ऐतरेयोपनिषत्
शान्तिमन्त्रः
वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एवि । वेदस्यम
आणीस्थः । श्रुतं मे मा प्रहासीः। अनेनावीतेनाहोरात्रान् सन्दवामि । ऋतं वदिष्यामि । सत्यं
वदिष्यामि । तन्मामवतु । तद्वक्तारमवतु । अवतु माम् । अवतु वक्तारम् । अवतु वक्तारम् ।
ओं शान्तिः शान्तिः शान्तिः
यथोक्ततत्त्वविद्याप्रतिपादकग्रन्थपाठे प्रवृत्ता मदीया वाक् सर्वदा मनसि प्रतिष्ठिता । मनसा यद्यच्छब्दजातं विवक्षितं तदेव पठति । मनश्चमदीयं वाचि प्रतिष्ठितम् । यद्यद्विद्याप्रतिपादकत्वेन वक्तव्यं शब्दजातमस्ति तदेव मनसा विवक्ष्यते । एवम् अन्योम्यानुगृहीते वाङ्मनसे विद्यार्थं ग्रन्थं साकल्येन अवधारयितुं शक्नुतः । मनसः सावधानत्वाभावे वागिन्द्रियं सुप्तोन्मत्तप्रलापादिवत् यत्किञ्चिदसंगतं ब्रूयात् । तथा च वाचः पाटवाभावे सति गद्गदरूपया वाचा विवक्षितं सर्वं यथावन्नोच्चार्येत । अतस्तयोः अन्योन्यानुकूल्यम् अस्तु इत्येवं प्रार्थ्यते । आविःशब्देन स्वप्रकाशं ब्रह्मचैतन्यमुच्यते । प्रज्ञानशब्देन व्यवहृतत्वात् तस्य आविर्भूतरूपत्वम् । तथाविध हे आत्मन् ! मदर्थम् आविरेधि अविद्यावरणपनयनेन प्रकटीभव । हे वाङ्गनसे! मे मदर्थं वेदस्य यथोक्ततत्त्वविद्याप्रतिपादकस्य ग्रन्थस्य आणीस्थः विद्यायाः आनयनसमर्थे भवतम्।मे श्रुतं मया श्रोत्रेणावगतं ग्रन्थतदर्थजातं मा प्रहासीः मा परित्यजतु, विस्मृतं मा भूदित्यर्थः । अनेनाधीतेन विस्मरणरहितेन ग्रन्थेनाहोरात्रान् सन्दधामि संयोजयामि । अहनि रात्रौ चालस्यं परित्यज्य निरन्तरं पठामि इत्यर्थः ।अस्मिन् पठिते ग्रन्थऋतं परमार्थभूतं वस्तु वदिष्यामि।विपरीतार्थवदनं कदाचिदपि माभूदित्यर्थः।ऋतं मानसं सत्यं वाचिकं, मनसा वस्तुतत्वं विचार्य वाचा वदिष्यामि इत्यर्थः। तन्मया वक्ष्यमाणं ब्रह्मतत्त्वं मां शिष्यम् अवतु सम्यग्बोधेन पालयतु । तथा तद् ब्रह्मतत्त्वं वक्तारम् आचार्यमवतु, बोधकत्वसामर्थ्य प्रदानेन पालयतु । पुनरप्यवतु मामित्याधुक्तिः फलविषया पूर्वं साधनकाले शिष्याचार्ययोः पालनं प्रार्थितम् इदानीं फलकालेपि प्रार्थ्यते । तत्र शिष्यस्याविद्यातत्कार्यनिवृत्तिः फलम्। आचार्यस्य तादृशशिष्यदर्शनेन विद्यासम्प्रदायप्रवृत्तिप्रयुक्तः परितोषः फलम् । अनेन मन्त्रपाठेन विद्योत्पत्तेः पुरा विद्याप्रतिबन्धकाः विघ्ना परिहियन्ते विद्योत्पत्तेरूर्ध्वम् असम्भावनाविपरीतभावनोत्पादका विघ्ना परिहियन्ते । अवतु वक्तारम् इत्यभ्यासोऽध्यायसमाप्त्यर्थो द्वितीयारण्यकसमाप्त्यर्थश्च ॥ (सायणभाष्यम् )* * रङ्गरामानुजमुनिभिः अव्याख्यातत्वात् सायण भाष्यमेव दत्तम्।
॥श्रीः॥
ऐतरेयोपनिषत्
प्रथमः खण्डः
[आत्मनः सृष्टिसङ्कल्पः]
आत्मा वा इवमेक एवाग्र आसीत् । नान्यत् किंचन मिषत् ॥ स ईक्षत लोकान्नु सृजा इति ॥१॥
प्रकाशिका
रङ्गरामानुजमुनिविरचिता
[मङ्गलाचरणम् ]
अतसीगुच्छसच्छायमचिंतोरस्स्थलं श्रिया।
अंजनाचलश्रृङ्गारमंजलिर्मम गाहताम् ॥१॥
[आचार्यवन्दनम् ]
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
आत्मषट्कस्य विवृतिं करवाणि यथामति ॥२॥
भोग्यभोगस्थान-तदुपकरणविलक्षणप्रत्यगात्म-तदात्मभूतपरमात्मस्वरूपप्रतिपादनाय इन्द्रादिपदानामपि हेयत्वप्रदर्शनाय च प्रकरणम् आरभ्यते – आत्मा वा इवमेक एवाग्र आसीत् । इदं – जगत् सृष्टेः प्राक् एक आत्मैव आसीत् । वै शब्दः अवधारणे तमः परे देव एकीभवति (सुबा.उ.२) इत्युक्तरीत्या परमात्मना अविभक्ततमोवस्थमेवासीदित्यर्थः । ब्रह्मादिषु जगत्कारण- भूतेषु सत्सु कथमेक – एव आसीत् इत्युच्यते इत्यत्राह – नान्यत् किंचन मिषत् । तद्यतिस्क्तिं अन्यत् , (किंचन) किमपि, (सर्वं) निर्व्यापारमेव आसीत् । अनेन करणकळेबरादिराहित्यम् अभिप्रेतम् । एको ह वै नारायण आसीत् । न ब्रह्मा, नेशानः (महो. १-१) इत्यादि श्रुत्यर्थः अनु- सन्धेयः । स ईक्षत लोकान्नु सृजा इति । लोकान् सृजानीति सङ्कल्पमकरोत् इत्यर्थः ॥ ४ ॥
[जगत्सृष्टिक्रमः]
सइमान् लोकानसृजत । अम्भो मरीचि(ची)र्मरमापः । अदोऽम्भः परेण दिवम् द्यौः
प्रतिष्ठा, अन्तरिक्षं मरीचयः, पृथिवी मरः, या अवस्तात् ता आपः॥२॥
स इमाल्लोकानसृजत् । तानेव लोकानाह अम्भोमरीचीर्मरमापः । अम्भः प्रभृतीन् स्वयमेव श्रुतिः व्याचष्टे अदोम्भः परेण विवम् । अम्भश्शब्दवाच्यो लोको द्युलोकात् परस्ता- दित्यर्थः । द्यौः प्रतिष्ठा । तस्य अम्भसो लोकस्य द्यौराश्रय इत्यर्थः । अन्तरिक्षं मरीचयः । अन्तरिक्षमेव मरीचिलोक इत्यर्थः । सूर्यादिमरीचिव्याप्तत्वात् मरीचिरित्युच्यते । मरीचयः इति बहुत्वोक्तिर्नि…..यी भेदायत्ता? मरीचिलोकादिभेदाभिप्राया । पृथिवीमरः । म्रियन्ते अस्मिन् भूतानि इति मरः पृथिवी पृथिवीलोकः । या अधस्तात् ता आपः । पृथिवीलोकस्याधस्तना लोका आप इत्युच्यन्त इत्यर्थः ।
[लोकपालसृष्ट्यर्थं विराटपुरुषाविर्भाव:]
स ईक्षत इमे नु लोकाः, लोकपालान्नु सृजा इति । सोऽदभ्य एव पुरुषं समुद्वृत्यामूर्च्छयत्॥३॥
सईक्षत-सृजा इति।भोगस्थानसृष्ट्यनन्तरम्, अम्भःप्रभृतयः लोकाः सृष्टाः । एषां लोकानां पालकान् सृजै इति सङ्कल्पम् अकृत इत्यर्थः । सोद्भ्य एव पुरुषं समृद्धत्या- मूर्च्छयत् । सः अप्शब्दोपलक्षितेभ्यः पंचभ्यः भूतेभ्यः शिरःपाण्यादिमन्तं पुरुषं कर्तुं समुद्धृत्य – अद्भ्यः समुपादाय अमूर्च्छयत् – पिण्डं कृतवान् इत्यर्थः ।
[लोकपालसृष्टिः]
तमभ्यतपत्तस्याभितप्तस्य मुखं निरभिद्यत यथाण्डम् ; मुखाद्वाक् ; वाचऽग्निः
नासिके निरभिद्येताम् नासिकाभ्यां प्राणः प्राणाद्वायुः । अक्षिणी निरभिद्येताम् ; अक्षीभ्यां
चक्षुः चक्षुष आदित्यः । कर्णां निरभिद्येताम् । कर्णाभ्यां श्रोत्रम् ; श्रोत्राद्दिशः । त्वङ्निर–
भिद्यत ; त्वचो लोमानि; लोमभ्य ओषधिवनस्पतयः । हृदयं निरभिद्यत ; हृदयान्मनः
मनसश्चन्द्रमाः । नाभिर्निरभिद्यत ; नाभ्या अपानः, अपानान्मृत्युः । शिश्नं निरभिद्यत्त ;
शिश्नाद्रेतः, रेतस आपः॥४॥
इति प्रथमः खण्डः
इति प्रथमखण्डप्रतिपदार्थदीपिका
तमभ्यतपत् । तं पिण्डं पुरुषविधमुद्दिश्य अभ्यतयत् – अभिध्यानं सङ्कल्पं कृत- वान् । तस्याभितप्तस्य मुख निरभिद्यत, यथाण्डम् । तस्याभितप्तस्य पिण्डस्य मुखाकारं सुषिरम- जायत, यथा पक्षिणोऽण्डम् , तथेत्यर्थः । मुखाद्वाग्वाचोऽग्निः । मुखादधिष्ठानात् वागिन्द्रियम् । उत्पन्नम् । ततो या तदधिष्ठातृदेवता । एवंच अधिष्ठानं करणं देवता च त्रयं क्रमेण निभिन्न- मित्यर्थः । एवमुत्तरत्रापि । नाभ्या अपानः । अपानः – पायुिरिन्द्रियमित्यर्थः । अपानान्मृत्युः । तस्याधिष्ठानदेवतेत्यर्थः । शिश्नाद्रेतः ।रेतश्शब्देन प्रजननेन्द्रियमुच्यते । रेतसो आपः।अ(अब?) भिमानिदेवतैव तस्याधिष्ठानदेवता इत्यर्थः ॥
इति प्रथमखण्डप्रकाशिका
द्वितीयः खण्डः
[अशनायापिपासयोः सृष्टिः]
ता एता देवताः सृष्टा अस्मिन् महत्यर्णवे प्रापतन् । तमशनाया पिपासाभ्यामन्व–
वार्जयत् । ता एनमब्रुवन् । आयतनं नः प्रजानीहि यस्मिन् प्रतिष्ठित्ता अन्नमदामेति ॥१॥
ता एता देवतास्सृष्टा अस्मिन् महत्यर्णवे प्रापतन् । एता अग्न्यादयः देवताः लोकपालत्वेन सङ्कल्प्य सृष्टाः अस्मिन् महति संसारार्णवे रागद्वेषादिमहाग्राहग्रस्ते (स्ताः?) पतिता अभूवन् । तमशनायापिपासाभ्यामन्ववार्जत् । प्रथमोत्पादितं पिण्डं अशनायापिपासाभ्यां संयोजितवान् । तस्य कारणभूतस्य अशनायादिदूषितत्वेन तत्कार्यतया सृष्टा अपि देवताः अशनायादिदूषिता अभूवन् इति । ता एनमब्रुवन् अन्नमदामेति । ताः-देवताः अशनायापिपासाभ्यां पीड्यमाना एनं-पितामहमागत्य, अस्मभ्यम् अधिष्ठानं विधत्स्व। तत्र प्रतिष्ठिता अन्नं भक्षयित्वा अशनायां निवतीयष्यामः इति ।
[पुरुषसृष्टिः]
ताभ्यो गामानयत् ता अब्रुवन् न वै मोऽयमलमिति । साभ्योऽश्वमानयत् ता अब्रुवन्
न वै नोऽयमलमिति ।२॥
ताभ्यः पुरुषमानयत् ता अब्रुवन् सुकृतं बत्तेति । पुरुषो वाव सुकृतम् । ता
अब्रवीद्यथायतनं प्रविशतेति ॥३॥
ताभ्यो गामानयत् । गवाकृतिविशिष्टं पिण्डमानीय अधिष्ठानत्वेन प्रदर्शितवान् इत्यर्थः । ता अब्रुवन् न वै नोऽयमलमिति । ताः – देवताः अयं – पिण्डः अस्माकं न पर्याप्तः इत्युक्तवत्यः । ताभ्योऽश्वमानयत् ता अब्रुवन्न वै नोऽयमलमिति । तिर्यक्षु गवाश्वादिषु इन्द्रियतदधिष्ठातृदेवतानां सम्यक् कार्यकरत्वाभावात् इति भावः । ताभ्यः – सुकृतं बतेति।स्वयोनिभूतपुरुषं दृष्ट्वा सुकृतं’ – आत्मने शोभनमिदमधिष्ठानं कृतमिति देवताः अब्रुवन्-इत्यर्थः, पुरुषो वाव सुकृतम्।सर्वपुण्यकर्महेतुत्वात् पुरुषस्य सुकृतत्वम् उपपद्यत इति भावः । ता अब्रवीद्यथायतनं प्रविशतेति । ईश्वर इति शेषः ।
[अधिदेवतानां आयतनप्रवेशः]
अग्निर्वाग्भूत्वा मुखं प्राविशत् । वायुः प्राणो भूत्वा नासिके प्राविशत् ।
आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्। विशश्श्रोत्रं भूत्वा कर्णो प्राविशन् । ओषधिवनस्पतयो
लोमानि भूत्वा त्वचं प्राविशन्। चन्द्रमामनो भूत्वा हृदयं प्राविशत् । मृत्युरपानो भूत्वा नाभिं
प्राविशत् । आपो रेतो भूत्वा शिश्नं प्राविशत्॥४॥
अग्निर्वाग्भूत्वा मुखं प्राविशत् । वागभिमानी अग्निः वागेव भूत्वा – वाग्रूपो भूत्वा स्वयोनिं मुखं प्राविशत् । एवमुत्तरत्रापि । वायुः – प्राविशन् । पूर्ववदर्थः । तमशनायापिपासे अब्रूताम्।आवाभ्यां अधिप्रजानीहि इति।स ते अब्रवीत्, एतास्वेव वां देवत्तास्वाभजाम्येत्तासु भागिन्यौ करोमि इति । तस्माद्यस्यै कस्यै च देवतायै हविगृहपते, भागिन्यावेवास्यामशनायापिपासे भवत:॥५॥
इति द्वितीयः खण्डः
तमशनायापिपासे अब्रूताम् , आवाभ्यामधिप्रजानीहीति । एवं लब्धाधिष्ठानासु देवतासु तं – ईश्वरं अशनायापिपासे – आवाभ्याम् अधिष्ठानं विधत्स्व इति अब्रूताम् । स ते अब्रवीत् – भागिन्यौ करोमीति । एतास्वेव देवतासु – वृत्तिसंविभागेन युवानम् अनुगृह्णामि ; एतास्वेव देवतासु युवां भागवत्यौ करोमि इति ईश्वरः अशनायापिपासे प्रति अब्रवीदित्यर्थः । तस्माद्यस्यै कस्यै च – भवतः । अशनायापिपासाविशिष्टाया भवता एव देवतायागविभागत्वात् (अशनायापिपासाविशिष्टाया एव देवताया भागवत्वात् ?) तयोरपि भागवत्वमस्तीति भावः । ततश्च इन्द्रादीनामपि अशनायादूषितत्वात् तत्पदेभ्योऽपि विरज्येतेति भावः ।
इति द्वितीयखण्डप्रकाशिका
तृतीयः खण्डः
[अन्नसृष्टिः]
स ईक्षतेमे नु लोकाश्च लोकपालाश्च ; अन्नमेभ्यः सृजा इति ॥१॥
सोऽपोऽभ्यतपत् ताभ्योऽभितप्ताभ्यो मूर्तिरजायत । या वै सा मूर्तिरजायत, अन्नं
वै तत् ॥२॥
स ईक्षत – सृजा इति । लोकांश्च लोकपालांश्च सृष्ट्वा एषामशनायाविशिष्टानाम् अन्नं सृजानीति सङ्कल्पम् अकरोत् इत्यर्थः । सोऽपोऽभ्यतपत्।अप उद्दिश्याभिधानं कृतवानि- त्यर्थः । ताभ्यः- अन्नं वैतत् । अभिध्यातेभ्यः सः (अभिध्याताभ्यः ताभ्यः) कठिनात्मा अन्नरूपः परिणामः अजायत इत्यर्थः ।
आ.भा. – सः – परमेश्वरः ईक्षत-सङ्कल्पम् अकरोत् । इमेनु लोका-अम्भः प्रभृतयः
लोकपालाः – अग्निप्रभृतयः सृष्टाः । अशनायापिपासाभ्यां योजिताश्च । एभ्यः – स्थानान्यपि
दत्तानि स्वाभीष्टानि उपभोगयुक्तानि, परन्तु अदनीयस्यैव चेत् अन्नस्य अभावः स्यात् तदा
कथमेषां लोकपालानां बुभुक्षापिपासाव्याकुलितानाम् अनवस्थितिः सम्भवेत् तस्मात् एभ्यः
लोकपालेभ्यः लोकपालार्थं अन्नं सृजे – सृजानि । समुत्पादयेयम् इत्येतत् । एवं सङ्कल्पं स
कृतवान् इत्यर्थः । एवं सङ्कल्प्य सः – परमात्मा अपोऽभ्यत्तपत् – अप उद्दिश्य अभिध्यातवान् ।
अप्पदं पंचीकृतभूतोपलक्षणमित्युक्तम् । व्रीहियवादिकमन्नं पंचीकृतेभ्य एभ्यो भूतेभ्यः
समुत्पन्नं भवतु इति सङ्कल्पगोचरा अपः कृताः कृतवान् इत्येतत् । अभितप्ताभ्यः
व्रीहियवाद्यन्नोत्पादगोचरसङ्कल्पविषयाभ्यः एताभ्यः • अद्भ्यः मूर्तिरजायत – घनीभूतं
शरीरघाणसमर्थं व्रीहयादिकम् अजायत । मूर्तिशब्दार्थं व्याचष्टे श्रुतिरेव – यावे सेति । यावे मूर्तिः –
चराचररूपा तदन्नमिति । घासादिकमचरमूर्तिः बिडालव्याघादिखाद्यभूता मूर्तिः मूषकहरणादि-
रूपाचरस्वरूपा इति विवेकः ।
9321 starts here
[वागादिभिः अन्नग्रहणासामर्थ्यम् अपानेन अन्नग्रहणं च]
तदेतदभिसृष्टं सत् पराङ्त्यजिवांसत् । तद्भाचाsजिधृक्षत् । तन्नाशक्नोद्भाचा
ग्रहीतुम् । स यद्धैनद्भाचाऽग्रहैष्यत् ,अभिव्याहृत्य हैवान्नमत्रप्स्यत् ॥३॥
तत् प्राणेनाजिधृक्षत् । तन्नाशक्नोत् प्राणेन ग्रहीतुम्॥स यद्धैनत् प्राणेनाग्रहैष्यत्,
अभिप्राण्य हैवान्नमत्रप्स्यत्॥४॥
तच्चक्षुषाऽजिधृक्षत् । तन्नाशक्नोच्चक्षुषा ग्रहीतुम् । स यद्धैनच्चक्षुषाऽग्रहैष्यत्
दृष्ट्वा हैवान्नमत्रप्स्यत् ॥५॥
तच्छोत्रेणाजिधृक्षत् । तन्नाशक्नोच्छोत्रेण ग्रहीतुम् । स यद्धैनच्छोत्रेणाग्रहैष्यत् ,
श्रुत्वा हैवान्नमत्रप्स्यत् ॥६॥
तत्त्वचाऽजिधृक्षत् ॥ तन्नाशक्नोत्त्वचा ग्रहीतुम् । स यद्धैनत् त्वचाऽग्रहैष्यत् ,
स्पृष्ट्वा हैवान्नमत्रप्स्यत् ॥७॥
तन्मनसाऽजिधृक्षत् । तन्नाशक्नोन्मनसा ग्रहीतुम् । स यद्धैनन्मनसाऽग्रहैष्यत् ,
ध्यात्वा हेवान्नमत्रप्स्यत् ॥८॥
तच्छिश्नेनाऽजिधृक्षत्। तन्नाशक्नोच्छिश्नेन ग्रहीतुम्। स यद्धैनच्छिश्नेनाग्रहैष्यत्,
विसृज्य हैवान्मत्रप्स्यत्॥९॥
तदपानेनाजिधृक्षत् । तदावयत्। स एषोऽन्नस्य ग्रहो यद्वायुः । अन्नायुर्वा एष
यद्वायुः ॥१०॥
अशनायापिपासानुकूललोकलोकपालानां पुरतः सृष्टमन्नं पराङ् भोग्यभूतं भक्ष्यभूतमिति यावत् – अत्यजिवांसत् – अतिक्रम्य गन्तुमैच्छत्, मार्जारादिवक्त्रीस्थितमूषिकादिवत् पलापितुमारभत इत्यर्थः । तद्भाचाजिधृक्षत् – पलायमानम् अन्नं प्रथमोत्पन्नः लोकलोकपाल- कार्यकारणसंघातलक्षणः पिण्डः वाग्व्यापारेण अन्न (?) ग्रहीतुम् ऐच्छत् । तन्नाशक्नोद्भाचा ग्रहीतुम्।स्पष्टोऽर्थः । स यद्धैनद्भाचा ग्रहैष्यत्, अभिव्याहृत्य हैवान्नमत्रप्स्यत्।यदि वाग्व्यवहारेणैव अन्नं ग्राह्यं स्यात् अन्नमिति वाचा व्यवहृत्यैव सर्वेऽपि तृप्तिं प्राप्नुयुः इत्यर्थः । अतः वाग्ग्रहणयोग्या (?) न्नाभावा (द्वाचाग्रहीतुं, नाशक्नो?) दित्यर्थः । तत् प्राणेन – विसृज्य हैवान्नमत्रप्स्यत् । पूर्ववदर्थः । तदपानेनाजिधृक्षत्तदावयत् । अपानेनाजिधृक्षत्। मुखरन्ध्रगतेन वायुना अजिघृक्षत्(आवयत्?) अशितवानित्यर्थः । सएषोऽन्नस्य ग्रहो यद्वायुः । वायुरेव अन्नग्राहीत्यर्थः । अन्नायुर्वा एष यद्वायुः अन्नमेव वायुजीवनं (अन्नमेव आयुः जीवनं?) यस्य सः । अन्नजीवनक इत्यर्थः ।
[आत्मनः शरीरप्रवेशः]
स ईक्षत कथंन्विदं मवृते स्यादिति । स ईक्षत कतरेण प्रपद्या इति । स ईक्षत यदि
वाचाऽभिव्याहृतम्; यदि प्राणेनाऽभिप्राणितम्, यदि चक्षुषा दृष्टम्; यदि श्रोत्रेण श्रुतम्, यदि
त्वचा स्पृष्टम्; यदि मनसा ध्यातम् । यद्यपानेनाऽभ्यपानितम्, यदि शिश्नेन विसृष्टम्, अथ
कोऽहमिति ॥११॥
स ईक्षत कथं न्विदं मवृते स्यादिति । एवं लोकलोकपालादीन् सृष्ट्वा लोकलोकपालसंघातस्थितिम् अन्ननिमित्तिकां च कृत्वा, लोकपालाद्यधिष्ठितपुरं पुरस्वामिनं मां विना कथं प्रभवेत् । न हि राजानधिष्ठितं पुरं कार्याय प्रभवति इत्येवं अचिन्तयत् । स ईक्षत यदि वाचाऽभिव्याहृतं – अथकोऽहमिति । यदि मां विनैव वागादिभिः स्वस्वकार्यं कृतं स्यात् , तदा कस्याहं, मे शेषित्वं (कस्याहं स्वामी ; शेषित्वं मे ?) (कः स्यामहम् ,शेषित्वं मे?) कथं स्यादित्यर्थः ।
[प्रवेशमार्गनिरूपणम् ]
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । सैषा विदृतिर्नाम द्वास्त–
देतन्नान्दनम् ॥ तस्य त्रय आवसथाः त्रयः स्वप्नाः ; अयमावसथोऽयमावसथोऽयमावसथ
इति ॥१२॥
स एतमेव सीमानं विदार्यैतया द्वारा प्रापद्यत । एवमीक्षित्वा मद्भृत्यभूतप्राणवर्ग द्वारभूतमुखादिना स्वामिनो मम प्रवेशोऽनुचित इति मत्वा मूर्धसीमानं विदार्य तदद्वारा, ‘अनेन जीवेनात्मना’ (छां.उ. ६-३-२) इति श्रुत्यनुसारात् जीवशरीरकतया प्रविवेश इत्यर्थः । सैषा विदृतिर्नाम द्वास्तदेतन्नान्दनम् । तदेतद् द्वारं विदारितत्वात् विदृतिसंज्ञकम् । तदेतद्वारं नान्दनं – नन्दनम् । द्वारान्तरवत् न जुगुप्सितमित्यर्थः । स्वार्थे अण् । तस्य त्रय आवसथाः त्रयः स्वप्नाः अयमावसथोऽयमावसयोऽयमावसथ इति । तस्य जीवशरीरकस्य आत्मनः त्रयः स्वप्नवदाश्चर्यभूताः आवसथाः के ते? अयमावसथः जाग्रद्दशायां चक्षुः, स्वप्नदशायाम् अन्तःकरणम् , सुषुप्तिदशायां हृदयाकाश इति ।
[नामरूपव्याकरणादि]
स जातो भूतान्यभिव्यैख्यत् किमिहान्यं वावदिषदिति । स एतमेव पुरुषं ब्रह्म
ततममपश्यदिदमदर्शमिती ॥१३॥
स जातो भूतान्यभिव्यैख्यत् । सः – तस्मिन् प्रविष्टस्सन् सर्वाणि पंचभूतानि नामरूपवत्तया अकृत इत्यर्थः । (वैक्षत् नामरूपव्याकरण) जीवशरीरकः सन् प्रविष्टः नामरूपभागभदित्यर्थः । किमिहान्यं वावविषदिति । यत् किंचित् वस्त्वस्ति तत् सर्वम्, एकात्मतया स्थितः अन्यंवावदिषत् वाशब्द इवार्थे – एकात्मतयास्थितं वस्तु दृश्यमिवभिन्नात्मकमिव विवदितुमैच्छत् । अवि(वि)दिषदित्यस्य अवदिषदिति छान्दसं रूपम् । स एतमेव पुरुषं, ब्रह्मततममपश्यविदमदर्शमिति – परोक्षप्रिया इव हिदेवाः ।सः -जीवः एतमेव – जीवशरीरकं पुरुष- शब्दितवासुदेवं तत्तमं – व्याप्ततमं ब्रह्म – निरतिशय बृहत्वाश्रयं अपश्यत् । नारायणमेव ब्रह्मभूतं ज्ञातवानित्यर्यः । कथं ज्ञातवानित्यत्राह इदमदर्शमिति । हस्तामलकवदिदमदर्शमिति ब्रह्म साक्षात्कृतवानित्यर्थः । अत्र ततमम् इत्यत्र एकतकारलोपश्छान्दसः । (ब्रह्म तततमं ब्रह्मणा व्याप्तं पुरुषम् अपश्यत् ) अत्र ब्रह्मणिदृश्यमाने इदं शब्दप्रयोगात् प्रत्यग्ब्रह्मणोर्भेदार्थ (?) सूचनमिति द्रष्टव्यम् । तनोतेश्च विस्तारार्थस्य व्याप्तिरर्थः । तेन व्याप्ततमम् इत्यर्थःफलति । व्याप्ततमं ब्रह्म अपश्यदित्युक्तम् । तत्र दर्शनाकारमेवाभिलपति इदमदर्शमिति । इदं – व्याप्ततमं स्वस्वरूपं ब्रह्म बृहत्तमं वस्तु अहमदर्श दृष्टवानस्मि इति तदर्थः । इति शब्द इदमदर्शमित्यस्य दर्शनस्य स्वरूपनिर्देशकः । तत्र प्लुतत्वविधानं हर्षसूचकम् । सर्वत्र स्वात्मदर्शनस्य हर्षहेतुत्वम् ।
[इन्द्रशब्दवाच्यः परमात्मा]
तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते
परोक्षेण । परोक्षप्रिया इव हि देवाः परोक्षप्रिया इव हि देवाः ॥१४॥
इति तृतीय खण्डः
तस्मात् इदं दृष्टवानिति प्रवृत्तिनिमित्तवशात् इदन्द्र इति तन्नाम्नि प्रयोक्तव्ये इन्द्र इति परोक्षेण आचक्षते । न तु स्पष्टमिदन्द्र इति । तत् कुत इत्यत्राह – परोक्षपिया इव हि देवा इति । देवानामनतिस्फुटतया कथनमेव प्रियं भवति । अतः इन्द्र इत्येवाचक्षते । नत्विदन्द्र इति इत्यर्थः ॥
इति तृतीयखण्डप्रकाशिका
चतुर्थः खण्डः
[पुरुषस्य प्रथमं जन्म]
(अपक्रामन्तु गर्भिण्यः)
पुरुषो हवा अयमादितो गर्भो भवति यदेतद्रेतः। तदेतत् सर्वेभ्योऽङ्गेभ्यस्तेजः
संभूतमात्मन्येवात्मानं बिभर्ति । तद्यदा स्त्रियां सिंचति, अथैतज्जनयति। तदस्य प्रथमं
जन्म ॥१॥
वैराग्यसिद्ध्यर्थं [जन्ममरणप्रबन्धं तदवस्थाश्च श्रुतिः दर्शयति| पुरुषे हवा अयमादितो गर्भो भवति, यदेतद्रेतः । अयं संसरन् पुरुषः प्रथमतो रेतोरूपेण गतोऽभवन् । तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजस्संभूतमात्मन्येवात्मानं बिभर्ति । पुरुषस्य सर्वेभ्योऽङ्गेभ्यस्समुत्पन्नं यद्वीर्य, तदेव रेत इत्युच्यते स्वात्मनि जीवं बिभर्ति । रेतस्संसृष्टो जीवो वर्तते इत्यर्थः । एतत्प्रतिपादनं तु वैराग्यहेतुरीति द्रष्टव्यम्। तद्यदा स्त्रियां सिंचति, अथैतज्जनयति । तादृशं रेतः यदा पुमान् स्त्रियां सिंचति, तत उत्तरक्षणे एतद् गर्भेरूपं जनयति । तदस्य प्रथमं जन्म। निषेक एव प्रथमजन्मेत्यर्थः।
[ पुरुषस्य द्वितीयं जन्म]
तत् स्त्रिया आत्मभूयं गच्छति, यथा स्वमङ्गम् , तथा । तस्मादेनां न
हिनस्ति । साऽस्यैतमात्मानं अत्र गतं भावयति ॥२॥
तत्स्त्रिया आत्मभूयं गच्छति यथा स्वमङ्गम् तथा गर्भे निषिक्तं रेतः तथा; स्त्रिया यथा ; करचरणसिरादिकमैक्यं गच्छति तद्वदेव, तदङ्गभूतमेव ततो बिभर्ति, तिष्ठतीत्यर्थः । तस्मादेनां न हिनस्ति । साम्यैतमात्मानमत्रगतं भावयति । अत्र इदं रेतोरूपेणानुप्रविष्टं भर्तृरूपमात्मानं भावयति – वर्धयति । तस्मात् सा न कैरपि बाधयितव्या, पीडनीया ॥
सा भावयित्री भावयितव्या भवति ते स्त्री गर्भं बिभर्ति सोऽग्र एव कुमारं
जन्मनोऽग्रेऽविभावयति। सयत्कुमारं जन्मनोऽग्रेऽविभावयत्यात्मानमेव तद्भावयत्येषां
लोकानां सन्तत्या एवं सन्तता हीमे लोकास्तदस्य द्वितीयं जन्म ॥३॥
सा भावयित्री भावयितव्या भवति । रेतोरूपेण प्रविष्टं भर्तृरूपमात्मानं वर्धयन्ती स्त्री भर्त्रादिभिः भोज्यभक्ष्यादिना पोषयितव्या भवति। उपकारकजनमनु प्रत्युपकारस्य कर्तव्यत्वादिति भावः। ते स्त्रीगर्भं बिभर्ति । तादृशरेतोरूपेण प्रविष्टं भर्तारं गर्भरूपं बिभर्तीत्यर्थः। सोऽग्र एव कुमारं जन्मनोऽग्रेऽविभावयति । सः – पिता अग्रे – प्रागेव गर्भ एव कुमारम् , उत्पत्तेरूर्ध्वं (च) जातकर्मादिना, भावयति – पोषयति । स यत् कुमारं जन्मनोऽग्रेऽविभावयति, आत्मानमेव तद्भावयति। सः-पिता जन्मनऊर्ध्व कुमारमग्रे प्रथमतो जातकर्मादिसंस्कारैर्भावयतीति यत् , तत् स्वसंवर्धनमेव । स्वस्यैव रेतोरूपेण तत्र प्रविष्टत्वात् । पतिर्जायां प्रविशति (ऐ.बा. ३३-१) इत्यादिश्रवणात्। किमर्थमात्मानं पुत्ररूपेण जनयित्वा भावयतीत्यत्राह एषां लोकानो सन्तत्यै। अविच्छेदार्थमित्यर्थः । यदि हि पुत्रोत्पादनादि न कुर्युः तर्हि इमे लोकाः विच्छिद्येरन्। एवं सन्तता हीमे लोकाः । एवं पुत्रोत्पादनकर्म कुर्वता इमे लोकाः सन्तताः – व्याप्ताः भवन्ति । तदस्य द्वितीय जन्म। उपनयनादिसंस्कारलक्षणं द्वितीयं जन्म इत्यर्थः ।
[पुरुषस्य तृतीयं जन्म]
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते अथास्यायमितर आत्मा
कृतकृत्यो वयोगतः प्रैति स इतः प्रयन्नेव पुनर्जायते तदस्य तृतीयं जन्म ॥४॥
सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रतिधीयते। अस्य – पितुः पुत्ररूपः अयमात्मा पुण्यकर्मभ्यः कर्तव्येभ्यः प्रतिनिधीयते । पुत्रः प्रतिनिधिस्थानीयः सन् अतीते पितरि तत्कर्तव्यं कर्म सर्वं करोतीत्यर्थः। ततश्च पित्रा कस्यचित् कर्मणः अवश्यकर्तव्यस्याकरणेऽपि पुत्रकृतेनैव तत् कृतं भवतीत्यर्थः । संप्रत्तिविद्यायां तथोक्तत्वात् । अथास्यायमितर आत्मा कृतकृत्यः । पुत्रस्य प्रतिनिहितत्वादेव, अस्यायमात्मा पित्रात्मा कृतकृत्यो भवतीत्यर्थः। वयोगतः प्रैति; स इतः प्रयन्नेव पुनर्जायते । तदस्य तृतीयं जन्म । एवं पुत्रे निक्षिप्तभारस्य वयोगतस्य जीर्णस्य मरणानन्तरं यत् पुनर्जन्म, तत् तृतीयं जन्मेत्यर्थः । स्त्रियो रेतोरूपेण प्रवेशनं प्रथमं जन्म। ततो बहिनिर्गमनं द्वितीयं जन्म। तस्यैव पितुः प्रेत्य पुनर्भवनं तृतीयं जन्म। यद्यप्याद्यजन्मद्वयं पुत्रगतम् ; तृतीयं तु पितृगतम् तथापि पितापुत्रयोरैक्याभिप्रायेण तथोक्तिरिति द्रष्टव्यम् ।
[एतद्विषये वामदेवसम्मतिः]
तदुक्तमृषिणा
गर्भेनुसन्नन्वेषामवेदमहं देवानां जनिमानि विश्वा।शतं मा पुर आयसीररक्षन्नथ
श्येनो जवसा निरदीयम् इति । गर्भ एवैतच्छयानो वामदेव एवमुवाच ॥५॥
तदुक्तमृषिणा। तदेतद्वस्तु ऋषिणा मन्त्रेणाप्युक्तमित्यर्थः । गर्भे – निरदीयमिति । अहं गर्भ एव सन् वर्तमानः एषो देवानां विश्वा विश्वानि, समस्तानि जनिमानि – जननानि, अन्ववेदम्-अन्वभूवम्। नु शब्दोवितर्के। मा-मां आयसी-पुरः-अयोविकारवन्निर्गमनप्रतिबन्धकानि शरीररूपाणि पुराणि शतसंख्याकानि अरक्षन् संसारकारागृहनिर्गमनप्रतिबन्धकतया स्थितानीत्यर्थः । पश्चात्तु देशिकोपदेशजनितोपायज्ञानेन, शयेनः यथा जवात् निर्गच्छति तथा, निर्गतोऽस्मीति मन्त्रार्थः । गर्भ एवैतच्छयानो वामदेव एवमुवाच । अनेन प्रकारेण तद् (एतद्?) वाक्यं उवाचेत्यर्थः।
[मुक्तिस्वरूपफलम् ]
स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्कृम्यामुष्मिन् स्वर्गे लोके सर्वान्
कामानाप्त्वाऽमृतः समभवत् । समभवत् ॥६॥
इति चतुर्थः खण्डः
सएवं विद्वान्-अमृतः समभवत् एवं संसरन्नेव पूर्वस्थितो वामदेवः ब्रह्मविज्ञानसंपन्नः सन् अस्मात् शरीरसकाशा (विनाशा?) दूर्ध्वमुत्क्रम्य अर्चिरादिमार्गेण भगवल्लोके सर्वान् कामानाप्त्वा – अपहतपाप्मत्वादीन् कल्याणगुणान् अनुभवन् मुक्तोभवदित्यर्थः । मुखं व्यादाय स्वपितीतिवत् आप्त्वेति सर्वकामानुभवस्य अमृतत्वप्राप्तेश्च पौर्वापर्यमविविक्षितमिति द्रष्टव्यम् । अत्र सएवं विद्वानित्युक्त्वा इतरे सर्वे संसारघटीयन्त्रपरिवर्तमाना देहात्मभ्रमनिमग्नाः पुत्रपौत्रादीनपि आत्मानं मन्यमानाः शोचन्तीति भावः ।।
इति चतुर्थवण्डप्रकाशिका
पंचमः खण्डः
[आत्मस्वरूपनिरिणम्]
कोऽयमात्मेति वयमुपास्महे कतरस्स आत्मा। येन वा रूपं पश्यति येन वा
शब्दं शृणोति, येन वा गन्धानाजियति येन वा वाचं व्याकरोति येन वा स्वादु चास्वादु च
विजानाति यदेतद्धृदयं मनश्चेतत् ॥१॥
कोयमात्मेति वयमुपास्महे कतरस्स आत्मा । पूर्व ब्रह्मविदः सर्वे मिलित्वा अस्माकमुपास्यभूत आत्मा कः सः कीदृग्गुणविशिष्ट इति मीमांसांचक्रुरित्यर्थः । अयं भावः देहेन्द्रियमनःप्राणधीजीवपरमात्मानः आत्मशब्दप्रयोगविषयाः । एषां मध्ये उपास्य आत्मा क इति मीमांसांचक्रुरिति। एवं मीमांसित्वा जातनिश्चयप्रकारमाह – येन वा रूप पश्यत्ति येन वा स्वादु चास्वादु च विजानाति । अनेन चक्षुश्श्रोत्रघ्राणवाग्रसनेन्द्रियोपलक्षितानि सर्वाणि बाहयेन्द्रियाणि उक्तानि भवन्ति । येन वा पश्यति इन्द्रियाणीति पर्यवसितोऽर्थः । यदेतद्धृदर्य मनश्च । अनेन अन्तरिन्द्रियमुक्तं भवति । हृदयं मन इत्यवस्था अन्तरिन्द्रियस्य भेदः ।
[सर्वेषां करणानां प्रज्ञानरूपब्रह्मवश्यता]
संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिः धृतिर्मतिः मनीषा जूतिः स्मृतिः
सङ्कल्पः क्रतुरसुः कामो वश इति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि
भवन्ति ॥२॥
एतत् संज्ञानमाज्ञानं – वश इति । एते सर्वे धर्मभूतज्ञानावस्थाविशेषाः । संज्ञानं – एकत्वेन ज्ञानम् । अज्ञानम् – ईषद्ज्ञानम् । विज्ञानं-विभिन्नतया ज्ञानम् । प्रज्ञानं – प्रकृष्टतया ज्ञानम् । मेधा – धारणवती बुद्धिः। दृष्टिः – प्रत्यक्षम् । धृतिः निश्चयरूपज्ञानविशेषः । मतिः – मननम् । मनीषा – स्वातन्त्र्यात्मकबुद्धिविशेषः । जूतिः – प्रीतिः क्रतुः – उपासनम् । असुः- प्राणः। कामः – सन्निहितविषयाकाङ्क्षा। वशः – इच्छा। सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि भवन्ति । प्रज्ञानशब्दितज्ञानस्वरूपस्य ब्रह्मणः, उक्तानि बाह्यान्तरि (रे?)न्द्रियप्राणज्ञानानि नामधेयानि तच्छरीराणि भवन्तीत्यर्थः । तस्यैव रूपभेदाः इति यावत् । यथा नामधेयानीमानि प्रतिपत्तिप्रयोजकतया तदेकशेषभूतानि भवन्ति, तथेत्यर्थः ।
[बहाविवेवानामपि तद्वश्यता]
एष ब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पंच महाभूतानि पृथिवी
वायुराकाश आपो ज्योतीषीत्येतानीमानि च क्षुद्रमिश्राणीव। बीजानीतराणि चेतराणि
चाण्डजानि च जारुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो
यत्किञ्चेदं प्राणि जङ्गमं च पतत्त्रि च यच्च स्थावरं सर्वं तत्प्रज्ञानेत्रं प्रज्ञाने प्रतिष्ठितं
प्रज्ञा नेत्रो लोकः प्रज्ञा प्रतिष्ठा प्रज्ञानं ब्रह्म ॥३॥
एवमिन्द्रियमनःप्राणधीव्यतिरेकमुपास्यस्यात्मनः प्रदर्श्य ब्रह्मेन्द्रादिव्यतिरेकं साधयति। एष – एते सर्वे देवाः । ब्रह्माद्या अपि देवास्तन्नामधेयानि, तच्छरीरभूता इत्यर्थः । इतश्च जीवानामुपास्यात्मव्यतिरेक उक्तो भवति । भूतभौतिकशरीरव्यतिरेकं साधयति । इमानि च पंचमहाभूतानीति । तान्येव दर्शयति पृथिवी वापुराकाश आपो ज्योतीषीति । निर्दिष्टानि पंचमहाभूतानीत्यन्वयः । एतानीमानि च क्षुद्रमिश्राणीव बीजानि – क्षुद्रैरल्पकै: मिश्राणि । इवशब्दोऽनर्थकः । तत् द्वेधा दर्शयति इतराणि चेतराणि च । तान्येव दर्शयति अण्डजानि पक्ष्यादीनि जारुजानि-जरायुजानि, मनुष्यादीनीत्यर्थः । स्वेदजानि चोद्भिज्जानि च । स्वेदजानि यूकादीनि ; उदभिज्जानि – वृक्षादीनि। अश्वा गावः पुरुषाः हस्तिनः, यत्किञ्चेदं प्राणिजङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्। यच्च गवाश्वपुरुषहस्तिपतत्र्यात्मकं जङ्गमं प्राणिजातम् , यच्च स्थावरं तत् सर्वं च प्रज्ञानेत्रं , प्रज्ञानेत्रप्रतिष्ठितं , प्रज्ञैव नेत्रमस्येति प्रज्ञानेत्रम्। नीयते अनेनेति नेत्रम् अन्तर्यामीत्यर्थः । प्रज्ञाने ब्रह्मणि उत्पत्तिस्थितिलयकालेषु प्रतिष्ठितम् । प्रज्ञानाश्रयम् इत्यर्थः । प्रज्ञानेत्रो लोकः प्रज्ञा प्रतिष्ठिा। सर्वस्य जगत इति शेषः । प्रज्ञानं ब्रह्म । अतः प्रज्ञानमेव ब्रह्म। तस्य सर्वान्तर्यामित्वेन स्वरूपतो गुणतश्च निरतिशयबृहत्त्वस्य प्रज्ञान एव सत्त्वात् इति भावः ॥
[बहाज्ञानिनः मोक्षप्राप्तिः]
स एतेनैव प्रज्ञेनाऽऽत्मनाऽस्माल्लोकादुत्क्रम्य अमुष्मिन् स्वर्गे लोके सर्वान्
कामानाप्त्वाऽमृतस्समभवत् समभवदिति ॥४॥ ओं इत्युपनिषत् ॥
स एतेनैव ………समभवदित्यो। सः -एवं वित् अस्माल्लोकात् – अर्चिरादिमार्गेण भगवल्लोकं गत्वा प्राज्ञेन – ब्रह्मणा सह सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिता (ते.आन. १-२) इत्युक्तरीत्या सर्वान् कल्याणगुणान् अनुभवन् आविर्भूतब्रह्मस्वरूपो भवतीत्यर्थः॥
इति पंचमखण्डप्रकाशिका
षष्ठः खण्डः
[शान्तिमन्त्रः]
वाङ्मे मनसि प्रतिष्ठिता । मनो मे वाचि प्रतिष्ठितम् । आविरावीर्म एधि
वेदस्य म आणीस्थ: । श्रुतं मे मा प्रहासीः । अनेनाधीतेनाहोरात्रान् सन्दधामि । ऋतं
वदिष्यामि । सत्यं वदिष्यामि । तन्मामवतु । तदवक्तारमवतु । अवतु मां । अवतु
वक्तारम् अवतु वक्तारम् ॥
औ शान्तिः शान्तिः शान्तिः
इति षष्ठः खण्डः
इति एतरेयोपनिषत् (आत्मषट्कम्) समाप्ता।
वाङ्मे मनसि प्रतिष्ठिता ……..।
क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावुदंचयत भाष्यसुधामुदारः ।
वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मुदुक्तिम् ।।
इति श्री रङ्गरामानुजमुनिविरचितऐतरेयोपनिषत्प्रकाशिका सम्पूर्णा