श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीगरुडपञ्चाशत्
अङ्गेष्वानन्दमुख्यश्रुतिशिखरमिलद्दण्डकं गण्डपूर्वं
प्रागेवाभ्यस्य षट्सु प्रतिदिशमनघं न्यस्यशुद्धास्त्रबन्धाः ।
पक्षिव्यत्यस्तपक्षिद्वितयमुखपुटप्रस्फुटोदारतारं
मन्त्रं गारुत्मतं तं हुतवहदयिताशेखरं शीलयामः ।।
वेदः स्वार्थाधिरूढो बहिरबहिरभिव्यक्तिमभ्येति यस्यां
सिद्धिः सांकर्षणी सा परिणमति यया सापवर्गत्रिवर्गा ।
प्राणस्य प्राणमन्यं प्रणिहितमनसो यत्र निर्धारयन्ति
प्राची सा ब्रह्मविद्या परिचितगहना पातु गारुत्मती नः ।।
नेत्रं गायत्रमूचे त्रिवृदिति च शिरो नामधेयं यजूंषि
छन्दांस्यङ्गानि धिष्ण्यात्मभिरजनि शफैर्विग्रहो वामदेव्यम् ।
यस्य स्तोमात्मनोऽसौ बृहदितर गरुत्तादृशाम्नायपुच्छः
स्वाच्छन्द्यं नः प्रसूतां श्रुतिशतशिखराभिष्टुतात्मा गरुत्मान् ।।
यो यं धत्ते स्वनिष्टं वहनमपि वरः स्पर्शितो येन यस्मै
यस्माद्यस्याहवश्रीर्विदधति भजनं यत्र यत्रेति सन्तः ।
प्रायो देवः स इत्थं हरिगरुडभिदाकल्पितारोहवाह
स्वाभाव्यः स्वात्मभव्यः प्रदिशतु शकुनिर्ब्रह्यसब्रह्मतां नः ।।
एको विष्णोर्द्वितीयस्त्रिचतुरविदितं पञ्चवर्णीरहस्यं
षाङ्गुण्यस्मेरसप्तस्वरगतिरणिमाद्यष्टसंपन्नवात्मा ।
देवो दर्वीकरारिर्दशशतनयनारातिसाहस्रलक्षैः
विक्रीडत्पक्षकोटिर्विघटयतु भयं वीतसंख्योदयो नः ।।
सत्याद्यैः सात्वतादिप्रथितमहिमभिः पञ्चभिर्व्यूहभेदैः
पञ्चाभिख्यो निरुन्धन् भवगरळभवं प्राणिनां पञ्चभावम् ।
प्राणापानादिभेदात् प्रतितनु मरुतो दैवतं पञ्चवृत्तेः
पञ्चात्मा पञ्चधाऽसौ पुरुष उपनिषद्घोषितस्तोषयेन्नः ।।
श्लिष्यद्भोगीन्द्रभोगे श्रुतिनिकरनिधौ मूर्तिभेदे स्वकीये
वर्णव्यक्तीर्विचित्राः परिकलयति यो वक्त्रबाहुरुपादैः
प्राणः सर्वस्य जन्तोः प्रकटितपरमब्रह्मभावः स इत्थं
क्लेशं छिन्दन् खगेशः सपदि विपदि नः सन्निधिः सन्निधत्ताम् ।।
अग्रे तिष्ठन्नुदग्रो मणिमुकुर इवानन्यदृष्टेर्मुरारेः
पायान्मायाभुजङ्गीविषमविषभयाद्गाढमस्मान् गरुत्मान् ।
क्षुभ्यत्क्षीराब्धिपाथःसहभवगरळस्पर्शशङ्की स शङ्के
छायां धत्ते यदीयां हृदि हरिहृदयारोहधन्यो मणीन्द्रः ।।
आहर्तारं सुधाया दुरधिगममहाचक्रदुर्गस्थितायाः
जेतारं वज्रपाणेः सह विबुधगणैराहवे बाहुवेगात् ।
विष्णौ संप्रीयमाणे वरविनिमयतो विश्वविख्यातकीर्तिं
देवं याऽसूत साऽसौ दिशतु भगवती शर्म दाक्षायणी नः ।।
वित्रासाद्वीतिहोत्रं प्रथममधिगतैरन्तिके मन्दधाम्ना
भूयस्तेनैव सार्धं भयभरतरळैर्वन्दितो देवबृन्दैः ।
कल्पान्तक्षोभदक्षं कथमपि कृपया संक्षिपन् धाम चण्डं
भित्त्वाऽण्डं निर्जिहानो भवभयमिह नः खण्डयत्वण्डजेन्द्रः ।।
क्षुण्णक्षोणीधराणि क्षुभितचतुरकूपारतिम्यद्गरुन्ति
त्रुट्यत्तारासराणि स्थपुटितविबुधस्थानकानि क्षिपेयुः ।
पाताळब्रह्मसौधावधिविहितमुधावर्तनान्यस्मदार्तिं
ब्रह्माण्डस्यान्तराले बृहति खगपतेरर्भक क्रीडितानि ।।
संविच्छस्त्रं दिशन्त्या सह विजयचमूराशिषः प्रेषयन्त्या
संबध्नन्त्या तनुत्रं सुचरितमशनं पक्कणं निर्दिशन्त्या ।
एनोऽस्मद्वैनतेयो नुदतु विनतया क्लृप्तरक्षाविशेषः
कद्रुसंकेतदास्यक्षपणपणसुधालक्षभैक्षं जिघृक्षुः ।।
विक्षेपैः पक्षतीनामनिभृतगतिभिर्वादितव्योमतूर्यो
वाचालाम्भोधिवीचीवलयविरचितालोकशब्दानुबन्धः ।
दिक्कन्याकीर्यमाणक्षरदुडुनिकरव्याजलाजाभिषेको
नाकोन्माथाय गच्छन् नरकमपि स मे नागहन्ता निहन्तु ।।
ऋक्षाक्षक्षेपदक्षो मिहिरहिमकरोत्तालताळाभिघाती
वेलावाःकेळिलोलो विविधघनघटाकन्दुकाघातशीलः ।
पायान्नः पातकेभ्यः पतगकुलपतेः पक्षविक्षेपजातो
वातः पाताळहेलापटहपटुरवारम्भसंरम्भधीरः ।।
किं निर्घातः किमर्कः परिपतति दिवः किं समिद्धोऽयमौर्वः
किंस्वित् कार्तस्वराद्रिर्ननु विदितमिदं व्योमवर्त्मा गरुत्मान् ।
आसीदत्याजिहीर्षत्यभिपतति हरत्यत्ति हा तात हाऽम्बेति
आलापोद्युक्तभिल्लाकुलजठरपुटः पातु नः पत्रिनाथः ।।
आसृक्व्याप्तैरसृग्भिर्दुरुपरमतृषाशातनी शातदंष्ट्रा-
कोटीलोटत्करोटीविकटकटकटारावघोरावतारा ।
भिन्द्यात् सार्धं पुलिन्द्या सपदि परिहृतब्रह्मका जिह्मगारेः
उद्वेल्लद्भिल्लपल्लीनिगरणकरणा पारणा कारणां नः ।।
स्वच्छन्दस्वर्गिबृन्दप्रथमतममहोत्पातनिर्घातघोरः
स्वान्तध्वान्तं निरुन्ध्याद्धुतधरणिपयोराशिराशीविषारेः ।
प्रत्युद्यद्भिल्लपल्लीभटरुधिरसरिल्लोलकल्लोलमाला-
हालानिर्वेशहेला हलहल बहुलो हर्ष कोलाहलो न: ।।
सान्द्रक्रोधानुबन्धात् सरसि नखमुखे पादपे गण्डशैले
तुण्डाग्रे कण्ठरन्ध्रे तदनु च जठरे निर्विशेषं युयुत्सू ।
अव्यादस्मानभव्यादविदितनखरश्रेणिदंष्ट्रानिवेशौ
जीवग्राहं गृहीत्वा कमठकरटिनौ भक्षयन् पक्षिमल्लः ।।
अल्पः कल्पान्तलीलानटमकुटसुधासूतिखण्डोबहुनां
निःसारस्त्वद्भुजाद्रेरनुभवतु मुधा मन्थनं त्वेष सिन्धुः ।
राकाचन्द्रस्तु राहोः स्वमिति कथयतः प्रेक्ष्य कद्रुकुमारान्
सान्तर्हासं खगेन्द्रः सपदि हृतसुधस्त्रायतामायतान्नः ।।
आरादभ्युत्थितैरावतममितजवोदञ्चद्रुच्चैःश्रवस्कं
जातक्षोभं विमथ्नन् दिशि दिशि दिविषद्वाहिनीशं क्षणेन ।
भ्राम्यन् सव्यापसव्यं सुमहति मिषति स्वर्गिसार्थे सुधार्थं
प्रेङ्खन्नेत्रः श्रियं नः प्रकटयतु चिरं पक्षवान् मन्यशैलः ।।
अस्थानेषु ग्रहाणामनियतविहितानन्तवक्रातिचाराः
विश्वोपाधिव्यवस्थाविगमविलुलितप्रागवागादिभेदाः ।
द्वित्राः सुत्रामभक्तग्रहकलहविधावण्डजेन्द्रस्यचण्डाः
पक्षोत्क्षेपा विपक्षक्षपणसरभसाः शर्म मे निर्मिमीरन् ।।
तत्तत्प्रत्यर्थिसारावधिविहितमृषारोषगन्धो रुषान्धैः
एकः क्रिडन्ननेकैः सुरपतिसुभटैरक्षतो रक्षतान्नः ।
अन्योन्याबद्धलक्षापहरणविहितामन्दमात्सर्यतुङ्गैः
अङ्गैरेव स्वकीयैरहमहमिकया मानितो वैनतेयः ।।
अस्तव्योमान्तमन्तर्हितनिखिलहरिन्मण्डलं चण्डभानोः
लुण्टाकैर्यैरकाण्डे जगदखिलमिदं शर्वरी वर्वरीति ।
प्रेङ्खोलत्स्वर्गगोळः स्थलदुडुनिकरस्कन्धबन्धान् निरुन्धन्
रंहोभिस्तैर्मदम्हो हरतु तरळितब्रह्यसद्मा गरुत्मान् ।।
यः स्वाङ्गे संगरान्तर्गरुदनिललवस्तम्भिते जम्भशत्रौ
कुण्ठास्त्रे सन्नकण्ठं प्रणयति पवये पक्षलेशं दिदेश ।
सोऽस्माकं संविधत्तां सुरपतिपृतनाद्वन्द्वयुद्धैकमल्लः
माङ्गल्यं वालखिल्यद्विजवरतपसां कोऽपि मूर्तो विवर्तः ।।
रुद्रान् विद्राव्य सेन्द्रान् हुतवहसहितं गन्धवाहं गृहीत्वा
कालं निष्काल्य धूत्वा निऋंतिधनपती पाशिनं क्लेशयित्वा
सर्पाणां छाद्मिकानाममृतमयपणप्रापणप्राप्तदर्पः
निर्बाधं क्वापि सर्पन्नपहरतु हरेरौपवाह्यो मदंहः ।।
भुग्नभ्रूर्भ्रूकुटीभूद्भ्रमदमितगरुत् क्षोभितक्ष्मान्तरिक्षः
चक्राक्षो वक्रतुण्ड खरतर नखरः क्रूर दंष्ट्राकरालः ।
पायादस्मान् अपायाद् भयभर विगलद्दन्दशूकेन्द्र शूकः
शौरेः संक्रन्दनादि प्रतिभट पृतना क्रन्दनः स्यन्दनेन्द्रः ।।
अर्यम्णा धुर्ययोक्त्र ग्रहण भय भृता सान्त्वितोऽनूरुबन्धात्
कोदण्डज्यां जिघृक्षेदिति चकित धिया शङ्कितः शंकरेण ।
तल्पे कल्पेत मा ते मतिरिति हरिणाऽप्यादरेणानुनीतः
पक्षीन्द्रस्त्रायतां नः फणधर महिषी पत्रभङ्गापहारी ।।
छायातार्क्ष्यानहीनां फणमणि मुकुर श्रेणि विस्पष्ट बिम्बान्
त्राणापेक्षा धृत स्वप्रतिकृति मनसा वीक्ष्य जातानुकम्पः
तेषां दृष्ट्वाऽथ चेष्टाः प्रति गरुड गणा शङ्कया तुङ्गरोषः
सर्पन् दर्पोद्धतो नः शमयतु दुरितं सर्प सन्तान हन्ता ।।
उच्छ्वासाकृष्ट तारागण घटित मृषा मौक्तिकाकल्प शिल्पः
पक्ष व्याधूत पाथो निधि कुहर गुहा गर्भदत्तावकाशः
दृष्टिं दंष्ट्राग्र दूतींपृथुषु फण भृतां प्रेषयन्नुत्तमाङ्गेषु
अङ्गैरङ्गानि रुन्धन्नवतु पिपतिषुः पत्रिणामग्रणीर्नः ।।
आ वेधः सौध शृङ्गादनुपरत गतेराभुजङ्गेन्द्रलोकात्
श्रेणी बन्धं वितन्वन् क्षण परिणमितालात पात प्रकारः ।
पायान्नः पुण्य पाप प्रचय मय पुनर्गर्भ कुम्भी निपातात्
पातालस्यान्तराले बृहति खगपतोर्निर्विघातो निपातः ।।
प्रत्यग्राकीर्ण तत्तत्फण मणिनिकरं शङ्कुला कोटि वक्रं
तुण्डाग्रं संक्ष्णुवानः कुलगिरि कठिने कर्परे कूर्मभर्तुः ।
पाताल क्षेत्र पक्व द्विरसन पृतना शालि विच्छेद शाली
शैलीं नः सप्त शैली लघिमद रभसः सौतु साध्वीं सुपर्णः।।
पर्यस्यत्पन्नगीनां युगपदसमयानर्भकान् गर्भकोशाद्
ब्रह्म स्तम्ब प्रकम्प व्यतिषजदखिलोदन्वदुन्निद्र घोषम् ।
चक्षुश्चक्षुः श्रुतीनां सपदि बधिरयत् पातु पत्रीश्वरस्य
क्षिप्र क्षिप्त क्षमाभृत्क्षण घटित नभः स्कोटमास्फोटितं नः ।।
तोय स्कन्धो न सिन्धोः समघटत मिथः पक्ष विक्षेप भिन्नः
पातालं न प्रविष्टं पृथुनि च विषमषी रश्मिभिस्तिग्मरश्मेः ।
तावद्ग्रस्ताहि वक्त्र क्षरित विक्ष्मषी पङ्क कस्तूरिकाङ्कः
प्रत्यायातः स्वयुथ्यैः स्थित इति विदितः पातु पत्रीश्वरो नः।।
बद्धस्यर्धैरिव स्वैर्बहुभिरभिमुखैरेककण्ठं स्तुवाने
तत्तद्विश्वोपकार प्रणयि सुरगण प्रार्थित प्राणरक्षे ।
पायान्नः प्रत्यहं ते कमपि विषधरं प्रेषयामीति भीते
संधित्सौ सर्पराजे सकरुणमरुणानन्तरं धाम दिव्यम् ।।
क्वाप्यस्थ्ना शर्कराढ्यं क्वचन घनतरासृक्छटा शीधुदिग्धं
निर्मोकैः क्वापि कीर्णं विषयमपरतो मण्डितं रत्नखण्डैः ।
अध्यारूढैः स्ववारेष्वहमहमिकया वध्य वेषं दधानैः
काले खेलन् भुजङ्गैः कलयतु कुशलं काद्रवेयान्तको नः ।।
वामे वैकुण्ठ शय्या फणिपति कटको वासुकि ब्रह्मसूत्रो
रक्षेन्नस्तक्षकेण ग्रथित कटितटश्चारु कार्कोट हारः ।
पद्मं कर्गेऽपसव्ये प्रथिमवति महा पद्ममन्यत्र बिभ्रत्
चूडायां शङ्खपालं गुलिकमपि भुजे दक्षिणे पक्षिमल्लः।।
वर्त्याभ स्वस्तिकाग्र स्फुरदरुण शिखा दीप्र रत्नप्रदीपैः
वध्नद्भिस्तापमन्तर्बहुल विषमषी गन्ध तैलाभिपूर्णैः।
नित्यं नीराजनार्थैः निज फण फलकैर्घूर्णमानानि तूर्णं
भोगैरापूरयेयुर्भुजग कुलरिपोर्भूषणानीषणां नः ।।
अङ्ग प्रत्यङ्ग लीनामृतरस विसर स्पर्श लोभादिवान्त-
स्त्रासाद्ध्रासानुबन्धादिव सहज मिथोवैर शङ्कोत्तरङ्गात् ।
रुद्रागाढोपगूढोच्छवसन निबिडित स्थान योगादिवास्मद्-
भद्राय स्तुर्भजन्तो भगवति गरुडे गाढतां गूढपादः ।।
कोटीरे रत्नकोटि प्रतिफलिततया नैकधा भिन्नमूर्तिः
वस्मीकस्थान् स्वयूथ्यानभित इव निजैर्वेष्टनैः क्लृप्तरक्षः ।
क्षेमं नः सौतु हेमाचल विधृत शरन्मेघ लेखानुकारी
रोचिश्चूडाल चूडामणिरुरग रिपोरेष चूडाभुजङ्गः ।।
द्राघीयःकर्णपाश द्युति परिभवन व्रीडयेव स्वभोगं
संक्षिप्याश्नन् समीरं दरविनतमुखो निःश्वसन् मन्दमन्दम् ।
आसीदद्गण्डभित्ति प्रतिफलन मिषात् क्वापि गूढं विविक्षुः
क्षिप्रं दोषान् क्षिपेन्नः खगपति कुहना कुण्डलः कुण्डलीन्द्रः ।।
वालाग्रग्रन्थि वन्धग्रथित पृथुशिरो रत्न सन्दर्शनीयो
मुक्ता शुभ्रोदराभो हरिमणिशकल श्रेणिदृश्येतरांशः ।
विष्वग्दम्भोलि धारा व्रण किण विषमोत्तम्भन स्तब्ध वृत्तिः
व्यालाहारस्य हृद्यो हरतु स मदघं हार दर्वीकरेन्द्रः ।।
वैकक्ष्य स्रग्विशेष च्छुरण परिणमच्छस्त्र बन्धानुबन्धो
वक्षःपीठाधिरूढो भुजगदमयितु र्ब्रह्यसूत्रायमाणः ।
अश्रान्त स्वैर निद्रा विरचित विविधोच्छ्वास निःश्वास वेग-
क्षामोच्छूनाकृतिर्नः क्षपयतु दुरितं कोऽपि कद्रु कुमारः ।।
श्लिष्यदुद्रासुकीर्ति स्तन तट घुसृणालेप संक्रान्तसार-
स्फारामोदाभिलाषोन्नमित पृथुफणा चक्रवालाभिरामः ।
प्रायः प्रेयःपटीरद्रुम विटप धिया श्लिष्ट पक्षीन्द्र बाहुः
व्याहन्यादस्मदीयं वृजिनभरमसौ वृन्दशो दन्दशूकः ।।
ग्रस्तानन्तर्निंविष्टान् फणिन इव शुचा गाढमाश्लिष्यदुःख्यन्
क्षुण्णानेकः स्वबन्धून् क्षुधमिव कुपितः पीडयन् वेष्टनेन ।
व्यालस्तार्क्ष्योदरस्थो विपुलगलगुहावाहि फुत्कारवात्या
पौनःपुन्येन हन्यात् पुनरुदरगुहावाहि वास्तव्यतां नः ।।
गाढासक्तो गरुत्मत्कटितट निकटे रक्त चण्डातकाङ्के
पक्कत्काञ्ची महिम्ना फणिमणि महसा लोहिताङ्गो भुजङ्गः ।
सत्ता सांसिध्दिकं नः सपदि बहुविधं कर्मबन्धं निरुन्ध्याद्
विन्ध्याद्य्रालीन सन्ध्या घन घटित तटित्कान्ति चातुर्य धुर्यः ।।
वेगोत्तानं वितानं व्यजन मनुगुणं वैजयन्ती जयन्ती
मित्रं नित्याभ्यमित्रं युधि विजयरथो युग्ययोगानपेक्षः ।
दासो निष्पर्युदासो दनुतनय भिदो निःसहायः सहायो
दोधूयेतास्मदीयं दुरितमधरिताराति पक्षैः स्वपक्षैः ।।
उक्षा दक्षान्तकस्य स्खलति वलजितः कुञ्जरः खञ्जरीतिः
क्लान्तो धातुःशकुन्तोऽनुग इति दयया सामिरुध्दस्यदोऽपि ।
ग्राहग्रस्तद्विपेन्द्रक्षतिभयचकिताकुण्ठवैकुण्ठचिन्ता-
नासीरोदारमूर्तिर्नरकविहतये स्ताद्विहङ्गेश्वरो नः ।।
वेगोद्वेलः सुवेले किमिदमिति मिथो मन्त्रितो वानरेन्द्रैः
मायामानुष्यलीलामभिनयति हरौ लब्धसेवाविशेषः ।
वैदेहीकर्णपूरस्तबकसुरभिणा यः समाश्लेषि दोष्णा
तृष्णापारिप्लवानां र भवतु गरुडो दुःखवारिप्लवो नः ।।
दुग्धोदन्वत्प्रभूतः स्वकमहिमपृथुर्विष्णुना कृष्णनाम्ना
पिञ्छाकल्पानुकल्पः समघटि सुदृढो यत्प्रदिष्टःकिरीटः ।
वीरो वैरोचनास्रव्रणकिणगुणितोदग्रनिर्घातघातः
संघातं सर्पघाती स हरतु महतामस्मदत्याहितानाम् ।।
रुन्ध्यात् संवर्तसंध्याघनपटलकनत्पक्षविक्षेपहेला-
वातूलास्फालतूलाञ्चलनिचयतुलाधेयदैतेयलोकः ।
आस्माकैः कर्मपाकैरभिगतमहितानीकमप्रत्यनीकैः
दीव्यन् दिव्यापदानैर्दनुजविजयिनो वैजयन्तीशकुन्तः ।।
यत्पक्षस्था त्रिवेदी त्रिगुणजलनिधिर्लंङ्घ्यते यद्गुणज्ञैः
वर्गस्त्रैवर्गिकाणां गतिमिह लभते नाथवद्यत्सनाथः ।
त्रैकाल्योपस्थितात् स त्रियुगनिधिरघादायतात् त्रायतां नः
त्रातानेकस्त्रिधाम्नस्त्रिदशरिपुचमूमोहनो वाहनेन्द्रः ।।
सैकां पञ्चाशतं यामतनुत विनतानन्दनं नन्दयिष्यन्
कृत्वा मौळौ तदाज्ञां कविकथकघटाकेसरी वेङ्कटेशः ।
तामेतां शीलयन्तः शमितविषधरव्याधिदैवाधिपीडाः
काङ्क्षापौरस्त्यलाभाः कृतमितरफलैस्तार्क्ष्यकल्पा भवन्ति ।।
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥