श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीकामासिकाष्टकम्
श्रुतीनामुत्तरं भागं वेगवत्याश्च दक्षिणम् । कामादधिवसन् जीयात् कश्चिदद्भुतकेसरी ॥
तपनेन्द्वग्निनयनः तापानपचिनोतु नः । तापनीयरहस्यानां सारः कामासिकाहरिः ॥
आकण्ठमादिपुरुषं कण्ठीरवमुपरि कुण्ठितारातिम् । वेगोपकण्ठसङ्गात् विमुक्तवैकुण्ठबहुमतिमुपासे ॥
बन्धुमखिलस्य जन्तोः बन्धुरपर्यङ्कबन्धरमणीयम् । विषमविलोचनमीडे वेगवतीपुळिनकेळिनरसिंहम् ॥
स्वस्थानेषु मरुद्गणान् नियमयन् स्वाधीनसर्वेन्द्रियः पर्यङ्कस्थिरधारणाप्रकटितप्रत्यङ्मुखावस्थितिः ।
प्रायेण प्रणिपेदुषां प्रभुरसौ योगं निजं शिक्षयन् कामानातनुतादशेषजगतां कामासिकाकेसरी ॥
विकस्वरनखस्वरुक्षतहिरण्यवक्षःस्थली निरर्गळविनिर्गळद्रुधिरसिन्धुसन्ध्यायिताः ।
अवन्तु मदनासिकामनुजपञ्चवक्त्रस्य माम् अहंप्रथमिकामिथःप्रकटिताहवा बाहवः ॥
सटापटलभीषणे सरभसाट्टहासोद्भटे स्फुरत्क्रुधि परिस्फुटद्भ्रुकुटिकेऽपि वक्त्रे कृते ।
कृपा कपटकेसरिन् दनुजडिम्भदत्तस्तना सरोजसदृशा दृशा व्यतिभिषज्य ते व्यज्यते ॥
त्वयि रक्षति रक्षकैः किमन्यैः त्वयि चारक्षति रक्षकैः किमन्यैः ।
इति निश्चितधीः श्रयामि नित्यं नृहरे वेगवतीतटाश्रयं त्वाम् ॥
इत्थं स्तुतः सकृदिहाष्टभिरेष पद्यैः श्रीवेङ्कटेशरचितैस्त्रिदशेन्द्रवन्द्यः ।
दुर्दान्तघोरदुरितद्विरदेन्द्रभेदी कामासिकानरहरिर्वितनोतु कामान् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥