श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीशरनागतिदीपिका
पद्मा पतेः स्तुति पदेन विपच्यमानं
पश्यन्त्विह प्रपदन प्रवणा महान्तः ।
मद्वाक्य सं वलितमप्यजहत्स्वभावं
मान्यं यतीश्वर महानस सं प्रदायम् ॥ 1 ॥
नित्यं श्रिया वसुधया च निषेव्यमाणं
निर्व्याज निर्भर दया भरितं विभाति ।
वेदान्त वेद्यमिह वेगवती समीपे
दीप प्रकाश इति दैवतमद्वितीयम् ॥ 2 ॥
दीपस्त्वमेव जगतां दयिता रुचिस्ते
दीर्घं तमः प्रतिनिवर्त्यमिदं युवाभ्याम् ।
स्तव्यं स्तव प्रियमतः शरणोक्ति वश्यं
स्तोतुं भवन्तमभिलष्यति जन्तुरेषः ॥ 3 ॥
पद्माकरादुपगता परिषस्वजे त्वां
वेगा सरिद्विहरणा कलशाब्धि कन्या ।
आहुस्तदा प्रभृति दीप समावभासम्
आजानतो मरकत प्रतिमं वपुस्ते ॥ 4 ॥
स्वामिन् गभीर सुभगं श्रम हारि पुं सां
माधुर्य रम्यमनघं मणि भङ्ग दृश्यम् ।
वेगान्तरे वितनुते प्रतिबिम्ब शोभां
लक्ष्मी सरः सरसिजाश्रयमङ्गकं ते ॥ 5 ॥
आविश्य धारयसि विश्वममुष्य यन्ता
शेषी श्रियः पतिरशेष तनुर्निदानम् ।
इत्यादि लक्षण गणैः पुरुषोत्तमं त्वां
जानाति यो जगति सर्वविदेष गीतः ॥ 6 ॥
विश्वं शुभाश्रयवदीश वपुस्त्वदीयं
सर्वा गिरस्त्वयि पतन्ति ततोऽसि सर्वः ।
सर्वे च वेद विधयस्त्वदनुग्रहार्थाः
सर्वाधिकस्त्वमिति तत्त्व विदस्तदाहुः ॥ 7 ॥
ज्ञानं बलं नियमन क्षमताऽथ वीर्यं
शक्तिश्च तेज इति ते गुण षट्कमाद्यम् ।
सर्वातिशायिनि हिमोपवनेश यस्मिन्
अन्तर्गतो जगदिव त्वयि सद्गुणौघः ॥ 8 ॥
दीपावभास दयया विधि पूर्वमेतत्
विश्वं विधाय निगमानपि दत्तवन्तम् ।
शिष्यायिताः शरणयन्ति मुमुक्षवस्त्वाम्
आद्यं गुरुं गुरुपरं परयाऽधिगम्यम् ॥ 9 ॥
सत्ता स्थिति प्रयतन प्रमुखैरुपात्तं
स्वार्थं सदैव भवता स्वयमेव विश्वम् ।
दीप प्रकाश तदिह त्वदवाप्तये त्वाम्
अव्याज सिद्धमनपायं उपायमाहुः ॥ 10 ॥
भोग्यं मुकुन्द गुण भेदमचेतनेषु
भोक्तृत्वमात्मनि निवेश्य निजेच्छयैव ।
पाञ्चालिका शुक विभूषण भोग दायी
सम्राडिवात्मसमया सह मोदसे त्वम् ॥ 11 ॥
त्वां मातरं च पितरं सहजं निवासं
सन्तः समेत्य शरणं सुहृदं गतिं च ।
निः सीम नित्य निरवद्य सुख प्रकाशं
दीप प्रकाश सविभूति गुणं विशन्ति ॥ 12 ॥
जन्तोरमुष्य जनने विधि शम्भु दृष्टौ
रागादिनेव रजसा तमसा च योगः ।
द्वैपायन प्रभृतयस्त्वदवेक्षितानां
सत्त्वं विमुक्ति नियतं भवतीत्युशन्ति ॥ 13 ॥
कर्मस्वनादि विषमेषु समो दयाळुः
स्वेनैव कॢप्त मपदेश मवेक्षमाणः ।
स्वप्राप्तये तनुभृतां त्वरसे मुकुन्द
स्वाभाविकं तव सुहृत्त्वमिदं गृणन्ति ॥ 14 ॥
निद्रायितान् निगम वर्त्मनि चारु दर्शी
प्रस्थान शक्ति रहितान् प्रतिबोध्य जन्तून् ।
जीर्ण स्तनन्धय जडान्धमुखानिवास्मान्
नेतुं मुकुन्द यतसे दयया सह त्वम् ॥ 15 ॥
भक्तिः प्रपत्तिरथ वा भगवन् तदुक्तिः
तन्निष्ठ सं श्रय इतीव विकल्प्यमानम् ।
यं कं चिदेक मुपपादयता त्वयैव
त्रातास्तरन्त्यवसरे भविनो भवाब्धिम् ॥ 16 ॥
नाना विधै रकपटै रजहत्स्वभावैः
अप्राकृतैर्निज विहार वशेन सिद्धैः ।
आत्मीय रक्षण विपक्षविनाशनार्थैः
सं स्थापयस्यनघ जन्मभिराद्य धर्मम् ॥ 17 ॥
निम्नोन्नतानि निखिलानि पदानि गाढं
मज्जन्ति ते महिम सागर शीकरेषु ।
नीरन्ध्रमाश्रयसि नीचजनान् तथाऽपि
शीलेन हन्त शिशिरोपवनेश्वर त्वम् ॥ 18 ॥
काशी वृकान्धक शरासन बाण गङ्गा-
सं भूति नामकृतिसं वदनाद्युदन्तैः ।
स्वोक्त्यम्बरीष भय शाप मुखैश्च शम्भुं
त्वन्निघ्नमीक्षितवतामिह कः शरण्यः ॥ 19 ॥
क्वासौ विभुः क्व वयमित्युपसत्ति भीतान्
जन्तून् क्षणात् त्वदनुवृत्तिषु योग्ययन्ती ।
सं प्राप्त सद्गुरु तनोः समये दयाळोः
आत्मावधिर्भवति सं स्कृतधीः क्षणं ते ॥ 20 ॥
योग्यं यमैश्च नियमैश्च विधाय चित्तं
सन्तो जितासनतया स्ववशासु वर्गाः ।
प्रत्याहृतेन्द्रिय गणाः स्थिर धारणास्त्वां
ध्यात्वा समाधि युगळेन विलोकयन्ति ॥ 21 ॥
पद्माभिराम वदनेक्षण पाणि पादं
दिव्यायुधाभरण माल्य विलेपनं त्वाम् ।
योगेन नाथ शुभमाश्रय मात्मवन्तः
सालम्बनेन परिचिन्त्य न यान्ति तृप्तिम् ॥ 22 ॥
मानातिलङ्घि सुख बोध महाम्बुराशौ
मग्नास्त्रिसीम रहिते भवतः स्वरूपे ।
ताप त्रयेण विहतिं न भजन्ति सन्तः
सं सार घर्म जनितेन समाधिमन्तः ॥ 23 ॥
धी सं स्कृतान् विदधतामिह कर्म भेदान्
शुद्धं जिते मनसि चिन्तयतां स्वमेकम् ।
त्वत्कर्म सक्त मनसामपि चापरेषां
सूते फलान्यभिमतानि भवान् प्रसन्नः ॥ 24 ॥
उद्बाहु भावमपहाय यथैव खर्वः
प्रां शुं फलार्थ मभियाचति योगि चिन्त्य ।
एवं सदुष्करमुपाय गणं विहाय
स्थाने निवेशयति तस्य विचक्षणस्त्वाम् ॥ 25 ॥
नित्यालसार्हमभयं निरपेक्षमन्यैः
विश्वाधिकार मखिलाभिमत प्रसूतिम् ।
शिक्षाविशेषसुभगं व्यवसाय सिद्धाः
सत्कुर्वते त्वयि मुकुन्द षडङ्ग योगम् ॥ 26 ॥
त्वत्प्रातिकूल्य विमुखाः स्फुरदानुकूल्याः
कृत्वा पुनः कृपणतां विगतातिशङ्काः ।
स्वामिन् भव स्वयमुपाय इतीरयन्तः
त्वय्यर्पयन्ति निज भारमपार शक्तौ ॥ 27 ॥
अर्थान्तरेषु विमुखान् अधिकार हानेः
श्रद्धाधनान् त्वदनुभूति विळम्ब भीतान् ।
दीप प्रकाश लभसे सुचिरात् कृतीव
न्यस्तात्मनस्तव पदे निभृतान् प्रपन्नान् ॥ 28 ॥
मन्त्रैरनुश्रव मुखेष्वधिगम्यमानैः
स्वाधि क्रिया समुचितैर्यदि वाऽन्यवाक्यैः ।
नाथ त्वदीय चरणौ शरणं गतानां
नैवायुतायुत कलाऽप्यपरैरवाप्या ॥ 29 ॥
दत्ताः प्रजा जनकवत् तव देशिकेन्द्रैः
पत्याऽभिनन्द्य भवता परिणीयमानाः ।
मध्ये सतां महितभोग विशेष सिद्ध्यै
माङ्गल्य सूत्रमिव बिभ्रति किङ्करत्वम् ॥ 30 ॥
दिव्ये पदे नियत किङ्करताधिराज्यं
दातुं त्वदीय दयया विहिताभिषेकाः ।
आदेहपातमनघाः परिचर्यया ते
युञ्जानचिन्त्य युवराज पदं भजन्ति ॥ 31 ॥
त्वां पाञ्चरात्रिक नयेन पृथग्विधेन
वैखानसेन च पथा नियताधिकाराः ।
सं ज्ञा विशेष नियमेन समर्चयन्तः
प्रीत्या नयन्ति फलवन्ति दिनानि धन्याः ॥ 32 ॥
वर्णाश्रमादि नियत क्रम सूत्र बद्धा
भक्त्या यथार्ह विनिवेशित पत्र पुष्पा ।
मालेव काल विहिता हृदयङ्गमा त्वाम्
आमोदयत्यनुपराग धियां सपर्या ॥ 33 ॥
ब्रह्मा गिरीश इतरेऽप्यमरा य एते
निर्धूय तान् निरय तुल्य फल प्रसूतीन् ।
प्राप्तुं तवैव पद पद्म युगं प्रतीताः
पातिव्रतीं त्वयि वहन्ति परावरज्ञाः ॥ 34 ॥
नाथ त्वदिष्ट विनियोग निशेष सिद्धं
शेषत्व सारमनपेक्ष्य निजं गुणज्ञाः ।
भक्तेषु ते वर गुणार्णव पारतन्त्र्यात्
दास्यं भजन्ति विपणि व्यवहार योग्यम् ॥ 35 ॥
सद्भिस्त्वदेक शरणैर्नियतं सनाथाः
सर्पादिवत् त्वदपराधिषु दूर याताः ।
धीरास्तृणीकृत विरिञ्च पुरन्दराद्याः
कालं क्षिपन्ति भगवन् करणैरवन्ध्यैः ॥ 36 ॥
वागादिकं मनसि तत् पवने स जीवे
भूतेष्वयं पुनरसौ त्वयि तैः समेति ।
साधारणोत्क्रमण कर्म समाश्रितानां
यन्त्रा मुकुन्द भवतैव यथा यमादेः ॥ 37 ॥
सव्यान्ययो रयनयोर्निशि वासरे वा
सङ्कल्पितायु रवधीन् सपदि प्रपन्नान् ।
हार्दः स्वयं निजपदे विनिवेशयिष्यन्
नाडीं प्रवेशयसि नाथ शताधिकां त्वम् ॥ 38 ॥
अर्चिर्दिनं विशदपक्ष उदक्प्रयाणं
सं वत्सरो मरुदशीतकरः शशाङ्कः ।
सौदामनी जलपतिर्वलजित् प्रजेशः
इत्यातिवाहिक सखो नयसि स्वकीयान् ॥ 39 ॥
त्वच्छेष वृत्त्यनुगुणैर्महितैर्गुणौघैः
आविर्भवत्ययुतसिद्ध निज स्वरूपे ।
त्वल्लक्षणेषु नियतेष्वपि भोगमात्रे
साम्यं भजन्ति परमं भवता विमुक्ताः ॥ 40 ॥
इत्थं त्वदेक शरणैरनघैरवाप्ये
त्वत्किङ्करत्व विभवे स्पृहयाऽपराध्यन् ।
आत्मा ममेति भगवन् भवतैव गीताः
वाचो निरीक्ष्य भरणीय इह त्वयाऽहम् ॥ 41 ॥
पद्मा मही प्रभृतिभिः परिभुक्त भूम्नः
का हानिरत्र मयि भोक्तरि ते भवित्री ।
दुष्येत् किमङ्घ्रि तटिनी तव देव सेव्या
दुर्वार तर्ष चपलेन शुनाऽवलीढा ॥ 42 ॥
सत्वानि नाथ विविधान्यभिसञ्जिघृक्षोः
सं सार नाट्य रसिकस्य तवास्तु तृप्त्यै ।
प्रत्यक्पराङ्मुख मतेरसमीक्ष्य कर्तुः
प्राचीन सज्जन विडम्बन भूमिका मे ॥ 43 ॥
कर्तव्यमित्यनुकलं कलयाम्यकृत्यं
स्वामिन्नकृत्यमिति कृत्यमपि त्यजामि ।
अन्यद् व्यतिक्रमण जातमनन्तमर्थ-
स्थाने दया भवतु ते मयि सार्वभौमी ॥ 44 ॥
यं पूर्वमाश्रित जनेषु भवान् यथावत्
धर्मं परं प्रणिजगौ स्वयमानृशं स्यम् ।
सं स्मारितस्त्वमसि तस्य शरण्य भावात्
नाथ त्वदात्त समया ननु मादृशार्थम् ॥ 45 ॥
त्राणं भवेति सकृदुक्ति समुद्यतानां
तैस्तैरसह्य वृजिनैरुदरं भरिस्ते ।
सत्यापिता शतमखात्मज शङ्करादौ
नाथ क्षमा न खलु जन्तुषु मद्विवर्जम् ॥ 46 ॥
कर्मादिषु त्रिषु कथां कथमप्यजानन्
कामादि मेदुरतया कलुष प्रवृत्तिः ।
साकेत सं भव चराचरजन्तु नीत्या
वीक्ष्यः प्रभो विषय वासितयाऽप्यहं ते ॥ 47 ॥
ब्रह्माण्ड लक्ष शत कोटि गणाननन्तान्
एक क्षणे विपरिवर्त्य विलज्जमानाम् ।
मत्पाप राशि मथने मधुदर्प हन्त्रीं
शक्तिं नियुङ्क्ष्व शरणागतवत्सल त्वम् ॥ 48 ॥
आस्तां प्रपत्तिरिह देशिकसाक्षिका मे
सिद्धा तदुक्तिरनघा त्वदवेक्षितार्था ।
न्यस्तस्य पूर्वनिपुणैस्त्वयि नन्विदानीं
पूर्णे मुकुन्द पुनरुक्त उपाय एषः ॥ 49 ॥
यद्वा मदर्थ परिचिन्तनया तवालं
सं ज्ञा प्रपन्न इति साहसिको बिभर्मि ।
एवं स्थिते त्वदपवाद निवृत्तये मां
पात्रीकुरुष्व भगवन् भवतः कृपायाः ॥ 50 ॥
त्यागे गुणेश शरणागत सं ज्ञिनो मे
स्त्यानागसोऽपि सहसैव परिग्रहे वा ।
किं नाम कुत्र भवतीति कृपादिभिस्ते
गूढं निरूपय गुणेतर तारतम्यम् ॥ 51 ॥
स्वामी दया जलनिधिर्मधुरः क्षमावान्
शीलाधिकः श्रित वशः शुचिरत्युदारः ।
एतानि हातुमनघो न किलार्हसि त्वं
विख्यातिमन्ति बिरुदानि मया सहैव ॥ 52 ॥
वेला धनञ्जय रथादिषु वाचिकैः स्वैः
आघोषितामखिलजन्तु शरण्यतां ते ।
जानन् दशानन शतादधिकागसोऽपि
पश्यामि दत्तमभयं स्वकृते त्वया मे ॥ 53 ॥
रक्ष्यस्त्वया तव भरोऽस्म्यहमित्यपूर्वान्
वर्णानिमा नहृदयानपि वाचयित्वा ।
मद्दोष निर्जित गुणो महिषी समक्षं
मा भूस्त्वदन्य इव मोघ परिश्रमस्त्वम् ॥ 54 ॥
मुख्यं च यत्प्रपदनं स्वयमेव साध्यं
दातव्यमीश कृपया तदपि त्वयैव ।
तन्मे भवच्चरण सङ्गवती मवस्थां
पश्यन्नुपाय फलयोरुचितं विधेयाः ॥ 55 ॥
अल्पास्थिरै रसुखजै रसुखावसानैः
दुः खान्वितैरनुचितै रभिमान मूलैः ।
प्रत्यक्परागनुभवैः परिघूर्णितं मां
त्वय्येव नाथ चरितार्थय निर्विविक्षुम् ॥ 56 ॥
तत्त्वावबोध शमित प्रतिकूल वृत्तिं
कैङ्कर्य लब्ध करण त्रय सामरस्यम् ।
कृत्वा त्वदन्य विमुखं कृपया स्वयं मां
स्फातिं दृशोः प्रतिलभस्व जगज्जनन्याः ॥ 57 ॥
इत्थं स्तुति प्रभृतयो यदि सं मताः स्युः
यद्वाऽपराध पदवीष्वभिसं विशन्ति ।
स्तोकानुकूल्य कणिका वश वर्तिनस्ते
प्रीति क्षमा प्रसरयोरहमस्मि लक्ष्यम् ॥ 58 ॥
स्नेहोपपन्न विषयः स्व दशा विशेषात्
भूयस्तमिस्र शमनीं भुवि वेङ्कटेशः ।
दिव्यां स्तुतिं निरमिमीत सतां नियोगात्
दीपप्रकाश शरणागति दीपिकाख्याम् ॥ 59 ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥