॥ श्रीरस्तु ॥
॥ श्रीमते रामानुजाय नमः॥
श्री प्रतिवादि भयङ्करम् अण्णा विरचितः
वरवरमुनि शतकम्
वेदान्तदेशिककटाक्षविवृद्धबोधं
कान्तोपयन्तृयमिनः करुणैकपात्रम् |
वत्सान्ववायमनवद्यगुणैरुपेतं
भक्त्या भजामि परवादिभयङ्करार्यम् ||
मूलेऽवतीर्णमिह मूलमनूदितार्थ तत्त्वावबोध सुखिता वसुधां विधातुम् |
रामानुजार्य चरणाम्बुज चञ्चरीकं रम्योपयन्तृयमिनं शरणं प्रपये ||1 ||
यदवतरणमूलं मुक्तिमूलं प्रजानां शठरिपुमुनिदृष्टाम्नाय साम्राज्यमूलम् |
कलिकलुषसमूलोन्मूलने मूलमिन्धे स भवतु वरयोगी नस्समस्तार्थमूलम् || 2 ||
जनिविपदपवादौ यस्य पादौ विदन्त :
सततमपि महान्त: स्वान्त एवोद्वहन्ति |
स जयति भजदर् र्ध्वान्तकल्पान्तभानु:
निरवधिगुणकान्तो हन्त कान्तोपयन्ता || 3 ||
इन्धे वाक्यविभूषणस्य महतो यद्भाषणं भूषणम्
यत्पादाम्बुरुहद्वयं सुमनसां मूर्ध्नस्सदा भूषणम् |
यद्भक्ताङ्घ्रिरज: कणो वितनुते दु:खोदधेश्शोषणं
वन्दे कान्तवरं मुनिं तमनघं नित्यं कलेर्भीषणम् || 4 ||
यत्पादाम्बुजसंश्रयेण विमला यल्लब्धबोधोज्ज्वला:
यत्सेवैकरसास्स्वशिष्यनिवहव्याप्ताखिलाशान्तरा: |
प्रख्याता हि वरप्रदप्रभृतयस्ते नित्यसिध्दोपमाः
तस्मात्कान्तवरान्मुनेरनुपमात् दैवं परं नाद्रिये || 5 ||
यत्सूक्त्येकरसा यदङ्घ्रियुगली सेवैकहेवाकिनो
यद्वात्सल्यदयादिसद्गुणगणाकूपार मग्नाशयाः |
मन्यन्ते न परं विमुक्तिकरणं सन्तो यदालोकनात्
तन्यान्नस्स शुभान्यवेलमहिमा कान्तोपयन्ता मुनिः || 6 ||
यद्वाणीशठवैरिसूक्तितरुणी माङ्गल्यदीपावलिः
यद्वीक्षा स्वशरव्यसर्वजनता सर्वार्थचिन्तामणिः ।
यन्मूर्तिर्भजदार्ति भञ्जन चणां सूक्तिं विवक्त्यञ्जसा
भूयान्नस्सततं स मे हृदि गुरु: कान्तोपयन्ता मुनिः ॥ 7 ॥
अवाग्भूषाजुष्टैरभुवनगुरुप्रेमभरितै:
अमूलर्क्षोद्भूतैरवरदगुरूपासितपदै: |
कृतं तैस्तैस्सर्वैर्गुरुभिरमहायोगिभिरिति
व्यवस्यन्तस्सन्तो हृदि मम लसन्तु प्रतिकलम् || 8 ||
न खल्ववरयोगिनां भजनत: फलस्योद्भव:
तदन्यविमुखास्सदा वरमुनिं भजध्वं जना: |
तदङ्घ्रिभजनं सकृत्कृतमशेषतो दुष्कृतं
निवारयति भूयसीं श्रियमनुत्तमां पुष्यति || 9 ||
सुराहारासारीकरण चणयत्सूक्ति लहरी
गरीयस्तां स्तोतुं प्रभवति न वाचस्पतिरपि |
स नस्तन्यादन्यादृशमहिमशाली वरवरो
मुनीन्द्रो निस्तन्द्र: कुशलमनुवेलं गुरुवर: || 10 ||
कलानिधिशिरोमणिर्जितमनोभवो यद्वच:
सुधाशनतरङ्गिणीं दधदनारतं मूर्धनि |
शिवोऽपि यदुपाश्रितो विषमदृष्टितादूरगस्स
मे दिशतु मङ्गलं वरवरो मुनीनां वर: || 11 ||
कल्याणाचलधर्मभागसमगुर्यत्संश्रितो भूतिमान्
बिभ्रद्यस्य कलानिधे: किल कलां मूर्ध्ना भृशं निर्मलाम् ।
क्लृप्ताहीन विभूषण: स्मरजितस्सायुज्यमाटीकते
सोऽव्यान्नस्सततं मुनिर्वरवरोऽनन्यार्ह तेजोनिधि: || 12 ||
यद्भक्तो नाभिभूतो मदनमथनकृद्धाग्विलासैकभूमि:
नालीकस्थोऽकृतोक्ति व्यवहृति चतुरास्यत्व संप्राप्त भूमा |
संप्राप्यानन्यलभ्यां कमलभवतुलामेधते सत्यधामा
सोऽव्यान्न: क्षान्तिसिन्धुर्निरवधिमहिमा सौम्यजामातृयोगी || 13 ||
शिरसि वहतां यत्पादाम्भ: कलानिधिमौलिता
जयति वरदाचार्यादीनामनन्यसमाश्रया |
स हि वरमुनिस्साक्षान्नारायणस्तत एव तत्
चरणशरणास्सर्वेऽप्युर्व्यां तरन्ति भवार्णवम् || 14 ||
जलजनिलयाकान्तोऽनन्तद्विजोत्तमसेवित: जलजविलसत्पाणि: नित्यं करस्थसुदर्शनः |
सकलसुमनो वैरिव्रातावलेपविलोपकृत् मधुरिपुतुलाकान्त: कान्तोपयन्तृमुनीश्वरः || 15 ||
यद्वाग्जालं मधुजिदतनुच्छेदिनालीकवासो-
त्कृत्तोवृत्तासुरसुरवरैः सादरं सेव्यमानम् |
पद्मावासा क्षितिधरसुता वाक्छशीकान्तभूतै:
कान्त्या कान्तं स जयतु महायोगिकान्तोपयन्ता || 16 ||
हृद्या यस्य सरस्वती सुविमला तापानशेषानपि
द्रागुन्मूलयति श्रुताऽपि भविनां शुद्धिं विधत्ते पराम् |
भङ्ग नैति कदाऽपि कुत्रचिदपि प्राप्ताऽपि गम्भीरतां
सोऽव्यान्मामतिवेलवैभवनिधि: कान्तोपयन्ता मुनिः || 17 ||
समिन्धे यत्सूक्तिस्सकलसुमनोमौलिविधृता
शिवत्वं सर्वेषामपि विदधती स्वान्वयवताम् ।
विधोरत्यासन्ना निरवधिकपूर्त्या विलसत –
स्सदा गङ्गोत्तुङ्गा जयति स मुनिस्सुन्दरवरः || 18 ||
सूर्यानन्दविधायिनीति यमुना कान्तोपयन्तुर्मुने:
वाणीव व्यवहारभाक् भवतु सा किं तावता स्यात् समा |
शुद्धेयं न हि सा स्वकं चितवतां तापानशेषानियं
सर्वेषां विनिवार्य कर्तुममितं श्रेयः क्षमा नैव सा || 19 ||
विहरति यमुनायास्स्रोतसीवातिहृद्ये वचसि मनसि च श्रीमाधवो यस्य नित्यम् |
निरुपममहिमानं योगिनं ते महान्तं निरवधिगुणकान्तं चिन्तय स्वान्त! नित्यम् || 20 ||
कृतावगाहा जनता यदीय सारस्वतस्रोतसि तुङ्गभद्रा ।
संसेव्यमाना कविभिस्समिन्धे पायात्स नः कान्तवरो मुनीन्द्रः || 21 ||
यद्वाणीं मधुरामवाप्य सुधिय: साकेत धामात्यज:
मायासङ्गविदूरगाश्च सुतरां सन्त्यक्तकाश्याश्रया:
काञ्च्यादिष्वपि नि: स्पृहाश्च सततं रामानुजैकान्तिन:
राजन्ते स तनोतु सुन्दरवरो योगीश्वरो नश्शुभम् || 22 ||
यद्वाणीमपराजितां मधुजिदुल्लासास्पदं सन्ततं
शेषाहीनबलद्विजेन्द्रमहितां मुक्तावलीबन्धुराम् |
शुद्धस्सम्प्रतिपद्य हृष्यति जनो नोपैति पापोत्तर:
तस्मात्कान्तवरान्मुनेरनुपमादैवं परं नाश्रये || 23 ||
यद्वाणी विरजावगाहन कलाधौतात्मनामात्मनां
प्रज्ञातर्जितनिर्जरेश्वरगुरु प्रौढिं समाढौकते |
भक्ति: श्रीशतदीयदेशिकपदाधारा जरीजृम्भ्यते
मुक्तिर्याति करापचेयफलतां सोऽव्याद्वरोऽस्मान् मुनिः || 24 ||
यच्छिष्यास्तिष्यडिम्भप्रतिमकुमति दुस्तर्कसम्पर्कजात –
त्रय्यन्तस्वापरूपाप्रतिमनिरवधि ध्वान्तकल्पान्तसूर्या: |
श्रीमद्रामानुजार्योदितमतममतामूर्तय: कीर्तिमन्त:
जाग्रत्यस्मै नमस्ताद्वरवरमुनयेऽनन्तनिस्तुल्यभूम्ने || 25 ||
अनिमिषतनुर्ब्रह्मा निर्वेदभावनिबन्धनं
भजति किल यशश्रीमन्मत्स्यावतारतुलां हरे: |
स जयति सतां सङ्घस्सौम्योपयन्तृ समाश्रय:
तमिह सततं चेतस्सेवस्व सद्गुणशेवधिम् || 26 ||
प्रापयन्नमृतकाङ्क्षिणोऽमृतं मन्दरागभरणेऽपि सादरः ।
दिव्यकूर्मसदृशो यदाश्रित: सद्गुणोऽवतु स मां वरो मुनिः || 27 ||
सौकर्यवान् यत्पदभक्तिशाली भवाब्धिमग्नोद्धरणप्रवीण: |
आटीकते ह्याद्यकिटेरभिख्यां मुनिस्स न: पातु वरोपयन्ता || 28 ||
हिरण्यजिद्यत्पदभक्तिशाली
नृसिंहभावं प्रकटीकरोति |
स मे विधत्तामतुलानुभावो
वरोपयन्ता कुशलान्यजस्रम् || 29 ||
भजते किल वामनोपमां सुमनो वैरिबलिस्मयं हरन् ।
शुभविक्रमभूद्यदाश्रितः तमुपासे वरयोगिशेखरम् || 30 ||
महीभरकुदृग्बल क्षपणदक्षिणौजीभृत:
यदङ्घ्रिसमुपाश्रया: परशुराम साधर्म्यगा: ।
जयन्त्यखिलपापभीमहित विष्णुधर्मान्विता:
स नो वरवरोमुनिर्वितरतु श्रियं सन्ततम् || 31 ||
सहजानघलक्ष्मणान्विता वसुमत्युद्भवया श्रियोज्ज्वला: |
रघुवर्यसमा यदाश्रिता वरयोगी स शुभं तनोतु न: || 32 ||
अधिगतबलभद्राभिख्यया यत्पदाब्ज –
प्रवणजनसमष्ट्या वासुदेवाग्रजस्य |
अनितरजनलभ्या लभ्यते साम्यलक्ष्मी:
स जयतु वरयोगी निस्तुलावेलभूमा || 33 ||
सधर्मजातार्जुन चित्तहर्ष प्रध्वंसि पक्षक्षपणप्रवीणा: |
यदाश्रया: कृष्णतुलां भजन्ते पायात्स नः कान्तवरो मुनीन्द्र: || 34 ||
कलिदोषमशेषत: क्षितौ क्षपयन् कल्कितुलाविहारभूः |
यदुपाश्रितसज्जनस्स नः सततं सौम्यवरोऽभिरक्षतु || 35 ||
अहीनभोगप्रवणस्समिन्धे श्रीरङ्गधामा किल रङ्गभर्तु: |
साधर्म्यमासाद्य यङ्घ्रिभक्त: पायात्स न: सौम्यवरो मुनीन्द्र: || 36 ||
वृषाचलस्थितिं भजन वहन्ननारतं श्रियं सुदुर्लभागमाखिलार्थदानकेलिकीर्तिमान् |
विभाति वेङ्कटेशवद्यदङ्घ्रि सेविनां गणः स न स्तनोतु मङ्गलं वरोपयन्तृदेशिकः || 37 ||
भक्ताखिलार्थाधिगमैकहेतुं श्रीपुण्यकोट्यायतनं यदीयम् |
विदन्ति सन्तो वरदेन तुल्यं वरो मुनिर्नस्स तनोतु भद्रम् || 38 ||
कान्तं वरं प्राप्य सती मदीया मति: परस्मिन् पुरुष विरक्ता ।
तत्सद्गुणास्वादरसैकलोला पतिव्रतोदाहरणत्वमेतु || 39 ||
सरसिकृतविहारं ध्यानमात्रेण पुंसां शमितसकलतापे हंस संसेव्यमाने |
भजति मुदमवेलां सन्ततं यस्यचेत: स भवतु वरयोगी मानसे मामकीने || 40 ||
सारासार विवेचनैकरसिकं सारस्वतं सारसं
सौराहारहाझरी सहोदरपरीपाकेन लोकोत्तरम् ।
भक्त्या शीलयतस्सुशीलजनतोत्तंसं पदाब्जद्वयं
नित्यं चिन्तय चित्त! सादरभरं सौम्योपयन्तुर्मुनेः || 41 ||
भूतार्थस्वोक्ति सन्दर्शितनिगमशिखागूढतत्वार्थजाते
भूताख्ये योगिवर्ये भगवति सततं भक्तितो लग्नचित्तम् ।
सेवस्व स्वान्त कान्तं निरवधिकगुणै: क्षान्तिकारुण्यमुख्यै:
कान्तं जामातरं तं निरवधिकगुणास्वादमुक्तान्यसङ्गम् || 42 ||
महदाह्वयपादपद्मयो: महदुत्तंसितयोर्मधुव्रतम् |
वरयोगिनमेव सादरं मतिरासीदतु मामिकाऽन्वहम् || 43 ||
श्रीविष्णुचित्तपदपद्मरजोनुषङ्गात् चित्तं यदीयमरजस्कतया समिन्धे |
अव्याजवत्सलतया प्रथितस्सदाऽस्मान् अव्यात्स सुन्दरवरो मुनिसार्वभौमः || 44 ||
क्षीरं शर्करयेव यद्विहितया साभिख्यया व्याख्यया
श्रीगोदागुरुभारती सुमहिता पुष्णाति सा माधुरीम् |
तस्य श्रीपदपद्मयुग्ममनिशं कान्तोपयन्तुर्मुने:
स्मारंस्मारमहं विधूतदुरितो यायामनायासत: || 45 ||
यत्कृतान्मङ्गलाशासनादन्वहं मङ्गलानि श्रियो वल्लभो विन्दति |
तस्य गोदागुरोर्मङ्गलाशासनं कुर्वते स्यान्महायोगिने मङ्गलम् || 46 ||
क्षोणीसारपुरी कृतावतरणे स्वीयोक्तिसन्दर्शिता –
शेषाम्नायशिरो रहस्यनिकरे श्रीभक्तिसारे मुनौ |
भक्त्या भूषितमानसे वरमुनौ भक्तिं परां बिभ्रतो
भक्त्या नित्यमुपासिषीय विलसत्तद्भक्तिधन्यानहम् || 47 ||
यच्चित्तं रघुशेखराङ्घ्रिकमलद्वन्द्वैकबन्दीकृतं
तस्य श्रीकुलशेखरस्यपदयो : सूक्तौ च सक्ताशयम् |
तद्वद्रङ्गभुजङ्गपुङ्गवगिरि प्रेमानुविद्धाशयं
चेतः कान्तवरं विभावय सदा योगीश्वरं सादरम् || 48 ||
श्रीरङ्गाधिपदिव्यमङ्गलवपुस्सौन्दर्यसारामृत –
स्रोतोमग्नमुनीन्द्रवाहनगुणोदन्वन्निमग्नाशयम् |
चेत: कान्तवरं विचिन्तय मुनि यच्चिन्तनं सन्ततं
कुर्वन्तो हि विदन्ति दैवमपरं सन्तो न यस्मात्परम् || 49 ||
यत्पादरेणुवहनेन सुगन्धमौलिस्तं ब्रह्मबन्धमधिगच्छति मुक्तिबन्धः।
तद्विष्णुभक्तपदरेणुमुनीन्द्रभक्तं कान्तोपयन्तृमुनिमन्वहमाश्रयेयम् || 50 ||
यत्पादुकात्वमधिगच्छति संयमीन्द्रः
तस्मिनन्मुनौ वकुलमालिनि बद्धभावम् |
तत्सूक्तिसागरचतुष्टयपूर्णचन्द्रं
सौम्योपयन्तृयमिनं शरणं वृणेऽहम् || 51 ||
मूर्तो यो भक्तिभूमा मुररिपुपदयो: यन्महिम्न: कलाऽपि
व्यासादीनामलभ्या भुजगविहगराट्सैन्यभृद्विस्मयाय |
यत्सूक्तीनां गरिम्णे स्पृहयति सकलोऽप्यागमोऽपौरुषेयः
तस्मिन् न्यस्तात्मभार:शठजिति वरयोग्यस्तु मे स्वस्ति भूम्ने || 52 ||
शठाराति श्रीमद्वदनसरसीजातमिहिर:
तदीय श्रीपादाम्बुजमधुकरस्तस्य वचसाम् |
चतुर्णां सिन्धूनाममृतकिरणो भक्तजनता
सुरदु: पायान्मां वरमुनिवरोऽवेलमहिमा || 53 ||
शठरिपुमुनिदृष्टाम्नायगूढार्थतत्त्व
प्रकटनपटुलोकाचार्य सूक्त्यर्थजातम् |
व्यवृणुत भवभाजां गुप्तये य: कृपावान्
भवतु स वरयोगी श्रेयसे भूयसे न: || 54 ||
तादृक्केसरभूषदृष्टचतुराम्नायाङ्गषट्कात्मक –
स्वोक्त्यानन्दितकेशव: किल कलिप्रध्वंसियोगीश्वरः।
नित्योद्घद्वयदीयहृत्सरसिजे पुष्णाति हंसश्रियं
स श्रेयांसि तनोतु न: प्रतिकलं कान्तोपयन्ता मुनिः || 55 ||
स्वकरलसच्छिताग्र करवालजिताब्धिसुतादयितहृतानपायनिगमान्त निगूढधनं ।
कलिरिपुयोगिवर्यमनिशं हृदये निदधत् मनसि विहारमेतु सततं मम कान्तवरः || 56 ||
यद्हस्तन्यस्तशस्त्रं शकलयति कलिं यस्य सारस्वतं तु
स्रोत: श्रोतृनशेषानपि सपदि हताशेषतापान विधत्ते ।
तस्मिन्निर्धूततिष्ये जगदधिपधनस्तेयनिरतुल्यभूम्नि
न्यस्तात्मा स्वरित विस्तारयतु मम सदा सौम्यजामातृयोगी || 57 ||
यद्वाणीरस भूमदारित सुधा वेणी मुदा संयमि –
क्षोणीपालमुखैस्तदन्य विमुखैरास्वाद्यते सादरम् ।
वेदान्त स्पृहणीयवैभववती खेदान्त कृद्देहिनां
गोदां तां शरणं श्रयन् वरवरो मोदाय नः कल्पताम् || 58 ||
यत्सूक्तिर्मुक्तिहेतुं प्रकटयतितरामागमान्तातिरूढं
लक्ष्मीकान्तानुवादं स्फुरदमितगुणाचार्यवर्याभिधानम् ।
गोदा तामादरेण प्रणिदधति वरेयोगिनि न्यस्तचित्ता:
सन्तस्सन्तोषवन्तो विदधति भजतां स्वान्त सन्ताप शान्तिम् || 59 ||
यन्मौलिस्पर्शदीव्यत्परिमलभरितां मालिकां मूर्ध्नि बिभ्रत्
धन्यं स्वं मन्यते श्रीनिधिरपि पुरुषस्ताममेयानुभावाम् |
गोदां भक्त्या यतिक्ष्मापतिमिव सततं लालयन्तं महान्तं
सेवन्ते योगिनं ये हृदय! कलय तानन्वहं देशिकेन्द्रान् || 60 ||
शठवैरिमुने: परं न दैवं विदितं येन तदेकदैवतेन |
मधुरं कविमाश्रितस्तमीड्यं वरयोगी विदधातु भावुकं नः || 61 ||
यत्पादाब्जानुबन्धस्सकलतनुभृतां कल्पते मुक्तिसिद्ध्यै
यत्संबन्धात्करस्थाममनुत स यतिक्ष्मापति: स्वस्यमुक्तिम् |
तस्मिन्कूराधिनाथे निरवधिकगुणे भक्तिमाम्रेडयन्तं
मुक्त्यै भक्त्या भजन्तो वरमुनिमनघा देशिका मे दयन्ताम् || 62 ||
यतिपतिपदयुग्मं दैवतं यस्य नान्यत्
तमिह वटुकपूर्णं सादरं भावयन्तम् ।
सततमभिलषन्तं तस्य निष्ठां गरिष्ठां
वरवरमुनिवर्यं सन्ततं चिन्तयेयम् || 63 ||
शठरिपुमुनिदृष्टसामवेदं व्यवृणुत यो यतिराजशासनेन |
तमिह शठजिताह्वयं श्रयन्तं वरमुनिवर्यमुपासिषीय नित्यम् || 64 ||
शठारिदृष्टवेदमौलि भावसंप्रकाशकृत् –
कृतेतरोक्तिमौलिवेद्य योगिशेखरे सदा |
शमादिसद्गुणोदधौ निमज्जतीव यस्यधी:
वरोपयन्तृयोगिनं निरन्तरं तमाश्रये || 65 ||
ततमधुरगभीरद्राविडाम्नायभाष्यं
यदुदितमिह सन्त: सन्ततं शीलयन्ति |
स हि विहरति कृष्णो देशिको यस्य चित्ते
स दिशतु वरयोगी भद्रमव्याहतं नः || 66 ||
सुधासिन्धोरिन्दोस्सुहृदतिगभीरं सुमधुरं
यदुक्तं भाष्यं तच्छठजिदुदिताम्नायशिरसः |
स कृष्णार्य: पुष्णन् हृदि विहरणं यस्यजयति
श्रियं संतन्यान्मे वरमुनिवरस्य प्रतिदिनम् || 67 ||
निखिलनिगममौलिसारसारं
प्रथयति यद्द्रविडाग मान्तभाष्यम् ।
तदिह जयति यत्प्रसादशीतं
हृदय! सदा वरयोगिनं भजस्व || 68 ||
सुधासाराकारं सकलनिगमान्तार्थ मुकुरं
यदुक्तं तत्पाराङ्कुशनिगमभाष्यं शरणयन् |
समिन्धे यत्सङ्घस्स विहरति कृष्णो गुरुवर:
सदा यच्चित्ते तं वरवरमुपासे मुनिवरम् || 69 ||
सर्वज्ञेन धृता हि येन शिरसा सा कृष्णपादोद्भवा
श्रीपाराङकुशवेदमौलिविवृतिस्स्वर्वाहिनीसोदरी ।
तापं सर्वमपाकरोति भविनां धत्ते पर निवृतिm
सेवे तस्य पदाब्जयुग्ममनिशं सौम्योपयन्तुर्मुने: || 70 ||
शठरिपुनिगमार्थतत्त्वबोधं जनयति
यःकिल वादिसिंहघोषः ।
वरवरमुनिवर्यमाश्रये तत्प्रवणधियं
प्रशमादि सद्गुणाढ्यम् || 71 ||
सर: प्रमुखदिव्यसूर्युदितदिव्यसूक्त्याशय –
प्रकाशनसमुद्भवानितरलभ्यकीत्र्युज्ज्वलम् |
गुरुं हृदि विभावयन्वरमुनिर्हि कृष्णाह्वयं
मदीयहृदये सदा सकरुणं विधत्तां स्थितिम् || 72 ||
रहस्यत्रयाख्यं जगद्देशिकोक्तं
रहस्यत्रयान्तर्गतार्थ प्रदीपम् |
विवव्रे जगद्गुप्तये य: कृपाब्धि:
स नः पातु रम्योपयन्ता मुनीन्द्र: || 73 ||
श्रीमल्लोकगुरूदिता श्रुतिशिरस्सिद्धान्तसञ्जीविनी
सा तत्त्वत्रितयाह्वया किल कृतिर्यद्व्याख्ययालङ्कृता |
श्लाघालोलफणीन्द्रमौलिविलसद्रत्नांशुनीराजिता
पायान्नस्सततं स सुन्दरवरो योगी गुणैस्सुन्दरः || 74 ||
श्रुतिस्मृतिसरोमुनिप्रभृतिसूरिसूक्तिस्फुरत्
प्रसूनरचितातुलानघवरार्यसूक्तिस्रजः।
बिभर्ति शुभसौरभश्रियमुदार यदारती
स मे दिशतु सुन्दरो वरमुनिश्शुभं शास्वतम् || 75 ||
जगद्गुरुवरानुजप्रथितचित्रगुर्वाशया –
भिधानकृतिः संप्रकाशन पटीयसी यत्कृतिः।
अनन्यसुलभा व्यनक्त्यनघशेमुषीनैपुणीं
स मे वरवरो मुनिर्वितरतु श्रियं भूयसीम् || 76 ||
कृत्वाऽनेकान्यहान्यप्रतिमनयमहाशास्त्रसंपातघोरं
तत्तादृग्वादयुद्धं यतिपतिरनयद्यं विजित्य स्वपक्षम् |
तत्प्रोक्तं ज्ञानसारं व्यवृणुत किल यो मेयसारं च सम्यक्
तस्मै नित्यं नमस्स्याद्वरवरमुनये निस्तुलोदारभूम्ने || 77 ||
प्रपन्नानां गायत्र्यमृतकवि दृष्टा यतिपति –
स्तुतिर्यद्व्यारव्याता प्रजनयति सत्वोत्तरमुदम् |
अजस्रं न: पायाद्वरमुनिवरश्शीलकरुणा –
क्षमावात्सल्याद्यैरनवधिगुणौघैस्स मधुरः || 78 ||
विष्णोर्यद्दर्शनार्चासरणिमनुसरन्नर्चनं सत्त्वभाजां
सङ्घस्सर्वोऽपि कुर्वन्जयति गुणनिधिस्तत्कटाक्षैकपात्रम् |
तस्मात्कान्तोपयन्तु: प्रणतजननिधे: श्रीमतो देशिकेन्द्रात्
नाहं नाहं न जाने परमिह शरणं दैवतं नैव जाने || 79 ||
श्रीमत्कान्तवरस्य देशिकवरस्याङ्घ्री सरोजोपमौ
संसारार्णवमग्नसर्वजनतासंतारणैकव्रतौ ।
ये ध्यायन्ति सदा तदन्यविमुखास्तद्दर्शिते सत्पथे
निष्ठां बिभ्रति सद्गुणैस्सुरभितास्तेभ्यो महद्भ्यो नम: || 80 ||
यदुदिता यतिभूपतिविंशतिस्समवधीरितशीधुसुधारसा |
विशदयत्यखिलं भविनां हितं वरमुनिस्स तनोतु शुभानि नः || 81 ||
महायोगी वक्ताऽनितरगुणसामान्यमहिमा
स तु स्तुत्य: श्रीमान् अमितगुणभूमा यतिपतिः |
अतो निस्तुल्या सा यतिनरपतेर्विशतिरिति
व्यवस्यन्तस्सन्त: कलिमिह जयन्त्युज्ज्वलधियः || 82 ||
द्राक्षामधिक्षिपति निन्दति माकरन्द –
धारां सुधारसझरीमधरीकरोति |
यत्संप्रणीतमतुलं यतिसार्वभौमस्तोत्रं
स मे वरमुनिर्वितनोतु भद्रम् || 83 ||
श्रीमद्रङ्गसुधाभिधानकविसूक्त्यर्थानुसन्धोज्ज्वला
गोदोदारवच: प्रदर्शितगुरूपायत्वनिष्ठाश्रया ।
यत्सूक्तियतिराजविंशतिनुतिर्वेदान्तसिन्धोस्सुधा
श्रीमद्रम्यवराय संयमवतां नाथाय तस्मै नमः || 84 ||
यतिवरभक्तिपूर्तिकलितार्तिसमाह्वय यत्कृतिरसवेदिन :
किल तरन्ति भवात्र्युदधिम् ।
तमनुदिनं यतीन्द्रपदपङ्कजभृङ्गवरं
वरमुनिमाश्रयाशय! विहाय तदन्यरुचिम् || 85 ||
शठारिदृष्टसामवेदभाष्यदर्शिताखिल –
प्रमाणसङ्ग्रहो महोपकारको मनीषिणाम् |
मुदं तनोति यत्कृतिस्समाश्रयस्व सादरं
मनोहरोपयन्तृयोगिनं तमन्वहं मन: || 86 ||
स्वकृतजगद्गुरुतत्त्वत्रितयव्यारव्यानमानसङ्ग्रहत: |
भविनां कृतोपकारो वरयोगी पातु नस्सततम् || 87 ||
यदीययोपदेशरत्नमालया परिष्कृता
यदङ्घ्रिपद्मशेखरा जयन्ति देशिकोत्तमाः ।
तमाश्रितस्य सुन्दरोपयन्तृयोगिशेखरं
भवार्णवोऽपि गोष्पदत्वमेति तत्प्रभावतः || 88 ||
शठारिदृष्टसामवेदमौलिसङ्ग्रहात्मिकां
यदुक्तिमन्वहं गृणन् विमुक्तिसम्पदास्पदम् |
समेधते सतां गणस्स नश्शुभानि सादरं
वरोपयन्तृयोगिराट् तरङ्गयत्वनारतम् || 89 ||
दुग्धोदन्वद्धवलमधुरं शुद्धसत्त्वैकरूपं
रूपं यस्यस्फुटयतितरां यं फणीन्द्रावतारम् |
ध्यायन्तस्तं वरवरमुनिं केऽपि धन्या महान्त :
कालं सर्वं कलुषरहिता हृष्टचित्ता हरन्ति || 90 ||
राजच्छीतमयूखमण्डलशरज्ज्योत्स्नासनाभिद्युतिः
काषायाम्बरधारिणी करलसद्दण्डत्रयीमण्डिता |
फालाद्यङ्ग समुल्लसत्सुविमलस्निग्धोर्ध्वपुण्ड्रोज्ज्वला
दीव्यन्त्यात्मगुणैस्सदा वरवराकाराऽस्तु मे भावना || 91 ||
चिन्ता मे यतिसार्वभौमचरणप्रेमात्मिका प्रोल्लसत्
शान्तिक्षान्तिदयादिसद्गुणमयी राकेन्दुभासां निधि: |
श्रीमत्स्वाङ्घ्रिसरोजभक्तजनतामोक्षप्रदानोद्यता
भूयात्सर्वजगद्धितावतरणा सौम्योपयन्त्रात्मिका || 92 ||
अङ्घ्रि शृङ्खलिताब्जकीर्तिविभवौ तन्नालदम्भच्छिदौ
जङ्घे हस्तिकर प्रशस्ति हरणोन्निद्रं तदूरुद्वयम् ।
मध्यं तानवहृद्यमायतभुजामध्यं कवाटोपमं
बाहु द्वन्द्वममर्त्यभूजविटपाहङ्कारपाटच्चरम् || 93 ||
कण्ठं कुण्ठितकम्बुडम्बरभरं वक्त्रं शरच्चन्द्रम –
स्सौन्दर्योदितगर्वचर्वणकलापाण्डित्य नित्योज्ज्वलम् |
मौलिं निस्तुलमप्यपास्त भजदातङ्कं वपुस्सादरं
तत्क्षीरोदसहोदरं वरमुनेश्चेतस्सदा भावय || 94 ||
पुण्ड्रैर्द्वादशभिर्यथाविधि धृतैश्शुभ्रैरदभ्रछविस्
तत्तादृक्छरदम्बुवाहपटलीसौन्दर्यसम्पन्निधि: |
धीभक्त्यादिगुणौघसंभृतयशस्सन्दोहसन्देहदा
मूर्तिस्सा वरयोगिन: प्रतिकलं जागर्तु चित्ते मम || 95 ||
यन्मूर्तिध्यानमार्ति शमयति भविनां ज्ञप्तिपूर्वं विधत्ते
भक्तिं पुष्णाति विष्णौ विषयविषयिणीमाशु मुष्णाति तृष्णाम् ।
सोऽयं कान्तोपयन्ता निरवधिकगुणस्तोमविस्तारिकीर्तिः
स्वर्गङ्गोत्तुङ्गवीचिप्रशमितजगतीविश्वतापोऽवतान्न: || 96 ||
मातर्वाणि! निरन्तरं कथय तान् कान्तोपयन्तुर्गुणा –
नन्तर्वाणिवरैर्वरप्रदरमावासार्यमुख्यैर्नुतान् |
पादौ तस्य करद्वयार्चय भवातङ्कापवादौ सदा
तद्भक्ताननुचिन्तयाशय! तमोवैदेशिकान् देशिकान् || 97 ||
अज्ञानामहमग्रणीरथ च मां मन्ये भृशं पण्डितं
पापीयानपि पापलेशरहितं हा! निश्चिनोमि स्वयम् |
भास्वत्कर्मविदेशगोऽपि कलये सत्कर्मनिष्ठं हृदा
धिङ्मां नाथ महामुने! तदधुना त्रातुं त्वमेव क्षमः || 98 ||
नाहं सत्कर्म कर्तुं पटुरपटुतरस्साङ्ख्ययोगं विधातुं
नैव ध्यातुं परस्मात्परममनुपमं धाम भूमानिधानम् |
नैव न्यस्यामि तस्मिन् भरमनधिगमात्तत्र विश्वासभूम्नो
भक्तेस्तस्मादुपायो वरमुनिवर मे त्वत्कृपैवानपाया || 99 ||
त्वत्सूक्त्येकरसांस्त्वदङ्घ्रियुगलन्यस्तात्मरक्षाभरान्
त्वत्सेवैकपरांस्त्वदीयकरुणास्रोतस्विनीसागरान् |
आचार्यान् मम वीक्ष्य मय्यपि भृशं निस्सीमदोषास्पदे
श्रीमन् रम्यवर! प्रसीद यमिनां राजन् नमस्ते नमः || 100 ||
श्रीमते सौम्यजामातृ मुनीन्द्रायमहात्मने |
श्रीरङ्गवासिने भूयान्नित्य श्रीर्नित्यमङ्गलम् ||
आऴ्वार् एम्बेरुमानार् जीयर् तिरुवडिगळे शरणम्
प्रतिवादिभयङ्करम् अण्णा तिरुवडिगळे शरणम्