[highlight_content]

वेदान्ताार्यस्य-स्तोत्ररत्नभाष्यं

॥ श्रीरस्तु ॥

श्रीमत्प्रणतार्तिहरवरदपरब्रह्मणे नमः ।

श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ।

श्रीमते निगमान्तमहादेशिकाय नमः ।

॥ श्रीमद्वेदान्तदेशिकग्रन्थमाला ॥

॥ स्तोत्ररत्नभाष्यम् ॥

श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताार्यवर्यो मे सन्निधत्तां सदा हृदि ॥

स्वादयन्निह सर्वेषां त्रय्यन्तार्थं सुदुर्ग्रहम् । स्तोत्रयामास योगीन्द्रस्तं वन्दे यामुनाह्वयम् ॥

नमो नमो यामुनाय यामुनाय नमो नमः । नमो नमो यामुनाय यामुनाय नमो नमः ॥

श्रीमद्यामुनमुनिना नाथसहायेन नाथवानस्मि । यद्वदनन्द्रजनिता स्तोत्रसुधा भवति सुमनसां भोग्या ॥ १ ॥

प्राप्यप्रापकभूते भगवति यामुनमुनेरयं प्रसृतः । दुरितानि हरति जगतां द्वयानुसन्धानसिन्धुपरिवाहः ॥ २ ॥

विमलममृतोल्बणरसं विगाह्य निर्विशति वेङ्कटेशकविः । यदुपतिरणार्हमिदं यमुनातीर्थमिव यामुनं स्तोत्रम् ॥ ३ ॥

यद्यप्यत्र न संदृष्टं परार्थप्रतिपादनम् । तथाऽपि तादृग्रूपत्वं परसङ्कल्पतः स्थितम् ॥ ४ ॥

स्तोत्ररत्नमिदं न्यस्तमाार्यस्तुतिसम्पुटे । निधानमिव निस्सीमं निर्विशन्ति विपश्ितः ॥ ५ ॥

मङ्गलारणत्वेन ख्याता गुरुनमस्कृतिः । स्मृत्याारानुसारेण स्तोत्रारम्भे विधीयते ॥ ६ ॥

नमस्कारोऽत्र विज्ञेयः प्रणिपातपुरस्सरः । आार्यादन्यतो ज्ञेया या केवलनमस्क्रिया ॥ ७ ॥

प्रमाणमिह विज्ञेयं मैत्रेयारणं सताम् । “मैत्रेयः परिपप्र्छ प्रणिपत्याभिवाद्य ॥ (वि. पु. १.१.१)” ॥ ८ ॥ इति ।

प्रणिपातश् साष्टाङ्गप्रणामः । प्रणामलक्षणं भाष्यकारैरेव नित्यानुष्ठानलक्षणसंग्रहे प्रदर्शितम् “मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवतुरः पादान् शिरस्तत्रैव पञ्मम् ॥ (श्रीसात्त्वते २.१८७)” इति । नित्यानुष्ठानाधिकारिणः परमैकान्तिनो भगवत्कैङ्कर्यैकरतित्वात्प्रपन्नाधिकारिण एव, उपासकानामुपायभक्तावप्येतदनुष्ठानमुपयुज्यत इति विभागः ॥

तत्रेदमागतं स्वस्य सदाार्येक्षणादिकम् । यत्संबन्धादमुं नाथमुनिं प्रणमति त्रिभिः ॥ ९ ॥

उक्तं “आार्यप्राार्यसन्निपाते प्राार्यायोपसंगृह्योपसञ्जिघृक्षेदाार्यम् । प्रतिषेधेदितरो लुप्यते पूजा ास्य सकाशे (आप. धर्म. १.२.८, १९-२१)” इति प्राार्यवन्दनप्राधान्यम् । अत्र पुनः स्वाार्यवन्दनप्रसङ्गे तत्सन्निधौ स्वाार्यैर्निषेधादेव स्वाार्यवन्दनश्लोकनिर्माणाभाव इति सुसङ्गतमेतत् ॥

भगवद्भक्तितत्स्ने(तास्ने)हौ लोकानुग्रह इत्यमी । प्राधान्येन प्रकाश्यन्ते तत्स्वभावास्त्रिषु क्रमात् ॥ १० ॥

वैराग्यपरभक्त्यादेस्तत्त्वज्ञानं प्रसाधकम् । इति ज्ञापयितुं तस्य त्रिषु पद्येषु संग्रहः ॥ ११ ॥

तत्रापि पर्वभेदेन ज्ञानभक्त्योः परस्परम् । हेतुकार्यत्वयोर्ज्ञप्त्यै द्विधाऽत्र स्थापितः क्रमः ॥ १२ ॥

गुरोर्ज्ञानादिसंपत्तिस्तस्यास्सर्वातिशायिता । लोकोपकारिताऽप्युक्तेत्यतो न पुनरुक्तता ॥ १३ ॥

करणत्रयसंबन्धप्रतिबन्धप्रशान्तये । त्रिवारं मङ्गलाार इति केित्प्रक्षते ॥ १४ ॥

अन्ये मङ्गलभूयस्त्वसिद्ध्यै मङ्गलकर्मणाम् । क्रियासमभिहारोऽयमिति साफल्यमभ्यधुः ॥ १५ ॥

इत्थमेवं विभाव्यं तदुभयं भव्यसिद्धये । पराशरनमस्कारो वकुलाभरणानतिः ॥ १६ ॥

सर्वाण्येतानि भागवतवन्दनानि भगवद्वन्दननान्तरीयकतयाऽनुष्ठीयन्ते । कृत्स्नस्यापि प्रबन्धनिर्माणस्य भगवदभिवन्दनरूपत्वादिति ॥

भगवद्वन्दनं स्वाद्यं गुरुवन्दनपूर्वकम् । क्षीरं शर्करया युक्तं स्वदते हि विशेषतः ॥ १७ ॥

इह तावत् “आार्यदेवो भव (तै. उ. शि. ११)” इति तैत्तिरीयाः । “आार्यवान् पुरुषो वेद (छा. उ. ६.१४.२)” इति छन्दोगाः । “यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । तस्यैते (ऽ) कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥” इति कठाः । रहस्याम्नाये तु “यथा भगवत्येवं वक्तरि भक्तिः” इति । अमानित्वादीन् सम्यग्ज्ञानहेतून् प्रक्रम्य गीयते “आार्योपासनं शौं स्थैर्यमात्मविनिग्रहः (१३.७)” इति । आार्यप्रसादस्य सर्वसिद्धिहेतुत्वं बोधायनीये पुराणसारसमुये प्रोक्तम् “देवताया गुरोश्ापि मन्त्रस्यापि प्रकीर्तनात् । ऐहिकामुष्मिकी सिद्धिर्द्विजस्यास्ते न संशयः ॥” इति । सिद्धिरिह ज्ञानादिसमस्तापेक्षितलाभः । उक्तं हि जयाख्यसंहितायाम् (१.६३) “यस्माद्देवो जगन्नाथः कृत्वा मर्त्यमयीं तनुम् । मग्नानुद्धरते लोकान्कारुण्या्छास्त्रपाणिना ॥ तस्माद्भक्तिर्गुरौ कार्या संसारभयभीरुणा ॥” इति । एवं “देवमिवाार्यमुपासीत (आप. धर्म. १.६.१३)”, “नम आार्येभ्यः (छान्दोग्योपनिषत्)” इति ॥ “आार्यः प्लाविता तस्य ज्ञानं प्लव इहो्यते (वराहपुराणे)”, “मन्त्रे तद्देवतायां तथा मन्त्रप्रदे गुरौ । त्रिषु भक्तिस्सदा कार्या सा हि प्रथमसाधनम् ॥ (विष्णुतत्त्वे)”, “मन्त्रनाथं गुरुं मन्त्रं समत्वेनाभिपूजयेत्”, “क्षुर्गम्यं गुरुं त्यक्त्वा शास्त्रगम्यं तु यस्स्मरेत् । करस्थमुदकं त्यक्त्वा घनस्थमभिवाञ्छति ॥ (विहगेश्वरसंहितायाम्)”, “सुलभं तु गुरुं त्यक्त्वा दुर्लभं य उपासते । बद्धं त्यक्त्वा धनं मूढो गुप्तमन्वेषते क्षितौ ॥ (श्रीसात्त्वते)” इत्यादि वनशतमिह द्रष्टव्यम् । “स ाऽऽार्यवंशो ज्ञेयो भवत्याार्याणामसावसावित्याभगवत्तः (रहस्याम्नाये)” इत्याम्नानात् प्राार्यभजनमपि कर्तव्यम्, तत्स्वाार्यस्याप्यधिकं प्रीणनम्, अतोऽत्र गुरोरपि गुरुं नाथमुनिं प्रणमति –

नमोऽिन्त्याद्भूताक्लिष्टज्ञानवैराग्यराशये । नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ॥ १ ॥

नमोऽिन्त्येति ॥ यद्यप्यत्र गुरुपङ्क्तिः स्वयमभिवन्द्यते, तथाऽपि परप्रतिबोधनार्थं प्रबन्धमुखेनोपकर्तॄणामेवात्र ग्रन्थे निवेशः । अत्र नमश्शब्दः प्रह्वीभावपरः आत्मनिवेदनपरो वा, स तु प्रणिपतनपूर्वकम् इत्युक्तम्, “दण्डवत्प्रणमेद्भूमौ निर्लज्जो गुरुसन्निधौ । शरीरमर्थं प्राणं सद्गुरुभ्यो निवेदयेत् ॥ (विहगेश्वरसंहिता)” इति विधानात् । नमसश्ात्मनिवेदनपरत्वमीश्वरसंहितायां मन्त्रराजपदस्तोत्रे (११) प्रोक्तम् “नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् । मुक्तदुःखोऽखिलान्कामानश्नुते तं नमाम्यहम् ॥” इति । “गुणैर्दास्यमुपागतः (रामा. कि. ४.१२)” इति ाभिप्रायेणात्र गुरोर्ज्ञानादिगुणगणोक्तिः । ज्ञानमिह “सा विद्या या विमुक्तये (वि. पु. १.१९.४१)”, “संज्ञायते येन तदस्तदोषम् (वि. पु. ६.५.८७)” इत्यादिषूक्तमपवर्गोपयुक्तं परस्वरूपरूपादिज्ञानम् । ईदृशज्ञानवानेव गुरुराश्रयणीयः “भिन्ननावाश्रितस्तब्धो य(त)था पारं न ग्छति । ज्ञानहीनं गुरुं प्राप्य कुतो मोक्षमवाप्नुयात् ॥ (सात्त्वतसंहितायाम्)” इति व्यतिरेकनिन्दनात् । वैराग्यम् – अल्पास्थिरत्वादिदोषविदूषितेषु स्वर्गस्वाराज्यादिषु स्वात्मानुभवमात्रे निस्स्पृहत्वम् । अिन्त्यत्वादित्रिकं द्वन्द्वात् पूर्वत्वात् प्रत्येकमन्वेति । अस्मदादिभिः स्वरूपतः कारणतो विशेषतो विषयतश् परि्छेत्तुमशक्यत्वमिहािन्त्यत्वम्; कुतर्कैरपह्नोतुमशक्यत्वं वा । अद्भुतत्वमवगतांशस्यापि लोकोत्तरतया आश्र्ययुक्तत्वम् । अक्लिष्टत्वं “स्वयमागतविज्ञाना निवृत्तिं धर्ममास्थिताः (भार. शान्ति. ३४९.७१)” इतिवत् प्राीनसुकृतविशेषजनितेन परावरगुरुप्रसादेनायत्नलब्धत्वम्; विरुद्धधर्मसंमर्दरहितत्वं वा । ज्ञानादेरक्षयत्वव्यञ्जनार्थमिह तदाश्रये राशिशब्दः । अिन्त्यत्वादिविशिष्टौ ज्ञानवैराग्यराशी यस्येति बहुव्रीहिर्वा । तदा तु ज्ञानवैराग्ययोः प्रत्येकं विषयानन्त्येन भेदमनुसन्धाय राशित्वकॢप्तिः । नाथशब्देन – “नामोक्तावर्धोक्तिरपि पूर्णोक्तिकार्यकरी”ति न्यायेन श्रीरङ्गनाथ इति नामधेयं स्वापेक्षितसिद्ध्यै यानीयत्वं स्वामित्वं विवक्षितम् । स्वाभाविकं भगवदनन्यार्हशेषत्वं तदिष्टविनियोगसिद्धस्याऽऽार्यशेषत्वस्य न विरुद्धम् । पापकृतमेवान्यशेषत्वं परिहार्यम् । “नाथाय नाथमुनये (स्तो. २)” इति वक्ष्यमाणेऽप्येवं विवक्षा ग्राह्या । मुनये भक्तिप्रेरिततया प्रकृष्टमननशीलाय । उभयलिङ्गत्ववािना भगव्छब्देन सर्वशेषिणः परभक्तियोग्यत्वं व्यज्यते । महनीयविषये प्रीतिर्भक्तिः । एतद्भक्तिस्सनकादिभिरप्यनुष्ठिता । अशक्यतलस्पर्शत्वमगाधत्वं क्षोभणार्थिभिरक्षोभ्यत्वं । भक्तेरपारत्वाशोष्यत्वादिख्यापनाय तदाश्रये सिन्धुत्वोक्तिः । भक्तिं वा सिन्धुत्वेन रूपयित्वा बहुव्रीहिः । अत्र मुमुक्षूणां ित्तपरिष्कारभूतेषु बहुषु गुणेषु प्राधान्यतस्त्रय उपात्तः, तत्रापि प्रधानतमत्वव्यक्त्यै भक्तेः पृथगुक्तिः ॥१॥

एवं भगवत्परत्वानुभवजनितभक्तिपरिपूर्णं प्रणम्य तमेवावतारहेतुभूतसौलभ्यगुणविशेषानुभवजनित स्नेहपूर्णं “नमस्तस्मै नमस्तस्मै (वि. पु. १.१९.७९)”, “नमो नमस्तेऽस्तु सहस्रकृत्वः (गीता. ११.३९)” इतिवदादरातिशयात्पुनर्नमस्यति –

तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।

नाथाय नाथमुनयेऽत्र परत्र ापि नित्यं यदीयरणौ शरणं मदीयम् ॥ २ ॥

तस्मै नम इति ॥ तस्मै – “स्वयोगमहिमप्रत्यक्षतत्त्वत्रयः (आगमप्रामाण्ये)” इति सुप्रसिद्धाय । मधुजि्छब्दः प्रादुर्भावविशेषकृतदुष्कृद्विनाशनं, हिरण्यगर्भादिसाधुपरित्राणं, तद्वदस्मदादिष्वपि रजस्तमःप्रभृतिसर्वदोषनिरासार्हत्वं, वेदाहरणवृत्तान्तेन धर्मसंस्थापनं सूयति । अङ्घ्रिशब्देन शुभाश्रयविग्रहद्वाराऽनुरागातिशयहेतुत्वं, तत्रापि शेषभूतस्योद्देश्यतमांशश् प्रदर्श्यते । सरोजत्वरूपणेन मङ्गलत्वं भोग्यत्वं व्यञ्जितम् । भगवदङ्घ्रिबलेन मधुर्जितः, अयं तु तद्भोग्यतातिशयेन जित इति भावः । तद्विषयं तत्त्वज्ञानं तत्पदद्वयमेव मुमुक्षूणां सिद्धोपायः प्राप्यं ेति याथार्थ्यबुद्धिः । “अजायमानो बहुधा विजायते, तस्य धीराः परिजानन्ति योनिम् (उत्तरनारायणानुवाके)”, “अजोऽपि सन्नव्ययात्मा (गीता ४.६)”, “जन्म कर्म मे दिव्यम् (गीता ४.९)” इत्यादिषूक्तमवताररहस्यज्ञानं वा । अनुराग इह अवतारप्रकाशितगुणविशेषकृतः सुहृन्मित्रादिष्विव स्नेहः । सेवकस्य स्नेहो भक्तिश् “स्नेहो मे परमो राजन् त्वयि नित्यं प्रतिष्ठितः । भक्तिश् नियता वीर! भावो नान्यत्र ग्छति ॥ (रामा. उत्त. ४०.१५)” इत्यत्र संबुद्धिद्वयसूितसेव्यगुणभेदनिबन्धनतया विभज्यो्येते । ज्ञानानुरागयोर्महिमा महत्त्वं, तस्यातिशयः प्रकर्षः, तस्यान्तसीम्ने – परमावधिभूताय । (येऽन्ये) अन्ये योगिनः एतदपेक्षयाऽर्वाीनाः, तेषां ज्ञानादिकं हि समुद्रे गोष्पदमस्तीतिवदेतस्य ज्ञानादावन्तर्गतं भवतीति भावः । भगवदनुरागातिशयोक्त्या तदितरविषयवैराग्यातिशयोऽप्यर्थसिद्धः । अत्र मुक्तेः पूर्वावस्थायां ज्ञानभक्त्याद्युत्पादनमुखेन शरणत्वम्, परत्र तु मुक्तिदशायां सूरिव्छेषित्वेन विशिष्टप्राप्यान्तर्भावात् तत्रापि प्राीनमहोपकारसाक्षात्कारेण विशेषप्रतिपत्तिविषयतयै (तया वे) वेत्याशयः । अपिेतिवत् ापीत्यव्ययमनतिरिक्तार्थम् । यद्वा, परत्र शरणत्वासंभवप्रतिक्षेपार्थोऽयमपिशब्दः । नित्यं – यावदात्मभावि । यदीयरणौ – यस्य रणावित्यर्थः । शरणमिति यथासंभवमुपायत्वप्राप्यत्वरक्षितृत्वादीनां तन्त्रेणोपादानम् । अत्र परत्र ेत्युभाभ्यामन्वयात् । उक्तं गुरोरपि प्राप्यप्रापकभावेन संश्रयणीयत्वं सात्त्वततन्त्रे “गुरुरेव परं ब्रह्म गुरुरेव परा गतिः । गुरुरेव परा विद्या गुरुरेव परायणम् ॥ गुरुरेव परः कामो गुरुरेव परं धनम् । यस्मात्सदुपदेष्टाऽसौ तस्माद्गुरुतरो गुरुः ॥” इति । अन्यत्र गुरुं प्रस्तुत्य “अर्नीयश् वन्द्यश् कीर्तनीयश् सर्वदा । ध्यायेज्जपेन्नमेद्भक्त्या भजेदभ्यर्येन्मुदा ॥ उपायोपेयभावेन तमेव शरणं व्रजेत् ॥” इति ॥ २ ॥

पुनरपि तमेव स्वनिष्ठाप्रधा(दा)नलक्षणपरमौदार्यविशिष्टं भावयन् “पुनश् भूयोऽपि नमो नमस्ते (गीता ११.३९) इति न्यायेन प्रणमति –

भूयो नमोऽपरिमिता्युतभक्तित्त्वज्ञानामृताब्धिपरिवाहशुभैर्वोभिः ।

लोकेऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ॥ ३ ॥

भूय इति ॥ स्तवप्रियस्य भगवतः स्वविषयस्तुतौ योजयितुमि्छतः स्तोत्रं तावदास्ताम्, ततोऽप्यसाधारण्येनोपकारकतमो नाथमुनिरेव मे नन्तव्य इति भावः । आश्रितसंरक्षणव्रतान्न ्युत इत्य्युतः; तदभिप्रायेण हि स्वयमुक्तं भगवता “सत्त्वान्न ्युतपूर्वोऽहं सत्त्वं वै विद्धि मत्कृतम्” इति । सत्त्वमिह व्यवसायः “द्रव्यासुव्यवसायेषु सत्त्वमस्त्री तु जन्तुषु” इति नानार्थपाठात् । “न कर्मणा वर्धते नो कनीयान् (तै. आर.)”, “स न साधुना कर्मणा भूयान्नो एवासाधुना कनीयान् (बृ. उप. ६.४.२२)” इत्यादिषूक्तं ज्ञानबलैश्वर्यादेरप्र्युतत्वं वा विवक्षितम् । “यस्मात्प्राप्ता न ्यवन्ते सोऽ्युतः” इत्यपि निरु्यते । अत्र ्युतो यस्मान्नास्ति सोऽ्युत इति बहुव्रीहिः । भक्तिश् तत्त्वज्ञानं ेति द्वन्द्वः । तत्त्वज्ञानमनारोपिताकारेण बुद्धिः । भक्त्यादियोगादस्य वसां विस्रम्भणीयत्वं सूितम् । अपरिमितत्वमिह भक्तिज्ञानयोर्विशेषणम् । तयोरमृताब्धित्वरूपणं सञ्जीवनत्वस्वयंप्रयोजनत्वाक्षयत्वादिव्यञ्जनार्थम् । परिवाहः तटाकादिरक्षणार्थमधिकजलापगमनप्रवाहः, तद्व्छुभैः; प्रसन्नमधुरशी(त)लत्वादिस्वभावैरित्यर्थः । अत्रानुक्त्वा स्थातुमशक्यत्वं प्रेरकान्तरप्रयोजनान्तरनैरपेक्ष्यं दृष्टान्तेन व्यज्यते । वोभिः परतत्त्वपरमहितपरमपुरुषार्थविषयैः न्यायतत्त्वादिप्रबन्धनिवेशितैरन्यैश् वाक्यैः । “संस्मराम्यस्य वाक्यानि प्रियाणि मधुराणि (रामा. आ. १६-३९)”, “संस्कारक्रमसंपन्नाम् (रामा. कि. ३.३३)” इत्यादिप्रकारोऽत्रानुमन्धेयः । लोके – सात्त्विके जने; यद्वा, भगवद्विमुखाधिष्ठिते भुवने; अत्यद्भुतं ह्येतदिति भावः । यथा परमपदनिलयो भगवानत्रावतरति, तथा नाथमुनौ स्थितो भक्तियोगस्तदाश्रितेषु मत्पर्यन्तेष्वित्यभिप्रायेणावतीर्णत्वोक्तिः । पूर्वं दुरारोहसीमावस्थितत्वं सूितम् । परमार्थशब्दः स्वयंप्रयोजनत्वमकैतवत्वं वा वक्ति । फलं प्रत्यव्यवहितसाधनत्वज्ञापनाय समग्रत्वोक्तिः । भक्तिश्ासौ योगश्ेति भक्तियोगः, प्रीतिरूपापन्नध्यानमुपायो वा “योगस्सन्नहनोपायध्यानसङ्गतियुक्तिषु (अमर. ३.३.२२)” इति नैघण्टुकाः । भक्तिशब्द इह वःपरिवाहमूलतया सहोक्तं तत्त्वज्ञानमुपलक्षयति; भक्तियोगस्यापि तत्त्वज्ञानात्मकत्वसूनार्थं वा पृथगत्रानुक्तिः । नाथमुनिशब्दस्य प्रतिश्लोकं निबन्धनात् “गुरुपादाम्बुजं ध्यायेद्गुरुनाम जपेत्सदा । गुरोर्वार्तां कथां ैव गुरोरन्यं न भावयेत् ॥” इत्यादिकमनुसन्धेयम् । यमिनां – भगवदेकनियतकरणत्रयवृत्तीनां, वराय – वरणीयाय, श्रेष्ठाय वा । एतत्तु भगवद्विषययोगारूढतया प्राप्तम्, यद्गीयते “योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्धावान् भजते यो मां स मे युक्ततमो मतः ॥ (गीता. ६.४७)” इति ॥ ३ ॥

तुष्टूषन्नपि लक्ष्मीशमाार्यगुणयन्त्रितः । क्रमात्स्वस्य स्तुतौ योक्तुं प्रभुणाऽन्यत्र कृष्यते ॥ १८ ॥ अत्र हि प्रबन्धनिर्माणद्वारा परम्परयोपकारकान् नमश्िकीर्षुस्तेष्वपि धर्मशास्त्रकृतां प्राुर्येण धर्ममार्गोपबृंहणप्रधानत्वाद्भारतादिकृतां मनुष्यत्वकञ्ुकितमहापुरुषानुगुणकाव्यत्वकवितातिगहनगभार-विततग्रन्थनिर्मातृतया तत्त्वत्रयादिविवेकस्य तत्प्रबन्धेषु कृ्छ्रसाध्यत्वाानन्यपराव्यामिश्रव्यक्ततात्पर्यसंक्षिप्तसात्त्विकोपबृंहणप्रधानतम पुराणनिर्माणेनात्यन्तोपकारकं पराशरं प्रणमति –

तत्त्वेन यश्िदिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः ।

संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिवराय पराशराय ॥ ४ ॥

तत्त्वेनेति ॥ तत्त्वमिहाऽनारोपितं रूपम्; यथाऽवस्थिताकारेणेत्यर्थः । य्छब्देन प्रजापतिनप्ता वसिष्ठपुत्रः “स होवा व्यासः पाराशर्यः (तै. आर. १.९)” इति व्यासस्याप्तत्वाय तत्पितृत्वेन श्रुत्युपात्तः पुलस्त्यवसिष्ठवरप्रदानलब्धपरदेवतापारमार्थ्यज्ञानवत्तया प्रसिद्ध इति व्यज्यते । अत्र िदि्छब्दौ गोबलीवर्दन्यायात् ेतनाेतनविशेषपरौ, ेतनविशेषाः बद्धमुक्तादयः, अेतनविशेषास्त्रिगुणकालादयः । ईश्वर इह स्वेतरसर्वनियन्ता स्वयमन्यैस्स्वसङ्कल्पमन्तरेणानियाम्यः, पुरुषोत्तमः । अत्र स्वस्वरूपावगतिपूर्वकत्याज्योपादेयविभागार्थं प्रकृत्यात्मभ्रमस्वतन्त्रात्मभ्रमनिवृत्त्यर्थं त्रय्यन्तोक्तभोक्तृभोग्यनियन्तृक्रमो निबद्धः । तत्स्वभावाः – तेषां त्रयाणां साधर्म्यवैधर्म्यरूपाः धर्माः । तत्र कारणत्वादयस्साधर्म्यरूपाः, परतन्त्रत्वभोक्तृत्वपराक्त्वसर्वशरीरत्वादयो वैधर्म्यरूपाः ।

भोग इह स्वर्गस्वाराज्यादिसुखानुभवः, स्वात्मानन्दानुभवश् । तस्मिन् मुक्तिशब्दं केिदुपरन्ति । न हि नित्यं किञ्ित् स्वात्मानन्दमात्रानुभवरूपं कैवल्यमस्ति “तुर्विधा मम जना भक्ता एव हि ते श्रुताः । तेषामेकान्तिनः श्रेष्ठाः ते ैवानन्यदेवताः ॥ अहमेव गतिस्तेषां निराशीः कर्मकारिणाम् । ये तु शिष्टास्त्रयो भक्ताः फलकामा हि ते मताः ॥ सर्वे ्यवनधर्माणः प्रतिबुद्धस्तु मोक्षभाक् ॥ (भार. शान्ति. ३५०.३३,३४,३५)” इति विशेषणात् । किञ्,

सर्वकर्मविनिर्मोक्षे मुक्तिभेदः कथं भवेत् । कर्मैकदेशयोगे तु न मुक्तिर्भुक्तिभेदवत् ॥ १९ ॥

कैवल्यवाङ्मात्रात् मुक्तिरेषेति युज्यते । स्वमात्रभुक्तितात्पर्यात्तत्र तस्य प्रयोगतः ॥ २० ॥

आत्ममात्रानुभवसक्तस्य तदुपायानुष्ठायिनः का गतिरिति ेत्, ब्रह्मविद्यानुप्रवेशा(शे)नामपवर्गविश्रान्तौ तदभावे तत्तदनुगुणेति भाष्यादिषु द्रष्टव्यम् । ऐश्वर्याद्यर्थिनां तत्तत्प्रदर्शनमप्यौदार्यकृत्यमेव । अपवर्गः – सर्वकर्मात्यन्तो्छेदेन निश्शेषाविद्यानिवृत्तिलक्षणपरिपूर्णब्रह्मानुभवः; स ाकर्माधीनस्वाम्यभिमतस्व्छन्दशेषवृत्तिपर्यन्तः । ईदृशानुभवे “यथा न क्रियते ज्योत्स्ना मलप्रक्षालनान्मणेः । दोषप्रहाणान्न ज्ञानमात्मनः क्रियते तथा ॥ यथोदपानकरणात् (खननात्) क्रियते न जलाम्बरम् । सदेव नीयते व्यक्तिमसतः संभवः कुतः ॥ तथा हेयगुणध्वंसादवबोधादयो गुणाः । प्रकाश्यन्ते न जन्यन्ते नित्या एवात्मनो हि ते ॥ (विष्णुधर्मे १०४.५५,५६)” इत्यादिकमनुसन्धेयम् ।

तदुपायाः – तत्तदधिकारिसाध्याः “प्रवृत्तिलक्षणं धर्मं प्रजापतिरथाब्रवीत् (भार. शा. २१९.४)”, “निवृत्तिलक्षणं धर्ममृषिर्नारायणोऽब्रवीत् ॥ (भार. शा. २१९.२)” इति विभज्योक्ताः । सिद्धिरूपाश् देवतादयस्सर्वसाधारणाः; प्रधानतमस्सिद्धोपायस्तु यथार्हं तथाविधधर्मद्वयवशीकरणीयतया नित्यसिद्धः पुरुषोत्तम एव । गतावपि त्छब्दोऽन्वेति, तत्संबन्धिनी गतिरर्िरादिका धूमादिका । यद्वा सात्त्विकराजसतामसादिभिन्ना । तथा गीयते “ऊर्ध्वं ग्छन्ति सत्त्वस्थाः (गीता १४.१८)” इत्यादि । गतिपर्यन्तानामष्टानामिह द्वन्द्व उितः, गतयः सप्तानां प्रकारा इति केित् । उक्तैरेवानुक्तं विरोध्यादिकमप्यत्रोपलक्ष्यते । उदारः – मैत्रेयादीनामस्मदादीनां प्रत्युपकारमनपेक्ष्य तत्त्वज्ञनमहानिधिप्रदाता । येन ैवमाशास्यते पुराणान्ते “प्रदिशतु भगवानशेषपुंसां हरिरपजन्मजरादिकां समृद्धिम् (वि. पु. ६.८.६४)” इति । अत्र “अज्ञानाय तु यो ज्ञानं दद्याद्धर्मोपदेशनम् । कृत्स्नां वा पृथिवीं दद्यात्तेन तुल्यं न तत्फलम् ॥”, “ब्रह्मविद्याप्रदानस्य देवैरपि न शक्यते । प्रतिप्रदानमथवा दद्या्छक्तित आदरात् ॥ (शाण्डिल्यस्मृतिः १.११७)”, “विद्यादानं ततोऽधिकम्” इत्यादिकमनुसन्धेयम् । संदर्शयन् – सम्यग्दर्शयन् । कण्ठोक्त्याऽर्थसिद्ध्या विशदं प्रकाशयितुमित्यर्थः । “लक्षणहेत्वोः क्रियायाः (पा. सू. ३.२.१२६)” इति शतृप्रत्ययः । “िरनिर्वृत्तमप्येतत्प्रत्यक्षमिव दर्शितम्” इति न्यायाद्दर्शनशब्द औपारिकः । तदभिप्रायेण हि श्रूयते “तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान् सनत्कुमारः (छा. उ. ५.२४.३)” इति । तत्त्वेन संदर्शयन् इत्यनेन “प्रोवा तां तत्त्वतो ब्रह्मविद्याम् (मु. उ. १.२.१२)” इति श्रुत्युक्तं सू्यते । एवं सर्ववेदसारभूत(श्रुत)सकलार्थोपबृंहणपरत्वं ख्यापितम् ।

अत्र जीवस्वरूपस्वभावतदवान्तरभेदाः “पिण्डः पृथग्यतः पुंसः (वि. पु. २.१३.८५)”, “पुमान् न देवो न नरः (वि. पु. २.१६.९८)”, “निर्वाणमय एवायमात्मा ज्ञानमयोऽमलः (वि. पु. ६.७.२२)”, “आत्मा शुद्धोऽक्षरश्शान्तो निर्गणः प्रकृतेः परः (वि. पु. २.१३.७१)”, “अद्यापि न निवर्तन्ते द्वादशाक्षरिन्तकाः (वि. पु. १.६.३९)”, “यद्वै पश्यन्ति सूरयः (वि. पु. १.६.३९)” इत्यादिभिरुक्ताः । अित्स्वरूपस्वभावतद्भेदास्तु “त्रिगुणं तज्जगद्योनिरनादिप्रभवाप्ययम् । व्यक्ताव्यक्ते तथैवान्ये रूपे कालास्तथा परः ॥ (वि. पु.)”, “कलामुहूर्तादिमयश् कालो न यद्विभूतेः परिणामहेतुः (वि. पु. ४.१.८४)” इत्यादिभिर्दर्शिताः । ईश्वरस्वरूपादिकं तु “अविकाराय शुद्धाय (वि. पु. १.२.१)”, “परः पराणां परमः (वि. पु. ६.३.८५)”, “शास्ता विष्णुरशेषस्य (वि. पु.)”, “समस्तकल्याणगुणात्मकोऽसौ (वि. पु. ६.५.८४)”, “आत्मभावं नयत्येनं तद्ब्रह्म ध्यायिनं मुने । विकार्यमात्मनश्शक्त्या लोहमाकर्षको यथा ॥ (वि. पु. ६.७.३०)”, इत्यादिषु स्पष्टम् । भोगतत्स्थानभोग्यभोगोपकरणादिकं भुवनकोशादिषु प्रपञ्ितम् । “योगिनाममृतं स्थानं स्वात्मसन्तोषकारिणाम् (वि. पु. १.६.३८)” इत्यनेन स्वात्मानुभवपराणां स्थानमप्युक्तम् । सनकादियोगिनाममृतं स्थानं स्वात्मसन्तोषकारिणामपि स्थानं भवतीत्यर्थः । अत्र पूर्वपरवाक्यप्रवृत्तिप्रकारः परामर्शनीयः । स्वधर्ममनुवर्तिनामिति केषांित्पाठेऽपि योगिन एतेऽर्वाीनाः, तत्स्थानमपि तथैव “एकान्तिनस्सदा ब्रह्मध्यायिनो योगिनो हि ये । तेषां तत्परमं स्थानम्….. ॥ (वि. पु. १.६.३९)” इति तदधिकस्य स्थानस्यानन्तरोक्तेः । अपवर्गस्वरूपं “निरस्तातिशयाह्लादसुखभावैकलक्षणा । भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥ (वि. पु. ६.५.५९)”, “तद्भावभावमापन्नः (वि. पु. ६.७.९५)” इत्यादिभिरुक्तम् । अत्र कर्मकृतवैधर्म्यस्यात्यन्तनिवृत्तिर्विवक्षिता । भोगोपायास्तु ध्रुवादिवृत्तान्तैरुदाहृताः । अपवर्गोपायश् भक्तियोगसंज्ञः “तद्रूपप्रत्यये ैका सन्ततिश्ान्यनिःस्पृहा । तद्ध्यानं प्रथमैष्षड्भिरङ्गैर्निष्पाद्यते नृप ॥ (वि. पु. ६.७.९१)”, इत्यादिषु सुव्यक्तः । प्रपत्तिस्वरूपं “तावदार्तिलथा वाञ्छा तावन्मोहस्तथाऽसुखम् । यावन्न याति शरणं त्वामशेषाघनाशनम् ॥ (वि. पु. १.९.७३)” इत्यादिषूक्तम् । भोगापवर्गार्थगतिश् तत्तदुपायफलमध्ये यथाश्रुति प्रतिपत्तव्या ।

“पुराणसंहिताकर्ता भवान् वत्स भविष्यति (वि. पु. १.१.३०)” इति वैष्णवलैङ्गयोरुक्तमाह – निरमिमीत पुराणरत्नमिति । न केवलं पूर्वसिद्धप्रबन्धप्रवर्तनमात्रमिति भावः । पुरैव विद्यमानत्वेऽपि संप्रति नवत्वात् पुराणत्वम्; िरानुभूतत्वेऽपि अपूर्ववन्नित्यानुभाव्यमित्यर्थः । अनादिवैदिकार्थविषयतया विद्यान्तरेभ्यः पुरातनत्वाद्वा पुराणत्वम् । यथोक्तं वायव्ये “प्रथमं सर्वशास्त्राणां पुराणं ब्रह्मणोदितम् । अनन्तरं वक्त्रेभ्यो वेदास्तस्य विनिस्सृताः ॥” इति । नन्वेवं सति पराशरः पुराणरत्नं निरमिमीतेति कथं स्यात्, शैवपुराणे “ब्रह्मा ैव तु वेदानां पुराणानां प्रदर्शकः” इत्युक्तमिति ेत्, सत्यम् । तथाऽपि तत्रैव प्रत्येकं पुराणसंहिताविशेषप्रणेतारः प्रतिपाद्यन्ते “ब्राह्मं तु ब्रह्मणा प्रोक्तं पाद्मं तेनैव शोभनम् । पराशरेण कथितं वैष्णवं मुनिपुङ्गवाः ॥ शैवं शैलालिना प्रोक्तम्….. ॥” इत्यादि । तथा आग्नेयपुराणे “यद्ब्रह्मकल्पवृत्तान्तमधिकृत्य प्रजापतिः । अकल्पयत्पुराणं तद्ब्राह्ममित्यभिधीयते ॥” इत्यादि । मात्स्येऽपि “वराहकल्पवृत्तान्तमधिकृत्य पराशरः । यत्प्राह धर्मानखिलान् विष्णोस्तद्वैष्णवं विदुः ॥ यत्तददीशानकल्पस्य वृत्तान्तमधिकृत्य । कल्पितं लैङ्गमित्युक्तं पुराणं ब्रह्मणा स्वयम् ॥” इत्यादि । “अष्टादशपुराणानां कर्ता सत्यवतीसुतः” इत्येतदपि प्राक्सिद्धसर्वपुराणप्रवर्तनविशेषाद्वा सर्वपुराणसारोद्धारेण “यदिहास्ति तदन्यत्र यन्नेहास्ति न तत्क्वित् (भार. आदि. ६२.५३)” इत्युक्तमहाभारतकरणाद्वा निर्वाह्यम् । अत एव ह्यु्यते “अष्टादश पुराणानि अष्टौ व्याकरणानि । ज्ञात्वा सत्यवतीसूनुश्क्रे भारतसंहिताम् ॥” इति । एतेन “अष्टादश पुराणानि कृत्वा सत्यवतीसुतः । भारताख्यानमखिलं क्रे तदुपबृंहणम् ॥ लक्षेणैकेन यत्प्रोक्तं वेदार्थपरिबृंहणम् ॥” इति भविष्यन्मात्स्यपुराणयोरुक्तमपि नेतव्यम् । इदं तु पुराणं “सर्गश् प्रतिसर्गश् (वायुपुराणे ४.१०)” इत्यादिना पञ्लक्षणयुक्तम् । तस्य रत्नत्वरूपणेन त्रासरहितत्वस्थिरत्वसुग्रहत्वसुरक्षत्वभोग्यत्वप्रकाशकत्वमङ्गलत्वमहार्घत्वमान्यत्वमाननहेतुत्वादि व्यज्यते ॥

(अत्रासं मानदं रत्नं स्थिरं भोग्यं प्रकाशकम् । महार्घं मङ्गलं मान्यं सुरक्षं सुग्रहं नृणाम् ॥ २१ ॥)

एतस्य परिग्रहातिशयस्सर्वसंमतः । तस्मै – उक्तप्रकारपरमौदार्यविशिष्टाय “इतिहासपुराणाभ्याम् (मनु. महा. आ. १.२७३)” इत्यादिना मनुप्रतिपादितवेदभयप्रशमनाय । मुनिवराय – परब्रह्ममननशीलेषु श्रेष्ठाय, तैर्वरणीयायेति वा । मुनिभिर्दत्तवराऽसौ तेषामपि प्रत्युपकर्तेति भावः । “पराशरं मुनिवरम् (वि. पु. १.१.१)” इति पुराणारम्भोक्तिसूकाभ्यां मुनिवरपराशरशब्दाभ्यां स्वपक्षस्थापकत्वं परपक्षप्रतिक्षेपकत्वं प्रकाश्येते । परान् – बाह्यकुदृष्टीन् प्रमाणतर्कशरैराशृणातीति पराशरः ॥ ४ ॥

अथ पराशरप्रबन्धादपि वेदान्तरहस्यवैशद्यातिशयहेतुभूतैस्सद्यः परमात्मनि ित्तरञ्जकतमैः सर्वोपजीव्यैरुपबृंहणैः मधुरकविप्रभृतिसंप्रदायपरंपरया नाथमुनेरप्युपकर्तारं कालविप्रकर्षेऽपि परमपुरुषसङ्कल्पात् कदाित् प्रादुर्भूय साक्षादपि सर्वोपनिषत्सारोपदेष्टारं पराङ्कुशमुनिं “माता पिता भ्राता (सुबाल. ६)” इत्याद्युपनिषत्प्रसिद्धभगवत्स्वभावदृष्ट्या प्रणमति –

माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानाम् ।

आद्यस्य नः कुलपनेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ॥ ५ ॥

मातेति ॥ उपजीव्यप्रबन्धनिर्माणक्रमादत्र पराशरपराङ्कुशनमस्कारक्रमः । “माता पुत्रस्य भूयांसि कर्माण्यारभते यतः । तस्यां तु शुश्रूषा नित्या पतितायामपि…..”, “आार्यः श्रेष्ठो गुरूणां मातेत्येके (गौतमधर्मसूत्रे १.२)”, “पितुः शतगुणं माता गौरवेणातिरि्यते” इत्यादिषु मातुर्गौरवं प्रतिपादितम् । एवं “माता भ्राता पितुः पुत्रो यस्माज्जातः स एव सः ॥” इति पितापि प्रसिद्धगौरवः । युवतयश् “यत्रानुकूल्यं दम्पत्योः त्रिवर्गः तत्र वर्धते । (मनुस्मृतिः)” इति धर्मार्थकामहेतुतयोक्ताः । तनयाः – संन्दर्शनादिभिराह्लादहेतवः, असमर्थावस्थायां संरक्षकाः, पुन्नाम्नो नरकात्त्रातारः । “अपि स्यात् स कुलेऽस्माकं सर्वभावेन यो हरिम् । प्रयाया्छरणं विष्णुं देवेशं मधुसूदनम् ॥ (महाभारते)”, “आस्फोटयन्ति पितरः प्रनृत्यन्ति पितामहाः । वैष्णवो नः कुले जातस्स नः सन्तारयिष्यति ॥ (वराहपुराणे)” इत्यादिभिः स्वगुणेन पितृपङ्क्तेरपि निस्तारकाः प्रसिद्धाः । एकस्मिन्नेवास्मिन् बहुभिस्साध्य उपकारस्समुदित इत्यभिप्रायेण बहुवनम् । विभूतिः – दासभृत्यधनरत्नादिरूपः शेषभूतो नियन्तव्यवर्गः । धारकपोषकादिविभूत्यभावे पूर्वोक्तमखिलं सदप्यसत्समं स्यात् । सर्वम् – अन्यदैहिकामुष्मिकपुरुषार्थतत्साधनादि यत् प्रसिद्धं सात्त्विकसमाजेष्विति भावः । यदेकमेव दृष्टादृष्टरूपं सर्वमुपजीव्यमासीत्, एवंविधमन्यदपेक्षणीयं नास्तीत्यवधारणाभिप्रायः । मातापित्रादिशब्दविवक्षिताः प्रियप्रवर्तकत्वहितप्रवर्तकत्वादयः तत्स्वभावाः तदङ्घ्रावुपर्यन्ते । नियमेन – सर्वदा, मुक्तावपीत्यर्थः । यद्वा, अवधारणनियमाभ्यामाार्यस्य सर्वेश्वरादपि तत्प्रसादार्थमतिशयेन सर्वदा बहुमन्तव्यत्वमत्र सू्यते । ईश्वरकृपा ह्यनादिरप्याार्यकृपामपेक्षते, लीलारससहरिता । आार्यकृपा तु तन्निग्रहमपि शमयति, अनुग्रहैकरसा । ईश्वरस्य क्विदधोनिनीषाऽपि वर्तते, असाधुकारयितृत्वं ; आार्यस्य तु सर्वत्रोन्निनीषैव, स साध्वेव कारयति । “आिनोति हि शास्त्रार्थानाारे स्थापयत्यपि । स्वयमारते यस्मात्तस्मादाार्य उ्यते ॥ (रहस्यरत्नावली)” इति स्मरणात् । भगवतो दैत्यादिषु विपरीतोपदेशोऽप्यस्ति; अस्य तु सर्वत्र यथार्थवादित्वमेवेत्यादि वैषम्यमनुसन्धेयम् । मदन्वयशब्देन स्वान्विताः पुरुषा गृह्यन्ते, विद्यया जन्मना वा स्ववंश्यानां पूर्वेषामुत्तरेषां ेत्यर्थः । स्वपूर्वेषामपि ज्ञानवैराग्यादेर्हेतुतया आद्यस्येति विशेषणम् । नः – नाथमुनिसंप्रदायभाजामस्माकम् । गोत्रर्षिवदसावित्यभिप्रायेण कुलपतित्वोक्तिः, ईश्वरस्तु परमाार्योऽपि सर्वेषां साधारणः, अयं त्वस्मदसाधारण इति भावः । योगरूढिप्रदर्शिताभ्यां रक्षकत्वशेषित्वाभ्यां वा पतित्वोक्तिः । वकुलाभिरामं श्रीमदित्युभाभ्यां वेषतः स्वभावतश् सौम्यत्वमङ्गलत्वे विवक्षिते । परतत्त्वनिर्णयहेतूनां तत्प्रबन्धानां स्थिरपरिमलत्वसूनार्थं तदातनसात्त्विकजनप्रयुक्तैः सपर्यार्थवकुलकुसुमैरभिरामम् । वैष्णवत्वसाम्राज्यिह्नैः श्रीमत् स्वाश्रितानां तादृशसंपत्प्रदानयोग्यं । “स तु नागवरः श्रीमान् (विष्णुधर्मे ६९.४७)”, “अन्तरिक्षगतः श्रीमान् (रामा. युद्ध. १६.१७)” इतिवत् भगवत्सेवोद्यतत्वं वा श्रीमत्त्वम् । तत् – उक्तप्रकारनिरतिशयभोग्यत्वनिरपायशरण्यत्वाभ्यां प्रसिद्धम् । अङ्घ्रियुगलम् – उपमान्तरराहित्येनान्योन्यसदृशं देवताद्वन्द्ववाविभक्तोद्देश्यम् । प्रणमामि – भक्तिप्रकर्षपूर्वकं प्रह्वीभावेन भजामीत्यर्थः । नित्यानुवृत्तिविवक्षया वर्तमानव्यपदेशः । मूर्ध्ना – न केवलं वाङ्मात्रेण, नापि मनसा, “समस्तिष्कः प्रणामः स्यादञ्जलिं मस्तके न्यसेत् । प्रणामस्संपुटस्स स्यात् हृदयेऽञ्जलिमर्पयेत् । प्रह्वाङ्गस्संपुटं कुर्यात् सा प्रह्वाङ्गनमस्क्रिया ॥” इत्युक्तमस्तिष्कसंपुटादिमात्रेणेति भावः । नमस्कारप्रकरणे “तद्यथा पुनरयं जानुभ्यां पाणिभ्यां शिरसा (रहस्याम्नायब्राह्मणे)” इत्यारभ्य “इत्येवं नमति स सर्वै: करणैर्नमति” इत्युक्तम् । तादृशप्रणामश्ैवं प्रशस्यते “सर्वैः करणैर्नमन् समग्रो भवति, समग्रो नमन्नाप्तकारी भवत्याप्तकारी भगवन्तमाप्नोति (रहस्याम्नायब्राह्मणे)” इति । अयं मूर्ध्ना प्रणामश्तुर्विधः, तत्र पञ्ाङ्गस्तावत् श्रीवैखानसे प्रोक्तः “पादाङ्गुलिभ्यां जानुभ्यां शिरसा ावनिं स्पृशन् । बद्धाञ्जलिर्नमस्कुर्यात् स पञ्ाङ्ग उदीर्यते” इति । षडङ्गश् “पादौ हस्तौ प्रसार्य वा (वैखानसशास्त्रे)” इत्यादिनोक्तः । शाण्डिल्यस्मृतौ (द्वितीयाध्याये) “निधाय दण्डवद्देहं प्रसार्य रणौ करौ । बद्ध्वा मुकुलवत्पाणी प्रणामो दण्डसंज्ञितः ॥ पादौ शिरस्तथा हस्तौ निकुञ््य मुकुलाकृती । मनोबुद्ध्यभिमानैश् प्रणामोऽष्टाङ्गसंज्ञितः ॥ मस्तिष्कं संपुटं ैव प्रह्वाङ्गं त्रयं बुधैः । कृतयोरनयोः कार्यमन्यथा विकलं भवेत्” इति । श्रीसात्वते (६.१८७) “मनोबुद्ध्यभिमानेन सह न्यस्य धरातले । कूर्मवतुरः पादान् शिरस्तत्रैव पञ्मम् ॥ प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा । अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतो विभोः” इति । सङ्कर्षणसंहितायां तु सुकृतप्रणामविधौ “ललाटोदरजान्वङ्घ्रियुगा (ग्रानूर्ध्वगौ) न्यूर्ध्वगतौ करौ । भूमौ संधाय मनसा वासुदेवमनुस्मरन् ॥” इति कररणजानुशिरःप्रभृतिद्वादशाङ्गश् प्रणामो द्रष्टव्यः । भगवतीव सम्यज्ज्ञानप्रदातृष्वपि भक्तिप्रकर्षादीदृशाः प्रणामा उपपद्यन्ते ॥

द्रविडोपनिषद्द्रष्टुरस्य याथात्म्यमद्भुतम् । सम्यक् श्रुतवतां नात्र शङ्कनीय उपप्लवः ॥ २२ ॥

“देवगुह्येषु ान्येषु हेतुर्देवि! निरर्थकः” (भार. आनु. २०६.६०) । इत्यादिन्यायदृष्ट्या तोष्टव्यमिह सूरिभिः ॥ २३ ॥ ॥ ५ ॥

एवमुपकारकान् प्रणम्य साक्षात् परम्परया सर्वोपकारकस्य भगवतः सत्संप्रदायप्रदानमहोपकारकृतज्ञतया आार्यप्रियिकीर्षया प्रेरितस्तत्प्रसादसन्धुक्षिततत्प्रबन्धानुसन्धानजनितज्ञानभक्तिपरिवाहरूपे स्तोत्रे प्राप्यप्रापकरूपप्रतिपाद्यसंग्रहपूर्वकं प्रवर्तते –

यन्मूर्ध्नि मे श्रुतिशिरस्सु भाति यस्मिन्नस्मन्मनोरथपथस्सकलस्समेति ।

स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दमरविन्दविलोनस्य ॥ ६ ॥

यन्मूर्ध्नीति ॥ य्छब्देन सर्वशास्त्रप्रसिद्धं सर्वोत्तरत्वं सू्यते । मूर्ध्नि मे भातीत्याश्र्यगर्भम् । अत्यन्तनिकृष्टस्य मे मूर्ध्नि पङ्गोरुपरि गङ्गानिपातवदयत्नोपस्थितमनुभवयोग्यं भवतीत्याश्रयणसौकर्यानुगुणसौलभ्यसौशील्यवात्सल्यादिसूकं । श्रुतिशिरस्सु भातीति सर्वाधिकत्वसर्वरक्षकत्वहेयप्रतिभटत्वसमस्तमङ्गलगुणास्पदत्वपरमप्राप्यत्वादिविशिष्टतया सर्वेषु वेदान्तेषु प्रकाशत इति भावः । प्राप्तेराश्रयणपूर्वकतया तदुपयुक्तसौलभ्यप्राधान्यविवक्षया स्वमूर्ध्नि भानस्य प्रथमोपादानम् । नीोत्तमस्थानवृत्तिभ्यां भाविकस्य तदौज्ज्वल्यस्य न हान्युपयौ, न मे तत्र तदभिव्यक्तितारतम्यमित्यभिप्रायवान् कारः । श्रूयते नित्यमित्यपौरुपेयत्वं दर्शयता श्रुतिशब्देन स्तुत्यविषयस्य प्रमाणस्य नित्यनिर्दोषत्वं सू्यते । शिरश्शब्देनाव्यवहितप्रवृत्तानन्यपरभागोक्तिः । बहुवनेन समन्वयाध्यायस्थापितं सर्वोपनिषदैककण्ठ्यमभिप्रेतम् । विप्रकीर्णेषु बहुषु वेदान्तेषु क्रमादनेकविधपूर्वपक्षगर्तनिस्तारेण कथंिद्द्रष्टव्यम् । ममेदानीं सदाार्यप्रसादादेकत्र झटित्ययत्नदृश्यमासीदिति कार्तार्थ्यं व्यज्यते । भातीति वर्तमानव्यपदेशेनाविरोधलक्षणोक्तं नित्यनिर्बाधत्वमपि प्रकाश्यते । यस्मिन् – स्वप्राप्त्युपायतया स्वीकृते । अस्मदित्यादिना सर्वप्रकारनिरवधिकभोग्यत्वोक्तिः । अस्म्छब्दः इहानुबन्धिसहितस्वात्मपरः । परावरपुरुषार्थविवेकस्ववंशस्वभावोऽयमिति भावः । मनोरथपथः – इ्छामार्गः । आफलप्राप्तेरनुस्यूतोऽभिलाष इत्यर्थः । सकलः – ऐहिकामुष्मिकप्राप्यप्रापकस्वरूपसर्वविषयः । समेति – सम्यक् संभूय वा ग्छति, न तु विषयभेदात् बहुशिरस्क इति भावः । “या प्रीतिरविवेकानाम्” (वि. पु. १.२०.१९) इत्यादिवत् । “त्वमेव माता ” (गान्धारीवाक्यम्) इत्यारभ्य “त्वमेव सर्वं मम देवदेव” इति ह्यनुसन्धीयते । “पिता त्वं माता त्वम्” (श्लो. ६०) इत्यादि वक्ष्यति ।

“स्वाध्यायेनार्यन्त्येके भवन्तं संयमेन ”, “इति वाग्भिः प्रशस्ताभिरयोनिर्विष्णुरीडितः”, “वाग्यज्ञेनार्ितो देवः प्रीयतां मे जनार्दनः”, “आरिराधयिषुः कृष्णं वां जिगदिषामि याम् । तया व्याससमासिन्या प्रीयतां पुरुषोत्तमः”, “एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः । यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्ेन्नरस्सदा” (भार. आनु. १५१.८), “आदरेण यथा स्तौति धनवन्तं धने्छया । एवं ेद्विश्वकर्तारं को न मु्येत बन्धनात्”, “सा जिह्वा या हरि स्तौति” (विष्णुधर्मे – १) इत्यादिषु प्रसिद्धां स्वशक्यां वािकीं परिर्यां करिष्यामीत्याह – स्तोष्यामीति । परमार्थगुणवर्णनेन सेविष्य इति भावः । तथा द्रमिडभाष्यं “नासता स्तुतिरुपपद्यते”, इति । आहुश् वरदाार्याः “कथमसता गुणेन कथितेन नुतिर्भवति” (तत्त्वसारे ३२) इति । मुख्यवृत्त्योारवृत्त्या वा कस्यिद्गुणस्यानभिधाने स्तुतित्वं न स्यादिति भावः । गुण्यव्छिन्नगुणाभिधानं हि स्तोत्रमाहुर्नीतिविदः । “सर्वेश्वरेश्वरः कृष्णः प्रो्यते यदि पण्डितैः । तथाऽपि स्वल्पमेवोक्तं भूतार्थे कतमा स्तुतिः ॥” (महाभारते) इत्यादिकं तु गुणारोपणेन वनं स्तुतिरिति लोकदृष्टप्रकारेणो्यते । स्तोष्यामीत्यत्र प्रधानभूतस्तुतिफलं सर्वशेषिभूतस्तुत्यगामीति हृदयम् । नः – पूर्वोक्तविद्यासन्तानजातानाम् । यद्वा, सर्वदेशकालवर्तिनां सात्त्विकानाम् । कुलधनम् – आपदर्थं संग्राह्यमयत्नलब्धमनुकूलोपायमित्यर्थः । कुलदैवतम् – अनतिलङ्घनीयमाराध्यमुपायनिर्वर्तकं फलप्रदं फलं । तत् – उक्तप्रकारपरत्वसौलभ्यपरमावधिभूतम् । पादस्यारविन्दत्वरूपणेन लक्ष्मीकरग्रहणयोग्यत्वकान्तिसौरभ्यसौकुमार्यादिकं व्यज्यते । “पुरुषे पुष्करेक्षणे”, “जितं ते पुण्डरीकाक्ष” (भार. मोक्ष. ३४४.४९), “यश् देवो मया दृष्टः पुरा पद्मायतेक्षणः” (भार. अर. १९२.५१), “मत्स्यः कमललोनः”, “महावराहस्स्फुटपद्मलोनः” (वि. पु. १.४.२६), “रामो राजीवलोनः” (रामा. बाल. २०.२) इत्यादिषु प्रसिद्धमनुग्रहशीलत्वपूर्णत्वव्यञ्जकमाह – अरविन्दविलोनस्येति । अरविन्दवत् सौम्यं विलोनं यस्य स तथोक्तः । मम योगिनां महति कुले जन्म, सदाार्यस्वीकरणमुपकारकेषु प्रावण्यं, तदभिमतिकीर्षया वीीतरङ्गवृत्तिक्रमेण प्रारिप्सितपरमात्मस्तुतौ सङ्कल्पश् भगवत्कटाक्षविशेषस्य फलमिति भावः । उक्तं मोक्षधर्मे (३५८-७३) “जायमानं हि पुरुषं यं पश्येन्मधुसूदनः । सात्त्विकस्स तु विज्ञेयः स वै मोक्षार्थिन्तकः” इति । तदन्यदृष्टिगोरत्वे दोष उक्तः “पश्यत्येनं जायमानं ब्रह्मा रुद्रोऽथवा पुनः । रजसा तमसा ास्य मानसं समभिप्लुतम्” (भार. मोक्ष. ३५८.७७) इति । किञ् स्वप्रेरिते मयि तुष्टूषमाणे तज्जनितप्रीत्यतिशयेन शेषपूरणं कर्तुमरविन्दव्छैत्यविकासशोभादिमता लोनेन भूयोऽपि मां कटाक्षयत इति धन्यतामात्वनोऽनुसन्धत्ते । उक्तं हि श्रीविष्णुधर्मोत्तरे रुद्रगीतायां “नाधन्यः केशवं स्तौति नाधन्योऽर्यति प्रभुम् । नमत्यधन्यो न हरिं नाधन्यो वेत्ति माधवम्”, इति ॥६॥

अथ स्तोत्राभ्युपगमप्रीतेन त्छ्रवणकौतुकिना भगवता स्तुतिसाद्गुण्याय स्तोतव्यस्य स्वस्य स्वरूपरूपगुणविभूतिषु कार्त्स्न्येन प्रकाशितासु सर्वैरपि विषयानुरूपस्तुतेरशक्यतां बुद्ध्वा निवृत्तोद्योगः तत्प्रवृत्तमात्मानमुपालभते –

तत्त्वेन यस्य महिमार्णवशीकराणुश्शक्यो न मातुमपि शर्वपितामहाद्यैः ।

कर्तुं तदीयमहिमस्तुतिमुद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ॥ ७ ॥

तत्त्वेनेति ॥ यथावत् स्थिताकारेणेत्यर्थः, कार्त्स्न्येनेति वाऽभिप्रायः । यस्य – त्रिविधपरि्छेदरहिततया निरवधिकगुणविभूतित्वेन श्रुत्यादिप्रसिद्धस्य । महिमा – अत्र निरुपाधिकसार्वज्ञ्यसर्वनियमनशक्त्यादिरूपः । तस्य दुरवगाहत्वादिना अर्णवत्वोक्तिः । तादृशस्य महिम्नोऽतिक्षुद्रविषयाधिष्ठानांशः शीकराणुत्वेन कल्प्यते । अनन्तेषु गुणेष्वेकैकमात्रं वा । शक्यो न मातुम् – वाा मनसा परि्छेत्तुमशक्य इत्यर्थः । श्रूयते हि – “यतो वाो निवर्तन्ते अप्राप्य मनसा सह” (तै. आ. ९), “यस्यामतं तस्य मतं मतं यस्य न वेद सः । अविज्ञातं विजानतां विज्ञातमविजानताम्” (केनोपनिषत् २), “त्वमेव त्वां वेत्थ योऽसि सोऽसि”, “यो अस्याध्यक्षः परमे व्योमन् सो अङ्ग वेद यदि वा न वेद” (तै. ब्रा. २.८.९.६) इति । एवं विभूतिद्वयैकदेशोऽपि मातुं न शक्य इत्यवगन्तव्यम् । ननु “ईशानस्सर्वविद्यानाम्” (भारते), “ईश्वराज्ज्ञानमन्वि्छेत्” (मात्स्ये ६७.४१) इत्यादिप्रसिद्धवैभेवस्सर्वज्ञनामा शर्वः, तस्याप्युपदेष्टा सर्ववेदप्रवर्तनाधिकृतश् पितामहः, सनन्दनादयोऽपि ब्रह्मभावनान्विता इत्यु्यन्ते; वेदाश् स्वयं सर्वोपदेष्टारः; तत् कथमेतैर्मातुमशक्यत्वमित्यत्राह – अपि शर्वपितामहाद्यैरिति । लोकोत्तरज्ञानैरपीत्यपिशब्दाभिप्रायः । अत्र कालत्रयवर्तिभिरपीति भाव्यम्; तथा ामनन्ति बह्वृाः – “न ते विष्णो! जायमानो न जातो देव! महिम्नः परमन्तमाप” (ऋक् ७.९९.२) इति । उक्तं ोत्तररामायणे ब्रह्मणा – (रामा. उत्त. ९ सर्गे) “त्वं हि लोकगतिर्देव! न त्वां केन जानते । ऋते मायां विशालाक्षीं तव पूर्वपरिग्रहाम्” इति । मोक्षधर्मे भृगुभरद्वाजसंवादे – (भार. मोक्ष.) “प्रजापतिं रुद्रं ाप्यहमेव सृजामि वै । तौ मां न विजानीतो मम मायाप्रमोहितौ” इति । ब्रह्मरुद्रसंवादे – (भार. मोक्ष. ३६१.७) “न स शक्यस्त्वया द्रष्टुं मयाऽन्यैर्वाऽपि सत्तम! । सगुणो निर्गुणो विश्वो ज्ञानदृश्यो ह्यसौ स्मृतः ॥ तवान्तरात्मा मम ये ान्ये देहिसंज्ञिताः । सर्वेषां साक्षिभूतोऽसौ न ग्राह्यः केनित्क्वित्” इति । श्रीविष्णुधर्मे “न यस्य रूपं न बलप्रभावौ न स्वभावः परमस्य पुंसः । विज्ञायते शर्वपितामहाद्यैस्तं वासुदेवं प्रणमाम्यिन्त्यम्” इति । वैष्णवे पुराणे (१.९.५९) – “यन्नायं भगवान् ब्रह्मा जानाति परमं पदम् । तन्नताः स्म जगद्धाम तव सर्वगता्युत! ॥ यं न देवा न मुनयोाहं न शङ्करः । जानन्ति परमेशस्य तद्विष्णोः परमं पदम् ॥” इति । श्रीवाराहे स्वयं ाह – “यदेतत् परमं ब्रह्म वेदवादेषु पठ्यते । स देवः पुण्डरीकाक्षः स्वयं नारायणः परः ॥ अद्यापि मां न जानन्ति रुद्रेन्द्राः सपितामहाः” इति । भगवद्गीतासु (७.२५) “नाहं प्रकाशः सर्वस्य योगमायासमावृतः । मूढोऽयं नाभिजानाति लोको मामजमव्ययम्” इति । “मां तु वेद न कश्न” (गीता ७.२६) इति । अत्र महिमार्णवशीकराणुर्मातुं न शक्य इत्युक्त्वा महिमस्तुतिमिति वनात् स्वस्य ापलभूम्ना कार्त्स्न्येन महिमस्तुतावुद्योगः सू्यते । तदीयमहिमस्तुतिं – तदसाधारणस्य महिम्नः प्रकर्षकथनमित्यर्थः । तदीयस्य – स्तोतव्यतया प्रस्तुतस्य पादारविन्दस्य माहात्म्यवर्णनमिति वा । उद्यताय – उद्युक्ताय । मह्यं – महायोगिभिस्सर्वैरप्यशक्ये प्रवृत्ताय स्वस्मै । नम इति पूजालिङ्गमेवात्र ्छेकोक्त्या निन्दार्थम् । साहसिकाः प्रायो नन्तव्या इति ोपालम्भः । नमोऽस्त्विति सामान्योक्त्या सर्वैः क्रियमाणं नमो मह्यमेवास्तु किमन्येन “नन्तव्यः परमश्शेषी” (अहिर्बुध्न्यसंहिता ५२.७) इत्युक्तेन सर्वेश्वरेणेति व्यज्यते । कवये – क्रान्तदर्शिने, अपरि्छेद्येऽपि परि्छेदं पश्यते, अंशतोऽपि स्तोतुमशक्ये सर्वप्रकारवर्णनकौतुकिने सर्वेषां विडम्बनरसावहायेति भावः । अनन्ते भगवति स्ववाा परिमितत्वावद्यमुद्घाटयन्नहं सर्वैरात्मनः परिहसनीयतां न जानामीत्यभिप्रायेणाह – निरपत्रपायेति ॥ ७ ॥

अथ पार्थनयाद्भूयः प्रभुणा प्रतिबोधितः । प्रारिप्सितपरित्यागान्निवृत्तः स्तोतुमीहते ॥ २८ ॥ अत्र हि भगवता गुणोत्तरेषु गुरुष्वेव विश्रमे कथंिन्निवारितेऽपि विषयानुरूपस्तोत्राशक्तिजनितं वैमुख्यं परिहर्तुं वेदप्रभृतीनामपि वृत्तान्तमात्मनश् दीनानुकम्पित्वादिगुणगणं प्रकाश्य प्रतिसमाहितः स्तोत्रे “यावानर्थः” (गीता २.४६) इति न्यायात् स्वस्योितप्रवृत्तितया स्वोपालम्भनिवृत्तिं सिद्धान्तयति –

यद्वा श्रमावधि यथामति वाऽप्यशक्तस्स्तौम्येवमेव खलु तेऽपि सदा स्तुवन्तः ।

वेदाश्तुर्मुखमुखाश् महार्णवान्तः को मज्जतोरणुकुलायोर्विशेषः ॥ ८ ॥

यद्वेति ॥ अशक्तोऽपि स्तौमीत्यन्वयः । अज्ञत्वमप्यत्रान्तर्नीतम् । यथावद्वक्तुं ज्ञातुं ाशक्त इति ोपस्कार्यम्, श्रमावधि यथामतीत्युभयोपादानात् । श्रमोक्तिरसामर्थ्यसूनार्था, तेन ानुकम्पनीयोऽहमिति व्यज्यते । यथाऽऽह कालियः – “सोऽहं ते देवदेवेश! नार्नादौ स्तुतौ न । सामर्थ्यवान् कृपामात्रमनोवृत्तिः प्रसीद मे ॥” (वि. पु. ५.७.७०) इति । यथामतीति मतिक्षयसूनाय । यथो्यते – “इषुक्षयान्निवर्तन्ते नान्तरिक्षक्षितिक्षयात् । मतिक्षयान्निवर्तन्ते न गोविन्दगुणक्षयात्” इति । यथामतिवनं महाभारते प्रोक्तम् – “यथाज्ञानं तु वक्ष्यामि पुरुषं तं सनातनम् । तस्यैकस्य महत्त्वं हि स ैकः पुरुषस्स्मृतः ॥ महापुरुषशब्दं स बिभर्त्येकः सनातनः” इति । वाशब्दः प्रतिपन्ने स्तुतिशक्तिक्षयात्, स्तुतिशक्तावपि स्तोतव्यविषयज्ञानमान्द्याद्वा निवृत्तिसंभवं व्यनक्ति । अत्र स्तौमीति वर्तमाननिर्देशः स्तुतेर्वर्तमानसामीप्यपरः । अस्यापि वाक्यस्य स्तुत्यात्मकत्वं वा सूयति । एवमेव – श्रमावधीत्याद्युक्तप्रकारेणेत्यर्थः । एवकारेण निश्शेषस्तुतेरसंभवः स्थिरीक्रियते । अन्यथा परमात्मनः स्तुतिरेव न स्यात्, ततस्तद्विधानम्, “स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः (सहस्रनामाध्याये) इति तन्नामानि निरर्थकानि भवेयुरिति भावः । खलुशब्दः श्रुत्यादिप्रसिद्धिं द्योतयति । तेऽपि – लोकोत्तरज्ञानशक्तिमन्तोऽपीत्यर्थः । सदा स्तुवन्तः – स्वरूपनित्यतया वेदानां सदा स्तोतृत्वं युक्तम्, तथा “तद्विप्रासो विपन्यवः” (ऋग्वेदे १.२२.२१) इत्याद्याम्नातानां नित्यसूरीणां स्यात्, तुर्मुखादीनां तु प्रवाहनित्यतया यावदधिकारं यथाकालमवि्छिन्नं स्तोतृत्वम् । एवं सर्वेषु कल्पेष्वति विवक्षितम् । वेदशब्देनास्मदाद्यतीन्द्रियपुरुषार्थतदुपायवेदकत्वं व्यज्यते । तुर्मुखमुखाः – तुर्मुखप्रधाना विबुधश्रेष्ठाः । स्वमुखैः वेदतुष्टयप्रवर्तकत्वख्यापनाय तुर्मुखशब्दः । सर्वैरपि यथावत् स्तोतुमशक्यत्वं भारतोक्तं – (कर्णपर्वणि ९१.१७) “वर्षायुतैर्यस्य गुणा न शक्या वक्तुं समेतैरपि सर्वदेवैः । महात्मनश्शङ्खक्रासिपाणेर्जिष्णोर्विष्णोर्वसुदेवात्मजस्य ॥” इति । श्रीविष्णुधर्मे “सत्त्वादयो न सन्तीशे यत्र प्राकृता गुणाः । न हि तस्य गुणास्सर्वे सर्वैर्मुनिगणैरपि ॥ वक्तुं शक्या वियुक्तस्य सत्त्वाद्यैरखिलैर्गुणैः ॥” इति । श्रीवैष्ववे पुराणे (५.७.४९) कालियदाराः “न समर्थाः सुराः स्तोतुं यमनन्तमजं विभुम् । स्वरूपवर्णनं तस्य कथं योषित् करिष्यति ॥ स्त्रियोऽनुकम्प्याः साधूनां मूढा दीनाश् जन्तवः । यतस्ततोऽस्य दीनस्य क्षम्यतां वदतां वर ॥” इति । वाराहे (७३.३५) रुद्रगीतासु सप्तमाध्याये “तुर्मुखायुर्यदि कोटिवक्रो भवेन्नरः क्वापि विशुद्धेताः । स ते गुणानानयुतैकमंशं वदेन्न वा देववर! प्रसीद ॥” इति । नन्वस्य विषयस्य यथावद्वक्तुमशक्यत्वेऽपि तुर्मुखादीनां तव तारतम्यमस्तीत्यत्र स्वाभिप्रेतमर्थमर्थान्तरन्यासेन द्रढयति महार्णवान्तरिति । अत्यगाधेऽस्मिन् कुलालस्याप्यमग्नांशो न स्यादिति भावः । अणुकुलायोश् मिथः परिमाणगुरुत्ववैषम्येऽपि मज्जनेनादृश्यत्वमविशिष्टमित्यभिप्रायेण को मज्जतोर्विशेष इत्युक्तम् ॥ ८ ॥

न केवलमविशेषः स्तोतृषु, दैन्यातिशयेन शीघ्रं त्वदनुकम्पाफललाभान्ममैवाधिकारः प्रकृष्यत इत्यभिप्रायेणाह –

किं ैष शक्त्यतिशयेन न तेऽनुकम्प्यः स्तोताऽपि तु स्तुतिकृतेन परिश्रमेण ।

तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमोऽयमुितो मम ाब्जनेत्र ॥ ९ ॥

किं ेति ॥ अत्राधिकारसद्भावेन सह तत्प्रकर्षः समुीयते । एष स्तोतेति भगवतः स्तुतिवैमुख्यनिवृत्तिसाम्यात् प्रभूताल्पशक्त्योरेकराशित्वेनोपादानम् । स्तोतुः सामर्थ्यातिशयः प्रायः त्वत्कृपामान्द्यकारणमिति सूयन्नाह – शक्त्यतिशयेन न तेऽनुकम्प्य इति । ते सर्वविद्भिर्वेदैः सूरिभिश् नित्यं स्तूयमानतया स्तुत्यन्तरनिरपेक्षस्य दीनानुकम्पनस्वभावस्य यथाधिकारं रक्षणोपयुक्तयत्किंिद्व्याजमात्रापेक्षिणश्ेति भावः । केन तर्ह्यनुकम्पनीय इति शङ्कायां शक्त्यतिशयवैपरीत्यस्यैवानुकम्पातिशयहेतुत्वरूपं विशेषं सूयति – अपि त्विति । परिश्रमेण – परितः श्रमेण, अशक्त्या भक्त्या स्तोतुं हातुं ानर्हतया सर्वप्रकारव्याकुलत्वेनेति भावः । तत्र – तथा सतीत्यर्थः; स्तुताविति वा । मम तु श्रमस्सुलभ इत्यन्वयः । श्रमस्तु सुलभः न तु शक्त्यतिशयप्रसङ्गः इति वाऽभिप्रेतम् । मन्दबुद्धेः – अल्पज्ञत्वादित्यर्थः । इतिशब्दो हेत्वर्थः, उद्यमप्रकारपरो वा । अयमुद्यमः “स्तोष्यामि”, “स्तौमि” इति श्लोकद्वयोक्तस्तोत्रोपक्रमः । मम – ममैवेत्यर्थः । अविरुद्धोऽप्यत्र समुयार्थो मन्दः । ममेति कथितपदावृत्तिर्न; हिरण्यगर्भादेरित्यतिशयितविधेयतात्पर्यादलङ्कार एव । त्वत्कटाक्षात्खल्वहं तुष्टूषुदशां तत्राधिकारातिशयं प्राप्तः, एवमनुग्रहातिशयव्यञ्जकेनावलोकनदानेन भूयोऽपि मां पालय; येन स्तुतिरियमविघ्ना निष्पद्येतेत्यभिप्रायेणाह – अब्जनेत्रेति ॥ ९ ॥

अथैवं यथामनोरथं तव सर्वसमीहितसिद्धिर्भवत्विति कटाक्षयन्तं भगवन्तं प्रति प्राीनप्रमूतोपकारप्रख्यापनेनाद्यतनानुग्रहस्यानाश्र्यतामाह –

नावेक्षसे यदि ततो भुवनान्यमूनि नालं प्रभो! भवितुमेव कुतः प्रवृत्तिः ।

एवं निसर्गसुहृदि त्वयि सर्वजन्तोः स्वामिन्न ित्रमिदमाश्रितवत्सलत्वम् ॥ १० ॥

नावेक्षस इति ॥ अथवा अल्पशक्तेः स्वस्य स्तुत्यौित्यातिशयवनेन व्यञ्जितं भगवत आश्रितवात्सल्यं केनित् कैमुत्येन स्थापयन्नेव सर्वशरण्यत्वोपयोगितया प्रपञ्यिष्यमाणं सर्वस्मात् परत्वं कारणलक्षणेनोपक्षिपन् तद्वत् काष्ठाप्राप्तं सौलभ्यं ाह । अयमेव शारीरकशास्त्रारम्भघटितस्तोत्रारम्भः ॥

कारणत्वं नियन्तृत्वं सुहृत्त्वं स्वामिता हरेः । वात्सल्यमिति पञ्ैते कण्ठोक्ता इह सद्गुणाः ॥ २५ ॥

अवेक्षणमिह “तदैक्षत” (छा. उ. ६.२.३) “सोऽकामयत” (तै. उ. १.६.२) इत्यादिषूक्तः, “ईक्षतेर्नाशब्दम्” (ब्र. सू. १.१.५), “गौणश्ेन्नाऽऽत्मशब्दात्” (ब्र. सू. १.१.६) इत्यादिसूत्रस्थापितः सानुग्रहः सङ्कल्पः । ततः – त्वदवेक्षणरूपहेत्वभावादित्यर्थः । भुवनानीति कृत्स्नकार्यपरम् । अमूनीति तत्तत्प्रमाणसिद्धभोक्तृभोग्यरूपकार्यजातानाम् अन्याशक्यकरणवैित्र्याभिप्रायम्; “यतो वा इमानि भूतानि” (तै. भृ. १), “जन्माद्यस्य यतः” (ब्र. सू. १.१.२) इति श्रुतिसूत्रयोरिदंशब्दवत् । नालं – न समर्थानि, कारणाभावे कथं कार्यं स्यादिति भावः । प्रभो – स्वाधीनत्रिविधेतनाेतनस्वरूपस्थितिप्रवृत्तिभेद! । भवितुम् – उत्पत्तुं सत्तायोगितया स्थातुं । एवकारो भवनस्य परसङ्कल्पनैरपेक्ष्यशङ्कां वारयन् प्रवृत्त्यनर्हत्वे कैमुत्यमुद्धाटयति । एवमलब्धसत्ताकानां सत्तापूर्विका प्रवृत्तिश् त्वदीक्षणमन्तरेण न स्यादित्याह – कुतः प्रवृत्तिरिति । श्रूयते हि, “को ह्येवान्यात् कः प्राण्यात् । यदेष आकाश आनन्दो न स्यात्” (तै. ३.१.२७) इति । अन्तर्यामिब्राह्मणादिकं सर्वमिहानुसन्धेयम् । उक्तं स्वयमेव मोक्षधर्मे (३५९.५६) “यत्किंिद्वर्तते लोके सर्वं तन्मद्विेष्टितम् । अन्यो ह्यन्यिन्तयति स्व्छन्दं विदधाम्यहम्” इति । अत्र परमकारणविषये विकल्पसमुयान्यतरबाधाद्यसंभवात् गतिसामान्यन्यायेन कारणवाक्यानि सर्वाणि त्वय्येककण्ठानीति व्यतिरेकोक्त्या सू्यते । कारणत्वोक्त्यैव “यो ब्रह्माणम्” (श्वे. उ. ६.१८) इत्यादिश्वेताश्वतरमन्त्रोक्तं शरण्यत्वमप्याकृष्टम् । एवम् – भोगमोक्षार्थप्रवृत्त्यौपयिककरणकलेबरदानादिप्रकारेणेत्यर्थः । “स एकाकी न रमेत” (महोपनिषत् १) इत्यनेनाभिप्रेतं विश्वसृष्ट्युपयुक्तं दयमानमनस्त्वं सूयति – निसर्गसुहृदीति । सर्वसामान्यतः पूर्वोपकारप्रत्पुपकारनिरपेक्षहितैषिणीत्यर्थः । सुहृत्त्वस्य नैसर्गिकत्वं “स्वाभाविकी ज्ञानबलक्रिया ” (श्वे. उ. ६.८) इत्यत्र रक्षणक्रियाया अपि स्वाभाविकत्वोक्त्याऽर्थसिद्धम् । अत्र प्रभुशब्देन सुहृ्छब्देन “सर्वस्य प्रभुमीशानं सर्वस्य शरणं सुहृत्” (श्वे. उ. ३.१७) इति श्वेताश्वतरवाक्यं सूितम् । त्वयि – न हि त्वदन्यः कश्िदेवं प्रमाणसिद्ध इति भावः । सर्वजन्तोरित्येतत् काकाक्षिन्यायात् परत्राप्यन्वेति । “पतिं विश्वस्यात्मेश्वरम्” (तै. उ. २.११.३), “स कारणं करणाधिपाधिपः (श्वे. उ. ६.९), “प्रधानक्षेत्रज्ञपतिर्गुणेशः” (श्वे. उ. ६.१६), “पतिं पतीनां परमं परस्तात्” (श्वे. उ. ६.७), “एष भूतपतिरेष भूतपालः” (कौषीतकी ३.९) इत्यादिषु प्रसिद्धं हि सर्वस्वामित्वम् । एत सर्वेषां स्वार्थोपकारकत्वे सर्वस्य तदिष्टविनियोगार्हत्वे हेतुः । न ित्रं – नाद्भुतम् । इदम् – स्तुतिवैगुण्यानादरेण स्तोतरि मयि प्रीतिरूपमित्यर्थः । स एष वात्सल्याख्यो गुणः सर्वाविशेषेण कठवल्ल्यामुक्तः – “अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति । ईशानो भूतभव्यस्य न ततो विजुगुप्सते (२.४.१२) इति । उपबृंहितं “रिपूणामपि वत्सलः” (रामा. यु. ५०.५६) इति । इदमाश्रितवत्सलत्वं न ित्रम् – संप्रतीह स्तोत्रे प्रेरयतस्तव मन्मुखोदितस्तुतिश्रवणेन जगद्व्यापारविहारः सफलः संपद्यत इति भावः । अत्र स्तुतिवैमुख्यनिवर्तनादिलब्धविजयसन्तोषभगवदुक्तिप्रत्युक्तिरूपताऽप्याार्योक्ता । तथा हि वेत्थ – यथा मम त्वयि वात्सल्यं, यथा मुग्धभाषिते पित्रोरिव मे भवन्मुखागतस्तुतिवनश्रवणकौतूहलमिति वदन्तं प्रत्याह – नावेक्षस इति ॥ १० ॥

ननु “हिरण्यगर्भः समवर्तताग्रे” (हिरण्यगर्भसूक्तम्), “न सन्न ास्छिव एव केवलः” (श्वे. उ. ४.१८), “इन्द्रो मायाभिः पुरुरूप ईयते (बृह. उ. ४.५.१९) इति ब्रह्मादीनाम्, मुक्तस्य “यं कामं कामयते सोऽस्य सङ्कल्पादेव समुत्तिष्ठति” इति सर्वजगत्कारणत्वं प्रतीयते । तदेतत् कथं परब्रह्मलक्षणम्? कथं तद्योगात् परमपुरुषस्य सर्वस्वामित्वादि? तत्राह –

स्वाभाविकानवधिकातिशयेशितृत्वं नारायण! त्वयि न मृष्यति वैदिकः कः ।

ब्रह्मा शिवः शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रुषस्ते ॥ ११ ॥

स्वाभाविकेति ॥ स्वाभाविकत्वमिहानन्याधीनत्वम्,तेन कर्मोपाधिकदुःखमिश्रानित्यतुर्मुखाद्यैश्वर्यव्यावृत्तिः । अनवधिकातिशयत्वमुत्कृष्टावधिरहितोत्कर्षवत्त्वम्, “पराऽस्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ” (श्वे. उ. ६.८) इत्यत्र परत्वस्वाभाविकत्वे शक्त्यादिषु सर्वेष्वन्विते, इति भावः । एताभ्यामेव परिमितं पराधीनं मुक्तनित्यैश्वर्यमपि व्यव्छिद्यते । ईदृशमीशितृत्वं हि तवैव । विश्वपतित्वात्मेश्वरत्वादिश्रुतेः, “प्रशासितारं सर्वेषाम्” (मनु. १२.१२२) “शास्ता विष्णुरशेषस्य” (वि. पु. १.१७.२०) इत्यादिस्मृतिशतैश् । स्वयं गीतं (७.७) “मत्तः परतरं नान्यत्” इति । “एष धाता विधाता सर्वेषां प्राणिनां प्रभुः । परं हि पुण्डरीकाक्षान्न भूतं न भविष्यति ॥” (भार. भीष्म. ६७.१७) इत्यादि द्रष्टव्यम् ।

अत्र नारायणेत्यनेन कारणवाक्येष्वन्यार्थशङ्कागोराणां सदसदव्याकृतब्रह्मात्महिरण्यगर्भशिवाकाश प्राणादिशव्दानां कयािद्वृत्या अनन्यपराबाधितार्थसात्त्विकोपबृंहणानुगुणमहोपनिषन्मैत्रायणीय सुबालोपनिषदादिपठितनारायण शब्दोदितमहापुरुषविषयत्वं केवलतत्त्वनिर्णयप्रवृत्तनारायणानुवाकतात्पर्येण भगवत एव सर्वपरविद्यावेद्यत्वं तत्रत्यतत्त्छब्दवा्यत्वं प्रकाश्यते । अस्य नाम्नो निरुक्तिभेदैः शारीरकाध्यायतुष्टयविवक्षित कारणत्वनिर्बाधत्वोपायत्वप्राप्यत्वानि भाव्यानि । एवमाप्ततमानेकस्मृतिवनानि ानेन प्रत्यभिज्ञाप्यन्ते । तत्र तावन्मनुः (१.५) “आसीदिदं तमोभूतम्” इत्यारभ्य, “आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः ॥ यत्तत्कारणमव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टस्स पुरुषो लोके ब्रह्मेति कीर्त्यते ॥” (मनु. १.१०) इति । बृहस्पतिः – “नारायणः परोऽव्यक्तादण्डमव्यक्तसंभवम् । अण्डाद्ब्रह्मा समभवत्तेन सृष्टमिदं जगत्” इति । दक्षः – “ध्यायेन्नारायणं देवं स्नानादिषु कर्मसु । ब्रह्मलोकमवाप्नोति न ेहाऽजायते पुनः ॥” इति । व्यासः – (भार. आनु. १८.११) “आलोड्य सर्वशास्त्राणि विार्य पुनःपुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥” इति । “नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥” (भार. आदि. १.२७) इति वैशम्पायनवाक्यम् । ईदृशानि वनशतानि विस्तरभयान्न लिख्यन्ते ।

त्वयि – “सर्वे वेदा यत्पदमामनन्ति” (कठोपनिषत् १.२.१५), “सर्वे वेदा यत्रैकं भवन्ति” (तै. आ. ३.११.२०), “नताः स्म सर्ववसां प्रतिष्ठा यत्र शाश्वती” (अहि. सं), “वेदैश् सर्वैरहमेव वेद्यः” (गीता १५.१५), “वेदे रामायणे ैव भारते भरतर्षभ! । आदौ मध्ये तथा ान्ते विष्णुस्सर्वत्र गीयते ॥” (हरिवंशान्ते), “नारायणपरा वेदाः” (भार. मोक्ष. ३५७.७९) इत्यादिभिः सर्ववेदवेद्यतया प्रसिद्धे पूर्वोक्तसर्वकारणत्वसर्वस्वामित्वादिलक्षणे । न मृष्यति – न सहते । वैदिकः – वेदप्रमाणक इत्यर्थः । “वेदैः पश्यन्ति ब्राह्मणाः”, “पितृदेवमनुष्याणां वेदश्क्षुः सनातनम्”, “श्रुतिस्मृती तु विप्राणां क्षुषी द्वे विनिर्मिते” इति हि स्मर्यते । वैदिकशब्देन – “सर्वे वेदाः सपितरो ब्रह्माद्याश्ाण्डमध्यगाः । विष्णोः सकाशादुत्पन्ना इतीयं वैदिकी श्रुतिः ॥” इति वाराहवनम्, “वेदवेद्यो हि भगवान् वासुदेवः सनातनः । गीयते स परो वेदैर्यो वेदैनं स वेदवित् ॥” (कू. पु.) इति कौर्मवनं सू्यते ।

अत्र ोत्तरेषु वाक्येषु किंशब्दः क्षेपार्थः । वैदिकः को न मृष्यतीत्यनेन भगवत्पारम्यमसहमानस्य वेदबाह्यतया पापिष्ठत्वं व्यज्यते । यथोक्तं प्राजापत्यस्मृतौ – “नारायणं परित्यज्य हृदिस्थं प्रभुमीश्वरम् । योऽन्यमर्यते देवं परबुद्ध्या, स पापभाक्” इति । महाभारते (शान्ति. ३३६.३६) तीर्थरक्षकपिशावाक्यम् – “ये द्विषन्ति महात्मानं न स्मरन्ति केशवम् । न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि ॥” इति । सप्तर्षिसंवादे (इतिहाससमुये १०.५८) “विष्णुं ब्रह्मण्यदेवेशं देवदेवं जनार्दनम् । त्रैलोक्यस्थितिसंहारसृष्टिहेतुं निरञ्जनम् (निरीश्वरम्) ॥ आधातारं विधातारं सन्धातारं जगद्गुरुम् । विहाय स भजत्वन्यं बिसस्तैन्यं करोति यः ॥” इति । भगवद्गीतासु अपि (१६.१८) आसुरान् प्रक्रम्य “अहङ्कारं बलं दर्पं कामं क्रोधं संश्रिताः । मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ॥ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपम्यजस्रमशुभानासुरीष्वेव योनिषु ॥” इति । ब्रह्माण्डकौर्मयोश् “येऽन्यं देवं परत्वेन वदन्त्यज्ञानमोहिताः । नारायणाज्जगन्नाथात्ते वै पाषण्डिनः स्मृताः ॥” इति । श्रीभागवते भगवन्तं प्रस्तुत्य “अस्मादन्यं परत्वेन ेतयानो ह्येतनः । स पाषण्डीति विज्ञेयः सर्वकर्मबहिष्कृतः ॥” इति, “यस्तु नारायणं देवं समत्वेनाभिमन्यते । स तु तेनावमानेन नरकान्नातिवर्तते ॥” इति । “ये तु सामान्यभावेन मन्यन्ते पुरुषोत्तमम् । ते वै पाषण्डिनो ज्ञेया नरकार्हा नराधमाः ॥” (भारते), “यः पुत्रः पितरं द्वेष्टि तं विन्द्यादन्यरेतसम् । यो विष्णुं सन्ततं (सततं) द्वेष्टि तं विन्द्यादन्त्यरेतसम् ॥”, “विष्णुभक्तिविहीनो यः सर्वशास्त्रार्थवेद्यपि । ब्राह्मण्यं तस्य न भवेत् तस्योत्पत्तिर्निरूप्यताम् ॥” (ब्रह्माण्डपुराणे), “तुर्वेद्यपि यो विप्रो वासुदेवं न विन्दति । वेदभारभराक्रान्तस्स वै ब्राह्मणगर्दभः ॥” (बृहन्नारदीये) इत्यादीनि द्रष्टव्यानि ।

अस्मिन् नारायणानुवाके “विश्वमेवेदं पुरुषः” (तै. ना.) इति पूर्वोक्तसमानन्यायतया “स ब्रह्मा स शिवस्सेन्द्रः” (तै. ना. ११) इत्यादिसामानाधिकरण्येन ब्रह्मादीनां विभूतित्वश्रवणात् त्रिमूर्त्यैक्यसाम्योत्तीर्णव्यक्त्यन्तरपक्षाणां प्रतिक्षेपस्सिद्ध इत्यभिप्रायेणाह – ब्रह्मा शिव इति । अनीश्वरतया सर्वसम्प्रतिपन्नेन्द्रादिसमभिव्याहारादबाधा ब्रह्मशिवयोरनीश्वरत्वं सू्यते । शतमखशब्दः कर्मवश्यत्वप्रसिद्धिख्यापनार्थः । अत्र ानुवाके तत्तत्कारणोपासनपरवाक्यपठिताः शिवशम्भ्वादिशब्दाः नारायणविषया इति ज्ञापयितुं “नारायण परं ब्रह्म” (तै. ना) इत्यादिभिस्तत्तदनुवादेन नारायणत्वविधानभूयत्स्वं सूितम् । सूत्रितं (ब्र. सू. ३.३.४३) “लिङ्गभूयस्त्वात् तद्धि बलीयस्तदपि” इति । “हिरण्यगर्भस्समवर्तताग्रे” (हिरण्यगर्भसूक्तम्) इति वाक्यं तु “अद्भ्यः संभूतो हिरण्यगर्भ इत्यष्टौ” इति श्रुत्यैवानुवाकान्तरसंयोजनात् पुरुषसूक्तैकार्थोत्तरानुवाकप्रतिपाद्यमहापुरुषविषयम् । अत एव ऐन्द्रीन्यायात् (पू. मी. ३.२.३) अत्र हिरण्यगर्भशब्दः कयािदवयवशक्त्या भगवति वर्तते । “शिव एव केवलः” (श्वे. उ. ४.१८) इत्यत्र शिवशब्दोऽपि “यदा तमस्तन्न दिवा न रात्रिः” (श्वे. उ. ४.१८) इत्यनुवादान्वयात् सुबालोपनिषदुपदिष्टतमोमृत्युशब्दवा्यप्रकृत्यधिष्ठातृभूतनारायणविषयः, शुद्धिमाङ्गल्यादावपि रूढश्ासौ, प्रयुक्तश् भगवति “शाश्वतं शिवम्युतम्” (तै. ना.) इति । “एक एव रुद्रः” (श्वे. उ. ३.२) इत्यादेस्तु प्राकरणिकहविरुद्देश्यत्वाकारपरतया न पारम्योपपादकत्वम् । “इन्द्रो मायाभिः” (बृ. उ. ४.५.१९) इत्यत्रेन्द्रशब्दश् “तमिन्द्रं सन्तम् इन्द्र इत्याक्षते परोक्षेण” (कौ. ब्रा.) इति ब्राह्मणोक्त्या सर्वदर्शिपरमात्मविषयः । प्रसिद्धेन्द्रपरत्वेऽपि नात्र सर्वकारणत्वकण्ठोक्तिः; न तत्कॢप्तिः, पुरुरूपत्वादेरन्यथाऽप्युपपत्तेः । “नकिरिन्द्र! त्वदुत्तरो न ज्यायाँ अस्ति वृत्रहन्” (ऋग्वेदे ४.३०.१) इत्यत्र तु प्राकरणिककर्मविशेषौपयिकप्रशंसापरत्वाद्वस्वादिषु त्वदुत्तरो नास्तीति विवक्षितम् । स्वराट्छब्द इह “स स्वराड्भवति” (छा. ७.२५.२) इत्याम्नातमुक्तविषयः; स स्वातन्त्र्यवाकोऽप्यत्र अकर्मवश्यत्वपरः, ईश्वरशरीरभूतानामात्मनां तत्पारतन्त्र्यस्य यावत्स्वरूपभावित्वात्, परतन्त्रस्यापि सत्यसङ्कल्पत्वमि्छाविफलत्वाभावादुपपद्यते । तेन “सङ्कल्पादेव त्छ्रुतेः” (ब्र. सू. ४.४.८), “अत एव ानन्याधिपतिः” (ब्र. सू. ४.४.९) इति सूत्रद्वयमप्यविरुद्धम् । मुक्तस्यैश्वर्यं “जगद्व्यापारवर्जम्” (ब्र. सू. ४.४.१७) इति शारीरकान्ते स्थापितम् । परमत्वमिह ब्रह्माद्यपेक्षया; ताकर्मवश्यस्य ज्ञानसङ्कोादिरूपक्षरणविरहादित्यक्षरशब्देन दर्शितम् । “ब्रह्य वेद ब्रहैव भवति” (मुण्डके ३.२.९) इत्यादिकमपि “परमं साम्यमुपैति” (मुण्डके ३.१.३७), “मम साधर्म्यमागताः” (गीता. १४.२) इत्यादिश्रुतिस्मृत्यनुसारात् “वैष्णवं वामनमालभेत स्पर्धमानो विष्णुरेव भूत्वेमाँल्लोकानभिजयति” (तै. ब्रा. १.७.५) इत्यादिवत् तत्साम्याभिप्रायमेव । तस्य सङ्कल्पात्स्वाभिमतसृष्टिः परे्छानुगुण्येन परिमितविषया । सर्वलोकानुसञ्रणश्रुतिश् न जगद्व्यापारार्था ।

इतिशब्द इह “स ब्रह्मा स शिवः” (तै. ना. ११) इत्यादिवाक्योपात्तप्रकारसूनार्थः । एते – प्रजापतिपशुपतिसुरपतिप्रसिद्धिमन्तः, ततोऽप्यधिको मुक्तश् । अपिशब्दस्तेषां तत्तत्प्रमणसिद्धमहत्त्वे सत्यपीति द्योतयन् ततोऽर्वाीनेषु कैमुत्यं व्यनक्ति । यस्य ते – “तं दुर्दर्शं गूढमनुप्रविष्टम्” (कठ. १.२.१२), “यत्तदद्रेश्यमग्राह्यम्” (मुण्डके १.१.६) इत्यादिष्वदृश्यत्वादिगुणकतया प्रसिद्धमपि स्वात्मानं धनञ्जयधृतराष्ट्रादेरिव कृपया मे प्रकाशयत इति भावः। महिम्नोऽर्णवत्वरूपणमक्षयत्वापारत्वादिसूनार्थम् । महिमार्णवविप्रुषः – अर्णवस्थानीयत्वन्महिमापेक्षया पृषतस्थानीयमहिमानः इत्यर्थः; यद्वा अनन्तविभूतेस्तव विभूतिरूपमहिमसमुद्रबिन्दव इति । तदेतदुक्तमद्वितीयश्रुतिव्याख्यानमुखेन संवित्सिद्धौ – “यथा ोलनृपः सम्राडद्वितीयोऽस्ति भूतले । इति तत्तुल्यनृपतिनिवारणपरं वः ॥ न तु तद्भृत्यतत्पुत्रकलत्रादिनिवारणम् । तथा सुरासुरनरब्रह्माण्डायुतकोटयः ॥ क्लेशकर्मविपाकाद्यैरस्पृष्टस्याखिलेशितुः । ज्ञानादिषाड्गुयनिधेरिन्त्यविभवस्य ताः । विष्णोर्विभूतिमहिमसमुद्रद्रप्सविप्रुषः ॥” इति । ब्रह्मादीनां सृष्ट्याद्युपयुक्तविभूतित्वं वक्ष्यति । तदिह “स ब्रह्मा” (तै. ना. ११) इत्यादिसामानाधिकरण्यमपि न स्वरूपैक्यादिप्रयुक्तम्, किंतु शरीरशरीरिभावनिबन्धनमिति सूितं भवति । किं – “अग्निर्वै देवानामवमो विष्णुः परमः” (ऐतरेयब्राह्मणे १.१) इति होतारोऽधीयते । “अग्निरवमो देवतानां विष्णुः परमः” (तै. सं. ५.५.१.४) इत्यध्वर्यवः । तथा “तद्ब्रह्म स आत्मा । अङ्गान्यन्या देवताः” (तै. उ. शी. ५) इति । एतोपबृंहितं “श्रूयतां परमं दैवं दुर्विज्ञेयं मयाऽपि । नारायणस्तु पुरुषो विश्वरूपो महाद्युतिः ॥ नारायणस्य ाङ्गानि सर्वदैवानि ाभवन् । अन्यानि सर्वदैवानि तस्याङ्गानि महात्मनः” (भार. ४.३.१६) इति । अतश् ब्रह्मादीनां भगवद्विभूतिसागरशीकरत्वं सिद्धमिति ॥ ११ ॥

अथ स्यात् – “हिरण्यगर्भः समवर्तत” इत्यादेः “अद्भ्यः संभूतः” इत्यादिनैकार्थ्येऽपि तत्रैव तुर्मुखासाधारणप्रजापतिशब्ददर्शनात् पुरुषशब्दस्य तु साधारण्येन तुर्मुखेऽपि संभवात् “अम्भस्य पारे” (तै. ना.) इत्यत्रापि “प्रजापतिश्रति गर्भे अन्तः”, “स नो बन्धुर्जनिता स विधाता”, “सूर्यान्द्रमसौ धाता यथापूर्वमकल्पयत्” इति प्रजापत्यादिशब्ददर्शनात् त्रितयमप्येततुर्मुखविषयमिति । अत्र तावत् “न ब्रह्मा नेशानः” (महोपनिषत् १) इत्यादिव्यक्त्यन्तरनिषेधसहितविशेषश्रुत्या बाधप्रदर्शनान्न वक्तव्यशेषमस्ति; अथापि ब्रूमः – “अम्भस्य पारे” इत्यत्र तावत् “यमन्तः समुद्रे कवयो वयन्ति” इति समुद्रशायित्वं, “यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात्” इति तमसः पारवर्तित्वं, “सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधि” इति विद्युद्वर्णपुरुषत्वम्, “स आपः प्रदुघे उभे इमे” (तै. ना. ९) इत्यादिभिर्विित्रजगत्कारणत्वं, “य एनं विदुरमृतास्ते भवन्ति (तै. ना. ११) इति मोक्षप्राप्तिहेतुत्वं, “विश्वतश्क्षुरुत विश्वतोमुखः” (तै. ना. १४) इत्यादिना सहस्रशीर्षत्वादिकं प्रत्यभिज्ञायमानमस्यानुवाकस्य पुरुषसूक्तोदितमहापुरुषगोरतां गमयति । प्रसिद्धप्रजापतेः परमपुरुषकार्यत्वतन्नियाम्यत्वकर्मवश्यत्वादिकं प्रसिद्धम् । अतोऽत्र प्रजापत्यादिशब्दाः परमकारणभूतं नारायणमेव प्रतिपादयन्ति । एवम् “अद्भ्यः संभूतः” इत्यनुवाकस्यापि पुरुषसूक्तप्रकरणावि्छेदात् “वेदाहमेतं पुरुषं महान्तम्” इत्यादिवाक्यार्थप्रत्यभिज्ञाना महापुरुषविषयत्वं सुगमम् । तमिममर्थमनन्यथासिद्धेन लक्ष्मीपतित्वलिङ्गेन द्रढयति –

कश्श्रीः श्रियः? परमसत्त्वसमाश्रयः कः? कः पुण्डरीकनयनः? पुरुषोत्तमः कः?

कस्यायुतायुतशतैककलांशकांशे विश्वं विित्रिदित्प्रविभागवृत्तम् ॥ १२ ॥

कश्श्रीः श्रिय इति ॥ अत्र “त्वदन्यः” (श्लो. १४) इति वक्ष्यमाणमनुसन्धेयम् । “श्रियः श्रीश् भवेदग्र्या कीर्त्याः कीर्तिः क्षमाक्षमा” इत्युक्तमिहाभिप्रेतम् । श्रीरेव ह्यन्येषामतिशयं विधत्ते, तस्या अपि “भर्ता नाम परं नार्या भूषणं भूषणादपि” इति न्यायेनातिशयहेतुरयमिति भावः । नारायणमुनिभिस्त्वेवमिह व्याख्यातम् – “स्वेतरसमस्तैः स्वरूपस्थितिप्रवृत्त्यर्थं या श्रीयते सा श्रीः, तस्या अपि तथा श्रयणीयः, इति । श्रीशब्दनिरुक्तयश् – (अहि. सं. ५१.६२) “शृणाति निखिलान् दोषान् श्रीणाति गुणैर्जगत् । श्रीयते ाखिलैर्नित्यं श्रयते परं पदम् ॥ श्रयन्तीं श्रीयमाणां शृण्वतीं शृणतीमपि ।” (अहि. सं. २१.८) इत्यादिषु द्रष्टव्याः ।

श्रिय इत्यनेन “हीश् ते लक्ष्मीश् पत्न्यौ” (तै. आ. ३.१३.२) इत्याम्नातलक्ष्मीशब्दपर्यायोपादानम् । अत्र ह्रीरिति भूमिर्विवक्षिता; “श्रीभूमिसहितं हरिम्” इत्यादिप्रसिद्धेः । वाजसनेयके ह्रीशब्दस्थाने श्रीशब्दपठनेऽपि यथोितमर्थो ग्राह्यः । तदिह पुरुषसूक्तप्रकरणोदितश्रियःपतित्वलिङ्गसहकृत महापुरुषप्रत्यभिज्ञानबाधितरूढिः प्रजापतिशब्दः “पतिं विश्वस्य” इत्युक्तपुष्कलावयवार्थं नारायणमेवाभिधत्त इति भावः । प्रयुक्तश्ासौ तद्विषयतया महाभारते (आश्व. ४३.१३) “राजाधिराजस्सर्वेषां विष्णुर्ब्रह्ममयो महान् । ईश्वरं तं विजानीमः स पिता स प्रजापतिः” इति । “सप्तदश प्राजापत्यान् पशून्” (तै. ब्रा. १.३.४.३) इत्यादौ । “श्यामा एकरूपा भवन्ति एवमिव हि प्रजापतिः”, इति प्रजापतेः श्यामत्वैकरूपत्वोक्त्या प्रजापतिशब्दस्य विष्णुविषयत्वं गम्यते । “आश्रावयेति तुरक्षरम्” इत्यारभ्य “एष वै सप्तदशः प्रजापतिः” इत्येतस्य विष्णुविषयत्वं, “तुर्भिश् तुर्भिश् द्वाभ्यां पञ्भिरेव । हूयते पुनर्द्वाभ्यां स नो विष्णुः प्रसीदतु” इति महाभारतवनेन व्यञ्जितम् ।

ननु पुरुषसूक्तस्य कथं भगवत्परत्वम्? पुरुषशब्दो हि “स वा एष पुरुषोऽन्नरसमयः” (तै. उ), “प्रकृतिं पुरुषं ैव विद्ध्यनादी उभावपि” (गीता. १३.१९) इत्यादिषु तदतिरिक्तेऽपि प्रयुज्यते । सत्यम्, निखिलजगत्कारणविषयस्त्वयं पुरुषशब्दः परमपुरुषमेवाह । “पुरुषस्य हरेः सूक्तं स्वर्ग्यं धन्यं यशस्करम्” (ऋग्विधाने) इति स्मर्यते । मोक्षधर्मे (३६०.५) परमपुरुषविषयतयैव पुरुषसूक्तं योजितम् – “इदं पुरुषसूक्तं हि सर्ववेदेषु पठ्यते । ऋतं सत्यं विख्यातमृषिसिंहेन िन्तितम्” इत्यादिना । व्यासस्मृतौ ेदं भगवदर्ने विनियुक्तम् – “न विष्ण्वाराधनात्पुण्यं विद्यते कर्म वैदिकम् । तस्मादनादिमध्यान्तं नित्यमाराधयेद्धरिम् ॥ तद्विष्णोरिति मन्त्रेण सूक्तेन पुरुषेण तु । नैवाभ्यां सदृशो मन्त्रो वेदेषूक्तश्तुर्ष्वपि ॥ निवेदयीत स्वात्मानं विष्णावमलतेजसि । तदात्मा तन्मनाः शान्तः तद्विष्णोरिति मन्त्रतः ॥” (कूर्मपुराणे) इति । शौनकीये कल्पे “शौनकोऽहं प्रवक्ष्यामि नित्यं विष्वर्नं परम् । प्र वः पातन्तमन्धसो (ऋ. १.१५१.१)

धीत्यर्धर्स्य विधानतः ॥” (ऋग्विधाने) इति प्रक्रम्य “आद्ययाऽऽवाहयेद्देवमृा तु पुरुषोत्तमम्” इत्यादिना प्रत्यृमुपारभेदेषु विनियोगः कृतः । एवं भगव्छास्त्रादिष्वपि द्रष्टव्यम् । किं, आथर्वणे अष्टादशमहाशान्ति(प्रकरणे तत्तद्देवताविषयमहाशान्ति)षु “वैष्णव्यां पुरुषसूक्तम्” इति विनियोगो दृष्टः । एवं – “सहस्रशीर्षा पुरुषः इत्युपहितां पुरुषेण नारायणेन यजमान उपतिष्ठते” (आप. श्रौत), “सहस्रशीर्षा पुरुषः इति पुरुषेण नारायणेन पराञ्ोऽनुशंसन्ति” इति कल्पसूत्रकारवाक्या नारायणविषयत्वमस्य सिद्धम् । तत्रतत्र परमपुरुषसन्निधानबुद्ध्या तेन तत्तदुपस्थानं युज्यते । अत्र नारायणस्य ऋषित्वेन पुरुषस्य देवतात्वेन संबन्धस्तावत्सर्वसंमतः । तत्र नारायणपुरुषशब्दयोरेकविषयत्वं “सहस्रशीर्षं देवम्” इत्यारभ्य “विश्वमेवेदं पुरुषः” इति नारायणानुवाकोक्त्या सिद्धम् । तथा सुबालोपनिषदि (६ खण्डे) – “क्षुश् द्रष्टव्यं नारायणः” इत्यादिभिर्नारायणस्य सर्वात्मकत्वं प्रतिपाद्य “पुरुष एवेदं सर्वम्” (सुबा. ६. ख.) इति पुरुषसूक्तवाक्येन निगमनान्नारायण एव पुरुषसूक्तप्रतिपाद्य इति निश्ीयते । तदिह पुरुषशब्दः पुरुषोत्तमविषयः । तथा पौराणिकं वः – “भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी वर्तेते वासुदेवे सनातने ॥” (पाद्मोत्तरखण्डे ६.२५४.६६) इति । एवं “ब्रह्मा कमलगर्भाभो रुद्रः कालाग्निसन्निभः । पुरुषः पुण्डरीकाभो रूपं तत्परमात्मनः ॥” इति त्रयाणां रूपभेदवनेन प्रत्येकनामोक्तौ ब्रह्मरुद्रव्यावृत्ते परमात्मशब्दोदिते भगवति पुरुषशब्दः समाख्यारूपेण प्रयुक्तः । “पुरुषः पुण्डरीकाक्षः”, इति पाठेऽपि न प्रस्तुतविरोधः । अधीयते तैत्तिरीयाः प्रजापतिजनककूर्मविषये (तै. आरुणकेतुके) “पूर्वमेवाहमिहाऽसमिति तत्पुरुषस्य पुरुषत्वम्” इति । अनन्तरं “सहस्रशीर्षा पुरुषः सहस्राक्षस्सहस्रपाद् भूत्वोदतिष्ठत्” इति पुरुषसूक्तारम्भस्तत्र प्रत्यभिज्ञायते ।

अस्त्वेवम्; तथाऽपि महेश्वरशिवादिशब्दलिङ्गशालिन्यां श्वेताश्वतरोपनिषदि (३.८) “वेदाहमेतम्” इत्यादिवाक्यदर्शनाद्रुद्रेऽपि पुरुषशब्दाम्नाना पुरुषसूक्तस्यापि तद्विषयत्वं स्यादित्यत्राऽऽह – परमसत्त्वसमाश्रयः क इति ॥ परमस्य – मोक्षोपयुक्तप्रकर्षवतः सत्त्वस्य – प्रकाशसुखहेतुभूतगुणविशेषस्य समाश्रयः – सम्यक् प्रवर्तकः त्वदन्यः क इत्यर्थः । एतेन सांसारिकज्ञानसुखहेतुभूत परिमितसत्त्वव्यव्छेदः । अयं भावः – पुरुषसूक्तं तावत् परमपुरुषविषयतया स्थापितम् । तत्रत्यवाक्यप्रत्यभिज्ञानादेव श्वेताश्वतरोपनिषदि शिवमहेश्वरादिशब्दानामपि महापुरुषपरत्वमेव युक्तम् । अनन्यथासिद्धं लिङ्गं तत्र दृश्यते । “महान्प्रभुर्वै पुरुषस्सत्त्वस्यैष प्रवर्तकः” (श्वे. उ. ३.३.१२) इति नारायणस्यैव सत्त्वप्रवर्तकत्वं, ब्रह्मरुद्रयोश् रजस्तमःप्रवर्तकत्वं श्रुत्यादिप्रसिद्धम् । यथा मैत्रायणीयोपनिषदि (५.२) “अथ यो ह खलु वा अस्य राजसोंऽशस्सोऽसौ ब्रह्मारिणो योऽयं ब्रह्मा, अथ यो ह खलु वा अस्य सात्त्विकोंऽशस्सोऽसौ ब्रह्मारिणो योऽयं विष्णुः, अथ यो ह खलु वा अस्य तामसोंऽशस्सोऽसौ ब्रह्मारिणो योऽयं रुद्रः” इति ।

पुराणे वाराहे (७०.१९) अगस्त्यरुद्रसंवादे रुद्रः – “यत्सत्त्वं स हरिर्देवो यो हरिस्तत्परं पदम् । सत्त्वं रजस्तमश्ेति त्रितयं ैतदु्यते ॥ सत्त्वेन मु्यते जन्तुस्सत्त्वं नारायणात्मकम् । रजसा सत्त्वयुक्तेन भवे्छ्रीमान् यशोधिकः ॥ त पैतामहं वृत्तं सर्वशास्त्रेषु पठ्यते । यद्वेदबाह्यं कर्म स्यात् मामुद्दिश्योपसेव्यते ॥ तद्रौद्रमिति विख्यातं कनिष्ठगतिदं नृणाम् । यद्धीनतपसा युक्तं केवलं तामसं तु यत् ॥ तद्दुर्गतिप्रदं नॄणामिह लोके परत्र ॥” इति । लैङ्गे तुर्दशाध्याये – “हिरण्यगर्भो रजसा तमसा शङ्करः स्वयम् । सत्त्वेन सर्वगो विष्णुस्सर्वात्मा सदसन्मयः ॥” इति । तत्रैव तुर्विंशे क्षुपास्यतपसि – “त्वत्कोपसंभवो रुद्रस्तमसा समावृतः । त्वत्प्रसादाज्जगद्धाता रजसा पितामहः ॥ त्वत्स्वरूपात्स्वयं विष्णुस्सत्त्वेन पुरुषोत्तमः ॥” इति । तदनन्तरे ाध्याये नन्दिकेश्वरवनम् – “परमात्मानमीशानं तमसा रुद्ररूपिणम् । रजसा सर्वलोकानां सर्गलीलाप्रवर्तकम् ॥ सत्त्वेन सर्वभूतानां स्थापकं परमेश्वरम् । सर्वात्मानं महात्मानं परमात्मानमीश्वरम् ॥ ते दृष्ट्वा प्राह वै ब्रह्मा भगवन्तं जनार्दनम्” इति । एवं पुराणान्तरेषु ।

भगव्छास्त्रादिष्वपि “सात्त्विकैस्सेव्यते विष्णुस्तामसैरेव शङ्करः । राजसैस्सेव्यते ब्रह्मा सङ्कीर्णैस्तु सरस्वती” इत्यादीनि द्रष्टव्यानि ॥

साधारणे शिल्पशास्त्रे विमानत्रयलक्षणे पठ्यते – “स्यान्नागरद्राविडवेसरं क्रमेण वै सत्त्वरजस्तमांसि । महीसुरोर्वीपतिवैश्यकास्ते हरिर्विधाता हर आदिदेवः ॥” इति ।

अथवाऽत्र परमसत्त्वमिति “स्वसत्ताभासकं सत्त्वं गुणसत्त्वाद्विलक्षणम्” (पौष्करसंहिता २५.४२) इत्युक्तं शुद्धसत्त्वमयमप्राकृतं द्रव्यं विवक्षितम् । तेन ब्रह्मरुद्राद्यगोररहस्याम्नायभगव्छास्त्रादिप्रसिद्ध कल्याणतमविग्रहादियोगात् तेभ्यः परत्वं सू्यते । नित्येऽप्युक्तं “परमसत्त्वं पञ्शक्तिमयविग्रहम्” इति । उभयधाऽपि सत्त्वप्रवर्तकत्वोक्तिः श्वेताश्वतरोपनिषदः पुरुषसूक्तोदितपरमपुरुषविषयत्वमवगमयति । वक्तव्यान्तरं ात्र वेदार्थसंग्रहादिषु द्रष्टव्यम् ।

ननु पुरुषसूक्तोदितमादित्यवर्णं पुरुषमेवादित्यमण्डले तादृशवर्णयुक्ततया छन्दोगा अधीयते (१.६.६) “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते” इत्यादिना । स स्थानविशेषसन्निधिसामर्थ्यादादित्य एव । स एव रुक्मवर्णः पुरुषो मनुना स्मर्यते (१२.१२२) – “प्रशासितारं सर्वेषामणीयांसमणीयसाम् । रुक्माभं स्वप्नधीगम्यं विद्यात्तु पुरुषं परम् ॥” इति । “असावादित्यो ब्रह्म” इति ाध्वर्यवः (बृ. उ. ४.४.६) । अस्ति तत्परं पुराणम् । अतः पुरुषसूक्तमादित्यपरम् । स एव ब्रह्मेत्यत्रानन्यपरकारणश्रुतिभिः श्रियःपतित्वलिङ्गेन पुरुषशब्दादिभिरुपबृंहणैश् दत्तोत्तरत्वेऽपि युक्तिभूयस्त्वख्यापनायानूक्तं छान्दोग्यस्थं सुप्रसिद्धं लिङ्गमाह – कः पुण्डरीकनयन इति । अयमभिप्रायः – “तस्य यथा कप्यासं पुण्डरीकमेवमक्षिणी” (छा. उ. १.१.६) इति तत्रैव पुण्डरीकनयनत्वोक्तेः पुरुषोत्तमस्यैव तत्प्रसिद्धेर्न तत्रादित्यो वाऽन्यो वा तादृशश्शङ्कनीयः । यद्यपि द्रमिडभाष्ये “तस्य यथा कप्यासम्” इत्यादेः षडर्थाः प्रोक्ताः; तथाऽप्यौित्यात् त्रय एव स्वीकर्तव्याः । तथा ोक्तं वेदार्थसंग्रहे – “गम्भीराम्भस्समुद्भूतसुमृष्टनालरविकरविकसितपुण्डरीकदलामलायतेक्षणः” इति । एतेन परिपूर्णत्वमनुग्रहशीलत्वं ास्य व्यज्यते । उपरिराख्याने (भार. शा. ३४४.२५) “अरोषणो ह्यसौ देवः” इत्युक्तम् । अन्येषां तु तुर्मुखादित्यरुद्रादीनामपूर्णतया साधकावस्थत्वात् कामक्रोधाक्रान्तत्वााक्षीणि विरूपाणि भवन्ति । सन्निधिविशेषश्ादित्यमण्डले भगवतः सावित्रीकल्पेषु पुराणादिषु प्रसिद्धः । आदित्यस्य , “क्षोः सूर्यो अजायत (परुषसूक्तम्), “सूर्यान्द्रमसौ धाता यथापूर्वमकल्पयत् (तै. ना. २.९), “अग्निर्मूर्धा क्षुषी न्द्रसूर्यौ”, (मुण्ड. २.१.४) “यस्यादित्यो भामुपयुज्य भाति”, “येन सूर्यस्तपति तेजसेद्धः” (काठ. ३-९), “न तत्र सूर्यो भाति न न्द्रतारकम्” (मु. २.२.११), “यस्यादित्यः शरीरम्” (बृ. ५.७.१३) इत्यादिभिरनीश्वरत्वं सिद्धम् । तद्वैभवप्रतिपादनपरं तु पुराणम् असात्त्विकत्वात् विरुद्धांशे त्याज्यम् । क्विद्ब्रह्मदृष्ट्या तत्पर्यन्ततत्त्वविवक्षया वा निर्वाहः ।

एवं परमकारणविषयश्रुतिविशेषैः श्रियःपतित्वादिलिङ्गैश् नारायण एव स्वतस्सिद्धैश्वर्यः सर्वस्मात्पर इति निश्ितेऽपि केिदनधिगतपदवाक्यप्रमाणवृत्तान्ताः पुरुषसमाख्यामीश्वरसमाख्यां निर्विशेषणां महत्परमविशेषणविशिष्टां परामृश्य ब्रह्मणः पितुः, ब्रह्मणः पुत्रस्य निकर्षोत्कर्षौ मन्यन्ते, तानुपालभते – पुरुषोत्तमः क इति । इह “द्वाविमौ पुरुषौ लोके” (गीता. १५.१६) इत्यादयः श्लोकाः प्रतिसन्धेयाः । तेषु “परमात्मेऽत्युदाहृतः” (गीता. १५.१७) इत्यनेन “तस्याश्शिखाया मध्ये परमात्मा व्यवस्थितः” (तै. ना. १३) इति श्रुतिः स्मार्यते । “यो लोकत्रयमाविश्य” इत्यनेन “य किंित्” (तै. ना. ५) इत्यादिकं व्याख्यातम् । “बिभर्ति” इत्याधारत्वोक्त्या “यत्र विश्वं भवत्येकनील(ड)म्” (तै. ना.), “तत्सवितुर्वरेण्यम्”, “ध्रुवमलममृतं विष्णुसंज्ञं सर्वाधारं धाम” (मैत्रायणीयोपनिषत्), “एष सेतुर्विधरण एषां लोकानामसंभेदाय” (बृ. उ. ४.४.४२) इत्यादेरर्थ उक्तः । “अव्यय”शब्दोक्त्या “शाश्वतँ शिवम्युतम्” (तै. ना.) इत्याद्युक्तसंग्रहः । “ईश्वर”शब्द इह “व्याप्य नारायणः स्थितः” (तै. ना.) इत्युक्तव्याप्तेः “अन्तः प्रविष्टश्शास्ता” (तैत्तरीयारण्यके सुवर्णघर्मानुवाके) इत्याद्यनुसारात् समस्तनियमनविशिष्टत्वम् “आत्मेश्वरम्” इत्युक्तानन्यनियाम्यत्वं ाभिप्रैति । “न ापि वेदेषु समाननाम” इत्यल्पश्रुतोक्तिः “लोके वेदे प्रथितः” (गीता. १५.१८) इति व्यासोपात्तभगवदुक्त्या परिहसनीया । अत्र भगवद्गीताभाष्यम् – “वेदार्थावलोकनात् लोक इति स्मृतिरिहो्यते; श्रुतौ स्मृतौ ेत्यर्थः । श्रुतौ तावत् “परं ज्योतिरुपसंपद्य स्वेन रूपेणाभिनिष्पद्यते”, “स उत्तमः पुरुषः” (छा. ८.१२.२) इत्यादौ; स्मृतावपि “अंशावतारं पुरुषोत्तमस्य ह्यनादिमध्यान्तमजस्य विष्णोः” (वि. पु. ५.१७.३३) इत्यादौ” इति । “स उत्तमः पुरुषः” (छा. ८.१२.२) इति श्रुतौ पुरुषोत्तमत्वं फलितमिति भावः । तदयमिह त्वदन्यः कः पुरुषोत्तम इति वदतोऽभिप्रायः – यदि वयं पुरुषोत्तमसमाख्यामात्रेण भगवत ईश्वरत्वं साधयामः, तदा ईश्वरादिसमाख्याबलेन प्रत्यवस्थातव्यम्; अस्माभिस्तु प्रबलैः श्रुतिलिङ्गादिभिरेव ह्ययमर्थः साधितः; तथा सति जीवलक्षणपुरुषराशिबहिर्भूत एवायं महापुरुषः सर्वत्र प्रसिद्धः; ततः प्रबलप्रमाणबाधितेयमीश्वरादिसमाख्या रुद्रस्य सर्वेश्वरत्वं साधयितुं न शक्नोति; अन्यथा इन्द्रसमाख्यैव निर्विशेषणा शतमखस्य परमेश्वरत्वं साधयेत्, “इदि परमैश्वर्ये” इति धात्वर्थपाठात् । महत्त्वविशेषिता तु किं पुनः? ततश्

महावृक्षसमाख्येव बलवन्मानबाधिता । महेश्वरमहेन्द्रादिसमाख्याऽप्यत्र निष्फला ॥ २६ ॥

पुरुषोत्तमसमाख्या त्वनधिगतशब्दानुशासनादिवृत्तान्तैः कैश्ित् केवलरूढेत्युक्तम् – “रूढ्या तु कामं पुरुषोत्तमोऽस्तु” इति । तत्र यद्यपि कर्मधारयवृत्तौ “सन्महत्परमोत्तमोकृष्टाः पूज्यमानैः” (अष्टाध्यायी २.१.६१) इत्युत्तमशब्दस्य पूर्वनिपातः; न निर्धारणे षष्ट्यास्समासः; तथाऽपि “सप्तमी शौण्डैः” (अष्टाध्यायी २.१.४०) इत्यत्र योगविभगग्रहणादत्र निर्धारणेऽपि सप्तमीसमासः स्यात्; शैषिकषष्ठी वा नीोत्तमभावसंबन्धावलम्बिनी द्विपदविग्रहवत् स्वपदविग्रहदर्शितार्था समस्येत । नागोत्तमादिशब्दाश् शब्दविद्भिरेवं निरूढाः । “यस्मात् क्षरमतीतोऽहमक्षरादपि ोत्तमः” (गीता. १५.१८) इति गीतानुसारे तु पञ्मीसमासः प्रस्पष्टः । अत्र पञ्मीषष्ठीसमासयोः पुरुषशब्दो बद्धमुक्तावस्थजीवमात्रपरः । “द्वाविमौ पुरुषौ लोके” (गीता १५.१६) इत्यादिभिश्ैतत्सुगमम् ।

अतः श्रुतिलिङ्गाद्यबाधितया तदनुगृहीतया गीतानिरुक्तया पुरुषोत्तमसमाख्ययाऽपि पुरुषसूक्तोदितसर्वकारणपुरुषस्य परमात्मत्वसर्वव्यापनभरणनियमनस्वाम्यादिकं तदन्येषामधमत्वं सिध्यति । इदं “क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गे संभूतौ तस्मात् केशवनामवान्” (हरिवंशे विष्णुपर्व. १३१.४८), “सर्वत्रासौ समस्तं वसत्यत्रेति वै यतः । ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते” (वि. पु. १.२.१०), “नराज्जातानि तत्त्वानि नाराणीति ततो विदुः । तान्येव ायनं तस्य तेन नारायणस्स्मृतः ॥” (भार. आनु. १७८.७) इत्यादिभिर्निरुक्तानां समाख्यान्तराणां प्रदर्शनम् । “अजः सर्वेश्वरः सिद्धः” (भार. आनु. १४९.११) इति व्यासपठिता सर्वेश्वरसमाख्या महेश्वरादिसमाख्यामधःकरोति ।

ननु तिष्ठतु समाख्या; लिङ्गं तु पुरुषसूक्तप्रतिपाद्यस्य तुष्पात्त्वरूपं परि्छिन्नत्वमपरि्छिन्नतयाऽऽम्नातात् परतत्त्वादवरतां गमयेदिति व्योमातीतवादिन आहुः । तन्निरासाय ब्रह्मरुद्रादीनामन्येषां सर्वव्यापकपरमपुरुषैकदेशवर्तित्वं ख्यापयति – कस्यायुतेति । त्वदन्यस्य कस्येति योज्यम्; “यस्यायुतायुतांशांशे विश्वशक्तिरियं स्थिता ।” (वि. पु. १.९.५३), “मेरोरिवाणुर्यस्यैतद् ब्रह्माण्डमखिलं मुने”, “मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ।” (गीता. ७.७), “इहैकस्थं जगत्कृत्स्नं पश्याद्य सरारम्” (गीता. ११.७), “पश्यामि देवांस्तव देव! देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थम्” (गीता. ११.९) इत्यादिभिर्भगवत्स्वरूपैकदेशे विग्रहैकदेशे विश्वस्थितिरु्यते । अतो विष्णोरेव सर्वव्यापित्वं रुद्रादेश् तदेकदेशवर्तित्वं सिद्धम् ॥

तपसा तोषितेनैव विश्वरूपेण विष्णुना । स्वपार्श्वे दक्षिणे शम्भोः निवासः परिकल्पितः ॥ २७ ॥

एवं स्वविग्रहांशेषु तदस्या अपि देवताः । निरङ्कुशस्वतन्त्रेण श्रीधरेण निवेशिताः ॥ २८ ॥

पुरुषसूक्तेऽपि “पुरुष एवेदं सर्वम्” इत्यादिभिरपरि्छिन्नत्वं सिद्धम् । तत्रतत्र परि्छिन्नत्वोक्तीनां तु “अर्भकौकस्त्वात् तद्व्यपदेशा नेति ेन्न, निाय्यत्वादेवं व्योमव” (ब्र. सू. १.२.७), “अभिव्यक्तेरित्याश्मरथ्यः” (ब्र. सू. १.२.३०), “अल्पश्रुतेरिति ेत्तदुक्तम्” (ब्र. सू. १.३.२०), “हृद्यपेक्षया तु मनुष्याधिकारत्वात्” (ब्र. सू. १.३.२४), “बुद्ध्यर्थः पादवत्” (ब्र. सू. ३.२.३२), “अनेन सर्वगतत्वम् आयामशब्दादिभ्यः” (ब्र. सू. १.२.७) इत्यादिभिः सूत्रैस्तदुपाध्यव्छेदनिबन्धनत्वं महापुरुषस्यैव सर्वव्यापित्वं स्थापितम् । अत्र अयुतायुतेत्याद्यंशकॢप्तिरसंख्यातब्रह्माण्डतदावरणादिमहत्तरविभूत्याश्रयप्रदेशातिरिक्तविभूत्यन्तराश्रयापरिमितस्वरूपवैभवसूनार्था । एतेन प्रतिब्रह्माण्डं ब्रह्मरुद्रादीनामितरेतरानभिज्ञत्वादिकमपि सू्यते । कस्येत्यादिना महिमैकदेशाधिष्ठेयत्वं वा विवक्षितम् । “विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्” (गीता. १०.४२) इत्यत्राभाष्यत – “मम महिम्नोऽयुतायुतांशेन विष्टभ्याहमवस्थितः” इति । तत्रैव “यस्यायुतायुतांशांशे” (वि. पु. १.९.५३) इत्यादिकमुदाहृतम् । विश्वं – कृत्स्नं कार्यजातम् । िदित्प्रविभागः ेतनाेतनयोः प्रकृष्टं वैषम्यम् । तस्य विित्रत्वमाश्र्यत्वमवान्तरविशेषो वा । देवमनुष्यादिरूपभेदेन तत्तदनुगुणज्ञानसुखादिभेदैश् ेतनप्रविभागः । अेतनप्रविभागस्तु भूतेन्द्रियादिरूपेण, भोग्यभोगोपकरणादिरूपेण । स निर्बाधैः प्रत्यक्षानुमानागमैर्यथासंभवं प्रत्येतव्यः । एवं प्रविभागेन वृत्तं – व्यवस्थितस्वरूपस्थितिव्यापारवत्तया निष्पन्नमित्यर्थः ॥ १२ ॥

अथ स्यात् – यद्यपि प्रत्यक्षस्तुतिभिः तत्रत्यलिङ्गैरबाधितसमाख्याविशेषैश् भगवत्परत्वं प्रतीयते, तथाऽपि “इतिहासपुराणाभ्यां वेदं समुपबृंहयेत्” (भार. आदि. १.२९३) इति स्मरणात् विरोधाधिकरणस्य (पू. मी. १.३.३) स्पष्टार्थश्रुतिविषयत्वात् प्रजापतिपशुपतिपारम्यतत्परबहूपबृंहणदर्शना पुरुषोत्तम एव पर इति निश्ेतुं न शक्यमित्यत्र प्रबलतमोपबृंहणप्रसिद्धैः परावरविवेकलिङ्गभूतैरुदन्तैरुत्तरमाह –

वेदापहारगुरुपातकदैत्यपीडाद्यापद्विमोनमहिष्ठफलप्रदानैः ।

कोऽन्यः प्रजापशुपती परिपाति कस्य पादोदकेन स शिवस्स्वशिरोधृतेन ॥ १३ ॥

वेदापहारेति ॥ अयं भावः – सुपरिगृहीताविरुद्धार्थसात्त्विकपुराणाद्युपबृंहिताभिः प्रत्यक्षश्रुतिभिः अर्थनिर्णये सिद्धे विरुद्धार्थानां राजसतामसपुराणादीनां शारीरकस्मृत्यधिकरण(ब्र. सू. २.१.१) निश्लीकृतविरोधाधिकरणनयेन विधूननं युक्तम् । तद्विपरीतवृत्तान्तास्तु तामसादिपुराणोक्तत्वाद्भ्रमविप्रलम्भसंभवा मन्तव्याः । मन्वादिस्मृतिषु भगवत्पारम्यं सुव्यक्तम् । “यद्वै किं मनुरवदत्तद्भेषजम्” (यजुः २.३.३.२) इति श्रूयते । “मन्वर्थविपरीता तु या स्मृतिस्सा न शस्यते” इति स्मर्यते । अतः सात्त्विकेतिहासपुराणादिप्रोक्ता वेदापहारादिवृत्तान्ताः परावरविवेके सम्यड्लिङ्गानि भवन्ति । तदिह निखिलजगदेकहेतुभूतः स भगवान् “आनीदवातँ स्वधया तदेकम्” (तै. ब्रा. २.८.९), “तस्माद्धान्यं न परः किञ्नास” (नासदीयसूक्ते) इत्यादिप्रसिद्धायां पूर्वापरहिरण्यगर्भादिप्रलयप्रागभावदशायां महदादिसृष्टिक्रमेण ब्रह्माणं पूर्वं विधाय, प्रलयतिरोहितान् वेदांश् पूर्वानुपूर्वीविशिष्टानाविष्कृत्य ब्रह्मणे प्राहिणोत् । अत्र (श्वे. उ. ३.६.१८) “विदधाति”, “प्रहिणोति” इति वर्तमाननिर्देशः प्रतिकल्पमेवमेवेति ज्ञापनार्थः । ततश् वेदक्षुःप्रदर्शितां विश्वसृष्टिं कर्तुकामे ब्रह्मणि प्राीनदुष्कृतफलदानाय परमपुरुषेणैव सृष्टौ मूर्तरजस्तस्त्वेन भगव्छास्त्रप्रतिपादितौ महाबलौ मधुकैटभौ – “ददृशातेऽरविन्दस्य ब्रह्माणममितप्रभम् । सृजन्तं प्रथमं वेदांश्तुरश्ारुविक्रमौ ॥ ततो विग्रहिणस्तांस्तु दृष्ट्वा तावसुरोत्तमौ । वेदाञ्जगृहतू राजन्! ब्रह्मणः पश्यतस्तदा ॥ अथ तौ दानवश्रेष्ठौ गृहीत्वा तान् सनातनान् । रसां विविशतुस्तूर्णमुदपूर्णे महोदधौ ॥ ततो हृतेषु वेदेषु ब्रह्मा कश्मलमाविशत् । ततो वनमीशानं प्राह वेदैर्विनाकृतः ॥ ब्रह्मा – वेदा मे परमं क्षुः वेदा मे परमं धनम् । वेदा मे परमं धाम वेदा मे ब्रह्म ोत्तमम् ॥ मम वेदा हृताः सर्वे दानवाभ्यां बलादितः । अन्धकारा इमे लोका जाता वेदैर्विवर्जिताः ॥ वेदे हृतेऽहं कि कुर्यां लोकान्वै स्रष्टुमुद्यतः । अहो बत महद्दुःखं वेदनाशनजं मम ॥ प्राप्तं दुनोति हृदयं तीव्रशोकामयस्त्वयम् । को हि शोकार्णवे मग्नं मामिहाद्य समुद्धरेत् । इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम! । हरिस्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर! ॥ ततो जगौ परं जप्यं प्राञ्जलिः प्रग्रहं प्रभुः ।” (भार. मोक्ष. ३५७.२५-३०) इत्यादि । “एतस्मिन्नन्तरे राजन्! देवो हयशिरोधरः । जग्राह वेदानखिलान् रसातलगतान् हरिः ॥ प्रादा ब्रह्मणे राजन्! ततः स्वां प्रकृतिं ययौ । ततस्तयोर्वधेनाशु वेदोपहरणेन ॥ शोकापनयनं क्रे ब्रह्मणः पुरुषोत्तमः ॥” (भार. मोक्ष. ३५.७.३७) इति ।

पशुपतेरेव गुरुपातकाद्विमोनम् । गुरुविषयं पातकं गुरुपातकम् । गुरुत्वेन पातकं वा विशेष्यते । न हि ब्राह्मणोत्तमपितृभूतब्रह्मशिरश्छेदादधिकं पातकं संभाव्यते? “विदुषोऽतिक्रमे दण्डभूयस्त्वम्” (गौ. धर्म. २.१२.६) स्मर्यते । न सर्वज्ञनामाऽसौ न जानाति तदिदं स्वपातकम् । रुद्रेण स्वयमेवोक्तं मात्स्ये (१८२ अ.) – “ततः क्रोधपरीतेन संरक्तनयनेन । वामाङ्गुष्ठनखाग्रेण छिन्नं तस्य शिरो मया ॥ ब्रह्मा – यस्मादनपराधस्य शिरश्छिन्नं त्वया मम । तस्मा्छापसमायुक्तः कपाली त्वं भविष्यसि ॥ रुद्रः – ब्रह्महाऽऽकुलितो भूत्वा रंस्तीर्थानि भूतले । ततोऽहं गतवान् देवि! हिमवन्तं शिलोयम् ॥ तत्र नारायणः श्रीमान् मया भिक्षां प्रयाितः । ततस्तेन स्वकं पार्श्वं नखाग्रेण विदारितम् ॥ महती स्रवती धारा तस्य रक्तस्य निस्सृता । विष्णुप्रसादात्सुश्रोणि! कपालं तत्सहस्रधा ॥ स्फुटितं बहुधा यातं स्वप्नलब्धं धनं यथा ।” इति । एवं स्वेदजलपूरणेन कपालमोनं ान्यत्र (वराहपुराणे) उक्तं – कल्पभेदेन रुद्रसृष्ट्यन्तरे योज्यम् । अप्राकृते भगवद्विग्रहे युद्धादिष्वत्र रुधिरस्वेदादिकं मायासृष्टं मन्तव्यम् ।

रुद्रस्य दैत्यपीडाद्यापद्विमोनमन्धकासुरसंग्रामे प्रसिद्धम् । तदुक्तं मात्स्ये महेश्वरप्रयुक्तशस्त्रक्षतप्रथमान्धकरुधिरबिन्दुभिरन्धकयूथे सञ्जाते – “ततस्स शङ्करो देवस्त्वन्धकैराकुलीकृतः । जगाम शरणं देवो वासुदेवमजं विभुम् ॥ ततः स भगवान् विष्णुः सृष्टवाञ्छुष्करेवतीम् । सा पपौ सकलं तेषामन्धकानामसृक् क्षणात् ॥” इति । एवं रुद्रस्य स्वदत्तवरसामर्थ्यपरीक्षोद्यतवृकासुरदौरात्म्यजनितभयविमोनं (भागवते १०.८८ अध्याये) द्रष्टव्यम् ।

अत्रेन्द्रादीनामपि हिरण्यरावणदुर्वासःप्रभृतिजनितापद्विमोनमुपलक्ष्यम् । सभापर्वणि ैतत्सामान्यत उक्तम् – “एवमेषोऽसुराणां सुराणामपि सर्वशः । भयाभयकरः कृष्णः सर्वलोकेश्वरेश्वरः ॥” इति ।

आदिशब्देन दुर्जयत्रिपुरविजिगीषाद्यापत्संग्रहः । उक्तं हि महाभारते (कर्णपर्वणि) – “विष्णुरात्मा भगवतो भवस्यामिततेजसः । तस्माद्धनुर्ज्यासंस्पर्शं स विषेहे महेश्वरः ॥” इति । श्रीविष्णुधर्मे – “त्रिपुरं जघ्नुषः पूर्वं ब्रह्मणा विष्णुपञ्जरम् । शङ्करस्य कुरुश्रेष्ठ रक्षणाय निरूपितम् ॥ वागीशेन तु शक्रस्य बलं हन्तुं प्रयास्यतः ॥” इति । नामत्रयविधाने तेनैव रुद्रस्य कालकूटापन्निस्तारणं दर्शितम् – “अ्युतानन्तगोविन्दमन्त्रमानुष्टुभं परम् । ओन्नमस्सम्पुटीकृत्य जपन् विषधरो हरः ॥” (पाद्मोत्तरखण्डे) इति । बाणयुद्धे भगवता वासुदेवेन योद्धुं प्रवृत्तस्यापि रुद्रस्य प्रशमनास्त्रेण युद्धापन्निस्तारणं कृतम् । यथोक्तं वैष्णवपुराणे – “जृम्भणास्त्रेण गोविन्दो जृम्भयामास शङ्करम् । ततः प्रणेदुर्दैतेयाः प्रमथाश् समन्ततः ॥ जृम्भाभिभूतस्तु हरो रथोपस्थ उपाविशत् । न शशाक तदा योद्धुं कृष्णेनाक्लिष्टकर्मणा ॥” इति । श्रीमद्रामायणे (बाल. ७५.२०.२१) श्रीपरशुराम आह – “हुङ्कारेण महाबाहुः स्तम्भितोऽथ त्रिलोनः । जृम्भितं तद्धनुर्दृष्ट्वा शैवं विष्णुपराक्रमैः ॥ अधिकं मेनिरे विष्णुं देवास्सर्षिगणास्तदा ।” इति ॥

श्रीबदरिकाश्रमे युद्धप्रवृत्तस्तापसवेषेण धर्मसूनुना नरसखेन नारायणेन सञ्जिहीर्षितो रुद्रः, पितुः पुत्रस्य मध्यं प्रविष्टेन तुर्मुखेन प्रवोधितः शरणमुपागतः सर्वलोकशरण्येन संरक्षित इति महाभारते (शान्ति. ३५२.६४) प्रोक्तम् – “प्रसादयामास भवो देवं नारायणं प्रभुम् । शरणं जगामाद्यं वरेण्यं वरदं हरिम् ॥” इत्यादिना ।

योर्महिष्ठफलप्रदानं तत्रैवोक्तम् । तथा हि; कुण्डधरोपाख्याने (इतिहाससमु. १.३.८) “युगकोटिसहस्राणि विष्णुमाराध्य पद्मभूः । पुनस्त्रैलोक्यधातृवं प्राप्तवानिति शुश्रुम” इति । उपाख्यानान्तरे (महा. मो. ३४७.६२) – “मया सृष्टः पुरा ब्रह्मा मद्यज्ञमयजत् स्वयम् । ततस्तस्मै वरान्प्रीतो ददाम्यहमनुत्तमान् ॥ मत्पुत्रत्वं कल्पादौ लोकाध्यक्षत्वमेव ” इति । युधिष्ठिरशोकापनोदे (महा. शा. ३.३७) – “विश्वरूपो महादेवः सर्वमेधे महाक्रतौ । जुहाव सर्वभूतानि स्वयमात्मानमात्मना” इति । तथा “महादेवस्सर्वमेधे महात्मा हुत्वाऽऽत्मानं देवदेवो बभूव । विश्वान् लोकान् व्याप्य विष्टभ्य कीर्त्या विराजते द्युतिमान् कृत्तिवासाः” इति ॥ आमनन्ति ैतदेव बह्वृाः (ऋक्. ७.४०.५) “अस्य देवस्य मीढुषो वया(यो) विष्णोरेष प्रवृ(भृ)धे हविर्भिः । विदे(धे)हि रुद्रो रुद्रियं महत्त्वम्” इति । पशुपतित्वं रुद्रस्य वरापेक्षापूर्वकमाम्नातम् – “सोऽब्रवीद्वरं वृणा अहमेव पशूनामधिपतिरसानीति, तस्माद्रुद्रः पशूनामधिपतिः” इति ।

श्रीनारायणीये सर्वदेवानां भगवदाराधकत्वं तदधीनगतित्वं ोक्तम् – “तं देवा ऋषयश्ैव नानातनुसमाश्रिताः । भक्त्या संपूजयन्त्येनं गतिं ैषां ददाति सः ॥ (भार. मोक्ष. ३४२.४४) इति । यज्ञाग्रहराध्याये (भार. शान्ति. ३४९) भगवत एव सर्वकर्मसमाराध्यत्वम्, ब्रह्मादीनां सर्वेषां तत्प्रसादलब्धयज्ञभागत्वं प्रतिपादितं – “ततस्ते विबुधाः सर्वे ब्रह्मा ते महर्षयः । वेददृष्टेन विधिना वैष्णवं क्रतुमारभन् ॥ तस्मिन् सत्रे तदा ब्रह्मा स्वयं भागमकल्पयत् । देवा महर्षयश्ैव सर्वे भागानकल्पयन् ॥ ते कार्तयुगधर्माणो भागाः प्रथमसत्कृताः । प्रापुरादित्यवर्णं तं पुरुषं तमसः परम् ॥” इति । ततश्ैवं भगवद्वः (भार. मोक्ष. ३४९.५८) – “येन यः कल्पितो भागः स तथा समुपागतः । प्रीतोऽहं प्रदिशाम्यद्य फलमावृत्तिलक्षणम् ॥” इति । तथा – “यज्ञैर्ये ापि यक्ष्यन्ते सर्वलोकेषु वै सुराः । कल्पयिष्यन्ति वो भागांस्ते नरा वेदकल्पितान् ॥ यो मे यथा कल्पितवान् भागमस्मिन् महाक्रतौ । स तथा यज्ञभागार्हो वेदसूत्रे मया कृतः ॥” (महा. मोक्ष. ३४९.६१) इति । कर्मकाण्डे प्रथमाध्याये – “नित्यमर्यसे देव कं देवमधिकं तव । यस्मान्मानसमव्यग्रं कृत्वा त्रिभुवनेश्वर ॥ जपहोमनमस्कारैस्तं वदस्व तथा मया ।” इत्युमया पृष्टो महेश्वर उवा – “शृणुष्व त्वं महाभागे यथा नित्यं नमाम्यहम् । ब्रह्माद्या मुनयश्ैव तपौधैर्यसमाधिभिः ॥ अर्यन्ति सदा यं वै सदा पश्यन्ति सूरयः । तं वै यथातथं वक्ष्ये तस्मिन् धर्मस्य निर्णयम् ॥ अज्ञानार्णवमग्नानां सर्वेषामात्मनामयम् । विष्णुर्धर्मोडुपः श्रीमानुत्तारार्थ उदाहृतः ॥” (भारते) इति । श्रीनारसिंहपुराणे ैतत्संग्रहेणोक्तम् – “ब्रह्मादयस्सुरास्सर्वे विष्णुमाराध्य ते पुरा । स्वंस्वं पदमनुप्राप्ताः केशवस्य प्रसादतः ॥” इति ।

अथ रुद्रस्यानीश्वरत्वे हेत्वन्तरमाह – कस्य पादोदकेन स शिव इति । अत्र द्वन्द्वसमासस्थस्यापि पशुपतिमात्रस्य गङ्गाधारणसामर्थ्यात् बुद्ध्या निष्कृष्य स इति परामर्शः । यद्वा, स इति शिवसमाख्याप्रसिद्धिपरम् । तथा ोक्तं श्रीभागवते – “सञ्िन्तयेद्भगवतश्रणारविन्दम्” इति प्रक्रम्य, “य्छौनिस्सृतसरित्प्रवरोदकेन तीर्थेन मूर्ध्नि विधृतेन शिवश्शिवोऽभूत्” इति । उद्योगपर्वणि ैतदभिप्रायेण प्रोक्तम् – “अत्र गङ्गां महादेवः पतन्तीं गगना्युताम् । प्रगृह्य प्रददौ लोके मानुषे ब्रह्मवित्तमः ॥” इति । स्पष्टं ैतदीश्वरसंहितायामाराधकेन ब्रह्मणैवोक्तं – “द्रवीभूतस्तदा धर्मो हरिभक्त्या महामुने । गृहीत्वा धर्मपानीयं पदं नाथस्य तुष्टये ॥ क्षालितं परया भक्त्या पाद्यार्घ्यादिभिरर्ितम् । तदम्बु परया भक्त्या दधार शिरसा हरः ॥ पावनार्थं जटामध्ये योग्योऽस्मीत्यवधारणात् । वर्षायुतान्यथ बहून्न मुमो तथा हरः ॥” इति । यद्येवं गङ्गा पशुपतेरपि पावनी, तर्हि “भवाङ्गपतितं तोयं पवित्रमिति पस्पृशुः ।” (रामा. बाल. ४३.२७) इत्येतत्कथम्? इत्यम्; अत्र हि स्वतः पवित्रत्वस्य स्प्रष्टव्यताहेतुत्वमु्यते, अश्रुतमनाकाङ्क्षितं ान्यसंसर्गस्य तत्पवित्रताहेतुत्वं कल्पयितुमयुक्तम्; कल्प्यमानेऽपि ज्ञापकहेतुत्वमात्रं कामं कल्प्यताम् । भवेन शिरसा धृतत्वात्पवित्रमिति ज्ञात्वा पस्पृशुरित्यर्थः । सामान्योक्त्या भवस्यान्येषां पवित्रत्वमभिप्रेतम् । अत एव “हरस्य गात्रसंसर्शात् पवित्रत्वमुपागता ।” (रामा.) इत्यत्रापि हरस्य शुद्धिप्रदत्वमुपागतेति बोद्धव्यम् ॥ १३ ॥

एवं तत्तद्भक्तैः परत्वेन कल्पितयोः प्रजापतिपशुपत्योर्वृत्तान्तैस्तयोरनीश्वरत्वकर्मवश्यत्वादिकं, भगवत एव सर्वेश्वरत्वं दृढीकृतम् । अथ तयोस्तदन्येषां ानीश्वरतया संमतानामविशेषेण पारतन्त्र्यसृज्यत्वसंहार्यत्वादिप्रदर्शकैस्तामसादिपुराणेष्वपि प्रसिद्धतया सर्वलौकिकपरीक्षकसंमतैरशक्यापह्नवैराश्र्येष्टितैः परावरतत्त्वविवेकं प्रतिष्ठापयति –

कस्योदरे हरविरिञ्मुखः प्रपञ्ः को रक्षतीममजनिष्ट कस्य नाभेः ।

क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः? केन वैष परवानिति शक्यशङ्कः ॥ १४ ॥

कस्योदर इति ॥ प्राकृतप्रलयदशायां हरविरिञ्ादिरूपेण स्रक्ष्यमाणश्िदिदात्मकः प्रपञ्ः कस्योदरे त्वदन्यस्य कस्यान्तः सूक्ष्मतयाऽवस्थित इत्यर्थः । “यस्य ब्रह्म क्षत्रं उभे भवत ओदनः । मृत्युर्यस्योपसेनं क इत्था वेद यत्र सः ॥” (कठ. १.२.२) इत्यत्रौदनोपसेनशब्दवत्, “ग्रसेत्संहारसमये जगत् स्थावरजङ्गमम् । लीलया यस्तु भगवान् तं ग्छ शरणं हरिम्” इत्यत्र ग्रसनशब्दवात्रोदरशब्द औपारिकः । उक्तं विश्वप्रलयवेलायां भगवत एवावस्थानं सुबालोपनिषदि (१.१) – “किं तदासीत्, नैवेह किंनाग्र आसीदमूलमनाधारमिमाः प्रजाः प्रजायन्ते, दिव्यो देव एको नारायणः” इत्यादिभिः । महाभारते (शान्ति. २१०.२४) “ब्रह्मादिषु प्रलीनेषु नष्टे लोके रारे । आभूतसंप्लवे प्राप्ते प्रलीने प्रकृतौ महान् ॥ एकस्तिष्ठति विश्वात्मा स तु नारायणः प्रभुः ।” इति । “कृष्ण एव हि लोकानामुत्पत्तिरपि ाप्ययः” (भार. सभा. ४१.२३) इति । श्रीवैष्णवे पुराणे (६.४.३९) “प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्ाप्युभावेतौ लीयेते परमात्मनि ॥ परमात्मा सर्वेषामाधारः परमेश्वरः । विष्णुनामा स वेदेषु वेदान्तेषु गीयते ॥” इति । श्रीविष्णुधर्मोत्तरे “ब्रह्मा शंभुस्तथैवार्कः न्द्रमाश् शतक्रतुः । एतदाद्यास्तथैवान्ये युक्ता वैष्णवतेजसा ॥ जगत्कार्यावसानेषु वियुज्यन्ते तेजसा । वितेजसश् ते सर्वे पञ्त्वमुपयान्ति ॥” इति । अत्र “नारायणे प्रलीयन्ते (नारायणोपनिषत्) इति श्रुत्यादिप्रसिद्धेऽर्थे तात्पर्यम् । यद्वा महाप्रलयानन्तरं महदादिषूपसृष्टेषु स्रक्ष्यमाणहरविरिञ्ादीन् भगवता स्वविग्रहविशेषेऽन्तर्निधाय रक्षित्वा ततस्तेषां सृष्टिरत्रो्यते ।

सृष्टेः पुरुषार्थशेषतया धर्मादिपुरुषार्थस्य स्थितिकालभावित्वात् तत्प्राधान्यविवक्षया क्रममुल्लङ्घ्याह – को रक्षतीममिति । उक्तमिदं वैष्णवपुराणे (१.२२.२१) – “न हि पालनसामर्थ्यमृते सर्वेश्वरं हरिम् । स्थितौ स्थितं महाप्राज्ञ! भवत्यन्यस्य कस्यित् ॥ सृजत्येष जगत्सृष्टौ स्थितौ पाति सनातनः । हन्ति ैवान्तकत्वे रजस्सत्त्वादिसंश्रयः ॥” इति । उतरश्रीरामायणे (१०४.९) ब्रह्मणोक्तं – “ततस्त्वमपि दुर्धर्षस्तस्माद्भावात्सनातनात् । रक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान्” इति । “सोऽहं संन्यस्तभारो हि त्वामुपासे जगत्पतिम् । रक्षां विधत्स्व भूतेषु मम तेजस्करो भवान्” ॥” (रामा. उत्त. १०४.८) इति । एवं “न संपदां समाहारे विपदां विनिवर्तते । समर्थो दृश्यते कश्ित्तं विना पुरुषोत्तमम्” (परमसंहिता ३.३४) इत्यादीनि द्रष्टव्यानि ।

अथ “बहु स्यां प्रजायेय” (तै. आ. ६) इत्युक्तक्रमेण जनिहेतुत्वमाह – अजनिष्ट कस्य नाभेरिति । श्रूयते हि महोपनिषदि – “सर्वस्यायतनं हरिम्”, इत्यारभ्य “यन्नाभिपद्मादभवन्महात्मा प्रजापतिर्विश्वसृड्विश्वरूपः । तमेवं विदित्वाऽतिमृत्युमेति नान्यः पन्था विद्यतेऽयनाय” इति । आथर्वणे “ब्रह्म वा इदमग्र आसीत्” इत्युपक्रम्य “ब्रह्म वै ब्रह्माणं पुष्करेऽसृजत्” इति । एवम् “अजस्य नाभावध्वेकमर्पितं यस्मिन्निदं विश्वं भुवनमधिश्रितम् । विश्वकर्मा ह्यजनिष्ट देवः” (विष्णुसूक्ते ४.६.२), “स प्रजापतिरेकः पुष्करपर्णे समभवत्” (महोपनिषत्) इत्यादिष्वपि भगवन्नाभेरेव प्रजापतिसंभवोऽभिप्रेतः । उपबृंहणसिद्धं ैतत् – “अजस्य नाभावध्येकं यस्मिन् विश्वं प्रतिष्ठितम् । पुष्करं पुष्कराक्षस्य तस्मै पद्मात्मने नमः ॥” (भार. शा. ४६.६२) इति । भृगुभरद्वाजसंवादे (भार. शा. १८०.१७) – “ततस्तेजोमयं दिव्यं पद्मं सृष्टं स्वयम्भुवा । तस्मात्पद्मात्समभवद्ब्रह्मा वेदमयो विधिः ॥” इति । स्थलान्तरे – “नारायणो महायोगी शुभाशुभविवर्जितः । ससर्ज नाभिजं पुत्रं ब्रह्माणममितप्रभम् ॥ ततस्स प्रादुरभवदथैनं वाक्यमब्रवीत् । मम त्वं नाभितो जातः प्रजासर्गकरः प्रभुः ॥ सृज प्रजास्त्वं विविधा ब्रह्मन्! सजडपण्डिताः ।” इति । सभापर्वणि (४३.९) – “अव्यक्तो व्यक्तलिङ्गस्थो य एष भगवान् प्रभुः । पुरा नारायणो देवस्स्वयम्भूः प्रपितामहः ॥” इत्यारभ्य, “ततस्स भगवांस्तोये ब्रह्माणमसृजत्स्वयम्” इति । अत्रापि प्रलयार्णवमध्ये नाभेर्ब्रह्माणमसृजदिति मन्तव्यम् । सुपर्णवैकुण्ठसंवादे (भार. आनु. ४३.३५) “यत्तत्पद्ममभूत्पूर्वं तत्र ब्रह्मा व्यजायत । ब्रह्मणश्ापि सम्भूतः शिव इत्यवधार्यताम् ॥ शिवात्स्कन्दस्समभवदेतत्सृष्टितुष्टयम् ।” इति । मार्कण्डेयश् – “स्वपतस्तस्य वै पद्मं कोटिसूर्यसमप्रभम् । नाभेर्विनिस्सृतं तस्य तत्रोत्पन्नः पितामहः ॥” (परमसंहिता) इति । उत्तरश्रीरामायणे (१०४.४) – “सङ्क्षिप्य पुरा लोकान् मायया स्वयमेव हि । महार्णवे शयानोऽप्सु मां त्वं पूर्वमजीजनः ॥ पद्मे दिव्येऽर्कसङ्काशे नाभ्यामुत्पाद्य मामपि । प्राजापत्यं त्वया कर्म सर्वं मयि निवेशितम् ॥” इति । श्रीवैष्णवे पुराणे – “रक्षतु त्वामशेषाणां भूतानां प्रभवो हरिः । यस्य नाभिसमुद्भूतपङ्कजादभवज्जगत् ॥” इति । श्रीवाराहे (७०.१४) ागस्त्यं प्रति रुद्रः – “नारायणः परो देवः सत्त्वरूपी जनार्दनः । त्रिधाऽऽत्मानं स भगवान् ससर्ज परमेश्वरः ॥ रजस्तमोभ्यां युक्तोऽभूत् रजस्सत्त्वादिकं विभुम् । ससर्ज नाभीकमले ब्रह्माणं कमलासनम् ॥ रजसा तमसा युक्तं सोऽपि मामसृजत्प्रभुः ।” इति । अत्र “त्रिधाऽऽत्मानम्” इत्येतत् स्वेन रूपेण, क्षेत्रज्ञद्वयविशिष्टवेषेण ेति बहुप्रमाणानुसारेण मन्तव्यम् । रजस्तमोयोगश् तद्गुणकद्रव्याधिष्ठातृत्वेन भवति । श्रीनारसिंहपुराणे “तत्र सुप्तस्य देवस्य नाभौ पद्ममभून्महत् । तस्मिन् पद्मे महाभाग! वेदवेदाङ्गपारगः ॥ ब्रह्मोत्पन्नस्स तेनोक्तः प्रजाः सृज महामते! । एवमुक्त्वा तिरोभावं गतो नारायणः प्रभुः ॥ तथेत्युक्त्वा स तं देवं विष्णुं ब्रह्माऽथ िन्तयन् । आस्ते किञ्िज्जगद्धेतोर्नाध्यग्छत किंन ॥ तावत्तस्य महारोषो ब्रह्मणोऽभून्महात्मनः । ततो बालस्समुत्पन्नस्तस्याङ्के रोषसंभवः ॥ स रुदन्वारितस्तेन ब्रह्मणा व्यक्तमूर्तिना । नाम दे(धे)हीति ेत्युक्तस्तस्य रुद्रेत्यसौ ददौ ॥” इति । एवं (वाराहे २.१२) “सृष्ट्वा नारं तोयमन्तस्स्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पेकल्पे तत्र शयामि भूयः सुप्तस्य मे नाभिजं स्याद्यथाऽब्जम् ॥”, “तत्र सुप्तस्य मे देवि! नाभौ पद्ममजायत ।” इत्यादीनि वनानि द्रष्टव्यानि । नाभे(भि)रित्येतदुपलक्षणम्, मनःप्रभृतिभ्यो हि ब्रह्मणो जन्मषट्कं पूर्वं प्रो्यते । यथा हयशिरउपाख्याने (भारते मोक्ष. ३५७.४०) “अहं प्रसादजस्तुष्यन् लोकधाम्ने स्वयम्भुवे । त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ॥ ाक्षुषं मे द्वितीयं वै आसीज्जन्म पुरातनम् । त्वत्प्रसादा मे जन्म तृतीयं वािकं महत् ॥ त्वत्तो मे श्रावणं ापि तुर्थं जन्म वै विभो! । नासिक्यं ैव मे जन्म त्वत्तः पञ्ममु्यते ॥ अण्डजं ापि मे जन्म त्वत्तष्पष्ठं विनिर्मितम् । इदं सप्तमं जन्म पद्मजं मेऽमितप्रभ! ॥ सर्गेसर्गेऽप्यहं पुत्रस्तव त्रिगुणवर्जित! ।” इति ।

अत्रैवमण्डजसृष्टिः महोपनिषदि श्रूयते “एको ह वै नारायण आसीत्, न ब्रह्मा नेशानो नेमे द्यावापृथिवी न नक्षत्राणि नापो नाग्निर्न सोमो न सूर्यः, स एकाकी न रमेत, तस्य ध्यानान्तस्स्थस्यैका कन्या दशेन्द्रियाणि”, इत्यारभ्य “अथ पुनरेव नारायणस्सोऽन्यं कामं मनसाऽध्यायत, तस्य ध्यानान्तस्स्थस्य ललाटात् स्वेदोऽपतत्, ता इमा आपस्तद्धिरण्मयमण्डमभवत्, तत्र ब्रह्मा तुर्मुखोऽजायत ।” इति । अनन्तरं रुद्रोत्पत्तिश्ैवमभिधीयते – “अथ पुनरेव नारायणः सोऽन्यं कामं मनसाऽध्यायत, तस्य ध्यानान्तस्स्थस्य ललाटात् स्वेदोऽपतत् स्वेदाद्बुद्बुदमभवत्, बद्बुदात् त्र्यक्षः शूलपाणिः पुरुषोऽजायत ।” इति । मोक्षधर्मे (३४९.७६) ोक्तम् “एष लोकगुरुर्ब्रह्मा जगदादिकरः प्रभुः । एष माता पिता ैव युष्माकं पितामह. ॥ मयाऽनुशिष्टो भविता सर्वभूतवरप्रदः । अस्य ैवानुजो रुद्रो ललाटाद्यस्समुत्थितः ॥ ब्रह्मानुशिष्टो भविता सोऽपि सर्ववरप्रदः ।” इति, “अथ तत्र सतस्तस्य तुर्वक्त्रस्य धीमतः । ललाटप्रभवः पुत्रः शिव आगाद्यदृ्छया ॥” इति । छन्दोगास्त्वामनन्ति – “विरूपाक्षाय (दन्ताञ्जये) दत्ताञ्जलये तुत्थाय विश्ववेदसे सहस्राक्षाय ब्रह्मणः पुत्राय ज्येष्ठाय श्रेष्ठाय नमो घण्टाय कर्माधिपतये नमः” इति । शतपथे ाष्टमूर्तिब्राह्मणे प्रथमांशे – “संवत्सरे कुमारोऽजायत, सोऽरोदीत्, तं प्रजापतिरब्रवीत् कुमार! किं रोदिषि य मम तपसोऽधिजातोऽसीति, सोऽब्रवीत् – अनपहतपाप्मा वा अहमस्मि, हन्त नामानि मे दे(धे)हीति, तस्मात्पुत्रस्य जातस्य नाम कुर्यात्, पाप्मानमेवास्य तदपहन्ति, अपि द्वितीयम्, अपि तृतीयम्, अपि पूर्वमेवास्य तत्पाप्मानमपहन्ति तमब्रवीत् रुद्रोऽसीति तस्य तन्नामाकरोत् अग्निस्तद्रूपमभवत् अग्निर्वै रुद्रः, यदरोदीत्तस्माद्रुद्रः” इत्यादि । सेयं श्रुतिर्भगवता पराशरेणोपबृंहिता – “कथितस्तामसस्सर्गो ब्रह्मणस्ते महामुने! । रुद्रसर्गं प्रवक्ष्यामि तं मे निगदतः शृणु ॥ कल्पादावात्मनस्तुल्यं सुतं प्रध्यायतस्ततः । प्रादुरासीत्प्रभोरङ्के कुमारो नीललोहितः ॥ रुरोद सुस्वरं सोऽथ द्रवंश् मुनिसत्तम! । किं रोदिषीति तं ब्रह्मा रुदन्तं प्रत्युवा ह ॥ नाम दे(धे)हीति तं सोऽथ प्रत्युवा प्रजापतिः । रुद्रस्त्वं देवनाम्नाऽसि मा रोदीस्स्थैर्यमावह ॥ एवमुक्तः पुनस्सोऽथ प्रत्युवा महातपाः । ततोऽन्यानि ददौ तस्मै सप्त नामानि स प्रभुः ॥ स्थानानि ैषामष्टानां पत्नीः पुत्रांश् वै विभुः ।” (वि. पु. १.८.१८) इत्यादिना । मोक्षधर्मे ब्रह्मरुद्रसंवादे – “अहं ब्रह्मा ाद्य ईशः प्रजानां तस्माज्जातस्त्वं मत्तः प्रसूतः । मत्तो जगज्जङ्गमस्थावरं सर्वे वेदास्सरहस्याश् पुत्र ॥” इति । निष्ठानिर्णयाध्याये (भार. मोक्ष. ३५९ अ.) – “उमापतिः पशुपतिः श्रीकण्ठो ब्रह्मणः सुतः” इति । श्रीवाराहे (९०-३) “नारायणः परो देवस्तस्माज्जातश्तुर्मुखः । तस्माद्रुद्रोऽभवद्देवि! स सर्वज्ञतां गतः ॥” इति । एवं रुद्रस्य ब्रह्मानुजत्वब्रह्मपुत्रत्वे अपि कल्पभेदादुपपद्येते ॥

आप्तवाोर्विरोधे स्यात्सृष्टिभेदादियं गतिः । अनिश्िताप्तभावानां निश्ितैः स्यादनादरः ॥ २९ ॥

अथैवमेव परावरत्वविभाजकत्रिविक्रमव्यापारमाह – क्रान्त्वेति । अनेन (विष्णुसूक्ते १) “यस्योरुषु त्रिषु विक्रमणेषु । अधिक्षियन्ति भुवनानि विश्वा ।” इत्यादिप्रतिपादितं विग्रहमहत्त्वादिकं तुर्मुखस्य तत्पदाराधकत्वं सू्यते । तदा ब्रह्मादिसर्वदेवतानां मनुष्यादिवत् स्तोतृत्वं ोक्तं – “सङ्घैः सुराणां दिवि भूतलस्थैः” (विष्णुधर्मे माङ्गल्यस्तवे) इत्यादिना । अथवा क्रान्त्वेत्यनेन सर्वेषामन्तर्बहिश्ावस्थाय यथार्हं तत्तत्कार्यार्थमाक्रमणं विवक्षितम् । अन्तर्यामिब्राह्मणे हि (बृ. उ. ५.७) – “यः पृथिवीमन्तरो यमयति”, “य आत्मानमन्तरो यमयति” (बृ. उ. ५.७.२६) इत्यादिभिः सर्वतत्त्वाधिष्ठातृत्वमुक्तम् । सुबालोपनिषदि (७.१) – “यः पृथिवीमन्तरे सञ्रन्” इत्यादिभिस्स एवार्थ उक्तः; अन्ते विशेषितम् “एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः” इति । अन्यमपि निगरणादिकर्मीमूतब्रह्मरुद्राद्यशक्यमाश्र्यव्यापारमाह – निगीर्य पुनरुद्गिरति त्वदन्यः क इति । यथोक्तं श्रीसात्त्वते – “त्यजन्तमाहरन्तं श्वासो्छ्वासद्वयेन । आब्रह्मभवनं सर्वं कर्मप्राधानिकं हि यत् ॥” इति । उद्गिरतीति वर्तमाननिर्देशः क्वित्क्वित्कल्पे तथा प्रवृत्तिप्रवाहज्ञापनार्थः । तस्य यथापूर्वत्वद्योतनाय पुनश्शब्दः । एवं संहार्यत्वसंहर्तृत्वरक्ष्यत्वरक्षकत्वजन्यत्वजनकत्वाधिष्ठेयत्वाधिष्ठातृत्वादिवैधर्म्यवर्गैरुक्तैश् पुरुषनिर्णयादिषु प्रपञ्ितैर्हैतुभिः त्वदन्येषु क्विदपि स्वातन्त्र्यशङ्का न स्यादिति निगमनाभिप्रायेणाह – केन वेति । त्वदन्येनेति विशेषणीयम् । वाशब्दश्कारार्थः; अन्यस्य सर्वस्मात् परस्यात्यन्तासंभावितत्वद्योतनार्थो वा । मुक्तेषु नित्येषु शक्तिभूयस्त्वेऽपि सर्वशरीरत्वादिलक्षणं स्वातन्त्र्यं नास्ति । किमुत क्षेत्रज्ञेषु हरविरिञ्ादिष्वित्यभिप्रायेण निर्दिशति – एष इति । अत्र सर्वेषामाधारतया नियन्तृतया शेषितया ाधिकः परः । तद्वान् परवान् । प्रामाणिकानां दृढतरबहुप्रमाणसिद्धेऽर्थे तद्विपरीतशङ्काऽपि नोत्पद्यत इत्यभिप्रायेणात्र शङ्काप्रतिक्षेपः । अथवा, मन्दमतीनां श्रुत्यन्तरेपु परान्तरसद्भावशङ्कासंभवेऽपि पूर्वोक्तैरेव न्यायैस्तन्निरासमभिप्रेत्य केनेत्यादिकमु्यते । उपबृंहणैश्ैतत्सिद्धम्; यथाऽऽश्वमेधिके श्रीवैष्णवधर्मशास्त्रे (११८.३७) – “अनाश्रित्यो्छ्रयो नास्ति मुख्यमाश्रयमाश्रयेत् । रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः ॥ ब्रह्मा मामाश्रितो राजन्! नाहं कञ्िदुपाश्रितः । ममाश्रयो न कश्ित्तु सर्वेषामाश्रयो ह्यहम् ॥ इदं रहस्यं कौन्तेय! प्रोक्तवानहमव्ययम् ।” इति । श्रीहरिवंशे (३.८९.२) देवान् प्रति रुद्रः – “एतदेव परं वस्तु नैतस्मात्परमस्ति वः । एवमेव विजानीध्वमेतद्वः परमं तपः ॥” इति, (हरि. ३.८९.९) “ओमित्येवं सदा विप्राः! पठध्वं ध्यात केशवम्” इति, (हरिवंशे विष्णुपर्व. १३३.१४) “उपास्योऽयं सदा विप्रा! उपायोऽमि हरेस्स्मृतौ” इति । श्रीवाराहे (७६ अ.) “रुद्रादित्या वसवो ये साध्या विश्वेऽश्विनौ मरुतश्ोष्मपाश् । सर्वे भवन्तं शरणं गताः स्मः कुरुष्व पूज्यानिह विश्वमूर्ते ॥” इति । तत्रैव – “नारायणात्परो देवो न भूतो न भविष्यति । एतद्रहस्यं वेदानां पुराणानां सत्तमम् ॥” (वरा. ७६.४८) इति । ब्राह्मे – “सर्वे विष्णुमया देवाः सर्वे विष्णुमया गणाः । न हि विष्णुसमा कािद्गतिरन्या विधीयते ॥ इत्येवं सततं वेदा गायन्ते नात्र संशयः ।” इति । आदित्यपुराणे ब्रह्मा – “अहं विष्णोस्तु संभूतः स सर्वमयो हरिः । न तस्य परतो भूतं विद्यते यत्तदुत्तमम् ॥ पुराणेषु द्विजश्रेष्ठाः! दशस्वष्टासु नान्यथा ।” इति । तत्रवै कालनेमिवधे रुद्रः – “योऽसौ साक्षाद्वेदमूर्तिर्यत्र वेदाः प्रतिष्ठिताः । तं याम शरणं विष्णुं सर्वे सेन्द्रा दिवौकसः ॥” (आदित्यपुराणे) इति ॥ १४ ॥

एवं तुर्भिः पञ्भिर्वा श्लोकैः प्रदर्शितं भगवत्परत्वं यदि प्रामाणिकम्, तर्हि श्रुतशास्त्राः सर्वेऽपि किं तथा नाध्यवस्यन्ति? कथं लोके निरीश्वरवादस्त्रिमूर्तिसाम्यैक्यादिपक्षाश् प्रादुःष्युः? इत्यत्र परेषां भगवत्प्रतिपत्त्यभावे हेतुमाह –

त्वां शीलरूपरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश् शास्त्रैः ।

प्रख्यातदैवपरमार्थविदां मतैश् नैवासुरप्रकृतयः प्रभवन्ति बोद्धुम् ॥ १५ ॥

त्वां शीलेति ॥ एतेन मूढान् प्रति शोति, तन्मध्ये स्वस्य भगवदनुभवलाभात् प्रीयते । त्वां – महद्भ्योऽपि महीयस्त्वेन पूर्वोक्तम् । शीलमिह महत्तरस्यापि मन्दतरैः सह नीरन्ध्रसंश्लेषः, रामकृष्णाद्यवतारेषु शबरीगोपालादिवृत्तान्तैस्तत्प्रसिद्धिः । तैरेव तत्रतत्र महत्त्वमपि सू्यते । रूपम् “आदित्यवर्णं तमसः परस्तात्” (पुरुषसूक्ते), “तस्य ह्येतस्य पुरुषस्य रूपं यथा माहारजनं वासः” (बृ. उ. ४.३.६) इत्यादिषु, अस्त्रभूषणाध्यायादिषु (वि. पु. १.२१ अ.) ाप्राकृतत्वेनाकर्महेतुत्वेन विश्वाधारतया शुभाश्रयत्वेन प्रसिद्धम् । अत्र केषांिद्भगवत्स्वरूपमेव वा तद्गुणभूतज्ञानबलादि वा परव्यूहादिरूपतया प्रकाशत इति पक्षस्तु तत्रतत्र पृथड्निर्देशस्य बाधकाभावात् निर्विकारत्वनिरवयवत्वादिश्रुतिविरोधात् “पञ्ोपनिषन्मन्त्रविग्रहम्” (रहस्याम्नायब्राह्मणे) “षाड्गुण्यविग्रहं देवम्” (सात्त्वतसंहिता) इत्यादेरन्वयानर्हपदसमभिव्याहारस्य परस्परविरुद्धस्यान्यथैवोपपत्तेश् निरस्तः । रितानि – “क्रान्त्वेत्यादिना पूर्वोक्तान्यनुक्तानि महार्णवनिमग्नवसुन्धरोद्धरणामृतमथन प्रमुखान्यतिमानुषदैवतानि ेष्टितशतानि । परमप्रकृष्टसत्त्वेन – अधिकोत्कृष्टसत्त्वगुणेनेत्यर्थः ।

ननु ब्रह्मादिष्वेव सत्त्वरजस्तमसा प्रत्येकमुत्तममध्यमाधमभेदेन नवधा गतिर्मनुनोक्ता । भगवतस्तु – “सत्त्वादयो न सन्तीशे यत्र हि प्राकृता गुणाः” (विष्णुधर्मे) इति सत्त्वगुणोऽपि प्रतिषिद्ध्यते । तत्कथमिह तदुक्तिः? इत्थम्; क्षेत्रज्ञानां हि प्रकृष्टसत्त्वगुणसम्पत्तिः भगवत्कटाक्षाधीनेति प्रागेव प्रतिपादितम् । तदिह स्वप्रवर्त्येन मोक्षोपयुक्तसत्त्वेनेत्यर्थः । अप्राकृतशुद्धसत्त्वसमाश्रयत्वं वा विवक्षितम् । तामसपुराणादीनां तत्त्ववोधकत्वं नास्तीत्यभिप्रायेणाह – सात्त्विकतयेति । पौरुषेयशास्त्राणां स्वमूलभूतपुरुषगुणभेदेन सात्त्विकत्वादिव्यपदेशः ।

सत्त्वादीनां कार्यभेदश् भगवतैव गीतः – (१४.१७) “सत्त्वात् सञ्जायते ज्ञानं रजसो लोभ एव । प्रमादमोहौ तमसो भवतोऽज्ञानमेव ॥” इति । सात्त्विकराजसतामसबुद्धिभेदश् (गी. १८.३०-३२) – “प्रवृत्तिं निवृत्तिं कार्याकार्ये भयाभये । बन्धं मोक्षं या वेत्ति बुद्धिस्सा पार्थ सात्त्विकी ॥ यया धर्ममधर्मं कार्यं ाकार्यमेव । अयथावत्प्रजानाति बुद्धिस्सा पार्थ राजसी ॥ अधर्मं धर्ममिति या मन्यते तमसा वृता । सर्वार्थान् विपरीतांश् बुद्धिस्सा पार्थ तामसी ॥” इति श्लोकत्रयेणोक्तः । मनुश् – “या वेदबाह्याः स्मृतयो याश् काश् कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः” इति । पुराणेषु सात्त्विकादिविभागो मात्स्ये (२९०.१६) प्रोक्तः – “सङ्कीर्णास्तामसाश्ैव राजसास्सात्त्विकास्तथा । कल्पाश्तुर्विधाः प्रोक्ता ब्रह्मणो दिवसात्यये ॥ यस्मिन्कल्पे तु यत्प्रोक्तं पुराणं ब्रह्मणा पुरा । तस्य तस्य तु माहात्म्यं तत्स्वरूपेण वर्ण्यते ॥ अग्नेश्शिवस्य माहात्म्यं तामसेषु प्रकीर्त्यते । राजसेषु माहात्म्यमधिकं ब्रह्मणो विदुः ॥ सङ्कीर्णेषु सरस्वत्याः पितॄणां निगद्यते । सात्त्विकेष्वथ कल्पेषु माहात्म्यमधिकं हरेः ॥ तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम् ।” इति । तस्मिन्नेव प्रदेशान्तरेऽपि – “सङ्कर्णास्तामसाश्ैव राजसाः सात्त्विकास्तथा । कल्पाश्तुर्विधाः प्रोक्ताः”, (मत्स्यपु.) “रजस्तमोमयास्तद्वत् त्रयस्त्रय उदाहृताः । सङ्कीर्णेषु सरस्वत्याः पितॄणां पुष्टिरु्यते ॥ अग्नेश्शिवस्य माहात्म्यं तामसेषु दिवाकृतः । राजसेषु माहात्म्यमधिकं ब्रह्मणः स्मृतम् ॥ सात्त्विकेष्वधिकं तद्वद्विष्णोर्माहात्म्यमु्यते । तेष्वेव योगसंसिद्धा गमिष्यन्ति परां गतिम्” ॥ (मत्स्यपु.) इति । कौर्मे – “असङ्ख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः । कथिता हि पुराणेषु मुनिभिः कालिन्तकैः ॥ सात्त्विकेषु कल्पेषु माहात्म्यमधिकं हरेः । तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः ॥” इति । तदिह सात्त्विकानि पुराणानि सत्त्वैकमूलतया कार्त्स्त्वेनाविप्लुतज्ञानानीति तेषां प्राबल्यम् । वेदविरुद्धैस्तामसतन्त्रैः परत्वापह्नवः परावरतत्त्वविपर्यासादिकल्पनं तर्कपादे (ब्र. सू. २.१) निरस्तम् ।

ेदं सात्त्विकपुराणादिविभागप्रकरणम् – तत्सात्त्विकमेव मन्तव्यम्; बाधकाभावात् गुणस्वभाववैित्र्यात् परस्परविरुद्धार्थपुराणबलाबलविवेकापेक्षायां तद्व्यवस्थापकतयैव प्रवृत्तत्वा । एवं तामसेतिहासेऽपि तामसपुराणन्यायः सञ्ारणीय इति । अत्र प्रबलैश् शास्त्रैरिति प्राबल्योक्त्या बहुवनेन ानन्यपरश्रुतिस्मृतीनां भारतरामायणादीतिहासानां तदनुगुणानां पाद्मवैष्णवभागवतनारदीयमार्कण्डेयवाराहवामनमात्स्यगारुडब्रह्माण्डनारसिंहादिपुराणानाम् अन्योन्यसामरस्यमपि व्यज्यते । “अष्टाभिः कथ्यते विष्णुः दशभिः कथ्यते शिवः” इति वनं त्वनाप्तम्, दृश्यमानविरोधात्, हिरण्यगर्भादिप्रतिपादकपुराणविभागवनैर्बाधा

आस्तामेतत्सर्वं; – “महाजनो येन गतस्स पन्याः” (भार. आर. २६८.१२१) इत्युक्तमयत्ननिश्यसाधनम् । तद्भगवत्पारम्यपक्षे सिद्धमित्याह – प्रख्यातेति । प्रबलैश् शास्त्रैरित्यनेनैव गतार्थत्वेऽपि तदन्तर्गतसाभिसन्धिककतिपयवाक्यविशेषमात्रेणापि परतत्त्वनिर्णयस्सुलभ इत्यभिप्रायेण महर्षिमतानां पृथगुपादानम् । प्रख्याताश् ते दैवपरमार्थविदश्ेति कर्मधारयः । प्रख्यातशब्देन वेदवैदिकपरिग्रहप्रकर्षादाप्ततमत्वं सू्यते । दैवशब्द इह देवतार्थः, “न दैवं केशवात्परम्” (नार. पुरा. १८-३३) इतिवत् । परमार्थशब्दोऽत्र याथार्थ्यपरः, “देवतापारमार्थ्यं ” (वि. पु. १.१.२७) इत्यादिप्रमाणसूनार्थत्वात् । वक्तॄणां, तन्मतानां भूयस्त्वव्यञ्जनार्थमुभयत्र बहुवनम् । तत्र तावत् पृथिवीश्रोत्रजन्मा पितामहदत्तवरो भगवान् वाल्मीकिराह – “स हि देवैरुदीर्णस्य रावणस्य वधार्थिभिः । अर्थितो मानुषे लोके जज्ञे विष्णुस्सनातनः ॥” (रामा अ. १.७), “अधिकं मेनिरे विष्णुम्” (रामा. बाल. ७५.२०), “व्यक्तमेष महायोगी परमात्मा सनातनः” (रामा. यु. १११.२१) इत्यादि । “येनाक्षरं पुरुषं वेद सत्यं प्रोवा तां तत्त्वतो ब्रह्यविद्याम्” (मु. १.२.२१) इत्यादिषूक्तं परं ब्रह्म त्वमेवेति रामावस्थं भगवन्तं प्रत्यु्यते । “अक्षरं ब्रह्म सत्यं ” (रामा. यु. १२०.१४) इत्यादि । ब्रह्मलक्षणं ाभिप्रेत्योक्तं – “त्वं त्रयाणां हि लोकानामादिकर्ता स्वयंप्रभुः” (रमा. यु. ११७.१८) इति । “जगत्सर्वं शरीरं ते” (रामा. यु. १२०.२६) इत्यनेन घटकश्रुतीनामर्थो दर्शितः । (रामा. यु. १२०.२६) “अहं ते हृदयं राम” इति ब्रह्मणो वाक्यं “पुत्रो हि हृदयम्” (तै. ब्रा. २.२.७) इति श्रुतिप्रसिद्ध्या तस्य भगवत्पुत्रत्वं व्यनक्ति । उत्तरश्रीमद्रामायणे भगवतः परमकारणत्वं पितामहोत्पादकत्वं प्रागेवोदाहृतम् ।

“कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यो भुवि मैत्रेय! महाभारतकृद्भवेत् ॥” (पाद्मपुराणे. ५.१.४३) इति स्वपित्रा पराशरेणापि स्तुतः पञ्मवेदप्रणेता शारीरकसूत्रकारोऽप्याह – “कालस्य हि मृत्योश् जङ्गमस्थावरस्य । ईशते भगवानेकस्सत्यमेतद्ब्रवीमि ते ॥” (भार. उद्यो. ६७.१३), “कृष्ण एव हि लोकानामुत्पत्तिरपि ाप्ययः । कृष्णस्य हि कृते भूतभिदं विश्वं रारम् ॥” (भार. सभा. ४१.२३), “ज्योतींषि शुक्लानि यानि लोके त्रयो लोका लोकपालास्त्रयी । त्रयोऽग्नयश्ाहुतयश् पञ् सर्वे देवा देवकीपुत्र एव ॥” (महाभारते), “तत्त्वं जिज्ञासमानानां हेतुभिस्सर्वतोभुखैः । तत्त्वमेको महायोगी हरिर्नारायणः परः ॥” (भार. मो. ३५७.८९), “सत्यं सत्यं पुनस्सत्यमुद्धृत्य भुजमु्यते । वेदा्छास्त्रं परं नास्ति न दैवं केशवात्परम् ॥” (नार. पु. १८.३३), “आलोड्य सर्वशास्त्राणि विार्य पुनःपुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणस्सदा ॥” (भार. अनु. १७८.११) इति । भगवद्गीतानुगीतादिभिर्मोक्षधर्भे तैस्तैः संवादैरैदम्पर्येण भगवत एव परत्वं प्रपञ्ितम् ।

आश्वलायनेन सूत्रकृता “नमश्शौनकाय” इत्याार्यत्वेनाभिवन्दितः श्रीशौनकोऽपि श्रीविष्णुधर्मे (१०४.२३,२४,२५,२६) सर्वत्र भगवत्पारम्यं प्रािख्यपत् । मोक्षोपायविधाने ैवं त्याज्यमुपादेयं व्यभजत् – “आब्रह्मस्तम्बपर्यन्ता जगदन्तर्व्यवस्थिताः । प्राणिनः कर्मजनितसंसारवशवर्तिनः ॥ यतस्ततो न ते ध्याने ध्यानिनामुपकारकाः । अविद्यान्तर्गतास्सर्वे ते हि संसारगोराः ॥ पश्ादुद्भूतबोधाश् ध्यानेनैवोपकारकाः । नैसर्गिको न वै बोधस्तेषामप्यन्यतो यतः ॥ तस्मात्तदमलं ब्रह्म निसर्गादेव बोधवत् । ध्येयं ध्यानविदां सम्यक् तद्विष्णोः परमं पदम् ॥” इति । तथा (विष्णुधर्मे) “श्रूयतां तु नरव्याघ्र! वेदवेदान्तनिश्यः । यज्ञेशो यज्ञपुरुषः पुण्डरीकाक्षसंज्ञितः ॥ स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः।” इति । भगवदर्ावतारमाहात्म्येऽप्येवमाह – “यादृशे तु मनःस्थैर्यं रूपे बध्नाति क्रिणः । नृसिंहवामनादीनां तादृशं कारयेद्बुधः ॥ सुरूपां प्रतिमां विष्णोः प्रसन्नवदनेक्षणाम् । कृत्वाऽऽत्मनः प्रीतिकरीं सुवर्णरजतादिभिः ॥ तस्यां ब्रह्म समारोप्य मनसा तन्मयो भवेत् । तामर्येत् तां प्रणमेत् तां यजेत् तां वििन्तयेत् ॥ विशत्यपास्तदोषस्तु तामेव ब्रह्मरूपिणीम् ।” (विष्णुधर्मे. १०३.१६) इति । अत्र प्रतिष्ठादिवशान्मुख्यावताररूपत्वं विवक्षितम् । उक्तं हि भगव्छास्त्रे – “सर्वातिशायिषाड्गुण्यं संस्थितं मन्त्रबिम्बयोः । तेनार्यो भगवान् साक्षात् नोपारधिया क्वित्” (विष्वक्सेनसंहिता) इति । जितन्तेस्तोत्रे भगवत एव जगत्कारणत्वमोक्षप्रदत्वादिकं प्रादर्शयत् ।

“देवतापरमार्थ्यं यथावद्वेत्स्यते भवान्” (वि. पु. १.१.२६) इति । श्रीवैष्णवपुराणे पुलस्त्यवसिष्ठाभ्यां, लैङ्गे ब्रह्मणा दत्तवर इति प्रसिद्धः पराशरश् – “विष्णोः सकाशादुद्भूतं जगत्तत्रैव स्थितम् । स्थितिसंयमकर्ताऽसौ जगतोऽस्य जग सः ॥” (वि. पु. १.१.३१) इति प्रधानप्रतिपाद्यं संगृह्य, तदेव बहुधा स्थापयामास ।

“यद्वै किं मनुरवदत्” (यजु. २.३.३२) इत्यादिप्रख्यातमनुबृहस्पतिदक्षादिवाक्यानि पूर्वमेवोपात्तानि ।

एतेषु मतेष्वेकैकमेव तत्त्वनिर्णयाय पर्याप्तम्; किं पुनः पूर्वोक्तैः शीलरूपादिभिः परस्परं समुितमित्यभिप्रायेण मतैश्ैत्युक्तम् । आसुरी – तामसी प्रकृतिर्येषां ते आसुरप्रकृतयः, तामसप्रकृतित्वाद्बोद्धुं न शक्नुवन्तीत्यर्थः । आसुरपदोपादानं “राक्षसीमासुरीं ” (गी. ९.१२) इति सहोक्तोपलक्षणम् । दर्शितश् दैवासुरसर्गविभागो भगवता – (गी. १६.६) “द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव ” इत्यादिना । उक्तं शौनकेन – “द्विविधो भूतसर्गोऽयं दैव आसुर एव । विष्णुभक्तिपरो दैवो विपरीतस्तथाऽऽसुरः ॥” (वि. ध. १०९.७४) इति । आदित्यपुराणे – “देवानां परो धर्मस्सदा यज्ञरताः क्रियाः । स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजारतिस्तथा ॥ दैत्यानां बहुमानित्वं मात्सर्यं सत्स्वसत्क्रिया । निन्दनं वेदशास्त्राणां हरभक्तिरनुत्तमा ॥” इति । तथा “तस्मिन्नपि हरौ विप्र! स्वबुद्ध्या ये न मोहिताः । कीर्तयिष्यन्ति ते देवा मन्तव्यास्त्वितरेऽसुराः ॥” इति । बोद्धुमित्यत्र सर्वपरिबृढत्वेनेत्युपस्कार्यम् । न प्रभवन्तीत्यनेन तामसप्रकृतिपरवशत्वं व्यज्यते । अवधारणेन कालान्तरेऽप्येतद् दृढीक्रियते । उक्तं हि मनुना (१.२८) “यं तु कर्मणि यस्मिन् स न्ययुङ्क्त प्रथमं विभुः । तदेव स पुनर्भेजे सृज्यमानः पुनःपुनः ॥” इति । महाभारते (सभा. ४२.२१) “न गाथा गाथिनं शास्ति बहु ेदपि गायति । प्रकृतिं यान्ति भूतानि कुलिङ्गशकुनिर्यथा ॥” इति । “जन्मान्तरसहस्रेषु या बुद्धिर्भाविता पुरा । तामेव भजते जन्तुरुपदेशो निरर्थकः ॥” (इति. समु. २.३२) इति । न हि शास्त्रे सद्भिर्बहुल उपदिष्टे पठितेऽपि सत्त्वोत्कर्षनिमित्तभगवद्भक्तिरहितानां रावणदुर्योधनप्रभृतीनां तत्त्वाध्यवसायः सम्पद्यते । यथाऽऽह सञ्जयः (भार. उद्यो. ६८.२) “विद्या राजन् न ते विद्या मम विद्या न हीयते । विद्याहीनस्तमोध्वस्तो नाभिजानासि केशवम् ॥ मायां न सेवे भद्रं ते न वृथा धर्ममारे । शुद्धभावं गतो भक्त्या शास्त्राद्वेद्मि जनार्दनम् ॥” इति । न जगत्यबोद्धारः सन्तीत्येतावता प्रमाणसिद्धार्थो न स्यात्, अन्यथा वा स्यादिति भावः ॥ १५ ॥

अथ सर्वप्रतिपत्त्रभावनिबन्धनं ोद्यं तत्सद्भावेन परिहरन् परसमृद्धिप्रयोजनतया सत्त्वस्थानां भगवदनुभवलाभेन सन्तुष्यति –

उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावम् ।

मायाबलेन भवताऽपि निगुह्यमानं पश्यन्ति केिदनिशं त्वदनन्यभावाः ॥ १६ ॥

उल्लङ्घितेति ॥ यद्वा “त्रिभिर्गुणमयैर्भावैरेभिस्सर्वमिदं जगत् । मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ॥” (गीता. ७-१३) इति सर्वैरवेद्यतया स्वेनैवोक्तं भगवन्तं कथं केिज्जानीयुरिति शङ्कायां तत्प्रबोधहेतुरिहो्यते । पूर्वश्लोके परिजिहीर्षार्थं भगवत्तत्त्वानवगमहेतुरुक्तः । अत्र तूपादित्सार्थं तज्ज्ञानकारणोक्तिः । सीमा – परि्छित्तिः । सा ात्र देशतः कालतो विषयतश् त्रिविधा । समश्ातिशायी समातिशायिनौ । त्रिविधसीम्नः समातिशायिनोश् संभावनोल्लङ्घिता येन तथोक्तः । अन्येषां हि प्रभुत्वं देशादिभिः परि्छिन्नम् । अत एव समाधिकसंभावनायुक्तम् । तव – “सत्यं ज्ञानमनन्तं ब्रह्म ।” (तै. आ. १) “न समोऽनेन कश्न”, “न तत्समश्ाभ्यधिकश् दृश्यते” (श्वे. ६-८) “न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यः” (गीता ११-४३), “नास्ति नारायणसमः” (भार. आ. १-३४) इत्यादिप्रसिद्धस्य । परिब्रढिमस्वभावं प्रभुत्वरूपं यावत्स्वरूपभाविनं धर्मम् । “प्रभौ परिवृढः” (पा. सू. ७-२-२१) इति निपात्यते । मायाबलेन गुणमयप्रकृतिसामर्थ्येन । श्रूयते हि “अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्ान्यो मायया सन्निरुद्धः ।” (श्वे.४-९), “मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्” (श्वे. ४-१०) इति । स्वयं ाह – “दैवी ह्येषा गुणमयी मम मया दुरत्यया ।” (गीता. ७-१४) इति । जितंतेस्तोत्रेऽप्युक्तम् “अध्यक्षश्ानुमन्ता गुणमायासमावृतः ।” (१-३) इति । उक्तं तुःश्लोक्याम् (१. श्लो) “यवनिका माया जगन्मोहिनी” इति । यद्वाऽत्र मायाबलशब्देन स्वासाधारणाप्राकृतविग्रहे कर्मवश्यमत्स्यकूर्मादिसाजात्यभ्रमजनकशक्तिप्रकर्ष उ्यते । यथोक्तम् “अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मम भूतमहेश्वरम् ॥” (गीता.९-११), “ईशन्नपि महायोगी सर्वस्य जगतः प्रभुः । कर्माण्यारभते कर्तुं कीनाश इव दुर्बलः ॥ तेन वञ्यते लोकान् मायायोगेन केशवः ॥” (भार. उद्यो. ६७-१३) इति । भवताऽपि “आत्मानं मानुषं मन्ये रामं दशरथात्मजम् ।” (रामा. यु. १२०-१०), “अहं वो बान्धवो जातः” (वि. पु. ५-१३-११) इति स्ववाक्येनापि मोहयता सर्वज्ञेन सर्वशक्तिनाऽपीति भावः ।

भवताऽपि बलेनेति त्वद्बलमेव स्वबलमुपादाय त्वत्सेवायां प्रवृत्ताः त्वामपि स्ववशीकृत्य त्वत्तोऽपि बलीयांसो भवन्तीति भक्तानां प्रभावातिशयव्यञ्जनार्थोऽपिशब्दः । निगुह्यमानं नितरां प्र्छाद्यमानम् । पश्यन्ति शास्त्रतः प्रथमं विशदमवग्छन्ति, पश्ाद्योगबलेन साक्षात्कुर्वन्ति ; यथाऽऽह सनत्सुजातः – “योगिनस्तं प्रपश्यन्ति भगवन्तं सनातनम्” इति । केिदिति दुर्लभत्वसूनार्थम् । गीयते (७-१९) हि “स महात्मा सुदुर्लभः” इति । श्रीपौष्करे “दुर्लभा भगवद्योगभाविनो भुवि मानवाः । तद्दर्शनात् तदालापात् सुलभं शाश्वतं पदम् ॥” इति । अनिशं सर्वजनमोहने कलियुगेऽपीति भावः । उक्तं हि भगवता शौनकेन “कलौ कृतयुगं तस्य, कलिस्तस्य कृते युगे । यस्य ेतसि गोविन्दो हृदये यस्य ना्युतः ॥” (विष्णुधर्मे. १०९-५७) इति । त्वदनन्यभावाः त्वदेकविषयित्तवृत्तयः, प्रयोजनान्तरशरण्यान्तरत्यागिन इति भावः । श्रूयते हि “यत्तदद्रेश्यमग्राह्यम्” (मु. १.६.६) इत्यारभ्य “यद्भूतयोनिं परिपश्यन्ति धीराः”, “ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यति निष्कलं ध्यायमानः” (मु. ३.१.८), “नायमात्मा प्रवनेन लभ्यः” इत्यारभ्य “तस्यैष आत्मा विवृणुते तनूं स्वाम्” (कठ. १.२.२३), “तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥” (कठ. १.२.१२) इति । “एष सर्वेषु भूतेषु गूढोऽऽत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः ॥” (कठ. १.३.१२), “स्वाध्यायश्क्षुरुत एकमस्य योगो द्वितीयमभिवीक्षणाय । अध्ययनमनननयनोऽस्य द्रष्टा न मांसक्षुरभिवीक्षते तम् ॥” इति । स्मर्यते – “ये तमेव प्रपद्यन्ते न ते मुह्यन्ति मानवाः ।”, “भक्त्या त्वनन्यया शक्यः अहमेवंविधोऽर्जुन! । ज्ञातुं द्रष्टुं तत्त्वेन प्रवेष्टुं परन्तप ॥” (गीता. ११.५४) इति ॥ १६ ॥

उक्तप्रकारं परिबृढत्वमनितरसाधारणविभूतिमहिम्ना स्थिरीकरोति –

यदण्डमण्डान्तरगोरं यद्दशोत्तराण्यावरणानि यानि

गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म ते विभूतयः ॥ १७ ॥

यदण्डमिति ॥ यत् पितामहोत्पत्तिस्थानतया प्रसिद्धं तुर्दशभुवनावरणहेमकटाहरूपमण्डम् । एकवनमिह समुदायाभिप्रायम्, “अण्डानां तु सहस्राणां सहस्राण्ययुतानि । ईदृशानां तथा तत्र कोटिकोट्ययुतानि ॥” इति (वि. पु. २७.२७) पुराणोक्तेः । अण्डान्तरमेव गोरो यस्य तदण्डान्तरगोरम् उदुम्बरमशकवत् अदृष्टबाह्यप्रदेशम् । अण्डाधिपतिप्रभृति तुर्विधजन्तुजातं तद्भोग्यभोगोपकरणभोगस्थानादिकं । दशोत्तराण्यावरणानि तोयप्रभृतीनि । उक्तं हि “दशोत्तरेण पयसा मैत्रेयाण्डं तद्वृतम् । सर्वोऽम्बुपरिधानोऽसौ वह्निना वेष्टितो बहिः ॥ वह्निश् वायुना, वायुर्मैत्रेय नभसा वृतः । भूतादिना नभस्सोऽपि महता परिवेष्टितः ॥ दशोत्तराण्यशेषाणि मैत्रेयैतानि सप्त वै । महान्तं हि समावृत्य प्रधानं समुपस्थितम् ॥ अनन्तस्य न तस्यान्तस्सङ्ख्यानं ा(वा)पि विद्यते । तदनन्तमसङ्ख्यातप्रमाणं ेति वै यतः ॥ हेतुभूतमशेषस्य प्रकृतिस्सा परा मुने ॥” (वि. पु) इति । य्छब्दानामिह प्रतिनिर्देशो यथार्हमध्याहर्तव्यः । गुणाः बन्धकारणत्वेन तुर्दशाध्याये गीताः सत्त्वादयः प्रकृतिधर्माः । अत्र गुणानां पृथगुक्त्या “साम्यावस्थं गुणत्रयमेव प्रकृतिः” इति साङ्ख्यमतं निरस्तम् । प्रधानं महदादिविकाररहितस्त्रिगुणद्रव्यभागः । अण्डान्तरगोरमिति क्षेत्रज्ञव्यष्टीनामप्युक्ततया पुरुषशब्द इह “दारुण्यग्निर्यथा तैलं तिले तद्वत्पुमानपि । प्रधानेऽवस्थितो व्यापी” इत्यादिभिः प्रकृतिव्याप्तत्वेन प्रतिपादितं क्षेत्रज्ञसमुदायमाह ।

परं पदं – पद्यत इति पदं प्राप्यं स्थानान्तरेभ्यः परं पुनरावृत्तिरहितमप्राकृतं मुक्तिस्थानमित्यर्थः । श्रूयते हि – “यो अस्याध्यक्षः परमे व्योमन्” (तै. ब्रा. २८.२.६), “हिरण्मये परे लोके विरजं ब्रह्म निष्कलम्” (मुण्डके २.२.१०), “पादोऽस्य विश्वा भूतानि । त्रिपादस्यामृतं दिवि” (पुरुषसूक्ते), “ते ह नाकं महिमानस्सन्ते । यत्र पूर्वे साध्यास्सन्ति देवाः” (पुरुषसूक्ते), “यथा पादोदरस्त्वा विनिर्मु्यते एवमिहैव स पाप्मना विनिर्मुक्तः स सामभिरुन्नीयते ब्रह्मलोकम्”, “विज्ञानसारथिर्यस्तु मनःप्रग्रहवान्नरः । सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् ॥” (कठोपनिषत् १.३.९), “स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसंपद्यते न पुनरावर्तते” (छान्दोग्यान्ते) इत्यादि । महाभारते (शान्ति. १९६.६) – “रम्याणि कामारी(रा)णि विमानानि सभास्तथा । आक्रीडा विविधा राजन् पद्मिन्यश्ामलोदकाः ॥ एते वै निरयास्तात स्थानस्य परमात्मनः ।” इति । अपुनरावृत्तिस्थानत्वं ोक्तं – “ज्ञानविज्ञानिनः केित् परं पारं तितीर्षवः । अतीव तत्सदः पुण्यं पुण्याभिजनसेवितम् ॥ तत्र गत्वा न शोन्ति न ्यवन्ति व्यथन्ति ॥” इति । ते तु तद्ब्रह्मणः स्थानं प्राप्नुवन्तीह सात्त्विकाः । नैव ते स्वर्गमि्छन्ति न यजन्ति यशोधनाः ॥ सतां वर्त्मानुवर्तन्ते यथाबलमहिंसया ॥” इति । भगवन्तं प्रति देवा ऊुः – “दिव्यं स्थानमजरं ाप्रमेयं दुर्विज्ञेयं ागमैर्गम्यमाद्यम् । ग्छ प्रभो रक्ष ास्मान् प्रपन्नान् कल्पेकल्पे जायमानः स्वमूर्त्या ॥” इति । आरण्यपर्वणि (१३६.७८.२३) धर्मसुतं प्रति आर्ष्टिषेण आह – “यमाहुस्सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवाम् । अनादिनिधनं देवं प्रभुं नारायणं हरिम् ॥ ब्रह्मणस्सदनात्तस्य परस्थानं प्रकाश(श्य)ते । देवा हि यन्न पश्यन्ति दिव्यं तेजोमयं पदम् ॥ अत्यर्कानलदीप्तं तत् स्थानं विष्णोर्महात्मनः । स्वयैव प्रभया राजन् दुष्प्रेक्षं देवदानवैः ॥ यतयस्तत्र ग्छन्ति देवं नारायणं हरिम् । परेण तपसा युक्ता भाविताः कर्मभिश्शुभैः ॥ योगसिद्धा महात्मानः तमोमोहविवर्जिताः ॥ तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ॥ स्थानमेतन्महाराज ध्रुवमक्षरमव्ययम् । ईश्वरस्य सदा ह्येतत्प्राणमात्रं युधिष्ठिर ॥” इति । एतत् कार्यभगवल्लोकविषयमिति केित् । अपुनरावृत्तिस्थानत्वाक्षय्यत्वादिव्यपदेशात् परमेव पदमित्यन्ये । युधिष्ठिरादिभ्यस्तत्प्रकाशनं तु “व्यासप्रसादा्छ्रुतवान्” (गीता. १८.७५) इतिवदृषिप्रभावादुपपद्यते । शेषमप्यविरुद्धं नेयम् । याज्ञवल्क्यस्मृतौ ोक्तम् – “ओङ्काररथमारुह्य मनः कृत्वा तु सारथिम् । ब्रह्मलोकपदान्वेषी याति विष्णोः परं पदम् ॥” इति । अत्र स्थानवािनां शब्दानां परमात्मस्वरूपपरत्वप्रतिक्षेपायोक्तं षडर्थसङ्क्षेपे “व्यतिरेकाधिकरणनिवासशब्दैः” इति । अस्य स्थानस्याप्राकृतत्वं “क्षयन्तमस्य रजसः पराके” (यजुषि २.२.१२), “आदित्यवर्णं तमसः परस्तात्” (पुरुषसूक्ते) इति रजस्तमोमयप्रकृतिसीमातिक्रान्तत्वश्रुत्या भगव्छास्त्रैश् सिद्धम् । प्रकृतेरेवाक्षराख्यः परिणतिविशेषः ईश्वरस्य मुक्तानां नित्यानां भोगस्थानमिति केिद्वदन्ति । तन्निरासार्थमिह प्रधानपुरुषाभ्यां पश्ात् परमपदस्य पृथगुपादानम् । अयं पक्षः “कालं स पते तत्र न कालस्तत्र वै प्रभुः” (भार. शा. १९६.९) इत्यादिभिश् निरस्तः ।

ान्ये भगवत्स्वरूपमेव वा, तस्य षाङ्गुण्यं वा विित्रशक्तिवशाद्दिव्यलोकत्वेनावस्थितमित्याहुः, तदपि श्रुत्यादिषु पृथगुक्तेर्बाधकाभावत्, अन्यथा निर्विकारत्वश्रुतिविरोधप्रसङ्गा निरस्तमित्यभिप्रायेण ते विभूतय इति प्रधानादिसाधारण्येन व्यतिरेकनिर्देशः । क्विद्विरुद्धनिर्देशास्तु यथार्हमुपारेण नेतव्या इति । परात्परमित्यत्र पञ्म्यन्तः परशब्दः प्रधानात्परतः क्षेत्रज्ञवर्गात्परभूतं मुक्तमाह । प्रथमान्तस्त्वनादिमुक्तजीवजातम् । यद्वा, प्रकृतेः परात् क्षेत्रज्ञात् परमिति बद्धमुक्तनित्यजीवजातस्य सामान्येनोपादानम् । अत्र ब्रह्मशब्देन शुभाश्रयनित्यविग्रह उपर्यते; स्वरूपपरत्वोक्तेरनौित्यात् । इह तु “सालम्बनो महायोगः सबीजो यत्र संस्थिते । मनस्यव्याहते सम्यग्युञ्जतां जायते मुने ॥ स परस्सर्वशक्तीनां ब्रह्मणस्समनन्तरम् । मूर्तं ब्रह्म महाभाग सर्वब्रह्ममयो हरिः ॥” इति वैष्णवपुराणे (१.२२.६३) प्रोक्तम् । तुःश्लोक्यां (४) – “मूर्तं ब्रह्म ततोऽपि तत्प्रियतरं रूपं यदत्यद्भुतम्” इति । अत्र ब्रह्मशब्दोपारनिमित्तं लोकोत्तरबृहत्त्वबृंहणत्वे । कारेण दिव्यभूषणायुधादेरपि संग्रहः । ते सर्वान्तरात्मत्वेन विश्वपतित्वेन श्रुतस्य । विभूतयः नियन्तव्याश्शेषभूताश् । एतेषु द्रव्याणां “न तदस्ति विना यत्स्यान्मया भूतं रारम्” (गीता. १०.३९) इत्युक्तापृथक्सिद्धिमत्तया शरीरत्वेन विभूतित्वम्, अद्रव्याणां तु व्यवहितप्रकारतया । हिरण्यगर्भादीनां तु विशेषतः । सृष्ट्यादित्रयोपयुक्तविभूतित्वं विभज्योक्तं वैष्णवपुराणे (१.२२.३१,३२,३३) – “ब्रह्मा दक्षादयः कालस्तथैवाखिलजन्तवः । विभूतयो हरेरेता जगतस्सृष्टिहेतवः ॥ विष्णुर्मत्वादयः कालः सर्वभूतानि द्विज । स्थितेर्निमित्तभूतस्य विष्णोरेता विभूतयः ॥ रुद्रः कालान्तकाद्याश् समस्ताश्ैव जन्तवः । तुर्धा प्रलयायैता जनार्दनविभूतयः ॥” इति । अत्र विष्णोरेव विष्णुविभूतित्वोक्तिर्विभूति सजातीयस्वावताराभिप्राया । ते विभूतय इत्यनेन त्वद्विभूतित्वं स्वाभाविकं त्वदितरविभूतित्वं त्वदि्छायत्तम्; तथा तद्द्वाराऽपि त्वद्विभूतित्वं सिद्धमेवेति व्यज्यते ॥ १७ ॥

एवं भगवतः परत्वं प्रपञ्ितम्; अनन्तरमाभिगामिकगुणमुखेन सौलभ्यमु्यते –

वशी वदान्यो गुणवानृजुश्शुिर्मुदुर्दयालुर्मधुरः स्थिरः समः ।

कृती कृतज्ञस्त्वमसि स्वभावतः समस्तकल्याणगुणामृतोदधिः ॥ १८ ॥

वशीति ॥ यद्वा, विभूत्यानन्त्यमुक्तम् । अथात्र गुणानन्त्योक्तिः । वशः प्रभुत्वमायत्तत्वं वा, तद्वान् वशी; तथा नैघण्टुकाः “वशो जनस्पृहायत्नेष्वायत्तत्वप्रभुत्वयोः” इति । तत्र प्रभुत्वार्थः “सर्वस्य वशी सर्वस्येशानः” (बृह. ६-४-२२) “जगद्वशे वर्ततेदं कृष्णस्य सरारम् ॥” (सहस्रनामाध्याये) इत्यादिषु प्रसिद्धः । तथा पूर्वश्लोके प्रोक्तं परिबृढत्वं गुणान्तरविधानार्थमनूद्यते । तस्मिन् सति हि वक्ष्यमाणगुणा भृशं शोभन्ते । आयत्तत्वार्थे तु संश्रिताधीनतया सौलभ्यातिशयः कथ्यते । यथाऽऽह स्वयमेव “ये भजन्ति तु मां भक्त्या मयि ते तेषु ाप्यहम् ।” इति, “इमौ स्म मुनिशार्दूल! किङ्करौ समुपस्थितौ” (रामा. बाल. ३१-४) इति । पाण्डवदूतत्वपार्थसारथित्वादिवृत्तान्ताः प्रसिद्धाः ।

वदान्यः “प्रियवाग्दानशीलश् वदान्यः परिकीर्तितः ।”, “अर्थिषु प्रियवादित्वम्”, “उदाराः सर्व एवैते” (गीता ७-१८) “स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य ” (रामा. अर. १६-२७) इत्यादिषु दृष्टम् । स्वात्मपर्यन्तसर्वस्वदानशीलत्वं “य आत्मदा वलदाः” (यजुषि काठके ७-५-३६), “एको बहूनां यो विदधाति कामान्” (कठ. २-५-१३), “एतद्ध्येवाक्षरं ज्ञात्वा यो यदि्छति तस्य तत्” (कठोपनिषत्) इत्यादिषूक्तम् । नारदश् पुण्डरीकं प्रत्याह – “तस्मात्त्वमपि विप्रेन्द्र! नारायणपरो भव । तदन्यः को महोदारः प्रार्थितं दातुमीश्वरः ॥” (इतिहाससमु. ३१-११४) । उक्तं श्रीविष्णुधर्मे – “सकलफलप्रदो हि विष्णुः” इति, “रत्नपर्वतमारुह्य यथा रत्नं नरो मुने! । सत्त्वानुरूपमादत्ते तथा कृष्णान्मनोरथान् ॥” इति । इतिहासोत्तमे “यथा कल्पद्रुमात्सर्वं प्राप्यते मानसेप्सितम् । तथा संप्राप्यते विष्णोरपि स्याद्दुर्लभं द्विज ॥” इति । स्वयमप्याह – “अश्वमेधसहस्राणां सहस्रं यः समारेत् । नासौ पदमवाप्नोति मद्भक्तैर्यदवाप्यते” ॥ इति ।

गुणवान् – गुणशब्दोऽत्र न गुणसामन्यपरः, गुणविशेषमध्यपठितत्वात्; समस्तकल्याणगुणामृतोदधिरिति निगमनेन रितार्थत्वा । अप्रधानविषयत्वं पारिभाषिकगुणपरत्वं सत्त्वादिगुणविशेषार्थत्वं ात्रासङ्गतमयुक्तं । अत उितः कश्िद्गुणविशेषोऽत्र विवक्षितः । गुण्यत इति गुणः अभ्यसनीयः, अनुकूलतमत्वेन शीलनीय इत्यर्थः । ईदृशत्वं सौशील्यस्य गुणान्तरेभ्यः समधिकम् । इदं “महतो मन्दैस्सह नीरन्ध्रसंश्लेषस्वभावत्वम्” । तदेतद्गुहशबरीगोपालादिवृत्तान्तेषु प्रसिद्धम् ।

ऋजुः – आश्रितेषु मनोवाक्कायवृत्तीनामेकरूपतया कौटिल्यरहितः । एतेन विश्वसनीयत्वं व्यज्यते । यथा ाह – “अप्यहं जीवितं जह्यां त्वां वा सीते सलक्ष्मणाम् । न तु प्रतिज्ञां संश्रित्य ब्राह्मणेभ्यो विशेषतः ॥” (रामा. आर. १०-१९), “द्यौः पतेत् पृथिवी शीर्येत् हिमवान् शकलीभवेत् । शुष्येत्तोयनिधिः कृष्णे! न मे मोघं वो भवेत् ॥” इति । आश्रित्छन्दानुगुणावस्थानत्वं वा ऋजुत्वम् ।

शुिः – अपहतपाप्मत्वादिगुणकः । भावशुद्धिर्वा विवक्षिता । सा ाश्रितरक्षणे प्रत्युपकारादिनिरपेक्षता द्रव्यतारतम्यानादरेण भक्तिमात्रप्रसाद्यत्वं वा । यथो्यते – “भक्तैरण्वप्युपानीतं प्रेम्णा भूर्येव मे भवेत् । भूर्यप्यभक्तोपहृतं न मे तोषाय कल्पते ॥” (भगवते १०-८१-३) ॥ “पृथिवीं रत्नसंपूर्णां यः कृष्णाय प्रय्छति । तस्याप्यन्यमनस्कस्य सुलभो न जनार्दनः ॥”, “अन्यद् पूर्णादपां कुम्भादन्यत् पादावनेजनात् । अन्यत् कुशलसंप्रश्नान्न ्छति जनार्दनः ॥” इति । पावनत्वं वा शुित्वम् । यथा “पावनः सर्वभूतानां त्वमेव रघुनन्दन! ।”, (रामा. उत. ८२-९) “पवित्राणां हि गोविन्दः पवित्रं परमु्यते ।”, “पवित्राणां पवित्रं यो मङ्गलानां मङ्गलम् ।” (सहस्रनामाध्याये) “शुिर्भवति संस्मृत्य स्नातो भवति दर्शनात् । प्रणिपातेन पूतात्मा त्रयः कृष्णे महागुणाः ॥”, ” स्नातो वा यदि वाऽस्नातः शुिर्वा यदिवाऽशुिः । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुिः ॥” इति । “अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुिः ॥” इति

मृदुः – सापराधैरपि सहसाऽऽश्रयितुं शक्यः । यथोक्तं – “विदितः स हि धर्मज्ञः शरणागतवत्सलः । तेन मैत्री भवतु ते यदि जीवितुमि्छसि ॥” (रामा. सु. २१-२०), “अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः । न ्छरणमभ्येषि मामुपादाय मैथिलीम् ॥” (रामा. युद्ध.) इति । आश्रितविश्लेषासहत्वं वा मृदुत्वम् । त वक्ष्यति (श्लो. ५६) – “क्षणेऽपि ते यद्विरहोऽतिदुस्सहः” इति । शासनप्रवृत्तस्यापि “सामोपहितया वाा” इति क्रमेण सामप्रधानत्वं वा ।

दयालुः – स्वप्रयोजनान्तरमनपेक्ष्य परदुःखनिराकरणे्छावान् । तदप्यु्यते “आनृशंस्यमनुक्रोशः श्रुतं शीलं दमश्शमः । राघवं शोभयन्त्येते षड्गुणाः पुरुषोत्तमम् ॥” (रामा. अ. ३३-१२) इत्यादिभिः । न ातिदुःखमयविषमसृष्ट्या नैर्घृण्यादिदोषः – “वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथा हि दर्शयति” (ब्र. सू.) इति सूत्रकारैस्तत्प्रतिक्षेपात् । अत एव मोक्षोऽपि कस्यित् कदािदुपपद्यते ।

मधुरः – “रसो वै सः ।” (तै. आन. ७), “आनन्दो ब्रह्म” (तै. आन.), “कं ब्रह्म खं ब्रह्म” (छान्दोग्ये) इत्यादिप्रसिद्धनिरतिशयानन्दस्वरूपः । अत एवोपायदशायामपि माधुर्यमु्यते – “प्रियो हि ज्ञानिनोऽत्यर्थमहं स मम प्रियः ॥” (गीता. ७.७१), “कथयन्तश् मां नित्यं तुष्यन्ति रमन्ति ॥” (गीता. १०.९), “क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम् ॥” (वि. पु) इति । वािकं कायिकं वा माधुर्यम्, “प्रियवादी भूतानां सत्यवादी राघवः ।” (रामा.), “सोमवत्प्रियदर्शनः” (रामा. बाल. १-१८), “रूपौदार्यगुणैः पुंसां दृष्टिित्तापहारिणम् ।” (रामा. अयो. ३-२८), “साक्षान्मन्मथमन्मथः” (भागवते. १०-३२-२) इत्यादिषु प्रसिद्धम् । अत एव जिघांसावस्थायामपि हृद्यत्वं रक्तरुष्टयोर्भीष्मैद्ययोः प्रसिद्धम् ।

स्थिरः – आश्रितापराधैस्तत्प्रदर्शकैरप्यक्षोभ्यः । यथाऽऽह सुग्रीवादीन् प्रति “मित्रभावेन संप्राप्तं न त्यजेयं कथंन । दोषो यद्यपि तस्य स्यात् सतामेतदगर्हितम् ॥” (रामा. यु. १८-३) इति ।

समः – जातिगुणवृत्तादिवैषम्यवतामपि शरण्यत्वे विशेषरहितः । श्रूयते हि “सर्वस्य शरणं सुहृत्” (श्वे. उ. ३-१७) इति । स्मर्यते “सर्वलोकशरण्याय” (रामा. यु. १७-७), “सुहृदं सर्वभूतानाम्” (गीता. ५-२९), “समोऽहं सर्वभूतेषु” (गीता. ९-२९) इति ।

कृती – स्वार्थकर्तव्यविशेषरहितः । तदाह – “न मे पार्थास्ति कर्तव्यम्” (गीता. ३-२२) इति । यद्वा, आश्रितरक्षणेन कृतकृत्यः । तदप्युक्तम् – (रामा. बा. १-८५) “अभिषि्य”, इत्यारभ्य “कृतकृत्यस्तदा” इति । अथवा कृतमुपकारः, “कृतज्ञः” इत्यत्र तथा दृष्टेः; तद्वान् कृती । धर्मप्रवर्तनार्थानुष्ठानवान् वा । द्वेधाऽपि विशेषोपकारकव्यापारवानित्यर्थः । आश्रितेषु विशेषतश् गीयते “योगक्षेमं वहाम्यहम्” (गीता. ९-२२), “ददामि बुद्धियोगं तम्” (गीता. १०-१०) इत्यादि ।

परैरुपकृतं जानातीति कृतज्ञः । उपकारलेशमपि बहुमन्यत इति तात्पर्यम् । तदु्यते – (रामा. अयो. १-११) “न स्मरत्यपकाराणां शतमप्यात्मवत्तया । कथंिदुपकारेण कृतेनैकेन तुष्यति ॥” इति । स्वयं ाह – “गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् । ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥” (भार. उद्यो. ४७-२२) इति । यद्वा कदाित् स्वकृतमाश्रितप्रार्थनाभङ्गं प्राप्तावसरे तदपेक्षितपूरणाय सानुशयो जानातीति कृतज्ञः । तदाह – “शिरसा यातस्तस्य न कृतं वनं मया ।” (रामा. यु. १२४-१९) इति ।

अत्र असीति मध्यमपुरुषेणार्थसिद्धावप्यधिकेन त्वंशब्देन हेमारविन्दपरिमलन्यायात् गुणानां गुण्यधीनोत्कर्षः सू्यते । तदुक्तमभियुक्तैः (वरदराजस्तवे. ११) “गुणायत्तम्” इत्यारभ्य “गुणाः सत्यज्ञानप्रभृतय उत त्वद्गततया शुभीभूयं याता इति हि निरणैष्म श्रुतिवशात् ॥” इति । असीति वर्तमानव्यपदेशः कालभेदेन स्वभावभेदशङ्कानिरासार्थः । स्वभावतः न तु पुण्य(वि)शेषविवर्तपरिणामैरित्याशयः । नित्यानां मुक्तानां गुणास्त्वदधीनाः, तव तु न पराधीना इति भावः । श्रूयते हि “स्वभाविकी ज्ञानबलक्रिया ” (श्वे. उ. ६-८) इति । त्वय्यविद्यमानः कश्ित्कल्याणगुणो नास्तीत्यभिप्रायेण सामान्यतः संगृह्योपसंहरति – समस्तकल्याणगुणामृतोदधिरिति । “समस्तकल्याणगुणात्मकोऽसौ” (वि. पु. ६-५-८४) “तेजोबलैश्वर्यमहावबोध” (वि. पु. ६.५.८५) इत्यादिकमिहानुसन्धेयम् ।

अत्र कल्याणगुणशब्देन निर्गुणश्रुतीनामुूत्सर्गापवादनीत्या हेयगुणविषयत्वसूनात् कल्याणगुणकार्त्स्न्यवना निर्गुणवादः परिमितगुणवादश् निरस्तः । “यथा रत्नानि जलधेरसंख्येयानि पुत्रक! । तथा गुणा ह्यनन्तस्याप्यसंख्येया महात्मनः ॥” (वराहपुराणे. ७४-४०) इत्यादिकं सूयता गुणामृतोदधिरित्यनेन गुणानामपरि्छेद्यत्वं कार्त्स्न्येन भोग्यत्वं व्यज्यते । ब्रह्मस्वरूपवत्तद्गुणानामपि भोग्यत्वं श्रूयते – “सोऽश्नुते सर्वान् कामान् सह । ब्रह्मणा विपश्ितेति ।” (तै. आन. १.२), “य इहात्मानमनुविद्य व्रजन्त्येतांश् सत्यान् कामान्” (छा. उ) इति दहरविद्योक्तन्यायात्कामशब्द इह कल्याणगुणपरः ॥ १८ ॥

उक्तानामसंख्यातानां गुणानां प्रत्येकमनवधिकातिशयत्वमभिप्रेत्याह –

उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतमित्यनुक्रमात् ।

गिरस्त्वदेकैकगुणावधीप्सया सदा स्थिता नोद्यमतोऽतिशेरते ॥ १९ ॥

उपर्युपरीति ॥ “उपर्यध्यधसः सामीप्ये” (अष्टा. ८.१.७), “उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते” (श्लोकवार्तिकम् २.३.२) इत्यनुशासनात् अत्राब्जभुव इति द्वितीया । पञ्मी तु अतसर्थप्रत्ययान्तोपरिशब्दयोगादत्रायुक्ता । षष्ठी ाम्रेडितोपरिशब्दयुक्ते विशेषतो द्वितीयाविधानादिह न ग्राह्या । अब्जभुवः पूरुषानिति प्रकॢप्तिकर्मत्वेन सामानाधिकरण्यं वा । अब्जभूशब्देन “पृष्टः प्रोवा भगवानब्जयोनिः पितामहः” (वि. पु. १.२) इत्यादिप्रसिद्धमौत्पत्तिकवैभवं सू्यते । एतेनानन्दवल्ल्यां प्रजापतिशब्दविवक्षितं व्याख्यातम् । अपिशब्दोऽसंभावितकॢप्तिद्योतकः । हिरण्यगर्भं सार्वभौममनुष्यस्थाने निवेश्य तत्प्रभृतींश्तुर्मुखपर्यन्तानविद्यमानानपि पुरुषान् पूर्वपूर्वापेक्षया प्रकर्षेण कल्पयित्वेत्यर्थः । ते ये शतमित्यनुक्रमात् प्रत्यक्षश्रुतिपठितानुक्रमेणाविद्यमानासंख्यातपाठपर्यायाभ्यूहं कृत्वेति भावः । गिर इत्यनेन यथावदर्थाभिधानसामर्थ्यं सू्यते । “ते ये शतम्” (तै. आन. ८) इत्यादिसमभिव्याहाराद्वेदगिर इति विशेषः सिध्यति । यद्यप्यानन्दवल्ल्यां “सैषाऽऽनन्दस्य मीमांसा” इत्यारभ्यानन्दाख्य एक एव गुणः परि्छेत्तुमशक्य इत्युक्तम्; तथाऽपि “युवा स्यात्” (तै. आन. ८) इत्यादिना गुणविभूतिप्रकर्षनिबन्धनस्यानन्दप्रकर्षस्योपक्रान्ततया परस्मिन्नपि ब्रह्मणि अनन्तगुणविभूतिनिबन्धनस्य तस्य विवक्षितत्वात्, तन्नान्तरीयकतया सर्वगुणानां निरवधिकत्वं सिध्यतीत्यभिप्रायेणाह – त्वदेकैकगुणावधीप्सयेति । अत्र गुणगुणिभेदव्यपदेशात् भगवत्स्वरूपेण भगवद्गुणानामभेदं वदन्तः प्रत्युक्ताः । सामानाधिकरण्यं तु धर्मधर्मिभावादेवोपपद्यते । अन्यथा तन्मतेऽपि स्वयं निरािकीर्षितनिर्गुणवादपरिशेषस्स्यात् । अपिशब्दस्सदा स्थिता इत्यत्र वाऽन्वेति । सर्वदोद्युक्ता अपीत्यर्थः । यद्वा सदा स्थिता गिर इति नित्यतया वक्तृदोषोज्झितत्वं व्यज्यते । तदा प्रकल्प्यापि नोद्यमतोऽतिशेरत इत्यन्वयः । पुनःपुनरुपक्रमावस्थैव परिशिष्यत इति भावः । अत्र “तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात्” (तै. आन. ८) इत्यसंभावितकल्पनयैवोपक्रमः । अतस्समानन्यायतया तादृशकल्पनाप्रवाहेऽपि श्रुतेस्तात्पर्यमुन्नीतम् । पूर्वं (श्लो. ११) नारायणशब्देन संबोधित एवानन्दवल्लीस्थब्रह्मशब्दार्थतयाऽत्र त्व्छब्देन निर्दिश्यते । “स यश्ायं पुरुषे । यश्ासावादित्ये । स एकः ।” (तै. आन.) इति पुरुषवर्तिनः सर्वान्तर्यामिणः सवितृमण्डलमध्यवर्तिपुण्डरीकाक्षपुरुषेणैक्योपदेशश्ात्र विज्ञानमयादप्यर्थान्तरमानन्दमयं विश्वात्मानं नारायणमेव व्यनक्ति ॥ १९ ॥

नन्वेवंविधनिरतिशयानन्दस्य भगवतो न तावत्स्वार्थे जगद्व्यापारः, अपूर्णत्वप्रसङ्गात् । नापि परार्थः; संसारस्य दुःखमयत्वादित्यत्र केनिदाकारेणोभयार्थत्वं विश्वोपकारव्यापारानन्त्यं वदन् पूर्वोक्तगुणप्रकर्षमेव स्थिरीकरोति –

त्वदाश्रितानां जगदुद्भवस्थितिप्रणाशसंसारविमोनादयः ।

भवन्ति लीलाविधयश् वैदिकास्त्वदीयगम्भीरमनोनुसारिणः ॥ २० ॥

त्वदाश्रितानामिति ॥ त्वामाश्रितानां कृते तदभीष्टसिद्ध्यर्थं तद्भोग्यत्वार्थं ेति भावः । एतेन पूर्वोक्तापरिमितगुणविभूतिवैभवस्य भोक्तॄणामभावात् अरण्यन्द्रिकात्वप्रसङ्गोऽपि निरस्तः । जगत्सष्टेः भगवद्भक्तार्थत्वं “सर्वेऽस्मै देवा बलिमावहन्ति” (तै. शिक्षावल्ली), “सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः” (छा. ७.२६.२) इत्यादिश्रुतिभिरभिव्यज्यते । जगदुद्भवस्थितिप्रणाशशब्दाः णिजर्थमन्तर्भाव्य प्रयोजकव्यापारपराः । विश्वोपादानभूतस्य सर्वान्तर्यामिणो जग्छरीरकत्वाकारेणोत्पत्त्यादिकमेव वा विवक्षितम् । अत एव गात्रविक्षेपरूपनृत्तवल्लीलात्वमपि घटते । तेन स्वार्थत्वमपि सिद्धम्। आदिशब्देनानुप्रवेशनियमनादिकमवतरणादिकं गृह्यते । भवन्तीत्यनेन तादृशलीलाया उपपन्नत्वं प्रतिकल्पानुवृत्तत्वं व्यञ्जितम् । अत्र तवेत्यध्याहर्तव्यम् । त्वदिति पद्छेदेन त्वत्तो निमित्तोपादानभूताद्भवन्तीति वा योज्यम् । वैदिकाः विधयः वेदसंबन्धिनो विधिभागाः ।

त्वदीयगम्भीरमनोनुसारिणः – तवैव स्वेतरदुरवगाहाक्षोभ्यसङ्कल्पानुविधायिन इत्यर्थः । यथाऽऽह – “श्रुतिः समृतिर्ममैवाज्ञा” (विष्णुधर्मे ६.३१) इति । एते त्वदाश्रितार्थाः । एवं वा योजना; त्वदाश्रितानां तुर्मुखमुखाश् (श्लो. ८) इति पूर्वोक्तानां ब्रह्मरुद्रादीनामित्यर्थः । जग्छब्द इह यथार्हमण्डान्तर्वर्तितत्तत्कार्यविशेषविषयः । एषां संसारविमोकत्वं “शङ्करस्य तु यो भक्तः सप्तजन्मान्तरं नरः । तस्यैव तु प्रसादेन विष्णुभक्तः प्रजायते ॥”, “त्रिभिः प्रजापतेर्भक्तः सप्तभिः शङ्करस्य तु । विंशत्याऽग्नीन्द्रसूर्यादेः विष्णुभक्तः प्रजायते ॥” इत्यादिन्यायादनुग्रहोपदेशधर्मप्रवर्तनादिद्वारा स्यात् । लीलात्वोक्तिरिह तेषां भगवदनुग्रहेण सृष्ट्यादेः प्रियत्वसुकरत्वसूनार्था । त्वदाश्रितानामप्येवम्, तव तु किं पुनरिति ाभिप्रेतम् । वैदिकविधीनां भगवदाश्रितमनोनुसारित्वं “अथ यदि ते कर्मवििकित्सा वा वृत्तवििकित्सा वा स्यात् । ये तत्र ब्राह्मणाः सम्मर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामास्स्युः । यथा ते तत्र वर्तेरन्, तथा तत्र वर्तेथाः । अथाभ्याख्यातेषु । ये तत्र ब्राह्मणास्सम्मर्शिनः । युक्ता आयुक्ताः । अलूक्षा धर्मकामास्स्युः । यथा ते तेषु वर्तेरन् । तथा तेषु वर्तेथाः । एष आदेशः । एष उपदेशः ।” (तै. शीक्षा.) इत्यादिश्रुतिसिद्धम् । स्मर्यते “श्रुतिस्स्मृतिस्सदाारः”, “वेदोऽखिलो धर्ममूलं स्मृतिशीले तद्विदाम्” (मनुः) इति । विधिशब्द इह वैदिकानुष्ठानपरो वा । पूर्वयोजनायां भगवता धर्मसंस्थापनार्थं क्रियमाणानि वैदिकधर्मानुष्ठानानि ग्राह्याणि ।

नन्विह भगवता परमसाम्यमापन्नानां मुक्तानां जगद्व्यापारादेरुक्तिः किं न गृह्यते? उक्तं हि परमसंहितायां “केन रूपेण भिद्यन्ते मुक्ताः तव शरीरिणः । एतदाक्ष्व मे देव ! गुह्याद्गुह्यतरं परम् ॥” इति ब्रह्मणा पृष्टे प्रत्युक्तम् – “अहमेव भवन्त्येते न भेदः तत्र कश्न । यथाऽहं विहराम्येवं तथा मुक्ताश् देहिनः ॥” इति । अतो मुक्तस्य भगवदैक्यात् जगद्व्यापारादि स्यादिति ेत् – मैवम्; तत्रापि “तव शरीरिणः” (परमसंहिता) इत्यनूदितसर्वशरीरित्वानुगुणमैक्यव्यपदेशस्य श्रुतिस्मृतिसिद्धपरमसाम्यविवक्षया नेतव्यत्वात् । “रामसुग्रीवयोरैक्यम्” (रामा. सुन्दर. ३५.५१) इत्यादिन्याया । अन्यथा “यथाऽहं विहरामि” (परमसंहिता) इत्यादिना दृष्टान्तदार्ष्टान्तिकभावेन भेदव्यपदेशो न घटते । तदिह मुक्तानां विहारसाम्यवनं “जक्षत् क्रीडन् रममाणः” (छान्द्योग्ये) “सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति” (छान्द्योग्ये) इत्युपनिषदुक्तपरि्छिन्नव्यापारविषयम् । तदेव हि तत्रान्तिमे पटले दर्शितं – “सायुज्यं प्रतिपन्ना ये तीव्रभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः” (परमसंहिता ३०.९४) इति । एवं “मुक्तानां जगद्व्यापारे शक्तिरस्ति, तत्प्राप्तिर्नास्तीति पक्षोऽपि न विारार्हः । न हि मुक्तानां सर्वशरीरित्वम्, अश्रुतत्वादनुपपतेश्; तदभावे कथं “बहु स्याम्” (तै. भृगु) इति सङ्कल्पशक्तिः?; तथाविधशक्तिशालिनः तदप्राप्तिश्ात्र दुर्वा । तथैव नित्यानामपि । उक्तं हि भाष्येऽनन्तपदव्याख्याने “सातिशयस्वरूपगुणा नित्या व्यावृत्ताः” (जन्माद्यधिकरणे) इति । अतो यथोक्त एवार्थः ॥ २० ॥

एवं प्रतिपादितप्रकारेण निरुपाधिकस्वामिनि निरपेक्षस्वतन्त्रे निरवधिकसौलभ्ये भगवति स्वात्मनस्स्वरूपनिबन्धनं गुणकृतं दासत्वमनुभवंस्तदुितां वृत्तिमप्यारति –

नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।

नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसिन्धवे ॥ २१ ॥

नमोनम इति ॥ नमस्कारप्रकरणे नमश्शब्द एवं निरु्यते – “याः काश्न कृतयो मम भगवति । न मम ममताऽस्ति तासु । भगवत एव ताः । अममोऽहं भगवति । अहमपि न मम । भगवत एवाहमस्मीत्येवमममतां योजयतीत्यतो नमः ।” (रहस्याम्नायब्राह्मणे) इति । इममेवार्थमभिप्रेत्योक्तं महाभारते (शान्ति. १३.४) “द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्मणः पदम् । ममेति द्व्यक्षरो मृत्युः न ममेति शाश्वतम् ॥” इति । नमस्कारप्रभावश् श्रीविष्णुधर्मादिषु (१.१७,१८) प्रसिद्धः । यथा – “प्रणम्य कृष्णं सहसा पांसुक्लिष्टे महीतले । निष्कल्मषो भवेत्सद्यो ललाटे पांसुमण्डनात् ॥ दुर्गसंसारकान्तारमपारमभिधावताम् । एकः कृष्णनमस्कारो मुक्तितीरस्य देशिकः ॥”, “एकोऽपि कृष्णे सुकृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥” (भार. शान्ति. ४६.११९), “अतसीगु्छ(पुष्प)सङ्काशं पीतवाससम्युतम् । ये नमस्यन्ति गोविन्दं न तेषां विद्यते भयम् ॥” (भार. शान्ति. ४६.११८), “नमस्कारः कृ(स्मृ)तो यज्ञः सर्वयज्ञोत्तमो मतः । नमस्कृत्य महायज्ञमश्वमेधफलं लभेत् ॥”, “प्रणम्य दण्डवद्भूमौ नमस्कारेण योऽर्येत् । स यां गतिमवाप्नोति न तां क्रतुशतैरपि ॥”, “नम इत्येव यो ब्रूयान्मद्भक्तः श्रद्धयाऽन्वितः । तस्याक्षयो भवेल्लोकः श्वपाकस्यापि नारद ॥”, “हरिममरगणार्िताङ्घ्रिपद्मं प्रणमति यः परमार्थतो मनुष्यः । तमपगतसमस्तपापबन्धं व्रज परिहृत्य यथाऽग्निमाज्यसिक्तम् ॥” (वि. पु. ३.७), “एको बहूनि दुरितानि सुदुस्तराणि भक्त्या प्रयुक्त इव क्रधरे प्रणामः” इत्यादिभिः । अत्र नमश्शब्दस्य वीप्सा पुनःपुनरावृत्तिश् “नित्याञ्जलिपुटा हृष्टा नम इत्येव वादिनः” (भार. शान्ति. ३४४.४५) इतिवत् परत्वसौलभ्यानुबन्धिविभूतिगुणानन्त्यानुभवजनितभक्तिप्रकर्षं व्यनक्ति । श्रुत्यादिषु ैवं वीप्सादिकं दृश्यते । आहुश् “प्रशंसायां प्रतिज्ञायां प्रलापे तर्जनेऽपि । भये विजये (विस्मये) ैव पौनःपुन्यमलंकृतिः ॥” इति । वाङ्मनसातिभूमय इत्यादिषु तुर्ष्वपि पूर्वापरसंबुद्ध्यादिसामर्थ्यात् तुभ्यमिति लभ्यते । अतिभूमये अतिक्रान्तभूमय इत्यर्थः । “यतो वाो निवर्तन्ते । अप्राप्य मनसा सह” (तै. आन) “यद्वााऽनभ्युदितम्” इत्यादिष्वभिप्रेतं परमयोगिनामपि वाङ्मनसाभ्यामपरि्छेद्यत्वमिह विवक्षितम् । कुदृष्टिसंमतात्यन्तागोरत्वविवक्षायां श्रुत्यन्तरस्ववनादिविरोधमभिप्रेत्याह – वाङ्मनसैकभूमय इति । श्रूयते हि “सर्वे वेदा यत्पदमामनन्ति” (कठोपनिषत्. १.२.१५), “सर्वे वेदा यत्रैकं भवन्ति” (तै. आर. ३.११.२०) इति । स्मर्यते “वेदैश् सर्वैरहमेव वेद्यः” (गीता. १५.१५) इति, “नताः स्म सर्ववसां प्रतिष्ठा यत्र शाश्वती (अहि. सं) इति । यद्वा, स्वप्रसादभाजां गोपगोपिकादीनामपि वाङ्मनसयोरेकविषयभूतायेत्यर्थः । विषयान्तरवैमुख्यव्यञ्जनार्थमेकपदम् । उक्तं वाङ्मनसातिभूमित्वं स्थापयति – अनन्तमहाविभूतय इति । अनन्ता अनवधिका अत एव ब्रह्मादिविभूतिभ्योऽपि महती विभूतिर्यस्य स तथोक्तः । “नेति नेति” (बृह. ३.४.३.६) इत्यादिनिषेधस्तु “प्रकृतैतावत्त्वं हि प्रतिषेधति” (ब्र. सू. ३.२.२१) इति सूत्रितम् । विभूतिप्रकर्षवनं पूर्वोक्तगुणप्रकर्षस्योपलक्षणम् । अनन्तदयैकसिन्धवे इत्यनेन वा सर्वगुणप्रकर्षोपलक्षणम् । दयानन्त्यमाश्रितानां वाङ्मनसैकभूमित्वे हेतुः । अक्षोभ्यत्वादिविवक्षया सिन्धुशब्दः । स्वभावतस्तावत् दयाया एवासावाश्रयः । एतस्य दैत्यादिनिग्रहीतृत्वमप्याश्रितेषु दयातिशयात् तद्रक्षणविश्रान्तमिति भावः । तदेवमत्र तुर्थ्यन्तैः प्रागुक्तपरत्वसौलभ्यनिगमनं प्राप्यत्वशरण्यत्वसंग्रहश् । अत्र नमश्शब्देन वक्ष्यमाणानन्यप्रयोजनप्रपत्त्यधिकारिणः (प्राप्य)प्राप्तुः परशेषतैकरसस्य तदधीनस्वरूपादिशोधनमपि सिध्यति ॥

अधिकारे प्रपित्सूनामुपायोत्तरकृत्ययोः । फले पारतन्त्र्यादि बोध्यमत्र नमोऽष्टके ॥ ३० ॥

किं, सर्वत्र निवृत्तिधर्मसाधारणापेक्षितं तत्त्वज्ञानं निर्ममत्वं तुर्थ्यन्तैर्नमोभिश् स्थिरीक्रियते । अनुकूलाभिसन्धिः प्रतिकूलनिवृत्तिश्ात्र दृश्यत इति तन्मुखेन तदङ्गिका शरणागतिरप्युपक्षिप्ता भवति ।

अथवा, भरन्यासरूपा प्रपत्तिरेवात्र नम इति संग्रहेण प्रस्तूयते । आवृत्तिरिह “सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमु्यते” (भार. आनु. १७८.११) इत्यादिवदुक्तस्थिरीकरणार्था । नमश्शब्दस्य शरणागतिविषयत्वं दमयन्तीवृत्तान्ते (महाभीरते आर. ४८.१६) व्यक्तम् – “शरणं प्रति देवानां प्राप्तकालममन्यत” इत्युक्तेऽर्थे “वा मनसा ैव नमस्कारं प्रयुज्य सा” (भार. आर. ४८.१६) इत्यभिधानात् । तथा “सर्वेषामेव लोकानां पिता माता माधवः । ग्छध्वमेनं शरणं शरण्यं पुरुषर्षभाः! ॥” (भार. आर. १६१.५६) इति मार्कण्डेयोक्तशरणागतिविषयश् नमश्शव्दः प्रयुज्यते – “एवमुक्तास्त्रयः पार्था यमौ भरतर्षभाः । द्रौपद्या सहिताः सर्वे नमश्क्रुर्जनार्दनम् ॥” (भार. आर. १६१.५६) इति । एतत्प्राशस्त्यं बह्वृा आमनन्ति “यस्समिधो य आहुतयो वेदेन ददाश मर्त्यो अग्नये । यो नमसा (स) स्वध्वरः ॥” (ऋ. सं. ८.१९.५) इति । उपबृंहितं ैतदहिर्बुध्न्येन “समित्साधनकादीनां यज्ञानां न्यासमात्मनः । नमसा योऽकरोद्देवे स स्वध्वर इतीरितः ॥” (आहि. सं. ३७.३७) इति । यद्वा स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रमरहिततया प्रार्थयिष्यमाणपरमफलोपक्षेपार्थोऽयं नमश्शब्दः । अत्र भवत्वित्यध्याहार्यम् । उपायप्रयोगात् पूर्वमेव हि फलार्थित्वम् । एतदुपजीवनेनानन्तरश्लोके फलं न कण्ठोक्तम् । अत्र त्वावृत्तिस्तीव्रभक्त्या त्वरातिशयं नित्यानुवृत्तिं व्यनक्ति ॥ २१ ॥

एवं प्राप्यस्य शरण्यस्य प्राप्तुश् शरणार्थिनः स्वरूपादिषु भगवता प्रकाशिते(षु) तद्विश्लेषमसहमानस्तस्मिन्नेव स्वरूपानुरूपपुरुषार्थविरोधिनिवृत्त्यर्थं स्वाधिकारोितां प्रपत्तिं विशदं प्रयुङ्क्ते –

न धर्भनिष्ठोऽस्मि न ात्मवेदी न भक्तिमांस्त्वरणारविन्दे ।

अकिञ्नोऽनन्यगतिश्शरण्य त्वत्पादमूलं शरणं प्रपद्ये ॥ २२ ॥

न धर्मेति ॥ धर्मे निष्ठा स्थितिर्यस्य स धर्मनिष्ठः; धर्मरूपा निष्ठा यस्येति वा, धर्मे नितिष्ठतीति वा । अहं धर्मनिष्ठो नास्मि यथावस्थितकर्मयोगतत्परिकरानर्ह इत्यर्थः । अत एव न ात्मवेदी न परिशुद्धात्मवेदनशीलः । ज्ञानयोगरूपं तदपेक्षितं वा पुष्कलं ज्ञानं मे नास्तीत्यर्थः । तदुभयाभावादेव न भक्तिमान् “भक्त्या त्वनन्यया शक्यः” (गीता. ११.५४) इत्यादिषूक्ता भक्तिर्मे न विद्यते । अत्र “शरणं त्वां प्रपन्ना ये ध्यानयोगविवर्जिताः । तेऽपि मृत्युमतिक्रम्य यान्ति तद्वैष्णवं पदम् ॥” (ब्राह्मे. ५०) इति ब्राह्मवनमनुसन्धेयम् । त्वरणारविन्दे इत्यनेन पवित्रत्वभोग्यत्वे व्यज्येते । अत्रायं क्रमः – शास्त्रार्थतत्त्वज्ञानतः कर्मयोगः, तेन जितस्वान्तस्य परिशुद्धात्मभावनारूपो ज्ञानयोगः । तद्द्वारा वा साक्षात्कर्मयोगेनैव वा आत्मावलोकनम्; तेन लब्धाधिकारस्य भक्तियोगः । ततस्तत्प्राप्तिरिति ।

अस्मिन् जन्मनि कर्मयोगाभावेऽपि पूर्वजन्मकृतेन ज्ञानयोगस्स्यात् । इदानीं तदुभयाभावेऽपि “जन्मान्तरसहस्रेषु” (इतिहाससमुये. ३१.१२१) इत्यादिप्रतिपादितक्रमेण भक्तियोगस्स्यादित्युत्तरोत्तरनिषेध इत्यपि गमनिका । एवमनन्यसाधनोऽहमित्यभिप्रायेणाह – अकिञ्न इति । यद्वा कर्मयोगादिहेतुभूतगुणक्रियादिसंपादनदौष्कर्याभिप्रायेणाकिञ्नत्वोक्तिः । ईदृशस्य ते किं मया? शरण्यान्तरं प्रयोजनान्तरं वा परिगृह्यतामित्यत आह – अनन्यगतिरिति । शरण्यान्तरप्राप्यान्तररहित इत्यर्थः । उभयत्र हेतुमभिप्रेत्याह – शरण्य त्वत्पादमूलमिति । शरण्येति संबुद्ध्या “मामेकं शरणं व्रज” (गीता. १८.६६) “मामेकमेव शरणमात्मानं सर्वदेहिनाम् । याहि सर्वात्मभावेन यास्यसि ह्यकुतोभयम् ॥” (भागवते ११.१२.१५) इति स्ववाक्यानि सू्यन्ते । तथा “सर्वलोकशरण्याय” (रामा. यु. १७.१७), “शरण्यं शरणं त्वामाहुर्दिव्या महर्षयः” (रामा. यु. १२०.१९) इत्याद्यपि । तथा लैङ्गेऽपि “य एकः पुरुषश्रेष्ठः परमात्मा सनातनः । यस्माद्ब्रह्मा ततस्सर्वं तमाश्रित्यैव मु्यते ॥” इति । पुराणसारसमुये “नान्यं देवमुपासीत विष्णोः परमकारणात् । मायामुत्तर्तुकामो वै मायी यो देवतागणः ॥ न ान्यज्ञानकर्मभ्यां नान्यभक्त्या परं पदम् । प्राप्नोति पुरुषस्तस्मात् तमेव शरणं व्रजेत् ॥” (बोधायनीये) इति । सङ्कर्षणसंहितायां “सर्वधर्मान् परित्यज्य तमेव शरणं व्रजेत् । भगवन्तं वासुदेवं परानन्दविभूतिदम् ॥” इति । जयाख्यसंहितायां “तमेव सर्वभावेन प्रयाहि त्वं महामुने”, “अन्यत्सर्वं परित्यज्य तमेवं शरणं व्रजेत्” इति । विष्वक्सेनसंहितायां “सर्वधर्मान् सर्वकामानैहिकामुष्मिकानपि । सन्त्यज्य विधिना नित्यं षड्विधां शरणागतिम् । आार्यानुज्ञया कुर्या्छास्त्रदृष्टेन वर्त्मना” इति । “कालेष्वपि सर्वेषु (जिन्तन्तेस्तोत्रे. ३.९) इत्यादि प्रसिद्धम् । ततोऽन्यत्र सर्वत्र भयातिशयं व्यञ्जयितुं त्वत्पादमूलमित्युक्तम् । परमप्राप्यस्य तवैव पादमूलं प्रविष्टानामेवापुनरावृत्तिः । अतस्तद्धारणं मे फलमित्यपि सू्यते । अनन्यगतिरित्येतत्सामर्थ्या तत्सिद्धिः । “मुमुक्षुर्वै शरणमहं प्रपद्ये” (श्वे. उ. ६.१८) इति श्रुत्युक्तमाह – शरणं प्रपद्य इति । एतावता स्वनिष्ठावनेन मन्त्रे पूर्वखण्डः शब्दतोऽर्थतश् दर्शितः । प्रपत्तिप्रकरणे शरणशब्द उपायपर इति अहिर्बुध्न्यसंहितायामुक्तम् – (३७.२९) “उपाये गृहरक्षित्रोः शब्दः शरणमित्ययम् । वर्तते सांप्रतं त्वेष उपायार्थैकवाकः ॥” इति ।

प्रपत्तिप्रयोगश्ैवं प्रदर्शितः – (अहि. सं. ३७.३०) “अहमस्म्यपराधानामालयोऽकिञ्नोऽगतिः । त्वमेवोपायभूतो मे भवेति प्रार्थनामतिः । शरणागतिरित्युक्ता सा देवेऽस्मिन् प्रयुज्यताम् ॥” इति । तन्माहात्म्यं ैवं प्रकाशितम् – “अनेनैवं प्रपन्नस्य भगवन्तं सनातनम् । तस्यानुबन्धाः पाप्मानः सर्वे नश्यन्ति तत्क्षणात् ॥ कृतान्यनेन सर्वाणि तपांसि तपतां वर! । सर्वतीर्थास्सर्वयज्ञास्सर्वदानानि तत्क्षणात् ॥ कृतान्यनेन मोक्षश् तस्य हस्ते न संशयः ।” (अहि. सं ३७.३३,३४) इति । सकलफलसाधनत्वं ोक्तम् – “यद्येन कामकामेन न साध्यं साधनान्तरैः । मुमुक्षुणा यत्साङ्ख्येन योगेन (कर्मणा) न भक्तितः ॥ प्राप्यते परमं धाम यतो नावर्तते यतिः । तेनतेनाप्यते तत्तन्न्यासेनैव महामुने! ॥ परमात्मा तेनैव साध्य(द्य)ते पुरुषोत्तमः (अहि. सं. ३७.२५,२६,२७) इति । अत्र “अनन्यसाध्ये स्वाभीष्टे महाविश्वासपूर्वकम् । तदेकोपायता याञ्ा प्रपत्तिश्शरणागतिः ॥” इति भरतमुनिप्रणीतं लक्षणमपि सुसङ्गतम् । इह अनन्यसाध्ये इति प्रपत्तव्यव्यतिरिक्तेन स्वेनान्येन ासाध्यत्वं प्रपत्तव्यस्य साध्यत्वं विवक्षितम् । स्वाभीष्टे इति सुखस्य दुःखनिवृत्तेः तत्साधनानां संग्रहः । तत्र प्रमाणविरुद्धं न फलम् । शरण्यविरुद्धं ानुकूल्यसङ्कल्पादिना न सङ्ग्छते । स्वाधिकारविरुद्धं तु निपुणस्य स्वाभीष्टे इत्यनेन निरस्तम् । उपायलाघवादिभिरकम्पनीयो विश्वासो महाविश्वासः । तदेकोपायताशब्देन पश्ात् स्वयत्ननैरपेक्ष्यं व्यज्यते । “प्रपत्तिश्शारणागतिः” इति पर्यायपाठः । “आनुकूल्यस्य सङ्कल्पः” (अहि. सं. ३७.२८) इत्यादौ तु षाड्विध्योक्तिरङ्गाङ्गिसमुयाभिप्राया । “षडङ्गं तमुपाय ” इत्यत्र षडङ्गत्वोक्तिरष्टाङ्गयोगव्यपदेशवत् । अन्यथा “निक्षेपापरपर्यायो न्यासः पञ्ाङ्गसंयुतः” (लक्ष्मीतन्त्रे. १७.७६) । “प्रपत्तिं तां प्रयुञ्जीत स्वाङ्गैः पञ्भिरावृताम्” (ल. त. २८. ११) इत्यादिभिर्विरोधप्रसङ्गात् । “शाश्वती मम संसिद्धिरियं प्रह्वीभवामि यत् । पुरुषं परमुद्दिश्य न मे सिद्धिरितोऽन्यथा ॥ इत्यङ्गमुदितं श्रेष्ठं फलेप्सा तद्विरोधिनि ।” (अहि. सं. ५२.१३) इत्यहिर्बुध्न्योक्तमङ्गान्तरं तु निःश्रेयसार्थप्रपत्तिनियतम् । अङ्गिनश्ात्र भरन्यासरूपत्वम् “आत्मात्मीयभरन्यासो ह्यात्मनिक्षेप उ्यते” (ल. त. १७. ७९) इति निर्धारितम् ।

तदिह पूर्वश्लोकस्थनमःप्रयोगेणानुकूल्यसङ्कल्पप्रातिकूल्यवर्जने दर्शिते । न धर्मनिष्ठ इत्यादिभिरकिञ्नाधिकारत्वं कार्पण्यरूपमङ्गं । (अहि. सं. ३७.२८) “रक्षिष्यतीति विश्वासः” तु शरण्येति संबुद्ध्या व्यज्यते । रक्षणसमर्थः कारुणिकश् शरण्यः । स प्रपन्नं मां रक्षिष्यतीति विस्रम्भणीयः । सोपसर्गधातुविशेषश्ात्राध्यवसायवैशिष्ट्यं व्यनक्ति । त्वत्पादमूलं शरणं प्रपद्य इत्यनेनैव गोप्तृत्ववरणात्मनिक्षेपौ सिद्धौ । प्रार्थनान्वितो हि भरन्यासः प्रपत्तिः, [र]भिक्षादिमात्रप्रार्थनायामाज्ञादिपूर्वकभरन्यासे प्रपत्तिशब्दप्रयोगदर्शनात् । न ात्र गुरुलघुविकल्पानुपपत्त्या प्रपत्तेर्भक्त्यङ्गत्वं शङ्कनीयम् । स्नानादिविकल्पवदधिका(रि)रभेदेन व्यवस्थापनात् ॥

प्रणवादिनयादत्र प्रपत्तेस्तत्त्ववेदिभिः । यथाधिकारमङ्गत्वं स्वतन्त्रत्वं दर्शितम् ॥ ३१ ॥

अत्र प्रपद्य इति वर्तमानव्यपदेशश् “बर्हिर्देवसदनं दामि” इत्यादिवदनुष्ठानकालाभिप्रायः ॥ २२ ॥

अथ सप्त श्लोकाः प्रस्तुतोपायप्रयोगस्थिरीकरणार्थाः । तेषु क्रमात्परस्य सर्वविरोधिनिवर्तनोितगुणविशेष(वत्वं)त्वं, रक्ष्यरक्षकयोरितरेतरलाभः, स्वपरित्यागे परस्यानिष्टप्रसङ्गः, स्वस्यानन्यगतित्वेन तत्प्रहाणानर्हत्वं, शरण्यस्य भोग्यतमत्वेन प्रयोजनान्तरवैमुख्यम्, उपायस्य सौकर्यं, स्वादुतमत्वं तात्पर्यतः स्थाप्यते । तत्रादिमे यद्यप्येवमुपायपरम्परा नास्ति, तथाऽप्यपाया न सन्ति ेत् तदवलम्बनेन क्रमात्कर्मयोगादीनुत्पाद्य मोक्षफलं लभस्व । किं तदर्थं प्रपत्त्येत्यत्र स्वस्याकिञ्नत्वमेव स्थिरीकरोति –

न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।

सोऽहं विपाकावसरे मुकुन्द! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ॥ २३ ॥

न निन्दितमित्यर्धेन ॥ निन्दितं गर्हितम् । “यत्त्वार्याः क्रियमाणं प्रशंसन्ति स धर्मः, यद्गर्हन्ते सोऽधर्मः” इत्यापस्तम्बः । अत्र निन्दितशब्देन काम्यकर्मापि संगृह्यते; मुमुक्ष्वपेक्षया तस्यापि निन्दितत्वात् । लोके सर्वस्मिन् संसारिजने । अथवा लोक्यते अनेनेति लोकः – प्रमाणं तस्मिन्, नास्ति अप्रामाणिकमित्यर्थः । अत्र शास्त्ररूपप्रमाणविशेषविवक्षा । सहस्रश इत्यसङ्ख्यातावृत्तिपरम् । “शतं सहस्रमयुतं सर्वमानन्त्यवाकम्” इति पठन्ति । यत् शरणागतपरित्यागाद्यपि; तदपि वेदनिन्दितम् । यथाऽऽह मनुः (११.१९८) – “शरणात्तं परित्यज्य वेदं विप्लाव्य द्विजः । संवत्सरं यवाहारस्तत्पापमवसीदति ॥” इति । “बालघ्नांश् कृतघ्नांश् विशुद्धानपि धर्मतः । शरणागतहन्तॄंश् स्त्रीहन्तॄंश् न संवसेत् ॥” (मनु. ११.१९०) ॥ इति । रघुश् राक्षसं प्रत्याह – “शक्तोऽपि रक्षणे लोभात् भयाद्वा शरणागतम् । यस्त्यजेत् पुरुषो लोके ब्रह्महत्यां स विन्दति ॥ प्रायश्ित्तेन शुद्ध्यन्ति महापातकिनोऽपि (हि) ये । शरणागतहन्तॄणां शुद्धिः क्वापि न विद्यते (सिध्यति) ॥ पूयन्ते हयमेधेन महापातकिनोऽपि हि । शरणागतहन्तारो न त्वेव रजनीर! ॥” इति । “अपि ेत्सुदुराारः केनापि नरकात् पुमान् । मु्यते न तु पापात्मा शरणागतहिंसकः ॥” इत्यादि । ब्रह्मणा गीतम् – बृहस्पतिरुवा – “न ास्य बीजं रोहति रोहकाले न ास्य वर्षं वर्षति वर्षकाले । भीतं प्रपन्नं प्रददाति शत्रवे न सोऽन्तरं लभते त्राणमि्छन् ॥ मोघमन्नं विन्दते () अप्रेताः स्वर्गाल्लोकान्नश्यति भ्रष्टेष्टः (ताः) । भीतं प्रपन्नं प्रददाति शत्रवे सेन्द्रा देवाः प्रहरन्त्यस्य वज्रम् ॥” (भार. उद्यो. १२. १९,२०) इति । एवं “शास्त्रेषु निष्कृतिर्दृष्टा महापातकिनामपि । शरणागतहन्तुस्तु न दृष्टा निष्कृतिः क्वित् ॥ लोभाद्वेषाद्भयाद्वाऽपि यस्त्यजे्छरणागतम् । ब्रह्महत्यासमं तस्य पापमाहुर्मनीषिणः ॥” (इतिहाससमुये ४.१८,१९) ॥ इत्यादि द्रष्टव्यम् । आह रघुपतिरभयप्रदानप्रकरणे – (रामा. यु. १८.२६,२७,२८,२९,३०,३१) “ऋषेः कण्वस्य पुत्रेण कण्डुना परमर्षिणा । श्रृणु गाथां पुरा गीतां धर्मिष्ठां सत्यवादिना ॥ बद्धाञ्जलिपुटं दीनं यान्तं शरणागतम् । न हन्याानृशंस्यार्थमपि शत्रुं परन्तप ॥ आर्तो वा यदि वा दृप्तः परेषां शरणागतः । अरिः प्राणान्परित्यज्य रक्षितव्यः कृतात्मना ॥ स ेद्भयाद्वा लोभाद्वा कामाद्वाऽपि न रक्षति । स्वया शक्त्या यथासत्यं तत्पापं लोकगर्हितम् ॥ विनष्टः पश्यतस्तस्य रक्षिणश्शरणागतः । आदाय सुकृतं तस्य सर्वं ग्छेदरक्षितः ॥ अस्वर्ग्यं ायशस्यं बलवीर्यविनाशनम् ॥” इति । एवंविधशरणागतपरित्यागाद्यपि यन्मया न कृतं तन्नास्ति । मया – रागादिदूषितित्तेन भोगमरुकान्तारपान्थेनेति भावः ।

एवमनन्तप्रतिबन्धकाक्रान्तस्वावस्थामनुवदन् भगवतोऽशरण्यशरणत्वं स्वाध्यवसितमुत्तरार्धेन व्यनक्ति – सोऽहमिति । अद्यापि तादृशस्वभावः प्रायश्ित्तावसरे त्वोदितेषु तत्तत्प्रायश्ित्तेष्वप्रवृत्तस्तदि्छाधिकारशकनानुशयानभिज्ञश्ेति भावः । संप्रति विपाकावसर इत्यन्वयः । प्रायश्ित्तकालातिक्रान्तौ दुर्निवारोद्गमानां फलानां भोगादन्येन क्षपयितुमशक्यावस्थायामित्यर्थः । मुकुन्द! – प्रपन्नानामनादिप्रवृत्तमपराधजातमनादृत्य मुक्तिभूमिप्रद । यथोक्तं श्रीसात्त्वते – (१६.२३,२४) “दुराारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा । समाश्रयेदादिदेवं श्रद्धया शरणं यदि ॥ निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ॥” इति । श्रीपुण्डरीकोपाख्याने (इतिहाससमुये ३१.१२९) “अश्वमेधशतैरिष्ट्वा वाजपेयशतेन । न प्राप्नुवन्ति सुगतिं नारायणपराङ्मुखाः ॥ ये नृशंसा दुरात्मानः पापााररतास्तथा (सदा) । तेऽपि यान्ति परं धाम (स्थानं) नरा नारायणाश्रयाः (श्रिताः) ॥” इति । क्रन्दामि – आक्रोशामि । अनेन “गोविन्देति यदाक्रन्दत् कृष्णा मां दूरवासिनम् । ऋणं प्रवृद्धमिव मे हृदयान्नापसर्पति ॥” (भार. उद्यो. ४७.२२) इति शरण्यवाक्यं सू्यते । अगतिः – पुण्यविपाकादपि भृशं भीततया (श्लो. २२) पूर्वोक्तानन्यगतिः । “तस्मादपि वध्यं प्रपन्नं न प्रतिप्रय्छन्ति” (यजुषि) इति सर्वेषां शरण्यानां सामान्यतः प्राप्तम्, किं पुनः “विभीषणो वा सुग्रीव! यदि वा रावणः स्वयम्” (रामा. यु. १८.३५) इत्यादिवादिनो भवत इत्यभिप्रायेणाऽह – तवेति । अग्रे विश्वसाक्षात्कारिणस्तव सार्वत्रिकसन्निधावित्यर्थः । सविग्रहस्य वा शरण्यस्याभिमुख्यमिहाभिप्रेतम् ॥ न ह्यसमर्थानामकारुणिकानां सन्निधौ विपन्नैराक्रोष्टव्यमिति भावः । यद्वा, संसारतन्त्रवाहितया पुण्यपापफलप्रदातुस्त्वत्त एव भीतस्त्वदग्रे क्रन्दामि । रागानुवृत्तिहेतुभूतपुण्यफलाद्भीतिरधिकमाक्रोशकारणम् । अथवा, भक्तियोगमनुष्ठाय तत्फलमलब्धवानिव युक्तदण्डस्य तवाग्रे आक्रोशनेनाप्यपराध्यामीति भावः ।

एवं पूर्वश्लोके सपरिकरोपायान्तराभाव उक्तः । अत्र तु तन्निदानमपायबाहुल्यमनुसंहितम् । शरण्येत्युक्तं मुकुन्देत्यनेन स्थापितम् । तदिह दुर्विषहसंसारनिवर्तनोपायनैराश्यजनितशोकाविष्टः शरण्यगुणाध्यवसायवानपवर्गार्थप्रपत्त्यधिकारीति दर्शितं भवति । तथा ोक्तम् – “अहं भीतोऽस्मि देवेश! संसारेऽस्मिन् भयावहे । त्राहि मां पुण्डरीकाक्ष! न जाने शरणं परम् ॥” (जितन्ते १.८) “वृथैव भवतो याता भूयसी जन्मसन्ततिः । तस्यामन्यतमं जन्म संिन्त्य शरणं व्रज ॥” (व्यासोक्तिः), “अथ पातकभीतस्त्वं सर्वभावेन भारत! । विमुक्तान्यसमारम्भो नारायणपरो भव ॥” (विष्णुधर्मे ६६. ७२), सर्वयोग्यमनायासमप्रमादमनूपमम् । प्रणतार्तिहरं विष्णुं शरणं गन्तुमर्हसि ॥” इत्यादि ॥ २३ ॥

नन्वनादौ संसारे संप्रति केन विशेषेणाक्रन्द्यत इत्य(त्रा)नन्यगतिश्शरण्येत्युभाभ्यां सूितं रक्ष्यरक्षकयोरितरेतरलाभप्रतिबोधस्याद्यतनत्वमाह –

निमज्जतोऽनन्त भवार्णवान्तश्िराय मे कूलमिवासि लब्धः ।

त्वयाऽपि लब्धं भगवन्निदानीमनुत्तमं पात्रमिदं दयायाः ॥ २४ ॥

निमञ्जत इति ॥ अनादिप्रवृत्तनिमज्जनमिदानीमप्यनुपरतमित्यभिप्रायेण वर्तमाननिर्देशः । अनन्त – स्वरूपरूपगुणविभूतिभिरपरि्छेद्य । सर्वत्र सर्वदा सन्निहिते हि त्वयि, “एष ब्रह्म प्रविष्टोऽस्मि ग्रीष्मे शीतमिव ह्रदम् । शाम्यामि परिनिर्वामि सुखमासे सर्वदा ॥” इत्युक्तं निमज्जनं सर्वेषामनन्यशरणानां प्राप्तम् । अहं तु भवार्णवे निमज्जामि । यद्वा, अनन्तत्वं भवार्णवविशेषणम् । निवर्तकस्य तव माहात्म्यमिव निवर्तनीयः संसारोऽपि मे निरवधिरिति भावः । भवस्यार्णवत्वरूपणेन “संसारार्णवमग्नानां विषयाक्रान्तेतसाम् । विष्णुपोतं विना नान्यत् किञ्िदस्ति परायणम् ॥” (विष्णुधर्मे. १-५९), “संसारसागरं घोरम्” (जितंते. १.४) इत्यादिप्रमाणानि सू्यन्ते । सनकादिवन्न तीरासन्नप्रदेशस्थोऽहमित्यभिप्रायेण अन्तश्शब्दः । इतःपूर्वमनादौ काले न लब्ध इति निर्वेदाभिप्रायेणाद्यतनलाभसन्तोषाभिप्रायेण वा िरायेत्युक्तम् । मे – कर्मणः प्रवाहैरितःपूर्वमुत्तारोपायानभिज्ञस्य मम । “मामेकं शरणं व्रज” (गीता. १८.६६) इति वादिनं त्वामुपेक्षितवतः इदानीमपि मज्जनहेतूनार्जयतः त्वयैव त्वदाश्रयणाय सङ्कल्पितस्येति भावः । अत्र मे लब्ध इति संबन्धसामान्ये षष्ठी । मे कूलमिवेति वाऽन्वयः । अर्णवान्तर्निमज्जतः कूलमिवेत्याश्र्यपरम् । अनन्तत्वात् तत्राप्यसौ सन्निहित इति शरण्यसौलभ्यव्यञ्जनं । लब्धोऽसि – उपायतया लब्धव्यशेषं नास्ति, न लब्धस्य प्र्युतिरिति भावः । न केवलं ममैव लाभः; किन्तु त्वयाऽपि लब्धं सर्वसमत्वसंरक्षणाय सदाार्यवीक्षणादिव्याजविशेषापेक्षिणा तत्संपत्तिसन्तुष्टेनेति तात्पर्यम् । अत्र भगवन् इति संबुद्ध्या तस्यैकस्यैव सर्वहितवेदित्वं तन्निष्पादनशक्त्यादिकं व्यज्यते । ज्ञानबलादिपूर्णस्य तव पुनरयं महोदयलाभः । ततश् त्वमेव वेत्सि त्वयाऽपि दुरपह्नवमिति । इदानीम् – नाथमुनिप्रभृतिसद्गुरुसमीक्षणदशायामित्यर्थः । अयं ापर्यनुयोज्यानादिसामग्रीप्रवाहानुगुण्येन त्वयैव सङ्कल्पितः काल इत्याकूतम् । एकवनान्तानुत्तमादिशब्दैर्दयापात्रस्य निस्समाभ्यधिकत्वं सू्यते । समसद्भावेऽप्यधिकनिषेधमात्रं वा विवक्षितम् । पात्रं विषयः । वाङ्मनसापरि्छेद्यानन्तापराधिनमात्मानमिदमिति साभिनयं निर्दिशति । एतत्परित्यागे कस्मिन् विषये तव दयादिगुणजातं रितार्थं स्यात्, न ह्यतोऽधिकः कृपाविषयोऽस्ति । “अपि कश्िन्मुमुक्षुः स्यात्” इति हि त्वत्कृपा जगज्जनयति । अतस्त्वत्प्रपत्तेरन्यन्न मे कर्तव्यमस्ति । आक्रन्दनमप्येतत् अरतिमात्रकृतम् । तव तु स्वीकृतभरस्य “मोक्षयिष्यामि” (गीता. १८.६६) इति स्वेनैवोक्तं कर्तव्यमवशिष्यत इति भावः ॥ २४ ॥

अथ स्यात् – परतन्त्रस्य शेषभूतस्य स्वतन्त्रस्वाम्यभीष्टविनियोगः सोढव्यः । अन्यथाऽपि दुर्निवारश् । किं “हरिर्दुःखानि भक्तेभ्यो हितबुद्ध्या करोति हि । शस्त्रक्षाराग्निकर्माणि स्वपुत्राय यथा पिता ॥”, “परीक्षां जगन्नाथः करोत्यदृढेतसाम्” (विष्णुधर्मे ७४.८९), “यस्यानुग्रहमि्छामि तस्य वित्तं हराम्यहम् । बान्धवैश् वियोगेन सदा भवति दुःखितः ॥ तेन दुःखेन सन्तप्तो यदि मां न परित्यजेत् ॥ तं प्रसादं करिष्यामि यत्सुरैरपि दुर्लभः ॥” (भागवते) इत्यपि स्मर्यते । अतस्स्वकर्मविपाकः क्षन्तव्यः, किं क्रन्दितेन? इत्यत आह –

अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखम् ।

किं तु त्वदग्रे शरणागतानां पराभवो नाथ! न तेऽनुरूपः ॥ २५ ॥

अभूतपूर्वमिति ॥ इतः पूर्वं सञ्जातेभ्यो विलक्षणमित्यर्थः । मम “अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः । ईश्वरप्रेरितो ग्छेत्स्वर्गं वा श्वभ्रमेव वा ॥” (भार. शा. १२.३६) इत्युक्तस्वभावस्य गर्भजन्मजरामरणनरकादिदुःखक्रमध्यवर्तिनः । भावि – भविष्यत् । किंशब्दः क्षेपार्थः । वाकारः स्वानभ्युपगतसोढव्यत्वपक्षान्वारोहार्थः । तेनासह्यत्वाभिप्रायमन्तर्धायाह – सर्वं सह इति । कर्मपरतन्त्रतया यथापूर्वमनुभूतजातीयं सर्वं दुःखमनुभविष्यामि । मे सहजं हि दुःखम् अनर्थपर्यन्तापुरुषार्थसक्तस्य मम कर्मप्रवाहैरात्मस्वरूपानुबन्धिवदपरिहार्यमित्यर्थः । तथाऽप्यन्यदसह्यमापतिष्यतीत्यभिप्रायेणाह – किंतु इति ।

त्वदग्रे अपारकारुण्यस्य सर्वत्र सन्निहितस्य सर्वस्वामिनः सर्वशक्तेः तव सन्निधौ । शरणागतानामिति बहुवनमन्येष्वपि प्रपन्नेष्वयमेव न्याय इति द्योतनार्थम् । मत्परिभवस्त्वदेकान्तिनां सर्वेषां ित्तक्षोभहेतुरिति वाऽभिप्रेतम् । पराभवः कर्मभिः कामक्रोधादिभिरिन्द्रियैर्विषयैश् घोरैः त्वद्विमुखीकरणम् । नाथेति संबुद्ध्या भगवतो भरस्वीकारयोग्यत्वं, स्वस्य सनाथत्वेन निर्भरत्वं व्यनक्ति । उक्तं हि युधिष्ठिरकार्यार्थं बलभद्रं प्रति सात्यकिना – “ये नाथवन्तो हि भवन्ति लोके ते नात्मकर्माणि समारभन्ते । कार्येषु तेषां प्रभवन्ति नाथाश्शैब्यादयो राम! यथा ययातेः ॥” (भार. आर. ९६. २) इति । भगव्छास्त्रे “प्रपन्नश्ातको यद्वत्प्रपत्तव्यः कपोतवत् । रक्ष्यरक्षकयोरेतल्लक्ष्यं लक्षणमेतयोः ॥” इति । स्वतन्त्रस्याकर्मवश्यस्य मे शरणागतपरित्यागेऽपि को दोष इत्यत्राह – न तेऽनुरूप इति । ते “स्थिते मनसि (वराहरमश्लोकः), “सकृदेव (रामा. यु. १८.३३), “सर्वधर्मान्” (गीता. १८. ६६) इत्यादिवादिनः । नानुरूपः न तद्युक्तम् । “रामो द्विर्नाभिभाषते” (रामा. अयो. १८. ३०), “अनृतं नोक्तपूर्वं मे न वक्ष्ये कदान” (रामा.) इत्यादिस्ववनविरोधप्रसङ्गात् । ततश् “तस्य नाम महद्यशः” (तै. ना. १.१.२) इति श्रुतिसिद्धवैपरीत्यं स्यात् । अतो मया सहजदुःखभाजनेन सर्वमपि दुःखं सोढुं शक्यम् । त्वया तु नित्यनिरवद्येन दोषप्रसङ्गो न सोढव्य इत्यनिष्टलाभस्ते मत्तोऽप्यतिरि्यते । मम स्वाम्यवद्यप्रसङ्गोऽनिष्टतमः । तस्मान्मद्रक्षणेन द्वयोरनिष्टपरिहारस्त्वयैव कार्य इति भावः । तदिदं व्याजमात्रेण स्वार्थं “रक्षिष्यतीति विश्वास”दार्ढ्यव्यञ्जनपरम् । शेषभूतस्य स्वलाभकथनं स्वार्थप्रार्थनं ायुक्तमिति शङ्का प्रधानभूतपरलाभोक्त्या परावद्यप्रसङ्गपरिहारप्राधान्येन निरस्ता ॥ २५ ॥

अस्त्वेवं प्रतिबुद्धस्य तव मदवलम्बनम्, तथाऽपि मदनुगृहीतेन त्वया सर्वेषां पापानां क्रमात्प्रतिपदोक्तानि प्रायश्ित्तानि क्रियन्ताम् । पुण्यक्षयार्थं भोगाश् भुज्यन्ताम् । मत्स्वभावश्ैवं प्रसिद्धः “शरीरारोग्यमर्थांश् भोगांश्ैवानुषङ्गिकान् । ददाति ध्यायतां (ध्यायिनां) नित्यमपवर्गप्रदो हरिः ॥” (विष्णुधर्मे. ७४.४३) इति । अतः “भुक्त्वा भोगान्विपुलान् (लक्ष्म्यष्टोत्तरशतनामस्तोत्रान्ते फलश्रुतिश्लोकः) इत्यादिक्रमेण मुक्तिं प्राप्स्यसीति भगवतोऽभिप्रायमाशङ्क्य पूर्वोक्तमनन्योपायत्वमनन्यप्रयोजनत्वं ानन्तरश्लोकद्वयेन प्रपञ्यिष्यन् स्वस्य भगवत्पदप्राप्तौ विलम्बाक्षमत्वं विज्ञापयति –

निरासकस्यापि न तावदुत्सहे महेश! हातुं तव पादपङ्कजम् ।

रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्रणौ जिहासति ॥ २६ ॥

निरासकस्येति ॥ पूर्वं दुःखस्य स्वतः प्रतिकूलतया दुस्सहत्वेन हेयत्वमुक्तम् । अनयोस्तु परमपुरुषार्थप्रतिकूलतया सुखस्यापि हेयत्वमु्यत इति विशेषः । निरासकस्य निरङ्कुशस्वातन्त्र्यात् स्वावद्यं सोढ्वाऽपि क्षुद्रैरुप्छन्दनैर्मां प्रतार्य मदभिमतमप्रदायान्यत्र प्रेरयितुमि्छत इति भावः । अपिशब्देन दयापरवशस्त्वं दीनस्य मम निरासे कथं क्षम इति व्यज्यते । ताव्छब्दोऽवधारणार्थः । नोत्सहे – न शक्नोमीत्यर्थः । महेश! संभावितस्वपदभ्रंशानामपूर्णानां त्वदन्येषां हि स्वाश्रितेष्वसूयोपेक्षादिस्स्यात् – यथेन्द्रादीनां ययातिप्रभृतिषु । भवतस्तु निरुपाधिकस्वामित्वस्वातन्त्र्यवतः निरवधिकदयाम्बुधेर्मामीदृशीमवस्थां प्रापयतो मन्निरसने हेतुर्नास्ति । मम त्वामेकमेव सर्वेश्वरमधिग्छतो न हि त्वत्परित्यागे कारणमस्तीति भावः । मातुरिति वक्ष्यमाणपदस्थाने महेशशब्दः । तेन “मता पिता भ्राता” (सुबालोपनिषत्. ६) इत्यादिश्रुतिप्रसिद्धस्वभावसूनम् । हातुमित्यत्र उपायतया फलतयेति योज्यम् । तदुभयं तव पादपङ्कजमित्युभाभ्यां सू्यते । सर्वभूतसुहृदः संसारनिवृत्त्युपायभूतस्य भवतो देवदानवसामान्यदैवतं निरवधिकभोग्यं पादपद्ममिति भावः ।

उक्तमर्थं सर्वलोकसंमतार्थान्तरनिदर्शनेन स्थापयति – रुषेति । अपिशब्द इह स्वतो निरासानर्हत्वं स्तनदंशनादिजनितक्रोधलेशवशात् कदाित् तत्संभवं द्योतयति । शिशुः स्तनन्धय इति पदाभ्यां स्वरक्षणे स्वयमसमर्थस्य बालस्य तदेकरक्ष्यत्वं तदेकाधीनजीवनत्वं सू्यते । जातु – क्रोधदशायां प्रसाददशायां ेति भावः। मातुरित्यनेन सर्वदोषप्रसहनानुगुणवात्सल्यं व्यज्यते । रणौ इत्यत्र निरासाय विनियुक्तावपीति काक्वा ग्राह्यम् । हातुमि्छाऽपि न संभवति, किमुत हानमित्यभिप्रायेण सन्प्रयोगः ॥ २६ ॥

ननु नासौ निरासः यत् प्रजापतिप्रभृतिभोगेभ्योऽतिशयितभोगप्रदानम्; मा भूद्वा केवलभोगपरता; इदानीं मद्दत्तभोगान् भुङ्क्ष्व; पश्ान्मोक्षमपि दास्यामीति भगवतोऽभिप्रायमुत्प्रेक्ष्य, विलम्बाक्षमः प्राप्यतया हातुमशक्यत्वं विवृणोति –

तवामृतस्यन्दिनि पादपङ्कजे निवेशितात्मा कथमन्यदि्छति ।

स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ॥ २७ ॥

तवामृतेति ॥ तव “रसो वै सः”, (तै. आन.), “सर्वगन्धः सर्वरसः” (छान्दोग्ये), इत्यादिषु सर्वप्रकारनिरतिशयभोग्यतया प्रसिद्धस्य सर्वस्वामिनः । अमृतस्यन्दिनि मोक्षप्रदे भोग्यतमतया श्रुतिस्मृतिप्रसिद्धे । निवेशितात्मा रक्षणोन्मुखेन “ददामि बुद्धियोगं तम्” (गीता. १०. १०) इत्यादिवादिना त्वयैव दृढावस्थापितबुद्धिरित्यर्थः । तस्मादितः परं पुरुषार्थान्तरे मनो निवेशयितुं न शक्यमिति भावः । अत्र सामान्यनिर्देशस्त्वत्प्रसादविषयभूतानां मादृशानां सर्वेषां साधारणोऽयं स्वभाव इति ज्ञापनार्थः । त्वत्पादपद्मे मनो निवेशयन् त्वमेवात्र परिोदनीय इत्यभिप्रायेण कथंशब्दः । अन्यत् अल्पमस्थिरमनर्थमि्छताऽती्छानिवृत्तिवनात् तदर्थप्रवृत्तिरप्यत्र निरस्ता भवति ।

उक्तमर्थं निदर्शनेन द्रढयति – स्थितेऽरविन्द इति । भोक्तॄणामक्लेशेन भोग्यतमतयोपस्थितवतीत्यभिप्रेतम् । अरविन्दशब्द इह सुरभित्वसुखस्पर्शत्वादिव्यञ्जकः । प्रथमविकसितावस्थामभिप्रेत्याह – मकरन्दनिर्भर इति । मधुव्रतशब्देन तदेकजीवनत्वम्, तत्रापि सारतमग्राहित्वं व्यज्यते । स्वाभिमतविपरीतैरुप्छन्दनोपदेशतर्जनादिभिर्दुर्निवारत्वं सूयितुं तिर्यग्दृष्टान्त उक्तः । इक्षुरकं – कण्टकावृतमस्थिरात्यल्परसं भ्रमरस्पर्शमात्रेऽपि म्लानतामश्नुवानं देवार्नाद्यनर्हं निर्गन्धं किमपि क्षुद्रपुष्पम् । तन्न वीक्षते अत्यासन्नमपि मकरन्दलिप्सया नाद्रियते । तदुपसदनं तु दूरतो निरस्तमिति भावः ॥ २७ ॥

अथ गुरुतरोपायसाध्यं पुरुषार्थं लघुतरेणोपायेन कथं लप्स्यसे? इत्यत्र ततोऽपि लघुतरस्य निवृत्तिधर्मकोटिनिविष्टस्याञ्जल्यादेः प्रभावं त्वदङ्घ्रिमित्यादिश्लोकद्वयेन निदर्शयन्नाश्रयणसौकर्यादपि हातुमशक्यत्वमेव स्थापयति । तत्र प्रथमेन लघुतरकायिकव्यापारविशेषप्रभाव उ्यते –

त्वदङ्घ्रिमुद्दिश्य कदाऽपि केनिद् यथा तथा वाऽपि सकृत् कृतोऽञ्जलिः ।

तदैव मुष्णात्यशुभान्यशेषतः शुभानि पुष्णाति न जातु हीयते ॥ २८ ॥

त्वदङ्घ्रिमिति ॥ त्वदङ्घ्रिं सर्वलोकशरण्यस्य तव पादपङ्कजम् । न तु साक्षान्मोक्षप्रदानानधिकृतस्य हिरण्यगर्भादेरिति भावः । तदुक्तं मोक्षधर्मे – (३५०.३६) “ब्रह्माणं शितिकण्ठं याश्ान्या देवतास्स्मृताः । प्रतिबुद्धा न सेवन्ते यस्मात् परिमितं फलम् ॥” इति । अत्र भगवत्स्वरूपस्य शुभत्वेऽप्यनिष्पन्नसमाधीनां प्रथमं भावयितुमशक्यतया तद्विग्रहस्यैव शुभाश्रयत्वम् । तत्रापि “अनतिक्रमणीयं हि रणग्रहणम्” (भाष्यम्) इति न्यायात्, “स भ्रातुश्रणौ गाढम्” (रामा. अयो. ३१.२) इत्यादि दर्शनााङ्घ्रेरुद्देश्यत्वमु्यते । उद्दिश्य – उपायतया कैङ्कर्यलक्ष्यतया ाभिसन्धायेत्यर्थः । एवमनन्यदेवताकत्वमनन्यप्रयोजनत्वं ोक्तं भवति ।

ईदृशस्याधिकारिणोऽञ्जलिबन्धरूपे सुकरे प्रसादने दर्शपूर्णमासादिवत् तिथिनक्षत्रपक्षमासर्त्वयनहायनादिकालनियमो नास्तीत्याह – कदाऽपीति । विधेयहस्तस्य शास्त्रीयव्यापारान्तररहितदशायां सर्वदेत्यर्थः । एतेन कालविशेषप्रतीक्षणविलम्बाभावाद् यदे्छति तदैव सहसा कर्तुं शक्यतयाऽपि सौकर्यं सूितम् । उक्तः कालनियमाभावः “जातपुत्रः कृष्णकेशोऽग्नीनादधीत”, इत्याद्युक्तकृष्णकेशत्वाद्यवस्थानियमाभावस्य, देशनियमाभावस्य ोपलक्षणम् ।

एवं वर्णाश्रमवेदवेदाङ्गयुक्तत्वादिनियमाभावेन सामान्यधर्मतया सत्यवनादिवत् सर्वाधिकारत्वमाह – केनिदिति । आस्त्रीबालपण्डितम् आब्रह्मश्वपाकं सुकरत्वं शास्त्रीयत्वं ात्र विवक्षितम् । कर्मान्तरवद् दुष्करप्रकारविशेषव्यवस्थाऽप्यत्र नास्तीत्याह – यथा तथा वाऽपीति । अत्र विकल्पसमुयविषयाव्ययद्वयस्यैवमभिप्रायः – परावरतत्त्वहितपुरुषार्थेषु विशदा बुद्धिर्भवतु वा मा वा, मस्तिष्कसम्पुटादिषु यथेष्टप्रकारश् भवतु, विधेयहस्तरहितस्य वाा मनसा वा स्यात्, अस्तु वाऽञ्जलिरनायां किंिदातुर्यम्; सर्वथा सफल एवायमिति । न पुनः “एकेन पाणिना यस्तु प्रणमेत् पुरुषोत्तमम् । न्याय्यस्तस्य कर्छेद इति वेदविदो विदुः ॥”, “एकहस्तप्रणामश् एकं ापि प्रदक्षिणम्” इति शक्तं प्रत्युक्त एकहस्तप्रणामनिषेध इह प्रतिषिध्यते । “तौ युतावञ्जलिः पुमान्” (अमरः) इति नैघण्टुकाः । गत्यभावे तु सर्वत्र यथाशक्ति करणमनुज्ञातम्; “सकृत् कृतः शास्त्रार्थः”, (पू. मी. ११अ.) इति सामान्यप्राप्तस्यात्र निरपवादत्वात् । “वसन्ते वसन्ते ज्योतिषा यजेत” इत्यादिवदावृत्त्यपेक्षाऽपि नेत्याह – सकृत्कृत इति । यद्यपि प्रीत्यादिप्रकर्षादस्यावृत्तिर्भवति, तथाऽप्यत्र सकृत्कृतस्य फलाविनाभावेन प्रभावातिशयप्रतिपादने तात्पर्यम् । “सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैश्ितम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥”, “सकृदु(ा)रितं येन हरिरित्यक्षरद्वयम् । बद्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥”, (वि. ध. ७०.८४), “ऋो यजूंषि सामानि योऽधीतेऽसकृदञ्जसा । सकृदष्टाक्षरं जप्त्वा फलं तस्य समश्नुते ॥” (नारदीयकल्पे. १.१०), “विष्णोरायतनं नित्यं सायं प्रातर्दिनेदिने । प्रदक्षिणद्वयं कुर्यादश्वमेधफलं लभेत् ॥ उत्सवे बलिदाने तथा कुर्वन् प्रदक्षिणम् । पदे पदेऽश्वमेधस्य फलं दशगुणं भवेत् ॥”, “यानि यानि पापानि जन्मान्तरकृतानि । तानि तानि प्रणश्यन्ति प्रदक्षिणपदे पदे ॥” इत्यादिषूक्तस्य सकृत्स्मरणसङ्कीर्तनादिप्रभावस्य प्रदर्शनमिदम् । “सर्वेषामेव धर्माणामुत्तमो वैष्णवो विधिः । रक्षते भगवान् विष्णुर्भक्तान् आत्मशरीरवत् ॥” (भार.आनु. ३६.२४) इति सर्वाधिकत्वेन कथितेभ्यः सम्मार्जनोपलेपनमालाकरणदीपारोपणादिप्रसा(ध)दनान्तरेभ्यः समधिकं बहुवित्तव्ययायासनिरपेक्षं विवक्षितस्य सुकरं स्वरूपमाह – अञ्जलिरिति । “अञ्जलिः परमा मुद्रा” (द्रोणपर्वाणि २०० अध्याये, विष्णुधर्मोत्तरे तृतीय ३३.१०५) इति ह्यु्यते । श्रीमद्रामायणे (किष्कि. ३२.१७) “कृतापराधस्य हि ते नान्यत् पश्याम्यहं क्षमम् । अन्तरेणाञ्जलिं बद्ध्वा लक्ष्मणस्य प्रसादनात्”, इति । नारायणास्त्रवृत्तान्तोऽपि (भार. शान्ति. ३५२ अध्यायः) अत्रानुसन्धेयः ।

“क्षिप्रं देवप्रसादिनी” (भार. द्रोण. २००. अ) इत्युक्तमाह – तदेति । अवधारणेन शरीरान्तरकालान्तरभाविफलसाधनेभ्यः कर्मभ्यो व्यावृत्तिः । यद्यप्यनादिवासनावशात् सांसारिकपुण्यरूपनिगलभङ्गः पुरुषस्यानिष्टः स्यात् । तथाऽपि अर्भकापथ्यपरिहारन्यायेन तान्यपि ोरयतीत्यभिप्रायेण मुष्णातीत्युक्तम् । अशुभानि शुभप्रतिभटानि । यथार्हमपवर्गतदुपायविरोधीनीत्यर्थः । अशेषतः कार्त्स्न्येन । एतेन कृ्छ्रान्द्रायणादिवत् प्रतिनियताशुभमात्रनिवर्तकत्वं व्युदस्यते । न केवलमनिष्टनिवर्तकत्वमात्रम्, “तस्मिन् प्रसन्ने किमिहास्त्यलभ्यम्” (वि.पु. १.१७.९१) इति न्यायेनात्रत्यानुभवप्रभृतिपरिपूर्णकैङ्कर्यपर्यन्तसर्वापेक्षितसाधकत्वं ास्तीत्याह – शुभानि पुष्णातीति । कर्तर्येकस्मिन् उपकृतमपर्याप्तं मन्यमानस्य भगवतः प्रसादात् तदनुबन्धिनामपि तद्वदुपकाराय भवतीत्यभिप्रायेणाह – न जातु हीयत इति । “यज्ञोऽनृतेन क्षरति” (मनु. ४.२३७) इत्यादिवद् अस्य न केनापि हानिरिति भावः । यद्वा, स्वर्गादिवदेव तत्साध्यस्य परमफलस्य न कदािदपि विनाश इत्यभिप्रायः । अथवा, फलभूताञ्जलिरूपेण स्वयं सन्तन्यत इति विवक्षितम् । दृश्यते हि “नित्याञ्जलिपुटा हृष्टाः” (भार.शा. ३४४.४५) इत्युक्त्वा, “ये तु मुक्ता भवन्तीह नरा भरतसत्तम । तेषां लक्षणमेतद्धि य्छ्वेतद्वीपवासिनाम् ॥” (भार. मोक्ष. ३४४.४६) इति ।

ननु यथाधिकारं न्यासोपासनरूपौ द्वौ मोक्षोपायौ शास्त्रेषु निर्णीतौ; तत् कथमञ्जलिमात्रस्य तत्साधनत्वोक्तिः? इथम्; यद्यसावाकिञ्न्यादिलाभात् प्रपत्त्यधिकारिणः पुरुषस्य स्वरक्षणार्थस्वव्यापारान्तरनिवृत्तिव्यञ्जकमुद्रात्मनाऽवतिष्ठते, तदा तदुपलक्षितायाः प्रपत्तेः प्रागुक्तसकलफलसाधनत्वरूपप्रतिपादने ताप्पर्यान्न विरोधः । यदा तु प्रदक्षिणप्रणामादिवदयमपि भक्त्यङ्गकर्मविशेषः, तदा “नेहाभिक्रमनाशोऽस्ति” (गीता. २.४०) इत्यादिन्त्यायात् कल्मषनिबर्हणसत्त्वोन्मेषसम्यग्ज्ञानभक्त्यादिपरम्परया मोक्षसाधनत्वमिति निष्कण्टकोऽयं घण्टापथः ।

अतिवादपक्षस्त्वत्र संभवन्त्यां गतौ न युज्यते । अधिकारिविशेषमाश्रित्याञ्जलिरूपलघुतरक्रियामात्रस्य साक्षान्मोक्षसाधनत्वकथने कर्मान्तराणामपि तथात्वप्रसङ्गः । तदभ्युपगमस्तु सर्वप्रमाणाननुगुणो भाष्यादिविरुद्धः; वक्तुर्यामुनमुनेः प्रागनुष्ठितगुरुतरविश्वासादिगर्भप्रपत्तिवैयर्थ्यं स्यात् ।

ननु “ध्यायन् कृते, यजन् यज्ञैस्त्रेतायाम्, द्वापरेऽर्यन् । यदाप्नोति तदाप्नोति कलौ सङ्कीर्त्य केशवम् ॥” ( वि. पु. ६.२.१७), “कलेर्दोषनिधे राजन्! अस्ति ह्येको महान् गुणः । कीर्तनादेव कृष्णस्य मुक्तबन्धः परं व्रजेत्” (भागवते १२.३.५१) इति कालविशेषव्यवस्थया सङ्कीर्तनमात्रस्यैव साक्षान्मोक्षसाधनत्वमु्यते । सत्यम्; तथाऽपि तस्मिन् काले धर्मान्तरमनपेक्ष्य सङ्कीर्तनमात्रस्यैवाव्यवहितमोक्षोपायनिष्पादकत्वे तात्पर्यं ग्राह्यम्; अन्यथा रमयुगे प्रपत्तिरप्यनपेक्षिता स्यात् ।

तदयमञ्जलिर्भक्तिवत् प्रपत्तिव प्रयोजनान्तरपराणां यथार्हं तत्तदभिमतसाधनं स्यात् । अनन्यप्रयोजनानां तूक्तेनैव प्रकारेणापवर्गपर्यवसायीति ॥ २८ ॥

अथाञ्जलिमात्रानर्हाणामपि “विषये ते महाराज! रामव्यसनकर्शिताः । अपि वृक्षाः परिम्लानाः सपुष्पाङ्कुरकोरकाः” (रामा. अयो.) इत्युक्तकोसलजनपदपादपन्यायेनानुरागलेशमात्रेणापि शरण्यित्तरञ्जनेन प्राप्तकाले परमपुरुषार्थसिद्धिः स्यादित्याह –

उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां निर्वृतिम् ।

प्रय्छति त्वरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ॥ २९ ॥

उदीर्णेति ॥ उदीर्णः नित्यमप्यात्मानमसत्कल्पं कर्तुमनुपरमेण जाज्वल्यमान इत्यर्थः । संसारः कर्मिणः पुरुषस्य पूर्वपूर्वदेहप्रहाणेनोत्तरोत्तरदेहैरेकीकृत्यावि्छिन्नसंसरणरूपावस्थाप्रवाहः । दवाग्नित्वरूपणेन तापत्रयप्रुरतया दुस्सहतमत्वम् अन्यैरनुपशमनीयत्वं व्यज्यते । आर्तिपौष्कल्यवतां प्रपन्नानामविलम्बेन सर्वानिष्टप्रशमनमभिप्रेत्याह – क्षणेन निर्वाप्येति । न केवलमनिष्टप्रशमनमात्रमित्याह – परां निर्वृतिं प्रय्छतीति । निर्वृतिः – सुखम् । अत्र संभवन्त्या निर्वृतेः मुक्तानुभवसाम्यम्, मुक्तिदशायां परिपूर्णानुभवरूपत्वं ाभिप्रेत्य परामिति विशेषितम् । त्व्छब्देन – “एष ह्येवानन्दयाति” (तै. अैन), “रसँ ह्येवायं लब्ध्वाऽऽनन्दी भवति” (आनन्द.) इत्याम्नातमाकारद्वयमभिप्रैति । सूत्रितं – “तद्धेतुव्यपदेशा” (ब्र. सू.), “अस्मिन्नस्य तद्योगं शास्ति” (ब्र. सू. १-१-२०) इति । रणस्यारुणाम्बुजत्वरूपणेन विग्रहस्य श्यामतया परभागशोभा व्यज्यते । अन्योन्यसन्निकर्षजनितशोभयाऽप्यनुरागातिशयहेतुत्वमभिप्रेत्य द्वयोपादानम् । अनुरागः “नाथ! योनिसहस्रेषु या प्रीतिरविवेकिनाम्” इत्यादिनिदर्शिता विषयस्वभावनिबन्धना निरतिशयप्रीतिः । अमृतसिन्धुत्वरूपणेन सञ्जीवनत्वं स्वयंप्रयोजनत्वमक्षय्यत्वं व्यज्यते । भाग्यविशेषवशात् भगवति निरुपाधिकभोग्यताविर्भावेन स्वयंप्रयोजनभक्तिलेशोऽपि परमभक्तिदशां प्राप्य नित्यकैङ्कर्यपर्यन्तः स्यादित्यभिप्रायेण शीकरशब्दः ॥ २९ ॥

तदेवमिह तत्त्वज्ञानादिपूर्वकं मोक्षार्थतया प्रवृत्तस्य प्रपत्तिशास्त्रार्थस्याधिकारेण “न निन्दितम्” (श्लेक. २३) इत्यादिभिः सप्तभिः सामर्थ्यभागः समर्थितः । अथ “विलासेत्यादिभिः” सप्तदशभिः उत्तरखण्डार्थप्रदर्शकैः प्राप्यवैलक्षण्यप्रपञ्नपूर्वकमर्थित्वभागः स्पष्टीक्रियते । तत्र प्रथमेन स्वविषयभक्तिप्रभावप्रतिपादनप्रीतेन भगवता यथामनोरथं सर्वं करिष्यामीत्युक्ते तद्दत्ततीव्रभक्तेः स्वस्य तत्पादारविन्दसन्दर्शने कालक्षेपाक्षमत्वं व्यनक्ति –

विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणम् ।

धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि क्षुषा ॥ ३० ॥

विलासेति ॥ परावरशब्दाभ्यां हिरण्यगर्भादयो मनुष्यादयश् गृह्यन्ते । तेषामालयाः पृथिव्यादयः सत्यान्ता लोकाः, ते विलासेन विक्रान्ता येन तत् विलासविक्रान्तपरावरालयम् । “यस्योरुषु त्रिषु विक्रमणेषु अधिक्षियन्ति भुवनानि विश्वा” (ऋग्वेदे विष्णुसूक्तम्), “क्रान्त्वा धरित्रीं गगनं तथा दिवम्” इत्यादिप्रमाणप्रसिद्धमिदम् । विक्रमस्यानायासलीलारूपत्वव्यञ्जनाय विलासशब्दः । अत्र सर्वसुलभत्वं सू्यते । एवं सुलभस्य अयत्नसेव्यत्वम् अनिष्टनिवर्तकत्वं ाह – नमस्यदार्तिक्षपणे कृतक्षणमिति । नमस्यतां प्रह्वीभवतां तदैवाशेषार्तिविनाशने कृतक्षणं दत्तावसरं निवृत्तव्यापारान्तरं वा । “क्षणो व्यापारवैकल्ये कालभेदाल्पकालयोः” इति नैघण्टुकाः । धनं मदीयम् – अनन्योपायस्य ममाभिमतसाधनं पुरुषार्थभूतं । तव पादपङ्कजं – स्वरूपादिभिर्निरतिशयभोग्यस्य अश्रितवत्सलस्य मुमुक्षुध्येयं मुक्तभोग्यं पादारविन्दम् । कदेत्यादि । “न क्षुषा पश्यति कश्नैनम्”, “स्वाध्यायश्क्षुरुत एकमस्य योगो द्वितीयमभिवीक्षणाय । अध्ययनमनननयनोऽस्य द्रष्टा न मांसक्षुरभिवीक्षते तम् ॥”, “न मांसक्षुषा द्रष्टुं ब्रह्मभूतः स शक्यते”, “प्रत्यक्षोऽसि न कस्यित्” इत्यादिषु मादृशैर्दुर्दर्शतया प्रसिद्धं त्वामद्यैवानेनैव क्षुषा साक्षात्कर्तुमि्छामीत्यभिप्रायः । एतेन “तासामाविरभू्छौरिः” (भागवते १०.स्क.) इति न्यायेन, धनञ्जयादिषु दिव्यक्षुःप्रदानन्यायेन दिदृक्षूणां यथामनोरथं सहसैव दृश्यो भवतीति प्रकाश्यते । अत्र मुक्तिदशाविवक्षायां “स वा एव दिव्येन क्षुषा मनसा” इतिवत्स्वाभाविकज्ञानरूपेण क्षुषेति योज्यम् ॥ ३० ॥

अथ “दिव्यं ददामि ते क्षुः” (गीता. ११.८) इतिवदपेक्षितं साक्षात्कारं दास्यामीति भगवतोक्ते दूरस्थस्य कालान्तरेऽपि तत्संभवमाशङ्क्य शीघ्रं स्वोितं तत्संश्लेषविशेषमपेक्षते –

कदा पुनश्शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनम् ।

त्रिविक्रम त्वरणाम्बुजद्वयं मदीयमूर्धानमलङ्करिष्यति ॥ ३१ ॥

कदा पुनरिति ॥ पुनश्शब्दः साशङ्कत्वद्योतकः । साक्षात्कारमात्राद्विशेषद्योतको वा । “शङ्खक्रगदापद्मैरङ्कितं पादपङ्कजम् । शरन्द्रप्रतीकाशनखराजिविराजितम् ॥ सुरासुरैर्वन्द्यमानमृषिभिश्िन्तितं सदा । मूर्धानं मामकं देव! तावकं मण्डयिष्यति ॥”, “सञ्िन्तयेद् भगवतश्रणारविन्दं वज्राङ्कुशध्वजसरोरुहलाञ्छनाढ्यम्” इत्यादिप्रसिद्धमाकारमनुसन्धत्ते – शङ्खरथाङ्गेत्यादिना । “एष ब्रह्मलोकः सम्राडिति होवा”, “राजाधिराजः सर्वेषाम्” (भार. आश्व. ४३.१३) इति श्रुतिस्मृतिप्रसिद्धसाम्राज्यिह्नत्वाभिप्रायेण लाञ्छनशब्दः । तथा ोक्तं नारदीये “भृङ्गारासनवाजिकुञ्जररथश्रीवत्सापेषुभिर्मालाकुण्डलामराङ्कुशयवैः शैलध्वजैस्तोमरैः । मत्स्यस्वस्तिकवेदिकाव्यजनकैः शङ्खातपत्राम्बुजैः पादे पाणितले नरा नृपतितां यान्ति, स्त्रियो राज्ञिताम् ॥” इति । त्रिविक्रमेति सम्बुद्ध्या निम्नोन्नतविभागानादरेण सर्वेषां शिरसि कृतपदन्यासत्वं, स्वस्य तदलाभेन निर्वेदश् सू्यते । त्वरणाम्बुजद्वयम् “अप्राप्यः केशवो राजन्! इन्द्रियैरजितैर्नरैः” इत्यादिष्वजितेन्द्रियैर्दुर्लभतया प्रसिद्धस्य तव लक्ष्मीभूमिलीलाकमलं शङ्खादिरेखालंकृताभरणस्थानीयं रणयुगलम् । मदीयमूर्धानम् अत्यन्तनिहीनस्य त्वत्पादस्पर्शानर्हस्य दुष्टतमतया कालियवत् पादपद्मदमनीयस्य मे िरकालम् “न नमेयम्” (रामा. यु.) इति त्वत्प्रणामविरहेण दूषितमुत्तमाङ्गम् । अलङ्करिष्यति पश्यतां सत्त्वस्थानां प्रेक्षणीयं करिष्यतीति भावः । एतेन कलिदोषनिवृत्तिरप्यर्थिता भवति । उक्तं हि महाभारते “यावत् स पादपद्माभ्यां पस्पर्शेमां वसुन्धराम् । तावत् पृथ्वीपरिष्वङ्गे समर्थो नाभवत् कलिः ॥” इति । संसाराग्निदग्धोऽहं त्वत्पादस्पर्शेन परीक्षिदिव यथार्हं सञ्जीविष्यामीति भावः । अत्र “यावन्न रणौ भ्रातुः पार्थिवव्यञ्जनान्वितौ । शिरसा धारयिष्यामि न मे शान्तिर्भविष्यति ॥” (रामा. अयो.) इति भरतवाक्यम्, “तस्य ताम्रतलौ तात रणौ सुप्रतिष्ठितौ । सुजातमृदुरक्ताभिरङ्गुलीभिरलंकृतौ ॥ प्रयत्नेन मया मूर्ध्ना गृहीत्वा ह्यभिवन्दितौ ।” (भार. आर. १६०. १३५) इति मार्कण्डेयवनं दर्शनीयम् । यद्वा, मुक्तिदशायां परिगृहीताप्राकृतशरीरस्य स्वस्य परमपदपर्यङ्कनिलयभगवत्पादमूलप्रवेशे त्वरातिशय इह प्रकाश्यते ॥ ३१ ॥

उक्तप्रकारसन्दर्शनसंश्लेषसमनन्तरभाविसर्वविधकैङ्कर्योद्देश्यं भगवन्तं समस्तकल्याणगुणदिव्यमङ्गलविग्रहादिविशिष्टतया प्राप्यं तुर्दशभिर्विशदमनुसन्धत्ते । तत्र प्रथमश्लोकस्य पूर्वार्धेन पीताम्बरपरभागविित्रिताम् “अतसीपुष्पसङ्काशः पीतवासा जनार्दनः । व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥”, इति महाभारतोक्तां दिव्यस्वरूपस्य समुदायशोभामनुभवति –

विराजमानोज्ज्वलपीनवाससं स्मितातसीसूनसमामल्छविम् ।

निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणम् ॥ ३२ ॥

विराजमानोज्ज्वलपीतवाससमिति ॥ पीताम्बरस्य श्यामवर्णविग्रहयोगात् स्वतश् विराजमानत्वमुज्ज्वलत्वं भास्वरत्वं । स्मितशब्दोऽत्र विकासार्थः । अतसीसूनम् अतसीप्रसूनम् । श्यामलरमणीयतया विग्रहस्य तत्समत्वम् । अमल्छविम् उज्ज्वलकान्तिम् । ध्यायतां दोषप्रतिभटद्युतिमिति वा । अवयवेषु प्रथमम् “अजनिष्ट कस्य नाभेः” (श्लोक. १४) इति प्रागुक्तपारम्यव्यञ्जकं पितामहोत्पत्तिस्थानं निर्दिशति – निमग्ननाभिमिति । निम्ननाभिमित्यर्थः । उदरस्याशेषभुवनगर्भत्वेऽपि कृशत्वेनाद्भुतत्वमभिप्रेत्याऽह – तनुमध्यमिति । तथा ाहुः श्रीवत्साङ्कमिश्राः – “अण्डानां त्वदुदरमामनन्ति सन्तः स्थानं तद्वरद कथं नु कार्श्यमस्य । माहात्म्यं स्वत इह येषु नूनमेषामृद्धिः स्यान्महिमकरी न हीतरेषाम् ॥” (वरदराजस्तवे. ४९) इति । उन्नतम् – अतिह्रस्वत्वादिदोषरहितसर्वाधिकत्वव्यञ्जकदिव्यविग्रहमित्यर्थः । विशालेत्यादि । अतिविशालभुजान्तरशोभमानप्रकृतितत्त्वनिरूपकलक्ष्मीनिवासश्रीवत्सलक्षणम् । अत्र द्वितीयान्तानां सर्वेषां “भवन्तम्” (श्लो. ४६) इति वक्ष्यमाणेनान्वयः ॥ ३२ ॥

भुजमध्यशोभाऽनुसंहिता । अथ वीरशृङ्गारित्रितां भुजशोभामनुसन्धत्ते –

कासतं ज्याकिणकर्कशैः शुभैश्तुर्भिराजानुविलम्बिभिर्भुजैः ।

प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ॥ ३३ ॥

कासतमिति ॥ अवतारदशायां विरोधिनिराकरणार्थव्यापारव्यञ्जकैर्ज्याकिणैरङ्कितत्वं परविग्रहभुजेष्वपि तदभेदानुसन्धानेन निर्दिशति ज्याकिणकर्कशैरिति । शुभैः औदार्यवीर्यसौन्दर्यादिशालिभिः । पररूपेऽपि तुर्भुजत्वं प्रमाणसिद्धमिति प्रकाशयितुमाह – तुर्भिरिति । यथोक्तं विष्वक्सेनसंहितायां “वैकुण्ठे तु परे लोके श्रीसहायो जनार्दनः । उभाभ्यां भूमिनीलाभ्यां सेवितः परमेश्वरः ॥ महायोगी जगद्धाता दिव्यसिंहासनोपरि । दिव्यसंस्तरणोपेते शेषाहिफणमण्डिते ॥ पञ्ोपनिषदाम्नातदिव्यमङ्गलविग्रहः ॥ अप्राकृततनुर्देवो नित्याकृतिधरो युवा ॥ नित्यातीतो जगद्धाता नित्यैर्मुक्तैश् सेवितः । बद्धाञ्जलिपुटैर्हृष्टैर्निर्मलैर्निरुपद्रवैः ॥ तुर्भुजः श्यामलाङ्गः श्रीभूभ्यां सह नीलया । विमलैर्भूषणैर्नित्यैर्भूषितो नित्यविग्रहः ॥ पञ्ायुधैः सेव्यमानः शङ्खक्रधरो हरिः । सहस्रस्थूणसंयुक्ते मण्डपे परमेश्वरः ॥ विन्यस्य वामकं बाहुमासने वामपार्श्वके । दक्षिणं जानुके न्यस्तं लम्बयन् जगतां पतिः ॥” इति । एवमेव ध्यानं भाष्यकारैर्नित्ये प्रोक्तम् । बलपौष्करे तु “देवो वैकुण्ठनाथस्तु अनन्तासनसंस्थितः । सेव्यः श्रीभूमिनीलाभिः प्रादुर्भावैस्तु ाखिलैः ॥ शङ्खक्रधरो नित्यं जानुन्यस्तैकहस्तवान् । अभयप्रदहस्तश् नीलजीमूतसन्निभः ॥ ध्यातव्यो नित्यलोकस्थो भुक्तिमुक्तिफलप्रदः ।” इति । अत्र अभयप्रदहस्तत्वादिवैषम्यमवस्थाभेदादुपपद्यते ।

यत्तु कैश्िदुक्तं – “मुखं किमस्य कौ बाहू”, “बाहू राजन्यः कृतः” इति पुरुषसूक्तवाक्याभ्याम् “दशहस्त्या अङ्गुलयो दश पद्या द्वावूरू द्वौ बाहू आत्मैव पञ्विंशः”, इत्यैतरेयोक्त्या, “पाणिभ्यां त्रयीं संभरति”, इत्यादिरहस्याम्नायोक्त्या परस्य द्विभुजत्वं सिध्यतीति, तदयुक्तम्; तेषां वाक्यानां प्रकरणादिभिरन्यपरत्वेन परस्य तुर्भुजत्वप्रतिषेधादर्शनात् । योक्तं श्रीसात्त्वते “नादावसानगगने देवोऽनन्तः सनातनः । शान्तः संवित्स्वरूपस्तु भक्तानुग्रहकाम्यया ॥ अनौपम्येन वपुषा ह्यमूर्तो मूर्ततां गतः । विश्वमाप्याययन् कान्त्या पूर्णेन्द्वयुततुल्यया । वरदाभयदेनैव शङ्खक्राङ्कितेन । त्रैलोक्योद्धृतिदक्षेण युक्तः पाणिद्वयेन सः ॥” इति, तदिदं तत्रत्यहृद्यागविशेषविधिपरम् । श्रीपौष्करे “द्विभुजं पुरुषाकारं युक्तमादित्यसन्निभैः । ध्वजैराभरणैश्िह्नैः शङ्खक्रादिसंज्ञितैः ॥” इति, सौमन्तवे “निरस्त्रा द्विभुजां सौम्या शङ्खक्रकराङ्किता । महापुरुषरूपा सुप्रसन्ना विलक्षणा ॥” इति । भारद्वाजे – “द्विबाह्वोश्क्रधृत् पाणिर्दक्षिणः शङ्खधृत् परः । उपविष्टं तु मोक्षार्थी उत्थितं विश्वसिद्धये” इति । साङ्कर्षणे “पुरुषोत्तमस्य देवस्य शुद्धस्य स्फटिकत्विषः । समपादस्य पद्मोर्ध्वे ह्येकवक्त्रस्य संस्थितिः ॥ वरदाभयहस्तौ द्वावप्रवृत्ताख्यकर्मणः ।” इति । एतान्यन्यानि एवंविधानि वाक्यानि तत्तद्रूपसद्भावमात्रपराणि । यत्पुनः आनन्दाख्यसंहितायामुक्तम् “स्थूलमष्टभुजं प्रोक्तं तस्मादेतत्त्रयं यजेत्” इति । एतदपि पररूपमधिकृत्यैव बह्वीषु संहितासु तुर्भुजत्वप्रतिपादनात्, इ्छागृहीताभिमतोरुदेहस्य देवस्य वैकल्पिकध्यानपरतया सुसङ्गतम् । दृश्यते नृसिंहकृष्णाद्येकैकरूपेष्वेव द्विभुजत्वतुर्भुजत्ववर्णभेदाद्यवान्तरवैषम्यम् । परस्मिंश् नित्योदितशान्तोदितादिविभागः सम्प्रतिपन्न इति सर्वं सुस्थम् ।

अत्र श्लोके ज्याकिणेत्यादिना स्वभक्तसंरक्षणार्थं महावीरत्वम्, प्रियावतंसेत्यादिना स्वानुरूपवीरपत्नीसंबन्धस्तत्पुरस्कारेण सर्वैरभिगमनीयत्वं सू्यते ॥ ३३ ॥

एवं पीताम्बरप्रभृत्यारोहणक्रमेण भुजानुभवानन्तरं दिव्यकण्ठशोभां मुखशोभां ानुसन्धत्ते –

उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकम्बुकन्धरम् ।

मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियम् ॥ ३४ ॥

उदग्रेति ॥ उदग्रमुन्नतं पीनमकृशमुदग्रपीनांसविलम्बिभ्यां कुण्डलालकावलिभ्यां बन्धुरा सुन्दरा कम्बुवदभिरामा त्रिरेखालंकृता कन्धरा यस्य तथोक्तः । “रेखात्रयाङ्किता ग्रीवा कम्बुग्रीवेति कथ्यते” । कुण्डलालकसमभिव्याहारः परभागकान्तिव्यञ्जनार्थः । “पापं हरति यत् पुंसां स्मृतं सङ्कल्पनामयम् । तत्पुण्डरीकनयनं विष्णोर्द्रक्ष्याम्यहं मुखम् ॥” (वि. पु. ५.१७.४) इत्यादिप्रसिद्धां पावनमनोहरां मुखशोभामनुभवति – मुखश्रियेति । मुखकान्त्येत्यर्थः । न्यक्कृतेत्यादि । यस्य मुखश्रिया न्यक्कृतं पूर्णनिर्मलामृतांशुबिम्बमम्बुरुहोज्ज्वलश्रीश् स एवमुदीरितः । अम्बुरुहश्रिय उज्ज्वलत्वं नूतनविकासकान्तिसौकुमार्यादिभिः । अमृतांशुबिम्बाम्बुरुहयोर्वा द्वन्द्वः । तयोरुज्ज्वलश्रीरिति तत्पुरुषः ॥ ३४ ॥

उक्तप्रकारां मुखशोभां प्रत्येकावयवभावनया पुनरपि निर्विशति –

प्रबुद्धमुग्धाम्बुजारुलोनं सविभ्रमभ्रूलतमुज्ज्वलाधरम् ।

शुिस्मितं कोमलगण्डमुन्नसं ललाटपर्यन्तविलम्बितालकम् ॥ ३५ ॥

प्रबुद्धेति ॥ प्रबुद्धं विकसितं मुग्धं नूतनं सौम्यं वा । तथा नैघण्टुकाः “मुग्धं सौम्ये नवे मूढे” इति । अम्बुजवल्लोयोश्ारुत्वमाश्रितदर्शनप्रीतिविकसितत्वेन, तदनुग्रहयोगसौम्यतया कान्त्यतिशया । सविभ्रमभ्रूलतमित्यनेनापि स्वभक्तसम्प्राप्तिजनितोल्लासातिशयः सू्यते । उज्ज्वलाधरं प्रवालादिभ्योऽप्यधिकप्रकाशमानाधरम् । विद्रुममौक्तिकन्यायेनाधरशोभया विशेषितां स्मितशोभामाह – शुिस्मितमिति । अवदातस्मितमित्यर्थः । अथवा “स्मयन्निव नृपो हन्ति” इतिवद्विरुद्धाभिसन्धिं परिहर्तुमिह शुित्वोक्तिः । एवं ोक्तं श्रीपौष्करे “पूर्वकर्मानलार्तानां ध्यायतां खेदशान्तये । स्वदन्तेन्दुयोत्थेन ह्लादयन् गोगणेन तु ॥” इति । कोमलगण्डं सुकुमारकपोलम् । उन्नसम् उन्नतनासावंशम् । अलकानां पश्ादंसलम्बित्वं प्रागुक्तम् । अत्र तु पुरस्ताल्ललाटोर्ध्वभागलम्बित्वमाह – ललाटपर्यन्तविलम्बितालकमिति ॥ ३५ ॥

ईश्वरत्वेन शङ्कनीययोः ब्रह्मरुद्रयोरादिमं रूपं तापसवेषेण कर्मवश्यत्वव्यञ्जकम् । भगवतस्तु किरीटादियोगात् सर्वेश्वरत्वख्यापकमित्यभिप्रायेणाऽह –

स्फुरत्किरीटाङ्गदहारकण्ठिकामणीन्द्रकाञ्ीगुणनूपुरादिभिः ।

रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलम् ॥ ३६ ॥

स्फुरत्किरीटेति ॥ कण्ठिका कण्ठभूषणं, मणीन्द्रः कौस्तुभः, स जीवतत्त्वाभिमानी । आदिशब्देनापरिमितानि दिव्याभरणान्तराणि संगृह्यन्ते । रथाङ्गादयः पञ् मनस्तत्त्वतामसाहङ्कारसम्यग्ज्ञानबुद्धितत्त्वसात्त्विकाहङ्काराभिमानित्वेन प्रसिद्धाः । स्पर्शरूपगन्धविशेषैर्लसन्ती तुलसी लसत्तुलसी तया; यद्वा लसन्ती तुलसी यस्यास्सा तयेति वनमाला विशेष्यते । स्फुरदुज्ज्वलमिति पादाभ्यामाभरणादेर्विग्रहस्य ान्योन्ययोगादपि शोभमानत्वं ख्याप्यते । अत्र “स्रग्वस्त्राभरणैर्युक्तं स्वानुरूपैरनूपमैः । िन्मयैः स्वप्रकाशैश् अन्योन्यरुिरञ्जितैः ॥” (पौष्कसंहिता) इत्यादिकं द्रष्टव्यम् । िन्मयैः अस्पृष्टसंसारतत्तद्देवतात्मकैरित्यर्थः ॥ ३६ ॥

ईदृशकिरीटादिभिः सर्वेश्वरत्वेन व्यञ्जितस्य भगवतः साम्राज्यं सलक्ष्मीकस्येति त्रिभिः श्लोकैः सहेतुकमनुसन्धत्ते । तत्र “ततोऽवलोकिता देवा हरिवक्षःस्थलस्थया” (वि. पु. १.९.१०६), “श्रियमुन्निद्रपद्माक्षीं विष्णुवक्षस्स्थले स्थिताम्”, “का ान्या त्वामृते देवि! सर्वयज्ञमयं वपुः । अध्यास्ते देवदेवस्य योगििन्त्यं गदाभृतः ॥” (वि. पु. १.९.१२२) इत्यादिषूक्तमाह –

कर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।

जगत्समस्तं यदपाङ्गसंश्रयं यदर्थमम्भोधिरमन्थ्यबन्धि ॥ ३७ ॥

कर्थ यस्या भवनं भुजान्तरमिति ॥ “एष नारायणः श्रीमान् क्षीरार्णवनिकेतनः । नागपर्यङ्कमुत्सृज्य ह्यागतो मधुरां पुरीम्॥” (हरिवंशे विष्णुपर्वणि ५५.५९) इत्यादिप्रसिद्धमाह – तव प्रियं धाम यदीयजन्मभूरिति । ब्रह्मादीनां सर्वेषां तत्कटाक्षाधीनवैभवत्वमाह – जगत्समस्तं यदपाङ्गसंश्रयमिति । यथो्यते “त्वया देवि! परित्यक्तं सकलं भुवनत्रयम् । विनष्टप्रायमभवत् त्वयेदानीं समेधितम् ॥” (वि. पु. १.९.१२३), “त्वयाऽवलोकितास्सद्यः शीलाद्यैस्सकलैर्गुणैः । धनैश्वर्यैश् युज्यन्ते पुरुषा निर्गुणा अपि ॥ स श्लाघ्यः स गुणी धन्यः स कुलीनः स बुद्धिमान् । स शूरः स विक्रान्तो यं त्वं देवि निरीक्षसे ॥” (वि. पु. १.९.१२९,१३०) इत्यादि । श्रीमहाभारते श्रीवासवसंवादे स्वयमेव देवदेव्या स्ववैभवं प्रदर्शितं – “पुण्येषु त्रिषु लोकेषु सर्वे स्थावरजङ्गमाः । ममात्मभावमि्छन्तो यतन्ते परमात्मना ॥ साऽहं वै पङ्कजे जाता सूर्यरश्मिप्रबोधिते । भूत्यर्थं सर्वभूतानां पद्मा श्रीः पद्ममालिनी ॥ अहं लक्ष्मीरहं भूमिः श्रीश्ाहं बलसूदन! । अहं श्रद्धा मेधा सन्नतिर्विजितिस्स्मृतिः ॥ अहं धृतिरहं सिद्धिरहं त्वद्भूतिरेव । अहं स्वाहा स्वधा ैव सन्नतिर्नियतिः कृतिः ॥ राज्ञां विजयमानानां सेनाग्रेषु ध्वजेषु । निवासे धर्मशीलानां विषयेषु पुरेषु ॥ जितकाशिनि शूरे संग्रामेष्वनिवर्तिनि । निवसामि मनुष्येषु सदैव बलसूदन! ॥ धर्मनित्ये महाबुद्धौ ब्रह्मण्ये सत्यवादिनि । प्रश्रिते दानशीले सदैव निवसाम्यहम् ॥ यत्राहं तत्र मत्कान्ता मद्विशिष्टा मदर्पणाः । सप्त देव्यो मदष्टम्यो वासं ैष्यन्ति ाष्टधा ॥ आशा श्रद्धा धृतिः क्षान्तिर्विभूतिस्सन्नतिः क्षमा ॥ अष्टमां विद्धि मां तासां पुरोगां पाकशासन! ।” इति । श्रीविष्णुस्मृतेरन्ते, ब्रह्मपुराणे सहस्रनामस्तोत्रे, भगव्छास्त्रे हिरण्यगर्भकाश्यपमङ्कणधनदादिसंहितासु ब्रह्मरुद्रेन्द्रादीनां तदधीनवैभवत्वं विस्तरेण द्रष्टव्यम् । यदर्थं यत्प्राप्त्यर्थमिति यावत् । परस्परविश्लेषप्रसङ्गरहितयोरेव लक्ष्मीतद्वल्लभयोः विश्लेषाभिनयेन पुनः प्राप्तिरु्यते । स्वसङ्कल्पनियता स्वतन्त्रलीला न पर्यनुयोगमर्हति । अमन्थि विष्ण्ववतारे । अबन्धि रामावतारे । यथोक्तं “ततः स्फुरत्कान्तिमती विकासिकमले स्थिता । श्रीर्देवी पयसस्तस्माद् उत्थिता धृतपङ्कजा ॥” (वि. पु. १.९.१००) इत्यारभ्य “दिव्यमाल्याम्बरधरा स्नाता भूषणभूषिता । पश्यतां सर्वदेवानां ययौ वक्षःस्थलं हरेः” (वि. पु. १.९.१०५) इति, “एष सेतुर्मया बद्धस्सागरे मकरालये । तव हेतोर्विशालाक्षि! नलसेतुस्सुदुष्करः” (रामा. युद्ध. १२६.१२) इति । अत्र जगत्समस्तमिति पादेनानुरूपत्वं, पादान्तरैरभिमतत्वं प्रख्यापितम् ॥ ३७ ॥

उक्तमेवाभिमतानुरूपत्वमनन्तरश्लोकेन प्रपञ्यति –

स्ववैश्वरूप्येण सदाऽनुभूतयाऽप्यपूर्ववद् विस्मयमादधानया ।

गुणेन रूपेण विलासेष्टितैः सदा तवैवोितया तव श्रिया ॥ ३८ ॥

स्ववैश्वरूप्येणेति ॥ स्वस्य विश्वशरीरकत्वेनेत्यर्थः । सदाऽनुभूतया “यो वेत्ति युगपत्सर्वं प्रत्यक्षेण सदा स्वतः” (न्यायतत्तवे) इतीदृशेन सहजप्रत्यक्षेण सदा साक्षात्कृतयेत्यर्थः । एतदभिप्रायेण तदविनाभूतवैश्वरूप्यस्य हेतुत्वोक्तिः । यद्वा, स्वरूपादिसर्वाकारेण “शान्तानन्त” (तुःश्लोकि. ४) इत्यादिप्रक्रियया सर्वदा गाढोपगूढत्वेनानुभवो विवक्षितः । अपूर्ववत् अदृष्टपूर्ववत् । यद्वा, इतः पूर्वमनालोितवत इवेत्यर्थः । विस्मयम् अद्भुतरसहेतुभूतं भावम्, अनवधिकं प्रीतिविशेषमित्यर्थः । आदधानयेत्यत्रापि सदेत्यभिप्रेतम् । एतेन स्वभावसिद्धमभिमतत्वं प्रपञ्ितम् । गुणेनेत्यादिना तु सर्वप्रकारानुरूपत्वमु्यते । गुणशब्द इह ज्ञानकारुण्यादिविषयः । रूपेणाप्राकृतेनाखिलजगन्मातृत्वाभिव्यञ्जकेन दिव्यविग्रहेण । विलासैः भगवदभिमतैर्लीलाविशेषैः । ेष्टितैः आश्रितरक्षणावतारादिभिः । तवैवोितयेत्यनेन “तुल्यशीलवयोवृत्ताम्” (रामा. सु. १६.५), “देवत्वे देवदेहेयम्” (वि. पु. १.९.१४५), “देवतिर्यङ्मनुष्येषु” (वि. पु. १.८.३५) इत्यादिषूक्तमनुरूपत्वं प्रतिपाद्यते । तव श्रियेत्यनेन “विष्णोः श्रीरनपायिनि” (वि. पु. १.८.१७) इत्यादिप्रसिद्धं नित्यव्यवस्थितपतिपारार्थ्यं प्रतिष्ठापितम् । तृतीयान्तानां तयेत्युत्तरश्लोकस्थपदेनान्वयः ॥ ३८ ॥

“वैकुण्ठे तु परे लोके श्रिया सार्धं जगत्पतिः । आस्ते विष्णुरिन्त्यात्मा” (लैङ्गे) इति पुराणप्रसिद्धमाह –

तया सहासीनमनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।

फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ॥ ३९ ॥

तया सहेति ॥ भूम्यादिपत्न्यन्तरवतोऽपि श्रियः प्राधान्यादिह तदुक्तिः; तदपेक्षयाऽपि भगवतः प्राधान्यव्यञ्जनाय सहशब्दः । आसीनमित्यनेन “सहस्रस्थूणे विनिर्मिते दृढ उग्रे, यत्र देवानामधिदेव आस्ते” (जेमिनीयब्राह्मणे ४.३८४) इति तलवकारश्रुतिः स्मार्यते । उपात्ता ेयमभियुक्तैः – “सर्वात्मसाधारणनाथगोष्ठीपूरेऽपि दुष्पूरमहावकाशम् । आस्थानमानन्दमयं सहस्रस्थूणादिनाऽऽम्नातमवाप्नवानि” (श्रीरङ्गराजस्तवे. १.३८) इति । अनन्तभोगिनि “गन्धर्वाप्सरसः सिद्धास्सकिन्नरमहोरगाः । नान्तं गुणानां ग्छन्ति तेनानन्तोऽयमु्यते” (वि. पु. १.१५.१५७) इति सुप्रसिद्धानन्तनाम्नि विश्वंभराधारणविनियुक्ते महाभोगिनि । प्रकृष्टविज्ञानबलैकधामनि प्रकृष्टयोर्विज्ञानबलयोरेकाश्रये । अस्य सङ्कर्षणाख्यव्यूहाभिमानविशेषयोगात् तदनुगुणौ गुणाविह निर्दिश्येते । पञ्विधज्योतिस्सिद्धान्तप्रवर्तकत्वेन ज्ञानप्रकर्षोऽस्य प्रसिद्धः । सर्वाधारभूतभगवद्विग्रहधारणेन बलप्रकर्षोऽस्य व्यक्तः । “तेनेयं नागवर्येण शिरसा विधृता मही । बिभर्ति मालां लोकानां सदेवासुरमानुषाम् ॥” (वि. पु. २.५ अ.) इत्यादिभिश् । यस्य फणामणिव्रातमयूखमण्डलैः प्रकाशमानोदरं दिव्यधाम स एवमाश्र्याकारतयोत्तरार्धेनोक्तः । दिव्यधामशब्दोऽत्र वैकुण्ठाख्यमप्राकृतं नित्यं दिव्यं भगवद्विमानं वदति ॥ ३९ ॥

उक्तप्रभावं पर्यङ्कभोगिनं वृत्तिविशेषानुगुणसमाख्यान्तरेणापि विशिनष्टि –

निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।

शरीरभेदैस्तव शेषतां गतैर्यथोितं शेष इतीरिते जनैः ॥ ४० ॥

निवासेति ॥ निवासो दिव्यायतनम् । शय्यात्वं योगनिद्रावस्थायाम् । आसनं पर्यङ्कविद्यादिषु (कौषीतकीब्राह्मणे) आम्नातं दिव्यसिंहासनम् । पादुके “अधिरोहार्य! पादाभ्यां पादुके हेमभूषिते । एते हि सर्वलोकस्य योगक्षेमं विधास्यतः ॥” (रामा. अयो.) इत्यवतारदशायां प्रसिद्धवैभवे । अंशुकं पीताम्बरादि । उपधानम् – उत्तमाङ्गधारकं पादधारकं । वारणशब्दस्य द्वन्द्वात्परत्वाद्वर्षवारणमातपवारणं ेति योज्यम् । आदिशब्देन पादपीठादिसंग्रहः । शरीरभेदैरित्यनेन “अपरिमितधा भवति” (छा. उ. ७.२६.२) इति न्यायोऽभिप्रेतः । तव कैङ्कर्योद्देश्यदिव्यमङ्गलविग्रहविशिष्टस्य । शेषतां स्वोपकारताप्राधान्यानादरेण परोपकारार्हताम् । “शेषः परार्थत्वात्” (पू. मी. ३.१.२ सू.) इति सूत्राभिप्रेतं वेदार्थसंग्रहे विवृतं “परगतातिशयाधाने्छयोपादेयत्वमेव यस्य स्वरूपं स शेषः”, इति । यथोितम् उक्तप्रवृत्तिनिमित्तानुगुणमित्यर्थः । जनैरित्येतत् पामरपरीक्षकसर्वलोकप्रसिद्धिज्ञापनार्थम् ॥ ४० ॥

एवमनन्तवत् तत्तदवसरोितसेवार्थनानाविधरूपभेदैः किंकुर्वाणेन गरुत्मता सेवितत्वमाह –

दासः सखा वाहनमासनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।

उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसंमर्दकिणाङ्कशोभिना ॥ ४१ ॥

दास इति ॥ पूर्वश्लोके शेषत्वमुक्तम् । अत्र तु दासशब्देन तदेव विशेष्यते । शेषत्वं हि अेतनत्वं प्रत्येतनस्यापि भवति । दासत्वं तु ेतनं प्रत्येव ेतनस्यैव स्यात्, तथैव लोकव्यवहारात् । अत्र प्रथमं दास इत्युक्तिः सखित्वाद्यवस्थायामपि स्वाभाविकस्य दासत्वस्यानपगमद्योतनार्था । उ्यते हि “लोकनाथस्य रामस्य सखा दासोऽस्मि रावण” (रामा. सु.) इति । गरुत्मतस्तु सखित्वं कदािदभिनयप्रयुक्तम् । यद्वा “समानित्तवृत्तित्वं सखित्वमिति दर्शितम्” इत्याद्युक्तित्तवृत्तिसाम्यमिह विवक्षितम् । वाहनत्वादिकं तु गमनाद्यवस्थासु यथार्हं भाव्यम् । त्रयीमयः सर्ववेदमयविग्रह इत्यर्थः । श्रूयते हि “सुपर्णोऽसि गरुत्मान् त्रिवृत् ते शिरो गायत्रं क्षुः” (यजु. ४.१.४२) इत्यादि । तथा “तस्य गायत्री जगती पक्षावभवताम्, उष्णिक् त्रिष्टुप् पृष्ठ्यौ, अनुष्टुप् पङ्क्तिश् धुर्यौ, बृहत्येवोक्तिरभवत्, स एवं छन्दोरथमास्थाय, एतमध्वानमनुसमरत्” इति । पुरः उपस्थितं पुरस्तादाभिमुख्येन सेवितमित्यर्थः । त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभिना इत्येतत्पूर्वोक्तज्याकिणन्यायेन कर्मवश्यत्वाभिनयदशायां भाव्यम् ॥ ४१ ॥

अथ भगवतः स्ववैभवानुरूपं स्वसङ्कल्पकल्पितनित्याधिकार(सेनापति)सेवाप्रकारमभिदधानः “श्रीशभुक्तोज्झितशेषजीवनः”, इति तन्मन्त्रोक्तमाह –

त्वदीयभुक्तोज्झितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।

प्रियेण सेनापतिना न्यवेदि तत्तथाऽनुजानन्तमुदारवीक्षणैः ॥ ४२ ॥

त्वदीयभुक्तोज्झितशेषभोजिनेति । त्वदीयभुक्तं – त्वद्भुक्तमित्यर्थः । यद्भोक्तव्यतया भोजनपात्रनिहिते किञ्िदभुक्तं स्यात् तद्भुक्तोज्झितमित्युदीर्यते । तदेवात्र भुक्तशिष्टतया शेषशब्दार्थः । यद्वा, भुक्तोज्झितैकदेशविषयोऽयं शेषशब्दः, अंशान्तरस्यान्यार्थतया विभजनीयत्वोक्तेः । त्वया निसृष्टात्मभरेण स्व्छन्दवृत्तिना त्वया समर्पितात्मभरेणेत्यर्थः । असुरनिराकरणादिषु सेनानिर्वहणादिभारः सेनापतित्वेन कल्पिते ह्यस्मिन् विन्यस्यते । अतस्तन्नियोगपूर्वकमन्ये प्रवर्तन्ते । “जगत्सृष्ट्यादिभारोऽस्मिन् समर्पितः” इति केषांिद्व्याख्यानं तु भगवदधीनतत्प्रभावातिशयप्रशंसार्थम् । एकस्यैव हि सर्वशरीरिणो “बहु स्याम्” (तै. भृ) इति सङ्कल्पक्षमत्वमिति प्रागेव स्थापितम् । अत एव “श्रीमति विष्वक्सेने न्यस्तसमस्तात्मैश्वर्यम्”, इति श्रीवैकुण्ठगद्योक्तिरपि भक्तानां स्वामिसेवाविघ्नप्रशमने परिजननियोगादौ योजनीया । विष्वक्सेनमन्त्रे तु “विश्वसृजः” इति पदं मुक्तवत्प्रभूतसृष्टिमात्रपरम्, विशेष्यभूतपरमात्मपर्यन्तं वा नेतव्यम् । नित्यानां ज्ञानभोगयोः ईश्वरेण मिथश्ात्यन्तसाम्येऽपि विग्रहाधिकारयोर्वैषम्यं भगवन्नित्ये्छासिद्धम् । प्रियेणेत्येतदनन्तगरुडादिष्वपि समानम् । अत्र तु विज्ञापनाधिकारिणि वाक्यानतिलङ्घनार्थं विशेषत उक्तम् । निवेदितमिति पाठे यदित्यस्य तदिति प्रतिनिर्देशोऽध्याहर्तव्यः । न्यवेदि तदिति पाठस्समीीनः । “यद्वृत्ते पूर्वं प्रयुक्ते तद्वृत्तमनन्तरं प्रयोक्तव्यमेव” इति ह्याहुः । सेनापतिनिवेदितस्य भगवदभिमतत्वमाह – तत्तथाऽनुजानन्तमुदारवीक्षणैरिति । भगवति तत्परिजने सर्वज्ञेऽप्येवं निवेदनप्रेक्षणादिव्यापाराः स्व्छन्दलीलाप्रवृत्ताः । यद्यथा तत्तथेति स्वरूपप्रकारयोरविसंवादार्थम् । वीक्षणानामुदारत्वमैश्वर्यव्यञ्जकतया सौन्दर्यादिगुणातिशयात् तदाज्ञाभिप्रायगर्भतयाऽऽनन्दप्रदत्वा ॥ ४२ ॥

त एते नित्यसूरिषु प्रधानतमास्त्रय उक्ताः । अथ तद्वदसङ्ख्यातनित्यसूरिसेवाप्रकारमात्मनः प्राप्यत्वेनाभिसन्धायाह –

हताखिलक्लेशमलैः स्वभावतः त्वदानुकूल्यैकरसैस्तवोितैः ।

गृहीततत्तत्परिारसाधनैर्निषेव्यमाणं सिवैर्यथोितम् ॥ ४३ ॥

हताखिलेति ॥ “अविद्याऽस्मितारागद्वेषाभिनिवेशाः क्लेशाः (योगसूत्रे); त एव मलत्वेनो्यन्ते । तदविनाभूतत्रिगुणात्मकप्रकृतिसंबन्धो वा । अप्रतिबुद्धाः सर्वक्लेशाक्रान्ताः, प्रतिबुद्धास्तु कतिपयक्लेशरहिताः, उपायतो निवृत्तनिखिलक्लेशास्तु मुक्ताः, नित्यास्त्वनादिनिर्धूतनिखिलक्लेशाः इत्यभिप्रायेण स्वभावत इत्युक्तम् । श्रूयते हि “तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः” (नृसिंहतापनीयोपनिषदि) इति । न ह्येतन्मुक्तप्रवाहविषयं, सदा दर्शनकर्तॄणां बहूनामभिधानात् । नित्यसर्वज्ञत्वादेव क्लेशादेरनवकाशः । एतेषां “तद्विप्रासो विपन्यवो जागृवांसस्समिन्धते” (नृ. ताप. उप.) इत्युक्तमनुभवप्रकारमभिप्रेत्याह – त्वदानुकूल्यैकरसैरिति । त्व्छेषत्वानुरूपपारतन्त्र्यानुगुणकैङ्कर्यैकरुिभिरित्यर्थः । सदानुकूल्येति पाठेऽप्ययमेवार्थः । तवोितैः

अनादिसर्वज्ञत्वाप्राकृतविग्रहत्वादिभिस्त्वदनुरूपैरित्यर्थः । एतद्विशेषणत्रयमेतेषां भगवदायत्तम् । इदं अनन्तगरुडादीनामपि समानम् । परिारसाधनानि ्छत्रामरादिसेवोपकरणानि । सिवैः – आसन्नसेवायां तत्तद्विभूतिशेषनिर्वहणे नियुक्तैः सूरिभिः । यथोितं तत्तदधिकारनियोगस्य सेव्याभिप्रायस्य स्वाभाविकदासत्वस्य ानुगुणमित्यर्थः ॥ ४३ ॥

ईदृशस्य भगवतः सर्वेषु व्यापारेषु लक्ष्मीसामरस्यमभिप्रेत्याह –

अपूर्वनानारसभावनिर्भरप्रबद्धया मुग्धविदग्धलीलया ।

क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजम् ॥ ४४ ॥

अपूर्वेति ॥ उक्तं श्रीवत्साङ्कमिश्रैः – “क्रीडेयं खलु नान्यथाऽस्य रसदा स्यादैकरस्यात् तया” (श्रीस्तवे १) इति । अपूर्वशब्देन रसभावपरंपरायामुत्तरोत्तरस्य विलक्षणत्वमननुभूतजातीयवदाश्र्यत्वं वा विवक्षितम् । रसभावाः गान्धर्ववेदप्रदर्शिताः वीरशृङ्गारादयः, उत्साहादयश् । तैः निर्भरप्रबद्धया – प्रभूतसन्ततया । मौग्ध्यवैदग्ध्यसम्भेदादद्भुतत्वमभिप्रेत्याह – मुग्धविदग्धलीलयेति । लीलाया नित्यनिरतिशयत्वं व्यनक्ति – क्षणाणुवत् क्षिप्तपरादिकालयेति । क्षणमेव पर्वतस्थानीयं कृत्वा तस्याणुः सूक्ष्मतम एकदेश इति कल्पितोऽयं दृष्टान्तः, तद्वत्परादिकालः क्षिप्तः इत्यतिशयोक्तिः । तुर्मुखस्यायुः परो नाम कालः । आदिशब्देन असङ्ख्याततुर्मुखातिक्रान्तिकालव्यञ्जनम् । स्मर्यते हि “गङ्गायास्सिकताः धारा तथा वर्षति वासवे । शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥” (भार. आश्व. वैष्णवधर्मशास्त्रे) इति । महिषीं प्रधानपत्नीं श्रियमित्यर्थः । उक्तं तस्याः प्रधानतमत्व(वैषम्य)म् श्रीवैकुण्ठगद्ये – “शेषशेषाशनादिसर्वं परिजनं भगवतस्तत्तदवस्थोितपरिर्यायामाज्ञापयन्त्या” इति । प्रहर्षयन्तमिति वर्तमाननिर्देशस्सदातनत्वाभिप्रायः । एवं प्रहृष्टायाः प्रियायाः “बभूव हृष्टा वैदीही भर्तारं परिषस्वजे” (रामा. अर.) इत्युक्तप्रकारेण सर्वस्वभूतपरिष्वङ्गप्रदानानुगुणं प्रियस्य भुजवैभवमाह – महाभुजमिति । उक्तं ह्यवतारे तद्भुजमहत्त्वं “बाहु्छायामवष्टब्धो यस्य लोको महात्मनः” (रामा.) इति ॥ ४४ ॥

अथ प्रथमप्रस्तुतां यौवनविशेषितां सर्वित्ताकर्षकसमुदायशोभामाश्रयणीयत्वभोग्यत्वौपयिकगुणविशेषांश् सङ्कलय्यानुभवति –

िन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिम् ।

श्रियः श्रियं भक्तजनैकजीवितं समर्थमापत्सखमर्थिकल्पकम् ॥ ४५ ॥

िन्त्येति ॥ अिन्त्यम् – परमयोगिभिरप्यपरि्छेद्यम्, कुतर्कैरसंभावितमिति प्रतिक्षेप्तुमशक्यं । दिव्यम् – अप्राकृम् । अद्भुतम् – सदाऽनुभूतत्वेऽप्यदृष्टपूर्ववदाश्र्यावहम् । नित्यम् – कौमारवार्धकावस्थापरि्छेदरहितम् । यौवनम् – लोके बाल्यानन्तर्येणोपलक्षणीयः कश्िद्रमणीयसंस्थानविशेषः । स एव स्वभावः स्वासाधारणधर्मो यस्य स इत्यमृतोदधिर्विशेष्यते, स लावण्यमयः लावण्यप्रुरः । लावण्यम् – समुदायशोभा । तदेतल्लक्षयन्ति “भूयिष्ठं तेज एवाद्भिर्बहुलाभिर्मृदूकृतम् । क्षुरानन्दजननं लावण्यमिति कथ्यते ॥” इति । निरतिशयभोग्यमहत्तराकारत्वमभिप्रेत्य अमृतोदधित्वोपारः । अप्राकृतामृतद्रव्यात्मकत्वं वा विवक्षितम् । पूर्वं “कः श्रीः श्रियः” (श्लो. १२) इति परत्वस्थापनायोक्तम् । अत्र तु कैङ्कर्योद्देश्यं निरतिशयभोग्यं रूपं सपत्नीकमिति ज्ञापयितुमाह – श्रियः श्रियमिति । भक्तजनैकजीवितं – भक्तजनानां प्रधानजीवितम् । “मित्ता मद्गतप्राणाः” (गीता. १०-९) इत्यादिकमिह भाव्यम् । यद्वा, भक्तजना एव एकजीवितं यस्य स तथोक्तः । तथाविधप्रीत्यतिशयादेव हि स्वयमेवाह – “ज्ञानी त्वात्मैव मे मतम्” (गीता. ७-१८) इति, “मम प्राणा हि पाण्डवाः” (भारतसावित्री. २३) इति । समर्थं जगत्सृष्ट्यादाविवाश्रितानां (स्वात्म)सात्म्यभोगप्रदाने तद्विरोधिनिरसने प्रतिबन्धकैः प्रतिहन्तुमशक्यमिति भावः । तथा गीयते – “परित्राणाय साधूनाम्” (गीता. ४-८) इत्यादि । आपत्सखम् आश्रितानामापदि प्रियसखन्यायेन समानार्थतयाऽवस्थितमित्यर्थः । अर्थिकल्पकमित्यत्र स्वार्थे कः । अर्थिनां कल्पद्रुमवत् सर्वापेक्षितप्रदमिति यावत् । तथा सूत्रितम् – “फलमत उपपत्तेः” (ब्र.सू. ३-२-३७) इति । यद्वा, अर्थिनः कल्पद्रुमभूता यस्य सोऽर्थिकल्पकः; तदाह – “उदाराः सर्व एवैते” (गीता. ७-१८) इति । अथवा, स्वयमर्थिनः कल्पयतीत्यर्थः । क्षेत्रज्ञानां तत्तत्पुरुषार्थाधिकारदशाऽपि हि परमपुरुषकल्पिता ॥ ४५ ॥

एवं प्राप्यं भगवन्तं यथावस्थितमनुसन्धाय तज्जनितहर्षप्रकर्षेण परमपुरुषार्थकाष्ठाभूतं निरुपाधिककैङ्कर्यमभ्यर्थयते –

भवन्तमेवानुरन् निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।

कदाऽहमैकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ॥ ४६ ॥

भवन्तमिति ॥ प्राप्यप्रापकत्वानुगुणप्रागुक्तसर्वाकारपरिपूर्णमित्यर्थः । कर्माधीनसेव्यान्तरनिवृत्तिव्यञ्जनार्थ एवकारः । एतेन “गीतिज्ञो यदि योगेन नाप्नोति परमं पदम् । रुद्रस्यानुरो भूत्वा तेनैव सह मोदते” इत्यादिषूक्तं रुद्राद्यनुरणं व्यव्छिन्नं भवति । यद्वा, मुक्तस्य स्वे्छया भगवत्परिजनसेवाऽपि त्छेषिपर्यन्तत्वबुद्धिपूर्विकेत्यभिप्रायः । अनुरन् तत्तदवस्थोितवृत्त्या सेवमान इत्यर्थः । अत्र तु (अत्रत्यसान्तर) अवान्तरसेवाव्यावृत्त्यर्थं निरन्तरमित्युक्तम् । उत्तरावधिराहित्यमभिप्रेत्य वर्तमानव्यपदेशः । “एतमानन्दमयमात्मानमुपसंक्रम्य । इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्रन्” (तै. आन.) इति श्रुतिश्ानेन सू्यते । अत्र “कुरुष्व मामनुरम्” (रामा. अयो. ३१-२४), “भवांस्तु सह वैदेह्या गिरिसानुषु रंस्यते । अहं सर्वं करिष्यामि जाग्रतस्स्वपतश् ते ॥” (रामा. अयो. ३१-२७) “तवानुभूतिसंभूतप्रीतिकारितदासताम् । देहि मे कृपया देव न जाने गतिमन्यथा ॥ सर्वावस्थोिताशेषशेषतैकरतिस्तव । भवेयं पुण्डरीकाक्ष त्वमेवैवं कुरुष्व माम् ॥” इत्यादिकमनुसन्धेयम् । एवंविधकैङ्कर्यसिद्ध्यर्थं प्रयोजनान्तरे्छा त्वयैव प्रशमनीयेत्यभिप्रायेणाह – प्रशान्तनिश्शेषमनोरथान्तर इति । ऐकान्तिकः एकस्मिन्नेव नियतः । यद्यपि ब्रह्मरुद्रप्राप्तौ क्विदपुनरावृत्तिरु्यते, तथाऽपि “ब्रह्मणा सह ते सर्वे संप्राप्ते प्रतिसञ्रे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥” (कूर्मपूराणे १२-२७३) इत्युक्तन्यायात् क्रमेण मुक्तिपर्यन्तत्वं तत्राभिप्रेतम् । अतोऽत्र नित्यशब्देन देवतान्तरकिङ्करत्वव्यव्छेदः । तदेतत् “क्वाहमत्यन्तदुर्बुद्धिः” (जितन्ते १.१८) इत्यादिवादिनं पुण्डरीकं प्रति भगवतोक्तम् – “आग्छ वत्स भद्रं ते पुण्डरीक महामते । मद्रूपधारी नित्यात्मा मम पादपरिग्रहः ॥” इति । प्रहर्षयिष्यामि त्वद्दासभूतस्य मे त्वत्प्रहर्ष एव प्रधानं प्रयोजनमिति भावः । एवं स्वाधीनस्वार्थकर्तृत्वभोक्तृत्वभ्रमरहितकैङ्कर्यप्रर्थिना कृता भवति । इतः पूर्वं त्वदुपेक्षया त्वत्सनाथोऽपि नाथहीन इवाहमासम् । ईदृशं दैन्यं त्वत्सङ्कल्पादेव हि मे निवर्तिष्यत इत्यभिप्रायेणाह – सनाथजीवित इति ॥ ४६ ॥

नन्वेवं मुमुक्षुदशां मया त्वं प्रापितोऽसि; इयं मद्गुणास्वादगर्भतया मुक्त्यवस्थासमाना त्वया सनकादिभिरिव कञ्ित्कालमनुभूयतामिति भगवदभिप्रायमाशङ्क्य स्वस्य कार्पण्यस्थेम्ने विलम्बाक्षमतया त्वरातिशयव्यञ्जनाय दुर्लभप्रार्थिनं स्वात्मानं निन्दति –

धिगशुिमविनीतं निर्भ(र्द)यं मामलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।

विधिशिवसनकाद्यैर्ध्यातुमत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ॥ ४७ ॥

धिगशुिमिति ॥ धिक्शब्दयोगात् द्वितीया । ननु “आत्मनिन्दाऽऽत्मपूजा ” इति स्वनिन्दाऽपि निषिद्धा । सत्यम्; न तु सर्वत्र । यथा खल्वाञ्जनेयादेः स्वप्रशंसा क्विद्गुणः, तथाऽऽत्मनिन्दाऽप्येतस्य स्वदैन्यख्यापनस्थले, इति । अशुिं त्वत्कैङ्कर्यविरुद्धप्रकृतिसंस्पृष्टं तदनुबन्धिक्लेशकर्मादिदूषितं (तया) भावशुद्धिरहितत्वेऽपि तद्वत्तां भावयन्तं । नित्यशुद्धाः सूरयश्शान्तदोषा मुक्ताश् त्वत्कैङ्कर्ययोग्याः । तत्र कोऽहमिति भावः । नन्वाार्यवन्तमात्मानं किमर्थं निन्दसीत्यत्राह – अविनीतमिति । यद्वा, आार्यनियोगे ममावस्थानं स्यात्, तदा क्षत्रबन्धुवत् क्रमेण मुक्तः स्याम्, मम त्वाार्यवत्ताऽपि विनयाभावात् सात्त्विकविडम्बनार्थैव संवृत्तेति भावः । अयोग्यस्य दुर्लभाभिलाषः “परद्रव्येष्वभिध्यानं मनसाऽनिष्टिन्तनम् । वितथाभिनिवेशश् त्रिविधं मानसं स्मृतम् ॥” इति स्मरणादपारस्स्यात् । अतः पुरोडाशार्थिनः शुन इव मे दण्डघातस्सादिति भयरहितोऽहमित्याह – निर्भयमिति । निर्दयमिति केषांित्पाठे तु परमभागवतभोग्ये परमामृते विषं सञ्जनयन्तमिति व्याख्युः । अत्र मदपराधेन मदनुबन्धिनामपि प्रत्यवायो भवेदिति ज्ञात्वाऽपि प्रवृत्ततया तेषु दयारहितोऽहमिति व्याख्यातुं युक्तम् । माम् – अहङ्कारादिग्रस्तमित्यभिप्रायः । घटदास्यास्सार्वभौमपरिष्वङ्गाभिलाषवत् अनुितविषयोऽस्य मनोरथ इति सद्भिः परिहास्यतामनुसन्धायाह – अलञ्जमिति । सूरिसेव्यस्य भगवतः स्वसंबन्धानर्हं तुङ्गत्वं व्यनक्ति – परमपुरुषेति । स्वस्य निहीनतमत्वप्रसिद्धिमिदानीमपि दोषानुवृत्तिं ाभिप्रेत्याह – योऽहमिति । योगिषु वर्याः योगिवर्याः भगवद्भक्ताः । तथा गीयते – “योगिनामपि सर्वेषाम्” (गीता. ६-४७) इत्यादि । तेष्वग्रगण्याः प्रथमपरिगणनीयाः । विधिशिवसनकाद्यैरित्युभयभावनानां ब्रह्मभावनानां सर्वेषां संग्रहः । ध्यातुमत्यन्तदूरमित्यनेन किं पुनः प्राप्तुमिति व्यज्यते । तव परिजनभावं – स्वानुरूपानन्तगरुडाद्यपरिमितपरिजनवत्तया निरपेक्षं त्वां प्रति किङ्करत्वम् । यद्वा, परिजनक्रियां सेवामित्यर्थः । कामये न मे केवलं सङ्गमात्रं, किन्तु विलम्बाक्षमतीव्रतमश्रद्धावानस्मीत्याशयः । कामतो वृत्तं यस्य सः कामवृत्तः । लोकशास्त्रानादरेणापरीक्षितयथेष्टकारी इत्यर्थः । “लोकयात्रा भयं लज्जा दाक्षिण्यं धर्मशीलता । पञ् यत्र न विद्यन्ते न कुर्यात्तेन सङ्गितम् ॥” इति सर्वपरित्याज्योऽहं कथं त्वत्प्राप्त्यर्ह इति भावः ॥ ४७ ॥

यद्येवं स्वेनापि निन्दनीयस्त्वमिदानीमप्यपराध्यसि, तर्हि कथं ते शीघ्रं मत्प्राप्तिं दास्याम्? इत्यत्रानर्हस्यापि ममात्यन्तदयनीयतया त्वत्प्राप्त्यर्हतापादनम् आत्मसात्करणं कृपया स्वयमेव कुर्वित्याह –

अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।

अगतिं शरणागतं हरे कृपया केवलमात्मसात्कुरु ॥ ४८ ॥

अपराधेति ॥ “न निन्दितम्” (श्लो. २३) इति पूर्वोक्तमत्र अपराधसहस्रभाजनमित्यनूदितम् । त क्षमादिगुणैकभाजनेन त्वया सर्वं क्षन्तव्यमिति सूनार्थम् । “निमज्जतः” (श्लो. २४) इति प्रागुक्तं पतितमित्यादिना पुनर्गृहीतम् । ज्ञानिनां पुण्यफलांशोऽपि रागानुवृत्तिहेतुतया अत्यन्तभयावह इत्यभिप्रायेण भीमशब्दः । एवं संसारस्यातिघोरत्वोक्त्याऽपि स्वस्य परप्राप्तौ विलम्बाक्षमत्वं प्रतिष्ठाप्यते । अगतिमित्यनेन प्रागुक्तानन्यगतित्वं स्थूणानिखननन्यायेन स्थिरीक्रियते । शरणागतमिति पूर्वप्रयुक्तरक्षणव्याजानुवादः । तेन “शरणं प्रपन्नानां तवास्मीति याताम् । प्रसादं पितृहन्तॄणामपि कुर्वन्ति साधवः ॥” (विष्णुधर्मे १०६-५३) इति सामान्यप्राप्तं त्वयि कैमुत्यसिद्धमिति व्यज्यते । “शरण्य!” (श्लो. २२) इत्युक्तं हरिशब्देन स्थापितम् । समर्थः कारुणिको हि शरण्यः; तत्रानितरसाधारणं भगवतः सामर्थ्यम् । “ब्रह्माणमिन्द्रं रुद्रं यमं वरुणमेव । प्रसह्य हरते यस्मात् तस्माद्धरिरितीर्यते ॥” (हर्यष्टके) इति पुराणोक्तम् । तथा कारुणिकत्वं ाश्रितानामनिष्टानि हरतीति विवक्षया व्यञ्जितम् । स्मर्यते हि “हरिर्हरति पापानि” (हर्यष्टके), “देव! प्रपन्नार्तिहर!” इत्यादि । उक्तं परमसंहितायां – “यस्माद्व्याप्तं जगत्तेन तस्माद्विष्णुरिति स्मृतः । हरणादेव दुःखानां हरिरित्यभिधीयते ॥” इति । “ज्ञातं मया वसिष्ठेन पुरा गीतं महात्मना । महतीमापदं प्राप्य स्मर्तव्यो भगवान् हरिः ॥”, “परमापदमापन्नो मनसा िन्तयेद्धरिम्” (विष्णुधर्मे ६९-४७) इत्यादिकमप्येतदभिप्रायम् । कृपया लब्धावसरयेत्यभिप्रेतम् । केवलम् इतः परं मद्व्यापारनिरपेक्षमिति भावः । एतेन साधनान्तरनिष्पादनद्वारकं रक्षणं व्यव्छिद्यते । आत्मसात्कुरु – दासभूतं मामुपायोपेयान्तरवैमुख्यकरणेन स्वकैङ्कर्यैकरसं कुरुष्वेत्याशयः । “धिगशुिम्” (श्लो. ४७) इति पूर्वोक्तस्वात्मतिरस्कारानुवृत्त्या आत्मन्यनादरद्योतनायात्र मामित्यनुक्तिः ॥ ४८ ॥

“न धर्मनिष्ठोऽस्मि” (श्लो. २२) इत्यारभ्य “अकिञ्नः”, इत्यन्तेनोक्तं प्रपञ्यति –

अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।

भगवन् भवदुर्दिने पथः स्खलितं मामवलोकया्युत ॥ ४९ ॥

अविवेकेति ॥ अविवेकरूपैर्घनैरन्धानि प्रकाशरहितानि दिङ्मुखानि यस्य तत् तथोक्तम् । बहुधा – तापत्रयरूपेण, शारीरमानसादितदवान्तरभेदैश् । संततदुःखवर्षिणि – अवि्छेदेन प्रतिकूलवर्गं सर्वत्र विदधाने । भगवन् – हेयप्रतिभटकल्याणैकतान, त्ववेव मां मोयितुमर्हसीति भावः । प्रकाशगतिविरोधितया भवस्य दुर्दिनत्वरूपणम् । पथः – कर्मयोगादिनिवृत्तिधर्मरूपमुक्तिमार्गात्; स्खलितं – प्रभ्रष्टमित्यर्थः । माम् – “त्वत्पादमूलं शरणं प्रपद्ये” (श्लो. २२) इति वादिनमिति भावः । अवलोकय – अनुगृह्णीष्वेत्यर्थः । अ्युत – “न त्यजेयं कथञ्न” (रामा. यु. १८-३) इत्यादिवादिनं त्वामाश्रितः ्युतो न भवतीत्यभिप्रायः । “मूढोऽयमल्पमतिरल्पविेष्टितोऽयं क्लिष्टं मनोऽस्य विषयैः न मयि प्रसङ्गी । इत्थं कृपां कुरु मयि प्रणतेऽखिलेश त्वां स्तोतुमम्बुजभवोऽपि हि देव! नेशः” (विष्णुधर्मे) इति क्षत्रबन्धूक्तम्, “सोऽहं ते देवदेवेश!” (वि.पु. ५-७-७०) इत्यादि कालियवाक्यं ानुसन्धेयम् ॥ ४९ ॥

अथ संसारिणामानन्त्येन त्वदधिकदयनीयलाभात् तत्रैव मे त्वरा युक्ता, किं त्वदवलोकनेनेत्यत्र “त्वयाऽपि लब्धम्” (श्लो. २४), “अभूतपूर्वम्” (श्लो. २५) इत्याद्युक्तं मुखान्तरेण शरण्यस्याप्यनिष्टप्रसङ्गं सूयन् द्रढयति –

न मृषा परमार्थमेव मे शृणु विज्ञापनमेकमग्रतः ।

यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ! दुर्लभः ॥ ५० ॥

न मृषेति ॥ स्ववाक्यसत्यत्वाभिसन्धिद्योतनायात्र व्यतिरेकतोऽन्वयतश् निर्देशः । परमार्थमेव विज्ञापनं शृणु इत्यत्र नेदं स्वरक्षणप्रोत्साहनमात्रेण प्रयुक्तमित्यवधारणाभिप्रायः । विज्ञापनं – सर्वज्ञेऽपि स्वामिनि दासोितं स्वकार्यार्थवाक्यमित्यर्थः । शृण्विति ानादरपरिहारपरम् । एकं – रक्ष्यरक्षकयोर्द्वयोरपि लाभार्थतया प्रधानभूतम् । अथवा, इदमेकमेव विज्ञापनम् । वक्ष्यमाणं सर्वमेतत्परिकरबन्ध इति भावः । अग्रतः – न हि त्वं दूरस्थः सन् पुरुषान्तरमुखेन विज्ञाप्यस इति भावः । मे – कर्मयोगादिसुकृतलेशरहितस्यापराधसहस्रभाजनतया सर्वाधिकदुःखभागिनः । अत्र “अधीगर्थदयेशां कर्मणि” (अष्टाध्यायी २.३.५२) इति षष्ठी । तव दयाविषयान्वेषिण इति भावः । तव दयनीय इत्यन्वयः । दुर्लभ इत्यनेनान्वये तु संबन्धसामान्ये षष्ठी नेतव्या । मम शरण्यान्तरं दुर्लभमित्यभिप्रायेण नाथेति संबुद्धिः । उक्तं हि पूर्वं “िराय मे कूलमिवासि लब्धः” (श्लो. २४) इति । “पराभवो नाथ! न तेऽनुरूपः” (श्लो. २५) इति प्रागुक्तं ात्र प्रतिसन्धेयम् ॥ ५० ॥

अस्त्वेवं दुर्लभः, ततः किं कर्तव्यम्? इत्यत्र – ममैव लाभेऽपि त्वया त्वरितव्यम्; किं पुनस्तवापि लाभे सति; तस्मादावयोरिष्टभङ्गानिष्टप्रसङ्गपरिहारार्थं त्वन्मूलत्वत्प्रवृत्तिसिद्धं रक्ष्यरक्षकत्वरूपं संबन्धं निवारकरहितनिरङ्कुशस्वातन्त्र्यान्निष्फलीकर्तुं नार्हसीत्यभिप्रायेणाह –

तदहं त्वदृते न नाथवान् मदृते त्वं दयनीयवान् न

विधिनिर्मितमेत(द)मन्वयं भगवन्! पालय मा स्म जीहपः ॥ ५१ ॥

तदहमिति ॥ तत् उक्तस्यार्थस्य सत्यत्वादित्यर्थः । अहं मुमुक्षुः सन्नाकिञ्न्यधनः । त्वदृते न नाथवान् सर्वशक्तेः परमकारुणिकात् त्वत्तोऽन्येन शरण्यवान् न भवामीत्यर्थः । मदृते त्वमित्यादि । अपरि्छेद्यापराधफलभूतानन्तदुःखाकरान्मत्तोऽन्येन त्वं दयाविषयवान्न भवसि । मत्परित्यागे मादृशास्सर्वेऽपि तव परित्याज्याः स्युः । एवं सति विषयालाभात् दयागुणस्ते हीयेतेति भावः । सर्वस्मात् संसारिवर्गात् स्वकार्यसिद्ध्यर्थं स्वदोषाधिक्यमारोप्य वा मदृते इत्युक्तम् । विधिनिर्मितम् अनतिक्रमणीयतया दिष्ट्या निर्मितम् । अज्ञातसुकृतविशेषरूपव्याजावलम्बिन्या त्वत्कृपयैवावसरे कॢप्तमिति यावत् । एतमन्वयं – दयावत्त्वदयनीयत्वरूपं संबन्धम् । एतदन्वयमिति केित् पठन्ति । तत्रापि स एवार्थः । एतयोरावयोः संबन्धमिति वा । भगवन् इत्यनेन मोक्षप्रदत्वमुक्तप्राप्यत्वानुगुणमुभयलिङ्गत्वमुद्घाट्यते । पालय सफलीकुरुष्वेति भावः । मा स्म जीहपः – यद्यप्यहमपर्यनुयोज्यदुष्कर्मवशादिमं संबन्धं हातुमि्छामि, तथाऽपि त्वया न तथा प्रवर्तनीयोऽहमिति भावः ॥ ५१ ॥

अस्त्वेवं त्वदुक्तं सर्वं सत्यमुितं ; तथाऽपि “ज्ञानानन्दमयस्त्वात्मा शेषो हि परमात्मनः”, इत्याद्युक्तस्वरूपज्ञानमन्तरेण स्वरूपानुरूपपुरुषार्थापेक्षापूर्वकतदुपायः कथं ते निष्पन्नः? त्वयि सहजसंबन्धपरित्यागिनि ममापि रक्ष्यरक्षकत्वसंबन्धपरित्यागे को दोषः? “त्वं मेऽहं मे” (पराशरभट्टारकमुक्तकश्लोकः) इति आवयोरनादिर्विवाद इदानीमपि न शान्त इत्यत्र “स्वामिन्” (श्लो. १०) इत्यादिभिः प्रागपि संक्षिप्तं, “तद्वा एतदनुज्ञाक्षरं यद्धि किंानुजानाति, ओमित्येव तदाह”, इति ्छान्दोग्याधीतानुज्ञाक्षरप्रदर्शितशेषत्वाभ्युपगमेनोत्तरमाह –

वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः ।

तदयं तव पादपद्मयोरहमद्यैव मया समर्पितः ॥ ५२ ॥

वपुरादिष्विति ॥ आदिशब्द इन्द्रियादिसङ्ग्रहार्थः । यथोक्तम् आत्मसिद्धौ – “देहेन्द्रियमनःप्राणधीभ्योऽन्योऽनन्यसाधनः । नित्यो व्यापी प्रतिक्षेत्रमात्मा भिन्नस्स्वतस्सुखी ॥” इति । योऽपि कोऽपि वा – अहं वपुरादिषु यः कश्ित् स्याम् । प्रमाणसिद्धस्याहमर्थस्य सारभूते त्व्छेषत्वे मम निर्बन्धः । सामान्यतश् स्वानुगुणसारग्रहणमु्यते “यावानर्थ उदपाने” (गीता.२.४६), “बहुभ्यश् महद्भ्यश् शास्त्रेभ्यो मतिमान् नरः । सर्वतः सारमादद्यात् पुष्पेभ्य इव षट्पदः ॥” (भार.शान्ति. १७६-६६) इत्यादिभिः । अत्र देहात्मभ्रमाद्यनुवृत्तिर्भवतु वा मा वा, “योऽहमस्मि स सन् यजे” (तै.ब्रा ३.७) इति न्यायमिहाश्रयामीति भावः । तथाऽपि ज्ञातृत्वकर्तृत्वभोक्तृत्वादिविवेकमन्तरेण कथमुपायानुष्ठानं फलितं वा स्यादित्यत्राह – गुणतोऽसानि यथातथाविध इति । अणुत्वविभुत्वमध्यपरिमाणत्वजडत्वाजडत्वनित्यज्ञानत्वकरणाधीनज्ञानत्वादिविवेकोऽत्र नातीवापेक्षितः । अपेक्षितत्वेऽप्यात्मस्वरूपप्रकारयोरत्यन्तपरिज्ञाने मम शक्तिर्नास्ति । स्वतः सर्वज्ञस्त्वमेव योऽसौ यत्प्रकारश्ेति मन्यसे, स तथाऽहमिति सामान्यतः प्रबुद्धोऽहमिति भावः । तत् – एतावताऽपि प्रस्तुतशास्त्रार्थविरोधाभावादिति यावत् । अयमहं – त्वदनुसंहितयथावस्थिताकारशरणवरणानुगुणार्थित्वसामर्थ्यवानहमित्यर्थः । आत्मस्वरूपनिरूपणदशायामहंशब्दप्रयोगादहमर्थ एवात्मेति स्थापितं भवति । तव पादपद्मयोः समर्पितः – “यस्यास्मि न तमन्तरेमि” (यजुर्ब्राह्मणे ३.७) इति न्यायात्त्व्छेषत्वेन न्यस्त इत्यर्थः । मया – त्वद्दत्तकरणकलेबरबुद्धिश्रद्धाकार्पण्यादिशालिना । स्मर्यते हि – “विित्रा देहसंपत्तिरीश्वराय निवेदितुम् । पूर्वमेव कृता ब्रह्मन्! हस्तपादादिसंयुता ॥” (विष्णुतत्त्वे) इति । इतः परं त्वया सह विवादो मे न भविष्यतीत्यभिप्रायेणाह – अद्यैवेति । अत्र “यदि क्षणिकमेव मम स्वरूपम्, तथाऽपि तस्मिन्नेव क्षणे निक्षिप्तः” इति केषांिद्व्याख्यानं त्वतिवादमात्रम् । एवं मुमुक्षूणामात्मात्मीयं सर्वं भगव्छेषत्वेनानुसन्धेयमिति निवृत्तिधर्मसारो निष्कृष्टः । उक्तं ैतदुपरिराख्याने (भार.शान्ति. ३४३.२४) “आत्मा राज्यं धनं मित्रं कलत्रं वाहनानि । एतद्भगवते सर्वमिति तत्प्रेक्षितं सदा ॥” इति । श्रीविष्णुतत्त्वे – “स्वत्वमात्मनि संजातं स्वामित्वं ब्रह्मणि स्थितम् । उभयोरेष संबन्धो न परोऽभिमतो मम ॥ स्वोज्जीवने्छा यदि ते, स्वसत्तायां स्पृहा यदि । आत्मदास्यं हरेस्स्वाम्यं स्वभावं सदा स्मर ॥”, इति । सर्वसंशयनिर्मोक्ता नारदश् पुण्डरीकसंवादे प्राह – “दासोऽहं वासुदेवस्य देवदेवस्य शार्ङ्गिणः । शङ्खक्रगदापाणेस्त्रैलोक्यस्यैकक्षुषः ॥” इति । ईश्वरसंहितायां महादेवश्ाह – “दासभूतास्स्वतस्सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम्” (मन्त्रराजपदस्तोत्रे १२) इति ॥ ५२ ॥

ननु “मया समर्पितः” (श्लो. ५२) इत्यत्र स्वशेषत्वानुसन्धानपूर्वकं स्वाधीनकर्तृत्वबुद्ध्या समर्पयसि ेत् “योऽन्यथा सन्तमात्मानमन्यथा प्रतिपद्यते । किं तेन न कृतं पापं ोरेणात्मापहारिणा ॥” (भार.उद्योग. ४१-३७) इत्युक्तात्मापहारादिदोषः परिहृतो न स्यादित्यत्र स्वोक्ताभिप्रेतं विवृणोति –

मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव! ।

नियतस्वमिति प्रबुद्धधीरथवा किं नु समर्पयामि ते? ॥ ५३ ॥

मम नाथेति ॥ अत्र जीवपरमात्मयाथात्म्यविषयः प्रमाणगणः पदद्वये प्रतिसन्धेयः । यदस्तीति स्वानुबन्धितया प्रमाणसिद्धगुणविग्रहादिसर्वसंग्रहः । ममेति व्यतिरेकोक्त्या देहात्मभ्रमादिः परिहृतः । त्र्यक्षरब्रह्मणि तृतीयाक्षरविवक्षितं विविक्तात्मस्वरूपमाह – योऽस्म्यहमिति । सकलं तत् – आत्मात्मीयं तत्सर्वम् । हिशब्देन प्रमाणप्रसिद्धिर्द्योत्यते । तव – सर्वकारणतया सर्वरक्षकतया प्रथमाक्षरप्रकृत्युक्तस्य । एवकारेण मध्यमाक्षरसिद्धमनन्यार्हत्वं प्रकाश्यते । माधव – श्रियः पते! । एतेन निरुपाधिकसर्वशेषित्वं सू्यते । तुर्थीविवक्षितमाह – नियतस्वमिति । नित्यशेषभूतमित्यर्थः । इति प्रबुद्धधीः – एवं त्वत्प्रसादसन्धुक्षितैः शास्त्रैः विकसितबुद्धिरिति भावः । शङ्कितदोषव्यव्छेदाभिप्रायेणाह – अथवेति । किं नु समर्पयामि ते? सर्वस्वामिनः सर्वेश्वरस्य तव पूर्वमशेषभूतं मयेदानीं स्वातन्त्र्यस्वामित्वाभिमानपूर्वकं शेषीकर्तव्यं न किञ्िदस्ति । अतः पूर्वश्लोककृतं समर्पणं त्व्छेषत्वप्रतिपत्तिमात्ररूपम्; न तु मदीयस्य त्व्छेषत्वापादनरूपमिति भावः ।

“अत्र पूर्वकृतस्वरूपसमर्पणानुशयेन तदेव प्रतिक्षिप्यते”, इति पक्षस्त्वप्रतिबुद्धानाम् आत्मसमर्पणमभिप्रेत्योक्तिः । अस्य तु यामुनाार्यस्य प्रागेव प्रतिबुद्धत्वादस्मदुक्तैव गमनिका । न खलु “अद्यैव मया समर्पितः” (श्लो. ५२) इत्युक्तेरनन्तरमस्य तत्त्वप्रतिबोधः । एवं भरसमर्पणरूपप्रपत्तिपरः पूर्वश्लोकः । अयं तु तत्त्वविदां तस्यैवाकर्तव्यत्वस्थापनार्थः” इति पक्षोऽपि नियतस्वमिति प्रबुद्धधीः, “अवबोधितवानिमां यथा” (श्लो. ५४) इत्यादिभिर्न सङ्ग्छते । भरन्यासविधायकशास्त्रैश् विरुध्येत । “संबन्धज्ञानमात्रमेव प्रपत्तिः” इति वादश्ात एव निरस्तो लोकविरुद्धश्

अप्रपन्नेऽपि संबन्धबुद्धिर्दासे हि दृश्यते । अमित्रे गत्यभावेन प्रपन्नेऽपि न दास्यधीः ॥ ३२ ॥

अन्यथा “तां त्वां दास इति प्रपन्न इति ” (तुश्लोकी २) इत्यादिभिरपि विरुध्येत । अतो मुमुक्षूणां भरसमर्पणरूपप्रपत्तौ संबन्धज्ञानमधिकारकोटौ स्थित्वाऽनुष्ठानकालेऽपि फलसङ्गकर्तृत्वादित्यागवत् तिष्ठतीति मन्तव्यम् ॥

महतामपि केषांिदतिवादाः पृथग्विधाः । तत्तदर्थप्रशंसादितत्परत्वादबाधिताः ॥ ३३ ॥ ५३ ॥

यद्येवं म्छेषत्वप्रतिबोधस्ते संजातः, तेन लब्धाधिकार उपायनिष्पत्त्या मुक्तो भविष्यसि; अद्य पुनरादेहपातात् किमपेक्षितमित्यत्र त्वत्प्राप्तित्वराजननीं त्वदेकभोग्यत्वानुगुणभक्तिं देहीत्याह –

अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयम् ।

कृपयैवमनन्यभोग्यतां भगवन्! भक्तिमपि प्रय्छ मे ॥ ५४ ॥

अवबोधितवानिति ॥ त्वमेव ह्यनभिज्ञं मां ज्ञानिनं कृतवानिति कृतज्ञताप्रकाशनमिदम् । इमां – दृढप्रमाणप्रमितामदृष्टपूर्वतयाऽद्भुतत्वेन स्वादुतयाऽनुभूयमानां निरपेक्षकर्तृत्वादिदूरोज्झितां ेति भावः । मयि नित्यां भवदीयतां – त्व्छरीरभूते मयि कालपरि्छेदरहितां त्व्छेषतामित्यर्थः । स्वयं – कृपानिविष्टस्त्वमेवेति यावत् । कृपयैवमिति पाठस्समीीनः, यथाशब्दप्रतिनिर्देशस्य अपेक्षितत्वात् । अनन्यभोग्यतां – भगवद्व्यतिरिक्तं भोग्यं यस्य सोऽन्यभोग्यः, तद्व्यतिरिक्तोऽनन्यभोग्यः, तादृशताम् । परमभक्तिगोरत्वं तत्प्रदातृत्वं तव युक्तमित्यभिप्रायेण संबोधयति – भगवन्निति । भक्तिमपि – त्वयि प्रकृष्टां प्रीतिं । तदिदमु्यते – “परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि” (बार्हस्पत्यस्मृतिः) इति । कृपयैतत् इति पाठे तु एतदिति वाक्यभेदः । एतदनन्यभोग्यतामिति समस्तं वा भक्तिविशेषणम् । स्वव्यतिरिक्तभोग्यतारहितमित्यर्थः । भक्तिमपि प्रय्छ मे – अत्र “या प्रीतिरविवेकानाम्” (वि.पु. १-२०-१९) इत्यादिश्लोकद्वयं भाव्यम् ।

ननु परमैकान्तिनां भगवति याञ्ा निषिध्यते । “निराशीःकर्मसंयुक्तं सात्त्वतं ाप्यकल्पयम्” इति ोक्तम् । सत्यम्; अहितं न यायो भगवानिति हि तत्र तात्पर्यम् । तदभिप्रायेण ह्यु्यते “अन्नं पानं धनं वस्त्रमायुरारोग्यमास्पदम् । आपद्यपि न याेत पूजकः पुरुषोत्तमम् ॥ नाप्रप(स)न्ने ददाम्येतद्याितोऽपि दिनेदिने । अयातोऽपि तत्सर्वं प्रप(स)न्ने विदधाम्यहम् ॥” इति । तथा “याितोऽपि सदा भक्तैर्नाहितं कारयेद्धरिः । बालमग्नौ पतन्तं तु माता किं न निवारयेत् ॥” (विष्णुधर्मे) इति । संहितान्तरे “तत्पादभक्तिज्ञानाभ्यां फलमन्यत् कदान । न याेत्प्रणतो विष्णुं यानान्नश्यति ध्रुवम् ॥” इति । अत्र । भक्तिज्ञानवनं वक्ष्यमाणभागवतकटाक्षादेरप्युपलक्षणम् । अवश्यापेक्षितविषये तु भगवन्तमेव याेतेत्यपि नियम्यते ॥ ५४ ॥

न केवलं त्वद्भक्तिरेव मे प्रार्थनीया । तद्विवृद्धये तत्फलत्वेन त्वदीयेषु भक्तिस्तत्सन्निकर्षश् मे स्यादित्यभिप्रायेणाह –

तव दास्यसुखैकसङ्गिनां भवनेष्वस्त्वपि कीटजन्म मे ।

इतरावसथेपु मा स्म भूदपि मे जन्म तुर्मुखात्मना ॥ ५५ ॥

तव दास्येति ॥ उक्तं हि तत्सङ्गतिफलं ्यवननहुषसंवादे – ‘संभाषा दर्शनं स्पर्शः कीर्तनं स्मरणं नतिः । पावनानि किलैतानि साधूनामिति शुश्रुम ॥ सेव्याः श्रियोऽर्थिभिस्सन्तः पुण्यतीर्थफलोपमाः । क्षणोपासनयोगोऽपि न तेषां निष्फलो भवेत् ॥ साधूनां दर्शनं पुण्यं तीर्थभूता हि साधवः । कालेन फलदं तीर्थं सद्यस्साधुसमागमः’ इति । एवं ‘सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गमम् । सद्भिर्विवादं मैत्रीं नासद्भिः किञ्िदारेत् ॥’ (वि.ध. २-८) ॥ ‘अहन्यहनि धर्मस्य योनिः साधुसमागमः । मोहजालस्य योनिर्हि मूढैरेव समागमः ॥’, ‘वासो यथा रागवशं प्रयाति तथा स तेषां वशमभ्युपैति । सत्सन्निकर्षे परिवर्तितव्यं विद्याधिकाश्ापि निषेवणीयाः ॥ सुवर्णतां ग्छति सन्निकर्षात् नीलः खगो मेरुमिवाश्रयन् वै’ इत्यादि वनानि द्रष्टव्यानि । तव दास्यसुखैकसङ्गिनां – त्वत्कैङ्कर्यप्रीतिमात्रासक्तानामित्यर्थः । एतेन ‘एकान्तशीलस्य दृढव्रतस्य पञ्ेन्द्रियप्रीतिनिवर्तकस्य । अध्यात्मविद्यागतमानसस्य मोक्षो ध्रुवो नित्यमहिंसकस्य ॥’ (भार. शान्ति. ३१३ अ) इत्यादिप्रसिद्धं वैषयिकसुखवैमुख्यं व्यज्यते । ईदृशानां स्वेनान्यैश् बहुमन्तव्यत्वं भगवतोक्तम् – ‘मद्भक्तजनवात्सल्यं पूजायां ानुमोदनम् । स्वय(माराधने यत्नः) मभ्यर्नं ैव ममार्थे डम्भवर्जनम् ॥ मत्कथाश्रवणे भक्तिः स्वरनेत्राङ्गविक्रिया । ममानुस्मरणं नित्यं य मां नोपजीवति ॥ भक्तिरष्टविधा ह्येषा यस्मिन् म्ले्छेऽपि वर्तते । स विप्रेन्द्रो मुनिः श्रीमान् स यतिः स पण्डितः ॥ तस्मै देयं ततो ग्राह्यं स पूज्यो यथा ह्यहम् ।’ (गरुडपुराणे २१९-६,७,८,९) इति । मोक्षधर्मे ‘ब्रह्मादिभ्योऽपि भक्त्या वै परया यत्प्रयुज्यते । तत्सर्वं देवदेवस्य रणावुपतिष्ठते (भार.शान्ति. ३५३-६३) इत्युक्त्वाऽनन्तरमु्यते – ‘याः क्रियाः संप्रयुक्ताः स्युरेकान्तगतबुद्धिभिः । ताः सर्वाश्शिरसा देवः प्रतिगृह्णाति वै स्वयम् ॥ अहो ह्येकान्तिनः सर्वान् प्रीणाति भगवान् हरिः । विधिप्रयुक्तां पूजां गृह्णाति शिरसा स्वयम् ॥’ (भार.शान्ति. ३५३-६४,६५) इति । ईदृशभागवताभिमानगोरत्वाय स्थानान्तरगमनानर्हानन्यगतित्वविवक्षया कीटजन्मापीत्युक्तम् । ‘शुीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते’ (गीता. ६-४१) इत्युक्तमुत्कृष्टजन्म तिष्ठतु । ‘पशुर्मनुष्यः पक्षी वा ये वैष्णवसंश्रयाः । तेनैव ते प्रयास्यन्ति तद्विष्णोः परमं पदम्’ (शाणडिल्यस्मृतिः १-१५) इत्यादिषूक्तमपकृष्टजन्मापि त्वदिष्टविनियोगसिद्धत्वा्छेषत्वकाष्ठावेदिनो ममालम् । भागवताभिमानविषयभूतदेशवासित्वं तत्कैङ्कर्यं ममापेक्षितमिति तात्पर्यम् । अपिशब्दस्तत्र गाढाभिसन्धिं द्योतयति । यथोक्तम् – ‘मम मद्भक्तभक्तेषु प्रीतिरभ्यधिका भवेत् । तस्मान्मद्भक्तभक्ताश् पूजनीया विशेषतः ॥’ (भार.आश्व. ११६-२३) इति । इतिहाससमुये (२५-२) ‘तस्माद् विष्णुप्रसादाय वैष्णवान् परितोषयेत् । प्रसादसुमुखो विष्णुस्तेनैव स्यान्न संशयः ॥’ इति ।

शाण्डिल्यस्मृतौ (१-९५,९६) ‘सिद्धिर्भवति वा नेति संशयो्युतसेविनाम् । न संशयोऽत्र तद्भक्तपरिर्यारतात्मनाम् ॥ केवलं भगवत्पादसेवया विमलं मनः । न जायते यथा नित्यं तद्भक्तरणार्नात् ॥’ इति । श्रीपौष्करे ‘दुर्लभा भगवद्योगभाविनो भुवि मानवाः । तद्दर्शनात् तदालापात् सुलभं शाश्वतं पदम् ॥’ इति । एवम् ‘आराधनानां सर्वेषां विष्णोराराधनं परम् । तस्मात्परतरं प्रोक्तं तदीयाराधनं परम् ॥’ (पाद्मोत्तरे २९-८१) ‘तस्य यज्ञवराहस्य विष्णोरमिततेजसः । प्रणामं येऽपि कुर्वन्ति तेषामपि नमोनमः ॥’ (भार.शान्ति. ४६-१३०; विष्णुधर्मे ९०-५५) इत्यादि द्रष्टव्यम् । इतरावसथेषु अभागवतनिवासेषु । तुर्मुखात्मनाऽपि जन्म मा स्म भूत् – किं पुनर्मनुष्याद्यात्मनेति तात्पर्यम् । त्वन्नाभिपद्मे तुर्मुखात्मनाऽपि जन्म मदभिसन्धिविरुद्धमित्यभिप्रायेण पुनरपि मे इत्युक्तम् ॥

एतेन भागवतानामभागवतसंसर्गः परिहार्य इत्युक्तं भवति । तथा बह्वृा आमनन्ति ‘नेदंविद् अनिदंविदा समुद्दिशेन्न सह भुञ्जीत, न वसथमाविश्यात्’ इति । स्मर्यते ‘शैवान्पाशुपतान् स्पृष्ट्वा (दृष्ट्वा) लोकायतिकनास्तिकान् । विकर्मस्थान् द्विजान् शूद्रान् सवासा जलमाविशेत् ॥’ (पराशरस्मृतिः) इति । ‘असतां दर्शनात् स्पर्शात् सम्पर्का सहासनात् । धर्मााराः प्रणश्यन्ति यथा सैकतमम्भसा ॥’ इति । शाण्डिल्यस्मृतौ (१-१२१) ‘मूढैः पापरतैः क्रूरैः सदागमपराङ्मुखैः (भगव्छास्त्रदूषकैः) । संबन्धं नारेद्भक्तिर्नश्यत्येतैस्तु सङ्गमात् ॥’ इति । वैष्णवे पुराणे (३-१८-१०५) ‘पुंसां जटाभरणमौण्ड्यवतां वृथैव मोघशिनामखिलशौबहिष्कृतानाम् । तोयप्रदानपितृपिण्डविनाकृतानां संभाषणादपि नरा नरकं प्रयान्ति ॥’ इति । अन्यत्र ‘वरं हुतवहज्वालापञ्जरान्तर्व्यवस्थितिः । न शौरििन्ताविमुखजनसंवासवैशसम् ॥’ (कात्यायनस्मृतिः) इति । तथा ‘अद्यप्रभृति हे लोकाः! यूयं यूयं वयं वयम् । अर्थकामपरा यूयं नारायणपरा वयम् ॥ नास्ति सङ्गतिरस्माकं युष्माकं परस्परम् । वयं तु किङ्करा विष्णोर्यूयमिन्द्रियकिङ्कराः ॥’ इति । पितृभिश्ैवमुक्तं ‘मा जनिष्ट स नो वंशे, जातो वा द्राग्विपद्यताम् । आजन्ममरणं यस्य वासुदेवो न दैवतम् ॥’ (वराहपुराणे) इति । ‘अवैद्यः (आविद्यः) प्राकृतः प्रोक्तो वैद्यो वैष्णव उ्यते । (आवि) अवैद्येन न केनापि वैद्यः किञ्ित्समारेत् ॥’ (सात्त्वसंहिता) इति ॥ ५५ ॥

एवमभागवतसंसर्गपरिहारेण भागवतैः सन्निकर्षस्तव भवतु, तैस्ते किं साध्यमित्यत्राह –

सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।

महात्मभिर्मामवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ॥ ५६ ॥

सकृदिति ॥ सदा दर्शनस्यापेक्षितत्वेऽपि सकृद्विलोकनोक्तिस्तस्य पुरुषार्थभूयस्त्वव्यञ्जनार्था । तथा योध्यावासिनां वाक्यम् – “अलमद्य हि भुक्तेन परमार्थैरलं नः । यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥”, “इ्छामो हि महाबाहुं रघुवीरं महाबलम् । गजेन महता यान्तं रामं छत्त्रावृताननम् ॥” (रामा.अयो. १७.१०,११) इति । तथा “मेघश्यामं महाबाहुं स्थिरसत्त्वं दृढव्रतम् । कदा द्रक्ष्यामहे रामं जगतश्शोकनाशनम् ॥ दृष्ट एव हि नश्शोकनपनेष्यति राघवः । तमस्सर्वस्य लोकस्य समुद्यन्निव भास्करः (रामा.अयो. ८३.८,९) इति । “यश् रामं न पश्येत्तु यं रामो न पश्यति । निन्दितस्स भवेल्लोके स्वात्माऽप्येनं विगर्हति ॥” (रामा.अयो. १७.१४) इति ोक्तम् । अनुत्तमभुक्तिः – ब्रह्मादीनां भुक्तिः । सा , मुक्तिश् यैस्तृणीकृते तैः तृणीकृतानुत्तमभुक्तिमुक्तिभिः । अनुत्तमशब्दस्य मुक्तावन्वयेऽपि न मुक्त्यन्तरं व्यव्छेद्यं, मुक्तितारतम्यस्य प्रागेव निरस्तत्वात् । भगवन्तमनुभवतां तदन्यतृणीकारः श्रूयते “किं प्रजया करिष्यामो येषां नायमात्मा” (बृहदारण्यके ६.४.२२) इत्यादि । पुराणे ोक्तं “पत्युः प्रजानामैश्वर्यं पशूनां वा न कामये । अहं कदम्बो भूयासं कुन्दो वा यमुनातटे ॥”, इति । निदर्शनविवक्षया ्यते “तृणं नारी विरक्तस्य, तृणं शूरस्य जीवितम् । तृणं ब्रह्मविदो विश्वं, निःस्पृहस्य नृपस्तृणम् ॥” इति । “महात्मानस्तु मां पार्थ” (गीता. ७.१३), “स महात्मा सुदुर्लभः” (गीता. ७.१९) इति भगवदुक्तं सूयन्नाह – महात्मभिरिति । उज्जीवनत्वे पुरुषार्थत्वे भूयस्त्वापेक्षया बहुवनम् । मां – त्वत्कटाक्षेक्षणात्पूर्वं राजसतामसदृष्टिगोरतया दूषितमिदानीं त्वदवेक्षणेन प्रतिबुद्धमिति भावः । अवलोक्यताम् – अवलोकनयोग्यताम् । तिष्ठतु तद्भवनेषु जन्म; तत्कटाक्षविषयत्वमात्रमपि मे पुरुषार्थ इति ाभिप्रेतम् । प्रख्यातो हि भागवतावलोकनप्रभावः “यस्यानुभवपर्यन्ता बुद्धिस्तत्त्वे प्रतिष्ठिता । तद्दृष्टिगोराः सर्वे मु्यन्ते सर्वकिल्बिषैः ॥” (सात्त्वसंहिता) इति । नय – एतावदुपकर्ता त्वमेव शेषं पूरयेति भावः । यथा त्वया तद्विश्लेषो दुस्सहः, तथा मया तदवलोकनविरहोऽतिदुस्सह इत्यभिप्रायेणाह – क्षणेऽपि ते यद्विरहोऽतिदुस्सह इति । तदिदमामनन्ति तैत्तिरीयाः (आरण्यके ३.१४.४३) – “सन्धां यॉं सन्दधे ब्रह्मणैषः । रमते तस्मिन्नुत जीर्णे शयाने । नैनं जहात्यहस्सु पूर्व्येषु” इति । स्वयमप्याह – “न त्यजेयं कथंन” (रामा.यु. १८.३), “ज्ञानी त्वात्मैव मे मतम्” (गीता. ७.१८) इति । आहुश् महर्षयः – “पराङ्मुखानां गोविन्दे विषयासक्तेतसाम् । तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥” (विष्णुधर्मे. ९९.१३), “तन्मयत्वेन गोविन्दे ये नरा न्यस्तेतसः । विषयत्यागिनस्तेषां विज्ञेयं तदन्तिके ॥” (विष्णुधर्मे. ९९.१५) इति । तथा “नारायणेति यस्यास्ये वर्तते नाम मङ्गलम् । नारायणस्तमन्वास्ते वत्सं गौरिव वत्सला ॥”, इति । “वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः” इति । अत्र विरहशब्देन सर्वव्यापिनस्सर्वज्ञस्य भक्तानां स्वविग्रहाद्यनुभववि्छेदो विवक्षितः । नतु तद्विरहो विश्लेषः । दुस्सहशब्देन खेदो न विवक्षितः, सर्वशक्तेर्हेयप्रत्यनीकस्य तदयोगात् । अतस्तादृशावस्थावतां स्वविश्लेषं नोत्पादयतीत्येव तात्पर्यम् । यत्कर्तृकवियोगस्ते निराकर्तुमिष्टतम इति वा विवक्षितम् । “अवबोधितवान्” (श्लो.५४) इत्यादिश्लोकत्रयेण स्वयंप्रयोजनोत्तरकृत्ये काम्यनिषिद्धसंभेदप्रसङ्गोऽपि निरस्तः ॥ ५६ ॥

एवमिष्टं सर्वं दास्यामि; अनिष्टं त्विह किं ते निवर्तनीयमित्यत्राह –

न देहं न प्राणान्न सुखमशेषाभिलषितं

ात्मानं नान्यत्किमपि तव शेषत्वविभवात् ।

बहिर्भूतं नाथ! क्षणमपि सहे यातु शतधा

विनाशं तत्सत्यं मधुमथन! विज्ञापनमिदम् ॥ ५७ ॥

न देहमिति ॥ यद्वा, भागवतकटाक्षलब्धरुिविशेषात् सपदि सर्वं विरोधिवर्गं सङ्ग्रहेण निर्दिश्य तन्निवृत्तिमभ्यर्थयते । अशेषाभिलषितमित्येतद् देहादिषु सर्वेष्वन्वेति; अन्येषां सुखार्थत्वात् प्रधानभूते सुखमात्रे वा । आत्मानम् – स्वस्वरूपमित्यर्थः । पुत्रमित्रगृहक्षेत्रादिकं दूरतो निरस्तमित्यभिप्रायेणाह – नान्यत् किमपीति । तव शेषत्वविभवाद्बहिर्भूतं – त्व्छेषत्वफलभूतकैङ्कर्याख्यसमृद्धेरनुपयुक्तमित्यर्थः । न हि विश्वपतेरशेषभूतं किञ्ित् कदाित् संभवति । नाथशब्देन सर्वशेषित्वमिह विवक्षितम् । क्षणमपि सहे इत्येतत्, न देहमित्यादौ सर्वत्र योज्यम् । आत्माभिमानार्हतया दुस्त्यजपरिग्रहस्य देहादेर्ब्रह्मादिस्थावरान्तसर्वापेक्षितस्य प्रभूतस्याल्पस्य तद्भोक्तुः ‘आत्मार्थे पृथिवीं त्यजेत्’, इति स्वेतरसकलपरित्यागेनापि परिग्राह्यस्यात्मनः तदनुबन्ध्यैश्वर्यादेरपि प्रत्येकमसह्यत्वद्योतनाय नञ्प्रयोगावृत्तिः । अत्र ‘यस्त्वया सह स स्वर्गो निरयो यस्त्वया विना’ (रामा.अयो. ३०.१८), ‘न देवलोकाक्रमणं नामरत्वमहं वृणे । ऐश्वर्यं वाऽपि लोकानां कामये न त्वया विना ॥’, (रामा.अयो.३१.५) ‘न सीता त्वया हीना न ाहमपि राघव! । मुहूर्तमपि जीवावो जलान्मत्स्याविवोद्धृतौ ॥’, (रामा.अयो. ५३.३१) ‘न हि मे जीवितेनार्थो नैवार्थैर्न भूषणैः । वसन्त्या राक्षसीमध्ये विना रामं महारथम् ॥” (रामा.सुन्द.२६.५) इत्यादिषूक्तः प्रकारोऽनुसन्धेयः । एवमसत्यत्वादेव तेषामत्यन्तनिवृत्तिः कार्येत्यभिप्रायेणाह – यातु शतधा विनाशमिति । निरवयवस्य नित्यस्यात्मनः शतधा विनाशप्राप्त्ययोगात् कैङ्कर्यविरुद्धावस्थानिवर्तनमेवात्र विवक्षितम् । ननु सर्वेष्वसंभावितार्थत्वादहृदयमेतद्वाक्यमित्यत्राह – तत्सत्यमिति । न हि त्वदन्य ईदृशप्रबलविरोधिनिवर्तनक्षम इति सूयति – मधुमथनेति । पूर्व ‘शृणु विज्ञापनमेकम्’ (श्लो. ५०) इत्युक्तम्; तद्वदिदमपि दयनीयत्वानुबन्धिविज्ञापनमित्याह – विज्ञापनमिदमिति । तदिदं विज्ञापनं सत्यमिति समानाधिकरणं वा । विज्ञापितमिति केित्पठन्ति । मुमुक्षुणा भगवत्कैङ्कर्यानुपयुक्तपरिग्रहस्त्याज्य इत्युक्तं भवति ॥ ५७ ॥

एतत्सर्वमत्यन्तानर्हस्त्वं किमवलम्ब्य प्रार्थयसे? इति पुनर्भगवता पूर्वोक्तार्थस्थिरीकरणाय पृष्ट आह –

दुरन्तस्यानादेरपरिहरणीयस्य महतो

निहीनाारोऽहं नृपशुरशुभस्यास्पदमपि ।

दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे!

तव स्मारंस्मारं गुणगणमिती्छामि गतभीः ॥ ५८

दुरन्तस्येति ॥ प्रायश्ित्तानवसरातिघोरविपाकस्येत्यर्थः । अनादेः – पूर्वकोटिरहितप्रवाहस्य । अपरिहरणीयस्य – सर्वशक्तेस्तवैव सङ्कल्पमन्तरेण दुष्परिहरस्य । महतः – महापातकातिपातकादिरूपस्यासङ्ख्यातस्य वा । अनाारदोषादप्यहमुपहत इत्याह – निहीनाार इति । अत्यन्तनिकृष्टाार इत्यर्थः । अत्र ‘सन्ध्याहीनोऽशुिर्नित्यमनर्हः सर्वकर्मसु । यदन्यत्कुरुते कर्म न तस्य फलभाग्भवेत् ॥” (दक्षस्मृतिः २.२७), ‘आारहीनं न पुनन्ति वेदाः’ इत्यादि द्रष्टव्यम् । अहं – मदन्यः क ईदृश इति भावः । नृपशुः नरजातीयतया तुष्पाद्व्यावृत्तः पशुः, सम्यग्ज्ञानयोग्यजन्मलाभेऽपि ‘ज्ञानेन हीनः पशुभिस्समानः’ (नरसिंहपुराणे १६.१३) इत्युक्तः । अशुभस्यास्पदम् – त्वदपारत्वदीयापारादीनां सर्वेषामेकाश्रयः । अहमशुभस्यास्पदं, त्वं तु ‘गुणानामाकरो महान्’ (रामा.किष्कि. १५-२१) इति प्रसिद्ध इति हृदयम् । अपिशब्देन विरोधद्योतनम् । एवंविधस्वदोषपरिहारौपयिकगुणविशेषवत्तया संबोधयति – दयासिन्धो इति । बन्धो ‘माता पिता’ (सुबाल. ६) इत्यादिना निरुपाधिकसर्वविधबन्धुत्वेन प्रसिद्ध! । निरवधिकवात्सल्यजलधे – ‘रिपूणामपि वत्सलः’ (रामा.यु. ५०-५६) इति ह्युक्तम् । अत्र दयावात्सल्यसिन्धुत्वरूपणेनातितुङ्गानामपि स्वापराधानां तत्र निमज्जनं सू्यते । तव – स्वाभाविकासंख्यातगुणवत्तया शास्त्रप्रसिद्धस्य । गुणगणम् – ज्ञानशक्तिकारुण्यादिकम् । स्मारंस्मारं – स्मृत्वा स्मृत्वा । निर्बाधतया विस्मर्तुमशक्यतया निरन्तरमनुसन्धायेति भावः । तेनैव गतभीः – विरोधिभूयस्त्वदर्शनजन्यभयरहितः । इती्छामि – ‘विलासविक्रान्त’ (श्लोक.३०) इत्यादिभिः ‘अवबोधितवानिमां यथा’ (श्लोक. ५४) इत्यादिभिश्ोक्तप्रकारेण निरन्तरे्छावान् भवामीत्यर्थः ॥ ५८ ॥

यद्येवमि्छसि तदा ते सर्वमिष्टं संपत्स्यते । शास्त्रजन्यपरोक्षज्ञानमात्रेणादुष्टतयाऽवगतेऽपि प्रत्यक्षवासनावशादन्यत्र रु्यनुवृत्तावसत्कल्पाहृदयप्रार्थनामात्रेण यदि मुक्तिं दास्यामि, तदा तवानिष्टमेव मया कृतं स्यादित्यत्राह –

अनि्छन्नप्येवं यदि पुनरिती्छन्निव रजस्तमश्छन्नश्छद्मस्तुतिवनभङ्गीमरयम् ।

तथाऽपीत्थंरूपं वनमवलम्ब्यापि कृपया त्वमेवैवंभूतं धरणिधर! मे शिक्षय मनः ॥ ५९ ॥

अनि्छन्निति ॥ इत आरभ्य सप्तभिः श्लोकैः शिक्षणीयत्वे तन्मुखेन रक्षणीयत्वे हेतुविशेषा उ्यन्ते । यदीत्यत्र यद्यपीति योज्यं, तथाऽपीति प्रतिनिर्देशात् । पुनश्शब्दोऽन्याभिप्रायत्वेऽपि संग्राह्यत्वरूपविशेषद्योतनार्थः । इती्छन्निव इत्यादिना ‘साङ्केत्यं पारिहास्यं वा स्तोभं हेलनमेव वा । वैकुण्ठनामग्रहणमशेषाघ(हरं विदुः)विनाशनम् ॥’ (भगवते ६.२.१४), ‘हरिर्हरति पापानि दुष्टित्तैरपि स्मृतः । अनि्छयाऽपि संस्पृष्टो दहत्येव हि पावकः ॥’ (हर्यष्टके १), ‘अवशेनापि यन्नाम्नि कीर्तिते सर्वपातकैः । पुमान् विमु्यते सद्यः सिंहत्रस्तैर्मृगैरिव ॥’ (वि.पु. ६.८.१९), ‘एतावताऽलमघनिर्हरणाय पुंसां सङ्कीर्तनं भगवतो गुणकर्मनाम्नाम् । आक्रुश्य पुत्रमघवान् यदजामिलोऽपि नारायणेति म्रियमाण उपैति (इत्याय) मुक्तिम् ॥’ (भगवते ६.३.२४), ‘नारायणेति शब्दो(मन्त्रो)ऽस्ति वागस्ति वशवर्तिनी । तथाऽपि नरके घोरे पतन्तीत्येतदद्भुतम् ॥’, ‘रोगापद्भयदुःखेभ्यो मु्यन्ते नात्र संशयः । अपि नारायणेत्येत्छब्दमात्रप्रलापिनः ॥’ (नारदीये १.३८) इत्यादीनि प्रमाणानि सू्यन्ते । रजस्तमश्छन्नः – स्वकर्मोपात्तप्रकृतिगुणभूतरजस्तमोभ्यामावृतज्ञानतया यथावस्थितस्वपरप्रकाशरहित इति भावः । छद्मस्तुतिवनभङ्गीं कुहनाप्युक्तस्तोत्ररूपकुटिलवाक्यप्रक्रियामित्यर्थः । इत्थंरूपं वनमवलम्ब्यापि – द्वयार्थविषय्छद्मवाक्यरूपं व्याजमङ्गीकृत्यापीति यावत् । एवंविधवनमात्रेऽपि हि यमभयनिवृत्तिः स्मर्यते ‘कमलनयन! वासुदेव! विष्णो! धरणिधरा्युत! शङ्खक्रपाणे! । भव शरणमितीरयन्ति ये वै त्यज भट! दूरतरेण तानपापान् ॥’ (वि.पु. ३.७.३३) इति । कृपया – स्वसङ्कल्पितयत्किञ्िद्व्याजमात्रापेक्षिण्येति हृदयम् । त्वमेव – ‘राघवं शरणं गतः’ (रामा. यु. १७.१४) इत्यपरीक्षितवाक्यमवलम्ब्य ‘न त्यजेयं कथञ्न’ (रामा. यु. १८.३), ‘दोषो यद्यपि तस्य स्यात्’ इति हि त्वयैवोक्तमिति भावः । यद्वा ‘सुहृदं सर्वभूतानाम्’ (गीता. ५.२९), ‘ददामि बुद्धियोगं तम्’ (गीता. १०.१०) इत्यादिवादी । एवकारेण अन्यनैरपेक्ष्यमन्याशक्यत्वं द्योत्यते । एवंभूतम् – स्वतः सर्वज्ञं त्वामपि विप्रलब्धुमुद्यतमित्यभिप्रायः । धरणिधरेति संबुद्धिः सर्वलोकहितैषिण्या सर्वंसहया क्षमया युक्तस्त्वमिति सूयति । अत्र वसुन्धरोद्धरणनिदर्शनेन स्वात्मसमुद्धरणार्हत्वमपि प्रकाश्यते । उक्तं हि भगव्छास्त्रे – ‘नमः सकलकल्याणदायिने क्रपाणये । विषयार्णवमग्नानां समुद्धरणहेतवे ॥’ इति । मे – अन्यैश्शिक्षयितुमशक्यस्येति भावः । यथो्यते ‘एकः शास्ता न द्वितीयोऽस्ति’ (भार.आश्व. २७१ अ.), ‘शास्ता विष्णुरशेषस्य’ (वि.पु. १.१७.२०) इति । शिक्षय – छद्मरहितं सम्यगि्छायुक्तं कुरुष्वेत्यर्थः । ‘शङ्खप्रान्तेन गोविन्दस्तं पस्पर्श कृताञ्जलिम् । उत्तानपादतनयं मुनिवर्यं जगत्पतिः ॥ ततः प्रसन्नवदनस्तत्क्षणान्नृपनन्दनः । तुष्टाव प्रणतो भूत्वा भूतधातारम्युतम् ॥’ (वि.पु.) इति न्याय इहानुसन्धेयः ॥ ५९ ॥

एवं स्वेतश्शिक्षणेऽन्यानपि सामान्यतो विशेषतश् बहुविधान् हेतूनाह –

पिता त्वं माता तं दयिततनयस्त्वं प्रियसुहृत् त्वमेव त्वं मित्रं गुरुरसि गतिश्ासि जगताम् ।

त्वदीयस्त्वद्भृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्ैवं सत्यहमपि तवैवास्मि हि भरः ॥ ६० ॥

पितेति ॥ पिता त्वम् – उत्पादकस्त्वं हितप्रवर्तकश् । माता त्वम् – सा हि पुत्रार्थं भूयांसि कर्माण्यारभमाणा प्रियप्रवर्तनशीला , तादृशस्त्वम् । सर्वाधिकप्रीतिविषयतया निरयनिस्तारकतया प्राप्तावसरेषु रक्षकतया दयिततनयस्त्वम् । प्रियश्ासौ सुहृेति प्रियसुहृत् – निरतिशयानन्दस्वरूपत्वं नित्यहितैषित्वं अत्र विवक्षितम् । उक्तसर्वप्रकारविशिष्टस्त्वदन्यो नास्तीति व्यञ्जनार्थम् एवकारः सर्वत्र योज्यः । ‘निवासः शरणं सुहृत्’ इति सुबालोपनिषदि (६ खण्डे) गीतोपनिषदि (९.१८) अधीतम् । त्वं मित्रम् – हितः कार्येषु सवयाः सर्वरहस्ययोग्यश् मित्रमित्यु्यते, त्वमपि तादृशः; गुहधनञ्जयगोपालादिषु तथात्वव्यक्तिः । उ्यते – ‘मित्रमौपयिकं कर्तुम्’ (रामा.सुन्द.), ‘तेन मैत्री भवतु ते’ (रामा.सुन्द. २१.२०), ‘अहो! भाग्यमहो! भाग्यं नन्दगोपव्रजौकसाम् । यन्मित्रं परमानन्दं पूर्णं ब्रह्म सनातनम्’ इति । गुरुरसि – सर्वेषां यथाधिकारं ‘मन्मना भव मद्भक्तः’ (गीता १८.६५), ‘मामेकं शरणं व्रज’ (गीता. १८.६६) इत्यादिभिस्तत्त्वहितपुरुषार्थोपदेष्टा, तत एव सर्वाज्ञाननिवर्तकश् । तथा निरु्यते, ‘गुशब्दस्त्वन्धकारस्स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥’ इति । गतिश्ासि – उपायः प्राप्यश्ासि । श्रूयते हि ‘अमृतस्यैष सेतुः’ (मुण्डके २.२.५) इति, ‘यमेवैष वृणुते तेन लभ्यः’ (कठ. १.२.२३) इति । जगतामित्यनेन ‘पिताऽहमस्य जगतो माता धाता पितामहः’ (गीता. ९.१७), ‘भूतानां योऽव्ययः पिता’ (सहस्रनामाध्याये), ‘रारगुरुं हरिम्’, ‘ममाप्यखिललोकानां गुरुर्नारायणो गुरुः’ (वि.पु. ५.१.१४), ‘तमिमं सर्वसंपन्नमाार्यं पितरं गुरुम् । अर््यमर्ितुमि्छामः सर्वे संमन्तुमर्हथ ॥’ (भार.सभा. ४१.३), ‘पिताऽसि लोकस्य रारस्य त्वमस्य पूज्यश् गुरुर्गरीयान्’ (गीता. ११.४३) इत्यादिषूक्तं देवदानवादिसर्वसाधारण्यं व्यज्यते । एतत्सर्वं पूर्वम् (श्लो. २२,५८) शरण्यबन्धुशब्दाभ्यां सङ्गृहीतस्य प्रपञ्नम् ।

अथ त्वदीय इत्यादिना स्वगतान् हेतूनाह । त्व्छेषत्वप्रतिबोधवानहमस्मीति भावः । त्वद्भृत्यः – त्वयैव भरणीयः, पोषणीयश् । तव परिजनः – स्वतः त्वत्सेवार्हः स्तुतिरूपसेवायां त्वया नियुक्तश् । त्वद्गतिः – त्वदेकप्रयोजनः । अहम् – ईदृशीमवस्थां त्वयैव प्रापित इति भावः । प्रपन्नश् ‘त्वत्पादमूलं शरणं प्रपद्ये’ (श्लो. २२) इति यथाहृदयमहृदयं वा भावितभरन्यासः । एतेन – ‘सोऽहं त्वां शरणमपारमप्रमेयं संप्राप्तः परमपदं यतो न किञ्ित्’ (वि.पु. ५.२३.४७), ‘अहमात्मा न देहोऽस्मि विष्णुशेषोऽपरिग्रहः । तमेव शरणं प्राप्तस्तत्कैङ्कर्यिकर्षिया ॥’ इत्यादिष्विव स्वनिष्ठा विज्ञाप्यते । भगवत्प्रपन्नस्य ैवं विशेष उ्यते – ‘देवर्षिभूतात्मनृणां पितॄणां न किङ्करो नायमृणी राजन् । सर्वात्मना यः शरणं शरण्यं नारायणं लोकगुरुं प्रपन्नः ॥’ (भगवते ११.५.४१) इति । त्वद्गतिरहं, प्रपन्नश्ेत्युभाभ्यामनन्यप्रयोजनतया भगवन्तमाश्रितानां नरकादिनिवृत्तिश् सू्यते । श्रूयते हि रहस्याम्नाये – ‘तत्किममी यमविषयं ग्छन्ति यमो वैतान् यातयतीति, न भो इत्याह, न खलु भागवता यमविषयं ग्छन्ति, किं तर्हि? हहैवैषां केिदुपक्लेशा भवन्ति, खञ्जा भवन्ति, काणा भवन्ति’ इत्यारभ्य ‘तानुपक्लेशान् सहेरन्’ इति । वैष्णवे पुराणे (३.७.१४) ‘स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले । परिहर मधुसूदनप्रपन्नान् प्रभुरहमन्यनृणां न वैष्णवानाम् ॥’ इति । वामने (९४.४३) ‘देवं शार्ङ्गधरं विष्णुं ये प्रपन्नाः परायणम् । न तेषां यमसालोक्यं न ते नरकौकसः ॥’ इति । श्रीनारसिंहे ‘पुण्डरीकाक्ष! देवेश! नरसिंह! त्रिविक्रम! । त्वामहं शरणं प्राप्त इति यस्तं समुद्धर ॥’ इति । तथाऽन्यत्र ‘यस्मिन् कस्मिन् कुले जाता यत्र कुत्र निवासिनः । वासुदेवरता नित्यं यमलोकं न यान्ति ते ॥’ इति । एवं सति – त्वयि भरस्वीकारार्हे, मयि भरन्यासवाक्यप्रयोक्तरि स्थिते सतीत्याशयः । अहमपीत्यनेन पूर्वोक्तसर्वदोषाकरोऽपि छद्मस्तुतिकर्ताऽपीति सू्यते । यद्वा, यथा प्राीनाः पूर्णप्रपत्तिनिष्ठाः त्वया भरत्वेन स्वीकृताः – तथाऽहमपीति भावः । तव – प्रस्तुतप्रभूतभरस्वीकारे प्राप्तस्य समर्थस्य । न ह्येतादृशं भरं सोढुमहं वाऽन्यो वा त्वद्व्यतिरिक्तः कश्ित् समर्थ इत्यवधारणाभिप्रायः । हिशब्देन ‘मनीषिणो हि ये केिद् यतयो मोक्षकाङ्क्षिणः । तेषां वै छिन्नतृष्णानां योगक्षेमवहो हरिः ॥’, ‘स्थिते मनसि’ (वराहरमश्लोकः) इत्यादिप्रमाणप्रसिद्धिर्द्योत्यते; स्वाङ्गीकारस्य सिद्धवत्कारं वा व्यनक्ति । भरः – ‘रक्षितव्यास्त्वया राजन्! गर्भभूतास्तपोधनाः’ (राम.आर. १.२१) इति महर्षिवाक्यप्रकारेण मद्व्यापारनिरपेक्षं रक्षणीय इति भावः ॥ ६० ॥

‘अहमपि तवैवास्मि हि भरः’ (श्लो. ६०) इत्युक्ते महायोगिकुलप्रसूतत्वमपि हेतुरस्तीत्यभिप्रायेणाह –

जनित्वाऽहं वंशे महति जगति ख्यातयशसां शुीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदाम् ।

निसर्गादेव त्वरणकमलैकान्तमनसाम् अधोऽधः पापात्मा शरणद! निमज्जामि तमसि ॥ ६१ ॥

जनित्वेति ॥ यद्वा, योगिवंशप्रसूतेन त्वया कथमत्यन्ताकिञ्नत्वं पुरस्कृत्य मय्येव भरन्यासः क्रियते? इत्यत्र प्रागुक्तम् (श्लो. २२) अकिञ्नत्वमेवासमञ्जवदभिजनविरुद्धस्वभावतयाऽपि स्थापयति । जनित्वा – ‘एतद्धि दुर्लभतरं लोके जन्म यदीदृशम्’ (गीता. ६.४२) इत्युक्तदुर्लभतरं जन्म लब्ध्वाऽपीति भावः । अहमित्यनेनास्मिन् वंशेऽहमेक एव विपरीतवृत्त इति व्यज्यते । वंशे महति – अमानित्वाद्यात्मगुणसम्यग्वृत्तविद्यादिभूयिष्ठे महाभागवतकुले । ‘भूतले श्लाघ्यमेतद्धि कुलं विष्णुपरिग्रहम्’ इति स्मर्यते । ईदृशवंशजन्मनः कृ्छ्रलभ्यत्वं वाराहे प्रोक्तं ‘वर्णाश्रमाारपरः सप्तजन्मानि यो द्विजः । एकान्तसूर्यभक्तस्स्यात् स विप्रः सप्तजन्मसु ॥ ततस्तत्पुण्यमाहात्म्याद्रुद्रभक्तो भविष्यति । तथैव सप्त जन्मानि शिवभक्तिपरायणः ॥ महता तेन पुण्येन वैष्णवत्वं लभेत सः । विष्णुभक्तिपरस्तद्वत् सप्तजन्मानि मानवः ॥ एकान्तभगवद्याजी विप्रो भागवतान्वये । ततस्स लभते जन्म देवैरत्यन्तदुर्लभम् ॥’ इति । जगति ख्यातयशसां – ‘यद्वंशोऽधीत्य वेदान्’ इत्याद्युक्तप्रकारेणानुकूलप्रतिकूलरूपसर्वजनप्रसिद्धकीर्तिनाम् । शुीनां – ‘योऽर्थे शुिः स हि शुिर्न मृद्वारिशुिः शुिः’, ‘क्षेत्रज्ञस्येश्वरज्ञानात् विशुद्धिः परमा मता’ (याज्ञवल्क्यस्मृतिः ३.३४) इत्यादिप्रसिद्धसर्वप्रकारशुद्धिमताम् । एतेन प्रयोजान्तरसङ्गरूपाशुद्धिराहित्यं ाभिप्रेतम् । युक्तानाम् – आत्मावलोकनक्षमाणाम् । यद्वा, त्वया सह नित्ययोगमाशंसमानानाम्, त्वदनुभवविश्लेषरहितानामिति वा । गुणपुरुषतत्त्वस्थितिविदाम् – त्रिगुणात्मकप्रकृतेः पुरुषस्य तत्त्वस्थितिं याथात्म्यप्रतिष्ठां विजानताम् । यद्वा, प्रकृतिपुरुषतत्त्वयोः स्वरूपस्वभावादिव्यवस्थितिवेदिनामित्यर्थः । निसर्गादित्यादि । जन्मप्रभृतित्वरणारविन्दनियतभक्तीनामित्यर्थः । ईदृशव्यतिरिक्तो हि निन्दितः पितृभिः ‘मा जनिष्ट’ (वराहपुराणे) इत्यादिना । अत्र युक्तानामित्यादिपदत्रयं स्वपूर्वेषु यथार्हं कर्मयोगज्ञानयोगभक्तियोगान्वयं वा विवक्षति । पापेष्वात्मा बुद्धिर्यस्य स पापात्मा । यद्वा पापमेव स्वरूपं स्वभावो यस्य सोऽहं पापात्मेति स्वनिन्दाप्रकर्षार्थ औपारिकः प्रयोगः । स्मर्यते हि ‘मानुष्यं प्राप्य लोकेऽस्मिन् मूको वा वधिरोऽपि वा । नापक्रामति संसारात् स खलु ब्रह्महा भवेत् ॥’ इति । वाराहे ‘लब्ध्वा तु मानुषं देहं पञ्भूतसमन्वितम् । मामेव न प्रपद्यन्ते ततो दुःखतरं नु किम्? ॥’ इति । नारसिंहे ‘शुभमिदमुपलभ्य मानुषत्वं सुकृतशतेन वृथेन्द्रियार्थहेतोः । रयति, कुरुते न मोक्षमार्गम्, स दहति न्दनमाशु भस्महेतोः ॥’ इति । अधिकारानुरूपमुपायं त्वमेव प्रय्छे(्छसी)त्यभिप्रायेण संबोधयति – शरणदेति । यद्वा, मत्स्वभावादसत्कल्पमपि महायोगिवंशजननं त्वत्स्वभावात् त्वमेव प्रस्तुतविषयम्छिक्षणव्याजतया स्वीकृत्योपायपूर्तिं कुरुष्वेति भावः । तमस्यधोऽधो निमज्जामीत्यन्वयः । तमश्शब्द इह सम्यक्प्रकाशविरुद्धमज्ञानं विपरीतज्ञानं ाभिसन्धत्ते । तमो गुणमयी प्रकृतिर्वा । तमसः समुद्रस्थानीयत्वमभिप्रेत्य मज्जनशब्दः । एतेन स्वपरप्रकाशराहित्यं सू्यते । मद्वंश्यास्त्वदनुभवरसे निमज्जन्ति, अहं तु तमसि निमज्जामीति निर्वेदविशेषश् । ‘महता पुण्यपण्येन क्रीतेयं कायनौस्त्वया । प्राप्तुं दुःखोदधेः पारं त्वर यावन्न भिद्यते ॥’ (वराहपुराणे) इति संसारतरणहेतुतया त्वद्दत्तेन शरीरेणैव संसारे निमज्जामीत्युक्तं भवति । अधोऽध इत्यनेन स्वेनान्यैश् स्वस्याशक्योद्धरणत्वमभिप्रेतम् । निमज्जामीति वर्तमानव्यपदेशः पापवशात् तादृशस्य तमसोऽद्याप्यनुवृत्तिं द्योतयति । एतेन स्वयमुपायान्तरानर्हस्य मे त्वत्प्राप्त्यर्थं सर्वंसहे त्वयि भरन्यासश्छद्मस्तुतिनिबन्धोऽपि त्वयैव यथावस्थितः कार्य इति विज्ञापितं भवति ॥ ६१ ॥

यदि सर्वशक्तिः परमकारुणिकस्त्वमकिञ्नस्य प्रपत्तिवाक्यमुखरमुखस्य मम शिक्षणे रक्षणे न प्रवर्तसे, तदा (दुस्तर) महत्तरविपरीतगुणगणभराक्रान्तोऽहं कथं संसारजलधिमुत्तीर्य त्वत्पादपरिर्यां प्राप्नुयामिति प्रागुक्तकार्पण्यस्थेम्ने स्वदोषाद्भीतस्य शरण्यगुणैराश्वासनीयत्वं द्रढयितुं ‘पापात्मा’ (श्लो. ६१) इति सङ्गृहीतमेव विस्तृणीते –

अमर्यादः क्षुद्रश्लमतिरसूयाप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्नपरः ।

नृशंसः पापिष्ठः कथमहमितो दुःखजलधेरपारादुत्तीर्णस्तव परिरेयं रणयोः ॥ ६२ ॥

अमर्याद इति ॥ ‘वयसः कर्मणोऽर्थस्य श्रुतस्याभिजनस्य । वेषवाग्वृत्तिसारूप्यमारन् विरेदिह ॥’ (मनुस्मृतिः ४.१८) इत्यादिषूक्तां श्रुतिस्मृतिमर्यादामतिक्रान्तोऽहम् । क्षुद्रः – उपायदारिद्र्यहेयपुरुषार्थकार्पण्यादियुक्तः । ‘क्षुद्रो दरिद्रे कृपणे नृशंसेऽल्पनिकृष्टयोः’ इति निघण्टूक्तेषु नृशंसत्वस्य पृथगुक्तत्वा्छेषं यथोितं ग्राह्यम् । ‘पण्डितैरर्थकार्पण्यात् पण्यस्त्रीभिरिव स्वयम् । आत्मा संस्कृत्यसंत्कृत्य परोपकरणीकृतः ॥’ । लमतिः – बहुभ्यो बहुशश् सम्यक्छ्रुतेष्वपि शास्त्रेष्वप्रतिष्ठितबुद्धिः । असदर्थेषु तु ‘दृढपूर्वश्रुतो मूर्खो धर्माणामविशारदः । वृद्धानपृ्छन् सन्देहान् अन्धः श्वभ्रमिवर््छति ॥’ (भार. कर्ण. ७२.५७) इत्यादिषूक्तं स्थिरमतित्वमपि हि दोषः । ‘व्यवस्थितः प्रशान्तात्मा कुपितोऽप्यभयङ्करः । अव्यवस्थितित्तस्य प्रसादोऽपि भयङ्करः ॥’ इत्याद्यपि ग्राह्यम् । असूयाप्रसवभूः – गुणेषु दोषाविष्करणमसूया, तद्वतः प्रकारं ‘राजन्! सर्षपमात्राणि पर्छिद्राणि पश्यसि । आत्मनो मेरुमात्राणि पश्यन्नपि न पश्यसि! ॥’ इत्यादिभिराहुः । तस्याः प्रथमप्रादुर्भावस्थानम् । ‘असूयकायानृजवे जनाय न मां ब्रूयाः’, (भार. मेक्ष. २४६.१७), ‘असूयकाय मां मा दाः’ (मनु. २.१४), ‘न मां योऽभ्यसूयति’ (गीता. १८.६७) इत्यादिष्वसूयावान् विद्याप्रदानादिषु परिहरणीय उ्यते । कृतघ्नः – त्वदन्यैस्त्वया परमोपकारकेण कृतमनन्तमुपकारमपह्नुत्यापकारेष्वपि प्रवृत्त इति भावः । स ासौ सर्वेभ्यः पापकृद्भ्यः समधिकः स्मर्यते – ‘गोघ्ने ैव सुरापे ोरे भग्नव्रते तथा । निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः ॥’ (रामा.किष्कि. ३४.१२), ‘सत्कृताश् कृतार्थाश् मित्राणि न भवन्ति ये । तान् मृतानपि क्रव्यादाः कृतघ्नान् नोपभुञ्जते ॥’ इति । एतस्य कल्मषनिबर्हणार्थप्रायश्ित्तसंभवेऽपि संसर्गानर्हताऽपि स्मर्यते – ‘शरणागतबालस्त्रीहिंसकान् संवसेन्न तु । ीर्णव्रतानपि सतः कृतघ्नसहितानिमान्’ (याज्ञवल्क्यस्मृतिः ३-५-२९८) इति । दुर्मानी – निकृष्टमप्यात्मानम् ‘ईश्वरोऽहमहं भोगी’ (गीता. १६.१४) इत्यादिप्रकारेणात्युत्कृष्टं मन्यमानः; तेन ह्युत्कृष्टजनावमानादौ शिशुपालादिवत् प्रवर्तते । यथाऽऽह शाण्डिल्यः – (४.२५१) ‘मूर्खाश् पण्डितंमन्याः अधर्मा धार्मिका इव । धर्मयुक्तान्प्रबाधन्ते साधूनां लिङ्गमास्थिताः ॥’ इति । आह विदुरः – ‘अतिमानोऽतिवादश् तथाऽत्याशा नराधिप! । क्रोधश्ातिविवित्सा मित्रद्रोहश् तानि षट् ॥ एत एवासयस्तीक्ष्णाः कृन्तन्त्यायूंषि देहिनाम् । एतानि मानवान् घ्नन्ति न मृत्युर्भद्रमस्तु ते ॥’ इति ॥

स्मरपरवशः – धर्मविरुद्धकामोपभोगश्रद्धाविह्वलः । अत एव ह्यस्वतन्त्रस्य स्वातन्त्र्याभिमानोऽपि जडकृत्यम् । ‘अङ्गारसदृशी नारी घृतकुम्भसमः पुमान् । तस्मान्नारीषु संसर्गं दूरतः परिवर्जयेत् ॥’, ‘रागाद्यपेतं हृदयं वाग् अदुष्टाऽनृतादिना । हिंसादिरहितः कायः केशवाराधनं त्रयम् ॥’, ‘पररन्ध्रेषु जात्यन्धाः परदारेष्वपुंसकाः । परीवादेषु ये मूकाः तेऽतीव दयिता मम ॥’ (विष्णुधर्मे ७६.२२) इत्यादिकमत्र भाव्यम् । वञ्नपरः – परद्रव्यापहाराद्यर्थं दम्भवृत्त्या स्वदोषापह्नवेन त्वदितरानिव स्वतस्सर्वज्ञं त्वामपि विप्रलब्धुकामः । ईदृशानां सर्वेषु कृत्येषु बहिष्कारः स्मर्यते – ‘पाषण्डिनो विकर्मस्थान् बैडालव्रतिकान् शठान् । हैतुकान् बकवृत्तींश् वाङ्मात्रेणापि नार्येत् ॥’ (वि.पु. ३.१८.१०१; मनु. ४.३०), ‘धर्मध्वजस्सदा लुब्धश्छाद्मिको लोकडाम्भिकः । बैडालव्रतिको ज्ञेयो हिंस्रः सर्वातिसन्धकः ॥’, ‘अधोदृष्टिर्नैकृतिकः स्वार्थसाधनतत्परः । शठो मिथ्याविनीतश् बकव्रतरो द्विजः ॥’ इति । नृशंसः – आसन्नेषु व्याघ्रादिवत् क्रूरकर्मा । ‘आनृशंस्यं परो धर्मः’ (रामा.सुन्द. ३८.४१) इति त्वदुक्तविपरीतस्वभावः । एवंप्रकारतया मम ‘पापात्मा’ (श्लो. ६१) इति पूर्वोक्तमुपपन्नमित्यभिप्रायेणाह – पापिष्ठ इति । यद्वा, प्रदर्शनार्थं किञ्िदुक्तम् । ‘अनृतं समुत्कर्षे राजगामि पैशुनम् । गुरोश्ालीकनिर्बन्धः समानि ब्रह्महत्यया ॥’, ‘पिशुनो यश् विप्राणां रन्ध्रान्वेषणतत्परः । दद्यान्मर्मान्तिकं शोकं सोऽक्षयं नरकं व्रजेत् ॥’, ‘दह्यमानास्सुतीव्रेण नीाः परयशोऽग्निना । अशक्तास्तत्पदं गन्तुं ततो निन्दां प्रकुर्वते ॥’, ‘यो राज्ञः प्रतिगृह्यैव शोितव्ये प्रहृष्यति । स न जानाति मूढात्मा नरकान् एकविंशतिम् ॥’, ‘कृष्णाजिनप्रतिग्राही रेतसश्ैव विक्रयी । गज्छायासु भोक्ता न भूयः पुरुषो भवेत् ॥’, ‘वादेन ब्राह्मणं जित्वा हृष्टो भवति यो द्विजः । श्मशाने पादपः स स्याद् गृध्रकङ्कनिषेवितः ॥’, ‘गुरुं त्वङ्कृत्य हुंकृत्य विप्रं निर्जित्य वादतः । अरण्ये निर्जले देशे भवति ब्रह्मराक्षसः’, ‘यो मोहादथवाऽऽलस्यादकृत्वा देवतार्नम् । भुङ्क्ते स याति नरकान् सूकरेष्वपि जायते ॥’, ‘पितरं मातरं वाऽपि तथा दत्ताभयं सुतम् । त्यजे तरुणीं भार्यां तं विद्याद्ब्रह्मघातुकम् ॥’, ‘राक्षसाः कलिमाश्रित्य जायन्ते ब्रह्मयोनिषु । ब्राह्मणानेव बाधन्ते विष्णुभक्तान् विशेषतः ॥’, ‘विद्याोरो गुरुद्रोही वेदेश्वरविदूषकः । त एते बहुपाप्मानः सद्यो दण्ड्या इति श्रुतिः ॥’, ‘परद्रोहेष्वभिध्यानं मनसाऽनिष्टिन्तनम् । वितथाभिनिवेशश् त्रिविधं मानसं स्मृतम् ॥ पारुष्यमनृतं ैव पैशुन्यं ैव सर्वशः । अनिबद्धप्रलापश् वाङ्मयं स्यातुर्विधम् ॥ अदत्तानामुपादानं हिंसा ैवाविघानतः । परदारोपसेवा शारीरं त्रिविधं स्मृतम् ॥’ इत्यादिषूक्तान्यतिघोराण्यनन्तानि मे पापानि सन्तीत्यभिप्रायः । अहं प्रागुक्तप्रकारेण त्वत्परिर्यामि्छन्निव भावयन् । अथवा, उक्तानुक्तदोषसहस्रसंपूर्णतया ‘दया सर्वभूतेषु क्षान्तिरनसूया शौमनायासो मङ्गलमकार्पण्यमस्पृहा’ (गौतमधर्मसूत्रे १.९) इत्यादिप्रतिपादितविपरीताकार इति भावः ।

कथं – न कथंिदित्यापाततोऽर्थः । ईदृशोऽपि शरणागतवत्सलं त्वामाश्रितः क्षत्रबन्धुवृत्रादिनयान्न विनश्यतीति गूढोऽभिप्रायः । तथा हि शरण्यस्स्वयमाह – ‘अपि ेत्सुदुराारः’ (गीता. ९.३०) इत्यारभ्य ‘न मे भक्तः प्रणश्यति’ (गीता. ९.३१) इति । श्रीवैष्णवधर्मशास्त्रे (भार. आश्व. ९६.४६) – ‘अपि पापेष्वभिरता मद्भक्ताः पाण्डुनन्दन! । मु्यन्ते पातकैस्सर्वैः पद्मपत्रमिवाम्भसा ॥’ इति । श्रीपुण्डरीकनारदसंवादे (इतिहाससमुये ३१.१७०) ‘अश्वमेधशतैरिष्ट्वा वाजपेयशतेन (शतैरपि) । न प्राप्नुवन्ति सुगतिं नारायणपराङ्मुखाः ॥’, ‘ये नृशंसा दुरात्मानः पापााररतास्तथा (सदा) । तेऽपि यान्ति परं धाम (स्थानं) नरा नारायणाश्रयाः (श्रिताः)’ (इति.समु. ३१.११९) इति । श्रीनारसिंहपुराणे ‘भगवति हरावनन्येता भृशमलिनोऽपि विराजते मनुष्यः । न हि शशकलुष्छविः कदाित्तिमिरपराभवितामुपैति न्द्रः ॥’ इति । श्रीसात्त्वते (१६.२३.२४) ‘दुराारोऽपि सर्वाशी कृतघ्नो नास्तिकः पुरा । समाश्रयेदादिदेवं श्रद्धया शरणं यदि ॥ निर्दोषं विद्धि तं जन्तुं प्रभावात्परमात्मनः ।’ इति । एवं ‘मेरुमन्थरमात्रोऽपि राशिः पापस्य कर्मणः । केशवं वैद्यमासाद्य दुर्व्याधिरिव नश्यति ॥’, ‘सकृत्स्मृतोऽपि गोविन्दो नृणां जन्मशतैश्ितम् । पापराशिं दहत्याशु तूलराशिमिवानलः ॥’ इत्यादि वनानि भाव्यानि । एवमभिप्रायानभ्युपगमे शास्त्रविरोधः पूर्वापरविरोधश् स्यात् । इतः – ऊर्मिषट्कबहुलत्वेनातिदुस्सहतयोपलभ्यमानादित्यर्थः । अत्र दुःखशब्देन विषसंपृक्तमधुन्यायात् सांसारिकं सुखमपि सङ्गृह्यते । दुःखस्य जलधित्वरूपणमानन्त्यव्यञ्जनार्थम् । दुस्तरत्वाभिप्रायेण अपारत्वोक्तिः । उत्तीर्णशब्द इहौपाधिकसमस्ताकारात्यन्तिकनिवृत्तिपरः । अनिष्टनिवृत्तेरिष्टप्राप्तिपर्यन्तत्वं तवेत्यादिनो्यते । परिशुद्धप्राप्यस्य तव रणयोरीदृशोऽहं त्वत्कृपामन्तरेण कथं परिरेयमित्युक्तं भवति । अत्र परिरणोक्त्या ‘येन येन धाता ग्छति, तेन तेन सह ग्छति, तद्यथा तरुणवत्सा वत्सम्, वत्सो वा मातरम्, छाया वा सत्त्वमनुग्छेत् तथाकारम्’ (रहस्याम्नायब्राह्मणे), ‘एतमानन्दमयमात्मानमुपसंक्रम्य इमाँल्लोकान् कामान्नी कामरूप्यनुसञ्रन्’ (तै.भृ. १०.५), ‘स तत्र पर्येति’ (छान्दोग्ये ८.१२.१३) इत्यादिमुक्तविषयश्रुत्युक्ताः सर्वे व्यापाराः स्वाम्यभिमतकैङ्कर्यरूपाः सू्यन्ते ॥ ६२ ॥

एवंविधस्यापि स्वस्य यत्किञ्िद्व्याजमात्रेण सर्वेषामपराधानां क्षन्तव्यत्वे प्राङ्न्यायमपि दर्शयति –

रघुवर! यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्य ैद्यस्य कृष्णः ।

प्रतिभवमपराद्धुर्मुग्ध! सायुज्यदोऽभूर्वद किमपदमागस्तस्य तेऽस्ति क्षमायाः ॥ ६३ ॥

रघुवरेति । यद्वा, स्वदोषाद्भीतः शरण्येन स्वगुणानाविष्कृत्य प्रत्याश्वासितः स्वदोषाणामपि काकादिदोषन्यायात् क्षन्तव्यत्वे किमाश्र्यमित्याह । अत्र संबुद्ध्या शरणागतरक्षणादिधर्मप्रवर्तनाय तदुितवंशेऽवतीर्णत्वं तादृशेषु शरण्येषु मुख्यत्वं व्यज्यते । आह विभीषणः – ‘सर्वलोकशरण्याय राघवाय महात्मने’ (रामा.यु. १७.१५) इति । दृष्टं ैतत्स्वविषयवासिजन्तुजातस्य समरलीलासहायीकृतानां वानराणां जातिगुणवृत्तादिवैषम्यानादरेण यत्किञ्िदानुकूल्यमात्रेण संरक्षणे । त्वम् – ‘ब्रह्मा स्वयंभूश्तुराननो वा रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वा । इन्द्रो महेन्द्रः सुरनायको वा त्रातुं न शक्ता युधि रामवध्यम् ॥’ (रामा.सुन्द. ५१.१५), ‘सदेवगन्धर्वमनुष्यपन्नगाम् (रामा.), ‘पिशाान् दानवान् यक्षान्’ (रामा.यु. १८.२२), ‘ापमानय सौमित्रे!’ (रामा.यु. २१.२२) इत्यादिषु प्रसिद्धप्रभावस्त्वम् । न ह्यशक्तः क्षाम्यसीति भावः । तादृशः – देवीविषयासह्यापारकर्तुः । वायसस्येत्यनेन ‘पुत्रः किल स शक्रस्य वायसः पततां वरः । धरान्तररः शीघ्रं पवनस्य गतौ समः ॥’ (रामा. सुन्द.) इत्युक्तं सू्यते । नात्र जयन्तः काकतया समागत इति श्रीरामायणोक्तं, ‘न ाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः’ (रामा.सुन्द.), ‘भक्षगृध्नेन काकेन दारितं तु स्तनान्तरम्’ (रामा.सुन्द.) इत्यादिमात्रवनात् । अतो वालिवदसाविन्द्रजन्मा प्रबलः कश्िद्वायसः । ‘मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्’ (रामा.सुन्द.) इति ोक्तम् । प्रणत इति । ‘त्रींल्लोकान् संपरिक्रम्य’ गत्वा भूमौ निपतितं दयार्द्रबुद्ध्या प्रणतत्वेन परिगृह्येत्यर्थः । यद्वा, सकृत्प्रणत इत्येतावन्मात्रेणेति । तदा तु प्रणतशब्दः प्रकृष्टप्रह्वीभावरूपप्रपत्तिपरः, ‘स तं निपतितं भूमौ शरण्यः शरणागतम्’ (रामा.सुन्द. ३३.३४) इति वनात् । उक्तं ाभियुक्तैः – ‘काकं तं विभीषणं शरणमित्युक्तिक्षमौ रक्षतः’ (श्रीगुणरत्नकोशे ५०) इति । ‘वधार्हमपि काकुत्स्थः कृपया पर्यपालयत्’ (रामा.सुन्द. ३८.३४) इत्युक्तमाह – दयालुरभूरिति ॥

ननु दक्षिणाक्षिहिंसनेन दण्डयतः कथं दयालुत्वम्? ‘राजभिर्धृतदण्डास्तु’ (मनुस्मृतिः) इति न्यायाद्दण्डोऽपि दयामूल इति ेत् – तर्हि प्रणत इति हेतूक्तिर्न घटते । मैवम्; प्राणार्थिनः काकस्य प्राणरक्षणेन प्रपत्तिफलस्य संपूर्णत्वात्, अमोघस्य ब्रह्मास्त्रस्य लक्ष्यानुबन्धियत्किञ्िन्निरसनीयत्वकॢप्तेरवश्यापेक्षितत्वात्, तदर्थमेकाक्षिहरणेऽपि सव्यदक्षिणभागसंारितारकाव्यापारकल्पनेन दृष्टिद्वयफलसिद्धेः । दुष्प्रकृतेः काकस्य भूयोऽपराधभयानुवृत्त्यर्थं स्वल्पावयवखण्डनस्यापि शिक्षारूपत्वात्, तस्य काकजात्यनुबन्धत्वकॢप्तेः सर्वत्र सर्वेषां प्रस्तुतवृत्तान्तप्रख्यापनार्थत्वाेति भावः ॥

एवं दयाक्षमयोरुदाहरणान्तरमाह – येति ॥ अत्र कृष्णशब्देन सर्वलोककर्षणार्थमवतीर्णत्वम् ‘कृषिर्भूवाकः शब्दो णश् निर्वृतिवाकः । तयोरैक्यं प्रकुर्वीत कृष्ण इत्यभिधीयते ॥’ इति निरुक्तिश् सू्यते । प्रतिभवमपराद्धुरित्यनेन काकादप्याधिक्योक्तिः । जन्मत्रये सर्वदाऽपराधशीलस्येत्यर्थः । ‘अविज्ञाता’ (भार. आनु. १४९.५१) इतिवदपराधक्षमाभिप्रायेणाह – मुग्धेति । मुग्धो ह्युपराधमनपराधं विवेक्तुं न शक्नोति । अयं तु विविक्तं पश्यन्नपि ‘क्षमया पृथिवीसमः’ (रामा.बाल. १) इत्युक्तगुणविशेषेणापश्यन्निव भवतीति मुग्धत्वोपारः । ‘तस्मिन्नेव लयमुपयौ’ (वि.पु.) इति परशरवाक्याभिप्रेतमाह – सायुज्यदोऽभूरिति ।

नात्र (वि.पु.) लयशब्देन जीवप्रध्वंसो विवक्षितः; श्रुतिस्मृतिसूत्रैर्जीवनित्यत्वस्थापनात् । न ैक्यापत्तिः ‘पारमात्मात्मनोर्योगः परमार्थ इतीष्यते । मिथ्यैतदन्यद्द्रव्यं हि नैति तद्द्रव्यतां यतः’ (वि.पु. २.१४.२७) इति तत्प्रतिषेधात् । ‘ब्रह्म वेद ब्रह्मैव भवति’ (मुण्डके. ३.२.९) इत्यादिकं तु परमसाम्यापत्तिपरम्, ‘निरञ्जनः परमं साम्यमुपैति’ (मुण्डके. ३.१.३), ‘यथोदकं शुद्धे शुद्धमासितक्तं तादृगेव भवति । एवं मुनेर्विजानत आत्मा भवति गौतम! ॥’, ‘इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः’ (गीता. १४.२) इत्यादिश्रुतिस्मृत्यनुसारात् । सूत्रितं ‘भोगमात्रसाम्यलिङ्गा’ (ब्र.सू. ४.४.२१) इति । अतः – सालोक्यसारूप्यादिशब्दवत् सायुज्यशब्दोऽपि युक्साम्यपरः । सर्वं हि भगवता मुक्तेन भोग्यत्वेन युक्तं ‘ते सर्वं सर्वतः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति’, ‘सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वशः’ (छान्दोग्ये ७.२६.२) इत्यादिश्रुतेः, ‘ब्रह्मविदाप्नोति परम्’ (तै.आन.) इत्यादिकर्मकर्तृव्यपदेशा

अत्र पदवाक्यप्रमाणानभिज्ञैः सायुज्यमैक्यम् इति परिकल्पितम्, ‘एतासामेव देवतानॉं सायुज्यं सार्ष्टितॉं समानलोकतामाप्नोति’ (तै. उप.) इत्यत्र युगपत्, क्रमेण वाऽनेकदेवतासायुज्ये तत्तदैक्यापत्तेरघटितत्वात् । ‘सायुज्यं प्रतिपन्ना ये तीव्रभक्तास्तपस्विनः । किङ्करा मम ते नित्यं भवन्ति निरुपद्रवाः ॥’ इति परमसंहितायाम् (३०.९४) उक्तम् । शाण्डिल्यस्मृतौ ‘यादृग्रूपस्तु भगवान् यत्र यत्रावतिष्ठते । मुक्तश् पञ्कालज्ञः तादृशस्सह मोदते ॥’ इति । सायुज्यशब्देन ‘शरवत् तन्मयो भवेत्’ इत्यादिषूक्तसंयोगविशेषो विवक्षितः, इति वदन्तस्त्वर्थविरोधाभावान्मर्षणीयाः । आगश्शब्दोऽपराधवाी । तस्य ते क्षमायाः किमपदमागः? न किंिदस्ति । सर्वदर्शिना त्वया दृष्टमस्ति ेद्वद । त्वयाऽपि द्रष्टुं वक्तुं न शक्यमिति भावः । दयाक्षमयोरिहाविनाभावात् अन्यतरोक्तौ इतरदन्तर्गतम् ।

ननु देहपातावधिनिरन्तरापराधस्य शिशुपालस्य केन व्याजेन मुक्तिः प्राप्तेति ेत्; इह तावत्प्रागेव भगवल्लोकविशेषवासिनः शापाक्रान्तस्य प्रतिकूलजन्मत्रयान्ते मुक्तिर्भविष्यतीति प्रतिविधाननियतिः परमं निदानम् । अत एव ह्युपात्तक्रे वधोद्यते भगवति शिशुपालस्य प्रद्वेषसंस्कारभूयस्तयाऽपि निरन्तरस्मृतिमतः प्रकाशितपारम्यं भगवद्रूपं पश्यतोऽनुकूलावस्थाप्राप्तिरु्यते । ‘अपगतद्वेषानुबन्धो भगवन्तमद्राक्षीत्, ताव भगवक्रेणाशु व्यापादितः, तत्स्मरणदग्धाखिलाघसञ्यो भगवताऽन्तमुपानीतस्तस्मिन्नेव लयमुपययौ’ (वि.पु.) इति ॥ ६३ ॥

एवं त्वत्क्षमाविशेषदर्शनान्निर्भयोऽस्मि, तथा त्वद्व्रतविशेषानुसन्धानान्निर्भरश्ास्मीत्यभिप्रायेण ‘सकृदेव प्रपन्नाय’ (रामा.यु. १८.३) इति श्लोकोक्तं ममापि साधारणमित्याह –

ननु प्रपन्नस्सकृदेव नाथ! तवाहमस्मीति यामानः ।

तवानुकम्प्यस्स्मरतः प्रतिज्ञां मदेकवर्जं किमिदं व्रतं ते? ॥ ६४ ॥

नन्विति । ‘सकृत् कृतः शास्त्रार्थः’ (पू.मी. ११.१.२२) इति स्वतःप्राप्तस्य विद्यान्तरनयादत्रापवादशङ्कायां तन्निरासार्थ एवकारः । सकृदेवेत्यस्य ‘सहसैव – सर्वागसां निष्कृतिमकृत्वा’ इति कैश्िद्व्याख्यातम् । आवृत्तिव्यव्छेदे तु प्रसिद्धिप्रकर्षः प्रयोजनभूयस्त्वं ‘सकृदेव हि शास्त्रार्थः’ (लक्ष्मीतन्त्रे १७.९०), ‘मयि निक्षिप्तकर्तव्यः कृतकृत्यो भविष्यति’ (सात्यकितन्त्रे) इत्यादिप्रमाणानुगुण्यं विद्यते । अत एव ‘सकृदेव ददामी’ति व्यवहितान्वयश्ात्र न युक्तः ॥

प्रयापयध्वंसप्रत्यूहरहिता प्रभौ । प्रपत्तिः कॢप्तकाले तु फलतीत्यपि सू्यते ॥ ३४ ॥

अत्र नाथशब्देन ‘लोकनाथः पुरा भूत्वा सुग्रीवं नाथमि्छति’ (रामा.किष्कि. ५.२०), ‘सर्वलोकशरण्याय’ (रामा.यु. १७.१५) इत्यादिकं ख्याप्यते । शरण्यत्वं कैङ्कर्योद्देश्यत्वं तवैव प्राप्तमिति भावः । तवाहमस्मीति यामानः – तव दासभूतोऽहमित्येवंविधानुसन्धानपूर्वकं शेषवृत्तिं प्रपत्तिफलत्वेन प्रार्थयमान इत्यर्थः । अस्मीत्यस्य स्यामिति वाऽभिप्रेतम् । तदाऽपि तवाहं किङ्करः स्यामिति फलप्रार्थना ।

अत्र गोप्तृत्ववरणमात्मनिक्षेपश् यथार्हं पृथङ्निर्दिश्यते, इति केित्; ‘मानसी वािकी ’ इति एके; ‘प्रयोजनान्तरार्थप्रपत्तिरनन्यप्रयोजनप्रपत्तिश्’ इति अन्ये; ‘प्रपत्तिर्भक्तिश्’ इति अपरे ।

तकानुकम्प्य इत्यादिना लोकरक्षार्थमवतीर्णस्य दक्षिणसागरवेलायां महापरिषदि दुरपह्नवप्रतिज्ञाकर्तृत्वं सू्यते । प्रतिज्ञाम् – ‘अभयं सर्वभूतेभ्यो ददामि’ (रामा.युद्ध. १८.३५) इत्येवंरूपाम् । अत्र नित्यसिद्धसर्वसाक्षात्कारस्य भगवतः स्मरत इत्युक्तिर्लौकिकबुद्ध्यनुसारादौपारिकी । अनुकम्प्यः – त्वत्प्रतिज्ञाभङ्गपरिहारार्थं त्वयैवानुकम्पा कर्तव्येति भावः । ननु यदर्थं मया प्रतिज्ञातं तेषु विभीषाणादिषु प्रतिज्ञा सफला, किं त्वयेत्यत्राह – मदेकवर्जं किमिदं व्रतं ते इति । ‘प्रपन्नाय’ ‘याते’ इति हि सामान्यतस्त्वया प्रतिज्ञातम्; ‘विभीषणो वा (धर्मात्मा) सुग्रीव! यदि वा रावणस्स्वयम् । आनयैनं हरिश्रेष्ठ दत्तमस्याभयं मया ॥’ (रामा. यु. १८.३४) इति ोक्तम् । न त्वया तदानीं मद्व्यतिरिक्तायाभयं ददामीति व्रतमुपात्तम्; अतोऽहमपि त्वद्व्रतविषयभूत इति व्यज्यते । सर्वसाधारणस्वामित्वशरण्यत्वयोगम् ‘रामो द्विर्नाभिभाषते’ (रामा.अयो. १८.३०) इत्यादिवैघट्यात्स्ववाक्यस्य व्यावृत्तिविशेषणात् स्वप्रक्षेपानर्हत्वं सूयितुं पुनरपि ते इत्युक्तम् ॥ ६४ ॥

ननु काकस्य ‘स पित्रा परित्यक्तः सुरैश् समहर्षिभिः । त्रींल्लोकान् संपरिक्रम्य तमेव शरणं गतः ॥ स तं निपतितं भूमौ शरण्यः शरणागतम् । परिद्यूनं विषण्णं ….’ (रामा.सुन्द. ३८.३३,३४) इत्युक्तावस्थाविशेषोऽस्ति; ैद्यस्य प्राीननियतिर्मातुर्वरविशेषश् विद्यते; तव पुनः स्वोक्तानाममर्यादत्वादीनामाकरस्योपायानुष्ठाने फलप्रार्थनायां छद्मस्तुतिमात्रवादिनोऽनन्यथासिद्धेन केन हेतुना क्षन्तव्यत्वं शिक्षणीयत्वं रक्षणीयत्वं ेत्यत्र ‘पिता त्वं माता त्वम्’ (श्लो.६०), ‘दयासिन्धो बन्धो’ (श्लो. ५८), ‘रघुवर’ (श्लो. ६३), ‘ननु प्रपन्नः’ (श्लो.६४) इत्यादिभिः शरण्यगताः स्वरक्षणौपयिकगुणविशेषा ये प्रतिपादिताः; ये ‘अकिञ्नोऽनन्यगतिः’ (श्लो. २२), ‘दयनीयस्तव नाथ’ (श्लो. ५०), ‘त्वदीयस्त्वद्भृत्यः’ (श्लो. ६०) इत्यादिभिः स्वगतगुणाः प्रदर्शितास्तेभ्यः सर्वेभ्यः समधिकं निरङ्कुशस्वातन्त्र्येण सर्वेश्वरेणाप्यनतिलङ्घनीयस्वासाधारणस्वाङ्गीकारहेतुमाह –

अकृत्रिमत्वरणारविन्दप्रेमप्रकर्षावधिमात्मवन्तम् ।

पितामहं नाथमुनिं विलोक्य प्रसीद मद्वृत्तमिन्तयित्वा ॥ ६५ ॥

अकृत्रिमेति ॥ क्रियया निर्वृत्तः कृत्रिमस्तदन्योऽकृत्रिमः, भगवत्कटाक्षविशेषाधीनमहावंशसंभवादेतस्मिन् जन्मनि प्रभूतयत्ननिरपेक्ष इत्यर्थः । अकृत्रिमत्वमिह प्रेमविशेषणम् । त्व्छब्देन प्राप्यत्वप्रापकत्वौपयिकसर्वाकारवैशिष्ट्यं सू्यते । रणारविन्दशब्देन तु दासभूतस्य स्वतः प्राप्तसेव्यत्वं पावनतमत्वं निरतिशयभोग्यतमतया परमप्रेमार्हत्वं प्रकाश्यते । ‘अनुरागमहिमातिशयान्तसीम्रे’ (श्लो. २) इति प्रागुक्तमेव विधेयान्तरार्थमनुवदति – प्रेमप्रकर्षावधिमिति । लोके राजादयः स्वभक्तानुबन्धिनामपि रक्षणं कुर्वन्तीति भावः । आत्मवन्तम् – जितमनस्कमित्यर्थः । तेन प्रयोजनान्तरवैमुख्यं व्यञ्जितम् । तदपि प्राप्तविषये प्रेमप्रकर्षहेतुः । तादृशप्रेम्णा सपरिकरभक्तियोगसामर्थ्येऽपि विलम्बाक्षमतया प्रपत्तिनिष्ठत्वं सू्यते । यद्वा, यथावस्थितभगवत्प्रेमजनिततद्ध्यानादिभिर्लब्धात्मेति पदद्वयाभिप्रायः । अयं स्वभावो गीतार्थसङ्ग्रहेऽपि ‘ज्ञानी तु परमैकान्ती’ (२९) इत्यारभ्य, ‘भगवद्ध्यानयोगोक्तिवन्दनस्तुतिकीर्तनैः । लब्धात्मा तद्गतप्राणमनोबुद्धीन्द्रियक्रियः ॥’ (श्लो. ३०) इत्युक्तः । ‘आार्यो वेदसंपन्नो विष्णुभक्तो विमत्सरः । मन्त्रज्ञो मन्त्रभक्तश् सदा मन्त्राश्रयश्शुिः । गुरुभक्तिसमायुक्तः पुराणज्ञो विशेषतः । एवं लक्षणसम्पन्नो गुरुरित्यभिधीयते’ इत्यादिषूक्तानामाार्यगुणानां सर्वेषां सार इह सङ्गृहीतः । तस्यैवं गुणवत्त्वे तव किमायातमित्यत्राह – पितामहमिति । अत्र विद्यया जन्मना ेति भाव्यम् । एतेन ‘नास्यावरपुरुषाः क्षीयन्ते, नास्याब्रह्मवित् कुले भवति’ इति श्रुत्यर्थः सू्यते । नाथमुनिम् – श्रीरङ्गनाथ इति त्वन्नामधारिणं त्वदेकमननशीलं ेति भावः । विलोक्य – ‘पशुर्मनुष्यः पक्षी वा’ (शाण्डिल्य. १.१५) इत्यादिन्यायादनुबन्धिपर्यन्तमनुग्राह्यत्वेन मत्वेत्यर्थः । ‘आार्यस्य प्रसादेन मम सर्वमभीप्सितम् । प्राप्नुयामिति यस्यास्ति विश्वासः स सुखी भवेत् ॥’ इत्युक्ताार्यप्रसादोऽपि भगवत्प्रसादहेतुरित्यभिप्रायेणाह – प्रसीदेति । अनाद्यनन्तमदपराधजनितकालुष्यं विहाय मामैकान्तिकात्यन्तिककैङ्कर्यसाम्राज्यधन्यं कुरुष्वेत्यभिप्रायः । मद्वृत्तमिन्तयित्वा – मदीयममर्यादत्वादिप्रतिकूलवृत्तमुपायोपेयविषय्छद्मस्तुतिवनाद्यनुकूलवृत्ताभासं ातन्त्रीकृत्येत्यर्थः । स्मर्यते हि – ‘पापिष्ठः क्षत्रबन्धुश् पुण्डरीकश् पुण्यकृत् । आार्यवत्तया मुक्तौ तस्मादाार्यवान् भवेत् ॥’ इति ।

अत्र ‘पूर्वकृतप्रपत्त्यादिकमपराधकोटौ निवेश्य प्रपदनान्तरमु्यते’ इति वादोऽप्याार्यसंबन्धप्राधान्यपरः; अन्यथा सर्वशास्त्राणाम्, संप्रदायस्य, ‘त्वदङ्घ्रिमुद्दिश्य’ (श्लो. २८) इत्यादिस्ववनानां विरोधः स्यात् । ‘स्वकृतप्रपत्तेर्वैकल्यमाशङ्क्य पूर्णप्रपत्तिनिष्ठमार्यं स्वरक्षणाय पुरस्करोति’ इति पक्षेऽपि मत्प्रपत्तिर्विकला ेदविकलां कुरुष्वेति तात्पर्यं ग्राह्यम् । अत्र वृत्तशब्देन प्रतिकूलवृत्तमात्रविवक्षायां तु न किञ्िोद्यम् ॥

तदिह यामुनाार्यस्त्रय्यन्तरहस्यभूतं द्वयार्थगर्भं स्तोत्रं िकीर्षुरादौ पञ्भिः श्लोकैः कृतज्ञताप्रकाशनपूर्वकं प्रकृतौपयिकसम्यग्ज्ञानप्रदातॄन् प्रणनाम । षष्ठेन प्राप्यप्रापकसङ्ग्रहपूर्वकं स्तोत्रारम्भं समकल्पयत् । सप्तमेन स्तोत्रारम्भाक्षेपमुखेन भगवतः परत्वं समगृह्णात् । अष्टमनवमाभ्यां तत्समाधानमुखेन सौलभ्यं प्राीकशत् । ‘नावेक्षसे’ (१०) इत्यादिभिर्द्वादशभिर्नारायणशब्दवा्यस्यैव सर्वस्मात् परत्वं सौलभ्यं प्रपञ््य प्रह्वीबभूव । एवं सर्वशरण्यतत्त्वे निरूपिते ‘न धर्मनिष्ठोऽस्मि’ (२२) इत्यनेन तद्विषयां साधिकारां सपरिकरां अनन्यप्रयोजनशरणागतिं प्रायुङ्क्त । एतावता शब्दतोऽर्थतश् पूर्वखण्डोऽपि प्रत्यभिज्ञापितः । ‘न निन्दितम्’ (२३) इत्यादिभिः पञ्भिः ‘अकिञ्नोऽनन्यगतिः शरण्य’ (२२) इत्युक्तमेव व्यवृणुत । ‘त्वदङ्घ्रिमुद्दिश्य’ (२८) इत्यादिद्वाभ्यां फलगौरवोपायलाघवनिमित्तशङ्काव्युदासाय लघुतरभगवद्धर्मप्रभावमुदाजहार ॥ ‘विलास’ (३०) इत्यादिभिः सप्तदशभिश्तुर्थ्यन्तपदद्वयाभिप्रेतं व्यस्तृणीत ॥ तत्र ‘प्रहर्षयिष्यामि’ (४६) इति सर्वदेशसर्वकालोितनिरुपाधिकनिरवधिकसर्वविधकैङ्कर्यस्य परमप्रयोजनतया नमश्शब्दतात्पर्यमप्यसूयत् ॥ ‘धिगशुिम् (४७) इति श्लोकेन स्वनिन्दाव्याजेन स्वापेक्षितपरमपुरुषार्थस्य सर्वातिशायित्वं, स्वस्य त्वरां व्यञ्जयामास ॥ ‘अपराध’ (४८) इत्यादिभिश्तुर्भिः शरण्यगुणविशेषेण प्रपत्त्यैव सर्वविरोधिनिवृत्तिं प्रादर्शयत् ॥ ‘वपुरादिषु’, (५२) ‘मम नाथ’ (५३) इति द्वाभ्यां शेषवृत्तेः पुरुषार्थत्वाय स्वस्य नित्यनिरुपाधिकानन्यार्हशेषत्वाध्यवसायमाष्ट ॥ ‘अवबोधितवानिमाम्’ (५४) इत्यादिभिश्तुर्भिरनन्यप्रयोजनस्य स्वस्यात्रत्यामिष्टप्राप्तिमनिष्टनिवृत्तिं प्रार्थयामास ॥ ‘दुरन्तस्य’ (५८) इति श्लोकेन स्वनिन्दाव्याजेन स्वापेक्षितपुरुषार्थस्य सर्वातिशायित्वम्, स्वस्य त्वरां सूयन् शरणागतस्य प्रपत्तव्यगुणविशेषैरेव प्रार्थितं सर्वं सिध्यति’ इति प्रागुक्तमेव स्थूणानिखननन्यायेन स्थिरीकार ॥ ‘अनि्छन्’ (५९) इति श्लोकेनानन्यप्रयोजनस्य रक्षणोद्यतो भगवान् ‘नेहाभिक्रमनाशोऽस्ति’ (गीता. २.४०) इति न्यायात्स्वयमेव शेषं पूरयतीत्यभाषत ॥ तत्र ‘त्वमेव’ (५९) इत्यादिनाऽभिप्रेतं, ‘पिता त्वम्’ इत्यादिना विवृण्वन् परगतैः स्वगतैश् हेतुभिश्शरण्यस्य स्वाभिमतभरस्वीकारेण स्वस्य निर्भरत्वं निरणैषीत् ॥ ‘जिनत्वाऽहम्’ (६१), ‘अमर्यादः’ (६२) इति द्वाभ्यां स्वस्योपायान्तरेण परमपुरुषार्थप्राप्तिर्न संभवतीति पूर्वोक्तमेव पुनः प्रतिसमाधत्त ॥ ‘रघुवर’ (६३) इति श्लोकेन शरण्यस्य प्राक्तनानुष्ठानन्यायात्स्वस्मिन्नपि सर्वापराधक्षमा प्राप्तेत्याह ॥ ‘ननु प्रपन्नः’ (६४) इति श्लोकेन शरण्यव्रतविशेषस्वभावादपि तदेव प्रथयामास ॥ अथान्तिमेन स्वपरगतेषु स्वरक्षणहेतुषु भगवत्कटाक्षविशेषजनितसदाार्यसंबन्ध एव प्रधानतम इति निर्धार्य तदधीनभगवत्प्रसादेन निर्भयः प्रहृष्टश्ासीत्॥

इतिकिल निगमान्तभागधेयस्तुतिपरिवाहसमीक्षया प्रपत्त्या ।

अलभत परमं पदं मुरारेरनघमनोरथ एष यामुनेयः ॥ ३५ ॥

कथिताकथिते विभाव्य सद्भिस्सदसद्वेदिभिरत्र सावधानैः ।

बलवत्प्रथितप्रमाणदृष्ट्या बहुमन्तव्यमिदं यदस्मदुक्तम् ॥ ३६ ॥

उनिषदुपधेयस्तोत्रतात्पर्यमेतत् यतिपतिरवधत्ते यामुनार्यस्स्वयं वा ।

अहमिह तु नियुक्तस्सद्भिराार्यनिघ्नैरधिगतशुकवृत्तिर्व्याक्रियामन्वभूवम् ॥ ३७ ॥

स्वकमिति हरिदत्तं यामुनस्तोत्रवृत्त्या व्यवृणुत निगमान्ताार्यकं वेङ्कटेशः ।

अगणि सदसि सद्भिर्यस्समस्यासहस्री कविकथकमृगेन्द्रस्सर्वतन्त्रस्वतन्त्रः ॥ ३८ ॥

इति श्रीकवितार्किकसिंहस्य सर्वतन्त्रस्वतन्त्रस्य श्रीमद्वेङ्कटनाथस्य वेदान्ताार्यस्य कृतिषु रहस्यरक्षायां स्तोत्ररत्नभाष्यं समाप्तम् ॥

error: Content is protected !!