॥ श्रीरस्तु॥
श्रीमत्प्रणतातिहरवरदपरब्रह्मणे नमः ।
श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ।
श्रीमते निगमान्तमहादेशिकाय नमः ।
श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सनिधत्तां सदा हृदि ॥
श्रीमन्निगमान्त महादेशिकैरनुगृहीतं
॥ चतुश्श्लोकीभाष्यम् ॥
(भगवद्यामुनमुनिभिरनुगृहीता चतुःश्लोकी)
1स्वशेषाशेषार्थो निरवधिकनिर्वाधमहिमा फलानां दाता यः फलमपि च शारीरकमितः ।
श्रियं तत्सध्रीची तदुपसदनत्रासशमनीमभिष्टौति स्तुत्यामवितथमतिर्यामुनमुनिः ॥१॥
अत्र समन्वयाविरोधसाधनफलविषयशारीरकचतुरध्यायीसमधिगतस्य भगवतः सर्वप्रकारा–भिमतानुरूपसह(धर्मचारिणी)धर्मिणीविशिष्टतयाऽपि सर्वाधिकत्वं कश्श्रीश्श्रियः (स्तोत्ररत्ने १२), इत्युक्तकैमुतिकन्यायकाकुगर्भया2 चतुश्श्लोक्या प्रकाशयन् प्रथमं श्रियः पतिपिपादयिषितानां विभूतिद्वयशेषित्वादीनां स्थापकमाह-
कान्तस्ते पुरुषोत्तमः फणिपतिः शय्याऽऽसनं वाहनं
वेदात्मा विहगेश्वरो यवनिका माया जगन्मोहिनी ।
ब्रह्मेशादिसुरव्रजः सदयितस्त्वद्दासदासीगणः
श्रीरित्येव च नाम ते भगवति ! ब्रूमः कथं त्वां वयम् ॥१॥
कान्तस्त इति । कान्तः-प्रियः, अनुरूपपतिरित्यर्थः। ते-सर्वमङ्गलास्पदत्वेन प्रमाण-सिद्धायाः। एतत्पदद्वयाभिप्रेतं व्यञ्जितं गद्ये * देवदेवदिव्यमहिषीम् (शरणागतिगद्ये) इति । * द्वाविमौ पुरुषौ लोके (गीता 15-16) इत्यादिभिः स्वेनैव निरुक्तेन परत्वव्यञ्जकेन समाख्याविशेषण लक्ष्मीकान्तं विशिनष्टि-पुरुषोत्तम इति । अत्र पञ्चम्यादि विभक्तित्रयेऽपि समासः1शब्दविसंमतः । अनेन हिरण्यगर्भादीनामपि भगवदपेक्षया अधमत्वव्यञ्जनात् तत्पत्नीभ्यः पुरुषोत्तमपल्या उत्तमत्वं सूचितम् । अवतारेऽपि ह्यसौ नारीणामुत्तमा (रामायणे बाल. १-२७) इत्युच्यते । एवमस्याः पतिसंबन्धेन प्रकर्ष उक्तः।
अथ पत्युरिव विभूतिसंबन्धेनापि प्रकर्षं वदन् नित्यसूरिपरिभृढानामपि एतदुपकरणत्वमुदा-हरति-फणिपतिः शय्येति । अत्र फणिपतिशब्देन सुरभिसुकुमारशीतलविशालोन्नतत्वादिरूपाः पर्यङ्कगुणा व्यज्यन्ते । तत्मभावश्च, * कल्पान्ते यस्य वक्त्रेभ्यो विषानलशिखोज्ज्वलः । सकर्षणात्मको रुद्रो निष्क्रम्यात्ति जगत्त्रयम् ॥ स विभ्रच्छेस्वरीभूतमशेषं क्षितिमण्डलम् ॥ आस्ते पातालमूलस्थः शेषोऽशेषसुरार्चितः ॥ तस्य वीर्यं प्रभावं च स्वरूपं रूपमेव च । न हि वर्णयितुं शक्यं ज्ञातुं वा त्रिदशैरपि ॥ (वि. पु. 2-5-21) इत्यादिषु प्रसिद्धः । स्तोत्रे च * तया सहासीन-मनन्तभोगिनि (३९) इत्यादौ। आसनशब्द इह काकाक्षिन्यायादुभयतो योज्यः । उक्तं ह्याद्ये2 पुराणे तन्नामसहस्रे, * भोगप्रिया भोगवती भोगीन्द्रशयनासना (लक्ष्मीसहस्रनामस्तोत्रे १२० श्लो.) इति, * अजिता कर्षणी नीतिर्गरुडा गरुडासना (लक्ष्मीसहस्रनामसु १०० श्लो.) इति च ।
* वहेयं यज्ञं प्रविशेयं वेदान्, इति सौर्पणश्रुतिविवक्षितं वेदाभिमानिदेवताधिष्ठातृत्व-
मभिप्रेत्याह-वेदात्मा विहगेश्वर इति । वेदाधिष्ठातृतया दानामात्मा; यद्वा, तद्विशिष्टत्वेन तत्समानाधिकरणतया वेद आस्मा यस्येति विग्रहः । * सुपर्णोऽसि गरुत्मान् (तैत्तिरीय-संहिता ४-१-४२) इत्यादिष्वप्यस्य वेदात्मत्वं ग्राह्यम् । एवं सर्ववेदाभिमानितया सर्वज्ञत्वमप्यस्य सूच्यते । बलादिगुणजातमपि 3अमृताहरणादिषु प्रसिद्धम् । यद्यपि विहगेश्वरशब्दः *सत्यः सुपर्णो गरुडस्तार्क्ष्यस्तु विहगेश्वरः, इति श्रीसात्वतादिषु प्राणादिपञ्चकाधिपतित्वेनावस्थितस्य गरुडस्य व्यूह-विशेषमभिधत्ते, तथाप्यत्र विशेषकामावाद्गरुत्मन्मात्रविषयः । फणिपतिविहगेश्वरयोरुपादानमिह
मिथो विरुद्धजातीयैरप्यविरोधेन युगपत् सेव्यत्वं सूचयति । कैमुत्यादन्येषां नित्यानां मुक्तानामप्ये-तत्परिजनपरिच्छदभावेनावस्थानं ख्याप्यते, तेषामप्येतदाज्ञाकरत्वमुक्तं श्रीवैकुण्ठगद्ये * शेषशेषाश-नादिसर्वपरिजनम् , इत्यादिना । एवं सर्वस्या अपि नित्यविभूतेस्तच्छेषत्वं तात्पर्यतः प्रदर्शितम् ।
अथ लीलाविभूतौ अचिदंशस्य प्रथमं तच्छेषतामाह यवनिका माया जगन्मोहिनीति ।
अत्र यवनिकाशब्दाभिप्रेतं गद्ये * भगवत्स्वरूपतिरोधानकरीम् (शरणागतिगद्ये) इति विवृतम् । एतद्ग्रन्थद्वयतात्पर्येण दिव्यदम्पत्योरनाश्रितापेक्षया त्रिगुणतिरस्करण्या तिरोधेयत्वं फलितम् । मायाशब्दोऽयम् * मायां तु प्रकृतिं विद्यात् (श्वेताश्वतरोपनिषत् 4-10) इति प्रकृतिविषयतया श्वेताश्वतरैरधीतः। स च विचित्रसृष्ट्युपकरणतया प्रकृतेराश्चर्यमयत्वं व्यञ्जयति । जगन्मोहि-
नीत्यनेन जीवपरमात्मादिषु विपरीतधीहेतुत्वं शब्दादिगुणपरिणतिशवलितस्वविषयभोग्यताबुद्धिजनकत्वं
च विवक्षितम् ।
ईदृशप्रकृतिमोहितानां कर्मवश्यानां सर्वेषामपि विष्णुपत्नीशेषत्वमुत्कृष्टमुखेन कैमुत्य-न्यायादुपलक्षयति–ब्रह्मेशादिसुरव्रजः सदयितस्त्वदासदासीगण इति । प्रकर्षनिदर्शनादीश्वरत्व-शङ्कास्पदयोः *एतौ द्वौ विबुधश्रेष्ठौ (भार. शान्ति. 350-10) इत्याद्युक्तयोर्ब्रह्मेशयोरप्यग्नीन्द्रादिभिरै-कराश्यसूचनाय व्रजगणशब्दौ । सदयित इत्युपादानेऽप्यौचित्यात् दासीशब्दस्तत्पत्न्यंशेऽन्वेतव्यः ।
उक्तार्थे श्रुत्यादीनि प्रमाणानि तिष्ठन्तु, असाधारणसमाख्यैवालमिति ख्यापयति-श्रीरित्येव च नाम त इति । *श्रयन्तीं श्रीयमाणां च शृण्वतीं शृणतीमपि (अहिर्बुध्न्यसंहिता 21-8) *शृणाति निखिलं दोषं शृणाति च गुणैर्जगत् । श्रीयते चाखिलैर्नित्यं श्रयते च परं पदम् ।। (अहि. सं. 51-62) इत्यादिनिरुक्तिरिहाभिप्रेता। निस्सङ्कल्पा निराश्रया (लक्ष्मीसहस्रनाम 18) इति नाम तु *श्रयते च परं पदम्, इत्याद्यविरोधेन नेयम् * अकलङ्काऽमृताधारा इति (लक्ष्मी-सहस्रनाम 17) पूर्वोक्तानुसाराच्च। अमृतो हि परमात्मा, तदाधारा चेयम् । अत एव हि सोऽपि
1श्रीनिवासः, श्रीधर इति च समाख्यायते। उक्तं च श्रीसात्त्वते-*यतोऽहमाश्रयश्चास्या मूतिर्मम तदास्मिका, इति । यन्निवेशात् सर्वत्र प्राशस्त्यधीः, सैव हि ते समाख्येत्येवकाराभिप्रायः । निर्दोष-मङ्गलगुणाकरत्वज्ञापनाय भगवतीत्युक्तिः ।
ईदृशातिशयशालिन्याः श्रियो यथावत् स्तोतुमशक्यतामाह-ब्रूमः कथं त्वामिति ।। त्वाम्-उक्तप्रक्रियया विष्णुपत्नीत्वेन तदितरसर्वशेषित्वेन तदुचितनामधेयादियोगेन च प्रसिद्धाम् *न ते वर्णयितुं शक्ता गुणान् जिह्वाऽपि वेधस: (वि. पु. 1-9-133) इति चतुर्मुखेनापि स्तोतुमशक्यतयोक्तां चेति भावः । वयं-परिमितज्ञानशक्तयः । *ब्रह्माद्याः सकला देवा मुनयश्च तपोधनाः । त्वां स्तोतुमपि नेशानास्त्वत्प्रसादलवं विना ॥ इति वचनानुसारेण ब्रह्मादीनां स्वस्य चात्राविशेषव्यञ्जनाय बहुवचनम् । कथं ब्रूम:-कार्त्स्न्येन त्वद्वर्णनमशक्यं, परिच्छिद्य वर्णनं त्वनुचितमिति भावः ।
ये पुनराहुः- :-श्रीर्नाम भगवतः सर्वकर्तुरधिष्ठेया 2प्रकृतिरिति , ये च तस्य सत्ता-
ऽहन्ता 1प्रभाशक्तिविद्येच्छाभोक्तृतादिरूपेयम् , शास्त्रेषु तथातथा व्यपदेशदर्शनादित्याहुः; तेषां तत्रतत्रैव शास्त्रे निर्वाघेन चेतनत्वव्यपदेशेन निरासः। अत्राप्ययमर्थः ते त्वामिति युष्मच्छब्देन, संबोधनेन च श्रियश्चेतनत्वमुपस्थापयता सूचितः। सत्तादिशब्दास्त्वस्यां भगवदन्तरङ्गविशेषणत्वाद्यभिप्रायाः । प्रकृतेरन्यत्वं तु ते यवनिकेत्यनेनापि दर्शितम् । न चास्याः प्रकृतिशब्दोपात्ततामात्रेण त्रिगुणद्रव्य- तादात्म्यम् , *वासुदेवः परा प्रकृतिः (पाञ्चरात्राधिकरणभाष्ये) *पकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात् (ब्र. सू. 1-4-23) इत्युक्ते भगवत्यपि प्रसङ्गात् । *जगदुत्पादिका शक्तिस्तव प्रकृतिरिष्यते। सैव नामसहस्रैस्तु लक्ष्मीः श्रीरिति कीर्त्यते ।। *मूलप्रकृतिरीशानी (ल. सहस्रनाम्नि 68 श्लो.) *प्रकृतेः पुरुषाश्चान्यस्तृतीयो नैव विद्यते, इत्यादीनि 2ब्रह्मवचनान्यपि लक्ष्मीनारायणयोः प्रकृतिपुरुषरूप-विभक्तविभूतिविशेषाभिप्रायाणि ॥ रहस्याम्नाये तु प्रकृतौ लक्ष्म्यां च विद्याशब्दः प्रयुक्त इत्येतावताऽपि न तयोः स्वरूपैक्यम् । तत्र हि सत्त्वोन्मेषमुखेन विद्याहेतुतया प्रकृतौ विद्याशब्दः, लक्ष्म्यां तु विद्याप्रवर्तकत्वादिति विशेषः ।
ये तु सत्तादिविशिष्टो भगवानेव श्रीरिति वा, श्री(स्त्री)रूप नित्यविग्रहान्तर विशिष्टः स एवेय-मिति वा, दैत्यमोहनभूमिकापरिग्रहन्यायेन स्वयमेव भोगार्थं परिगृहीतकादाचित्ककान्ताविग्रहः स एव श्रीरिति वा वदन्ति । तेऽपि तद्विषयनिर्बाधनित्यभिन्नचेतनत्वव्यपदेशकैस्तैस्तैरेव शास्त्रैः निराकृताः ।
*हीश्च ते लक्ष्मीश्व पत्न्यौ (उत्तरनारायणानुवाके) इति श्रुतिश्च पत्युः पत्न्याश्च स्वरूपभेदं स्वरसतो दर्शयति । न चात्रानन्यथासिद्धं बाधकमस्ति । इदमप्यत्र ‘कान्तस्ते’ इति व्यधिकरणनिर्देशन व्यञ्जितम् ।
ये च मन्यन्ते, भगवत एव स्वरूपैकदेशः पृथगहन्तया परस्परभोक्तृत्वाय सर्वदा परिगृहीत-स्त्रीरूपः श्रीशब्दार्थः। तेन भेदाभेदव्यपदेशयोश्चेतनत्वस्य चाविरोध3 इति । तेऽपि ब्रह्मणः स्वरूपतो निरवयवत्वं प्रतिपादयद्भिः प्रमाणैर्निरस्ताः। *नरनारीमयो हरिः, इति ब्राह्मपुराणवचनेन तु हरेर्ना -रीमयत्वव्यपदेशः *1ज्योरस्नेव हिमदीषितेः, (सन. सं.) इति तत्रत्वदृष्टान्तानुसारेण प्रभाश्रयस्य प्रभामयत्वव्यपदेशवत् स्वरूपभेदाविरोधेन निर्वायः ।
एतेन 2बीजादेरङ्कुरोपादानांशवद्विश्वोपादानस्य ब्रह्मणः कार्योपयुक्तस्वरूपैकदेश एव
स्वभावतो वा परिणतिशक्त्या वा, उपाधिभेदेन वा भिन्नाहन्ताश्रयः श्रीरिति व्यपदिश्यते ; इति पक्षोऽपि प्रतिक्षिप्तः । ब्रह्मणः स्वरूपपरिणामादेश्च शारीरके निरस्तत्वात् ।
उपहितांशभेदपक्षस्तु विग्रहाद्युपाधौ सञ्चरति निरवयवे ब्रह्मस्वरूपे सरिज्जलादौ घटादि-नेवोपाधिना कस्यचिदंशस्यान्यत्राकर्षणायोगात् , घटाकाशन्यायेन पूर्वपूर्वोपहितांशपरित्यागे तु तत्तदंश-रूपस्य भोक्तुरभावादुत्तरोत्तरोपहितांशानां पूर्वपूर्वांशानुभूतभोगप्रतिसन्धानानुपपत्तेः भोक्तृसन्तत्येक-तामात्रेण प्रतिसन्धाने सौगतमतोन्मज्जनेन स्थिरात्मपरित्यागप्रसङ्गाच्चात्यन्तानुपपन्नः ।
अवतारपरिणामोपाधिभिन्नांशवादिनो लक्ष्म्यादेर्नित्यदेहादिप्रमाणैश्च निरासिरे । एतदपि सर्वमत्र व्यधिकरणप्रयोगेनैव सूचितम् । *कीर्तिश्श्रीर्वाक्च नारीणाम् (गीता 10-84) इत्यादिस-मानाधिकरणप्रयोगश्च पूर्वापरवत्स्वरूप मेदेऽपि संबन्ध विशेषनिबन्धनः । *विष्णोः श्रीरनपायिनी (वि. पु. 1-8-17) इत्यादिभिर्व्यधिकरणप्रयोगैश्च भेदस्सिद्धः ।
तर्ह्यग्रयमान्यायात् सहपठितनार्यन्तरवत् कर्मवश्यत्वं स्यात् , न स्यात्, वचन विरोघे न्यायस्यानवकाशात् । न चेदेवम् *आदित्यानामहं विष्णुः, (गीता 10-21) *वृष्णीनां वासुदेवोऽस्मि, (गीता 10-37) * अनन्तश्चास्मि नागानां वैनतेयश्च पक्षिणाम् (गीता 10-30) इत्यत्र कुतस्तथात्वनिस्तारः ? निर्धारणादिति चेन्न । साजात्येऽपि वैषम्यमात्रेण तदुपपत्तेः । ईश्वरत्वानीश्वर-त्वकर्मवश्यत्वाकर्मवश्यत्वादौ तु प्रमाणान्तरमेव शरणमिति । इदं चास्याः कर्मवश्यवैजात्यमिह ब्रह्मादिभ्योऽप्यधिकत्वोक्त्या प्रकाशितम् ।
नन्वर्धलक्ष्मीकविग्रहयोगः श्रीपतेः श्रियश्च विग्रहैक्यं स्वरूपैक्य भेदाभेदं वा सूचयति । उक्तञ्च श्रीविष्णुवैभवाधिकारे-
*त्वं यादृशोऽसि कमलामपि तादृशीं ते दारान् वदन्ति युवयोर्न तु मेदगन्धः ।
मायाविभक्तयुवतीतनुमेकमेव त्वां मातरं च पितरं च युवानमाहुः ॥ इति । तन्न; उभयेच्छया विग्रहमात्रस्यैकीकरणसंभवेनान्यथाप्युपपन्नतया विग्रहैक्यस्य श्रुत्यादि विरुद्धस्वरूपैक्यादि-कल्पकत्वायोगात् । तथाप्येकेनैव परमात्मना यथाकथञ्चित् सर्वनिर्वाहे किमत्रात्मभेदस्वीकारेणेति चेन्न, कॢप्तौ वक्तव्यस्य श्रुतौ वक्तुमयुक्तत्वात् । उक्ता च श्रुतिः प्रागेव । तदनुगुणं च श्रीविष्णुस्मृतौ
(99-6) भूमिवाक्यम् *आक्रम्य सर्वां तु यथा त्रिलोकीं तिष्ठत्ययं देववरोऽसिताक्षि । तथा स्थिता त्वं वरदे तथापि, इत्यादिकम् । नानयोर्विद्यते परम् (वि. पु. 1-8-35) इत्यादिभि: पुराणवचनैः, *एकतत्त्वमिवोदितौ (अहिर्बुध्न्यसंहिता 3-26) इत्यादिभगवच्छास्त्रवचनैश्च स्वरूपैक्यमनयोरपास्तम् । लाघवतन्मात्रावलम्बने तु सर्वेषामप्यात्मनामैक्यं प्रसजेत् ।
आत्मभेदमनिच्छन्तो भाष्यादिषु निराकृताः ।
दिव्ययोस्त्विह दम्पत्योः मिथो भेदः प्रसाधितः ॥ २॥
सर्वेषामात्मनां यैस्तु भिन्नाभिन्नत्वमिष्यते ।
लक्ष्मीनारायणैक्योक्तिः तेषां, सद्भिरुपेक्ष्यते ॥ ३ ॥
यत्र क्वचिदभेदोक्तिर्यद्यप्तवचने भवेत् ।
“रामसुग्रीवयोरैक्यम् ” (रामा. सु. 36-51) इत्यादिवदिहास्तु सा ॥ ४ ॥
अत्र निर्विशेषचिन्मात्रब्रह्मस्वरूपतिरोधानकरी मिथ्याभूता मायैव कल्पितरूपविशेषो-पश्लिष्टब्रह्मपतिच्छदवती लक्ष्मीरित्युच्यते, इति पक्षोऽपि तादृशब्रह्मततिरोधानादिनिरासादेव निर्धूतः । इदमप्यत्र मायायाः प्रस्तुतदम्पतिव्यतिरिक्तजगन्मोहनत्वोक्त्या प्रख्यापितम् ।
ननु यवनिका बहिरन्तस्थितयोः दृष्टिप्रसरनिरोधेन मिथोऽवलोकनविरोधिनी लोके दृष्टा । अतः श्रियोऽपि यवनिका तथा स्यात् । मैवम् , तदधीनसर्वव्यापारया मायया तस्याः सर्व-विषयसहजदृष्टि निरोधायोगात् । क्षेत्रज्ञानामपि भगवन्मायया धीसङ्कोचस्य दुष्कृतोपाधिकत्वात् अकर्मवश्येषु नित्यमुक्तेश्वरेषु तत्प्रसङ्गाभावादिति ।।
अस्तु तर्हि कर्मवश्यतादात्म्यात् कर्मफलान्वयः, ब्रह्मादीनां कर्मवश्यत्वं तावत् युगकोटि-सहस्राणि विष्णुमाराध्य पद्मभू:। पुनस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रुम ॥ (इतिहाससमुच्चये 13-8) इत्यादिभिः प्रसिद्धम् । किं पुनस्तत्पत्नीनाम् । तामिश्च तादात्म्यमस्यास्तत्रतत्र विशेषतस्ततत्सामानाधिकरण्येन व्यज्यते । गायत्रीकल्पेषु च सन्ध्यात्रये वर्णवाहनादिविशेषितं रूपत्रयमेकस्या एव देवतायाः प्रतिपाद्यते। उक्तं च कैश्चिल्लक्ष्मीस्तोत्रे-*गीर्देवतेति गरुडध्वजवल्लभेति1, इत्यादिभिः। अतः कर्मवश्यतादात्म्याद् यवनिकारूपितमायातिरोहितज्ञानत्वमस्या उपपद्यत इति ।
तदसत् । विशेषतः सामानाधिकरण्यस्य *यद्यद्विभूतिमत् सत्त्वम् (गीता 10-41) इत्युक्तेन विभूत्य-ध्यायन्यायेन निर्वाहात् । *2तापनीयोपनिषदि, घृतसूक्ते च लक्ष्म्यास्तेते शब्दा अपि निरुक्तिविशेषैस्तत्तद्विभूतियोगेन वा नेतव्याः। गायत्रीकल्पानां तु लक्ष्मीविभूतिभूताया एव गायत्र्याख्यायाः देवतायाः सन्ध्याभेदेन वैष्णव्यादिसमाख्यानुगुणवाहनरूपादिपरिग्रहशक्त्या माहात्म्यवर्णने तात्पर्यं
तत्र तत्र व्यक्तम् । तादृशाश्च वाहनादयोऽन्ये स्युः । न हि सारूप्यमात्रेण त एवैत इति निश्चयः, अनेकेषामेकजातीयवाहनादिदर्शनात् ।
द्रुहिणादिषु केषांचिदीश्वरव्यक्तिताभ्रमात् ।
तत्पनीष्वपि लक्ष्म्यंशवादः श्रुत्यादिवाधितः ॥ ५ ॥
एतदभिप्रायेण यत्रोक्तम्-सदयितस्त्वद्दासदासीगण1 इति ।
अस्त्वेवं, तथापि स्व्यंशमात्रापेक्षयैव श्रियो विभूतिमत्त्वमस्तु, ब्राह्मवैष्णवादिपुराणेषु
तथा दर्शनात् । अतः श्रीमत एव सर्वविभूतिशेषित्वमिति । अत्र ब्रूम:-*दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः (अहिर्बुध्न्यसंहितायां मन्त्रराजपदस्तोत्रे 12 श्लो.) इत्यादिभिः सर्वेषामात्मनां परमात्मदासत्वसिद्धेः *जायापत्योर्न विभागः (आप, धर्म, 2-6-14-16) इति न्यायात् पतिदासानां पत्नीदासत्वमवर्जनीयम् । नन्वेवं पत्न्या अपि पतिदासत्वे सति, तां प्रति पतिदासानां दासत्वमयुक्तं स्यात् । तन्न, लोके वेदे वा कचिदपि पत्न्याः पतिं प्रति दासत्वाभावात् । अत एव हि यदा यदा
हि कौसल्या दासीवश्च सखीव च (रामा. अयो. 12-68) इति दृष्टान्ततयोच्यते। *अहं शिष्या च दासी च भक्ता च तव माधव ! (वाराहे) इति भूमिवचनमप्युपचारतो नेयम् । यद्यपि पत्नीनां पतिदासत्वं, तथाऽपि पतिदासान्तराणां तद्दासत्वमपि यथालोकं युज्यते । अस्ति च सर्वेषां भगबद्दासत्वेऽपि तत्तदुपाधिभिः मिथो दासत्वम् । इह त्वेकयैवेच्छया विभूतिद्वयस्य नित्यमुभयार्थ-तयोपात्तत्वाद् 2देवताद्वन्द्वहविन्यायेन ब्रह्मादीनामुभयशेषत्वं युक्तमेव । गद्यादिषु विभूतिमध्ये तस्याः
पाठोऽपि पत्यपेक्षया पारार्थ्यमात्रसाम्यादुपपन्नः ।
आत्मान्तराणां सर्वेषां लक्ष्मीतत्पतिदासताम् ।
1 ‘मकारस्तु तयोर्दास’ इति केचिदघीयते ॥ ६॥
एवं सति भगवत्पत्न्यन्तरापेक्षया ब्रह्मादीनां दासत्वं भवतु वा मा वा, उक्तं तावदुपपन्नम् । अतः *पुन्नामा भगवान् हरिः। स्त्रीनाम्नी लक्ष्मीर्मैत्रेय (वि. पु. 1-8-35) *यो यो जगति पुम्भावः स विष्णुरिति निश्चयः। यो यस्तु नारीभावः स्यात् तत्र लक्ष्मीर्व्यवस्थिता ॥ (सनत्कुमारसंहिता) इत्याद्युक्तो विभूतिविभागस्तु लौकिकदम्पत्योर्ययोचितविनियोगानुगुणभूषणादिविभागवन्नित्येच्छा-
नियमितविशेषाभिमानार्थ इत्यभिप्रायेण फणिपत्यादीनामप्यत्र लक्ष्मीशेषत्वोक्तिरिति ।
केचित्तु नानाविध-वादिविप्रतिपत्तिमोहिताः सर्वथा दुर्निरूपं लक्ष्मीतत्त्वमिति मन्यन्ते ।
तेऽप्येवमिह निरूपणेन निर्धूताः । किञ्च सदसदनिर्वचनीयत्वादिरूपदुर्निरूपत्वं तत्तन्मतनिरासादेव निरस्तम् । येनकेनचिदाकारेण दुर्निरूपत्वं तु सर्वत्रापि संभवति, उपयुक्तांशनिरूपणस्यापि संप्रति-पन्नसाम्यान्नात्र विशेष इति ॥१॥
अथ *कथं ब्रूम इति स्तुत्यारम्भाक्षेपहेतुतयोदाहृतं स्तोतव्यगतमुत्कर्षं मुखान्तरेण
दृढीकुर्वन्नेव तदुपश्लिष्टं सौलभ्यविशेष(गुण)मनुसन्धाय स्तोतृगतदयनीयदशानिरूपणेन हेतुना स्तुत्यारम्भं समाधत्ते-
यस्यास्ते महिमानमात्मन इव त्वद्वल्लभोऽपि प्रभु-र्नालं मातुमियत्तया निरवधिं नित्यानुकूलं स्वतः ।
तां त्वां दास इति, प्रपन्न इति च स्तोष्याम्यहं निर्भयो लोकैकेश्वरि लोकनाथदयिते दान्ते दयां ते विदन् ॥ २॥
यस्या इति ॥ यस्या इत्येतावता पर्याप्तेऽप्यत्र त इत्यधिकोपादानं धर्मिग्राहकमान-सिद्धासाधारणविशेषद्योतनार्थम् । महिमानं विभूतिद्वयशेषित्वरूपं निरतिशयानुकूलगुणयोगरूपं च। आत्मन इव-स्वस्येव । त्वद्वल्लभः-त्वप्रियतमः । प्रभुः सर्वविषयज्ञानशक्त्यादिमान् । प्रभुरपीत्यन्वयः। अपिरनुक्तसमुच्चयार्थो वा, त्वं च त्वद्वल्लभश्चेत्यर्थः ॥ नालं मातुमियत्तया परिच्छिद्यानुसंघातुमसमर्थः । सर्वशक्तेः क्वचित् कथमसामर्थ्यम् ! इत्यत्राह-निरवधिमिति ।
विषयस्यापरिच्छिन्नत्वात् तत्र सर्वज्ञस्य सर्वशक्तेरपि परिच्छिन्नत्वज्ञानाभावो न दोष इति भावः । यथोक्तं श्रीवत्साङ्कमिश्रै: *देवि2 त्वन्महिमावधिर्न हरिणा नापि त्वया ज्ञायते यद्यप्येवमथापि नैव युवयोः सर्वज्ञता हीयते, इति । ईदृशश्व महिमा वेदार्थसङ्ग्रहेऽप्युक्तः-* अनवधिकमहिमा महिषी, इति । विवृतश्च गद्यारम्भे *भगवन्नारायणेत्यादिना । 1श्रद्धासूक्तमेधासूक्तादितिसूक्तवाक्-
सूक्तादिष्वेतद्विभूतिविशेषप्रतिपादकेषु, विशेषतः श्रीसूक्ते च विचित्रा एतन्महिमानस्त2त्तद्भाष्यकारै: प्रपञ्चिताः पतिपत्तव्याः । अस्या महिम्नः प्राप्यान्तर्भावज्ञापनाय नित्य निरुपाधि कानुकूलत्वमाह-नित्यानुकूलं स्वत इति। तां-सर्वज्ञसाक्षिकतादृशमहिमानम् । त्वां महत्त्वसङ्गतसौलभ्यगुणयोगात्
मदीयस्तोत्रश्रवण कौतुकेनाभिमुखीभूताम् । दास इति प्रपन्न इति च-प्रतिबुद्धदासमावत्वात् , प्रपन्नत्वाच्चेति (अर्थः) भावः । उभयमिदं सम्भूय *प्रेष्यस्य क्षमितव्यं मे (रामा. किष्कि. 36-11) इत्यादिन्यायेन निर्भयत्वे हेतुः।
पृथुगद्यमुखेऽस्माभिः श्रीप्रपत्तिरितं सताम् ।
श्रीपतौ स्थितमैकान्त्यं न विहन्तीति साधितम् ॥ ७ ॥
स्तोष्याम्यहं निर्भयः-अनाद्युपचितापराधस्त्वन्महिमस्तोत्रानुगुण ज्ञानशक्तिरहितश्चाहं नित्यसूरिभिः निगमैश्च कार्त्स्न्येन स्तोतुमशक्यां त्वां प्रतिबुद्धदास्यप्रपन्नत्वव्याजेन निर्भयः स्तोष्यामीत्युक्तं भवति । एवं स्तोत्राक्षेपतत्समाधानव्याजेन प्रवृत्तमपि श्लोकद्वयमिदं प्रकृष्टस्तुतिरूपमेव । त्वत्प्रपन्नस्य मे न कुतश्चिदप्यनीश्वराद्भयमित्यभिप्रायेणाह-लोकैकेश्वरीति । लोकैकेश्वर:-प्रमाण सिद्धानां सर्वेषाम द्वितीय ईश्वरः। ईश्वरशब्दश्चात्रान्तर्नीतशेषित्वं नियन्तृत्वमभिप्रैति । *पतिं विश्वस्य
(तै. ना.) इति विश्वशेषित्वेन निर्दिष्टस्य शेष्यन्तर निवृत्तिविवक्षायाम् , *आत्मेश्वरम्, इति निर्देशात् । *यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः (गीता 16-17) इत्यस्यार्थश्वैवं संगृहीतः-*व्यापनाद् भरणात् स्वाम्यादन्यः पञ्चदशोदितः (गीतार्थसंग्रहे 19) इति । तत्र च भाष्यम्-(गीताभाष्ये 16 1)
*व्यापनभरणस्वाम्यैरर्थान्तरतया, इति ।1ईदृशेश्वरपत्नीत्वादिह लोकैकैश्वरीत्युक्तम् । एतेन *पुंस्प्रधाने-श्वरेश्वरी (लक्ष्मीसहस्रनामनि 1 श्लो.) इति समाख्याऽपि गतार्था । त्वत्प्रसादे सति सर्वेश्वरादपि मे भयं नास्तीत्याह-लोकनाथदयित इति । दयिताशब्द इह वल्लभात्वाभिप्रायः । सर्वभयाभयहेतुभूतः सर्वेश्वरोऽपि त्वदभिमतं नातिक्रामतीति भावः । अनेन संबुद्धिद्वयेन स्तुतिविषयत्वौचित्यातिशयोऽपि सूचितः । ईदृशीं त्वामाश्रितस्य मे त्वत्तोऽपि भयं नास्तीत्याह-दान्ते दयां ते विदन् इति । प्रतिबुद्धदास्यः कृपोत्तम्भकदीनावस्थापन्नः आज्ञातिलङ्घनाद् विस्ताभिसन्धिः प्रपन्न इह दान्तशब्दाभिप्रेतः। मातृत्वप्रयुक्तवात्सल्यातिशयवत्यास्ते दान्ते पुरुषे भगवत्कारुण्यादप्यतिशयितां दयां नानन्नहमेवं प्रपन्नत्वान्निर्भय इत्यन्वयार्थः । प्रश्रितमात्रपरो वाऽत्र दान्तशब्दः । तावन्मात्रेऽपि हि तस्या विशेषाभिमानः तयैवोक्तः (म. ल. संहिता) *धर्म नित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि ।
पश्रिते दानशीले च सदैव निवसाम्यहम् ॥ इति । एवंविधश्च दयाविशेषः *करुणा(स्रा) ग्रानतमुखी, (लक्ष्मीसहस्रनाम्नि 14 श्लो.) इत्यस्याः समाख्ययैव ख्यापितः । अष्टोत्तरसहस्र(शत ?)नामसु च पठ्यते-*करुणां वेदमातरम् , इति । करुणाप्रचुरतयाऽसौ करुणात्वोक्तिः ।
पारम्यापह्रवः पत्यौ बाह्यानां मानवाधितः ।
इति ख्यापयितुं श्रीशं श्रीदृष्टान्तमिहाब्रवीत् ॥ ८॥
अथ स्यात् *आनीदवातँ स्वधया तदेकम् (तै. ब्रा. 2-8-9) इति प्रलयदशायां स्वधाशब्दवाच्यया कयाचित् परस्य ब्रह्मणोऽननं श्रूयते । सा चात्र *स्वधा त्वं लोकपावनी (वि.पु. 1-9-109) इति पुराणोक्तेः, महाभारते च श्रीवासवसंवादे * अहं स्वाहा स्वधा चैव, इति स्वयमेवोक्तत्वादौचित्याञ्च लक्ष्मीरेव । अतस्तदधीनप्राणनत्वं ब्रह्मण इति । तन्न । स्वाधीनसर्वसत्ताकस्य तस्यान्याधीनप्राणनत्वा-
संभवात् । स्वधाशब्दस्य अत्र प्रयोगदर्शनमात्रेण लक्ष्मीविषयत्वकल्पनादपि स्वस्मिन् धीयत इति व्युत्पत्त्या स्वसत्ता विषयत्वस्य कल्पयितुं युक्तत्वात् । स्वकीयं विश्वधारणसामर्थ्यमेव वा स्वधा । तथा *श्रेष्ठश्चेत्यत्र भाष्यम्-(2-4-7) * आनीदवातम् , (ऋक्. 8-10-129-2) इति तु न जैवं श्रेष्ठं प्राणनमभिप्रेत्योच्यते । अपि तु परस्य ब्रह्मण एकस्यैव विद्यमानत्वमुच्यते, इति । अत्रानन्याधीनसत्ता-
कत्वमेव ह्यभिप्रेतम् । 2अस्तु वा *स्वधयेति पदं लक्ष्मीविषयम् । तथाऽपि सहयोगविवक्षैवात्र युक्ता । यथा महाभारते-(मोक्ष. 347-72) * कृत्वा मत्स्थानि भूतानि चराणि स्थावराणि च । एकाकी विद्यया सार्धं विहरिष्ये द्विजोत्तम ॥ इति । ननु • ततो भूयो जगत्सृष्टिं करिष्यामीह विद्यया (भार. मोक्ष. 347-73) इति वाक्यशेषेणौचित्यात् तत्र विद्याशब्दः प्रकृतिविषयः स्यात् । भवत्वेवम् ।
तथाऽपि प्रस्तुतसहोक्तिमात्रसंभवोदाहरणमिदं युज्यत एव । यद्वा * तेनेयं स च धर्मात्मा मुहूर्तमपि जीवति (रामा-सुन्द. 15-25) इतिवत् स्वधया आनीदिति प्रेमपारतन्त्र्ये तात्पर्यम् ।
अथ स्यात् * मेधा श्रद्धा सरस्वती (वि.पु. 1-9-119) * अहं श्रद्धा च मेधा च (वराहे) इति स्मृत्युपबृंहितया * श्रद्धया देवो देवत्वमश्नुते (काठके 3-3-11) इति श्रुत्या पत्न्यधीनोत्कर्षत्वं परस्य देवस्य प्रतीयते, इति । तदपि न चोद्यम् । स्वतस्सिद्धातिशयस्य भास्करस्य प्रभान्वयेनेव* श्रियः श्रीश्च भवेत् (रामा.) इत्युक्तस्य भगवतः स्वपत्न्याऽप्यतिशयान्तरे दोषाभावात् । *अभिरूप
एवाभरणेनापि द्योतमानत्वमश्नुते, इत्यादिष्विवायोगव्यवच्छेदमात्रेणाप्यर्थोपपत्तौ बहुप्रमाणविरुद्धस्या-न्ययोगव्यवच्छेदस्य कल्पयितुमयुक्तत्वात् । देवत्वं च निष्कृष्यमाणं देवनसंबन्ध एव, * कृत्तद्धितसमासेषु संबन्धाभिधानं त्वतलौ (कैयटे 5-1-119) इति शाब्दोक्ते: । तञ्च देवनं विहरणादिरूपं स्ववल्लभासहि- तस्यैव परस्य देवस्य भवतीति सुस्थोऽयं पन्थाः । आहुश्च * (श्रीस्तवे 1 श्लो.) यस्या वीक्ष्य
मुखम् 1* अङ्गीकारिभिरालोकै:2 * क्रीडसि श्रीसमक्षम्3, इत्यादि ।
एवमाप्तप्रणीतान्यन्यान्यपि कानिचित् स्तुतिवाक्यानि प्रमाणानां स्ववाक्यान्सराणां चाविरोधेन स्थाप्यानि । यानि च ब्राह्मे पुराणे* सर्वातिशायिनी प्रीतिः (ल-स. 123)* सर्वोत्कृष्टा सर्वमयी, (122) * अनौपम्या निर्विकल्पा (17) इत्यादीनि लक्ष्मीनामानि, तान्यपि * न तत्समश्चाभ्यधिकश्च दृश्यते (श्वे. उ. 6-8) * यस्मात् परं नापरमस्ति किञ्चित् , (मुण्डके. 1-7-1)* तमीश्वराणां परमं महेश्वरम् , (श्वे.उ. 6-7) * क्षरात्मानावीशते देव एकः (श्वे.उ. 1-10), * एक इद् राजा जगतो बभूव, (तै. सं. 4-1-8) * शास्ता चराचरस्यैकः, * एकः शास्ता न द्वितीयोऽस्ति
शास्ता, (कश्चित्) (भार. आश्व. 2-7-1) * शास्ता विष्णुरशेषस्य, इत्यादिप्रमाणगणानुसारेण भगवध्यतिरिक्तसर्वापेक्षया तन्महिष्याः प्रकर्षं विवक्षन्ति । तथा सति * शक्तिचक्रस्य नायिका (सन, सं)
इति तत्रत्योक्तिरपि संगच्छते । शक्तिशब्दोऽपिह्यत्र विहाराख्यकार्योपयुक्तविशेषणत्वाभिप्राय: पत्नीविषय एव ।
अत्यन्तसाम्यमध्यस्यां दृष्टान्तस्वरसागतम् ।
स्थाप्यं नियत निर्बाधपत्नीत्वाद्यविरोधतः ॥ ९ ॥
अत्र * तस्य शक्तिद्वयं तादृगमिश्रं भिन्नलक्षणम् , इति सात्त्वतोक्तं देव्यास्तादृक्त्वमपि श्रुतिस्मृतिपूर्वापरादिप्रसिद्धपत्नीत्वाद्यनुगुणं योज्यम् । किञ्च, यथा मुक्तस्य भगवता परमसाम्ये श्रुतिस्मृत्यादि सिद्धेऽपि * जगद्व्यापारवर्जम्-(4-4-17)इति लक्षणभूतैराकारैर्वैषम्यं स्थाप्यते, तथेहापि भवति। * भिन्न लक्षण मिति च तत्रैवोक्तम् । आहुश्च * 1पितेव त्वत्प्रेयान् , इत्यारभ्य * माता तदसि नः, इति । एवमनभ्युपगमे ता पुरस्कृत्य भगवदभिगमनमपि तत्रतत्रोक्तं दुश्शकं स्यात् ।
अस्ति कर्मार्हि फलदे पत्यौ कृत्यद्वयं श्रियः ।
निग्रहाद् वारणं काले सन्धुक्षणमनुग्रहे ॥ १० ॥
उक्तं च 2श्रीविष्णुचित्तैः गद्यव्याख्यानारम्भे * मातृत्वैकरूपां श्रियं प्रपद्यते । माता हि हितादपि पुत्रस्य प्रियमेव पश्यति, पिता उभयं पश्यति ; अतो दण्डधरत्वहीनतैवावलम्बनमस्यां दशायामासीत् , इति। अत्र वरदगुरूपदेशानुसारिभिः व्यासार्यैश्चोक्तम् * प्रतापोष्मलपितृत्वदुराप्त-दभगवत्समाश्रयण सिद्धये 3पुरुषकारानुपविष्टवात्सल्यनिर्भरलक्ष्मीसमाश्रयणं श्रीमच्छब्दविवरणमुखेना-
भिधीयते, इति । नन्वस्या दण्डधरत्वाभावे , दैत्यदानवमर्दिनी (ल. स. 8) इत्यादिनामानि न घटेरन् । मैवम् ; सीतायास्तेजसा दग्धां रामकोपप्रपीडिताम् (रामा-सुन्द.) इत्यादिष्विव कोपस्य पतिसंश्रयत्वेऽप्यस्यास्तदनुमतिमहिम्नाऽपि दैत्यनिरासादिसिद्धेः। स्वासाधारणविभूति-विशेषद्वारा वा तदुपपत्तिः । तदभिप्रायेण हि पुराणेषु * सौम्यासौम्यैर्जगद्रूपैः (वि. पु. 1-9-121) इत्याधुच्यते ।
यत्किञ्चिदपि वैषम्यं यदि नामात्र नेष्यते ।
तयोर्देहव्यवस्थाऽपि न सिध्येत् सर्वसंमता ॥ ११ ॥
अव्यवस्थितिपक्षस्तु हेतुपक्षोऽयमित्यपि ।
अश्रुतत्वादिहानुक्तेर्दूषणं वाऽपि नार्हति ॥ १२ ॥
न हि सिद्धे विकल्पः स्यान्न संदेहोऽत्र निश्चयात् ।
न कालाद्यैर्विपर्यासस्तन्नित्यत्वादिसाधनात् ॥ १३ ॥ ॥२॥
ईषत् त्वत्करुणानिरीक्षणसुधासन्धुक्षणाद्रक्ष्यते
नष्टं प्राक् तदलाभतस्त्रिभुवनं संप्रत्यनन्तोदयम् ।
श्रेयो न ह्यरविन्दलोचनमनःकान्ताप्रसादादृते
संसृत्यक्षरवैष्णवाध्वसु नृणां संभाव्यते कर्हिचित् ॥ ३ ॥
एवं स्तुत्याक्षेपसमाधानव्याजेन स्वामित्वसौलभ्यादिकं प्रतिपाद्य स्तोतुमुपक्रान्तः सर्वा-श्रयणीयत्वाय सकलपुरुषार्थहेतुत्वमुदाहरणविशेषार्थान्तरन्यासाभ्यामुपपादयति-ईषदिति ॥ एतदनु-
प्रहैकदेशोऽपि अनन्तानिष्ट निवृत्तेरनन्ताभ्युदयसिद्धेश्च निदानमिति व्यञ्जयितुमीषच्छब्दः । त्वच्छब्देन * पणिपातप्रसन्ना हि (रामा. सु. 27-45) * क्षिप्रप्रसादिनीं देवीम् (धनदीये) इत्यादिपूक्तः स्वभावः सूच्यते । सामान्यतश्च तदनुग्रहस्य सदातनत्वमुक्तं मङ्कणसंहितायाम् * पद्मे स्थिता
पद्मवर्णां पद्मनाभप्रिया शुभा। सदाऽनुग्रहसंपन्ना सा मे देवी प्रसीदतु ॥ इति । अष्टोत्तरशतनाम-स्तोत्रे (3. श्लो.) च * नमामि कमलां कान्तिं क्षमां क्षीरोदसंभवाम् । अनुग्रहपरामृद्धिमनघां हरि-वल्लभाम् ॥ इति । अनिष्टनिवर्तनेष्टप्रापणानुगुणकरुणाहेतुकं निरीक्षणं करुणानिरीक्षणम् । करुणया
विषयीकरणं वा निरीक्षणशब्देनोपचर्यते। तदिदमुक्तं तत्संहितायाम् * सामर्ग्यजुर्मयीं देवीं वेदगर्भां मनस्विनीम् । लोकैकेशविभूतीनां कारणं यन्निरीक्षणम् ।। (महालक्ष्मीसं.) इति । तस्य विश्वसञ्जीवन-तया सुधात्वरूपणम् । तया सन्धुक्षणं – सम्यगुल्लासनम् । अत्र पञ्चम्युक्तं हेतुत्वं तु उदयापेक्षया रक्षणापेक्षया च योज्यम् । रक्ष्यते – निरुपद्रवमवस्थाप्यते । प्राक् – त्वदुपेक्षाकाले, तदलाभत:-
त्वन्निरीक्षणालाभतः, न तु त्वत्कोपतः, * कः कुप्येद् वानरोत्तम (रामा. यु. 118-38) इत्यादि वदन्त्या-स्तव कोपासंभवात् । त्रिभुवनशब्देन त्रैलोक्यान्तर्वर्तिनः क्षेत्रज्ञा लक्ष्यन्ते । संप्रति * ततोऽवलोकिता देवाः (वि. पु. 1-9-106) इत्याद्युक्तायां त्वन्निरीक्षणदशायाम् । अनन्तोदयं पूर्वकालादप्यतिशयिताभ्युदयमित्यर्थः । उक्तं ह्येतत् सर्वमिन्द्रेण * त्वया देवि परित्यक्तं सकलं भुवनत्रयम् ।
विनष्टप्रायमभवत् त्वयेदानी समेधितम् ।। (वि. पु. 1-9-123) इति । अत्र प्रलयादिकं विवक्षितमिति ‘केचित् । एवमन्वयव्यतिरेकाभ्यामेतत्कटाक्षाधीनं देवादीनामैश्वर्यमिति दर्शितम् । यथाऽऽह काश्यपः (काश्यपीये) * ब्रह्माद्याश्च सुराः सर्वे मुनयश्च तपोधनाः । एषन्ते त्वत्पदच्छायामाश्रित्य कमलेश्वरि !॥ इति । मङ्कणसंहितायाञ्चाष्टानामपि लोकपालानां तत्पूजानिरतत्वं च प्रपश्चितं द्रष्टव्यम् ।
उक्तसमर्थनव्याजेन सर्वपुरुषार्थानां तत्मसादाधीनत्वमाह – श्रेय इति । अत्र त्वत्प्रसादादिति वक्तव्ये अरविन्दलोचनमनःकान्ताप्रसादादिति कथनं तथाविधप्रसिद्धिप्रकर्षद्योतनार्थम् । अरविन्दलोचन-
शब्देन * यं पश्येन्मधुसूदनः (भार. शान्ति. 358.73) इत्याद्यभिप्रेतं श्रीपतेरप्यनुग्रहशीलत्वं सूच्यते । तन्मनःकान्तात्वोक्तिः सर्वापेक्षितदाने तयोः समानाभिप्रायत्वं व्यनक्ति । अत्र मनश्शब्दो बुद्धावुपचरितः, भगवतः करणायत्तज्ञानत्वाभावात् । मनःकान्ता – अभिमतेत्यर्थः । पूर्वं
(श्लो. 1) कान्तस्ते इत्युक्तम् , अत्र तु इयं भगवतः कान्तेति । एतेन परस्परानुकूलतया सर्वत्र व्यापारे सामरस्यं व्यज्यते । प्रसादात् – कृपा विशेषादिति यावत् , अस्याः कचिदपि निग्रहा-संभवेन तन्निवृत्तिरूपप्रसादायोगात् । संसृतिशब्द इह पुरुषार्थसमभिव्याहारात् पारिशेष्याच्चैश्वर्यपरः । तेन त्रिवर्गान्तर्भूतं सर्वमभिमतमपि विवक्षितम् । अक्षरशब्दस्तु प्रत्यगात्मानुभवपरः । वैष्णवाध्वशब्देन गतिविशेषद्वारा भगवत्प्राप्तिर्लक्ष्यते । एतेषु श्रेयः–श्रेष्ठं सुखं तत्साधनं वा ।* पुण्य-
श्रेयसी सुकृतं वृषः (वैजयन्ती) इति हि 1पठन्ति। नृणामिति सर्वक्षेत्रज्ञोपलक्षणम् । हिरण्यगर्भस्यापि ब्राह्मे पुराणे तदधीनैश्वर्यत्वमुक्तम् * पद्मयो निरिदं प्राप्य पठन् स्तोत्रं (सूक्तं) ततः क्रमात् । दिव्यं चाष्टगुणैश्वर्यं तत्प्रसादाच्च लब्धवान् (ब्राह्मपुराणे) ॥ इति ।
2ब्रह्मादीनां यदायत्तं वैभवं यस्य सा स्वयम् ।
तस्य कैमुत्यनिर्धार्यमीश्वरत्वं श्रियः श्रियः ॥ १४ ॥
एतत्प्रसादादृते नृणां श्रेयो हि न संभाव्यत इति व्यतिरेकोक्त्याऽग्नीन्द्रादिप्रयुक्तमपि
नृणां श्रेयः एतदधीनमिति व्यज्यते । हिशब्देन श्रीसूक्तश्रीस्तुत्यादिषु सर्वशास्त्रेषु च प्रसि-द्विर्द्योत्यते । न संभाव्यते-न सिध्यतीत्यर्थः । ईदृशस्यास्याः प्रभावस्येन्द्रादीनामिव कालभेदभेद्यत्वं च नास्तीति व्यञ्जनाय कर्हिचिदित्युक्तम् ।
ननु मोक्षप्रदत्वं भगवत एवेति सर्वत्र स्थापितम् । श्रीसात्त्वते च स्वस्य मोक्षपदत्वं देवीनामैश्वर्यप्रदत्वं च विभज्योक्तम् ; तदत्र संमृत्यक्षरवैष्णवाध्वस्विति अविशेषवचनं प्रशंसामात्रपरं स्यात् । मैवम् । श्रीसात्त्वत एव * यामालम्ब्य सुखेनेमं दुस्तरं हि गुणोदधिम् ! निस्तरन्त्यचिरेणैव व्यक्तध्यानपरायणाः ॥ इति बन्धहेतुभूतगुणोदधिनिस्तरणकारणत्वेन लक्ष्मीसमाश्रयणस्य
प्रतिपादनात् । उक्तं च स्वयंभुवा * सर्वकामप्रदां रम्यां संसारार्णवतारिणीम् । क्षिप्रप्रसादिनीं लक्ष्मीं शरण्यामनुचिन्तयेत् ॥ (ब्राह्मेपुराणे) इति । ब्राह्मे च पुराणे तन्नामान्येवं पठ्यन्ते * सकृद्विमाता सर्वार्तिसमुद्रपरिशोषिणी, (ल. स. 87) * भवभङ्गापहारिणी, (ल. स. 122) * परनिर्वाणदायिनी, (ल. स. 23) • ज्योतिष्मत्यमृतावहा (ल. स. 122) इत्यादीनि । वैष्णवे च (1-9-20) * आत्मविद्या च देवि त्वं विमुक्तिफलदायिनी, इति । अत्र विमुक्तिफलदायित्वस्यात्मविद्याविशेषणत्वेऽपि
तादृशविद्यायास्तदधीनत्वोक्त्या प्रकृतसिद्धिः। मोक्षहेतुभूतात्मगुण सिद्धिश्च तदधीनेति तत्रतत्रोक्तम् । एवं स्थिते गद्यारम्भोक्तन्यायेन मोक्षोपायतदधिकारयोस्तावदेतन्मूलत्वं दुरपह्नवम् । मोक्षपदे भगवति
मुमुक्षूणां घटकतयैषा तिष्ठतीति च सर्वसम्मतम् । परिपूर्णानुभवप्रदानसङ्कल्पस्तु भगवतः स्वस्यैव वा, सपत्नीकस्य वेति यथाप्रमाणं भवतु । सर्वथा वैष्णवाध्यश्रेय:प्रदत्वमस्या इहोच्यमानं न विरुद्धमिति ॥ ३॥
1शान्तानन्तमहाविभूति परमं यद्ब्रह्म रूपं हरे-
र्मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम् ।
यान्यन्यानि यथासुखं विहरतो रूपाणि सर्वाणि ता-
न्याहुः स्वैरनुरूपरूपविभवैर्गाढोपगूढानि ते ॥ ४ ॥
एवं श्लोकत्रयोक्तायाः सहधर्मचारिण्या भगवतः रूपविग्रहावतारेष्वयोगव्यवच्छेदं वदन्नस्या अपि तद्वत् प्रधानप्राप्यत्वं सूचयति शान्तेति ॥ शान्तम्-अशनायाद्यू 2र्निभिरपक्षयादिविकारैश्च नित्यानन्वितमिति भावः । अनन्तम्-त्रिविधपरिच्छेदरहितम् । महत्यौ शुद्धाशुद्धे विभूती यस्य तन्महाविभूति । परमं-सर्वोत्कृष्टम्। यच्छब्दः सर्वोपनिषत्प्रसिद्धिं सूचयति । ब्रह्म-निरतिशय-बृहत्त्वबृंहणत्वयुक्तं रूपं, स्वरूपमित्यर्थः । अत एव व्यतिरेकविभक्तिश्चात्र घटते । हरे:-आश्रित-
दोषहारिणः सर्वेश्वरस्य, यद्वा सर्वसंहर्तुः, यथोक्तं पुराणे (हर्यष्टके) * ब्रह्माणमिन्द्रं रुद्रं च यमं वरुणमेव च। निगृह्य हरते यस्मात् तस्माद्धरिरितीर्यते ॥ इति । एतच्चतुर्विधप्रलयकर्तृत्वोपलक्षणम् । उक्तस्वरूपानुरूपं * मूर्तं ब्रह्म महाभाग (वि. पु. 1-22-63) इत्यादिपसिद्धं सालम्बनयोगविषयभूतं दिव्यविग्रहमाह-मूर्तमिति । मूर्त-स्पर्शरूपादियुक्तं परमपदपर्यङ्कादिदेशपरिच्छिन्नं चेत्यर्थः । अत्र
ब्रह्मशब्देन, दिव्यविग्रहस्यातिमहत्त्वं स्वसंश्रितानां धीविकासहेतुत्वं च विवक्षितम् । ततोऽपि (तै. उ.भृगु. 6-3) * आनन्दो ब्रह्म, इत्याद्याम्नातात् स्वरूपादपि तत्प्रियतरं तस्य निरतिशयानन्दस्य भगवतः स्वरूपादपि सौन्दर्यादिगुणयोगादतिशयेन प्रीतिविषयभूतम् । तदिति व्यस्तं वा, प्रसिद्धयतिशयद्योतनार्थं
यत्तदित्यन्वेतव्यम् । रूपशब्द इह दिव्यविग्रहपरः । यच्छब्देन श्रुतिषु भगवच्छास्त्रादिषु च नित्यत्वादिविशिष्टतया प्रसिद्धिः सूच्यते। अत्यद्भुतं- सन्निवेशगुणविहारप्रभावादिभिरतिविस्मयावहम् । एवमादिमं रूपमुक्तम् । अथ तद्विजृम्भितानि व्यूहव्यूहान्तरविभवान्तरादीन्याह-यान्यन्यानीति । यच्छब्द इहावताररहस्यप्रकरणादिप्रसिद्धिपरः। बहुवचने * पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः (गीता 11-5) इत्याद्युक्तं भूयस्त्वं विवक्षितम् । अन्यानि-पररूपात्
तदंशतया सन्निवेशैर्वर्णादिभिश्च विलक्षणानि । यथासुखम्-मनुष्यादिसजातीयावतारदशायामप्यस्य स्वाभाविकसुस्वादिनिवृत्तिर्दु:खं वा नास्तीति भावः। विहरत इत्यनेनावताररूपाणां स्वेच्छा-मात्रहेतुकत्वं क्रीडार्थत्वं च गम्यते । तेन कर्महेतुकत्वादिशङ्का निरस्ता । एतेषु स्वरूपादिषु किञ्चिदपि श्रियाऽनन्वितं नास्तीति द्योतनाय सर्वाणि तानीत्युक्तम् । आहुः-श्रुतिस्मृत्यादीनि,
तद्विदो वा स्वयम्भूवसिष्ठपराशरपाराशर्यात्रिकाश्यपशौनकमङ्कणशतस्वधनदादयः तत्तत्संहिताप्रणेतारः । स्वैः-तवासाधारणैः, अनुरूपरूपविभवैः- अनुरूपाणां रूपाणां सम्पद्भिः। रूपाण्येव वा विभवः, प्रभूतानुकूल्यैरनुरूपरूपैरिति यावत् । रूपशब्द इहापि पूर्ववत् स्वरूपादित्रिक-विषयः । भगवत्स्वरूपादीनाभेतत्स्वरूपादीनि यथाक्रममनुरूपाणि । अनुरूपत्वं च संबन्धे सति प्रकृष्टं सादृश्यम् । रत्नकाञ्चनादिन्यायेन स्वसम्बन्धिनि शोभातिशयहेतुत्वं वा । त्रयाणामानुरूप्यं * मद्धर्मधर्मिणी नित्यम् (ब्राह्मपुराणे) * नित्येवैषा जगन्माता (वि. पु. 1-8-17) * देवत्वे
देवदेहेयम् (वि. पु. 1-9-145) इत्यादिभिरभिहितम् । भगवच्छास्त्रे तु अस्य विस्तरः। गाढोपगूढानि-दृढसंबद्धानि वियोगानर्हाणीत्यर्थः । एतेन सन्नियोगशिष्टन्यायः सूचितः । अपराधभीतानां भगवतः सर्वदा शरण्यत्वार्थं प्राप्तिदशायां शर्करान्वितदुग्धन्यायेन निरतिशयभोग्यत्वार्थं च सर्वप्रकारेण
श्रिया गाढोपगूढत्वोक्तिः। निरतिशयभोग्यान्तरोपश्लेषेणापि भोग्यत्वमविरुद्धम् । ते-भगवदभिमतस्वरूपरूपादिसंपद इति भावः । अस्त्वेवं भगवत्स्वरूपरूपादिषु तत्तदनुरूपाकारैरस्याः संबन्धः, क्वचित् * सर्वभूतस्थिता द्विजा (ल. स. 123) * यथा सर्वगतो विष्णुः (वि. पु. 1-8-17) इत्यादिकं वचनमन्यत्र प्रशस्तपदार्थमात्रवासित्ववचनं च कथं घटेतामिति चेदत्र ब्रूम:-
शुभैकवासवचसां सर्वगत्वगिरामपि ।
अभिमानविशेषाद्यैर्विषयः स्याद् व्यवस्थितः ॥ १५॥
1“व्यापिनी सर्वगे” त्याद्याः “सुसूक्ष्मे”त्यादयस्तथा ।
श्रीसमाख्या मिथो वैरं जह्युस्तात्पर्यभेदतः ॥ १६ ॥
शक्तिकालवशादस्या विभुत्वाद्युपपादकाः ।
प्रच्छन्नस्पष्टजैनाध्वनिरोधादगतीकृताः ॥ १७ ॥
एवं किल ते वदन्ति- यथा 1विभुस्वभावस्येश्वरस्य अघटितघटनासामर्थ्यादणुत्वम् ,
तथाऽणुस्वभावाया एव तस्या विभुत्वमिति। तत्र दृष्टान्तस्तावदयुक्तः । उपाध्यवच्छेदमात्रेणह्यणुत्वमीश्वरेऽङ्गीक्रियते, न तु स्वरूपतः। यदि च अघटितघटनाशक्त्याऽत्र विरुद्धद्वयसंभवः, तदा सर्वाद्वैत
भेदाभेदपक्षाभ्यां किमपराद्धम् ! अथोच्येत-अणुस्वभावत्वेऽपि विकासकशक्त्याऽस्याः कदाचिद्विभुत्वमविरुद्धमिति, तथा सति समानन्यायतया सर्वेषामात्मनां स्वरूपविकासस्वीकारे विरोधो न स्यात् , * न च पर्यायादप्यविरोधो विकारादिभ्यः (ब्र. सू. 2-2-23) इति जैनप्रतिक्षेपसूत्रमप्यपार्थकं स्यात् ।
ननु च * का चाऽन्या त्वामृते देवि (वि. पु. 1-9-122) इत्यादिन्यायेन भगवद्विग्रह-
निवासित्वमनन्तगरुडादिवन्नित्यभगवदिच्छानियमिताधिकारविशेषसिद्धतया श्रियः स्तुतये भवतु, भगवत्स्वरूपे तु गाढसंबन्ध उच्यमानः सर्वसाधारणत्वान्नैतस्याः स्तुत्यै स्यात् । तत्र यदि अनुरूपत्वोक्त्या स्तुति सिद्धिरभिप्रेता, तदा किं तदनुरूपत्वम् ! अणुत्वेन वैषम्येऽपि स्वतन्त्रशेषिणं प्रति पारतन्व्यशेषत्वाभ्यां विभूतित्वेनातिशयावहत्वमिति चेत्; तदपि सर्वचिदचित्समानम् । न चानादिसर्व-
ज्ञत्वादिसाम्यमिहानुरूप्यं, तस्यापि नित्यसूरिसाधारणतया तान् प्रति शेषित्वेनोक्तायास्तस्यास्तेन स्तुत्यनुपपत्तेः । अन्यथा द्रव्यत्वचेतनत्वादिभिरपि स्तोतव्यत्वप्रप्तङ्गात् । अथ (वि. पु. 1-9-126) * त्वयैतद्विष्णुना चाम्ब जगद्याप्तं चराचरम्, इत्या दिवचनस्वारस्यावगताद् विभुत्वादनुरूपत्वं विवक्ष्यते ?
तदप्ययुक्तम् , जीवेश्वरकोटिविकल्पानुपपत्तेः । जीवत्वं ह्यणुत्वव्याप्तम् , क्वचिज्जीवे तन्निवृत्तावतिप्रसङ्गः। * यथा सर्वगतो विष्णुः (वि. पु. 1-8-17) इत्यादिव्याप्तिवचनं * सौम्यासौम्यैर्जगद्रूपैस्त्वयैतद् देवि !
पूरितम् (वि. पु. 1-9-121) इत्युक्तासङ्ग्यातविग्रहसंबन्धाभिप्रायं स्यात् । ईश्वरत्वे तु भगवतोऽन्यत्वे तस्य समाधिकद रिद्रत्वश्रुतिविरोधः। तदनन्यत्वे दम्पतित्वाद्यनुपपत्तिः । आनुरूप्यवचनं चानर्थकं स्यात् । इमौ चात्यन्तसाम्यस्वरूपैक्यपक्षौ पूर्वमपि निरस्तौ, अत्र भेदाभेदकाल्पनिकभेदाभेदपक्षौ च
प्रामाणिकैः प्रतिक्षिप्ताविति ।
अत्रोच्यते-यत्तावदुक्तम् – इतरसाधारणैराकारैः स्तुत्यनुपपत्तिरिति, तदसत्,
व्यावार्त्यान्तरवत्त्वे च सत्यनेकसाधारणैरपि कैश्चित् स्तुत्युपपत्तेः । स्तूयते हि सर्वेश्वरोऽपि नित्यमुक्तसाधारणैराकारै: सर्वज्ञत्वादिभिः ।
यत्तु विभुत्वे जीवेश्वरकोटिविकल्पानुपपत्तिरिति, तत्र केचिदेवं परिहरन्ति, जीवत्वेऽप्यस्याः विभुत्वं न विरुध्यते, जीवविषयाणुस्वश्रुतिर्हि न सर्वजीवव्यापिनी, तत्तत्प्रकरणसन्निहितेषु बद्धेष्वेव तत्प्रवृत्तेः, * वालाग्र (श्वे-उ. 5-9) इत्यादौ तु * स चानन्त्याय कल्पते, इति मुक्तविषयो वाक्यशेष: आत्मनां निर्विकारत्वस्थापनाद्धर्मभूतज्ञानद्वारा व्याप्तिमभिसन्धत्ते । एवम् * सर्वमेवाविशन्ति इत्यादीनि वाक्यान्तराण्यपि। एतच्च * प्रदीपवदावेशः (ब्र. सू-4-4-15) इत्यादिसूत्रेषु प्रदर्शितम् । नित्येषु च संप्रतिपन्नजीवसाजात्यागतस्याणुत्वस्य बाधकश्रुत्यभावादनुग्राहकसद्भावाच्च स्वीकारः । लक्ष्म्यास्तु तथैव प्राप्तस्याणुत्वस्यानन्यथासिद्धव्यापित्ववचनं बाधकम् । न च * सर्वगतादिशब्दानां सार्वत्रिकावतारसर्वशेषित्वादिप्रतिपादकत्वं कल्प्यम् ; यथाश्रुतस्वीकारे विरोधाभावात् । नापि मुक्तवद् धर्मभूतज्ञानद्वारा व्याप्तिकल्पनं युक्तम् ; तद्वत् बाधकश्रुत्याद्यभावात् । विभुद्वयासंभव इह बाधक इति चेन्न,
कालतत्त्वे नित्यमुक्तेश्वराणां धर्मभूतज्ञाने च विभुत्वस्वीकारात् । जीवलक्षणमपि परतन्त्रचेतनत्वमात्रम्, अणुचेतनत्वं त्वेतद्यतिरिक्तजीवविषयम् । अथवा जीवलक्षणेऽणुशब्दः परिच्छिन्नमात्रपरः सन् अमुष्यां भगवत्पराधीनायां स्वातन्त्रयगुणपरिच्छेदेन वर्तताम् । एवं च जन्माद्यधिकरणे
(श्रीभाष्ये 1-1-2) भाष्यम् अनन्तपदं देशकालवस्तुपरिच्छेदरहितस्वरूपमाइ। सगुणत्वात् स्वरूपस्य स्वरूपेण गुणैश्वानन्त्यम्। तेन पूर्वपदद्वयव्यावृत्तकोटिद्वयविलक्षणाः सातिशयस्वरूपस्वगुणा
नित्या व्यावृत्ताः, इति । अत्र ह्यन्येषां नित्यानां स्वरूपतो गुणतश्च सातिशयत्वेन व्यावृत्तत्वं, लक्ष्म्यास्तु स्वरूपतो निरतिशयत्वेऽपि पारतन्त्र्यादियोगात् गुणतः सातिशयतया व्यावृत्तता युज्यते । तथा च जगत्कारणत्वलक्षणेऽपि व्यापारतः सातिशयत्वाद् व्यावृत्तत्वम्। अतो जीवत्वेऽप्यस्याः स्वरूपविभुत्वेन
पतिस्वरूपानुरूप्यमिति ।
अपरे त्वस्याश्चेतनत्वात् अचिदन्यत्वं विभुत्वाज्जीवान्यत्वं पारतन्त्र्यादीश्वरान्यत्वं च । न हि सदसद्विलक्षणादिष्विवात्र विरोधः, जीवेश्वररूपेण विविधात्मविभागवचनेषु तु अस्या अनुक्तिरविवक्षामात्रात् । वस्तुतस्तु पतिपुत्रव्यावृत्तपत्नीन्यायेन लक्ष्म्याः कोठ्यन्तरत्वम् , तत्र लक्ष्भ्या अपि सत्ता भगवदधीना, भगवतस्तु वैभवं रत्नप्रभापुष्पपरिमलन्यायेन लक्ष्म्यायत्तम् । अतोऽत्रापि पतिखरूपानुरूप्यं पत्नीस्वरूपस्य सुगममिति ।
अन्ये तु स्वरूपस्थितिरेवमस्तु, तथापि सेयमीश्वरकोटिः, विभूतिद्वयशेषित्वादिमात्रेण
तल्लक्षणसिद्धेः। तत्र सर्वशेषित्वादिकं भगवतः । अस्यास्तु तदितरसर्वशेषित्वादिकमिति विभागः । अनुरूपत्वं तु पूर्ववदेव, जगत्कारणत्वादिब्रह्मलक्षणं तु पतिमात्रगोचरम् । अत एव तस्य सर्वेश्वरत्वं
समाधिकदरिद्रत्वं चेति । तदिदं पक्षत्रयमन्योन्यमनतिविप्रकृष्टम् । जीवादिसमाख्यानिवेशे तु मिथो विवादः ॥
प्रागुक्तेन सहैतेषु पक्षेष्वत्र चतुर्ष्वपि ।
स्वतन्त्रपति नित्येच्छासिद्धं सर्वमिदं श्रियः ॥ १८॥
1अपि चैवं, “न तस्येशे कश्चने ” (तै. ना. 1.1.2) त्यादिदर्शनात् ।
अतश्चतुर्भिरप्येतैः पत्यावैश्वर्य विश्रमः ॥ १९ ॥
अत एव * नरसम्बधिनो नाराः (अहिर्बुध्न्य. 52-50) इति नरशब्दार्थत्वेऽपि
अस्याः पतिवत् तदिच्छायत्तं प्रधानप्राप्यत्वा दिकमविरुद्धम् । आकारसाम्येऽपि क्वचिद् व्यापारो भिद्यते । सर्वकर्तुवेल्लभाप्रीत्युद्देशेन तत्तल्लीलाप्रवृत्तेस्तस्या अपि तदन्वयोक्तिरविरुद्धा। सहारब्धेऽपि कार्ये लौकिकपतिन्यायेन पतिप्राधान्यव्यपदेशः पतिकर्तृकत्वमात्रव्यपदेशश्चोपपन्नः । पतिबुद्धयधीनस्यापि पत्न्या गुणभावस्योभयेच्छासिद्धत्वव्यपदेशस्तस्या अपि तथैवेष्टत्वा विशेषादुपपद्यत इति गमनिकेति । अत्र सर्वभूतेश्वरत्वादिवचनसाम्यादस्या गुणभाव उभयेच्छाप्रयुक्त इति केचिदाहुः ।
अन्योन्येच्छा विघातादिनिवृत्तौ तत्परत्वतः ।
ऐककण्ठ्यमशेषाणामागमानां भवविति ॥ २० ॥
2पश्चस्वेतेषु पक्षेषु कश्चिदेकः प्रमाणवान् ।
सलक्ष्मीकस्य साम्राज्यं सर्वथा सुप्रतिष्ठितम् ॥ २१॥
इहैवं कचिदंशे तु संशयेऽपि विपश्चिताम् ।
उपयुक्तांशवैशद्यादुपायफलसंभवः ॥ २२ ॥
अत्र स्वामित्वसौलभ्यफलदत्वफलत्वतः ।
आनुरूप्येण संबन्धः श्रीपतौ दर्शितः श्रियः ॥ २३ ॥
अपि चात्र द्वयार्थमनुसन्धित्सता श्रीशब्द निरुक्तयश्च तत्र तत्र सूचिताः। मत्वर्थस्तु
नित्ययोगस्वरूपरूपादिसर्वविषयतया चतुर्थ श्लोके व्यञ्जितः। नारायणशब्दार्थोऽपि • कान्तस्ते पुरुषोत्तमः, * शान्तानन्तमहाविभूतीत्यादिभिः संग्रहेणोक्तः । चरणशब्दोपलक्षितविग्रहयोगोऽपि * मूर्त ब्रह्मेत्यादिना प्रदर्शितः ॥
एवं सक्षिप्तसिद्धांशविशदीकारपूर्वकम् ।
साध्यं प्राप्यमुपायं च स्तोत्रे सन्दर्शयिष्यति ॥ २४ ॥
कविकथकसिंह इत्थं त्रय्यन्ताचार्य इत्यभिख्यातः ।
व्यवृणुत यामुनविहितां रमास्तुतिं वेङ्कटेशकविः ॥ २५ ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताचार्यस्य
कृतिषु रहस्यरक्षायां चतुश्श्लोक्यधिकारः प्रथमः ।।
श्रीचतुश्श्लोकीभाष्यं समाप्तम्
श्रीरस्तु।