पादुकासहस्रम्
परागपद्धतिः
पान्तु वः पद्मनाभस्य पादुकाकेळिपां सवः । अहल्यादेहनिर्माणपर्यायपरमाणवः।। 13.1
तव सञ्चरणाद्रजो विधूतं यदिदं रङ्गनरेन्द्रपादरक्षे ! । अलमेतदनाविलानि कर्तुं कतकक्षोद इवाशु मानसानि।। 13.2
पुनरुक्तपितामहानुभावाः पुरुषाः केचिदमी पुनन्ति विश्वम् । मधुवैरिपदारविन्दबन्धोः अपरागास्तव पादुके ! परागैः।। 13.3
अभियुक्तजनो निजार्भकाणां बहुशो रङ्गनरेन्द्रपादरक्षे ! । अवलेपपिशाचमोचनार्थं रजसा लिम्पति तावकेन देहान्।। 13.4
शिरसा परिगृह्य लोकपालाः तव रङ्गेश्वरपादुके ! रजां सि । विषमेषु बलेषु दानवानां व्यपनीतान्यशिरस्त्रमाविशन्ति।। 13.5
कृतिनः शिरसा समुद्वहन्तः कतिचित् केशवपादुके ! रजस्ते । रजसस्तमसोऽपि दूरभूतं परिपश्यन्ति विशुद्धमेव सत्त्वम्।। 13.6
अधिकं पदमाश्रितोऽपि वेधाः प्रयतो रङ्गधुरीणपादरक्षे ! । अभिवाञ्छति सङ्गमं परागैः अभिजातैस्तव देवि ! नाभिजातः।। 13.7
शुद्धसत्त्ववपुषैव भवत्या पादुके ! विरजसौ हरिपादौ । अस्तु किं पुनरिदं रजसा ते शुद्धसत्त्वमयता मनुजानाम्।। 13.8
तद्रजस्तव तनोति पादुके ! मानसान्यकठिनानि देहिनाम् । प्रस्तरस्य पदवीगतस्य यत् व्याचकार मुनिधर्मदारताम्।। 13.9
रङ्गेशयस्य पुरुषस्य जगद्विभूत्यै रथ्यापरिक्रमविधौ मणिपादरक्षे ! । सीमन्तदेशमनवद्यसरस्वतीनां सिन्दूरयन्ति भवतीचरिताः परागाः।। 13.10
मान्येन रङ्गनृपतेर्मणिपादरक्षे ! चूडापदानि रजसा तव भूषयन्तः । कालक्रमेण भजतां कमलासनत्वं नाभीसरोजरजसां निवसन्ति मध्ये।। 13.11
मातर्मुकुन्दचरणावनि ! तावकीनाः चिन्तावशीकरणचूर्णविशेषकल्पाः । सञ्चारपां सुकणिकाः शिरसा वहन्तो विश्वं पुनन्ति पदपद्मपरागलेशैः।। 13.12
आयोजितान्यमलधीभिरनन्यलभ्ये पादावनि ! श्रुतिवधूपटवासकृत्ये । त्वत्सञ्चरप्रचलितानि रजां सि शौरेः प्रख्यापयन्ति पदपद्मपरागशोभाम्।। 13.13
मूर्धानमम्ब ! मुरभिन्मणिपादरक्षे ! येषां कदाऽपि रजसा भवती पुनाति । त्वामेव ते सुकृतिनः स्नपयन्ति काले मन्दारदामरजसा मकुटच्युतेन।। 13.14
रथ्याविहाररजसा परिधूसराङ्गीं रङ्गेश्वरस्य लळितेषु महोत्सवेषु । प्रस्फोटयत्यवनतो मणिपादुके ! त्वां गौरीपतिः स्वयमिभाजिनपल्लवेन।। 13.15
नेदीयसां निजपरागनिवेशपूर्वं स्पृष्ट्वा शिरां सि भवती भवरोगभाजाम् । गाढं निपीड्य गरुडध्वजपादरक्षे ! मानग्रहं शमयतीव परैरसाध्यम्।। 13.16
आपातवल्लवतनोरकुमारयूनः पादावनि ! प्रविशतो यमुनानिकुञ्जान् । आसीदनङ्गसमरात् पुरतः प्रवृत्तः सेनापराग इव ते पदवीपरागः।। 13.17
गङ्गापगातटलतागृहमाश्रयन्त्याः पादावनि ! प्रचलितं पदवीरजस्ते । प्रायेण पावनतमं प्रणतस्य शम्भोः उद्धूळनं किमपि नूतनमातनोति।। 13.18
अन्ते तदा त्वमविळम्बितमानयन्ती रङ्गाद् भुजङ्गशयनं मणिपादरक्षे ! । कामं निवर्तयितुमर्हसि सं ज्वरं मे कर्पूरचूर्णपटलैरिव धूळिभिस्ते।। 13.19
रङ्गेशपादसहधर्मचरि ! त्वदीयान् मौळौ निवेश्य महितान् पदवीपरागान् । सन्तस्त्रिवर्गपदवीमतिलङ्घयन्तो मौळौ पदं विदधते विबुधेश्वराणाम्।। 13.20
मातस्तदा माधवपादरक्षे ! त्वयि प्रसक्तं त्वरयोपयान्त्याम् । परामृशेयं पदवीपरागं प्राणैः प्रयाणाय समुज्जिहानैः।। 13.21
तथागता राघवपादरक्षे ! सं पश्यमानेषु तपोधनेषु । आसीदहल्या तव पां सुलेशैः अपां सुलानां स्वयमग्रगण्या।। 13.22
पश्यामि पद्मेक्षणपादरक्षे ! भवाम्बुधिं पातुमिव प्रवृत्तान् । भक्तोपयानत्वरया भवत्याः पर्यस्यमानान् पदवीपरागान्।। 13.23
पञ्चायुधी भूषणमेव शौरेः यतस्तवैते मणिपादरक्षे ! । वितन्वते व्याप्तदिशः परागाः शान्तोदयान् शत्रुचमूपरागान्।। 13.24
परिणतिमकठोरां प्राप्तया यत्प्रभावात् अलभत शिलया स्वान् गौतमो धर्मदारान् । पुनरुपजनिशङ्कावारकं पादुके ! तत् प्रशमयति रजस्ते रागयोगं प्रजानाम्।। 13.25
रजनिविगमकाले रामगाथां पठन्तः कुशिकतनयमुख्याः पादुके ! भावयन्ते । उपलशकलसक्तैस्त्वत्परागैरकाण्डे जनितमुनिकळत्रान् दण्डकारण्यभागान्।। 13.26
शुभसरणिरजोभिः शोभयन्ती धरित्रीं परिणतिरमणीयान् प्रक्षरन्ती पुमर्थान् । भवसि भुवनवन्द्या पादुके ! रङ्गभर्तुः शरणमुपगतानां शाश्वती कामधेनुः।। 13.27
पवनतरळितस्ते पादुके ! रङ्गभर्तुः विहरणसमयेषु व्याप्तविश्वः परागः । विषमविषयवर्त्मव्याकुलानामजस्रं व्यपनयति जनानां वासनारेणुजालम्।। 13.28
निष्प्रत्यूहमुपासिषीमहि मुहुर्निश्शेषदोषच्छिदो नित्यं रङ्गधुरन्धरस्य निगमस्तोमार्चिते पादुके ! । धत्ते मूर्धभिरादिपद्मजनिता तत्तादृशी सन्ततिः यत्सञ्चारपवित्रितक्षितिरजः पङ्क्तिं चतुष्पञ्चषैः।। 13.29
रजसा परोरजस्तन्न खलु न लङ्घ्येत भगवतोऽपि पदम् । किमुत हृदयं मदीयं भवती यदि नाम पादुके ! न स्यात्।। 13.30
*******