[highlight_content]

पादुकासहस्रम् बिम्बप्रतिबिम्बपद्धतिः

पादुकासहस्रम्

बिम्बप्रतिबिम्बपद्धतिः

शौरेः शुद्धान्तनारीणां विहारमणिदर्पणम् । प्रसत्तेरिव सं स्थानं पदत्राणमुपास्महे।। 21.1
कमलापतिपादुके ! कदाचिद् विहगेन्द्रस्त्वयि बिम्बितो विभाति । सविलासगतेऽपि रङ्गभर्तुः निजमात्मानमिवोपधातुकामः।। 21.2
मणिपङ्क्तिषु ते दिशामधीशाः प्रतिबिम्बानि निजानि वीक्षमाणाः । अभियन्ति मुकुन्दपादुके ! त्वां अधिकारान्तरसृष्टिशङ्कयेव।। 21.3
मणिमौळिशतेन बिम्बितेन प्रणतानां परितः सुरासुराणाम् । मुरभिन्मणिपादुके ! महिम्ना युगपत्तेषु समर्पितेव भासि।। 21.4
उपनीतमुपायनं सुरेन्द्रैः प्रतिबिम्बच्छलतस्त्वयि प्रविष्टम् । स्वयमेव किल प्रसादभूम्ना प्रतिगृह्णासि मुकुन्दपादुके ! त्वम्।। 21.5
रङ्गेश्वरस्य नवपल्लवलोभनीयौ पादौ कथन्नु कठिना स्वयमुद्वहेयम् । इत्याकलय्य नियतं मणिपादुके ! त्वं पद्मास्तरं वहसि तत्प्रतिबिम्बलक्षात्।। 21.6
पादार्पणात् प्रथमतो हरिदश्मरम्ये मध्ये तव प्रतिफलन्मणिपादरक्षे ! । मन्ये निदर्शयति रङ्गपतिर्युगान्ते न्यग्रोधपत्रशयितं निजमेव रूपम्।। 21.7
यात्रावसानमधिगच्छति रङ्गनाथे विश्राणयस्यनुपदं मणिपादुके ! त्वम् । प्रायः प्रयाणसमये प्रतिबिम्बितानां तीर्थावगाहमपरं त्रिदशेश्वराणाम्।। 21.8
उच्चावचेषु तव रत्नगणेषु मातः ! वेधाः प्रयाणसमये प्रतिबिम्बिताङ्गः । आशङ्कते मुरभिदो मणिपादुके ! त्वाम् आगामिकल्पकमलासनपङ्क्तिगर्भाम्।। 21.9
आलोलरश्मिनियतां मणिपादुके ! त्वाम् आरुह्य सञ्चरति रङ्गपतौ सलीलम् । अन्तः पुरेषु युगपत्सुदृशो भजन्ते डोळाधिरोहणरसं त्वयि बिम्बिताङ्ग्यः।। 21.10
कालेषु राघवपदावनि ! भक्तिनम्रः कार्याणि देवि ! भरतो विनिवेदयं स्ते । त्वद्रत्नबिम्बिततयाऽपि मुहुः स्वकीयां राजासनस्थितिमवेक्ष्य भृशं ललज्जे।। 21.11
प्रत्यागते विजयिनि प्रथमे रघूणां विन्यस्यति त्वयि पदं मणिपादरक्षे ! । रत्नौघबिम्बितनिशाचरवानरां त्वां पूर्वक्षणस्थमिव पुष्पकमन्वपश्यन्।। 21.12
वैयाकुलीं शमयितुं जगतो वहन्त्या रक्षाधुरां रघुधुरन्धरपादरक्षे ! । प्राज्यं यशः प्रचुरचामरबिम्बलक्षात् प्रायस्त्वया कबळितं प्रतिभूपतीनाम्।। 21.13
प्रतिदिशमुपयाते देवि ! यात्रोत्सवार्थं त्वयि विहरणकाले बिम्बिते जीवलोके । वहसि मणिगणैस्त्वं पादुके ! रङ्गभर्तुः कबळितसकलार्थां काञ्चिदन्यामवस्थाम्।। 21.14
भगवति गरुडस्थे वाहनस्थाः सुरेन्द्राः त्वयि विनिहितपादे भूमिमेवाश्रयन्ति । तदपि चरणरक्षे ! रत्नजाले त्वदीये प्रतिफलितनिजाङ्गास्तुल्यवाहा भवन्ति।। 21.15
स्वच्छाकारां सुरयुवतयः स्वप्रतिच्छन्दलक्ष्यात् गाहन्ते त्वां प्रणतिसमये पादुके ! साभिमानाः । स्त्रीरत्नानां परिभवविधौ सृष्टिमात्रेण दक्षां नीचैः कर्तुं नरसखमुनेरूर्वशीमूरुजाताम्।। 21.16
स्वेच्छाकेळिप्रियसहचरीं स्वच्छरत्नाभिरामाम् स्थाने स्थाने निहितचरणो निर्विशन् रङ्गनाथः । सञ्चारान्ते सह कमलया शेषशय्याधिरूढः त्यक्त्वाऽपि त्वां त्यजति न पुनः स्वप्रतिच्छन्दलक्षात्।। 21.17
त्वामेवैकामधिगतवतः केळिसञ्चारकाले पार्श्वे स्थित्वा विनिहितदृशोः पादुकेऽनन्यलक्ष्यम् । त्वद्रत्नेषु प्रतिफलितयोर्नित्यलक्ष्यप्रसादा पद्माभूम्योर्दिशति भवती पादसेवां मुरारेः।। 21.18
एकामेकः किल निरविशत्पादुके ! द्वारकायां क्रीडायोगी कृतबहुतनुः षोडशस्त्रीसहस्रे । शुद्धे देवि ! त्वदुपनिहिते बिम्बितो रत्नजाले भुङ्क्ते नित्यं स खलु भवतीं भूमिकानां सहस्रैः।। 21.19
हरिपदनखेषु भवती प्रतिफलति तवैतदपि च रत्नेषु । उचिता मिथः पदावनि ! बिम्बप्रतिबिम्बता युवयोः।। 21.20

******

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.