श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीदयाशतकम्
प्रपद्ये तं गिरिं प्रायः श्रीनिवासानुकम्पया ।
इक्षु सार स्रवन्त्येव यन्मूर्त्या शर्करायितम् ॥ 1 ॥
विगाहे तीर्थ बहुळां शीतळां गुरु सन्ततिम् ।
श्रीनिवास दयाम्भोधि परीवाह परम्पराम् ॥ 2 ॥
कृतिनः कमलावास कारुण्यैकान्तिनो भजे ।
धत्ते यत्सूक्ति रूपेण त्रिवेदी सर्वयोग्यताम् ॥ 3 ॥
पराशर मुखान् वन्दे भगीरथ नये स्थितान् ।
कमला कान्त कारुण्य गङ्गाप्लावित मद्विधान् ॥ 4 ॥
अशेष विघ्न शमनं अनीकेश्वरमाश्रये ।
श्रीमतः करुणाम्भोधौ शिक्षा स्रोत इवोत्थितम् ॥ 5 ॥
समस्त जननीं वन्दे चैतन्य स्तन्य दायिनीम् ।
श्रेयसीं श्रीनिवासस्य करुणामिव रूपिणीम् ॥ 6 ॥
वन्दे वृषगिरीशस्य महिषीं विश्व धारिणीम् ।
तत्कृपा प्रतिघातानां क्षमया वारणं यया ॥ 7 ॥
निशामयतु मां नीळा यद्भोग पटलैर्ध्रुवम् ।
भावितं श्रीनिवासस्य भक्त दोषेष्वदर्शनम् ॥ 8 ॥
कमप्यनवधिं वन्दे करुणा वरुणालयम् ।
वृषशैल तटस्थानां स्वयं व्यक्तिमुपागतम् ॥ 9 ॥
अकिञ्चन निधिं सूतिं अपवर्ग त्रिवर्गयोः ।
अञ्जनाद्रीश्वर दयां अभिष्टौमि निरञ्जनाम् ॥ 10 ॥
अनुचर शक्त्यादि गुणाम्
अग्रेसर बोध विरचितालोकाम् ।
स्वाधीन वृषगिरीशां
स्वयं प्रभूतां प्रमाणयामि दयाम् ॥ 11 ॥
अपि निखिल लोक सुचरित
मुष्टिं धय दुरितमूर्च्छना जुष्टम् ।
सं जीवयतु दये माम्
अञ्जन गिरिनाथ रञ्जनी भवती ॥ 12 ॥
भगवति दये भवत्या
वृषगिरि नाथे समाप्लुते तुङ्गे ।
अप्रतिघ मज्जनानां
हस्तालम्बो मदागसां मृग्यः ॥ 13 ॥
कृपण जन कल्प लतिकां
कृतापराधस्य निष्क्रियामाद्याम् ।
वृषगिरि नाथ दये त्वां
विदन्ति सं सारतारिणीं विबुधाः ॥ 14 ॥
वृषगिरि गृहमेधि गुणाः
बोध बलैश्वर्य वीर्य शक्ति मुखाः ।
दोषा भवेयुरेते
यदि नाम दये त्वया विनाभूताः ॥ 15 ॥
आसृष्टि सन्ततानाम्
अपराधानां निरोधिनीं जगतः ।
पद्मा सहाय करुणे
प्रतिसञ्चर केळिमाचरसि ॥ 16 ॥
अचिदविशिष्टान् प्रळये
जन्तूनवलोक्य जातनिर्वेदा ।
करणकळेबरयोगं
वितरसि वृषशैलनाथकरुणे त्वम् ॥ 17 ॥
अनुगुण दशार्पितेन
श्रीधर करुणे समाहित स्नेहा ।
शमयसि तमः प्रजानां
शास्त्रमयेन स्थिर प्रदीपेन ॥ 18 ॥
रूढा वृषाचल पतेः
पादे मुख कान्ति पत्रळच्छाया ।
करुणे सुखयसि विनतान्
कटाक्ष विटपैः करापचेय फलैः ॥ 19 ॥
नयने वृषाचलेन्दोः
तारा मैत्रीं दधानया करुणे ।
दृष्टस्त्वयैव जनिमान्
अपवर्गमकृष्टपच्यमनुभवति ॥ 20 ॥
समयोपनतैस्तव प्रवाहैः
अनुकम्पे कृत सं प्लवा धरित्री ।
शरणागतसस्य मालिनीयं
वृषशैलेश कृषीवलं धिनोति ॥ 21 ॥
कलशोदधि सं पदो भवत्याः
करुणे सन्मति मन्थ सं स्कृतायाः ।
अमृतां शमवैमि दिव्य देहं
मृत सञ्जीवन मञ्जनाचलेन्दोः ॥ 22 ॥
जलधेरिव शीतता दये त्वं
वृषशैलाधिपतेः स्वभाव भूता ।
प्रलयारभटी नट् ईं तदीक्षां
प्रसभं ग्राहयसि प्रसत्ति लास्यम् ॥ 23 ॥
प्रणत प्रतिकूल मूल घाती
प्रतिघः कोऽपि वृषाचलेश्वरस्य ।
कळमे यवसापचाय नीत्या
करुणे किं करतां तवोपयाति ॥ 24 ॥
अबहिष्कृत निग्रहान् विदन्तः
कमलाकान्तगुणान् स्वतन्त्रतादीन् ।
अविकल्पमनुग्रहं दुहानां
भवतीमेव दये भजन्ति सन्तः ॥ 25 ॥
कमलानिलयस्त्वया दयाळुः
करुणे निष्करुणा निरूपणे त्वम् ।
अत एव हि तावकाश्रितानां
दुरितानां भवति त्वदेव भीतिः ॥ 26 ॥
अतिलङ्घित शासनेष्वभीक्ष्णं
वृषशैलाधिपतिर्विजृम्भितोष्मा ।
पुनरेव दये क्षमा निदानैः
भवतीमाद्रियते भवत्यधीनैः ॥ 27 ॥
करुणे दुरितेषु मामकेषु
प्रतिकारान्तर दुर्जयेषु खिन्नः ।
कवचायितया त्वयैव शार्ङ्गी
विजयस्थानमुपाश्रितो वृषाद्रिम् ॥ 28 ॥
मयि तिष्ठति दुष्कृतां प्रधाने
मितदोषानितरान् विचिन्वती त्वम् ।
अपराधगणैरपूर्णकुक्षिः
कमलाकान्त दये कथं भवित्री ॥ 29 ॥
अहमस्म्यपराध चक्रवर्ती
करुणे त्वं च गुणेषु सार्वभौमी ।
विदुषी स्थितिमीदृशीं स्वयं मां
वृषशैलेश्वर पादसात्कुरु त्वम् ॥ 30 ॥
अशिथिल करणेऽस्मिन्नक्षत श्वास वृत्तौ
वपुषि गमन योग्ये वासमासादयेयम् ।
वृषगिरि कटकेषु व्यञ्जयत्सु प्रतीतैः
मधुमथन दये त्वां वारि धारा विशेषैः ॥ 31 ॥
अविदित निज योग क्षेममात्मानभिज्ञं
गुण लव रहितं मां गोप्तुकामा दये त्वम् ।
परवति चतुरैस्ते विभ्रमैः श्रीनिवासे
बहुमतिमनपायां विन्दसि श्री धरण्योः ॥ 32 ॥
फल वितरण दक्षं पक्षपातानभिज्ञं
प्रगुण मनुविधेयं प्राप्य पद्मा सहायम् ।
महति गुण समाजे मानपूर्वं दये त्वं
प्रतिवदसि यथार्हं पाप्मनां मामकानाम् ॥ 33 ॥
अनुभवितुमघौघं नालमागामि कालः
प्रशमयितुमशेषं निष्क्रियाभिर्न शक्यम् ।
स्वयमिति हि दये त्वं स्वीकृत श्रीनिवासा
शिथिलित भव भीतिः श्रेयसे जायसे नः ॥ 34 ॥
अवतरण विशेषैरात्म लीलापदेशैः
अवमतिमनुकम्पे मन्द चित्तेषु विन्दन् ।
वृषभ शिखरि नाथस्त्वन्निदेशेन नूनं
भजति शरण भाजां भाविनो जन्म भेदान् ॥ 35 ॥
परहितमनुकम्पे भावयन्त्यां भवत्यां
स्थिरमनुपधि हार्दं श्रीनिवासो दधानः ।
ललित रुचिषु लक्ष्मी भूमिनीळासु नूनं
प्रथयति बहुमानं त्वत्प्रतिच्छन्द बुद्ध्या ॥ 36 ॥
वृषगिरि सविधेषु व्याजतो वास भाजां
दुरित कलुषितानां दूयमाना दये त्वम् ।
करण विलय काले कान्दिशीक स्मृतीनां
स्मरयसि बहुलीलं माधवं सावधाना ॥ 37 ॥
दिशि दिशि गति विद्भिर्देशिकैर्नीयमाना
स्थिरतरमनुकम्पे स्त्यान लग्ना गुणैस्त्वम् ।
परिगत वृषशैलं पारमारोपयन्ती
भव जलधि गतानां पोत पात्री भवित्री ॥ 38 ॥
परिमित फल सङ्गात् प्राणिनः किं पचानाः
निगम विपणि मध्ये नित्य मुक्तानुषक्तम् ।
प्रसदनमनुकम्पे प्राप्तवत्या भवत्या
वृषगिरि हरिनीलं व्यञ्जितं निर्विशन्ति ॥ 39 ॥
त्वयि बहुमति हीनः श्रीनिवासानुकम्पे
जगति गतिमिहान्यां देवि सं मन्यते यः ।
स खलु विबुध सिन्धौ सन्निकर्षे वहन्त्यां
शमयति मृगतृष्णा वीचिकाभिः पिपासाम् ॥ 40 ॥
आज्ञां ख्यातिं धनमनुचरानाधिराज्यादिकं वा
काले दृष्ट्वा कमल वसतेरप्यकिञ्चिर्कराणि ।
पद्मा कान्तं प्रणिहितवतीं पालनेऽनन्य साध्ये
साराभिज्ञा जगति कृतिनः सं श्रयन्ते दये त्वाम् ॥ 41 ॥
प्राजापत्य प्रभृति विभवं प्रेक्ष्य पर्याय दुः खं
जन्माकाङ्क्षन् वृषगिरि वने जग्मुषां तस्थुषां वा ।
आशासानाः कतिचन विभोस्त्वत्परिष्वङ्ग धन्यैः
अङ्गीकारं क्षणमपि दये हार्द तुङ्गैरपाङ्गैः ॥ 42 ॥
नाभी पद्म स्फुरण सुभगा नव्य नीलोत्पलाभा
क्रीडा शैलं कमपि करुणे वृण्वती वेङ्कटाख्यम् ।
शीता नित्यं प्रसदनवती श्रद्दधानावगाह्या
दिव्या काचिज्जयति महती दीर्घिका तावकीना ॥ 43 ॥
यस्मिन् दृष्टे तदितर सुखैर्गम्यते गोष्पदत्वं
सत्यं ज्ञानं त्रिभिरवधिभिर्मुक्त मानन्द सिन्धुम् ।
त्वत्स्वीकारात् तमिह कृतिनः सूरि बृन्दानुभाव्यम्
नित्यापूर्वं निधिमिव दये निर्विशन्त्यञ्जनाद्रौ ॥ 44 ॥
सारं लब्ध्वा कमपि महतः श्रीनिवासाम्बुराशेः
काले काले घन रसवती काळिकेवानुकम्पे ।
व्यक्तोन्मेषा मृगपति गिरौ विश्वमाप्याययन्ती
शीलोपज्ञं क्षरति भवती शीतळं सद्गुणौघम् ॥ 45 ॥
भीमे नित्यं भव जलनिधौ मज्जतां मानवानाम्
आलम्बार्थं वृषगिरि पतिस्त्वन्निदेशात् प्रयुङ्क्ते ।
प्रज्ञासारं प्रकृति महता मूल भागेन जुष्टं
शाखा भेदैः सुभगमनघं शाश्वतं शास्त्र पाणिम् ॥ 46 ॥
विद्वत्सेवा कतक निकषैर्वीत पङ्काशयानां
पद्माकान्तः प्रणयति दये दर्पणं ते स्वशास्त्रम् ।
लीला दक्षां त्वदनवसरे लालयन् विप्रलिप्सां
माया शास्त्राण्यपि दमयितुं त्वत्प्रपन्न प्रतीपान् ॥ 47 ॥
दैवात् प्राप्ते वृषगिरि तटं देहिनि त्वन्निदानात्
स्वामिन् पाहीत्यवश वचने विन्दति स्वापमन्त्यम् ।
देवः श्रीमान् दिशति करुणे दृष्टिमिच्छं स्त्वदीयाम्
उद्धातेन श्रुति परिषदामुत्तरेणाभिमुख्यम् ॥ 48 ॥
श्रेयः सूतिं सकृदपि दये संमतां यः सखीं ते
शीतोदारामलभत जनः श्रीनिवासस्य दृष्टिम् ।
देवादीनामयमनृणतां देहवत्त्वेऽपि विन्दन्
बन्धान्मुक्तो बलिभिरनघैः पूर्यते तत्प्रयुक्तैः ॥ 49 ॥
दिव्यापाङ्गं दिशसि करुणे येषु सद्देशिकात्मा
क्षिप्रं प्राप्ता वृषगिरि पतिं क्षत्रबन्ध्वादयस्ते ।
विश्वाचार्या विधि शिव मुखाः स्वाधिकारोपरुद्धाः
मन्ये माता जड इव सुते वत्सला मादृशे त्वम् ॥ 50 ॥
अतिकृपणोऽपि जन्तुरधिगम्य दये भवतीम्
अशिथिल धर्म सेतु पदवीं रुचिरामचिरात् ।
अमित महोर्मिजालमतिलङ्घ्य भवाम्बु निधिं
भवति वृषाचलेश पद पत्तन नित्य धनी ॥ 51 ॥
अभिमुक भाव सं पदभिसं भविनां भविनां
क्वचिदुपलक्षिता क्वचिदभङ्गुर गूढ गतिः ।
विमल रसावहा वृषगिरीश दये भवती
सपदि सरस्वतीव शमयत्यघमप्रतिघम् ॥ 52 ॥
अपि करुणे जनस्य तरुणेन्दु विभूषणताम्
अपि कमलासनत्वमपि धाम वृषाद्रि पतेः ।
तरतमता वशेन तनुते ननु ते विततिः
परहित वर्ष्मणा परिपचेळिम केळिमती ॥ 53 ॥
धृत भुवना दये त्रिविध गत्यनुकूलतरा
वृषगिरि नाथ पाद परिरम्भवती भवती ।
अविदित वैभवाऽपि सुर सिन्धुरिवातनुते
सकृदवगाहमान मपतापमपापमपि ॥ 54 ॥
निगम समाश्रिता निखिल लोक समृद्धि करी
भजदघ कूल मुद्रुज गतिः परितप्त हिता ।
प्रकटित हं स मत्स्य कमठाद्यवतार शता
विबुध सरिच्छ्रियं वृषगिरीश दये वहसि ॥ 55 ॥
जगति मितं पचा त्वदितरा तु दये तरळा
फल नियमोज्झिता भवति सं तपनाय पुनः ।
त्वमिह निरङ्कुश प्रशकनादि विभूतिमती
वितरसि देहिनां निरवधिं वृषशैल निधिम् ॥ 56 ॥
सकरुण लौकिक प्रभु परिग्रह निग्रहयोः
नियतिमुपाधि चक्र परिवृत्ति परम्परया ।
वृषभ महीधरेश करुणे वितरङ्गयतां
श्रुति मित सं पदि त्वयि कथं भविता विशयः ॥ 57 ॥
वृषगिरि कृष्ण मेघ जनितां जनितापहरां
त्वदभिमतिं सुवृष्टिमुपजीव्य निवृत्त तृषः ।
बहुषु जलाशयेषु बहुमानमपोह्य दये
न जहति सत्पथं जगति चातकवत् कृतिनः ॥ 58 ॥
त्वदुदय तूलिकाभिरमुना वृषशैल जुषा
स्थिर चर शिल्पिनैव परिकल्पित चित्र धियः ।
यतिपति यामुन प्रभृतयः प्रथयन्ति दये
जगति हितं न नस्त्वयि भरन्यसनादधिकम् ॥ 59 ॥
मृदुहृदये दये मृदित काम हिते महिते
धृत विबुधे बुधेषु विततात्मधुरे मधुरे ।
वृषगिरि सार्वभौम दयिते मयि ते महतीं
भवुक निधे निधेहि भवमूल हरां लहरीम् ॥ 60 ॥
अकूपारैरेकोदक समय वैतण्डिक जवैः
अनिर्वाप्यां क्षिप्रं क्षपयितुमविद्याख्य बडबाम् ।
कृपे त्वं तत्तादृक्प्रथिम वृष पृथ्वीधर पति-
स्वरूप द्वैगुण्य द्विगुण निज बिन्दुः प्रभवसि ॥ 61 ॥
विवित्सा वेताळी विगम परिशुद्धेऽपि हृदये
पटु प्रत्याहार प्रभृति पुटपाक प्रचकिताः ।
नमन्तस्त्वां नारायण शिखरि कूटस्थ करुणे
निरुद्ध त्वद्द्रोहा नृपति सुत नीतिं न जहति ॥ 62 ॥
अनन्याधीनः सन् भवति परतन्त्रः प्रणमतां
कृपे सर्वद्रष्टा न गणयति तेषामपकृतिम् ।
पतिस्त्वत्पारार्थ्यं प्रथयति वृष क्ष्माधर पतिः
व्यवस्थां वैयात्यादिति विघटयन्ती विहरसि ॥ 63 ॥
अपां पत्युः शत्रूनसहन मुनेर्धर्म निगळं
कृपे काकस्यैकं हितमिति हिनस्ति स्म नयनम् ।
विलीन स्वातन्त्र्यो वृषगिरि पतिस्त्वद्विहृतिभिः
दिशत्येवं देवो जनित सुगतिं दण्डन गतिम् ॥ 64 ॥
निषादानां नेता कपि कुल पतिः कापि शबरी
कुचेलः कुब्जा सा व्रज युवतयो माल्यकृदिति ।
अमीषां निम्नत्वं वृषगिरि पतेरुन्नतिमपि
प्रभूतैः स्रोतोभिः प्रसभमनुकम्पे समयसि ॥ 65 ॥
त्वया दृष्टस्तुष्टिं भजति परमेष्ठी निज पदे
वहन् मूर्तीरष्टौ विहरति मृडानी परिबृढः ।
बिभर्ति स्वाराज्यं वृषशिखरि शृङ्गारि करुणे
शुनासीरो देवासुर समर नासीर सुभटः ॥ 66 ॥
दये दुग्धोदन्वद्व्यति युत सुधा सिन्धु नयतः
त्वदाश्लेषान्नित्यं जनित मृत सञ्जीवन दशाः ।
स्वदन्ते दान्तेभ्यः श्रुति वदन कर्पूर गुळिकाः
विषुण्वन्तश्चित्तं वृषशिखरि विश्वं भर गुणाः ॥ 67 ॥
जगज्जन्म स्थेम प्रळय रचना केळि रसिकः
विमुक्त्येक द्वारं विघटित कवाटं प्रणयिनाम् ।
इति त्वय्यायत्तं द्वितयमुपधीकृत्य करुणे
विशुद्धानां वाचां वृषशिखरि नाथः स्तुति पदम् ॥ 68 ॥
कलि क्षोभोन्मीलत्क्षिति कलुष कूलङ्कष जवैः
अनुच्छेदैरेतैरवट तट वैषम्य रहितैः ।
प्रवाहैस्ते पद्मा सहचरपरिष्कारिणि कृपे
विकल्पन्तेऽनल्पा वृष शिखरिणो निर्झरगणाः ॥ 69 ॥
खिलं चेतो वृत्तेः किमिदमिति विस्मेर भुवनं
कृपे सिं ह क्ष्माभृत्कृत मुख चमत्कार करणम् ।
भरन्यासच्छन्न प्रबल वृजिन प्राभृत भृतां
प्रतिप्रस्थानं ते श्रुति नगर शृङ्गाटक जुषः ॥ 70 ॥
त्रिविध चिदचित्सत्तास्थेम प्रवृत्ति नियामिका
वृषगिरि विभोरिच्छा सा त्वं परैरपराहता ।
कृपण भरभृत्किं कुर्वाण प्रभूत गुणान्तरा
वहसि करुणे वैचक्षण्यं मदीक्षण साहसे ॥ 71 ॥
वृषगिरि पतेर्हृद्या विश्वावतार सहायिनी
क्षपित निखिलावद्या देवि क्षमादि निषेविता ।
भुवन जननी पुं सां भोगापवर्गविधायिनी
वितमसि पदे व्यक्तिं नित्यां बिभर्षि दये स्वयम् ॥ 72 ॥
स्वयमुदयिनः सिद्धाद्याविष्कृताश्च शुभालयाः
विविध विभव व्यूहावासाः परं च पदं विभोः ।
वृषगिरि मुखेष्वेतेष्विच्छावधि प्रतिलब्धये
दृढ विनिहिता निश्रेणिस्त्वं दये निज पर्वभिः ॥ 73 ॥
हितमिति जगद्दृष्ट्या कॢप्तैरकॢप्त फलान्तरैः
अमति विहितैरन्यैर्धर्मायितैश्च यदृच्छया ।
परिणत बहुच्छद्मा पद्मासहाय दये स्वयं
प्रदिशसि निजाभिप्रेतं नः प्रशाम्यदपत्रपा ॥ 74 ॥
अतिविधि शिवैरैश्वर्यात्मानुभूति रसैर्जनान्
अहृदयमिहोपच्छन्द्यैषामसङ्ग दशार्थिनी ।
तृषित जनता तीर्थस्नान क्रम क्षपितैनसां
वितरसि दये वीतातङ्का वृषाद्रि पतेः पदम् ॥ 75 ॥
वृषगिरि सुधा सिन्धौ जन्तुर्-
दये निहितस्त्वया
भव भय परीतापच्छित्त्यै
भजन्नघमर्षणम् ।
मुषित कलुषो मुक्तेरग्रे-
सरैरभिपूर्यते
स्वयमुपनतैः स्वात्मानन्द
प्रभृत्यनुबन्धिभिः ॥ 76 ॥
अनितर जुषामन्तर्मूलेऽप्यपाय परिप्लवे
कृतविदनघा विच्छिद्यैषां कृपे यम वश्यताम् ।
प्रपदन फल प्रत्यादेश प्रसङ्ग विवर्जितं
प्रतिविधिमुपाधत्से सार्धं वृषाद्रि हितैषिणा ॥ 77 ॥
क्षणविलयिनां शास्त्रार्थानां फलाय निवेशिते
सुर पितृगणे निर्वेशात् प्रागपि प्रळयं गते ।
अधिगत वृषक्ष्माभृन्नाथामकाल वशं वदां
प्रतिभुवमिह व्याचख्युस्त्वां कृपे निरुपप्लवाम् ॥ 78 ॥
त्वदुपसदनादद्य श्वो वा महा प्रळयेऽपि वा
वितरति निजं पादाम्भोजं वृषाचल शेखरः ।
तदिह करुणे तत्तत्क्रीडा तरङ्ग परम्परा-
तर तमतया जुष्टायास्ते दुरत्ययतां विदुः ॥ 79 ॥
प्रणिहित धियां त्वत्सं पृक्ते वृषाद्रि शिखामणौ
प्रसृमर सुधा धाराकारा प्रसीदति भावना ।
दृढमिति दये दत्तास्वादं विमुक्ति वलाहकं
निभृत गरुतो निध्यायन्ति स्थिराशय चातकाः ॥ 80 ॥
कृपे विगतवेलया कृत समग्र पोषैस्त्वया
कलिज्वलन दुर्गते जगति काळमेघायितम् ।
वृष क्षिति धरादिषु स्थिति पदेषु सानुप्लवैः
वृषाद्रिपति विग्रहैर्व्यपगताखिलावग्रहैः ॥ 81 ॥
प्रसूय विविधं जगत् तदभिवृद्धये त्वं दये
समीक्षण विचिन्तन प्रभृतिभिः स्वयं तादृशैः ।
विचित्र गुण चित्रितां विविध दोष वैदेशिकीं
वृषाचल पतेस्तनुं विशसि मत्स्यकूर्मादिकाम् ॥ 82 ॥
युगान्त समयोचितं भजति योग निद्रारसं
वृषक्षितिभृदीश्वरे विहरण क्रमाज्जाग्रति ।
उदीर्ण चतुरर्णवी कदन वेदिनी मेदिनीं
समुद्धृतवती दये तदभिजुष्टया दं ष्ट्रया ॥ 83 ॥
सटा पटल भीषणे सरभसाट्टहासोद्भटे
स्फुरत्क्रुधि परिस्फुटद् भ्रुकुटिकेऽपि वक्त्रे कृते ।
दये वृषगिरीशितुर्दनुज डिम्भ दत्त स्तना
सरोज सदृशा दृशा समुदिताकृतिर्दृश्यसे ॥ 84 ॥
प्रसक्त मधुना विधि प्रणिहितैः सपर्योदकैः
समस्त दुरितच्छिदा निगम गन्धिना त्वं दये ।
अशेषमविशेषतस्त्रिजगदञ्जनाद्रीशितुः
चराचरमचीकरश्चरण पङ्कजेनाङ्कितम् ॥ 85 ॥
परश्वथ तपोधन प्रथन सत्क्रतूपाकृत-
क्षितीश्वर पशु क्षरत्क्षतज कुङ्कुम स्थासकैः ।
वृषाचल दयाळुना ननु विहर्तुमालिप्यथाः
निधाय हृदये दये निहत रक्षितानां हितम् ॥ 86 ॥
कृपे कृत जगद्धिते कृपण जन्तु चिन्तामणे
रमा सहचरं तदा रघु धुरीणयन्त्या त्वया ।
व्यभज्यत सरित्पतिः सकृदवेक्षणात् तत्क्षणात्
प्रकृष्ट बहु पातक प्रशम हेतुना सेतुना ॥ 87 ॥
कृपे परवतस्त्वया वृष गिरीशितुः क्रीडितं
जगद्धितमशेषतस्तदिदमित्थमर्थाप्यते ।
मदच्छल परिच्युत प्रणत दुष्कृत प्रेक्षितैः
हत प्रबल दानवैर्हलधरस्य हेला शतैः ॥ 88 ॥
प्रभूत विबुधद्विषद्भरण खिन्न विश्वं भरा-
भरापनयनच्छलात् त्वमवतार्य लक्ष्मीधरम् ।
निराकृतवती दये निगम सौध दीप श्रिया
विपश्चिदविगीतया जगति गीतयाऽन्धं तमः ॥ 89 ॥
वृषाद्रि हय सादिनः प्रबल दोर्मरुत्प्रेङ्खितः
त्विषा स्फुट तटिद्गुणस्त्वदवसेक सं स्कारवान् ।
करिष्यति दये कलि प्रबलघर्मनिर्मूलनः
पुनः कृत युगाङ्कुरं भुवि कृपाण धाराधरः ॥ 90 ॥
विश्वोपकारमिति नाम सदा दुहानाम्
अद्यापि देवि भवतीमवधीरयन्तम् ।
नाथे निवेशय वृषाद्रि पतेर्दये त्वं
न्यस्त स्व रक्षण भरं त्वयि मां त्वयैव ॥ 91 ॥
नैसर्गिकेण तरसा करुणे नियुक्ता
निम्नेतरेऽपि मयि ते विततिर्यदि स्यात् ।
विस्मापयेद् वृषगिरीश्वरमप्यवार्या
वेलातिलङ्घन दशेव महाम्बुराशेः ॥ 92 ॥
विज्ञात शासन गतिर्विपरीत वृत्त्या
वृत्रादिभिः परिचितां पदवीं भजामि ।
एवं विधे वृषगिरीश दये मयि त्वं
दीने विभोः शमय दण्ड धरत्व लीलाम् ॥ 93 ॥
मा साहसोक्ति घन कञ्चुक वञ्चितान्यः
पश्यत्सु तेषु विदधाम्यतिसाहसानि ।
पद्मासहाय करुणे न रुणत्सि किं त्वं
घोरं कुलिङ्ग शकुनेरिव चेष्टितं मे ॥ 94 ॥
विक्षेपमर्हसि दये विपलायितेऽपि
व्याजं विभाव्य वृषशैल पतेर्विहारम् ।
स्वाधीन सत्त्व सरणिः स्वयमत्र जन्तौ
द्राघीयसी दृढतरा गुण वागुरा त्वम् ॥ 95 ॥
सन्तन्यमानमपराधगणं विचिन्त्य
त्रस्यामि हन्त भवतीं च विभावयामि ।
अह्नाय मे वृषगिरीश दये जहीमाम्
आशीविष ग्रहण केळि निभामवस्थाम् ॥ 96 ॥
औत्सुक्य पूर्वमुपहृत्य महापराधान्
मातः प्रसादयितुमिच्छति मे मनस्त्वाम् ।
आलिह्य तान् निरवशेषमलब्ध तृप्तिः
ताम्यस्यहो वृषगिरीश धृता दये त्वम् ॥ 97 ॥
जह्यात् वृषाचल पतिः प्रतिघेऽपि न त्वां
घर्मोपतप्त इव शीतळतामुदन्वान् ।
सा मामरुन्तुद भर न्यसनानुवृत्तिः
तद्वीक्षणैः स्पृश दये तव केळि पद्मैः ॥ 98 ॥
दृष्टेऽपि दुर्बलधियं दमनेऽपि दृप्तं
स्नात्वाऽपि धूळिरसिकं भजनेऽपि भीमम् ।
बद्ध्वा गृहाण वृषशैल पतेर्दये मां
त्वद्वारणं स्वयमनुग्रह शृङ्खलाभिः ॥ 99 ॥
नातः परं किमपि मे त्वयि नाथनीयं
मातर्दये मयि कुरुष्व तथा प्रसादम् ।
बद्धादरो वृषगिरि प्रणयी यथाऽसौ
मुक्तानुभूतिमिह दास्यति मे मुकुन्दः ॥ 100 ॥
निः सीम वैभव जुषां मिषतां गुणानां
स्तोतुर्दये वृषगिरीश गुणेश्वरीं त्वाम् ।
तैरेव नूनमवशैरभिनन्दितं मे
सत्यापितं तव बलादकुतो भयत्वम् ॥ 101 ॥
अद्यापि तद् वृषगिरीश दये भवत्याम्
आरम्भ मात्रमनिदं प्रथम स्तुतीनाम् ।
सं दर्शित स्व पर निर्वहणा सहेथाः
मन्दस्य साहसमिदं त्वयि वन्दिनो मे ॥ 102 ॥
प्रायो दये त्वदनुभाव महाम्बुराशौ
प्राचेतस प्रभृतयोऽपि परं तटस्थाः ।
तत्रावतीर्णमतल स्पृशमाप्लुतं मां
पद्मापतेः प्रहसनोचितमाद्रियेथाः ॥ 103 ॥
वेदान्त देशिक पदे विनिवेश्य बालं
देवो दया शतकमेतदवादयन्माम् ।
वैहारिकेण विधिना समये गृहीतं
वीणा विशेषमिव वेङ्कटशैल नाथः ॥ 104 ॥
अनवधिमधिकृत्य श्रीनिवासानुकम्पाम्
अवितथ विषयत्वात् विश्वमव्रीडयन्ती ।
विविध कुशल नीवी वेङ्कटेश प्रसूता
स्तुतिरियमनवद्या शोभते सत्त्व भाजाम् ॥ 105 ॥
शतकमिदमुदारं सम्यगभ्यस्यमानान्
वृषगिरीमधिरुह्य व्यक्तमालोकयन्ती ।
अनितर शरणानामाधिराज्येऽभिषिञ्चेत्
शमित विमत पक्षा शार्ङ्ग धन्वानुकम्पा ॥ 106 ॥
विश्वानुग्रह मातरं व्यतिषजत्-
स्वर्गापवर्गां सुधा-
सध्रीचीमिति वेङ्कटेश्वर कविर्-
भक्त्या दयामस्तुत ।
पद्यानामिह यद्विधेय भगवत्-
सङ्कल्प कल्प द्रुमात्
झञ्झा मारुत धूत चूत नयतः
सां पातिकोऽयं क्रमः ॥ 107 ॥
कामं सन्तु मिथः करम्बित गुणावद्यानि पद्यानि नः
कस्यास्मिन् शतके सदम्बु कतके दोष श्रुतिं क्षाम्यति ।
निष्प्रत्यूह वृषाद्रि निर्झरझरत्कारच्छलेनोच्चलन्
दीनालम्बन दिव्य दम्पति दया कल्लोल कोलाहलः ॥ 108 ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥