श्री वेदान्तदेशिकस्तोत्रम्
श्रीमान् वेङ्कटनाथार्यः कवि-तार्किक-केसरी ।
वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ।।
गुरुतरगर्वशर्वपरपर्वतपर्वभिदा-
भिदुरविधानुधावि विविधाकृतयः कृतयः ।
श्रितजनताहिताय महिता इह यद्विहिताः
कथमधुना नुमस्तमथ वेङ्कटनाथगुरुम् ।। (१)
स्थिरतरवैनतेय-करुणापरिणामवता
हयवदनप्रमोद-सदनायित दिव्यहृदा ।
विदितनिजापदानविलसत् बिरुदावलिना
कविकथकाळि-मौळिमकुटेन जगद्विजितम् ।। (२)
वकुळभृदाततान पृतनापतिरेकतरो
यतिपतिरेवमेव निगमान्तमनन्ततनुः ।
तदुभयपक्षरक्षण-विलक्षणपक्षयुगः
श्रुतिमय एष विश्रुतगतिर्निगमान्तगुरुः ।। (३)
सरसवसन्तदान्त दिवसान्त सितान्तलसत्-
विसृमरमल्लिकाकुसुमतल्लजगन्धपुषः ।
वचनसरास्सतां परिपचेळिमपुण्यचयोः
मनसि मम स्फुरन्तु कवितार्किकसिंहगुरोः ।। (४)
निरवधिकप्रवाह-निरवग्रह-कौतुकदं
निरुपधि-सद्गुणौघ निरसूयजनोपचितम् ।
निरतिशयाकृतिं समभजं निरवद्यगुणं
निगमशिरो गुरुं निरुपमानमुपायनिधिम् ।। (५)
स्वगुणविशङ्कट प्रगुण-वेङ्कटनाथकृपा –
परिलसदूर्मिकार्मणतया विहितावतरः ।
जयति यतीश-दर्शन-महत्त्वनिदर्शनधीः
गुरुरधिकत्त्वरप्रकृतिजित्त्वर सत्वतरः ।। (६)
कति कति वा भवन्तु कवितावनितानुगताः
जगति मितं पञ्चानुमितचाटुकथानिरताः ।
वयमिह मन्महे किमपि चिन्मयमेव महः
श्रुतियुगसङ्कटक्षति-विशङ्कटनामपदम् ।। (७)
गुणगणवत्यनन्तगुरुसञ्चित-पुण्यफले
मतिमति माननीय-चरणांबुरुहाभरणे ।
भव भवतापहारिवचने निगमान्तगुरौ
मम ममतास्पदे विहर मानस! हंस इव।। (८)
पठतां शठतां त्यक्त्वा यथेष्टमिदमष्टकम् ।
निगमान्तगुरुस्स्पष्टं दिशत्यन्ते गुणाष्टकम् ।। (९)
कवितार्किकसिंहाय कल्याणगुणशालिने ।
श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ।।