[highlight_content]

श्रीवेगासेतुस्तोत्रम्

श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।

श्रीवेगासेतुस्तोत्रम्

एकं वेगवतीमध्ये हस्तिशैले च दृश्यते ।

उपायफलभावेन स्वयं व्यक्तं परं महः ॥

ईष्टे गमयितुं पारम् एष सेतुरभङ्गुरः ।

यत्र सारस्वतं स्रोतो विश्राम्यति विशृङ्खलम् ॥

जयति जगदेकसेतुः वेगवतीमध्यलक्षितो देवः ।

प्रशमयति यः प्रजानां प्रथितान् संसारजलधिकल्लोलान् ॥

विभातु मे चेतसि विष्णुसेतुः वेगापगावेगविघातहेतुः ।

अम्भोजयोनेर्यदुपज्ञमासीत् अभङ्गरक्षा हयमेधदीक्षा ॥

चतुराननसप्ततन्तुगोप्ता सरितं वेगवतीमसौ निरुन्धन् ।

परिपुष्यति मङ्गलानि पुंसां भगवान् भक्तिमतां यथोक्तकारी ॥

श्रीमान् पितामहवधूपरिचर्यमाणः

शेते भुजङ्गशयने स महाभुजङ्गः ।

प्रत्यादिशन्ति भवसंचरणं प्रजानां

भक्तानुगन्तुरिह यस्य गतागतानि ॥

प्रशमितहयमेधव्यापदं पद्मयोनेः

श्रितजनपरतन्त्रं शेषभोगे शयानम् ।

शरणमुपगताः स्मः शान्तनिश्शेषदोषं

शतमखमणिसेतुं शाश्वतं वेगवत्याः ॥

शरणमुपगतानां सोऽयमादेशकारी

शमयति परितापं संमुखः सर्वजन्तोः ।

शतगुणपरिणामः संनिधौ यस्य नित्यं

वरवितरणभूमा वारणाद्रीश्वरस्य ॥

काञ्चीभाग्यं कमलनिलयाचेतसोऽभीष्टसिद्धिः

कल्याणानां निधिरविकलः कोऽपि कारुण्यराशिः ।

पुण्यानां नः परिणतिरसौ भूषयन् भोगिशय्यां

वेगासेतुर्जयति विपुलो विश्वरक्षैकहेतुः ॥

वेगासेतोरिदं स्तोत्रं वेङ्कटेशेन निर्मितम् ।

ये पठन्ति जनास्तेषां यथोक्तं कुरुते हरिः ॥

कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.