श्रीः
श्रीमते रामानुजाय नमः
श्रीरम्यजामातृमुनिवर्यचरणसमाश्रितैरष्टदिग्गजन्तर्भुतैश्चरमपर्व
निष्टाग्रेसरैः श्रीदेवराजाचार्यवर्यैः प्रसादितम् उत्तर दिनचर्या
श्रीमहीसारपुराधिष्ठितसकलशास्त्रविदग्रेसरवाधूलकुलतिलक| श्रीवीरराघवाचार्यप्रसादित सदाचारदीपिका व्याख्यानसहितम् |।
उत्तरदिनचर्या
इति यतिकुलधुर्यमेधमानैः श्रुतिमधुरैरुदितैः प्रहर्षयन्तम् ।
वरवरमुनिमेव चिन्तयन्ती मतिरियमेति निरत्ययम् प्रसादम् ॥ (१)
उत्तरदिनचर्या व्याख्या
एवम् यतिराजविम्शतिरनूदिता ॥ अथ ताम् इतिशब्देन परामृश्य तया यतिराजम् प्रहर्षयतो वरवरमुनेश्चिन्तनेन सञ्जातम् स्वमतिप्रसादविशेष-मनुसन्धत्ते इतीति ॥ इति – उक्तप्रकारेण, एधमानैः – *भूयिष्ठाम् ते नम उक्तिमि*ति न्यायेन एकैकश एव श्लोकसहस्रायमाणैः, भूयिष्ठामिति
भूयिष्ठत्वम् हि नन्तव्यहृदयाभिप्रायेणेत्युक्तम् पूर्वैः । तद्वदत्र यतिराज-हृदयाभिप्रायेण विम्शतेरेधमानत्वम् विवक्षितम् । अर्थतो गम्भीरत्वा-दप्येधमानत्वम् युक्तम् । श्रुतिमधुरैः – श्रोतसुखकरैः, उदितैर्वचनैः,
यतिकुलधुर्यम् यतिकुलश्रेष्ठम्, यतिकुलस्य रक्षाभरनिर्वोढारम् वा प्रहर्षयन्तम् – प्रकर्षेण प्रीणयन्तम्, प्रशब्देन प्रीतेरनन्यार्थत्वमुच्यते । स्वयम्प्रयोजनस्य प्रकृष्टत्वम्, आत्मनेपद निर्देशविरहेण प्रहर्षस्य केवल-परार्थत्वम् व्यज्यते। प्रहर्षयन्तमिति च प्रहर्षयिष्यामीति परमाचार्यसूक्तिम् स्मारयति । वरवरमुनिमेव चिन्तयन्ती एवकारेण च प्रहर्षणकर्मणो यतिराजस्य स्वातन्त्र्यतश्चिन्तनम् व्युदस्यते । इयम् मतिः – एतावन्तम् कालमप्राप्तविषयसम्बन्धात् कलुषिता मम बुद्धिः कर्त्री, निरत्ययम् – नित्यम्, प्रसादम् – प्रसन्नतामेति प्राप्नोति; इण्गतौ ।चिन्तय- न्तीत्यत्र लक्षणहेत्वोरिति हेत्वर्थश्शत्रादेशः । चिन्तयन्ती मतिरिति त्वनुभयमानानुभववन्निर्देशः । वरवरमुनिमेव चिन्तयन्तीत्यनेन प्रसिद्धचिन्तयन्तीदीर्घचिन्तयन्तीभ्याम् विलक्षणेयम् काचिच्चिन्तयन्तीति स्फोर्यते । प्रहर्षयन्तम् चिन्तयन्ती प्रसादमेतीत्यत्र च तापार्तो जलशायिनमिति न्यायोऽनुसन्धेयः । श्रुतिमधुरैरुदितैरित्यत्र रुदितैरिति प्रतीत्या विरुद्धमतिकृद्दोष इति केचिदाहुः, तन्न । *श्रुतिमधुरैः* इति विसर्गस्मरणस्यैव झाटित्यात् । यद्वा, नात्र विरुद्धमतिकृद्दोषः, हा हन्त हन्तेत्यादिना दुःखातिशयस्य प्रस्तुतत्वात्परमार्तिप्रयुक्तरुदितस्य स्वरूपौ-ज्वल्यहेतुत्वात्, *किमर्थम् तव नेत्राभ्याम् वारि स्रवति शोकजम्* इत्या-दिन्यायेन शेषिप्रियत्वाच्च । *न चैव देवी विरराम कूजितात्* इति न्यायेन
श्रुतिमधुरत्वस्याप्युपपत्तश्च । सुखम् वा दुःखम् वा निबिडयतु यूनोस्सहृदये त्वमन्दानन्दात्मा पणिमति पूर्णो रस भरः* इति न्यायेन चिन्तयन्ती निरत्ययम् प्रसादमेतीत्यस्याप्युपपत्तेश्च, *क्रुध्येद्विषीदेत् द्वेवेष्येच्च* इति भरद्वाजोक्तरीत्या विषादतत्कार्ययोरदोषत्वाच्च ॥ १ ॥
अथ गोष्ठीम् गरिष्ठानाम् अधिष्ठाय सुमेधसाम् ।
वाक्यालङ्कृतिवाक्यानिम् व्याख्यातारम् नमामि तम् ॥ (२)
इत्थम् ग्रन्थनिर्माणकर्मणेत्युक्तस्वाध्यायविशेषमनुसन्धाय *व्याख्या-नैर्लेखनैर्वाऽपि* *व्याचक्षीत निबध्नीयात्* इत्यादिविशेषशास्त्रसिद्ध-व्याख्यानरूपस्वाध्यायविशेषमनुसन्धत्ते अथेति ॥ अथ ग्रन्थनिर्माणान-न्तरम्, यतिराजविम्शत्या यतिराजप्रीणनानन्तरमित्यर्थः, गरिष्ठानाम् – गुरुतमानाम् प्रत्येकम् व्यासपदनिर्वोदृणाम्, सुमेधसाम् – समीचीन- मेधायुक्तानाम्, *मेधाऽऽशुग्रहणे* इतिधातुपाठादाशुग्रहणम् मेधा, धीर्धारणावती मेधेत्यक्तेधारणावती धीर्वा मेधा, तन्त्रेणोभयी वा मेधाऽत्र विवक्षिता । *नित्यमसिप्रजामेधयो*रित्यसिच्प्रत्ययः । गोष्ठीम् – परिषदम्, अधिष्ठाय – अध्यास्य उपह्वरादिति शेषः । वाक्यालङ्कृतेः -वचनभूषणस्य, रत्नप्रचुरम् भूषणम् रत्नभूषणमितिवत् वचनप्रचुर-त्वादनुसन्धातॄणामौज्वल्यकरत्वाच्च वचनभूषणत्वम् । शब्दप्राचुर्यम् ह्यर्थप्राचुर्यगमकम् प्राचुर्यस्य स्वाश्रयम् प्रति विशेष्यत्वे स्वाश्रयसमा- नाधिकरणतद्विजातीयाल्पत्वनिष्ठप्रतियोगित्वभाननियमादित्यतो वचनपदम् पूर्वाचार्यवचनपरम् । तथा च तद्विजातीयस्य स्ववचनस्याल्प-त्वमाप्त्यतिशयसम्पादकमित्यभिप्रायेण पूर्वाचार्यवचनप्रचुरत्वम्
पूर्वैर्व्याख्यातम् । अयम् न्यायो वाक्यालङ्कृतिपदेऽप्यनुसन्धेयः । वाक्यानि – अतिगम्भीरसन्दर्भम् श्रीमद्वचनभूषणमिति प्रसिद्धानि कारकक्रिया-रूपाणि, *विविच्यमानम् नाकाङ्क्षम् परानाकासशब्दकम् । कर्मप्रधानम् गुणवदेकार्थम् वाक्यमुच्यते* इत्युक्तलक्षणलक्षितानि । व्याख्यातारम् पदच्छेदादिभिर्विवरणशीलम्, ताच्छीलिकस्तृन्प्रत्ययः। अतो न षष्ठी, न लोकति निषेधात् । अनेन श्रीवचनभूषणस्य *परिचितमिवाथापि गहनम्* इत्युक्तस्वभावविशेषो व्यञ्जितः । अत एव कालक्षेपश्चानेन सिद्ध्यतीत्युक्तम् भवति । तम् – वरवरमुनिम् नमामि । अथवा गरिष्ठानाम् गोष्ठीमधिष्ठाय वाक्यालङ्कृतिवाक्यानि सुमेधसाम् व्याख्यातारामत्यन्वयः । सुमेधसामित्यनेन च उपदेशपात्रतोपयुक्त-महाबुद्धित्वम् विवक्षितम्; यथोक्तम् शाण्डिल्येन *प्रियवाक्यं महाबुद्धिम्* इति । अनेन – *शिष्याणाम् शिक्षया वाऽपि स्वाध्यायार्थोऽयमुच्यते* इति स्वाध्यायविशेषोऽनुष्ठित इत्युक्तम् भवति । अत्र च *साङ्गाखिल-द्रमिडसम्स्कृतरूपवेदसारार्थसङ्ग्रहमहारसवाक्यजातम्* इति प्रसिद्धस्य श्रीवचनभूषणस्य व्याख्यानादिना सर्वोऽपि स्वाध्यायोऽनुष्ठितो भवति । यथोक्तम् भरद्वाजेन – *पुराणान्यवगाहेत सेतिहासानि यत्र च । केशवस्य जगत्सर्गस्थितिभङ्गादि कीर्त्यते । स्तोत्राणि कल्पान् नामानि कथाश्च विविधा हरेः । सद्भिः प्रणिहिताम्श्चान्यान् प्रबन्धान् परिशीलयेत् ॥ मूलस्कन्धमयो वेदः पञ्चरात्रञ्च यत्परम् । अन्यच्च तत्परम् ग्राह्यम् शास्त्रम् नान्यादृशम् पुनः* इति । *दिवसस्याष्टधाभागो दक्षादिभिरुदाहृतः* इत्युक्तप्रक्रियया तु *वेदाभ्यासाद्दितीये तु* इत्युक्त-वेदाम्यासः, *तत्त्वम् दिव्यप्रबन्धानामि*त्यादिनोक्त: । *इतिहासपुरा-णादिपाठस्सप्तमषष्ठयोः*, *इतिहासपुराणाभ्यादि षष्ठदि सप्तममभ्यसेत्* इत्युक्तमितिहासपुराणप्रवचनन्तु श्रीवचनभूषणव्याख्यानेनानुष्ठितमि-त्युक्तम् भवति । *वेदार्थनिर्णयस्स्मृतीतिहासपुराणै*रिति खलु तत्रोपक्रमः । व्याख्यानप्रकारश्च काव्ये विशदमुक्तः – *स तत्र निश्चलम् चेतश्चिरेण विनिवर्तयन् । रहस्यग्रन्थतत्त्वेषु रमयामास तत्प्रियान् ॥ वाक्यसङ्गतिवाक्यार्थतात्पर्याणि यथाश्रुतम् । व्याकुर्वन्नेष पूर्वेषाम् वर्तमानम् पदेपदे ॥ स्वमनीषिकया नैव कल्पयन् किञ्चदप्ययम् । गुप्तान् पूर्वैर्गुरुत्वेन गूढानर्थानदीदृशत् ॥ श्रुतिस्मृतीतिहासेन श्रुत्यन्तैः पञ्चरात्रतः । देशिकानाम् निबन्धृणाम् दर्शयन्नेककण्ठताम् ॥ वाक्या-लङ्कारवाक्यानि व्याचक्षाणो विचक्षणान् । सुधियस्स्वादयामास स्वस्वरूपम् सुदर्ग्रहम्* इति ॥ २ ॥
सायन्तनम् ततः कृत्वा सम्यगाराधनम् हरेः ।
स्वैरालापैः शुभैः श्रोतॄन् नन्दयन्तम् नमामि तम् ॥ ( ३ )
ततः – बुद्धिस्थात्सान्ध्यविधिसाधनादनन्तरम् । उक्तञ्च काव्ये *ततस्सान्ध्यम् विधिम् कृत्वा स्तुत्वा च मधुसूदनम्* इति । तत इत्यस्य पूर्वपरामर्शित्वेऽपि गुणोपसम्हारन्यायेन काव्योक्तसान्ध्यविधि-विधानमानेतव्यम् । सायन्तनम् – सायम्सन्ध्याभवम्, सायम्चिर-मित्यादिना टुयप्रत्ययतुडागमावनादेशश्च । हरे: विरोधिनिरसनशीलस्य रङ्गनिधेः, अथवा *ब्रह्माणम् शितिकण्ठञ्च यमम् वरुणमेव च । प्रसह्य हरते यस्मात्तस्माद्धरिरितीर्यते* इत्युक्तरीत्या सर्वदेवतानियमनशीलस्य, अत्र रङ्गनिधिमिति सौलभ्यमुक्तम्, श्रीनिधिमिति सौन्दर्यमुक्तम्, हरिमिति परत्वमुक्तम् । तथा च परत्वसौन्दर्यसौलभ्यानाम् मेलन-माश्रयणीयत्वप्रयोजकमित्युक्तम् भवति । आराधनम् – अर्चनम्, सम्यक्कृत्वा – परभक्त्या कृत्वा, शुभैर्मङ्गलकरै:, स्वैरालापैः – स्वैरमेव कृतैराभाषणैः श्रोतॄन्पूर्वोक्तान्सुमेधसः, नन्दयन्तम् सुखयन्तम् समृद्धा-न्कुर्वन्तम् वा, तम् – वरवरमुनि, नमामि । टुनदि समृद्धाविति धातुपाठः । स्वैरालापप्रकारश्च शतकेषु सम्हितः – *आम्नायेषु स्तुतिभिरमितै-स्सेतिहासैः पुराणैर्दृश्यम् यत्नैर्यदिह विदुषाम् देशिकानाम् प्रसादात् । स्वैरालापैस्सुलभयसि तत्पञ्चमोपायतत्त्वम् दर्शम्दर्शम् वरवरमुने ! दैन्यमस्मद्विधानाम्* इति । शोधयित्वा – आराध्य, आराधनम् कृत्वेति कालत्रयार्चनमुक्तम् । तदिदम् शाण्डिल्येनोक्तम् – *आमुहूर्तात्तु वै ब्राह्मादन्यूनम् प्रहरात्सुधीः । स्नानार्चनजपस्तोत्रपाठैः कालम् विनोदयेत् ॥ भोगानुपाज्य यागार्थम्* इत्यारभ्य, *प्रसन्नो यागमारभेत् । अभिगम्य यथापूर्वमर्चयित्वा यथाविधि* – इति, त्रिकालद्रव्ययोगेनेति च । तथा पराशरेणाप्युक्तम् *त्रिकालमर्चयेद्देवम् प्रतिमासु विशेषतः* इति । *एवम् त्रिकालमर्चायाम् पूजयेद्विधिवच्चरुम्* इति च, कालत्रयार्च-नान्तेत्विति च । यतिधर्मसमुच्चये च – *प्रातस्स्नानम् जपो मौनम् नित्यमेकान्तशीलता । नमस्कारोपवासौ च भक्तिर्विष्णौ तथा गुरौ ॥ आस्तिक्यम् ब्रह्मसम्स्पर्शः प्राणायामरतिस्तथा । त्रैकाल्यमर्चनम् विष्णोः परमम् मुक्तिसाधनम्* इति । अत्रिश्च – *त्रैकाल्यमर्चनम् विष्णोः* इति । इदञ्चाराधनम् पाञ्चकाल्यस्थानाभिषिक्तम् । तदुक्तम् भरद्वाज-परिशिष्टे *प्राप्त्याभिगमनम् दृष्ट्योपादानम् नमसाऽर्चनम् । स्वाध्यायः कीर्तनाद्योगस्स्वार्पणादपि केवलम् ॥ एवम् विद्वानेकदाऽपि कुर्वन् स्यात्पाञ्चकालिकः । कृतम् भवति वा सर्वमिज्ययैव हि केवलम्* इति । एवम् योगोऽपि त्रैकालिक, तदुक्तम् शाण्डिल्येन – *वक्ष्यामि योगा-दूर्ध्वम् यत्कर्तव्यम् स्नानपूर्वकम् । उच्चैस्स्वरेण योगान्ते स्तुत्वा स्तोत्रैरनन्यधीः* इत्यादि । तथा *अष्टाङ्गयोगप्रीतिञ्च कृत्वा ध्यानपरो वशी* इति । *यामिन्याम् योगकाले तु यत्कार्यम् योगिभिर्नरैः । वक्ष्यामि वस्समासेन श्रृणुध्वम् मुनिपुङ्गवाः* इत्युपक्रम्य, *कुर्याद्योग-मतन्द्रितः* इत्यादि च । यतिधर्मसमुच्चये च शङ्खः *शून्ये गृहे नवगृहे गुहायाम् गिरिगह्वरे । यत्र वा रमते बुद्धिस्तत्रासीत प्रसन्नधीः ॥ योगशास्रोक्तमार्गेण कृतासमपरिग्रहः । योगम् युञ्जीत सततम् सन्ध्या-स्वपि विशेषतः* इति । अयम् च योगः पाञ्चकाल्यस्थानाभिषिक्तः, तदुक्तम् भरद्वाजपरिशिष्ट एव, *सर्वयोगेन वा कृतम्* इति । तदिदम् कालत्रयेऽपि योगानुष्ठानम् *प्रकारान्प्रणिधाय च*, *ततश्चेतस्समाधाय* *कृत्वा चेतश्शभाश्रये* इत्युक्तम् । किञ्च *श्रीमन्यतीन्द्र तव दिव्य-पदाब्जसेवाम्* इत्युक्तस्वाचार्यार्चनमपि पाञ्चकाल्यकार्यकरम् । तदुक्तम् भरद्वाजपरिशिष्टे – *पूजनेन गुरोर्वाऽपि सताम् वा परिषेवणात्* इति । एवम् स्वाध्यायोऽपि त्रैकालिकः, तदुक्तम् शाण्डिल्येन – *वासुदेवादि-मूर्तीनाम् नाम्नाम् सङ्कीर्तनम् चरेत्* इति । प्रातःकालिकम् प्रकृत्य* – अतन्द्रितस्य स्वाध्याये योगयुक्तात्मनस्सदा । सद्भक्त्या स्विन्नदेहस्य नावश्यम् नामकीर्तनम्* इति, *वेदाभ्यासो द्वितीये तु* इति, *इतिहास-पुराणाभ्याम् षष्ठम् सप्तममभ्यसेत्* इति च स्थलान्तरेषुक्तम् । सोऽयम् त्रैकालिकस्वाध्यायोऽत्र *ध्यात्वा रहस्यत्रितयम्*, *तत्त्वम् दिव्य-प्रबन्धानाम्*, *वाक्यालङ्कृतिवाक्यानि व्याख्यातारम्* इत्युक्तः । अयमपि पाञ्चकाल्यकार्यकर:, तदुक्तम् भरद्वाजपरिशिष्टे*, *स्वाध्याय-नापि विदुषस्सर्वम् योगेन वा कृतम्* इति ॥ ३ ॥
ततः कनकपर्यङ्के तरुणद्युमणिद्युतौ ।
विशालविमलश्लक्षणतुङ्गतूलासनोज्ज्वले ॥ (४)
समग्रसौरभोद्गारनिरन्तरदिगन्तरे ।
सोपधाने सुखासीनं सुकुमारे वरासने ॥ (५)
तत इति ॥ ततः – पञ्चमोपायतत्त्वाविष्कारपरस्वैरालापैः श्रोतृजनोज्जीवनानन्तरम्, तरुणद्यमणिद्युतौ – बालार्कप्रभे, विशालेन-विस्तारवता, विमलेन – निर्दोषेण, श्लक्ष्णेन – मसृणेन, तुङ्गेन -उच्छ्रितेन, तूलासनेन उज्वले – प्रकाशमाने, समग्रेण – सम्पूर्णेन, सौरभस्य – भगवत्प्रसादमाल्यादिसौगन्ध्यस्य, उद्गारेण – अतिशयित-प्रवाहेन, निरन्तराणि – नीरन्ध्राणि दिगन्तराणि – दिङ्मध्यानि यस्य तथोक्ते, सोपधाने – पश्चात्कायवहनक्लेशपरिहारायोपा, श्रयभूतोपधान-सहिते, कनकपर्यङ्के – हेममञ्चे, *मञ्चपर्यङ्कपल्यङ्काः खट्व्या समाः* इति हि कोशः । सुकुमारे – अतिमृदुले, वरासने – *चेलाजिनकुशोत्तर* इत्युक्तयोगयोग्यासने, सुखेनासीनम् । अस्य च चिन्तयामि तमित्युत्तरत्रान्वयः । अत्र सुखासीनमित्यनेन *आसीन-स्सम्भवात्* इति सूत्रार्थोऽनुसम्हितः । समग्रसौरभेत्यादिना च – *मनोऽनुकूले । *ततो निवातके रम्ये यत्र वा रमते मनः* इत्यादि-स्मृतिवचनविषयकस्य *यत्रैकाग्रता तत्राविशेषात्* इति सूत्रार्थोऽनु-सम्हितः । अत्र *कनकपर्यङ्क* इत्यस्य भृत्यैस्सज्जीकृत इत्यादिः । काव्ये समानप्रकरणे, *ततस्सज्जीकृतम् भृत्यैश्शयनीयम् विभूषयन्* इत्युक्तेः, *भृत्यैस्स्निग्धैः प्रियहितपरैरञ्चिते भद्रपीठे तुङ्गम् तूलासन-वरमलङ्कुर्वतस्सोपधानम्* इति शतकोक्तेश्च । एवञ्च भक्ताभ्यर्थनया पर्यङ्काभ्यनुज्ञा न दुष्यति । तथा च भागवते पारमहम्स्यधर्ममधिकृत्य प्रह्लादम् प्रत्यजगरेणोक्तम् *क्वचिच्छये धरोपस्थे तृणपर्णाश्म वेश्मसु । क्वचित्प्रासादपर्यङ्के कशिपो वा परेच्छया* इति । एतेन – *रात्र्य-ध्वानञ्च यानञ्च स्त्रीकथाम् लौल्यमेव च । मञ्चकम् शुक्लवस्त्रञ्च यतीनाम् पतितानि षट्* इत्यादिकम् लौल्यसमभिव्याहारात्स्वयम् रागतो गृहीतमञ्चनिषेधपरमिति स्फोरितम् । एतेन काव्याद्युक्तम् यानाभ्यनुज्ञानादिकमपि व्याख्यातम् । *रथे वा श्वैश्चरेत्क्वाऽपि* इतिभागवतोक्तेः । विशिष्यैव च पराशरसम्हितावचनान्यत्रानुसन्धेयानि । कनकपर्यङ्क इत्युक्तसौवर्णसम्बन्धोऽपि परप्रार्थनया, अतो न दुष्यति । यतो मेधातिथिस्सौवर्णपरिग्रहस्यैव दोषम् मन्यते न तूपयोगस्य । तथा च तेनोक्तम् – *सौवर्णरौप्यकाम्स्येषु ताम्राब्जाश्ममयेषु च । भुञ्जन्भिक्षुर्नलिप्येत, दूष्यते तु परिग्रहात्* इति । इञ्च वञ्चनम् न्यायसाम्यादन्यस्यापि सौवर्णस्योपयोगमनुमन्यते । अत एव *दूष्यते तु परिग्रहात्* इति वाक्यशेषस्स्वरसः ॥ ४-५ ॥
उन्मीलत्पद्मगर्भद्युतितलमुपरि क्षीरसङ्घातगौरम्
राकाचन्द्रप्रकाशप्रचुरनखमणिद्योतविद्योतमानम् ।
अङ्गुल्यग्रेषु किञ्चिन्नतमतिमृदुलम् रम्यजामातृयोगी
दिव्यम् तत्पादयुग्मम् दिशतु शिरसि मे देशिकेन्द्रो दयालुः ॥ ( ६ )
*तन्नामगुणहर्षित* इत्याद्युक्तभक्तजनप्रस्तुताम् स्वाचार्यस्तुति-मनुभवति – उन्मीलदिति ॥ दयालुः – करुणाशीलः, देशिकेन्द्रः -देशिकानामाचार्याणाम् इन्द्रश्श्रेष्ठः, इदि परमैश्वर्ये। आचार्यतोपयुक्तधर्म- पुष्कल इत्यर्थः, अनेन च स्वानुवृत्तिप्रसन्नाचार्यात्कृपामात्रप्रसन्नाचार्यस्य अभ्यहितत्वम् व्यञ्जितम् । रम्यजामातृयोगी, उन्मीलतो – विकसतः, न तु विकसितस्यत्यर्थ: । पद्मगर्भस्येव वातातपाद्यनुपहताभ्यन्तरप्रदेश-स्येव द्युतिः – कान्तिर्यस्य तत्तथोक्तम्, तथाविधम् तलम् यस्य तत्तथोक्तम् | पद्मद्युतित्वञ्च रक्तत्वम्, यथोक्तम् – शतके *पद्मपत्राभि-ताम्रमि*ति । पादतलस्य रक्तत्वम् हि महापुरुषलक्षणम्, तदुक्तम् *नेत्रान्तनखपाण्यङ्घ्रितलैस्ताम्रैस्त्रिभिर्भगी* इति । तथा – मुखनेत्रास्य-निह्वोष्ठतालुस्तननखाः करौ । पादौ च दश पद्मानि पद्माकाराणि यस्य च* इत्येतदपि पद्मगर्भद्युतीत्यत्रानुसन्धेयम् । उपरि क्षीरसङ्घातगौरम् – ऊर्ध्वमागे क्षीरराशिवद्धवलम् । अनेन दिव्यमङ्गलविग्रहस्य पाण्डुर-वर्णत्वम् व्यञ्जितम् । अत्र च हेतुश्शेषाम्शत्वम्, यथा बलभद्रस्य, तदुक्तम् काव्ये *मङ्गलं पन्नगेन्द्राय मर्त्यरूपाय मङ्गलम्* इति । अत्र क्षीरसङ्घातेति सङ्घातदृष्टान्तम हिम्ना पादयोर्महत्त्वम् व्यज्यते । तदप्युक्तम् ब्रह्मणा *शिरोललाटश्रवणे ग्रीवावक्षश्च दृक् तथा । उदरम् पाणिपादौ च पृष्ठम् दश बृहन्ति च* इति । राकाचन्द्रप्रकाशेनपूर्णिमाचन्द्र -सदृशशोभया, प्रचुराणाम् – भूयिष्ठानाम् नखमणीनाम् – रत्नवत्स्पृहणी-यानाम् नखानाम्, द्योतेन – प्रकाशेन विद्योतमानम् – क्षीरार्णवमिव अनेकचन्द्रैविशेषतो दीप्यमानम् । अत्र चन्द्रः प्रकाशप्रचुरेति प्राचुर्यस्य स्वाश्रयम् प्रति विशेष्यस्य सति सम्भवे, प्रायशस्स्वाश्रयसमानाधिकरण-स्वाश्रयविजातीयनिष्ठाल्पत्वप्रतियोगिकत्वभाननियमेन पद्मद्युतित्वमुप-स्थितत्वाल्लभ्यते । चन्द्रवर्णानाम् पद्मद्युतित्वमग्रभागेष्वतिरक्ताग्रत्वम् नखानाम् लभ्यते । अत्र च वचनमुन्मीलत्पद्मगर्भेत्यत्र लिखितम् द्रष्टव्यम् । अङ्गुल्यग्रेषु किञ्चिन्नतम् – कुटिलाङ्गुलित्वमनेनोच्यते । तदुक्तम् हि *पादावरालाङ्गुली* इति । अतिमृदुलम् -पूर्वोक्ताम्लान-कुसुमादपि कोमलम्, दिव्यमप्राकृतम्, तद्विलक्षणम् पादयुग्मम्, मे शिरसि – अत्यन्ततृषितस्य मम मूर्धनि, दिशतु – ददातु, अवतम्सी-करोत्वित्यर्थः । अत्र *तत्पादौ गृह्य मूर्ध्नि स्वे निधाय विनयान्वितः* इत्युक्तस्य पादधारणस्याचार्यकर्तृकनिधानपूर्वकत्वमत्यन्तपारतन्त्र्या-नुगुणम् प्रार्थयते ॥ ६ ॥
त्वम् मे बन्धुस्त्वमसि जनकस्त्वम् सखा देशिकस्त्वम्
विद्या वृत्तम् सुकृतमतुलम् वित्तमप्युत्तमम् त्वम् ।
आत्मा शेषी भवसि भगवन् आन्तरश्शासिता त्वम्
यद्वा सर्वम् वरवरमुने यद्यदात्मानुरूपम् ॥ (७)
त्वमिति ॥ वरवस्मुने ! त्वम् मे बन्धुरसि – बध्नातीति बन्धुः, अवर्जनीयबन्धवानसि, असीतिवर्तमानेन कादाचित्कबन्धुम्यो व्यावृत्तिः । बन्धवो ह्युपायोपेयभूतास्तथाभूतस्त्वमसीत्युच्यते । त्वम् जनकोऽसि – पिताऽसि, *स हि विद्यातस्तऽ जनयति* इति द्युक्तम् । अत्राप्यसीत्यनेन हिरण्यादिर्व्युदस्यते । त्वऽ सखाऽसि – मित्रमसि, मित्रमापदि जानीयादि*ति ह्युक्तम् । भगवदनुभवादिषु वृत्तकीर्तनसाहाय्यादिकमत्रा-भिप्रेतम् । अताप्यसीत्यनेन उपकारोपाधिकसखित्वविशेषो व्युदस्यते । देशिकोऽसि – अज्ञातज्ञापकत्वेन तदा तदोपकरोषि, *न गुरोरपरस्तात* इति ह्युक्तम् । त्वम् विद्याऽसि – पूर्वो क्तगुरूपदिष्टविद्याऽसि, ‘मातेव रक्षती’ त्याद्युक्तविद्याधर्मवानसि । त्वम् वृत्तमसि पूर्वोक्तविद्याफलभूत-सद्वृत्तवद्धितभूतोऽसि । अतुलम् सुकृतमसि – पूर्वापराणाम् सर्वेषाम् निदानभूतपुण्यमसि । अतुलमित्यनेन अचेतनभूतम् क्षयिफलप्रदम् फलप्रदानेन च क्षयिष्णु प्रसिद्धसुकृतम् व्युदस्यते । त्वमुत्तमम् वित्तमसि – अस्तित्वज्ञानमात्रेण प्राणधारकम्, स्ववताम् सर्वोपसेव्यतापादकम् धनमसि । उत्तमशब्देन *अर्थानामार्जने दुःखम्* इत्युक्तम् प्रसिद्धधनम् व्युदस्यते । त्वमात्मा भवसि – पूर्वोक्तस्य सर्वस्याप्युपादातृतया प्रधानभूत आत्मा भवसि । शेषी भवसि आत्मनोऽप्युपादातृतया प्रधानतमोऽमि । भगवन् – ज्ञानशक्त्यादिगुणाश्रय, आन्तरश्शासितात्वम् भवसि – अन्तरे भव आन्तरस्तथाविधो यश्शासिता, नियन्ता सोऽसि । जनको देशिक इति बाह्यशासितृत्वमुक्तम्, अत्र त्वान्तरम् तदुच्यते । यद्वा – *य आत्मानमन्तरो यमयती*त्युक्तो भगवानान्तरश्शासिता, तस्यापि त्वम् शासितेत्यर्थः । अन्तरस्यायमान्तर इति विग्रहः, *ज्ञानी त्वात्मे*त्युक्तेः । यद्वा – किम् बहुना, यद्यदात्मानुरूपम् भवति – विरोधिनिवर्तनम् प्रथममध्यमचरमपर्वप्रभेदभिन्नप्राप्यसिद्धयेत्यादिकम् यद्यदात्मस्वरूपयाथात्म्योचितम् भवति, तत्सर्वम् भवसि । उत्तरयच्छ-ब्दस्य तच्छब्दप्रयोगोऽनपेक्षितः । यद्वेति पूर्वोक्ताक्षेपे वर्तते । अत्र च – *आचार्यवद्दैवतवन्मातृवत्पितृवत्स्वयम् । सुहृद्वत्स्वामिवत्सन्तो द्रष्टव्या राजवत्तथा* इत्यादिकम्, *अविभज्यात्मनाऽऽचार्यम् वर्तेतास्मिन् यथाऽच्युते* – इत्यादिकम्, *ऐहिकामुष्मिकम् सर्वम्* इत्यादिकञ्च द्रष्टव्यम् ॥ ७ ॥
अग्रे पश्चादुपरि परितो भूतलम् पार्श्वतो मे
मौलौ वक्त्रे वपुषि सकले मानसाम्भोरुहे च ।
दर्शम्दर्शम् वरवरमुने ! दिव्यमङ्घ्रिद्वयम् ते
नित्यम् मज्जन्नमृतजलधौ निस्तरेयम् भवाब्धिम् ॥ (८)
अग्र इति ॥ वरवरमुने ! दिव्यम् – अद्भुतम्, ते – तव, अङ्घ्रिद्वयम् पादयुग्मम्, कर्म अग्रे पुरतः, पश्चात्पृष्ठतः, भूतलम् परितः – भूतलस्य समन्तात्, *अभितः परित* इत्यादिना परितश्शब्दयोगे द्वितीया । मे पार्श्वतः – पार्श्वयोः, सप्तम्यास्तसिः । मौलौ – शिरसि, वक्त्रे – मुखे, सकले वपुषि – अवयव कार्त्स्न्यवाच्ययम् सकलशब्दः, सर्वावयवा-वच्छिन्ने शरीर इत्यर्थः । मानसाम्भोरुहे – हृदयपुण्डरीके, चकारेण चक्षुरादीन्द्रियम् समुच्चीयते । एतेषु स्थानेषु, पश्यन् – भावनाप्रकर्ष-वशाद्विशदस्मृतिविषयम् कुर्वन् । एतच्च *पश्यामि तामित इतः पुरतश्च पश्चात्* इत्यादिना प्राकृतविषयेऽपि प्रसिद्धम् । अमृत-जलधौ – मृतसञ्जीवनामृतसागरे, मज्जन् – अवगाहमानस्सन्, भवाब्धि निस्तरेयम् – अतिवर्तितुमाशासे, आशिषि लिङ । चित्रमिदमेकस्मिन् जलधौ मज्जनेनान्यजलधिनिस्तरणमिति, इदन्तु दिव्याङ्घ्रिदर्शन-महिमेति भावः । *समर्थनीयस्यार्थस्य काव्यलिङ्गम् समर्थन*मित्युक्त- लक्षणलक्षितम् काव्यलिङ्गमलङ्कारः, सचामृतजलधाविति रूपकाति-शयोक्त्या भवाब्धिमिति रूपकेण चानु प्राणित इत्यङ्गाङ्गिभावसङ्करः । अमृतजलधौ मज्जन्नित्यत्र च *पादारविन्दयुगलम् शिरसिकृतम् ध्यात्वाऽमृतसागरान्तर्निमग्नसर्वावयवस्सुखमासीते*त्यादिकमनुसन्धेयम् । प्राकृतेऽपि हि विषये, *आनन्दसान्द्रममृतप्लवनादिवाभूत्* इत्युक्तम्, *आशम्सापरिकल्पितास्वपि भवत्यानन्दसान्द्रो लयः* इति चोक्तम् । अत्र च – *गुरुपादाम्बुजम् ध्यायेद्गुरोरन्यम् न भावयेत्* इत्यादिकमनु-सन्धेयम् ॥ ८ ॥
कर्माधीने वपुषि कुमतिः कल्पयन् आत्मभावम्
दुःखे मग्नः *किमिति सुचिरम् दूयते जन्तुरेषः ।
सर्वम् त्यक्त्वा वरवरमुने सम्प्रति त्वत्प्रसादाद्
दिव्यम् प्राप्तुम् तव पदयुगम् देहि मे सुप्रभातम् ॥ (९)
कर्मेति ॥ हे वरवरमुने ! एष जन्तुः कर्माधीने – कर्मोपाधिके, आगन्तुक इत्यर्थः । अनेन आरोग्याकारस्यासत्त्वमुक्तम् । वपुषि, आत्मभावमात्मत्वम् आत्मरूपम् पदार्थम् वा कल्पयन्नारोपयन्, द्वितीयपक्षे तादात्म्येनारोपयन्नित्यर्थः । अनेन विपरीतज्ञानमुक्तम् । कुमतिः – अन्यथाज्ञानवान्, अत एव दुःखे मग्नस्सन् किम् किमर्थंम् दूयते तप्यते, इति – अत्र मत्वेति शेषः । इति इति मत्वा, अस्य च देहीत्यत्रान्वयः । सर्वम् पुर्वोक्तमन्यथाज्ञानम् विपरीतज्ञानम् तन्मूलक-दुःखमज्ञानम् तत्प्रयुक्तम् परितपनम् चेत्येतत्सर्वम् त्यक्त्वा विसृज्य, सम्प्रत्यद्यैव मे दिव्यम् तव पदयुगम् प्राप्तुम् सुप्रभातम् मे त्वत्प्रसादा-द्देहि – पूर्वोक्तदुःखादित्यागपूर्वकमत्कर्तृकत्वत्पदयुगप्राप्तिफलकसादा कृपामात्रप्रसन्नत्वत्प्रसादैकहेतुकम् मत्सम्प्रदानकम् महाफलानुभव-दिवसारम्भभूतसमीचीनप्रभातप्रदानम् कुरुष्वेत्यर्थः । भिन्नकत्रकादपि तुमु – नस्साधुत्वम् पूर्वमेव नियूढम् । यद्वा – एष जन्तुरित्यारभ्य दुःखे मग्नस्सन् किमिति दूयत इत्यन्वयः । स्वयमाचार्यदेशीयस्सन् स्वात्मानमेवान्यसमाधिना एष जन्तुरिति निर्दिशन्, किमिति दूयतेकुतो हेतो स्तप्यत इति स्वाचार्यम् प्रति निवेदयत इति सङ्गमनीयम् । यत एवम्, ततस्सर्वम् त्यक्त्वा – सर्वमपि दोषम् निग्रहानावहत्वेन सङ्कल्प्य, त्वत्प्रसादात् त्वदीयात्कालुष्यविरहानुग्रहाद्वा, दिव्यमप्राकृतम्, प्राप्तम् – स्वरूपानुरूपम्, अद्य प्राप्तमितितान्तपाठः । सुप्रभातम् -*सकृद्दिवा हैवास्य भवती*त्युक्तमहादिवाप्रारम्भायमाणम् तव पदयुगम् मे – मदर्थ देहि, पूर्वमेष जन्तुरित्युक्तायेति शेषः मह्यमित्येव पर्य-वसितम्, *किन्तु त्वदने शरणागतानाम् पराभवो नाथ न तेऽनुरूपः* इतिवदियम् शैलीति द्रष्टव्यम् । अत्र दिव्यम् तत्पादयुग्मम्, दिव्य-मङ्घ्रियम्, दिव्यम् प्राप्तम् तव पदयुगम् इत्यादिना दिव्यत्वाभ्यासो गुरावमानुषत्वाभिसन्धिकृत इति बोध्यम्; गुरौ हि मानुषत्वप्रतिपत्तिः प्रतिषिद्धा, *यो गुरौ मानुषम् भावमित्यादिना । भागवते चोक्तम्*, यस्य साक्षाद्भगवति ज्ञानदीपप्रदे गुरौ । मर्त्यबुद्धिः श्रुतम् तस्य सर्वम् कुञ्जर-शौचवत्* इति ॥ ९ ॥
या या वृत्तिर्मनसि मम सा जायताम् सम्स्मृतिस्ते
यो यो जल्पस्स भवतु विभो नामसङ्कीर्तनम् ते ।
या या चेष्टा वपुषि भगवन् सा भवेद्वन्दनम् ते
सर्वम् भूयाद्वरवरमुने सम्यगाराधनम् ते ॥ (१०)
याया वृत्तिरिति ॥ हे वरवरमुने ! मम – कर्मपरवशस्य मे, मनसि – चञ्चलत्वादिधर्मभूयिष्ठतया प्रसिद्धचेतसि, या या वृत्तिर्जायताम्, स्वस्वसामग्र्यनुगुणम् यद्यज्ज्ञानम् जननार्हं, अर्हे लोट | सा -स्वकारणवशादवर्जनीयोत्पत्तिकम् तज्ज्ञानम्, ते सम्स्मृतिर्जायताम् – स्मृतिसुखकरस्य तव समीचीनस्मृतिरूपा उत्पद्यताम् । अद्य, प्रार्थनायाम् लोट् । जायतामित्यत्र *यद्यत्पापम् प्रतिजहि जगन्नाथ नम्रस्य तन्मे* इत्यत्रेव द्विवचनाभाव इति द्रष्टव्यम् । विभो – स्वामिन्, मम यो यो जल्पो भवतु – स्वस्वकारणवशाद्यद्यदसङ्गतभाषणमुत्पत्त्यर्हम्, अर्हे लोट् । अत्र जल्प इति न व्यावर्तनम् किन्त्वर्थकथनम्, स जल्पस्ते नाम-सङ्कीर्तनम् भवतु – कीर्तनीयस्य तव नाम्नाम् समीचीनतमोच्चारण-रूपमुत्पद्यताम्, अद्य प्रार्थनायाम् लोट् । जल्प इत्यनुसारात्स इति पुल्लिङ्गम्, *पर्यायेण तत्तल्लिङ्गमुपाददत इति कामचारः* इत्युक्तेः भगवन् – परमपूज्य !, प्रार्थितार्थनिर्वहणौपयिकमाहात्म्यनिधे वा, मम वपुषि- *न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत्* इति कुर्वद्रूपे मच्छरीरे, या या चेष्टा – स्वस्वकारणाधीना हिताहितप्राप्तिपरिहारार्थ-स्पन्दरूपा, भवेत् – उत्पत्त्यर्हा, अर्हे लिङ्, सा ते वन्दनम् भवेत् – सा चेष्टा सर्वोत्कृष्टस्य तव प्रणामरूपा उत्पद्यताम्, प्रार्थनायाम् लिङ् । सर्व उक्तमनुक्तञ्च कर्तृ, ते सम्यगाराधनम् भूयात् – त्वद्विषयसमीचीन प्रीणनम् भूयात्, आशिषि लिङ् । आराधनम् हि स्मृतिकीर्तनप्रणामादि-समवायः । अत्र च मम स्वैरचारस्त्वदाराधनवत्प्रीतिकरस्स्यादित्यर्थ इति व्याख्यानम्, सम्स्मृत्यादिशब्देषु लक्षणाप्रसङ्गात्, स्वाधिकार-विरोधात्, सम्प्रदायविरोधाल्लोकक्षोभप्रसङ्गाच्चोपेक्ष्यम् । तत्स्मृत्यादि-प्रार्थनकरणे त्वन्यस्मृतिविरहोऽपि पृथक्प्रार्थनीय इति गौरवमिति मत्वा चोत्पद्यमानसर्वविधव्यापारस्यापि प्राप्तविषयविषयकत्वावच्छिन्नोत्पत्ति-प्रार्थन कृतमिति ध्येयम् । अत्र – *दास्याभिमानोऽनुव्रज्या श्रवणम् कीर्तनम् स्मृतिः* इतिवचनम्, आत्मनो ह्यतिनीचस्य योगिध्येय-पदार्हताम् । कृपयैवोपकर्तारमाचार्यम् सम्स्मरेत्सदा ॥ यच्च कर्म तदर्थम् तद्विष्णोराराधनात्परम्* इत्यादिकञ्च वचनमनुसन्धेयम् । यद्वा मम मनसि या या वृत्तिर्यद्यज्ज्ञानम् सा ते सम्स्मृतिर्जायताम्, तज्ज्ञानम् त्वत्स्मृतिरूपम् सदुत्पद्यतामित्यादिरर्थः । न तु जायतामित्यादेरावृत्तिरभिधानवैरूप्यञ्चाश्रयणीयम्; वाक्यत्वसम्पसये परमविवक्षितकालविशेषस्य भवतीत्यस्याध्याहारेऽपि न दोषः । एवम् यो जल्प इत्यादिष्वपि द्रष्टव्यम्, तात्पर्यार्थस्तु पूर्वयोजनायामिवानुसन्धेयः ॥ १० ॥
अपगतमदमानैरन्तिमोपायनिष्ठैः
अधिगतपरमार्थैरर्थकामानपेक्षैः ।
निखिलजनसुहृद्भिर्निर्जितक्रोधलोभै:
वरवरमुनिभृत्यैरस्तु मे नित्ययोगः ॥ (११)
अपगतेति ॥ मे – एतावन्तम् कालमसद्भिर्निययोगवतो मम, अपगतौ मदस्स्मयः । मानो गर्वापरनामा उत्कृष्टजनावमानहेतुरहङ्कारश्च येषाम् तथोक्तैः, अन्तिमोपाये – तदीयाभिमानविषयत्वलक्षणचरमोपाये निष्ठा नितराम् स्थितिर्येषाम् तथोक्तः, इयम् हि निष्ठा मदमानापगम काष्ठादशाभाविनी, अधिगतः – अशेषतःप्राप्तः परमार्थस्स्वोत्कर्षावधि-शून्यतदीयकैङ्कर्यरूपपुरुषार्थो यैस्तथोक्तैः, इदम् चान्तिमापायेत्युक्तोपाय-निष्ठानुरूपोपेयकाष्ठा लाभकीर्तनम् । *यत्र नान्यत्पश्यति*, *स्थितेऽर-विन्दे* इत्यादिन्यायमभिसन्धायाह – अर्थकामानपेक्षैरिति । उपायोपे-यान्तरविमुखैरित्यर्थः । *अहङ्कारार्थकामेषु* इत्यत्रेव अर्थकामौ उपायो-पेयान्तरात्मकौ ग्राह्यौ, यद्वा प्रसिद्धावेवार्थकामौ विवक्षितौ, निखिलजनेषु – अनुकूलप्रतिकूलमध्यस्थेषु प्राणिषु, सुह्यद्भिः – हतैषिभिः, अर्थ-कामार्थम् लौकिकजनानपेक्षिणामपि *सुहृदम् सर्वभूतानाम्* इत्युक्त-शेषिशैल्यनुरोधिनाम् तेषु हितैषित्वमुच्यते । तत्र चानुकूलविवक्षा दृष्टान्तार्था । निर्जितौ क्रोधो – मनःप्रज्वलनम्, लोभः – स्थितस्य विनियोगनिरोधिकेच्छा च यैस्तथोक्तैः; अनेनावर्जनीयस्वभावभूत-हितैषित्ववशाल्लौकिकोपसरणे तत्कृतेनानादरेण न कुद्ध्यन्ति, स्वीयम् च हितानुशासनम् तेभ्यो विनियोक्तुमिच्छन्तीत्युच्यते । वरवरमुनिभृत्यै-र्वाधूलवरदनारायणप्रभृतिभिः, अन्तरङ्गनिरूपकत्वप्रकर्षविवक्षया च वरवरमुनिभृत्यत्वेन निर्देशः, नित्ययोगः – पादोपधानपादरेखादीना-मिवानपायसम्श्लेषः, – अस्तु – भूयात् । अत्र च विशेषाद्विष्णुभक्तेषु डम्भम् लोभम् नृशम्सताम् । क्रोधमीर्ष्या मदम् मानम् साम्यम् च परिवर्जयेत् ॥ प्रपन्नैश्चान्यभजनाद्युक्तापायसमन्वितैः । वैष्णवो वर्जयेत्सङ्गम् प्रच्युतास्ते ह्यवैष्णवाः ॥ अभक्तमच्युतस्यापि नावमन्येत कञ्चन । हितम् वा बोधयेत्साधोर्दद्याद्वा किञ्चिदीप्सितम्* इत्यादिकम्, *विशिष्टपरमैकान्ती ज्ञानवैराग्यभक्तितः । तादृशैरेव कुर्वीत सहसङ्कथ-नादिकम्* इत्यादिकम्, *गुरौ तत्प्रियवत्सल* – इत्यादिकञ्च भरद्वाज-वचनमनुसन्धेयम् ॥ अत्र च उन्मीलत्पद्मगर्भेत्यादिषु नित्ययोग इत्य-न्तेषु षट्सु श्लोकेषु, स्वशिरसि स्वाचार्यकर्तृकतच्चरणप्रदानप्रार्थनम्, तस्मिन् सर्वविधबन्धुत्वाध्यवसायः, तस्य सर्वदेशसर्वदेहसर्वकरणेषु सर्वदा प्रतिभासप्रयोजकभावनाप्रकर्षपर्यन्तयुक्तध्यानसन्ततिप्रार्थनम्, तत्प्रसादा-धीनसकलविरोधनिवृत्तिप्रार्थनम्, तद्विषयकसर्वविधकैङ्कर्यप्रार्थनम्, तद्वि-वृद्धिहेतुतदीयनित्ययोगप्रार्थनम् च – इति षडर्था: प्रतिपादिताः । एते च *मन्त्ररत्नम् प्रयच्छन्तम्* इति प्रस्तुतमन्त्ररत्नतात्पर्यविषयीभूतार्था इति तदीयपदसङ्ख्याप्रत्यभिज्ञापकप्रकृतश्लोकसङ्ख्यया स्फोयते । तत्र पाद-युग्मम् दिशत्वित्यनेन *चरणौ शरणम् प्रपद्य* इत्यस्यार्थस्स्फोरितः । *प्रार्थनामतिर्हि शरणागतिः* । त्वम्मेबन्धुरित्यादिना च नारायणशब्दार्थ उक्तः । माता पितेत्युपक्रम्य सर्वम्नारायण इति हि श्रूयते । अग्रेपश्चा-दित्यादिना च चतुर्थी लक्षिता, कैकयाक्षिप्तपरमभक्तिरुक्ता । कर्माधीन इत्यादिना च नमश्शब्दविवक्षिता विरोधिनिवृत्तिरुक्ता । या या वृत्ति-रित्यादिना च चतुर्थीलक्षितम् कैङ्कर्यमुक्तम् । अपगतमदेत्यादिना तु अतिनिषिद्धविशेषणविशिष्टस्य कैङ्कर्यप्रतिसम्बन्धित्व-तात्पर्यगर्भनारायणशब्दार्थो, नमश्शब्दार्थो वा स्फोरितः । लोडाद्यन्त-पदैश्च तत्राध्याहृत स्याम् – पदार्थ उक्त इत्यनुसन्धेयम् ॥ ११ ॥
इति स्तुतिनिबन्धेन सूचितस्वमनीषितान् ।
भृत्यान् प्रेमार्द्रया दृष्ट्या सिञ्चन्तम् चिन्तयामि तम् ॥ (१२)
एवमाचार्यविषयस्तुतिबन्धोऽनुभूतः, अथ तज्जनितप्रेमवन्तमाचार्यम् वरवरमुनिमनुभवति – इतीति ॥
इतिशब्दोऽयम् पूर्वषट्छलोक्यर्थपरामर्शी, न तु शब्दस्वरूपपरामर्शी । तत्र हि त्वम् मे बन्धुरित्यादयो यायावृत्तिरित्यादिश्लोकान्ताश्चत्वार-श्श्लोकाः शतकेऽपि पठिताः । आद्यन्तयोरपि हि तत्तत्साहचर्यात् कर्त्र-न्तरास्मृतेश्च देवराजगुरुकर्तृकत्वम् न्याय्यम् । यद्वा – शब्दस्वरूप-परामर्शे वाऽयमितिशब्द:, स्तोतॄणाम् ग्रन्थसौष्ठवप्रीत्या देवराजगुरु-प्रगीतश्लोकानामेव स्तुत्यर्थमुपादानसम्भवात् । स्तुतिनिबन्धेन -श्लोक-षट्कात्मना स्तुतिरूपप्रबन्धेन, सूचितानि स्वमनीषितानि – स्वगतानु-सन्धानानि यैस्तथोक्तान् । स्वमनीषितशब्दोऽत्र स्वगतानुसन्धानवाची, तेन षट्छ्लोक्याम् परोक्षापरोक्षनिर्देशोपपत्तिः । सूचितस्वमनीषिता-नित्यत्र च प्रत्येकम् वाक्यपरिसमाप्त्या सूचितस्वस्वमनीषितानिति लभ्यते, तेन षट्स्वपि श्लोकेषु अस्मच्छब्दस्यैकवचनान्ततोपपत्तिः । पादतद्रेखाभूतयोर्वरदनारायणरामानुजमुन्योः पादयुग्मप्रदानादि-प्रार्थनानपेक्षया षण्णामेव च प्रकृतस्तुतौ अन्वय इति स्फोरणाय श्लोकानाम् षट्सङ्ख्याश्रयणमिति बोध्यम् । भृत्यान् – क्रयविक्रयार्हत्वम् स्वस्मिन् मन्यमानान्, प्रेमार्द्रया – स्नेहार्द्रया, एतेन तदनुसम्हितेषु बन्धुत्वादिषु सस्वित्वमेव बोधयन्तः परस्परम्* इत्युक्तप्रयोजनविशेष-प्रयोजकतया वरवरमुनेः स्वहृदयारूढमिति ध्वन्यते । दृष्ट्याकटाक्षेण, सिञ्चन्तम् – आर्द्रीकुर्वन्तम्, दूयते जन्तुरित्ये तदपेक्षया सिञ्चन्त-मित्युक्तिः, परितप्तस्य हि सेकापेक्षा । तम् – वरवरमुनिम्, चिन्तयामि – स्मरामि तापार्तोजलशायिनमितिन्यायेन सिञ्चतश्चिन्तनम् हि ताप-शान्तिहेतुरिति भावः । अत्र स्तोतॄषु प्रेमार्द्रदृष्टिसेकोक्त्या परकृतस्तोत्रा-हितहर्षो व्युदस्तः । अनेन *स्तूयमानो न हृष्येत्तु* इत्यादिशास्त्रार्थो-ऽनुष्ठितो भवतीति सूचितम् ॥ १२ ॥
अथ भृत्याननुज्ञाप्य कृत्वा चेतश्शुभाश्रये ।
शयनीयं परिष्कृत्य शयानम् सम्स्मरामि तम् ॥ (१३)
अथेति ॥ अथ – पूर्वोक्तदिशा रात्रौ यामद्वयातिवाहनानन्तरम्, तदुक्तम् काव्येसरसमनसस्सत्त्वान् सत्त्वोत्तरानभिनन्दयन् परिषदि परम् धन्यो निन्ये मुनिः प्रहरद्वयम्* इति । भृत्यान् – पूर्वोक्तान्, अनुज्ञाप्य – णिजर्थस्त्वविवक्षितः, ज्ञा नियोगे, चुरादिषु पठितम् । अनुज्ञायेत्यर्थः, यद्वा शिष्येष्वपि प्रेमार्द्रयेति सूचितसखित्वाभिसन्धिनाऽनुज्ञाप्येति णिजन्तम् प्रयुक्तम् । ते ह्यनुजानन्ति, ताम्स्तथा कृत्वेत्यर्थः । अथवा – शुभाश्रये पूर्वोक्ते चेतः कृत्वा भत्याननुज्ञाप्येति योजनीयम् । शुभा-श्रयभूतेन भगवता भत्याननुज्ञाप्येत्यर्थः, कृत्वा चेतश्शुभाश्रय इत्येतच्च पूर्वोत्तरान्वयि स्वस्थाने च तिष्ठति । तत्र पूर्वान्वयो दर्शितः, स्वस्थाने स्थितस्य च *यामिन्याम् योगकाले तु* इत्याद्युक्तयोगम् कृत्वेत्यर्थः । यामिन्याम् योगश्च शाण्डिल्येनोक्तः – *ईदृशः परमात्माऽयम् प्रत्य-गात्मा तथेदृशः । तत्सम्बन्धानुसन्धानमिति योगः प्रकीर्तितः ॥ योगो नामेन्द्रियैर्वश्यैबुद्धेर्ब्रह्मणि सम्स्थितिः* इति। अत्र पुष्करेक्षणादिकम् शुभाश्रयविशेषणमुपसम्हार्य शुभाश्रये चेतः कृत्वा, शयनीयम्, परिष्कृत्य शयानम् तम् सम्स्मरामीत्युत्तरत्रान्वयः । शयनीयम् शयनम्, परिष्कृत्य – अलङ्कृत्य, आसनात्पर्यङ्काच्छयनीयमर्थान्तरम् । तथा च पूर्वोक्ता-द्योगयोग्यासनादुत्थाय शयन प्राप्येत्यर्थः । *ततस्सज्जीकृतम् भत्यैः शयनीयम् विभूषयन्* इति च काव्ये । तथा च भृत्यप्रयाससाफल्य-चिकीर्षयैव शयनीयाभ्युपगमो न तु तत्र तात्पर्यमित्ययमर्थो लभ्यते । शयनीयम् परिष्वज्येति केचित् पठन्ति, स तु पाठोऽर्थस्वारस्यविरहा-त्काव्यगतसमानप्रकरणस्थनिर्देशवैघट्याच्चोपेक्ष्यः । शुभाश्रये चेतसः करणम्, शयानत्वञ्च समकाल एवेति लब्धम् । तथा च यतिधर्म-समुच्चये शौनकः – *शरणम् न कुर्यात्, न कारयेत्, कृतम् प्रविशेत्, अथ ब्रह्मोपासीत, तच्चित्त एवम् शयीत* इति । सम्स्मरामि – अनु-ज्ञाप्येति बहिर्गमनसुचितेन दर्शनानवसरेण स्मरणमेव प्राप्तकालमिति *श्रीमान्सुखसुप्त* इत्युक्तदिशा तात्कालिकशोभातिशयविशिष्टतया स्मरामीत्यर्थः ॥ १३ ॥
दिनचर्यामिमाम् दिव्याम् रम्यजामातृयोगिनः ।
भक्त्या नित्यमनुध्यायन् प्राप्नोति परमम् पदम् ॥ (१४)
निगमे दिनचर्यानुसन्धानफलमाह – दिनचर्येति ॥ इमाम् *परेद्युः पश्चिमे याम* इत्यारभ्य *शयानम् सम्स्मरामि तमि*त्यन्तसन्दर्भ-रूपाम्, तादृशसन्दर्भप्रतिपादिताम् वा, दिव्याम् – दिविभवाम्, अस्पृष्ट-सम्सारदोषगन्धायाम् नित्यविभूतावेव सम्भावितामत्रप्रायेण दुर्लभाम् । अस्याश्च दौलभ्यम् भरद्वाजपरिशिष्टेऽभिहितम् – *सुसूक्ष्मत्वाद्दुरापत्वान्महत्त्वाद्गौरवादपि । मयाऽयम् परमो धर्मः प्रोक्तस्सिद्धयै पुनः पुनः* इति, *परमैकान्तिनाम् धर्मः कृते पूर्णः प्रवर्तते । क्षीयमाणः क्रमेणायम् कलौ स्थास्यति वा न या ॥ नानाकामा-न्वितज्ञाना नानादैवतयाजिनः । नरा भगवदैकान्त्यम् नास्थास्यन्ति कलौ युगे ॥ परम् भागवतम् वर्त्म दृष्ट्वापि कलिमोहिताः । प्रभवन्ति न विद्वाम्सस्त्यक्तुम् पूर्वानुवर्तिनीम् ॥ भविष्यन्ति कलौ केचित् क्वचि-देकान्तिनो हरौ । मोहयिष्यन्ति च परे कुतर्कैस्तान कुदृष्टयः इति च । यद्वा – *दिव्याम् दिव्यशा स्त्र गणेषु च*, *दिव्यागममथापि वा* इत्युक्त दिव्यशास्त्रसिद्धत्वात् दिव्यत्वम् विवक्षितम्; दिगादित्वाद्यत्प्रत्ययः । रम्यजामातृयोगिनः – निष्कृष्ट-सत्त्वैकनिष्ठस्य भगवतो वरवरमुनेः, दिनचर्याम् -अहोरात्रक्रियाप्रतिपाद-ककृतिम्, वासवदत्तादिशब्दवदुपचारात् दिनचर्याशब्दः तत्प्रतिपादकग्रन्थे वर्तते, अहोरात्रक्रियायाम्वा | दिनादिशब्दनाम् हि रात्र्यादिशब्दासमभि-व्याहृतानामहोरात्रपरत्वम्, राज्यादिशब्दानाञ्च दिनादिशब्दासमाभि-व्याहृतानामहोरात्रपरत्वम् *षडहैर्मासा भवन्ति*, *तिस्रो रात्रीर्न दहन्ति* इत्यादिषु दृष्टम् । यद्वा – अहोरात्रकर्तव्येषु अभिगमनादिषु पञ्चसु अहः कर्तव्यानाम् भूयस्त्वाद्दिनचर्येति भूयसा व्यपदेशो मल्लग्रामादिवदिति द्रष्टव्यम् । आह्निकादिशब्देऽप्ययम् न्यायोऽनुसन्धेयः । नित्यम् – प्रति-दिनम्, भक्त्या – आराध्ये भगवति, आराधके वरवरमुनौ, आराधनरूपे पाञ्चकालिककर्मणि च गौरव्यप्रतिपत्तिसहकृतनिरतिशयप्रेम्णा, अनुध्यायन् – अनवरतमनुसन्दधानः पुरुषः, यावज्जीवम् होतव्यस्या-ग्निहोत्रस्य सायम्प्रातर्व्यवस्थावद्व्यवस्थानिरासाय अनुध्यायन्नित्युक्तम् । अत्र *लक्षणहेत्वोरि*ति शत्रादेशः । ईदृशदिनचर्यानुध्यानम् हि *यद्यदाचरति श्रेष्ठः* इत्यादिन्यायेन शक्तानाम् पाञ्चकालिका-नुष्ठाननिष्ठापर्यवसानमुखेन सिद्धोपायाधिकारम् पूरयत् फलसिद्धिप्रयोजकम् भवति, अशक्तानाम् त्वनुष्ठानकार्यकरम् भवति । [यद्यपि, पाञ्चकालिक-कर्मणः स्वतन्त्रोपायत्वमवगम्यते यथा, *अच्छिद्रपञ्चकालज्ञाः पञ्च-यज्ञविचक्षणा: । पूर्ण वर्षशते धीराः प्राप्नुवन्ति यथाऽञ्जसा* इति लक्ष्मीतन्त्रेऽभिहितम् । तथा शाण्डिर्ल्योऽप्याह – *सर्वधर्मान् समुत्सृज्य पाञ्चकाल्यमनुव्रताः । व्यामिश्रयोगनिर्मुक्ता गच्छन्ति पुरुषोत्तमम्* इति । तथाऽपिभरद्वाजादिभिस्सिद्धोपायनिष्ठेन फलरूपतयैव तेषाम् कर्तव्यत्वमुक्तम् – *अथ स्वधर्मनिरतः प्राज्ञो भक्तस्सुलक्षणः । सत्सेवाभिरतो ह्येव प्रपन्नस्सिद्धिमाप्नुयात्* इत्युपक्रम्य प्रपन्न-धर्मानुक्त्वा, *कृत्वाभिगमनम् पूर्वमुपादाय च सम्पदः । इष्ट्वाधीत्य च युञ्जानो भागै: कालम् विनोदयेत्* इत्यादिना । अत्र हि विनोद-नोक्तिः फलरूपत्वाभिप्रायेण । पराशरश्चाह *उपायभावात्सन्त्यज्य स्वकर्मादिचतुष्टयम् । कर्म कुर्यादसक्तस्सन् सन्तुष्ट्यै परमात्मनः* इति । अत्र तच्च कुर्यादित्यनुक्त्वा कर्मकुर्यादित्युक्तिः क्रियमाणकर्मण-स्त्यक्तेभ्यः कर्मान्तरत्वाभिप्रायेण । तदुक्तम् भरद्वाजपरिशिष्टे – *बाह्य-स्सदसताम् नास्ति भेदः प्रायेण कर्मसु । सङ्कल्पादेव भिन्नानि स हेतुर्बन्धमोक्षयोः* इति । अतो नोपायान्तरान्वयप्रसङ्गः, विनियोग-पृथक्त्वन्यायेनापि नोपायान्तरान्वयप्रसङ्ग इति ध्येयम् । परमम् पदम् प्राप्नोति – *सर्वतः पृष्ठेष्वनुत्तमेषत्तमेषु* इत्यादिना सर्वोत्कृष्टत्वेन प्रति-पादितम् *तद्विष्णोः परमम् पदमि*त्युक्तम्, पर्वत्रयात्मकप्राप्यसिद्धे-र्निर्विघ्नदेशभूतस्थानम्, प्राप्नोति – साध्यवृद्धिलक्षणप्रकर्षमाप्नोति । अत्र च, *प्राप्नोति परमम् पदमि*त्यनेन, *अथ वृत्तिमिमाम् शश्वत्कु-र्वाणो विगतव्यथः । विसृज्य देहम् प्राप्नोति तद्विष्णोः परमम् पदम्* – इति भरद्वाजवचनम् प्रत्यभिज्ञाप्यते । भक्त्या दिनचर्यामनुध्याय-न्नित्यत्र च, *यश्चेमाम् सम्हिताम् पुण्याम् शृणुयाच्छ्रावयेत वा । स मुक्तस्सर्वपापेभ्यस्सर्वान्कामान् समश्नुते* इति भारद्वाजवचनम्, *वृत्तिम् सन्तोऽनुभयेमामनुरूपामिहात्मनः । परत्र चानुमोदन्ते परमेण विपश्चिता’ इति भरद्वाजपरिशिष्टवचनञ्चानुसन्धेयम् । वचनेषु च *तद्विष्णोः परमश्चि पदमि*त्यनेन *परमे व्योमन्नि*त्यस्य, *सर्वा-न्कामान्समश्रुते* इत्यनेन *सोऽनते सर्वान्कामानि*त्यस्य, *परमेण विपश्चिते*त्यनेन, *सहब्रह्मणाविपश्चिते*त्यस्यार्थचोपबृम्हित इति रमणीयम् ॥ १४ ॥
स्वयम् प्रमाणेऽप्याचार्ये रम्यजामातृयोगिनि ।
स्मृतिप्रपश्चनम् तज्ज्ञास्तुष्यन्त्विति मया कृतम् ॥
इति श्रीदेवराजगुरुविरचिता उत्तरदिनचर्या समाप्ता
इति श्रीवाधूलवीरराघवसूरिविरचितायाम्
दिनचर्याव्याख्यायाम् सदाचारदीपिकाख्यायाम्
उत्तरदिनचर्याविभागः समाप्ता चेयम् दिनचर्याव्याख्या
————————–