श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीन्यासविंशतिः
सिद्धं सत्संप्रदाये स्थिरधियमनघं श्रोत्रियं ब्रह्मनिष्ठं
सत्वस्थं सत्यवाचं समयनियतया साधुवृत्त्या समेतम् ।
डम्भासूयादिमुक्तं जितविषयिगणं दीर्घबन्धुं दयाळुं
स्खालित्ये शासितारं स्वपरहितपरं देशिकं भूष्णुरीप्सेत् ॥ 1 ॥
अज्ञानध्वान्तरोधादघपरिहरणादात्मसाम्यावहत्वात्
जन्मप्रध्वंसिजन्मप्रदगरिमतया दिव्यदृष्टिप्रभावात् ।
निष्प्रत्यूहानृशंस्यान्नियतरसतया नित्यशेषित्वयोगात्
आचार्यः सद्भिरप्रत्युपकरणधिया देववत् स्यादुपास्यः ॥ 2 ॥
सद्बुद्धिः साधुसेवी समुचितचरितस्तत्त्वबोधाभिलाषी
शुश्रूषुस्त्यक्तमानः प्रणिपतनपरः प्रश्नकालप्रतीक्षः ।
शान्तो दान्तोऽनसूयुः शरणमुपगतः शास्त्रविश्वासशाली
शिष्यः प्राप्तः परीक्षां कृतविदभिमतं तत्त्वतः शिक्षणीयः ॥ 3 ॥
स्वाधीनाशेषसत्तास्थितियतनफलं विद्धि लक्ष्मीशमेकं
प्राप्यं नान्यं प्रतीया न च शरणतया कञ्चिदन्यं वृणीयाः ।
एतस्मादेव पुंसां भयमितरदपि प्रेक्ष्य मोज्झीस्तदाज्ञाम्
इत्येकान्तोपदेशः प्रथममिह गुरोरेकचित्तेन धार्यः ॥ 4 ॥
मोक्षोपायार्हतैवं भवति भवभृतां कस्यचित् क्वापि काले
तद्वद्भक्तिप्रपत्त्योरधिकृतिनियमस्तादृशा स्यान्नियत्या ।
शक्ताशक्तादितत्तत्पुरुषविषयतः स्थाप्यते तद्व्यवस्था
यच्चाहुस्तद्विकल्पः सम इति कतिचित्तत्फलस्याविशेषात् ॥ 5 ॥
सानुक्रोशे समर्थे प्रपदनमृषिभिः स्मर्यतेऽभीष्टसिद्ध्यै
लोकेऽप्येतत् प्रसिद्धं न च विमतिरिह प्रेक्ष्यते क्वापि तन्त्रे ।
तस्मात् कैमुत्यसिद्धं भगवति तु भरन्यासविद्यानुभावं
धर्मस्थेयाश्च पूर्वे स्वकृतिषु बहुधा स्थापयांचक्रुरेवम् ॥ 6 ॥
शास्त्रप्रामाण्यवेदी ननु विधिविषये निर्विशङ्कोऽधिकारी
विश्वासस्याङ्गभावे पुनरिह विदुषा किं महत्वं प्रसाध्यम् ।
मैवं घोरापराधैः सपदि गुरुफले न्यासमात्रेण लभ्ये
शङ्का पार्ष्णिग्रहार्हा शमयितुमुचिता हेतुभिस्तत्तदर्हैः ॥ 7 ॥
नेहाभिक्रान्तिनाशो न च विहतिरिह प्रत्यवायो भवेदि
त्युक्तं कैमुत्यनीत्या प्रपदनविषये योजितं शास्त्रविद्भिः ।
तस्मात् क्षेत्रे तदर्हे सुविदित समयैर्देशिकैः सम्यगुप्तं
मन्त्राख्यं मुक्तिबीजं परिणतिवशतः कल्पते सत्फलाय ॥ 8 ॥
न्यासः प्रोक्तोऽतिरिक्तं तप इति कथितः स्वध्वरश्चास्य कर्ता
ऽहिर्बुध्न्योऽप्यन्ववादीदगणि दिविषदाम् उत्तमं गुह्यमेतत् ।
साक्षान्मोक्षाय चासौ श्रुत इह तु मुधा बाधशङ्का गुणाढ्ये
तन्निष्ठो ह्यन्यनिष्ठान् प्रभुरतिशयितुं कोटिकोट्यंशतोऽपि ॥ 9 ॥
नानाशब्दादिभेदादिति तु कथयता सूत्रकारेण सम्यक्
न्यासोपासे विभक्ते यजनहवनवच्छब्दभेदादभाक्तात् ।
आख्यारूपादिभेदः श्रुत इतरसमः किंच भिन्नोऽधिकारः
शीघ्रप्राप्त्यादिभिः स्याज्जगुरिति च मधूपासनादौ व्यवस्थाम् ॥ 10 ॥
यत्किञ्चिद्रक्षणीयं तदवननिपुणे न्यस्यतोऽकिञ्चनस्य
प्रस्पष्टं लोकदृष्ट्याऽप्यवगमित इह प्रार्थनाद्यङ्गयोगः ।
तस्मात् कर्माङ्गकत्वं व्यपनयति परापेक्षणाभाववादः
साङ्गे त्वष्टाङ्गयोगव्यवहृतिनयतः षड्विधत्वोपचारः ॥ 11 ॥
पञ्चाप्यङ्गान्यभिज्ञाः प्रणिजगुरविनाभावभाञ्जि प्रपत्तेः
कैश्चित् संभावितत्वं यदिह निगदितं तत् प्रपत्त्युत्तरं स्यात् ।
अङ्गेष्वङ्गित्ववादः फलकथनमिह द्वित्रिमात्रोक्तयश्च
प्राशस्त्यं तत्र तत्र प्रणिदधति ततः सर्ववाक्यैककण्ठ्यम् ॥ 12 ॥
रक्षापेक्षा स्वसाह्यप्रणयवति भरन्यास आज्ञादिदक्षे
दृष्टा नात्र प्रपत्तिव्यवहृतिरिह तन्मेळने लक्षणं स्यात् ।
गेहागत्यादिमात्रे निपततु शरणागत्यभिख्योपचारात्
यद्वाऽनेकार्थभावाद्भवति हि विविधः पालनीयत्वहेतुः ॥ 13 ॥
आत्मात्मीयस्वरूपन्यसनमनुगतं यावदर्थं मुमुक्षोः
तत्त्वज्ञानात्मकं तत् प्रथममथ विधेः स्यादुपाये समेतम् ।
कैङ्कर्याख्ये पुमर्थेऽप्यनुषजति तदभ्यर्थनाहेतुभावात्
स्वाभीष्टानन्यसाध्यावधिरिह तु भरन्यासभागोऽङ्गिभूतः ॥ 14 ॥
न्यासादेशेषु धर्मत्यजनवचनतोऽकिञ्चनाधिक्रियोक्ता
कार्पण्यं वाऽङ्गमुक्तं भजनवदितरापेक्षणं वाऽप्यपोढम् ।
दुःसाधेच्छोद्यमौ वा क्वचिदुपशमितावन्यसंमेळने वा
ब्रह्मास्त्रन्याय उक्तस्तदिह न विहतो धर्म आज्ञादिसिद्धः ॥ 15 ॥
आदेष्टुं स्वप्रपत्तिं तदनुगुणगुणाद्यन्वितं स्वं मुकुन्दो
मामित्युक्त्वैकशब्दं वदति तदुचितं तत्र तात्पर्यमूह्यम् ।
तत् प्राप्यप्रापकैक्यं सकलफलदतां न्यासतोऽन्यानपेक्षां
प्राधान्याद्यं च किञ्चित् प्रथयति स परं श्रीसखे मुक्त्युपाये ॥ 16 ॥
स्वाभीष्टप्राप्तिहेतुः स्वयमिह पुरुषैः स्वीकृतः स्यादुपायः
शास्त्रे लोके च सिद्धः स पुनरुभयथा सिद्धसाध्यप्रभेदात् ।
सिद्धोपायस्तु मुक्तौ निरवधिकदयः श्रीसखः सर्वशक्तिः
साध्योपायस्तु भक्तिर्न्यसनमिति पृथक्तद्वशीकारसिद्ध्यै ॥ 17 ॥
अत्यन्ताकिञ्चिनोऽहं त्वदपचरणतः सन्निवृत्तोऽद्य नाथ
त्वत्सेवैकान्तधीः स्यां त्वमसि शरणमित्यध्यवस्यामि गाढम् ।
त्वं मे गोपायिता स्यास्त्वयि निहितभरोऽस्म्येवमित्यर्पितात्मा
यस्मै स न्यस्तभारः सकृदथ तु सदा न प्रयस्येत् तदर्थम् ॥ 18 ॥
त्यक्त्वोपायानपायानपि परमजहन्मध्यमां स्वार्हवृत्तिं
प्रायश्चित्तं च योग्यं विगत ऋणततिर्द्वन्द्ववात्यां तितिक्षुः ।
भक्तिज्ञानादिवृद्धिं परिचरणगुणान् सत्समृद्धिं च युक्तां
नित्यं याचेदनन्यस्तदपि भगवतस्तस्य यद्वाऽऽप्तवर्गात् ॥ 19 ॥
आज्ञाकैङ्कर्यवृत्तिष्वनघगुरुजनप्रक्रियानेमिवृत्ति
स्स्वार्हानुज्ञातसेवाविधिषु च शकने यावदिष्टं प्रवृत्तः ।
कर्म प्रारब्धकार्यं प्रपदनमहिमध्वस्तशेषं द्विरूपं
भुक्त्वा स्वाभीष्टकाले विशति भगवतः पादमूलं प्रपन्नः ॥ 20 ॥
श्रुत्या स्मृत्यादिभिश्च स्वयमिह भगवद्वाक्यवर्गैश्च सिद्धां
स्वातन्त्र्ये पारतन्त्र्येऽप्यनितरगतिभिः सद्भिरास्थीयमानाम् ।
वेदान्ताचार्य इत्थं विविधगुरुजनग्रन्थसंवादवत्या
विंशत्या न्यासविद्यां व्यवृणुत सुधियां श्रेयसे वेङ्कटेशः ॥ 21 ॥
संसारावर्तवेगप्रशमनशुभदृग्देशिकप्रेक्षितोऽहं
संत्यक्तोऽन्यैरुपायैरनुचितचरितेष्वद्य शान्ताभिसन्धिः ।
निःशङ्कस्तत्त्वदृष्ट्या निरवधिकदयं प्रार्थ्य संरक्षकं त्वां
न्यस्य त्वत्पादपद्मे वरद निजभरं निर्भरो निर्भयोऽस्मि ॥ 22 ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥