[highlight_content]

यतिराजविम्शतिव्याख्या

श्रीः

श्रीमते रामानुजाय नमः

यतिराजविम्शतिः

 

यः स्तुतिम् यतिपतिप्रसादिनीम् व्याजहार यतिराजविम्शतिम् ।

तम् प्रपन्नजनचातकाम्बुदम् नौमि सौम्यवरयोगिपुङ्गवम्

यतिराजविम्शतिव्याख्या

     अभिगमनोपादानेज्यासु स्वाचार्यम् वरवरमुनिमनुभूय क्रमप्राप्ते तमनुबुभूषः, स्वाध्यायस्य *व्याख्यानैर्लेखनैर्वाऽपि ग्रन्थनिर्माणकर्मणा । शिष्याणाम् शिक्षया वाऽपि स्वाध्यायार्थोऽयमुच्यते* इत्यादि शाण्डिल्योक्तरीत्याऽनेक प्रकारत्वेन, तत्र व्याख्यानरूपम् स्वाध्यायप्रभेदम् *वाक्यालङ्कृतिवाक्यानि व्याख्यातारम्* इत्युत्तरत्र वक्ष्यन्, ग्रन्थनिर्माण कर्मणेत्युक्तम्, भगवता वरवरमुनिना स्वाधिका-रानुगुणम् भगवद्यतीन्द्र विषयस्तोत्रनिर्माणरूपग्रन्थकरणात्मकम् स्वाध्यायप्रभेदम् वदन्, *तद्वचश्श्रवणोत्सुकः । आग्न- भ्यर्थनमालोकनिर्देशवचनादरः* इति भरद्वाजो-क्तदिशा स्वाचार्यवचश्श्रवणसञ्जातम् स्वस्य मनः प्रसादम् *इति यतिकुलधुर्य-मेधमानैः* इत्यादिनोत्तरत्र च वक्ष्यन्, तत्र स्वसमभिव्याहृतशब्द स्वरूप परामर्शकेन इतिशब्देन परामर्शाय यतिराजविम्शतिमनुवदति-श्रीमाधवेत्यादिभिः ॥

भगवान् वरवरमुनिः प्रपन्नजनकूटस्थपराङ्कुशसूरिप्रभृतिसर्व पूर्वाचार्य-परम्पराप्राप्तम् स्वाचार्येण श्रीशैलनाथेन स्वस्मै प्रसादितम्, रहस्यत्रयतात्पर्यपर्य- वसानभूमिभूतम् भगवतो रामानुजस्य निरपायोपायत्वम् निरतिशयोपेयत्वञ्च प्रीतिप्रकर्षहठात्कारेण दुर्गतप्राणिगणप्राणनप्रवीणकरुणोद्वारेण च यतिराज-विम्शतिसमाख्यावता स्तोत्रेण प्रतिपिपादयिषुश्चिकीर्षितस्याविघ्नसमाप्त्यर्थम् स्वाधिकारानुरूपम् गुरुनमस्क्रियारूपम् मङ्गलमाचरति – द्वाभ्याम् श्लोकाभ्याम् । अत्र च विवक्षावशात् – मूलमन्त्रे त्रीणि पदानि, मन्त्ररत्ने च षट्पदानि, चरमश्लोके चैकादश पदानीति सङ्कलनया विम्शतिसम्पत्त्या व्याख्येयरहस्यत्रयपदसङ्ख्या-नगुणा विम्शतिसङ्ख्या, व्याख्यायाम् यतिराजविम्शतावाश्रितेति द्रष्टव्यम्

 

श्रीमाधवाङ्घ्रिजलजद्वयनित्यसेवाप्रेमाविलाशयपराङ्कुशपादभक्तम् ।

कामादिदोषहरमात्मपदाश्रितानाम् रामानुजम् यतिपतिम् प्रणमामि मूर्ध्ना ॥१ ॥

श्रीमाधवेति ॥ श्रीमाधवस्य – सर्वप्रकारभोग्यस्य श्रियः पत्युः, श्रीर्ह्यनन्याधेयातिशया, तद्वत्सर्वप्रकारभोग्यत्वम् दर्शयति श्रीशब्द इति न माशब्देन पौनरुक्तयम् । श्रीशब्दो वा मुख्यार्थपर एव सन् अङ्घ्रि जलजद्वयेऽन्वेति, *श्रीमन्तौ हरिचरणावितिवत् । श्रियो माधवाङ्घ्रि जलजद्वयमिति षष्ठीसमासः सम्बन्धश्च वास्तव्यनिवासभावरूपः । जलजे इवाङ्घ्री अङ्घ्रिजलजे, तयोर्द्वयस्य, नित्य-सेवायाम् – नित्यकैङ्कर्ये, प्रेम्णा – अत्युत्कटरागेण, आविल: – अप्रकृतिम् गतः, आशयः – प्रज्ञा यस्य स तथोक्तः, तथाविधस्य पराङ्कुशस्य – प्रमाणतर्कैः प्रतिपक्षनिरासनसिद्ध पराङ्कुशनामधेयस्य भगवतः कारिसूनोः, पादयोर्भक्तम् – परमभक्तिमन्तम् । अत्र अङ्घ्रिजलजद्वयप्रेमाविलाशये पराङ्कुशे, भगवतः प्रेमातिशयाभिप्रायेण माधवेत्युक्तम्, *माधवो भक्तवत्सल* इति हि सहस्रनामसु पठितम्; आत्मपदाश्रितानाम् – स्वचरणमाश्रितानाम्, कामादिदोषहरम् – काम-क्रोधलोभाद्यात्म स्वरूपगतहेयधर्मनिवर्तकम्, रामानुजम् – लक्ष्मणावतारत्वाद्गुण- विशेषैश्च रामानुजनामधेयम्, यतीनाम् – निर्जितेन्द्रियग्रामाणामुत्तमाश्रमिणाम्, पतिम् – शेषिणम् रक्षकञ्च भगवन्तम् भाष्यकृतम्, मूर्ध्ना – शिरसा, प्रणमामि प्रकर्षेण प्रह्वीभवामि । अत्र पूर्वार्धेन प्राप्तविषयप्रावण्यम् कामादिदोषहरमित्यप्राप्तविषयप्रावण्यनिवर्तकत्वम् चोक्तम् । तदुभयनिदानञ्च रामानुजम् यतिपतिमित्याभ्यामुच्यते । रामानुजस्य ह्यभिनवदशावतारेषु रामावतारत्वेन प्रसिद्धपराङ्कुशप्रावण्यमुचितम् । यतिपतेर्हि कामादिनिरसनमनुरूपमिति गुणकृत-भगवत्प्रावण्यादपि स्वरूपप्रयुक्तभागवतप्रावण्यमत्यतिशयितमित्यभिप्रायेण पाद-पदयोर्जलजविशेषणानुपादानम्, चरमपर्वनिष्ठस्योत्तमाश्रमिणश्च स्वस्यादरनिबन्ध-नम् चरमनिष्ठत्वमुत्तमाश्रमित्वश्चेत्यभिप्रायेण पराङ्कुश पादभक्तम् यतिपति-मित्युक्तम् । *भक्तिश्च नियता वीर ! भावो नान्यत्र गच्छति* इति न्यायात् । अत्र च श्रीमाधवाङ्घ्रीत्यादिकम् श्रीमदमृतार्यप्रणीतप्रपन्नसावित्रीशैलीम् प्रत्यभिज्ञा-पयति । साहि भगवता रामानुजेन साक्षादनुमोदिता । अत्र *देवतावाचका* इत्या-दिकम् पूर्वत्र लिखितमनुसन्धेयम् । *सम्युक्ताश्चेद्गद्यपद्याद्ययुक्ताः क्षान्त्यै सर्वे क्रौर्य-मापादयन्ति* इत्युक्तेः ॥ १ ॥

 

श्रीरङ्गराजचरणाम्बुजराजहम्सम् श्रीमत्पराङ्कुशपदाम्बुजभृङ्गराजम् । श्रीभट्टनाथपरकालमुखाब्जमित्रम् श्रीवत्सचिह्नचरणम् यतिराजमीडे ॥ २ ॥

 

*दुर्लभो मानुषो देहो देहिनाम् क्षणभङ्गुरः । तत्रापि दुर्लभम् मन्ये वैकुण्ठ- प्रियदर्शनम्* इत्यत्र प्रसज्यप्रतिषेधस्याप्यकरणेन व्यञ्जितदौर्ल- भ्यातिशयके चरमपर्वमूर्धाभिषिक्तयतिराजविम्शत्यात्मकस्तुतिकरणरूपभागवतशेषत्वे विघ्न-भूयस्त्वमाशङ्कमानः पुनरपि मङ्गलम् स्वाधिकारानुरूपमाचरति – श्रीरङ्गेति ।  अत्र, श्रीशब्दश्श्रीमत्परो रङ्गराजविशेषणम्, चरणाम्बुजविशेषणम् वा, श्रीरङ्गराजस्य, चरणावेवाम्बुजे चरणाम्बुजे, तयोः राजहम्सम् – तच्छाया- निषण्णहम्सश्रेष्ठम् । राजहम्समित्यत्र राजहम्स एव राजहम्स इति श्लिष्टरूपकम् । राजहम्सः – परमहम्सः, शुद्धत्वविवेचकत्वादिना सादृश्याद्रूपणम्, श्रीमतः – भगवदनुभवकैङ्कर्यपरभक्तिपरज्ञानपरमभक्ति प्रमुखस्वरूपानुरूपसम्पत्पूर्णस्य, भूम्नि मतुप् । पराङ्कुशस्य चरणावेवाम्बुजे, तयोर्भृङ्गराजम् – भृङ्गश्रेष्ठम्, भृङ्गो हि मधुव्रतः, तद्वद्धारकनैयत्यमुक्तम् भवति । भृङ्गावान्तरभेदेषूत्तमजात्यभिप्रायेण राजशब्दः ॥ श्रीभट्टेत्यादि अत्रापि श्रीशब्दश्श्रीमत्परः, भट्टनाथस्य हि श्रीः परतत्त्वस्थापनरूपा तत्पूर्वक मङ्गलाशासनरूपा च; परकालस्य तु श्रीः परवादि-निरसनरूपा दिव्यदेशजीर्णोद्धारणरूपा अनितरसाधारणभगवद्विश्लेषसम्श्लेषासहत्व-लक्षणमार्दवकाष्ठारूपा च, श्रीभट्टनाथपरकालयोमुखे एवाब्जे पद्मे तयोर्मित्रम् विकासकत्वाद्रूपणम्, परतत्त्वस्थापनादितद्धर्मधर्मकत्वात्तन्मुखोल्लासकरत्वमिति भावः । श्रीभट्टनाथपरकालमुखानाम् तत्प्रमुखानाम् – *मुखम् प्रधाने पुरङ्गे* इति रत्नमाला, सरोयोगिप्रभृतीनामजानाम् पद्मानाम् मित्रमिति वाऽर्थः । श्रीवत्सचिह्न एव – परमकारुणिकत्वादिना श्रिया सुसदृशः, कूरनाथ एव, चरणौ – पादौ यस्य स तथोक्तः, तम् – यतिराजम् भगवन्तम् भाष्यकारमीडे – स्तौमि । पूर्वत्र कायिकम् मङ्गलमात्रतु वाचिकञ्च कृतम्, तदुभयाक्षिप्तन्तु मानसमपि सिद्धम् । पूर्वत्रैव मङ्गलम् कृतम्, अत्र तु चिकीर्षितस्तोत्रनिर्देश इत्यपि द्रष्टव्यम् ।  अत्राप्यमृतार्यकृतप्रपन्नसावित्रीप्रत्यभिज्ञापनम् प्रायेण कृतमिति बोध्यम् ॥ २॥

 

 

वाचा यतीन्द्र ! मनसा वपुषा च युष्त्पादारविन्दयुगलम् भजताम् गुरूणाम् ।

कूरादिनाथकुरुकेशमुखाद्यपुम्साम् पादानुचिन्तनपरस्सततम् भवेयम् ॥ ३ ॥

 

एवम् मङ्गलमनुष्ठाय स्तोत्रमारभते – वाचेति ॥ उत्तरश्लोके तच्छेषत्वम् प्रार्थयिष्यमाणस्तत्प्रतिष्ठापकम् तदीयशेषत्वमत्र प्रार्थयते । श्रीवत्सचिह्नेति  च प्रस्तुतम् कूरनाथम् तत्समानयोगक्षेमानन्याम्श्च शेषवृत्ति-प्रतिसम्बन्धित्वेन प्रार्थयते । हे यतीन्द्र, मनसा – हृदयेन, वाचा -वागि-न्द्रियेण, शब्दरूपया वाचा वा, वपुषा – कायेन च, मनसः उभयोपकारकत्वा-भिप्रायेण मध्यनिर्देशः, मनोवाक्कायैः करणैः । युष्माकम् – तव, *युष्मदि गुरावेकेषा*मिति सूत्रेण एकत्वे बहुवचनम् । यतीन्द्रतदुद्देश्यपराङ्कुशतदु-द्देश्यश्रीमाधवाभिप्रायेण वा युष्मदिति निर्देशः । पादारविन्दयोः – पावनत्व-भोग्यत्वाभ्याम् पद्मतुल्यचरणयोर्युगलम्, साहित्यसौन्दर्य नैरपेक्ष्यञ्च बोध-यितुम् युगलशब्दः प्रयुक्तः । युष्मच्छब्दस्य बहुत्वपरत्वे स्तनौ तरुण्य इतिवद्युगलशब्दोपपत्तिः । भजताम् – सेवमानानाम्, गुरूणाम् – पराङ्कुश-पादभक्तम् श्रीभट्टनाथपरकालेति प्रस्तुतदिव्यसूरिप्रणीतद्रमिडोपनिषद्व्या-ख्यानम् गृणताम्, गृणन्तीति गुरवः, *कृग्रोरुञ्चे*त्युप्रत्ययः, अज्ञानान्धकार- निरासकानाम् वा । कूरादिनाथः – श्रीवत्सचिह्नः, कुरुकेशः – *पुत्रीकृतो भाष्यकृता स्वयम् यः* इत्युक्तः कुरुकेश्वरः, मुखमादियेषाम् ते तथोक्ताः, तथाभूतानाम्, मुखपदेन गोविन्ददाशरथिप्रभृतयो गृह्यन्ते । आद्यानाम् -पूर्वेषाम्, पुम्साम् – पुरुषाणाम्; तदीयशेषत्वसारभूतयतीन्द्रशेषत्वनिष्ठतया परिशुद्धत्वाभिप्रायेण पुम्सामित्युक्तम् । *पूजोडुसुन्नि*ति? पूञ्पवन इत्यस्मात्पुम्शब्दनिष्पत्तेः । *क्षेत्रज्ञस्येश्वरज्ञानाद्विशुद्धिः परमा मता* इति युक्तम् । सततम् – सर्वकालम्, पादानुचिन्तनपरः – चरणानुध्यानपरः, अनुचिन्तनम् शेषित्वेन स्मरणम्, भागप्रतिसम्बन्धित्ववाची ह्यनुशब्दः, भवेयम् – भवितुम् प्रार्थये । अत्राप्यरविन्दशब्दनिर्देशस्स्वरूपप्राप्तत्वाभि- प्रायक इति द्रष्टव्यम् ॥ ३ ॥

 

नित्यम् यतीन्द्र ! तव दिव्यवपुस्स्मृतौ मे सक्तम् मनो भवतु वाग्गुण-कीर्तनेसौ |

कृत्यञ्च दास्यकरणम् तु करद्वयस्य वृत्त्यन्तरेस्तु विमुखम् करणत्रयञ्च ॥ ४ ॥

तदीयशेषत्वप्रतिष्ठाख्यम् तच्छेषत्वम् प्रार्थयत – नित्यमिति ॥ मनोवाक्कायै-र्यतीन्द्रम् सेवमानानाम् कूराधिनाथप्रभृतीनाम् पादानुचिन्तनफलम् तदनुष्ठान-निष्ठतेत्युच्यते । हे यतीन्द्र, मे – अप्राप्तविषयप्रवणकरणत्रय युक्तस्य मम, मनः – *चञ्चलम् हीत्यादिना चञ्चलत्वेन ख्यापितम् हृदयम् कर्तृ, तव – प्राप्त-तमस्य सुलभस्य च शेषिणस्तव, दिव्यवपुषः – परमभोग्यविग्रहस्य, स्मृतौ – स्मरणे, नित्यम्, सक्तम् – सङ्गयुक्तम्, इच्छाविशेषयुक्तम् भवत्विति प्रार्थना । मे इत्युत्तरत्र स्थानत्रयेऽप्यनुषज्यते । असौ – अप्राप्तविषयप्रावण्यवशेन विप्रकृष्टा, मे, वाक् – वागिन्द्रियम् कर्तृ, तवेत्यपि स्थानत्रयनुषञ्जनीयम्, तव – कीर्तनीय-तमस्य तव, गुणानाम् – सौशील्यसौलभ्यादीनाम्, सौन्दर्यसौकुमार्यादीनाम् च गुणानाम्, कीर्तने – भावबन्धपुरस्सरम् सम्यगुञ्चारणे, कृत सम्शब्दन इति हि धातुपाठः । सक्ता भवतु – सक्तमित्यनुषक्तस्य लिङ्गविपरिणामः, भवत्विति चानुषङ्गः । *अदसस्तु विप्रकृष्ट*मित्यनुशासनाद्विप्रकृष्टवाचित्वमदश्शब्दस्य द्रष्टवव्यम् । मे करद्वयस्य च – असेव्यसेवानिरतस्य मम करयुगस्य च, तव दास्यकरणन्तु परिचरणीयस्य तव दासकर्मनिष्पादनमेव, कृत्यमस्तु – अवश्या-नुष्ठेयमस्तु, चकारोऽनुक्तसमुञ्चायकः करणान्तरम् समुञ्चिनोति । मे करण-त्रयम् – त्वद्विषयस्मरणकीर्तनदास्यकरणसक्ततया प्रार्थितम् मदीयम् मनोवा-क्कायरूपकरणत्रयम्, वृत्त्यन्तरे – त्वत्स्मरणादित्रितयव्यतिरिक्तव्यापारेषु, विमुखम् चास्तु, न केवलम् त्वत्स्मरणादिसक्तम्, किन्तु त्वदन्यविमुख-मप्यस्त्विति प्रार्थना । तुशब्दोऽवधारणार्थकः ॥ ४ ॥

 

अष्टाक्षराख्यमनुराजपदत्रयार्थनिष्ठाम् ममात्र वितराद्य यतीन्द्रनाथ ! ।

शिष्टाग्रगण्यजनसेव्यभवत्पदाब्जे हृष्टास्तु नित्यमनुभूय ममास्य बुद्धिः॥ ५ ॥

 

अष्टाक्षरेति ॥ एतच्छलोकप्रभृति सर्वम् पूर्वश्लोकस्य विवरणम्, श्रीमन्यतीन्द्रतवदिव्यपदाब्जसेवामिति तु स्तोत्रार्थोपसम्हारः, विज्ञापनमित्यादिश्लोक- स्तूपक्रमोपसम्हारमध्यैरुपपादितार्थस्य हेतूक्तिपूर्वकम् द्रढीकरणमिति बोध्यम् । नाथ – अस्मत्स्वामिन्, यतीन्द्र, अत्र – अज्ञानान्धकारावहे सम्सारमण्डले, अद्य – कलिसाम्राज्यकाले, मम – प्रथमपर्वनिष्ठावितरणस्याप्यनर्हस्य मे, अष्टाक्षराख्यस्य – अष्टाक्षर इति प्रथितस्य *न मन्त्रोऽष्टाक्षरात्परः* *गतिरष्टाक्षरो नृणाम्* *बीजमष्टाक्षरस्य स्यात्* इत्यादिषु तत्प्रसिद्धिरभिप्रेता । अष्टाक्षराख्येति निर्देशश्च स्वापेक्षिततदीयशेषत्वप्रतिपादकानाम् उकारनमःपदनारायणपदानाम् सद्भावाभिप्रायेण कृतः । मनुराजस्य – मन्त्रवरस्य मूलमन्त्रस्य, तस्यैव हि *गृह्णीयान्मन्त्रराजानम्* इति मन्त्रराजत्वम् प्रसिद्धम्, पदत्रयस्य -प्रणवनमश्शब्दनारायण- पदात्मकविशिष्टार्थपरत्वौपाधिकत्रित्वसङ्ख्यायुक्त पदसङ्घातरूपस्यार्थानाम् –तदीयपर्यन्तानन्यार्हशेषत्वानन्यशरणत्वानन्य भोग्यत्वरूपाणाम् अभिधेयानाम्, निष्ठाम् – निष्पत्तिम् त्वयि पर्यवसानरूपमन्तम् वा, *निष्ठानिष्पत्तिनाशान्ताः* इति कोशः । पदत्रयार्थेषु पूर्वोक्तेषु, नितराम् स्थितिम् नैयत्यम् वा, वितर – देहि, नाथत्वाद्वितरणम् युक्तमिति भावः । वितरणस्य चात्रकर्तृपर्यवसन्नस्वत्व- कत्वाञ्चतुर्थीनिर्देशविरहः, शेषगतातिशयो हि शेषिण एवेति भावः । निष्ठावित- रणफलमाह – शिष्टेत्यादिना । शिष्टाः – तत्त्वहितपुरुषार्थेषु भ्रमरहितास्तेषामग्र- गण्यास्तत्त्वहितपुरुषार्थयाथात्म्यम् तदीयपर्यन्तम् त्वद्विश्रान्तमिति प्रमावन्तः कूरनाथादयः; ते च ते जनास्समीचीनोत्पत्तिमन्तस्तेषाम्, सेव्ये – परिचरणीये, भवतः – चरम शेषिणस्तव, पदाब्जे – पद्मसदृशौ चरणौ, नित्यमनुभूय, अस्य मम – प्रथमपर्वणोऽप्ययोग्यस्य मे, बुद्धिर्हृष्टाऽस्तु – अनुभवफलकैङकर्यलाभजनित-हर्षप्रकर्षवती भवत्विति प्रार्थना । अत्र श्लोके पूर्वोत्तरार्धाभ्याम् मूलमन्त्रपदत्रयम् यतीन्द्रपर्यवसन्नतात्पर्यकमित्युक्तम् भवति । मन्त्रराजत्वम् नृसिम्हानुष्टुभे *तेभ्य एतम् मन्त्रराजम् नारसिम्हानुष्टुभम् प्रायच्छत्* इत्यादिषु प्रसिद्धमिति तद्व्यावर्तनायाष्टाक्षराख्येतीत्यपि वदन्ति ॥ ५ ॥

 

अल्पापि मे न भवदीयपदाब्जभक्तिः शब्दादिभोगरुचिरन्वहमेधते हा ।

मत्पापमेव हि निदानममुष्य नान्यत् तद्वारयार्य यतिराज ! दयैकसिन्धो ॥ ६॥

दिव्यवपुस्स्मृतौ मनस्सक्तम् भवतु, वृत्त्यन्तरेऽस्तु विमुखम् करणत्रयम् चेति व्यजितम्, मनसः प्राप्तविषयप्रावण्यविरहम्, अप्राप्तविषयप्रावण्यम् च सहेतुकम् निवर्तयेत्याह – अल्पापीति ॥ दयायाः – स्वार्थानपेक्ष परदुःखासहिष्णुतायाः, एकसिन्धो – अद्वितीयसमुद्रभूत, एतेन दयाया निर्हेतुकत्वम् अक्षय्यत्वञ्च; आर्य – आचार्य, अज्ञातज्ञापनादिभिर्मदुज्जीवनकारिन् वैदिकाग्रेसरेति वाऽर्थः, मम प्राप्यभूतेति वाऽर्थः । *हलोर्ण्यदि*ति ऋगतावित्यस्मात् ण्यत्प्रत्यये ह्यार्यशब्दो निष्पन्नः । अद्येत्यपि केचित् पठन्ति, तदाऽद्यैवेत्यर्थः । हाशब्दव्यञ्जिता परमार्तिरनेनोक्ता भवतीति द्रष्टव्यम् । अल्पाऽपि –

किञ्चिदपि, भवदीययोः  – प्राप्तसुलभभोग्यतमत्वत्सम्बन्धिनोः पदाब्जयोः – पद्मवत्पावनभोग्ययोः स्वरूपोचितयोश्च पादयोः भक्ती – रुचिः, मे – मम, न – नास्तीत्यर्थः । शब्दादीनाम् – अप्राप्तहेय- विषयाणाम्, आदिशब्देन स्वर्गादीनाम् सङ्ग्रहः, भोगे – तज्जन्यसुखसाक्षात्कारे, रुचिः -अरभिप्रीतिः, अन्वहम् – अहन्यहनि, एधते – वर्धते, हा –प्राप्तविषयप्रावण्यविरहाप्राप्तविषय – प्रावण्यवृद्ध्योर्दुःख्यत इत्यर्थः । भोगरसिकतया शब्दादिरुचिमतो मम कथमति-शयितभोगवैमुख्यमिति विस्मयो वा हाशब्दार्थः । अमुष्य – प्राप्ताप्राप्तविषया-प्रावण्यप्रावण्यद्वयस्य, निदानमादिकारणम्, मत्पापमेव – मदीयमनादिदुरितमेव, भवतीति शेशेषः । एवकारेण – *द्विषन्तः पापकृत्याम्* इत्युक्तरीत्याऽन्यानुष्ठितमत्रासञ्चितम् पापम् व्यावर्त्यते । नान्यत् – ईश्वरस्वातन्त्र्यम् लीलारसबुभुक्षादिकञ्च नास्य निदानमित्यर्थः । निदानमिति पूर्वस्मादनुषज्यते, तत् मत्पापम्, वारय – निवर्तय; यद्वा – त्वत्पदाब्जविषयरुचिविरहः शब्दादिविषयरुचिः, तन्निदानम् पापञ्चेति पूर्वोक्तत्रितयम् वारयेत्यर्थः । तदित्यत्र, *त्यदादीनि- सर्वैर्नित्यमि*ति तच्छब्दशेषे जातावेकवचनञ्च, भवदीयपदाब्ज इत्यत्र भवनीयानाम् पदाब्जेष्विर्त्थ इत्यपि वदन्ति । आद्यपुम्साम् पादानुचिन्तनपर इति प्रक्रमानुगुण्यमिति तदाशयः ॥ ६ ॥

 

वृत्त्या पशुर्नरवपुस्त्वहमीदृशोपि श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयोयम् । इत्यादरेण कृतिनोपि मिथः प्रवक्तुम् अद्यापि ञ्चनपरोत्र यतीन्द्र ! वर्ते ॥७॥

कृत्यञ्च दास्यकरणमित्यनेन ध्वनितमप्राप्तवृत्तिनिरतत्वम् निवतयेत्याह – वृत्त्येति ॥ हे यतीन्द्र, वञ्चनपरः – परभ्रमोत्पादनैकनिरतः, अहम् – निर्जितेन्द्रियग्रामस्य तव प्रतिकोटिभूतोऽहम्, इन्द्रियाधीन इति यावत् । नरवपुर्मनुप्यशरीरः, पशुरिति वृत्त्या – व्यापारण ज्ञायते, वृत्तिज्ञाप्यनरपशुत्ववानित्यर्थः ।  तुशब्द एवकारार्थः । ईदृशोऽपि – एवम्भूतोऽपि; दाढर्यार्थम् पुनरनुवादः । स्वतस्सर्वज्ञस्यापि यतीन्द्रस्य स्वस्मिन् वक्ष्यमाणभ्रमाशङ्कया वा वृत्त्यापशुरितिविधिः । श्रुत्यादिभिः – *शान्तोदान्त उपरत* इत्यादिश्रुतिभिः, *अहिम्सा सत्यमक्रौर्यम् शौचमिन्द्रियनिग्रहः । दानम् दमः क्षमा विद्या सर्वेषाम् मुनिभिः स्मृतम्* । इत्यादिभिः, *अथाष्टावात्मगुणाः* इत्यादिभिश्च स्मृतिभिः, सिद्धाः – बोधिताः, निखिला – अशेषाः, आत्मगुणाः – स्वाश्रयभूतात्मस्वरूपोत्कर्षावहाः शमदमादयः, तेषामाश्रयः, इदमुद्देश्यसमर्पकम् । अयम् – बुद्धिस्थो वरवरमुनिः, इदन्तु विधेयसमर्पकम्, इति आदरेण आत्मसाक्षिकप्रीतिविशेषेण नत्वन्यार्थमारोपवुद्ध्येत्यर्थः । कृतिनोऽपि मिथः प्रवक्तुम् – निरूपका अपि यथाऽन्योन्यम् बोधयन्तः परस्परमित्युक्तरीत्याऽवश्यकधर्म-प्रवचनवत्प्रवचनम् कुर्युस्तथाऽत्र विप्रलिप्सादिगन्धविधुरकूरनाथादिपरमधार्मिकगोष्ठीने श्रीरङ्गे वर्ते – तिष्ठामि । अत्र, तद्वारयेति पूर्वस्मादनुषज्यते । तथा च एतादृशम् मम विप्रलम्भकत्वम् निवर्तयेत्यर्थः । प्रायिकत्वनिवृत्त्यर्थम् निखिलशब्दः, अन्यस्यापीदृशत्वव्यावृत्त्यर्थम् श्रुत्यादिसिद्धनिखिलात्मगुणाश्रयमुद्दिश्य अयमिति तादात्म्येन विधिः । तेन चाद्देश्यतावच्छदकव्यापकत्वम् विधेये भासत इति, व्यापकनिवृत्त्या व्याप्यनिवृत्तिसिद्धिः । कृतिनः प्रवक्तुम् वर्त इत्यत्र *तुमुन्ण्वुलौ क्रियायाम् क्रियार्थायामि*ति सूत्रेण तुमुन् । तद्धि सूत्रम् भिन्नकर्तृक-क्रियाबोधकादपि धातोस्तुमुन्विधायकम्, न ह्यत्र समानकर्तृकग्रहणम् कृतम् । कृतम्; तत्तूतरत्र बहुसूत्रव्यवहिते *समानकर्तृकेषु तुमुनि*ति सूत्रे कृतम्, समानकर्तृकष्विति विशेषम् समर्पयितुमयमारम्भ* इति हि तयाख्यातृभिश्चिरन्तनैरुक्तम् । अनेन तमुन्ण्वुलाविति सूत्रेण भिन्नकर्तृकक्रियाबोधकादपि धातोस्तुमन्भवतीत्युक्तम् भवति । प्रयोगाश्च भिन्नकर्तृकस्थले दृश्यन्ते । यथा *कर्तुम् वा कच्चिदन्तर्वसति वसुमतीदक्षिणस्सप्ततन्तुः* इति मुरारिणा प्रयुक्तम् । अत्र करणकर्तृत्वम् मुनेः, वासकर्मत्वम् सप्ततन्तोरिति भिन्नकर्तृकत्वम् । भगवता भाष्यकृता च *योगिनः प्रति स्मर्येते  स्माते चैते* इतिसूत्रभाष्ये – *देवयानपितृयानाख्ये गती स्मर्येते, योगाङ्गतयाऽनुदिनम् स्मर्तुम्* इति प्रयुक्तम् । तत्र चैकम् स्मरणम् स्मृतिकारकर्तृकम्, अपरन्तु योगिकर्तृकमिति भिन्नकर्तृकत्वम् । भट्टारकैश्च *श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुम् विन्यस्य* इति प्रयुक्तम् । अत्र विहारकर्तृत्वम् भगवतः, विन्यासकर्तृत्वन्तु सेनान्य इति भिन्नकर्तृकत्वम् । नचैषाम् प्रयोगाणाम् क्लेशेनापि समानकर्तृकविषयत्वसमर्थनम् न्याय्यम्, मानाभावात् । एतेन मनोरमोक्तम् तुमुन्ण्वुलावित्यस्यापि समानकर्तृकत्वनियततुमुन्विषयकत्वम् निरस्तम् । अत्र च प्रधानशक्त्यभिधानगुणशक्तेरभि हितवत्प्रकाशादनभिहिताधि करणविहितयोस्तृतीयाषष्ठ्योरसाधुत्वात्कर्त्रर्थे प्रातिपदिकार्थमात्रे वा कृतिन इत्यत्र प्रथमायास्साधुन्वम् बोध्यम् । यद्वा कृतिन इति षष्ठ्यन्तम् जात्येकवचनान्तम् च, अथवा व्यक्ताववैक वचनान्तम्, मिथःपदन्तु रहसीत्यर्थकमिति द्रष्टव्यम् ॥ ७ ॥

 

दुःखावहोहमनिशम् तव दुष्टचेष्टः शब्दादिभोगनिरतः शरणागताख्यः ।

त्वत्पादभक्त इव शिष्टजनौघमध्ये मिथ्या चरामि यतिराज ! ततोस्मि मूर्खः ॥८॥

मदीयमप्राप्तवृत्तिनिरतत्वम्, तवैव दुःखहेतुत्वात्त्वयाऽवश्यनिवर्त्यमित्याह -दुःखेति ॥ हे यतिराज – विहितविषयविरक्तगोविन्दाह्वप्रभृतीनामपि रञ्जक, शरणागताख्यः – प्रपन्न इति नाममात्रवान्न तु तदधिकारभूतानन्य-गतित्ववान्, नापि तत्सम्भावितस्वभावभूतानुकूल्यादिमानित्यर्थः । तदाह – शब्दादीति । शब्दादिभोगेनिरतः – नियतः, दुष्टा – शास्त्रनिषिद्धतया निष्ठा भञ्जकत्वरूपदोषदूषिता चेष्टा, सदसदाचारनिवृत्तिप्रवृत्तिरूपा यस्य स तथोक्तः, अत एवानिशम् तव दुःखावहः – प्रतिकूलकारिशरणागताख्यत्व शब्दादिभोगनिरतत्वाभ्याम् त्यागस्वीकारयो- र्विचिकित्सादुःखकर इति वाऽर्थः । अहम् त्वत्पादभक्त इव – न केवलम् भगवत्प्रपन्न इव किन्तु चरमप्रपन्न इव, शिष्टजनानामिष्टेष्टसाधनाद्यशे भ्रान्तिरहितानाम् कूरकुलोत्तमदासप्रभृतीनामोघस्य – परिषदः मध्ये, न तु क्वचित्कोण इत्यर्थः । मिथ्याचरामि – अयथाभूताचारवान्भवामि, मिथ्याचा रस्स उच्यते* इति भगवदुक्तेरहमेव मुख्यविषय इत्यर्थः । मिथ्या अयथार्थाधिकारस्सन् चरामि – सञ्चरामीति वाऽर्थः । मदीयदुराचारसमीक्षायाम् हि मम शिष्टगोष्ठीमध्याब्रद्बहिष्करणमेव न्याय्यमिति भावः । यत एवम्, ततोऽहम् मूर्खेस्मि – बालिशोऽस्मि, *मूर्खवैधेयबालिशा* इति कोशः । मूर्छनान्मूर्खः मूर्छनम् मोहः, मूर्छा मोहसमुच्छ्राययोरिति हि धातुपाठः । अनेन पूर्वोक्तव्याहताचारापादकदुर्मोहभरितत्वमुक्तम् भवति । अत्रापि तद्वारयेति वर्तते – तथा चोक्तविधम् मौर्ख्यम् निवर्तयेत्यर्थः ॥ ८ ॥

 

नित्यम् त्वहम् परिभवामि गुरुम् च मन्त्रम् तद्देवतामपि न किञ्चिदहो बिभेमि ।

इत्थम् शठोप्यशठवद्भवदीयसङ्घे हृष्टश्चरामि यतिराज ! ततोस्मि मूर्खः ॥९॥

वाग्गुणकीर्तनेऽसावित्यादिना सूचितम् वागिन्द्रियस्य विपरीतवृत्तम् तदुपपादकम् मौर्ख्यञ्च निवर्तयेत्याह – नित्यन्त्विति ॥ हे यतिराज अहम् गुरुम् – अज्ञातज्ञापनादिना महोपकारकरमाचार्यम्, मन्त्रम् – *योऽसो मन्त्रवरम् प्रादादि*त्युक्तरीत्या तदुपदिष्टम् मूलमन्त्रम्, तस्य – मन्त्रस्य, देवतामपि – प्रतिपाद्यदेवताभूतमीश्वरञ्च, नित्यन्तु परिभवामि – नित्यमेव परिभवामि तिरस्करोमि अवजानामीत्यर्थः । तत्र गुरुपरिभवो, यथोपदेशम् त्याज्योपादेययोस्त्यागोपादानाननुष्ठानम्, ख्यातिलाभादिप्रयोजनार्थे-नानधिकारिभ्यस्तदुपदिष्टमन्त्रवरोपदेशश्च; मन्त्रपरिभवश्च- तदर्थविस्मृतिविपरीतार्थप्रतिपत्तिश्च । देवतापरिभवस्तु तद्दत्तकरणत्रयस्य तद्विषये विनियोगविरहोऽन्यत्रविनियोगश्चेति पूर्वाचार्यसूक्तिष्वनुसन्धेयम् । किञ्चिदपि न बिभेमि – उक्तगुरुमन्त्रदेवतापरिभवप्रयुक्त भाव्यनर्थाशङ्कनीषदपि मम नास्तीत्यर्थः । अहो इति विस्मये, लोके क्वापीदृशपापप्राचुर्य निर्भीकत्वञ्च न दृष्टचरमिति भावः । इत्थमुक्तरीत्या शठोऽपि गूढविप्रियकृदपि, *गूढविप्रियकृच्छठ*इत्युक्तेः । यद्वा शठोऽपि – शास्त्रप्रामाण्यबुद्धिशून्यतया नास्तिकोऽपि *शठचित्त शास्त्रवशतोपायोऽभिचारश्रुतिः* – इत्युक्तेः । अशठवद्वाहिरन्तश्चैकरूप्येण प्रियकृदिव परमास्तिक इव वा, भवदीयानाम् भवदेकनिरूपणीयानाम् परमास्तिकानाम् सङ्घे – समूहे, हृष्टस्सन्, मदीयम् विप्रियकृत्त्वमेषाम् गूढमिति हर्षयुक्तस्सन्, चरामि – सञ्चरामि, यत एवम् ततोऽहम् मूर्खोऽस्मि – मूढोस्मि, तद्वारयेति च वर्तते, तथा च मम गुरुपरिभवादिवागिन्द्रियदुर्वृत्तिम् निवर्तयेत्यर्थः ॥ ९ ॥

 

हा हन्त हन्त मनसा क्रियया च वाचा योऽहम् चरामि सततम् त्रिविधापचारान् ।

सोऽहम् तवाप्रियकरः प्रियकृद्वदेव कालम् नयामि यतिराज ! ततोस्मि मूर्खः

॥ १० ॥

मनसो दुर्वृत्तिम् तत्प्रयोजकम् मौर्ख्यञ्च निवर्तयेत्याह – हाहन्तेति ॥ हे यतिराज ! योऽहम् मनसा वाचा क्रियया च मनोवाक्कर्मभिः करणैः, तिस्रो विधाः – प्रकाराः,  भगवदपचारत्वभागवतापचारत्वासह्यापचारत्वरूपापचार विभाजकोप्पाधयो येषान्ते तथोक्तास्तथाविधानपचारान् विप्रतीकारकरव्यापारान् सततमविच्छेदेन, चरामि – अनुतिष्ठामि । सोऽहम्, तवाप्रियकरस्सन् परमकारुणिकस्य परमवत्सलस्य च तवानिष्टकरणैकशीलस्सन्, प्रियकृद्वदिष्टैककरणशील इव । एवकारेणाप्रियकरत्वमीषदपि न स्फोर्यत इत्युच्यते । कालम् नयामि  – सिद्धसाधननिष्ठाधिकारिणो हिताम्शेऽनन्वयादनुभवकैङ्कर्यरूपप्रियैकान्वयेन यथा काल-

क्षेपम् कुर्वन्ति, तथाऽहम् कालक्षेपम् करोमि, हा हन्त हन्तेति निपातत्रयमपि दुःखातिभूमौ वर्तते । अपचारत्रयानुसन्धानेन तत्प्रयुक्तदुःखत्रयम् वा तत्तत्प्रतिनियतम् निपातत्रयेण द्योत्यते । यत एवम्, ततोऽहम् मूर्खोऽस्मि पूर्वा-परव्याहतवृत्तिप्रयोजकदुर्मोहमभूयिष्ठोऽस्मि । अत्रापि तद्वारयेति वर्तते । तत्त्रिविधापचाराचरणम् तत्प्रयोजकमज्ञानञ्च निवर्तयेत्यर्थः । त्रिविधापचारस्वरूपविवेचनन्तु पूर्वाचार्यसूक्तिष्वनुसन्धेयम् । वृत्त्या पशुरित्यादिषु श्लोकेषु प्रतिश्लोकम् करणत्रय-दोषप्रतिपादनेऽपि प्राधान्यादेकैकपरत्वमिति, वृत्त्या पशुदुष्टचेष्टः गुरुम् परिभवामि, मनसा क्रिययेति प्रथमनिर्देशावगम्यत इति द्रष्टव्यम्, योऽहमस्मि ससन्यज इत्युपादेय योऽहन्निर्देशप्रतिपक्षोऽयम् योऽहञ्चरामीति मदीययोऽहन्निर्देश इति हृदयस्थितोऽर्थः । त्रिवारम् मूर्ख इत्युक्तिर्भक्ताङ्घ्रिरेणुसूक्तिम्, भट्टारकसूक्तिम् चाभिप्रेत्येति बोध्यम् ॥ १० ॥

 

पापे कृते यदि भवन्ति भयानुतापलज्जाः पुनः करणमस्य कथम् घटेत ।

मोहेन मे न भवतीह भयादिलेशः तस्मात् पुनःपुनरघम् यतिराज कुर्वे ॥ ११ ॥

शरणादसनाममात्रवतोऽप्यकृत्यकरणादौ भयलज्जयोस्सत्योः, पुनरकरणम् कृताम्शस्य तु पश्चात्तापेन निवृत्तिरपि भवतीति, किमत्र मया करणीयमस्तीति यतीन्द्राभिप्रायमुन्नीयाह – पाप इति ॥ हे यतिराज ! पापे कृते सति मे – मम, भयम् – भाव्यनङ्कनम्, अनुतापः -कृताम्शानुसन्धानेन हृदयतोदविशेषः, लज्जा – शिष्टावगमनप्रसञ्जनायत्तहृदयवृत्तिसङ्कोचविशेषः, इमाः भयानुतापलज्जाः भवन्ति यदि – उत्पद्यन्ते चेत्, अस्य पापस्य, पुनःकरणम् – पुनरनुष्ठानम्, मे – मम, कथम् घटेत – केन हेतुना उपपद्येत । अत्र भयादीनाम् त्रयाणाम् पुनः करणप्रतिबन्धकत्वम्, अनुतापस्य तु कृताम्शशोधकत्वमपीति विवेकः । भयादीनाम् पुनःकरणविरहस्य च हेतुहेतुमद्भावोऽतिस्फुट इति तस्य शब्देनाविवक्षणाद्धेतुहेतुमतोलिडिति सूत्रविहितलिङो न प्रयोगः । अद्य भयाद्युत्पत्तावपि पुनःकरणम् न भविष्यतीत्यभिप्रायेण भवन्तीति लटः प्रयोग इति बोध्यम् । इह – पापकरणे सति भयादीनाम् – पूर्वोक्तानाम्, लेशस्स्वल्पाम्शोऽपि, मोहेन – अभोग्येषु भोग्यताबुद्ध्याऽन्यथाज्ञानेन, मे – मम, न भवति – नोत्पद्यते, तस्माद्भयाद्यनुत्पादनाद्धेतोरघम् – मूलघातिदुरितम्, हन्तीत्यघमिति व्युत्पत्तेः, पुनःपुनः कुर्वे – करोमि । आत्मनेपदेन तत्फलानुभवो मम दुवार एवेत्युच्यते, समग्रभयाद्युत्पत्तौ पुनःकरणाभावः, भयादिलेशोत्पत्तौ च पुनःपुनःकरणाभावः, अत्र तु तल्लेशस्याप्यनुत्पादनात्पुनःपुनःकरणमित्यभिप्रायेण वीप्सेति बाध्यम् । अत्रापि तद्वारयेति वर्तते, तद्भयाद्यनुत्पत्तिप्रयोजकमज्ञानम् निवर्तयेत्यर्थः॥ ११ ॥

 

अन्तर्बहिस्सकलवस्तुषु सन्तमीशम् अन्धः पुरस्स्थितमिवाहमवीक्षमाणः ।

कन्दर्पवश्यहृदयस्सततम् भवामि हन्त त्वदग्रगमनस्य यतीन्द्र ! नार्हः ॥ १२ ॥

तर्हि मत्सन्निधिमेहीति यतीन्द्राभिप्रायमुन्नीय तस्याप्यनर्ह इति वदन्, वृत्त्या पशुरित्युक्तम् विवृणोति – अन्तरित्यादिना ॥ हे यतीन्द्र, अहम् सकलवस्तुषु स्वस्वज्ञानव्यतिरिक्तसर्ववस्तुषु अन्तः बहिश्च सन्तम् – तिष्ठन्तमीशम् – नियन्तारम् भगवन्तम् नारायणम् कर्म, पुरस्स्थितम् – सन्निकृष्टमनावृतञ्च पुरुषमन्ध इव – चर्क्षेशर्हीन इव अवीक्षमाणस्सन् अपश्यन्सन्, *लक्षणहेत्वो*रित्यादिना हेत्वर्थश्शानच् । कन्दर्पस्य – मन्मथस्य, वश्यमधीनम् हृदयम् यस्य स तथोक्तः, तथाविधस्सततम् भवामि । यत एवम्, ततस्त्वदग्रगमनस्य – आत्म- पदाश्रितानाम् कामादिदोषहरस्य तव, अग्रगमनस्य – पदाश्रितशब्दोक्तसन्निधिगमनस्य, नार्हः – न योग्यः । अत्र भवामीत्यनुषङ्गः, अन्तस्सन्तमीशमवीक्षमाणः, यत एव कन्दर्पवश्यहृदयोऽहम्, तत एव त्वदग्रगमनस्यार्हो न भवामीत्येक- वाक्यतयैव योजनीयम् । मनसोऽन्यायत्तत्वे हि, स्वाधीनप्रवृत्तिर्दुश्शकेति भावः । एवम् कामप्रवणस्य मम त्वदग्रगमने सति, तवातिजुगुप्सा स्यादिति वाऽऽशयः । ईशमवीक्षमाण इत्यत्र च, अन्तर्यामि प्रकाशात्कामप्रावण्यानुदयस्य गोविन्दाह्वे प्रतियोगिप्रसिद्धिरभिप्रेता । सततमित्यनेन च अप्राप्तविषयप्रवणानाम् यतीन्द्रसन्निधिनाम् निरस्तकामप्रावण्याना रङ्गालयगायनसूनुप्रभृतीनाम् व्युदासः । कन्द-र्पवश्यत्वञ्च वृत्त्या पशुरित्यत्राभिप्रेतम्, जनन्यामितरत्र च अविशेष दृष्टिरूपम् विवक्षितम् । तथैव नृपशुरित्यत्र पूर्वाचार्यैर्व्याख्यानात् अन्तर्बहि- स्सन्तमीशम्, अन्धः पुरस्थितमिवावीक्षमाण इत्यत्र, *तद्यथा हिरण्यनिधिम् निहितमक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो न विन्दन्ति एवमिमाः प्रजा अहरहर्गच्छन्त्यः* इत्यादिश्रुतिरनुसन्धेया ॥ १२ ॥

 

तापत्रयीजनितदुःखनिपातिनोपि देहस्थितौ मम रुचिस्तु न तन्निवृत्तौ ।

एतस्य कारणमहो मम पापमेव नाथ त्वमेव हर तद्यतिराज ! शीघ्रम् ॥ १३॥

 

सर्वस्यापि पूर्वोक्तस्य दोषजातस्य, देहानुवृत्तिरुचिरैव हि मूलम् । ताञ्च देहदोषानुसन्धानेन त्वमेव जहीहीति यतीन्द्राभिप्रायमुन्नीयाह – तापत्रयीति ॥ हे यतिराज, तापानामाध्यात्मिकाधिभौतिकाधिदैविकात्मकानाम् गर्भवासशीतोष्णयाम्ययातनालक्षणानाम्, त्रय्या – त्रयेण जनितेषूत्पादितेषु दुःखेषूच्चावचेषूपक्लेशेषु, निपातिनोऽपि – निपातनशीलस्यापि ताच्छीलिकणिनिप्रत्ययेन च पतनाङ्गमप्युत्पतनम् नास्तीत्युच्यते । अपिशब्देन देहदोषानुसन्धानमकिञ्चित्करमिति लभ्यते । मम तु -लोकविलक्षणस्य मम, लोके हि तद्दोषदर्शनम् तद्विरामहेतुः, मम तु तन्नेति भावः । देहस्य – उपचयोपलक्षितसर्वहेयविकारास्पदस्य, दिह उपचय इति हि धातुपाठः । उक्तञ्च *द्बयदि नामास्य कायस्य यदन्तस्तद्बहिर्भवेत् । दण्डमुद्यम्य लोकोऽयम् शुनः काकाम्श्च वारयेत्* इति । स्थितौ –  नत्यसत्तायाम्, रुचिरभिप्रीतिर्भवतीति शेषः । तन्निवृत्तौ – तस्य देहस्य निवृत्तौ नाशे, न तु निवर्तन इति भावः । न रुचिः – द्वेषः, भवतीति शेषः ।

नञत्र विरोधिवाचकः, अरुचिर्हि द्वेष एव, स्वतो भाविन्यामपि तन्निवृत्तौ द्वेषवन्तः, मम कुतस्तत्स्थित्यभिरुचिनिवर्तनमिति भावः । एतस्य – देहस्थितिरुचेस्तन्निवृत्त्यरुचेश्च, एतस्येति च सामान्ये नपुम्सकम् जात्येकवचनञ्च, कारणम् – उत्तेजकतया हेतुः, दुःखजनकत्व- लक्षणदोषदर्शनम् हि रुचिप्रतिबन्धकम्, तत्प्रतिबन्धकम् तु पापमेव भवतीत्युत्तेजकत्वम् पापस्य द्रष्टव्यम्, इदमुद्देश्यसमर्पकम् । मम पापमेव – मदीयम् दुरितमेव, नान्यदीश्वरस्वातन्त्र्यादिकम्; इदन्तु विधेयसमर्पकम्, भवतीति शेषः । अहो इति दुःखातिशये, तत् -देहस्थितितन्निवृत्तिरुच्यरुचिनियामकम् पापम् कर्तुम्, नाथ – शेषिन् त्वमेव शक्तः – प्राप्तश्च त्वमेव, न त्वशक्तोऽप्राप्तश्चाहमित्यर्थः । शीघ्रमुतरक्षण एव, हर नाशय, हृञ् हरणे; हरणम् नाशनमित्युक्तम् । शब्दादिभो-

गरुचिप्रयोजकपापापेक्षयाऽपि देहानुवृत्तिरुचिप्रयोजकपास्य क्रौर्यञ्जनायात्र शीघ्रपदम् प्रयुक्तम् । इत्थम् प्रार्थयमानायाप्यस्मै भगवता यतिराजेन अद्यैव देहनिवृत्त्यकरणमनेन लोकोज्जिजीविषयेति बोध्यम् ॥ १३ ॥

 

वाचामगोचरमहागुणदेशिकाग्र्यकूराधिनाथकथिताखिलनैच्यपात्रम् ।

एषोहमेव न पुनर्जगतीदृशस्तद् रामानुजार्य ! करुणैव तु मद्गतिस्ते ॥ १४ ॥

एतावताऽप्युद्गारेण स्वदोषः कियानपि नोक्त इत्यभिप्रायेण *अद्भ्य- स्सम्भूतो हिरण्यगर्भ इत्यष्टौ* इतिवत् पूर्वाचार्यप्रबन्धस्थदोष- कथनमत्र पठनीयमित्याह – वाचामिति ॥ हे रामानुजार्य ! वाचामगोचरा –अपरिच्छिन्नाः, महान्तः – प्रत्येकमपि निस्सीमानो, गुणाः – क्षमादयाद्यात्मगुणा यस्य स तथोक्तस्तथाविधदेशिकानाम् वेदान्तप्रवचनमूर्धाभिषिक्तानाम्, अग्र्यश्श्रेष्ठस्स चासौ कूराधिनाथश्श्रीवत्सचिह्नमिश्रस्तेन कथितस्य पञ्चस्तव्याम् विस्तरेणोक्तस्य अखिलस्याशेषस्य नैच्यस्य – हतकत्वादेर्नीचधर्मस्य पात्रमाश्रयः, एषोऽहमेव – पूर्वोक्तदोषाश्रयोऽहमेव, ईदृशः – पुनरेतादृशस्तु, जगति न – लोके नास्ति । यत एवम्, तत्तस्मात्ते तु करुणैव – कारुणिकत्वे विश्वविलक्षणस्य तव कृपैव मद्गतिर्भवति, विश्वोत्तीर्णदोषनिधेर्ममोज्जीवनोपायो भवति, भवतीति चाध्याहारः । एवकारान्यनिषेधौ दार्ढ्यार्थै  । वाचामगोचरमहागुणेत्यादिविशेषणोपादानञ्च, तदुत्तनैच्यस्य तत्र निवेशासामर्थ्यादानन्तर्यमचोदनेति न्यायेन योग्ये मय्युत्कर्ष इति व्यञ्जनाय । स्वस्य तद्योग्यताविष्करणाय तु एष इति विशेषणम् । देशिकाग्र्यत्यत्र च *अद्यम् यतीन्द्रशिष्याणामग्र्यम् वेदान्तवेदिनाम्* इत्येतदनुसन्धेयम् । *कृतापराधस्य हि ते नान्यत्पश्याम्यहम् क्षमम् । अन्तरेणाञ्जलिम् बध्वा लक्ष्मणस्य प्रसादनात्* इत्युक्तदिशा सापराधजनसञ्जीवनोपायप्रसादवत्त्वम् रामानुजस्यैव प्राप्तमित्यभिप्रायेण रामानुजार्येति निर्दिष्टमिति बोध्यम् । अत्र *हा हन्त हन्त हतकोऽस्मि खलोऽस्मि* इत्यादिकम् पञ्चस्तवीगतम् श्लोकजातमनुसन्धेयम् ॥ १४ ॥

 

शुद्धात्मयामुनगुरूत्तमकूरनाथभट्टाख्यदेशिकवरोक्तसमस्तनैच्यम् । अद्यास्त्यसङ्कुचितमेव मयीह लोके तस्माद्यतीन्द्र ! करुणैव तु मद्गतिस्ते

॥ १५ ॥

पुनरपि प्रबन्धान्तरस्थम् तत्तद्दोषकथनमत्रानुसन्धेयमित्याह – शुद्धात्मेति ॥ हे यतीन्द्र, इह – लोके सापराधजनभूयिष्ठे भूलोकेऽद्य – कलिसाम्राज्यकाले, शुद्धस्वानुसम्हितदोषशून्य आत्मा – स्वरूपम्, येषान्ते तथोक्ता स्तथाविधैः, शिलापुत्रकस्य शरीरमितिवत् शुद्धात्मेति बहुव्रीहिनिर्देशः । यामुनगुरुः – यामुनाचार्यः, उत्तमकूरनाथः – आत्मगुणपूर्णेषु सर्वोत्कृष्टः श्रीवत्सचिह्नमिश्रः, भट्टाख्यदशिकवरस्तत्सुतश्श्रीरङ्गभर्त्रा स्वयम् भट्टपराशरेति फणितस्सर्वपूर्वाचार्यप्रकृष्टवैभवो भट्टार्य इत्येतैरुक्तम्, स्तोत्ररत्नसप्तस्तव्योः प्रतिपादितम् समस्तमखण्डम्, नैच्यममर्यादत्वादिकम् नीचधर्मजातम्, मय्येव असङ्कुचितमस्ति, अन्यत्र तु सङ्कुचितमेवास्ति, यत एवम् तत्तस्मात्ते करुणा तु – वैपुल्यातिशयेन विश्वविलक्षणा त्वत्कृपा, मद्गतिरेव भवति – अहम् गतिर्विषयो यस्यास्सा तथोक्तैव भवति, यामुनगुरुप्रभृत्यनुसम्हितदोषजातम् हि निहीनतमत्वेन सर्वलोकविदितेष्वपि मद्वयतिरिक्तेष्वात्मसु केषुचित् सङ्कुचितमेव वर्तत इति तेषु प्रसरन्ती परमविपुला त्वत्करुणा *गुणलवसहवासात् त्वत्क्षमा सङ्कुचन्ती* इति न्यायेन स्वयमपि सङ्कुचिता स्यात् । मयि आत्तदोषजातमसङ्कुचितमस्तीति त्वत्कृपाया अहमेव विषय इति भावः । त्वत्कृपाया अपेक्षितमसङ्कुचितदोषत्वम् मय्यस्त्येवेति त्वत्कृपाया अहम् विषय एवतिः वाऽर्थः । अद्य त्वेवकारोऽसङ्कुचितमेवेति स्वस्थान एव तिष्ठति, करुणैवेत्येवकारश्च योजनाद्वयेऽपि भिन्नक्रमस्सन् मद्गतिरेवेति योजनीयः । यद्वा शास्त्रोक्ताधिकारवताम् हि शास्त्रीयोपायो गतिः, मम त्वात्तदोषभरितस्य त्वत्कृपैव गतिरिति सोऽपि स्वस्थान एवानेतव्यः । अत्रापि शुद्धात्मेति विशेषणम् योग्यस्थलोत्कर्षकल्पर्कम्, स्वस्थाने योग्यताविरहम् बोधयितुमिति द्रष्टव्यम् । उत्तमकूरनाथेत्यत्र च *सन्महत्परमोत्तमोत्कर्षाः पूज्यमानैः* इति सूत्रेण समासः  ॥ १५ ॥

 

शब्दादिभोगविषया रुचिरस्मदीया नष्टा भवत्विह भवद्दयया यतीन्द्र ! । त्वद्दासदासगणनाचरमावधौ यः तद्दासतैकरसताऽविरता ममास्तु ॥ १६ ॥

     इत्थम् यतिराजकृपायास्स्वविषयत्वम् समर्थितम् । अथ स्वविषयया तया स्वस्य समीहितम् निर्दिशति – शब्दादीति ॥ हे यतीन्द्र ! इह -शरीरस्थितिदशायामेव, अस्मदीया – मदीया, अस्मदोर्द्वयोश्चेत्येकत्वे बहुवचनम् । यद्वा नित्यम् गुरुम् परिभवामीत्यत्राभिप्रेतैरनधिकारित्वेन स्वाभिप्रेतैः स्वोपदेशपात्रैस्सह स्वात्मनोऽस्मत्पदेन निर्देशः ।  शब्दादिभोगविषया रुचिः – शब्दस्पर्शादिजन्यसुखानुभवेच्छा, भवद्दयया दुर्गत्यतिशयैकालम्बनया त्वत्कृपया, नष्टाभवतु – यत्र क्वाप्यदृष्टा भवतु, णश अदर्शने । किञ्च, यो भाग्याधिकः कर्ता, तवद्दासस्य तव क्रयविक्रयार्हस्य, दासगणनायाः दाससङ्ख्यानस्य दासवधिकदासतद्दासावधिदाससङ्ख्यानस्य चरमावधौ – स्वपूर्वकत्वे सति स्वोत्तरशून्यरूपमुख्यावधौ, न तु वैवाक्षिकावधावित्यर्थः, भवतीति शेषः । अविरता – नित्या, तद्दासतैकरसता – तस्य

त्वदासदासगणनाचरमावधिस्थितस्य दासतायाम् – एकरसता रसान्तरासम्स्पृष्टरसवत्ता, रसो रागो हर्षो वा । भवद्दयया ममास्तु – एतावन्तम् कालमप्राप्तशेषत्वकाष्ठानिष्ठस्य मम त्वत्कृपया उत्पद्यताम् । स्वस्य चरमावधिस्थितम् प्रति दासत्वे, स्वदासानाम् तद्दासत्वमनुक्त सिद्धमित्यभिप्रायेणास्माकमित्यनुक्तिः । शब्दादिभोगरुचिनाशस्तु नैव सिद्ध्य- तीत्यभिप्रायेणास्मदीयेत्युक्तिरिति बोध्यम् ॥ १६ ॥

 

श्रुत्यग्रवेद्यनिजदिव्यगुणस्वरूपः प्रत्यक्षतामुपगतस्त्विह रङ्गराजः ।

वश्यस्सदा भवति ते यतिराज ! तस्मात् शक्तः स्वकीयजनपापविमोचने त्वम्  ॥ १७ ॥

इत्थम् कार्यकारणोपयुक्ताम् दयामुपपाद्य, तदुपयुक्ताम् शक्तिमुपपादयति – श्रुत्यग्रेति ॥ हे यतिराज ! श्रुत्यग्रैर्वेदान्तैर्वेद्यानि श्रवणेन ज्ञेयानि, निजानि स्वासाधारणानि, दिव्यानि भोग्यानि गुणाः – ज्ञानशक्त्यादयस्स्वरूपम् – नियन्तृत्वम् प्रणतपारतन्त्र्यम् वा, यस्य स तथोक्तः । इह तु प्रत्यक्षतामुपगतो रङ्गराजः – परत्वादिप्रकारचतुष्टयानधिकृते भूमण्डले, परत्वादिप्रकारचतुष्टयसम्भावितदेश- कालकरणविप्रकर्ष विरहरूपवैलक्षण्ययुक्ताम् सकलमनुजनयनविषयताम् प्राप्तो रङ्गराजः कर्ता, ते सदा वश्यो भवति – तव विधिप्रतिषेधनिघ्नो नित्यमेव सत्तालाभम् मन्यते । यत एवम्, तस्मात्त्वम् – स्वाधीनरङ्गराजस्त्वम्, तत एव हेतोः स्वकीयानाम् त्वत्स्वामिकानाम् ये जनास्त्वत्स्वामिका इत्यर्थः, तेषाम् पापस्य – स्वरूपोपायपुरुषार्थयाथात्म्यसिद्धिप्रतिबन्धकस्य विमोचने – निश्शेषनाशने, शक्तस्समर्थो भवसीति च शेषः । अनेन च पुरुषकारभावकाष्ठारूपमेव पञ्चमोपायस्योपायत्वमिति निष्कर्षोऽनुसम्हितो भवति । श्रुत्यग्रवेद्यप्रत्यक्षतामित्यत्र च *श्रुत्यन्तेषु श्रुतम्, भाष्ये मतम्, ध्यातम् हृदम्बुजे । लक्ष्मीपतिम् प्रपद्येऽहम् दृष्टम् श्रीरङ्गधामनि* इत्येतदनुसन्धेयम् । अनिष्टनिवृत्ताविष्टम् स्वत एव सेत्स्यतीत्यभिप्रायेण च पापविमोचन इत्येतावदुक्तम् । दिव्यगुणस्वरूप इत्यत्र च *दिव्यो ह्यमूर्तः पुरुषः* इत्यादिश्रुतिः स्फोरिता, त्वद्दासदासेति पूर्वानुसारात् स्वकीयानाम् जना इत्यर्थ उक्त इति ध्येयम् ॥ १७ ॥

 

कालत्रयेपि करणत्रयनिर्मितातिपापक्रियस्य शरणम् भगवत्क्षमैव ।

सा च त्वयैव कमलारमणेर्थिता यत् क्षेमस्स एव हि यतीन्द्र ! भवच्छ्रितानाम्  ॥ १८ ॥

नापूर्वम् त्वया रङ्गराजो मदर्थमपेक्षणीयस्तव त्वदभिमानविषयाणाञ्च त्वया विरोधिनिवर्तनप्रार्थनाया रङ्गराजेन तत्करणसङ्कल्पस्य च पूर्वमेव कृतत्वात् । किन्तु मयि *मदीय* इत्यभिमान एव त्वयाऽद्य कार्य इत्यभिप्रायवानाह – कालेति ॥ हे यतीन्द्र ! कालत्रयेऽपि -भूतभविष्यद्वर्तमानकालेषु, सर्वदाऽपि करणत्रयेण – मनो-वाक्कायैः, निर्मिताः – अनुष्ठिताः, अतिपापक्रियाः – सर्वम्सहेन स्वेनापि दुस्सहदुरितकर्माणि येन स तथोक्तः, तस्य शरणम् – अनिष्टनिवृत्त्युपायः, भगवतः हेयप्रत्यनीकस्य कल्याणगुणाकरस्य, क्षमैव – शिक्षणक्रमेषु दण्डानुपधानसङ्कल्परूपमागस्सहत्वमेव, भवतीति च शेषः । एवकारेण शरणान्तरम् नास्तीत्युच्यते । सा च – भगवत्क्षमा च, त्वया -परमकारुणिकेन भगवन्तम् प्रति विधायकेन च त्वया, एवकारेण नान्येषामेवमर्थनम् घटत इत्युच्यते । कमलारमणे – कारुण्यरूपयेत्युक्तदिशा दयाक्षान्त्याद्युद्भाविकायाः *न जीवेयम् क्षणमपि* इत्युक्ति -विषयभूतायाः श्रियो रमणे, तदुद्भाषितगुणवत्तया निरतिशयप्रियङ्करे भगवति, अर्थिता – प्रार्थिता *मनोवाक्कायैरि*त्यादिना, *कृतान् क्रियमाणाम्श्च करिष्य- माणाम्श्च सर्वानि*त्यादिना, *अद्यापि वर्तमानम् वर्तिष्यमाणञ्चेत्यादिना च प्रार्थिता इति यत् स एव, विधेयानुसारात्पुम्स्त्वम् । भवच्छ्रितानाम् – भवदभिमानविषयाणाम्, क्षेमः – नित्यसिद्धसञ्जीवनोपायः । क्षेममस्त्रियामित्युक्तेः पुल्लिङ्गत्वञ्च, भवतीति शेषः । एवकारेण त्वदभ्यर्थनमेव क्षामणम् न त्वन्यदित्युच्यते । *वश्यस्सदा भवति ते* इति पूर्वमुक्तम्, अत्र त्वर्थितेत्युच्यते । अनेन आज्ञाप्रतीक्षकम् प्रत्यभ्यर्थनम-व्यभिचरितकार्यकरमिति लब्धम् । कर्मण एव अधिकरणत्वविवक्षया कमलारमण इति सप्तमी, अधिकरणस्यैवाधिकरणत्वरूपविशेषविवक्षया अकथितमित्यनेन कर्मत्वाप्राप्तेः द्वितीयाविरहादधिकरण एव सप्तमी वा, *विवक्षातः कारकविभक्तय* इति शाब्दिकोक्तेः। अत्र च, एकतस्साधनान्तर- विधायकशास्त्रप्रपञ्चः, एकतस्तत्त्यागपूर्वकसिद्धसाधनस्वीकारसाधनम्, एकतस्तु सिद्धसाधनस्वीकारविधानम्, एकतश्च रामानुजाभिमानोपायत्वव्यवस्थापनमिति सिद्धसाध्यसाधनविधायकबहुशास्त्रविरोधसम्भावनया, तेषामन्यार्थत्वव्यव- स्थापनपूर्वकमस्यैवार्थस्योपादेयत्वनिर्णयप्रयोजको महाविश्वासोऽस्मिन्नर्थे प्रायेण दुर्लभ इति वदन्ति । अत एवायमर्थः, परमास्तिकैकग्राह्य इति नात्र विस्तरः क्रियते । हि – यस्मादेवम् तस्माद्भवद्दयया शब्दादिभोगरुचिरस्मदीया नष्टा भवत्विति पूर्वेणान्वयः ॥ १८ ॥

 

श्रीमन्यतीन्द्र ! तव दिव्यपदाब्जसेवाम् श्रीशैलनाथकरुणापरिणामदत्ताम् ।

तामन्वहम् मम विवर्धय नाथ तस्याः कामम् विरुद्धमखिलञ्च निवर्तय त्वम् ॥ १९ ॥

      नित्यम् यतीन्द्रेत्याभ्यामुपक्रान्तम् स्वाभिमतार्थमुपसम्हरति – श्रीमन्निति ॥ श्रीमन् – *अर्वाञ्चो यत्पदसरसिजे*त्याद्युक्तरीत्या स्वपूर्वापरसर्वपूर्वाचार्योत्तारकत्वलक्षणानितरसाधारणनित्यसम्पन्निधे ! मे – मम, श्रीशैलनाथस्य – मदाचार्यस्य, करुणापरिणामेन – ईदृशमहाफलवितरणोपाधिककृपापरिपाकेन, दत्ताम् – प्रसादिताम्, एतेन यतिराजस्यैव प्राप्यत्वम् प्रापकत्वञ्च, स्वाचार्यस्य तु तत्सम्बन्धसम्पाद-कत्वमित्युक्तम् भवति । उक्तञ्च वादिकेसरिभिः – *अस्मद्गुरुदयायाः यतीन्द्राङ्गीक्रियान्वय* इति । ताम् पूर्वमेव मयि विद्यमानाम् विलक्षणामिति वाऽर्थः । तव – चरमशेषिणस्ते दिव्ययोस्सूरिसेव्ययोः पदाब्जयोः पावनत्वभोग्यत्वाभ्याम् पद्मतुल्ययोश्श्रीपादयोः, सेवाम् – परिचर्याम्, दिव्यपदाब्जेत्यादिना *सेवा श्ववृत्तिराख्याते* त्यादिकमप्राप्तदुर्भगसेवानिषेधपरमित्युक्तम् भवति । अन्वहम् – अत्र

परत्र चापि नित्यम् विवर्धय –  त्वद्दासदासपरिचर्यापर्यवसान रूपसाध्यविवृद्धिमतीम् कुरु, तस्याः -विवृद्धिमत्यास्त्वत्पादपरिचर्यायाः विरुद्धम् – प्रतिबन्धकम् अखिलमशेष- मैश्वर्यकैवल्यभगवल्लाभरूपम् तस्यामेव स्वरसान्वयरूपम् तदन्तराय- सौन्दर्यानुभवरूपम् अविद्याकर्मवासनारुचिप्रकृतिसम्बन्धरूपञ्च सकलमपि तत्प्रतिवन्धकम्, त्वम् – चरमशेषीभूतश्चरमशरण्यभूतश्च त्वम्, काममधिकम् निवर्तय – नाशय । यद्वा, तस्याः विरुद्धम् कामम् स्वरसमन्यच्चाखिलम् निवर्तयेत्यर्थः । परिचर्यागतस्वरसस्यात्यन्तत्याज्यत्वविवक्षया प्राथम्यनिर्देशः । अत्र पादानुचिन्तनपर इति परमोपक्रमोक्तस्य विवर्धयेति परमोपसम्हारः । नित्यम् यतीन्द्र तवेत्यनन्तरोपक्रान्तस्य च दिव्यपदाब्जसेवामिति तत्पूर्वोपसम्हारः । वृत्त्यन्तरेऽस्तु विमुखमित्यादेश्च, कामम् विरुद्धमखिलम् च निवर्तयत्वमित्युपसम्हारश्च कृत इति ध्येयम् ॥ १९ ॥

 

विज्ञापनम् यदिदमद्य तु मामकीनम् अङ्गीकुरुष्व यतिराज दयाम्बुराशे ।

अज्ञोयमात्मगुणलेशविवर्जितश्च तस्मादनन्यशरणो भवतीति मत्वा ॥ २० ॥

एवम् उपक्रमोपसम्हारमध्यैरुपपादितमर्थम् हेतुना द्रढयति – विज्ञापनमिति ॥ दयायाः – स्वार्थानपेक्षपरदुःखासहिष्णुतारूपायाः, अम्बुराशे – अक्षय्यनिधिभूत !, एतेन कृपाया निर्व्याजसिद्धत्वम् लभ्यते । अत्र – *दयैकसिन्धो*, *रामानुजार्यकरुणैव तु*, *यतीन्द्रकरुणैव तु*, *भवद्दयया*, *करुणापरिणाम*, *दयाम्बुराशे* – इति दयाया अभ्यासाद्भगवतो रामानुजस्य कृपामात्रप्रसन्नाचार्यत्वमित्युक्तम् भवति । अयमर्थश्चरमोपायनिर्णयेऽनुसन्धेयः । यतिराज, मामकीनम् – मदीयम्, यद्विज्ञापनम् – वाचा यतीन्द्रमनसेत्यारभ्य विरुद्धमखिलञ्च निवर्तयत्वमित्यन्तम् विज्ञापनम्, अत्र भवतीति शेषः । अत्र च वर्तमानसामीप्ये वर्तमानवदित्यव्यवहितभूते लट् । इदम् यच्छब्दप्रतिनिर्देशः । इदम् शब्दो द्वितीयान्तः, अस्य चाङ्गीकुरुष्वेत्य- त्रान्वयः । यद्वा यदिदम् मामकीनम् विज्ञापनमिति योजनीयम् । तदिति चाध्याहर्तव्यम् । यत्तदोनित्यसम्बन्धात्, तद्विज्ञापनम् कर्म । अज्ञः – समीचीनज्ञानशून्यो जन्तुः, अयम् – विशेषनिर्देशानर्हतया बुद्धिस्थत्वमात्रेण निर्देशार्होऽहम्, किञ्चात्मगुणलेशेन विवर्जितो – नासावस्मद्दास्यार्ह इति दूरादेव त्यक्तो जन्तुरयम् – बुद्धिस्थोऽहम्, यत एवम्, तस्मादनन्यशरणो भवति स्वगतपरगत- स्वीकारशून्यनिष्किञ्चनजनैकालम्बनभूतमदव्यतिरिक्तोपायशून्यो भवति, इति मत्वा, अज्ञोऽयमित्यादिना  सन्दर्भेणोत्पादित ज्ञानसमानाकाराभिसन्धि- मान्भूत्वा, अङ्गीकुरुष्व – तथा सम्पादनसङ्कल्परूपस्वीकारविषयम् कुरु । आत्मनेपदेन क्रियाफलम् कर्तृगामीत्युच्यते, तेन फलस्य केवलपरार्थत्वसिद्धिः । अज्ञ इत्युद्दिश्य, अयमिति विधानादयमेवाज्ञ इति लभ्यते । तेन आकिञ्चन्यरूपाधिकार पूर्तिर्लभ्यते । अयमित्यस्य अहमिति व्याख्याने तु फलितार्थकथनम्, तेन भवतीत्यस्य नानुपपत्तिः । अत्रापि प्रपन्नसावित्रीशैली प्रत्यभिज्ञाप्यते । तत्र ह्युपान्त्यगाधायाम् यतिराजसम्बोधनेन विज्ञापनम् प्रतिज्ञाय, तदीयदास्यम् प्रार्थितम् । अत्राप्युपान्त्यश्लोके विवर्धयेति तदीयदास्यमर्थयित्वा तद्विज्ञापनम् उपरितनश्लोके निबद्धम् । तत्र श्रीशब्दार्थेनोपक्रमोपसम्हारौ कृतौ, अत्रापि श्रीमाधवेति श्रीमन्नित्युपक्रमोपसम्हारौ कृतौ । अनेन तच्छैलीगन्धिन्यस्मिन् प्रबन्धे, तद्वदेवादरो यतिराजस्य भवेदित्यभिप्रायोऽवगम्यत इति रमणीयम् ॥ २० ॥

 

॥ इति दिनचर्याव्याख्यायाम् सदाचारदीपिकासमाख्यायाम् यतिराजविम्शतिविभागः॥

॥ इति यतिराजविम्शतिस्समाप्ता॥

———————–

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.