माद्यतीन्द्र करुणैव तु मद्गतिस्ते ॥ १५ ॥
शब्दादिभोगविषया रुचिरस्मदीया नष्टा भवत्विह भवद्दयया यतीन्द्र । त्वद्दासदासगणनाचरमावधौ यः तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥
श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः प्रत्यक्षतामुपगतस्त्विह रङ्गराजः। वश्यस्सदा भवति ते यतिराज तस्मात् शक्तः स्वकीयजनपापविमोचने त्वम् ॥ १७ ॥
कालत्रयेsपि करणत्रयनिर्मितातिपापक्रियस्य शरणं भगवत्क्षमैव । सा च त्वयैव कमलारमणेsर्थिता यत् क्षेमस्स एव हि यतीन्द्र भवच्छ्रितानाम् ॥ १८ ॥
श्रीमन्यतीन्द्र तव दिव्यपदाब्जसेवां श्रीशैलनाथकरुणापरिणामदत्ताम् । तामन्वहं मम विवर्धय नाथ तस्याः कामं विरुद्धमखिलञ्च निवर्तय त्वम् ॥ १९ ॥
विज्ञापनं यदिदमद्य तु मामकीनम् अङ्गीकुरुष्व यतिराज दयाम्बुराशे । अज्ञोsयमात्मगुणलेशविवर्जितश्च तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥
इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् । वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययं प्रसादम् ॥
॥ इति यतिराजविंशतिस्समाप्ता ॥