श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्रीहयग्रीवस्तोत्रम्
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् ।
आधारं सर्वविद्यानां हयग्रीवमुपास्महे ।।
स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं
सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् ।
अनन्तैस्त्रय्यन्तैऱऩुविहितहेषाहलहलं
हताशेषावद्यं हयवदनमीडीमहि महः ।।
समाहारः साम्नां प्रतिपदमृचां धाम यजुषां
लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः ।
कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं
हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ।।
प्राची सन्ध्या काचिदन्तर्निशायाः
प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा ।
वक्त्री वेदान् भातु मे वाजिवक्त्रा
वागीशाख्या वासुदेवस्य मूर्तिः ।।
विशुद्धविज्ञानघनस्वरूपं
विज्ञान विश्राणनबद्धदीक्षम् ।
दयानिधिं देहभृतां शरण्यं
देवं हयग्रीवमहं प्रपद्ये ।।
अपौरुषेयैरपि वाक्प्रपञ्चैः
अद्यापि ते भूतिमदृष्टपाराम् ।
स्तुवन्नहं मुग्ध इति त्वयैव
कारुण्यतो नाथ! कटाक्षणीयः ।।
दाक्षिण्यरम्या गिरिशस्य मूर्तिः
देवी सरोजासन धर्मपत्नी ।
व्यासादयोऽपि व्यपदेश्यवाचः
स्फुरन्ति सर्वे तव शक्तिलेशैः ।।
मन्दोऽभविष्यन्नियतं विरिञ्चो
वाचां निधे वञ्चितभागधेयः ।
दैत्यापनीतान् दययैव भूयोऽपि
अध्यापयिष्यो निगमान् न चेत् त्वम् ।।
वितर्कडोलां व्यवधूय सत्वे
बृहस्पतिं वर्तयसे यतस्त्वम् ।
तेनैव देव त्रिदशेश्वराणाम्
अस्पृष्टडोलायितमाधिराज्यम् ।।
अग्नौ समिद्धार्चिषि सप्ततन्तोः
आतस्थिवान् मन्त्रमयं शरीरम् ।
अखण्डसारैर्हविषा प्रदानैः
आप्यायनं व्योमसदां विधत्से ।।
यन्मूलमीदृक् प्रतिभाति तत्त्वं
या मूलमाम्नायमहाद्रुमाणाम् ।
तत्त्वेन जानन्ति विशुद्ध सत्त्वाः
त्वामक्षरामक्षरमातृकां ते ।।
अव्याकृताद्व्याकृतवानसि त्वं
नामानि रूपाणि च यानि पूर्वम् ।
शंसन्ति तेषां चरमां प्रतिष्ठां
वागीश्वर त्वां त्वदुपज्ञवाचः ।।
मुग्धेन्दुनिष्यन्दविलोभनीयां
मूर्तिं तवानन्दसुधाप्रसूतिम् ।
विपश्चितश्चेतसि भावयन्ते
वेलामुदारामिव दुग्धसिन्धोः ।।
मनोगतं पश्यति यः सदा त्वां
मनीषिणां मानस राजहंसम् ।
स्वयं पुरोभावविवादभाजः
किंकुर्वते तस्य गिरो यथार्हम् ।।
अपि क्षणार्धं कलयन्ति ये त्वाम्
आप्लावयन्तं विशदैर्मयूखैः ।
वाचां प्रवाहैरनिवारितैस्ते
मन्दाकिनीं मन्दयितुं क्षमन्ते ।।
स्वामिन् भवद्ध्यानसुधाभिषेकात्
वहन्ति धन्याः पुलकानुबन्धम् ।
अलक्षिते क्वापि निरूढमूलम्
अङ्गेष्विवानन्दथुमङ्कुरन्तम् ।।
स्वामिन् प्रतीचा हृदयेन धन्याः
त्वद्धयानचन्द्रोदयवर्धमानम् ।
अमान्तमानन्दपयोधिमन्तः
पयोभिरक्ष्णां परिवाहयन्ति ।।
स्वैरानुभावास्त्वदधीनभावाः
समृद्धवीर्यास्त्वदनुग्रहेण ।
विपश्चितो नाथ तरन्ति मायां
वैहारिकीं मोहनपिञ्छिकां ते ।।
प्राङ्निर्मितानां तपसां विपाकाः
प्रत्यग्रनिःश्रेयस संपदो मे ।
समेधिषीरंस्तव पादपद्मे
संकल्पचिन्तामणयः प्रणामाः ।।
विलुप्तमूर्धन्यलिपिक्रमाणां
सुरेन्द्रचूडापदलालितानाम् ।
त्वदंघ्रिराजीवरजःकणानां
भूयान् प्रसादो मयि नाथ! भूयात् ।।
परिस्फुरन्नूपुरचित्रभानु
प्रकाशनिर्धूततमोनुषङ्गाम् ।
पदद्वयीं ते परिचिन्महेऽन्तः
प्रबोधराजीवविभातसन्ध्याम् ।।
त्वत्किङ्करालंकरणोचितानां
त्वयैव कल्पान्तरपालितानाम् ।
मञ्जुप्रणादं मणिनूपुरं ते
मञ्जूषिकां वदेगिरां प्रतीमः ।।
संचिन्तयामि प्रतिभादशास्थान्
संधुक्षयन्तं समयप्रदीपान् ।
विज्ञानकल्पद्रुमपल्लवाभं
व्याख्यानमुद्रामधुरं करं ते ।।
चित्ते करोमि स्फुरिताक्षमालं
सव्येतरं नाथ करं त्वदीयम् ।
ज्ञानामृतोदञ्चनलम्पटानां
लीलाघटीयन्त्रमिवाश्रितानाम् ।।
प्रबोधसिन्धोररुणैः प्रकाशैः
प्रवालसङ्घातमिवोद्वहन्तम् ।
विभावये देव सपुस्तकं ते
वामं करं दक्षिणमाश्रितानाम् ।।
तमांसि भित्त्वा विशदैर्मयूखैः
संप्रीणयन्तं विदुषश्चकोरान् ।
निशामये त्वां नवपुण्डरीके
शरद्धने चन्द्रमिवस्फुरन्तम् ।।
दिशन्तु मे देव सदा त्वदीयाः
दयातरङ्गानुचराः कटाक्षाः ।
श्रोत्रेषु पुंसाममृतं क्षरन्तीं
सरस्वतीं संश्रितकामधेनुम् ।।
विशेषवित्पारिषदेषु नाथ
विदग्धगोष्ठीसमराङ्गणेषु ।
जिगीषतो मे कवितार्किकेर्न्द्रान्
जिह्वाग्रसिंहासनमभ्युपेयाः ।।
त्वां चिन्तयन् त्वन्मयतां प्रपन्नः
त्वामुद्गृणन् शब्दमयेन धाम्ना ।
स्वामिन् समाजेषु समेधिषीय
स्वच्छन्दवादाहवबद्धशूरः ।।
नानाविधानामगतिः कलानां
न चापि तीर्थेषु कृतावतारः ।
धृवं तवानाथपरिग्रहायाः
नवं नवं पात्रमहं दयायाः ।।
अकम्पनीयान्यपनीति भेदैः
अलंकृषीरन् हृदयं मदीयम् ।
शङ्काकलङ्कापगमोज्ज्वलानि
तत्त्वानि सम्यञ्चि तव प्रसादात् ।।
व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे
बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः ।
अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां
आविर्भूयादनघमहिमा मानसे वागधीशः ।।
वागर्थसिद्धिहेतोः
पठत हयग्रीवसंस्तुतिं भक्त्या ।
कवितार्किककेसरिणा
वेङ्कटनाथेन विरचितामेताम्।।
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥