पादुकासहस्रम्
शेषपद्धतिः
सृष्ट् आं भूमावनन्तेन नित्यं शेषसमाधिना । अहं सम्भावयामि त्वामात्मानमिव पादुके !।। 23.1
पद्माभोगात् पादुके ! रङ्गभर्तुः पादस्पर्शाद्भोगमन्यं प्रपित्सोः । शेषस्यैकां भूमिकामब्रवीत् त्वां आचार्याणामग्रणीर्यामुनेयः।। 23.2
शेषत्वमम्ब ! यदि सं श्रयति प्रकामं त्वद्भूमिकां समधिगम्य भुजङ्गराजः । त्वामेव भक्तिविनतैर्वहतां शिरोभिः काष्ठां गतं तदिह केशवपादरक्षे !।। 23.3
मा भूदियं मयि निषण्णपदस्य नित्यं विश्वं भरस्य वहनाद्व्यथितेति मत्वा । धत्से बलाभ्यधिकया मणिपादुके ! त्वं शेषात्मना वसुमतीं निजयैव मूर्त्या।। 23.4
तत्तादृशा निजबलेन निरूढकीर्तिः शेषस्तवैव परिणामविशेष एषः । रामेण सत्यवचसा यदनन्यवाह्यां वोढुं पुरा वसुमतीं भवती नियुक्ता।। 23.5
शेषत्वसीमनियतां मणिपादरक्षे ! त्वामागमाः कुलवधूमिव बालपुत्राः । त्वद्रूपभेदशयितस्य परस्य पुं सः पादोपधानशयितामुपधानयन्ति।। 23.6
भरतशिरसि लग्नां पादुके ! दूरतस्त्वां स्वतनुमपि ववन्दे लक्ष्मणः शेषभूतः । किमिदमिह विचित्रं नित्ययुक्तः सिषेवे दशरथतनयः सन् रङ्गनाथः स्वमेव।। 23.7
भूयोभूयः स्तिमितचलिते यस्य सङ्कल्पसिन्धौ ब्रह्मेशानप्रभृतय इमे बुद्बुदत्वं भजन्ति । तस्यानादेर्युगपरिणतौ योगनिद्रानुरूपं क्रीडातल्पं किमपि तनुते पादुके ! भूमिकाऽन्या।। 23.8
अहीनात्मा रङ्गक्षितिरमणपादावनि ! सदा सतामित्थं त्राणात् प्रथितनिजसत्रत्वविभवा । अविद्यायामिन्याः स्पृशसि पुनरेकाहपदवीं क्रतूनामाराध्या क्रतुरपि च सर्वस्त्वमसि नः।। 23.9
बहुमुखभोगसमेतैर्निर्मुक्ततया विशुद्धिमापन्नैः । शेषात्मिका पदावनि ! निषेव्यसे शेषभूतैस्त्वम्।। 23.10
******