श्रीमते निगमान्तमहादेशिकाय नमः
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी ।
वेदान्ताचार्यवर्यो मे संनिधत्तां सदा हृदि ।
श्री अष्टभुजाष्टकम्
गजेन्द्ररक्षात्वरितं भवन्तं ग्राहैरिवाहं विषयैर्विकृष्टः ।
अपारविज्ञानदयानुभावम् आप्तं सतामष्टभुजं प्रपद्ये ॥
त्वेदेकशेषोऽहमनात्मतन्त्रः
त्वत्पादलिप्सां दिशता त्वयैव ।
असत्समोऽप्यष्टभुजास्पदेश
सत्तामिदानीमुपलम्भितोऽस्मि ॥
स्वरूपरूपास्त्रविभूषणाद्यैः
परत्वचिन्तां त्वयि दुर्निवाराम् ।
भोगे मृदूपक्रमतामभीप्सन्
शीलादिभिर्वारयसीव पुंसाम् ॥
शक्तिं शरण्यान्तरशब्दभाजां
सारं च सन्तोल्य फलान्तराणाम् ।
त्वद्दास्यहेतोस्त्वयि निर्विशङ्कं
न्यस्तात्मनां नाथ बिभर्षि भारम् ॥
अभीतिहेतोरनुवर्तनीयं
नाथ त्वदन्यं न विभावयामि ।
भयं कुतः स्यात् त्वयि सानुकम्पे
रक्षा कुतः स्यात् त्वयि जातरोषे ॥
त्वदेकतन्त्रं कमलासहाय
स्वेनैव मां रक्षितुमर्हसि त्वम् ।
त्वयि प्रवृत्ते मम किं प्रयासैः
त्वय्यप्रवृत्ते मम किं प्रयासैः ॥
समाधिभङ्गेष्वपि संपतत्सु
शरण्यभूते त्वयि बद्धकक्ष्ये ।
अपत्रपे सोढुमकिञ्चनोऽहं
दूराधिरोहं पतनं च नाथ ॥
प्राप्ताभिलाषं त्वदनुग्रहान्मां
पद्मानिषेव्ये तव पादपद्मे ।
आदेहपातादपराधदूरम्
आत्मान्तकैङ्कर्यरसं विधेयाः ॥
प्रपन्नजनपाथेयं प्रपित्सनां रसायनम् ।
श्रेयसे जगतामेतत् श्रीमदष्टभुजाष्टकम् ॥
शरणागतसंत्राणत्वराद्विगुणबाहुना ।
हरिणा वेङ्कटेशीया स्तुतिः स्वीक्रियतामियम् ॥
कवितार्किकसिंहाय कल्याणगुणशालिने।
श्रीमते वेङ्कटेशाय बेदान्तगुरवे नमः ॥