श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीवैराग्यपञ्चकम्
क्षोणीकोणशतांशपालनकलादुर्वारगर्वानल
क्षुभ्यत्क्षुद्रनरेन्द्रचाटुरचनाधन्यान् न मन्यामहे ।
देवं सेवितुमेव निश्चिनुमहे योऽसौ दयाळुः पुरा
धानामुष्टिमुचे कुचेलमुनये दत्ते स्म वित्तेशताम् ॥
सिलं किमनलं भवेदनलमौदरं बाधितुं
पयः प्रसृतिपूरकं किमु न धारकं सारसम् ।
अयत्नमलमल्लकं पथि पटच्चरं कच्चरं
भजन्ति विबुधा मुधा ह्यहह कुक्षितः कुक्षितः ॥
ज्वलतु जलधिक्रोडक्रीडत्कृपीडभवप्रभा
प्रतिभटपटुज्वालामालाकुलो जठरानलः ।
तृणमपि वयं सायं संफुल्लमल्लिमतल्लिका
परिमळमुचा वाचा याचामहे न महीश्वरान् ॥
दुरीश्वरद्वारबहिर्वितर्दिका
दुरासिकायै रचितोऽयमञ्जलिः ।
यदञ्जनाभं निरपायमस्ति मे
धनञ्जयस्यन्दनभूषणं धनम् ॥
शरीरपतनावधि प्रभुनिषेवणापादनात्
अबिन्धनधनञ्जयप्रशमदं धनं दन्धनम् ।
धनञ्जयविवर्धनं धनमुदूढगोवर्धनं
सुसाधनमबाधनं सुमनसां समाराधनम् ॥
नास्ति पित्राऽऽर्जितं किञ्चित्
न मया किञ्चिदार्जितम् ।
अस्ति मे हस्तिशैलाग्रे
वस्तु पैतामहं धनम् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥