पादुकासहस्रम्
सुभाषितपद्धतिः
कलासु काष्ठामातिष्ठन् भूम्ने सम्बन्धिनामपि । पादुका रङ्गधुर्यस्य भरताराध्यतां गता।। 28.1
सन्तः स्वदेशपरदेशविभागशून्यं हन्त स्ववृत्तिमनघां न परित्यजन्ति । राज्ये वने च रघुपुङ्गवपादरक्षा नैजं जहौ न खलु कण्टकशोधनं तत्।। 28.2
ब्रह्मास्त्रतामधिजगाम तृणं प्रयुक्तं पुण्यं शरव्यमभवत् पयसान्निधिर्वा । पृथ्वीं शशास परिमुक्तपदं पदत्रं किं वा न किं भवति केळिविधौ विभूनाम्।। 28.3
अन्येषु सत्स्वपि नरेन्द्रसुतेषु दैवाद् भ्रष्टः पदादधिकरोति पदं पदार्हः । प्रायो निदर्शयति तत् प्रथमो रघूणां तत्पादयोः प्रतिनिधी मणिपादुके वा।। 28.4
चरणमनघवृत्तेः कस्यचित्प्राप्य नित्यं सकलभुवनगुप्त्यै सत्पथे वर्तते यः । नरपतिबहुमानं पादुकेवाधिगच्छन् स भवति समयेषु प्रेक्षितज्ञैरुपास्यः।। 28.5
रामे राज्यं पितुरभिमतं सम्मतं च प्रजानां माता वव्रे तदिह भरते सत्यवादी ददौ च । चिन्तातीतः समजनि तदा पादुकाग्र्याभिषेको दुर्विज्ञानस्वहृदयमहो दैवमत्र प्रमाणम्।। 28.6
नातिक्रामेच्चरणवहनात्पादुका पादपीठं यद्वाऽऽसन्नं परमिह सदा भाति राजासनस्य । पूर्वत्रैव प्रणिहितमभूद्धन्त रामेण राज्यं शङ्के भर्तुर्बहुमतिपदं विक्रमे साहचर्यम्।। 28.7
प्रतिपदचपलाऽपि पादुका रघुपतिना स्वपदे निवेशिता । समजनि निभृतस्थितिस्तदा भवति गुणः श्रियमभ्युपेयुषाम्।। 28.8
गतिहेतुरभूत् क्वचित्पदे स्थितिहेतुर्मणिपादुका क्वचित् । न हि वस्तुषु शक्तिनिश्चयो नियतिः केवलमीश्वरेच्छया।। 28.9
अधरीकृतोऽपि महता तमेव सेवेत सादरं भूष्णुः । अलभत समये रामात् पादाक्रान्ताऽपि पादुका राज्यम्।। 28.10
******