श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्री अभीतिस्तवः
अभीतिरिह यज्जुषां यदवधीरितानां भयं
भयाभयविधायिनो जगति यन्निदेशे स्थिताः ।
तदेतदतिलङ्घितद्रुहिणशम्भुशक्रादिकं
रमासखमधीमहे किमपि रङ्गधुर्यं महः ॥ 1॥
दयाशिशिरिताशया मनसि मे सदा जागृयुः
श्रियाऽध्युषितवक्षसः श्रितमरुद्वृधासैकताः ।
जगद्दुरितघस्मरा जलधिडिम्भडम्भस्पृशः
सकृत्प्रणतरक्षणप्रथितसंविदः संविदः ॥ 2॥
यदद्य मितबुद्धिना बहुळमोहभाजा मया
गुणग्रथितकायवाङ्मनसवृत्तिवैचित्र्यतः ।
अतर्कितहिताहितक्रमविशेषमारभ्यते
तदप्युचितमर्चनं परिगृहाण रङ्गेश्वर ॥ 3 ॥
मरुत्तरणिपावकत्रिदशनाथकालादयः
स्वकृत्यमधिकुर्वते त्वदपराधतो बिभ्यतः ।
महत् किमपि वज्रमुद्यतमिवेति यच्छ्रूयते
तरत्यनघ तद्भयं य इह तावकः स्तावकः ॥ 4 ॥
भवन्तमिह यः स्वधीनियतचेतनाचेतनं
पनायति नमस्यति स्मरति वक्ति पर्येति वा ।
गुणं कमपि वेत्ति वा तव गुणेश गोपायितुः
कदाचन कुतश्चन क्वचन तस्य न स्यात् भयम् ॥ 5 ॥
स्थिते मनसि विग्रहे गुणिनि धातुसाम्ये सति
स्मरेदखिलदेहिनं य इह जातुचित् त्वामजम् ।
तयैव खलु संधया तमथ दीर्घनिद्रावशं
स्वयं विहितसंस्मृतिर्नयसि धाम नैःश्रेयसम् ॥ 6 ॥
रमादयित रङ्गभूरमण कृष्ण विष्णो हरे
त्रिविक्रम जनार्दन त्रियुग नाथ नारायण ।
इतीव शुभदानि यः पठति नामधेयानि ते
न तस्य यमवश्यता नरकपातभीतिः कुतः ॥ 7 ॥
कदाचिदपि रङ्गभूरसिक यत्र देशे वशी
त्वदेकनियताशयस्त्रिदशवन्दितो वर्तते ।
तदक्षततपोवनं तव च राजधानी स्थिरा
सुखस्य सुखमास्पदं सुचरितस्य दुर्गं महत् ॥ 8 ॥
त्रिवर्गपथवर्तिनां त्रिगुणलङ्घनोद्योगिनां
द्विषत्प्रमथनार्थिनामपि च रङ्गदृश्योदयाः ।
स्खलत्समयकातरीहरणजागरूकाः प्रभो
करग्रहणदीक्षिताः क इव ते न दिव्या गुणाः ॥ 9 ॥
बिभेति भवभृत्प्रभो त्वदुपदेशतीव्रौषधात्
कदध्वरसदुर्विषे बळिशभक्षवत्प्रीयते ।
अपथ्यपरिहारधीविमुखमित्थमाकस्मिकी
तमप्यवसरे क्रमादवति वत्सला त्वद्दया ॥ 10 ॥
अपार्थ इति निश्चितः प्रहरणादियोगस्तव
स्वयं वहसि निर्भयस्तदपि रङ्गपृथ्वीधर ।
स्वरक्षणमिवाभवत्प्रणतरक्षणं तावकं
यदात्थ परमार्थविन्नियतमन्तरात्मेति ते ॥ 11 ॥
लघिष्ठसुखसङ्गदैः स्वकृतकर्मनिर्वर्तितैः
कलत्रसुतसोदरानुचरबन्धुसंबन्धिभिः ।
धनप्रभृतिकैरपि प्रचुरभीतिभेदोत्तरैः
न बिभ्रति धृतिं प्रभो त्वदनुभूतिभोगार्थिनः ॥ 12 ॥
न वक्तुमपि शक्यते नरकगर्भवासादिकं
वपुश्च बहुधातुकं निपुणचिन्तने तादृशम् ।
त्रिविष्टपमुखं तथा तव पदस्य देदीपतः
किमत्र न भयास्पदं भवति रङ्गपृथ्वीपते ॥ 13 ॥
भवन्ति मुखभेदतो भयनिदानमेव प्रभो
शुभाशुभविकल्पिता जगति देशकालादयः ।
इति प्रचुरसाध्वसे मयि दयिष्यसे त्वं न चेत्
क इत्थमनुकम्पिता त्वदनुकम्पनीयश्च कः ॥ 14 ॥
सकृत्प्रपदनस्पृशामभयदाननित्यव्रती
न च द्विरभिभाषसे त्वमिति विश्रुतः स्वोक्तितः ।
यथोक्तकरणं विदुस्तव तु यातुधानादयः
कथं वितथमस्तु तत्कृपणसार्वभौमे मयि ॥ 15 ॥
अनुक्षणसमुत्थिते दुरितवारिधौ दुस्तरे
यदि क्वचन निष्कृतिर्भवति साऽपि दोषाविला ।
तदित्थमगतौ मयि प्रतिविधानमाधीयतां
स्वबुद्धिपरिकल्पितं किमपि रङ्गधुर्य त्वया ॥ 16 ॥
विषादबहुलादहं विषयवर्गतो दुर्जयात्
बिभेमि वृजिनोत्तरस्त्वदनुभूतिविच्छेदतः ।
मया नियतनाथवानयमिति त्वमर्थापयन्
दयाधन जगत्पते दयितरङ्ग संरक्ष माम् ॥ 17 ॥
निसर्गनिरनिष्टता तव निरंहसः श्रूयते
ततस्त्रियुग सृष्टिवद्भवति संहृतिः क्रीडितम् ।
तथाऽपि शरणागतप्रणयभङ्गभीतो भवान्
मदिष्टमिह यद्भवेत्किमपि मा स्म तज्जीहपत् ॥ 18 ॥
कयाधुसुतवायसद्विरदपुङ्गवद्रौपदीविभीषणभुजङ्गमव्रजगणाम्बरीषादयः ।
भवत्पदसमाश्रिता भयविमुक्तिमापुर्यथा लभेमहि तथा वयं सपदि रङ्गनाथ त्वया ॥ 19 ॥
भयं शमय रङ्गधाम्न्यनितराभिलाषस्पृशां
श्रियं बहुलय प्रभो श्रितविपक्षमुन्मूलय ।
स्वयं समुदितं वपुस्तव निशामयन्तः सदा
वयं त्रिदशनिर्वृतिं भुवि मुकुन्द विन्देमहि ॥ 20 ॥
श्रियः परिबृढे त्वयि श्रितजनस्य संरक्षके
सदद्भुतगुणोदधाविति समर्पितोऽयं भरः ।
प्रतिक्षणमतः परं प्रथय रङ्गधामादिषु
प्रभुत्वमनुपाधिकं प्रथितहेतिभिर्हेतिभिः ॥ 21 ॥
कलिप्रणिधिलक्षणैः कलितशाक्यलोकायतैः
तुरुष्कयवनादिभिर्जगति जृम्भमाणं भयम् ।
प्रकृष्टनिजशक्तिभिः प्रसभमायुधैः पञ्चभिः
क्षितित्रिदशरक्षकैः क्षपय रङ्गनाथ क्षणात् ॥ 22 ॥
दितिप्रभवदेहभिद्दहनसोमसूर्यात्मकं
तमःप्रमथनं प्रभो समुदितास्त्रबृन्दं स्वतः ।
स्ववृत्तिवशवर्तितत्रिदशवृत्ति चक्रं पुनः
प्रवर्तयतु धाम्नि ते महति धर्मचक्रस्थितिम् ॥ 23 ॥
मनुप्रभृतिमानिते महति रङ्गधामादिके
दनुप्रभवदारुणैर्दरमुदीर्यमाणं परैः ।
प्रकृष्टगुणक श्रिया वसुधया च सन्धुक्षितः
प्रयुक्तकरुणोदधिः प्रशमय स्वशक्त्या स्वयम् ॥ 24 ॥
भुजङ्गमविहङ्गमप्रवरसैन्यनाथाः प्रभो
तथैव कुमुदादयो नगरगोपुरद्वारपाः ।
अचिन्त्यबलविक्रमास्त्वमिव रङ्ग संरक्षकाः
जितं त इति वादिनो जगदनुग्रहे जाग्रतु ॥ 25 ॥
विधिस्त्रिपुरमर्दनस्त्रिदशपुङ्गवः पावकः
यमप्रभृतयोऽपि यद्विमतरक्षणे न क्षमाः ।
रिरक्षिषति यत्र च प्रतिभयं न किञ्चित्क्वचित्
स नः प्रतिभटान्प्रभो शमय रङ्गधामादिषु ॥ 26 ॥
स कैटभतमोरविर्मधुपरागझञ्झामरुद्धिरण्यगिरिदारणस्त्रुटितकालनेमिद्रुमः ।
किमत्र बहुना भजद्भवपयोधिमुष्टिन्धयः त्रिविक्रम भवत्क्रमः क्षिपतु मङ्क्षु रङ्गद्विषः ॥ 27 ॥
यतिप्रवरभारतीरसभरेण नीतं वयः
प्रफुल्लपलितं शिरः परमिह क्षमं प्रार्थये ।
निरस्तरिपुसंभवे क्वचन रङ्गमुख्ये विभो
परस्परहितैषिणां परिसरेषु मां वर्तय ॥ 28 ॥
प्रबुद्धगुरुवीक्षणप्रथितवेङ्कटेशोद्भवाम्
इमामभयसिद्धये पठत रङ्गभर्तुः स्तुतिम् ।
भयं त्यजत भद्रमित्यभिदधत्स वः केशवः
स्वयं घनघृणानिधिर्गुणगणेन गोपायति ॥ 29 ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥