[highlight_content]

पादुकासहस्रम् अभिषेकपद्धतिः

पादुकासहस्रम्

अभिषेकपद्धतिः

पाहि नः पादुके ! यस्याः विधास्यन् अभिषेचनम् । आभिषेचनिकं भाण्डं चक्रे रामः प्रदक्षिणम्।। 7.1
राघवस्य चरणौ पदावनि ! प्रेक्षितुं त्वदभिषेकमीषतुः । आभिषेचनिकभाण्डसन्निधौ यत् प्रदक्षिणगतिः शनैर्ययौ।। 7.2
मूर्धाभिषिक्तैर्नियमेन वाह्यौ विचिन्त्य नूनं रघुनाथपादौ । रत्नासनस्थां मणिपादुके ! त्वां रामानुजन्मा भरतोऽभ्यषिञ्चत्।। 7.3
भ्रातुर्नियोगेऽप्यनिवर्तमानं राज्याभिषेकं च परित्यजन्तम् । रामानुजौ तौ ननु पारतन्त्र्यात् उभावुभाभ्यां भवती जिगाय।। 7.4
निवेश्य रङ्गेश्वरपादरक्षे ! भद्रासने सादरमभ्यषिञ्चत् । वशी वसिष्ठो मनुवं शजानां महीक्षितां वं शपुरोहितस्त्वाम्।। 7.5
कृताभिषेका भवती यथावत् रङ्गेशपादावनि ! रत्नपीठे । गङ्गानिपातस्नपितां सुमेरोः अधित्यकाभूमिमधश्वकार।। 7.6
वसिष्ठमुख्यैर्विहिताभिषेकां राज्यासने रामनिवेशयोग्ये । तुष्टाव रङ्गेश्वरपादरक्षे ! प्राचेतसस्त्वां प्रथमः कवीनाम्।। 7.7
रक्षोवधार्थं मणिपादरक्षे ! रामात्मनो रङ्गपतेः प्रवासे । रक्षोपकारात् भवती वितेने राजन्वतीं कोसलराजधानीम्।। 7.8
प्राप्ताभिषेका मणिपादरक्षे ! प्रतापमुग्रं प्रतिपद्यमाना । शशास पृथ्वीं भवती यथावत् साकेतसिं हासनसार्वभौमी।। 7.9
दशाननादीन् मणिपादरक्षे ! जिगीषतो दाशरथेर्वियोगात् । जातोपतापा त्वयि सं प्रयुक्तैः तीर्थोदकैरुच्छ्वसिता धरित्री।। 7.10
अध्यासितं मनुमुखैः क्रमशो नरेन्द्रैः आरोप्य देवि ! भवतीं तपनीयपीठम् । राज्याभिषेकमनघं मणिपादरक्षे ! रामोचितं तव वशं भरतो वितेने।। 7.11
स्नेहेन देवि ! भवतीं विषयेऽभिषिञ्चन् द्विस्सप्तसं ख्यभुवनोदरदीपरेखाम् । जातं रघूद्वहदिवाकरविप्रयोगात् अन्धं तमिस्रमहरत् भरतः प्रजानाम्।। 7.12
हस्तापचेयपुरुषार्थफलप्रसूतेः मूलं पदावनि ! मुकुन्दमहीरुहस्त्वम् । छायाविशेषमदिशत् यदसौ प्रजानाम् आवर्जितैस्त्वयि शुभैरभिषेकतोयैः।। 7.13
अह्नाय रामविरहात् परिखिन्नवृत्तेः आश्वासनाय भवती मणिपादरक्षे ! । तीर्थाभिषेकमपदिश्य वसुन्धरायाः चक्रे तदा समुचितं शिशिरोपचारम्।। 7.14
मालिन्यमाश्रितवती मणिपादरक्षे ! पङ्केन केकयसुताकलहोत्थितेन । शुद्धिं परामधिजगाम वसुन्धरेयं त्वत्तः क्षणान्निपतितैरभिषेकतोयैः।। 7.15
आवर्जितं मुनिगणेन जगद्विभूत्यै तोयं पदावनि ! तदा त्वयि मन्त्रपूतम् । मूलावसेकसलिलं निगमद्रुमाणां शापोदकं च समभूत् क्षणदाचराणाम्।। 7.16
विप्रोषिते रघुपतौ भवती यथार्हं मान्ये पदे स्थितिमती मनुवं शजानाम् । आत्मन्यथर्वनिपुणैः प्रहितैः प्रजानाम् अश्रूण्यपास्यदभिषेकजलप्रवाहैः।। 7.17
प्रायो विशोषितरसा पतिविप्रयोगात् पर्याकुलीकृतसमुद्रपयोधरा गौः । अम्ब ! त्वदीयमभिषेकपयः पिबन्ती धेनुर्बभूव जगतां धनधान्यदोग्ध्री।। 7.18
वृत्ते यथावदभिषेकविधौ बभासे पश्चात् तवाम्ब ! भरतेन धृतः किरीटः । आकस्मिकस्वकुलविप्लवशान्तिहर्षात् प्राप्तस्त्विषामिव पतिर्मणिपादुके ! त्वाम्।। 7.19
मनुवं शपुरोहितेन मन्त्रैः अभिमन्त्र्य त्वयि पादुके ! प्रयुक्तम् । अभिषेकजलं क्षणेन राज्ञां शमयामास समुत्थितान् प्रतापान्।। 7.20
पादपादुपहृता रघूद्वहाद् आलवालमिव पीठमाश्रिता । अभ्यषेचि भवती तपोधनैः पारिजातलतिकेव पादुके !।। 7.21
अलघुभिरभिषेकव्यापृतैरम्बुभिस्ते दिनकरकुलदैन्यं पादुके ! क्षाळयिष्यन् । स खलु कमलयोनेः सूनुराधत्त मन्त्रेषु अधिकनियमयोगां शक्तिमाथर्वणेषु।। 7.22
दिनकरकुलजानां देवि ! पृथ्वीपतीनां निरुपधिमधिकारं प्राप्नुवत्यां भवत्याम् । अजनिषत समस्ताः पादुके ! तावकीन- स्नपनसलिलयोगान्निम्नगास्तुङ्गभद्राः।। 7.23
तव विधिवदुपात्ते सार्वभौमाभिषेके भरतसमयविद्भिः पादुके ! मन्त्रिमुख्यैः । त्वदवधिनिजकर्मस्थायिनीनां प्रजानां प्रथमयुगविशेषाः प्रादुरासन् विचित्राः।। 7.24
अवसितरिपुशब्दानन्वभूस्त्वं तदानीं रघुपतिपदरक्षे ! लब्धराज्याभिषेका । चलितभुजलतानां चामरग्राहिणीनां मणिवलयनिनादैर्मेदुरान् मन्त्रघोषान्।। 7.25
समुचितमभिषेकं पादुके ! प्राप्नुवत्यां त्वयि विनिपतितानां देवि ! तीर्थोदकानाम् । ध्वनिरनुगतमन्त्रः सीदतां कोसलानां शमयितुमलमासीत् सङ्कुलान् आर्तनादान्।। 7.26
दिविषदनुविधेयं देवि ! राज्याभिषेकं भरत इव यदि त्वं पादुके ! नान्वमं स्थाः । कथमिव रघुवीरः कल्पयेदल्पयत्नः त्रिचतुरशरपातैस्तादृशं देवकार्यम्।। 7.27
कतिचन पदपद्मस्पर्शसौख्यं त्यजन्ती व्रतमतुलमधास्त्वं वत्सरान् सावधाना । रघुपतिपदरक्षे ! राक्षसैस्त्रासितानां रणरणकविमुक्तं येन राज्यं सुराणाम्।। 7.28
अथर्वोपज्ञं ते विधिवदभिषेकं विदधतां वसिष्ठादीनामप्युपचितचमत्कारभरया । त्वदास्थान्या रङ्गक्षितिरमणपादावनि ! तदा लघीयस्यो जाता रघुपरिषदाहोपुरुषिकाः।। 7.29
अभिषेचयतु स रामः पदेन वा स्पृशतु पादुके ! भवतीम् । अविशेषितमहिमा त्वं क्व वा विशेषः क्षमासमेतानाम्।। 7.30

*******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.