पादुका-सहस्रम्
समाख्यापद्धतिः
वन्दे विष्णुपदासक्तं तमृषिं ताञ्च पादुकाम् । यथार्था शठजित्सं ज्ञा मच्चित्तविजयाद्ययोः।। 2.1
द्रमिडोपनिषन्निवेशशून्यान् अपि लक्ष्मीरमणाय रोचयिष्यन् । ध्रुवमाविशति स्म पादुकात्मा शठकोपः स्वयमेव माननीयः।। 2.2
नियतं मणिपादुके ! दधानः स मुनिस्ते शठकोप इत्यभिख्याम् । त्वदुपाश्रितपादजातवंश- प्रतिपत्त्यै परमाततान रूपम्।। 2.3
मुनिना मणिपादुके ! त्वया च प्रथिताभ्यां शठकोपसं ज्ञयैव । द्वितयं सकलोपजीव्यमासीत् प्रथमेन श्रुतिरन्यतस्तदर्थः।। 2.4
आकर्ण्य कर्णामृतमात्मवन्तो गाथासहस्रं शठकोपसूरेः । मञ्जुप्रणादां मणिपादुके ! त्वाम् तदेकनामानमनुस्मरन्ति।। 2.5
यः सप्तपर्वव्यवधानतुङ्गां शेषत्वकाष्ठामभजन्मुरारेः । तस्यापि नामोद्वहनात् त्वयाऽसौ लघूकृतोऽभूच्छठकोपसूरिः।। 2.6
शय्यात्मना मधुरिपोरसि शेषभूता पादाश्रयेण च पुनर्द्विगुणीकृतं तत् । भूयोऽपि भागवतशेषतया तदेव व्यङ्क्तुं पदावनि ! शठारिपदं बिभर्षि।। 2.7
पद्येन देवि ! शठकोपमुनिस्तवासीत् तस्यापि नामवहनान्मणिपादुके ! त्वम् । शेषी बभूव युवयोरपि शेषशायी शेषं त्वशेषमपि शेषपदे स्थितं वः।। 2.8
विन्ध्यस्तम्भादविहतगतेर्विष्वगाचान्तसिन्धोः कुम्भीसूनोरसुरकबलग्रासिनः स्वैरभाषा । नित्यं जाता शठरिपुतनोर्निष्पतन्ती मुखात्ते प्राचीनानां श्रुतिपरिषदां पादुके ! पूर्वगण्या।। 2.9
शठकोप इति समाख्या तव रङ्गधुरीणपादुके ! युक्ता । सूते सहस्रमेवं सूक्तीः स्वयमेव यन्मया भवती।। 2.10
*******