बृहदारण्यकोपनिषत्
चतुर्थोऽध्यायः
प्रथमब्राह्मणम् – बालाकिविद्या
[गार्ग्यजातशत्रुसंवादः]
दृप्तबालाकिर्हानूचानो गार्ग्य आस । स होवाचाजातशत्रुं काश्यम्, ब्रह्म ते ब्रवाणीति । स होवाचाजातशत्रुः, सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्तीति ।। १ ।।
प्र. – तृतीयाऽध्याये तद्धेदं तर्ह्यव्याकृतमासीत् इत्युपक्षिप्तस्य ब्रह्मणो जगत्कारणत्वस्य प्रपञ्चनाय अयमध्याय आरभ्यते – दृप्तबालाकिर्हानुचानो गार्ग्य आस इति । दृप्त:-गविष्ठः, बलाकस्य अपत्यं बालाकिः । दृप्तश्चासौ बालाकश्चेति स तथोक्तः । ह शब्द: वृत्तार्थस्मरणे । ‘अनूचानः‘ – अङ्गाध्यायी । एकां शाखामधीत्य श्रोत्रियोऽङ्गाध्यय्यनूचान: इति स्मृतेः । अत्यन्त अमीमांसित वेदार्थ इत्युक्तं भवति । गार्ग्य: – गोत्रतो गार्ग्यः। आस . बभूव । स होवाचाजातशत्रुं काश्यं ब्रह्म ते ब्रवाणि इति । सः–बालाकिः काश्यं – काशिराजम् अजातशत्रुनामानं प्राप्य ब्रह्म ते ब्रवाणि इत्युक्तवानित्यर्थः । महाब्रह्मवित्समीपे अयं बालः कथं वक्तुं उत्सहत इत्याश्चर्यार्थो हशब्दः । स होवाचाजातशत्रुः इति । अत्र हशब्देन तस्य राज्ञः ब्रह्मवित्सु वात्सल्यातिशयं दर्शयति श्रुतिः । तामेव अजातशत्रोरुक्तिं दर्शयन्ती तयैव तेषु तद्वात्सल्यं सहेतुकं विशदयति – सहस्रमेतस्यां वाचि दद्मो जनको जनक इति वै जना धावन्ति इति । ब्रह्म ते ब्रवाणीत्येतस्यामेव वाचि निमित्ते गवां सहस्रं प्रयच्छामः । मत्समीपमागत्य, ब्रह्म ते उपदिशामि इति शब्दप्रयोक्ता कोऽप्येतावन्तं कालं न दृष्टः । सर्वेऽपि हि ब्रह्मविदः, जनक एव ब्रह्म शुश्रुषुः जनक एव दाता चेति जनकस्य समीपमेव धावन्ति । भवांस्तु मत्समीपमागत्य ब्रह्म ते ब्रवाणीत्युक्तवान् । अतः अनेनैव वाक्येन तोषितोऽहं गवां सहस्रं, ब्रवाणि इति वाङ्मात्रेणैव प्रपच्छामीति भावः ।। १ ।।
[अजातशत्रवे आदित्यब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवासावादित्ये पुरुष एवमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः, अतिष्ठास्सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति ।। २ ।।
प्र.- स होवाच गार्ग्यो य एवासावादित्ये पुरुष एतमेवाहं ब्रह्मोपास इति –इति। आदित्ये– आदित्यमण्डले योऽयं पुरुषः अभिमानितया वर्तते, एतमेव आदित्यपुरुषं अहमुपासे । तदेव ब्रह्म । अतः त्वमपि तद्ब्रह्मोपास्स्व इति भावः । स होवाचाजातशत्रुः मामैतस्मिन् संवदिष्ठाः । स च अजातशत्रुरेतचच्छ्रुत्वा उवाच । किमिति? मा – मां प्रति एतस्मिन् – आदित्यपुरुषविषये मा संवदिष्ठाः – संवादं ‘माकार्षीः । अज्ञाते हि विषये संवादः कर्तव्यः, अयं तु ज्ञात एवेति भावः । कथमित्यत्राह – अतिष्ठाः सर्वेषां भूतानां मूर्धा राजेति वा अहमेतमुपास इति । वै शब्दोऽवधारणे; प्रसिद्धौ वा । अतीत्य – सर्वानतीत्य तिष्ठतीति अतिष्ठाः – आतो मनिन् (पा.सू.३.२.७४.) इत्यादिना विच् प्रत्ययः । सर्वेषां भूतानाञ्च मूर्धेव मूर्धा – श्रेष्ठः, दीप्तिगुणोपेतत्वात् राजा इति एतैरतिष्ठात्वसर्वभूतमूर्धत्वराजत्वैर्विशिष्टमेतम् आदित्यपुरुषमहमुपासे । अतोऽस्य ज्ञातत्वात् अस्मिन् विषये संवादो न कर्तव्यः इत्यर्थः । स्वोक्तस्य फलं दर्शयति-स च एवमेवमुपास्ते अतिष्ठाः सर्वेषां भूतानां मूर्धा राजा भवति इति । य एतमादित्यमेवम् उक्तगुणविशिष्टमुपास्ते, सोऽयमप्रतिष्ठात्वादिगुणविशिष्टादित्योपासनवशात् स्वयमपि तत्क्रतुन्यायात् तद्गुणयुक्तो भवतीति भावः । अत्र य एषोऽन्तरादित्ये (छां.उ.१.६.६.) इत्याद्युक्तः परमात्मा उच्यते इति न भ्रमितव्यः, उत्तरखण्डेषु वक्ष्यमाणाब्रह्मभूतचन्द्रादि-पुरुषसहपाठात्, अस्य परब्रह्मनिषेधाञ्च इति द्रष्टव्यम् ।। २ ।।
[चन्द्रब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवासौ चन्द्रे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठा बृहति पाण्डरवासा: सोमोराजेति वा अहमेतमुपास इति, स य एतमेवमुपास्ते अहरहर्ह सुतः प्रसुतो भवति, नास्यान्नं क्षीयते ।।३।।
प्र. – स होवाच गार्ग्यो य एवासौ चन्द्र इत्यादि । चन्द्रे – चन्द्रमण्डले-तदभिमानितया वर्तते यश्चन्द्रः, तमहमुपास इति गार्ग्य आह इत्यर्थः । स होवाचाजातशत्रुः इत्यादि । पूर्ववत् । बृहत् पाण्डरवासास्सोमो राजेति वा अहमेवमुपास इति इति । बृहन् – महान्, पाण्डरं – शुक्लं किरणरूपं वासः–वस्त्रं जगदाच्छादकं यस्य स पाण्डरवासाः । उक्तञ्च व्यासार्यै:, ‘पाण्डरैः अंशुभिः जगदाच्छादकत्वात् पाण्डर-वासस्त्वम्’ इति, सोमो राजा – यज्ञसाधनभूतसोमराजशब्दितलताविशेषेणैकशब्दाभिलाप-प्रयुक्ततदभेदेन वा, चन्द्रस्य ओषधीशतया सोमराजशब्दवाच्यलताविशेषलक्षणौषधीनामीशतया ईशेशितव्यसम्बन्धकृताभेदेन वा सोमो राजेति च एतैर्गुणैः एतं – चन्द्रपुरुषम् ‘अहमुपासे इत्यर्थः । सोमलताऽभिन्नत्वेन उपासनफलमाह – स च एतमेवमुपास्ते अहरहर्ह सुतः प्रसुतो भवति नास्यान्नं क्षीयते इति । सुत इति प्रसुत इति च कर्तरि क्तः । उक्तगुणविशिष्ट चन्द्रोपासकः अहरहः सोमं सुतवान् इत्यर्थः । प्रकृतिविकृतिभेदविवक्षया सुतः प्रसुतः इत्युक्तिः । चन्द्रस्य अन्नभूतसोमशब्दवाच्यलतात्मकत्वेन उपास्यत्वात् अन्नाक्षयत्वफलकथनमपि तत्क्रतुन्यायात् युज्यत इति द्रष्टव्यम् । केचितु चन्द्रस्य स्वत एव देवान्नभूतसोमत्वात् तत्त्वेन उपासनस्यैव अन्नक्षयाभाव: फलम् । तस्यैव सोमराजशब्द मुख्यार्थत्वेन उपासनस्य यथार्थ्यसंभवे सोम राजशब्दवाच्य-लताभेदोपासनाभ्युपगमस्य व्यर्थत्वात्। न चैवं सुत: प्रसुत इति सोमसत्त्वरूपफलकीर्तनम् अयुक्तमिति वाच्यम्। चन्द्रस्य सोमराजत्वेनोपासने सोमराजशब्दवाच्यलताविशेषस्वरूप-फलकीर्तननेविरोधाभावात्; एकशब्दरूषित्वरूपप्रत्यासत्तिसत्वात् इति बान्ति ॥3॥
[विद्युद्ब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवासौ विद्युति पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचजातशत्रुर्मामैतस्मिन् संवदिष्ठाः, तेजस्वीति वा अहमेतमुपास इति, स य एतमेवमुपास्ते तेजस्वी ह भवति, तेजस्विनी हास्य प्रजा भवति ।। ४ ।।
प्र.- स होवाच गार्ग्यो य एवासौ विद्युति इत्यादि । विद्युति – विद्यमानस्य विद्युदभिमानिनः पुरुषस्य तेजस्वित्वेन गुणेन उपासनेन स्वयमपि तेजस्वी भवति तदुपासकः तत्पुत्रश्च तेजस्वी भवति इत्यर्थः । प्रजा – पुत्र इत्यर्थः । शिष्टं स्पष्टम् ।। ४ ।।
[आकाशब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायमाकाशे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मा मैतस्मिन् संवदिष्ठाः, पूर्णमप्रवर्तीति वा अहमेतमुपास इति, स य एतमेवमुपास्ते पूर्यते ह प्रजया पशुभिर्नास्यास्माल्लोकात् प्रजोद्वर्तते ।। ५ ।।
प्र. – स होवाच गार्ग्यो य एवायमाकाशे पुरुष इत्यादि । आकाशे विद्यमानस्य तदभिमानिनः पुरुषस्य पूर्णत्वविशिष्टोपासनायाः फलं प्रजया ‘पशुभिश्च परिपूर्णत्वम् । पूर्णत्वप्रयुक्त निर्व्यापारत्वलक्षणाप्रवर्तित्वविशेषणविशिष्टोपासनायाः फलं प्रजासन्तान अविच्छित्तिः इति ‘विभागो द्रष्टव्यः’ । उद्वर्तते । उद्वर्तनं – लोकान्तरगमनम् । अस्योपासकस्य प्रजा अस्माल्लोकात् लोकान्तरं न गच्छतीत्यर्थः । शिष्टं स्पष्टम् ।। ५ ।।
[वायुब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायं वायौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन्, संवदिष्ठाः इन्द्रो वैकुण्ठोऽपराजिता: सेनेति वा अहमेतमुपास इति, स य एतमेवमुपास्ते जिष्णुर्हापराजिष्णुर्भवत्यन्यतस्त्यजायी ।। ६ ।।
प्र. – स होवाच गार्ग्यो य एवायं वायौ पुरुष इत्यादि । ‘इन्द्रः . ‘परमैश्वर्यशाली’ । योऽयं पवते एष देवानां गृहा: इति वायोः देवलोकत्वाप्रसिद्धे:. देवलोकत्वसामान्यात् वैकुण्ठम् । मरुतां गणत्वप्रसिद्धेरपराजिता सेना इत्युक्तिः जिष्णुः – जयशीलः । अपराजिष्णुः – अपराजितः । अन्यतस्त्यजायी–अन्यतो भवाः अन्यतस्त्याः । शत्रवः इति यावत् । तान् तु जेतुं शीलमस्य इति अन्यतस्त्वजायौ। सुप्यजातौ (पा.सु.२.३.७८.) इति णिनिः । शिष्टं स्पष्टम् ।। ६ ।।
[अग्निब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायं अग्नौ पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठा विषासहिरिति वा अहमेतमुपासे इति, स य एतमेवमुपास्ते विषासहिर्ह भवति विषासहिास्य प्रजा भवति ।। ७ ।।
प्र– स होवाच गार्ग्यो य एवायं अग्नौ पुरुष इत्यादि । विषासहिः सोढुमशक्यः शत्रुभिरित्यर्थः । ‘मर्षणशील’ इति वार्थः । विषासहित्वगुणविशिष्टाग्नि-पुरुषोपासनेन स उपासकः, तत्पुत्रश्च विषासहिर्भवतीत्यर्थः । शिष्टं स्पष्टम् ।। ७ ।।
[अब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायमप्सु पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचा–जातशत्रुर्मा मैतस्मिन् संवदिष्ठाः प्रतिरूप इति वा अहमेतमुपास इति, स य एतमेवमुपास्ते प्रतिरूपँ हैवैनमुपगच्छति नाप्रतिरूपमयो प्रतिरूपोऽस्माज्जायते ।। ८ ।।
प्र– स होवाच गार्ग्यो य एवायं अग्नौ पुरुष इत्यादि । प्रतिरूपः प्रतिबिम्बः। सदृशप्रतिबिम्बोपेतत्वात् अपाम् अप्पुरुषस्य प्रतिरूपत्वविशिष्टोपासनोपपत्तिः । यथाक्रतुन्यायादेव तदुपासकस्येदं फलम् । प्रतिरूपं – सदृशमेव कलत्रादिकम् एनम्–उपासकम् उपगच्छति – प्राप्नोति । ‘नाप्रतिरूपं प्राप्नोति । प्रतिरूप: – सदृश एव पुत्रः अस्माज्जायते इत्यर्थः । शिष्टं स्पष्टम् ।। ८ ।।
[आदर्शब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायमादर्शे पुरुष एतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठाः रोचिष्णुरिति वा अहमेतमुपास इति, स य एतमेवमुपास्ते रोचिष्णुर्ह भवति रोचिष्णुर्हास्य प्रजा भवत्यथो यैः संनिगच्छति सर्वास्तानतिरोचते ।। ९ ।।
प्र.- स होवाच गार्ग्यो य एवायमादर्श पुरुष इत्यादि । आदर्शे विद्यमानास्य प्रतिबिम्बपुरुषस्य रोचिष्णुत्वं – भ्राजमानत्वं स्वच्छत्वमिति यावत् । तदुपासक:, तत्पुत्रश्च रोचिष्णुरेव भवति । अथो – अपि च यै: संनिगच्छति – यै: सङ्गतो भवति, सर्वास्तान् अतिरोच्चते– अतिक्रम्य प्रकाशते । समानानाम् उत्तम भवतीत्यर्थः । शिष्टं स्थम् ॥९॥
[शब्दब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेत्येतमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामेतस्मिन् संवदिष्ठा असुरिति वा अहमेतमुपास इति स य एतमेवमुपास्ते सर्वं हैवास्मिन् लोके आयुरेति नैनं पुरा कालात् प्राणो जहाति ।। १० ।।
प्र. – स होवाच गार्ग्यो य एवायं यन्तं पश्चाच्छब्दोऽनूदेति इति । यन्तं -गच्छन्तं, शब्दमित्यस्य विशेष्यं ग्राह्यम् उत्तरत्र शब्द इति श्रवणात् । तथा च अग्रे गच्छन्तं शब्दम् अनु – अनुसृत्य यः पश्चाच्छब्दः – प्रतिध्वनिः उदेति – मूलशब्दानन्तरमुदेति तस्य प्रतिशब्दस्य प्राणकार्यत्वात् असुरित्यहमुपास इत्यर्थः । असुः – प्राणः । प्राणजन्य इति यावत् । तदुपासनस्य फलम् अस्मिन् लोके उपासकशरीरे यावदायुः प्राप्तं तत्सर्वमेति । नैनं पुरा कालात् प्राणो जहाति । आयुः अन्तकालात् पुरा एनम् – उपासकम् अपमृत्यु: न प्राप्नोतीत्यर्थः । शिष्टं स्पष्टम् ।। १० ।।
[दिग्ब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायं दिक्षु पुरुष एवमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठाः द्वितीयोऽनपगः इति वा अहमेतमुपासे इति, स य एतमेवमुपास्ते द्वितीयवान् ह भवति नास्माद्गणश्छिद्यते।। ११ ।।
प्र. – स होवाच गार्ग्यो य एवायं दिक्षु पुरुष इत्यादि । दिशां युग्मभूताश्विदैवत्वात् द्वितीयत्वेन उपासनोपपत्तिः । द्वितीयत्वं – द्वितीयवत्वम् । अनपगत्वम् – अविच्छिन्नत्वम् । दिशां परस्परविच्छेदाभावात्’ अनपगतत्त्वोपपत्तिः । तत्र द्वितीयत्वेन उपासनफलं द्वितीयवान् इति । सहायवान् इत्यर्थः । अविच्छिन्नत्वलक्षणानपगत्वोपासनाफलं नास्माद्गण: छिद्यत इति । गणः – बन्धुवर्गः अस्मात् – उपासकात् न च्छिद्यते – नान्तरितो भवति । उपासकस्य बन्धुविश्लेषो न भवति इत्यर्थः । शिष्टं स्पष्टम् ।। ११ ।।
[छायाब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायं छायामयः पुरुष एवमेवाहं ब्रह्मोपास इति ।स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठाः मृत्युरिति वा अहमेतमुपास इति, स य एतमेव मुपास्ते सर्वं हैवास्मिन् लोके आयुरेति नैनं पुरा कालान्मृत्युरागच्छति ।।१२।।
प्र – स होवाच गार्ग्यो य एवायं दिक्षु पुरुष इत्यादि । छायामयः पुरुषः .पुरुषच्छाया । तस्याः मृत्युवत् नीलत्वात् ‘भयङ्करत्वाञ्च’ मृत्युत्वेन उपासनोपपत्तिः । ‘शिष्टं पूर्ववत् स्पष्टम् ।। १२ ।।
[पुरुषब्रह्मोपदेशः]
स होवाच गार्ग्यो य एवायमात्मनि पुरुष एवमेवाहं ब्रह्मोपास इति । स होवाचाजातशत्रुर्मामैतस्मिन् संवदिष्ठा आत्मन्वीति वा अहमेतमुपासे इति, स य एतमेवमुपास्ते आत्मन्वीह भवत्यात्मन्विनी हास्य प्रजा भवति । स ह तूष्णीमास गार्ग्यः ।। १३॥
प्र. – स होवाच गार्ग्यो य एवायात्मनि पुरुष इत्यादि । आत्मनि–शरीरादौ अहमित्यभिमन्यमानो यः पुरुषः, तं स्वात्मानं ‘वै – एव’ ब्रह्मोपास इत्यर्थः । अथवा प्रत्यगात्मसामान्यं ब्रह्मोपास इत्यर्थः । आत्मन्वी–आत्मशब्दात् प्रशंसायां छान्दसो विनि प्रत्ययः । प्रशस्तशरीरेन्द्रियादिमत्त्वत् जीवस्य आत्मन्वित्वोपपत्तिः । एवं तदुपासकः तत्पुत्रश्च ‘आत्मन्वी’ भवति इत्यर्थः । शिष्टं स्पष्टम् ।। स ह तूष्णीमास गार्ग्य इति । ततः परम् उत्तरापरिस्फूर्ते: गार्ग्य: तूष्णीं बभूव इत्यर्थः ।। १३ ।।
[गार्ग्येण तत्त्वज्ञानाय शिष्यवत् अजातशत्रूपसदनम्]
स होवाचाजातशत्रुरेतवात्रू–३ इति । एतावद्धीति । नैतावता विदितं भवतीति । स होवाच गार्ग्य उप त्वा यानीति ।। १४ ।।
प्र. – स होवाचाजातशत्रुरेतावात्रू–३ इति इति । नू प्रश्ने प्लुतः । एतावदेव किं त्वया ज्ञातमिति सोऽजातशत्रु राजा उवाच – पप्रच्छ इत्यर्थः । गार्ग्य आह – एतावद्धीति । एतावदेव मया ज्ञातम्; नेतोधिकमित्यर्थः । पुनरजातशत्रुराह – नैतावता विदितं भवतीति । ब्रह्मस्वरूपमिति शेषः । एतावता ज्ञानेन ब्रह्मस्वरूपं न विदितं भवति इत्यर्थः । त्वज्ज्ञातेभ्योऽन्यदेव ब्रह्मस्वरूपमिति भावः ।
स होवाच गार्ग्यः इति । एवमजातशत्रुणोक्तो बालाकिः गताभिमानः नीचादप्युत्तमां विद्याम्, आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोग: इति शास्रमनुसृत्य क्षत्रियादपि अजातशत्रो: ब्रह्म विद्यामुपादित्य: नानुपसन्नाय ब्रह्मपदेष्टव्यम् इति शास्रार्थे जानन् गार्ग्य: स्वयमेव आह इत्यर्थः । हशब्दो ब्रह्मविद्याप्राप्तौ गार्ग्यस्य तादात्विकमभिनिवेशं सूचयति । किमिति इत्यत आह – उप त्वा यानीति इति । त्वा – त्वां उपयानीति. शिष्यस्सन् उपगच्छामि । मह्यं ब्रह्मविद्यां देहि इत्यर्थः ।। १४ ।।
[क्षत्रियेण ब्राह्मणानुपनीयोपदेशः]
स होवाचाजातशत्रुः प्रतिलोमं वै तद्यद्ब्राह्मण क्षत्रियमुपेयात् ब्रह्म मे वक्ष्यतीति, व्येव त्वा ज्ञापयिष्यामीति । तं प्राणादायोत्तस्थौ । तौ ह पुरुषँ सुप्तमाजग्मतुः । तमेतैर्नामभिरामन्त्रयाञ्चक्रे, बृहन् पाण्डरवासः सोमराजन्निति । स नोत्तस्थौ । तं पाणिना पेषं बोधयाञ्चकार । स होत्तस्थौ ।। १५ ।।
प्र– स होवाचाजातशत्रुः इत्यादि । एवमुपसन्नं बालाकिनम् अजातशत्रुरुवाच इत्यर्थः । ह इति राज्ञः तस्य निरभिमानत्वप्रशंसार्थम् । किमित्युवाच? प्रतिलोमं -विपरीतं वै तत् । किन्तत् ? यत् ब्राह्मणः उत्तमवर्णः आचार्यत्वे अधिकृत: क्षत्रियम् अनाचार्यस्वभावम् , ब्रह्म मे वक्ष्यति इति शिष्यवृत्त्या उपेयात् – उपगच्छतीति । एतत् आचारविधायकशास्त्रविरुद्धमिति भावः।। कथं तर्हि विद्याप्राप्तिरिति न वाच्यम्। । आचारकर्मस्वीकृत्य मैत्र्येव केवलं विज्ञापयिष्यामि इत्याह – व्येव त्वा ज्ञापयिष्यामि इति । त्वा त्वाम् केवलमेव विज्ञापयिष्यामि – बोधयिष्यामि । ब्रह्मेति शेषः । वेर्व्यवधानम् छान्दसम् ।
[सप्तपुरुष प्रबोधनम्]
तं प्राणवादायत्तस्थौ । एवमुक्त्वा तं प्राणावादाय – हस्ते गृहित्वा, गार्ग्योपदिष्ट-जीवातिरिक्तब्रह्मज्ञापनाय आसनात् उदतिष्ठत् । तौ ह पुरुष सुप्तमाजग्मतुः । तौ -गार्ग्याजातशत्रू तस्मिन् राजभवने सुप्तं कञ्चित् पुरुषं प्राप्तवन्तौ । तमेतैर्नामभिरामन्त्र्याञ्चक्रे इति । एवं सुप्तपुरुषसमीपं गार्ग्य नीत्वा अजातशत्रुः तं सुप्तं पुरुषम् एतैः – वक्ष्यमाणैर्नामभिः आमन्त्रयाञ्चकार । तानि नामान्याह – बृहन् इत्यादि । अत्र, प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च (छां.उ. ३-१-१) इति ज्यैष्ठ्यत्र्यैष्ठ्यगुणेन प्राणस्य बृहत्त्वात् बृहन् इत्यामन्त्रणम् । अब्बासस्त्वञ्च प्राणधर्मः; किं मे वासः (छां.उ.५-२-२) इति प्राणेन पृष्टे, आपो वासः इति अपां प्राणवासस्त्वोक्तेः । तासाञ्चापाम्, यच्छुक्लं तदपाम् इति शुक्लवर्णाश्रयपाण्डरत्वं युक्तम् । सप्तानब्राह्मणे अथैतस्य प्राणस्यापश्शरीरं ज्योतिरूपमसौ चन्द्रः इति प्राणस्य चन्द्रसम्बन्धप्रतीतेर्लक्षणया सोम इति प्राणस्य सम्बोधनम् । प्राणो वै सम्राट् इति श्रवणात् राजन् इत्यामन्त्र्यते इति व्यासार्यैरुक्तम् । स नोत्तस्थौ । तं पाणिना पेषं बोधयाञ्चकार । एवमामन्त्रितोऽपि सः सुप्तो नोदतिष्ठत् । ततोऽजातशत्रुः तं – सुप्तं पाणिना पेषम् हिंसार्थानां च समानकर्मकाणाम् (पा.सू.३-४-४८) इति पिषेः तृतीयायामुपपदे णमुल् । तृतीयाप्रभृतीन्यन्यतरस्याम् (पा.सू.२-२-२१) इति विकल्पात् समासाभावः । पाणिना पिष्ट्वा बोधयाञ्चकार प्राबोधयत् । स होत्तस्थौ । स: – एवं पाणिना पिष्टः सुप्तपुरुषः पेषणात् पश्चात् उदतिष्ठत् । एवं प्राणनामभिरामन्त्रणेऽपि अनुत्थानप्रदर्शनं जीवात्मनः प्राणान्यत्वज्ञापनार्थम् । सुषुप्तिदशायामुपरतव्यापारेभ्यः शरीरेन्द्रियेभ्यः अन्यत्वस्य जीवे सुज्ञानत्वात् तस्यामपि दशायाम् अनुपरतव्यापारात् ‘प्राणादन्यत्वमेव’ ज्ञापनीयमिति, प्राणानामभिरामन्त्रणापि अनुत्थानेन पाणिपेषणेनोत्थानप्रदर्शनेन च जीवस्य प्राणव्यतिरेकः प्रदर्शितो भवति । तथा हि – सुप्तस्य प्रबोधानन्तरम्, सुखमहमस्वाप्सम् इति सौषुप्तिकानन्दप्रति-सन्धानेन सुषुप्तिकाले जीवशब्दितस्य सिद्धयन्ती आनन्दस्फूर्तिः तस्मिन् उपरत व्यापारे न सम्भवतीति तस्योपरतेव्यापारेभ्यः शरीरेन्द्रियेभ्यो वैलक्ष्यण्यं सिद्धमेव । तदानीमपि अनुपरतोच्छ्वासादिव्यापारः प्राण एव यदि जीवशब्दवाच्यः स्यात्, तत्राभिरामन्त्रणे तदुत्थानमावश्यकम् । लोके स्व नाम्ना आमन्त्रितस्य उत्थानदर्शनात् । अतः प्राणानाभि-रामन्त्रणेऽप्यनुत्थानात् प्राणस्य न जीवशब्दार्थमिति तदतिरिक्तजीवसिद्धिरिति ।न च प्रत्यगात्मन् विज्ञानमयः इत्यादि जीवनामभिरामन्त्रणेऽपि अनुत्थानदर्शनात् त्वदभिमतस्य शरीरेन्द्रियप्राणातिरिक्तस्यापि जीवशब्दत्वं न स्यादिति वाच्यम् । देहाद्यतिरिक्ते स्वस्मिन् आत्माभिमानशून्यस्य संसारिणः शुद्धजीववाचिशब्दै: आमन्त्रणेऽपि उत्थानस्यादोषत्वात्। यत्र पुनः देवदत्तादीनामसङ्केतितशरीरादिसंघाते स्वात्मत्वमभिमनुते, तन्नाम्ना आमन्त्रणे उत्थानदर्शनाच्च । न चेयं समाधिः प्राणस्यैव जीवशब्दार्थत्वे सम्भवतीति वाच्यम् । प्राणस्यैव संघाताभिमानित्वे अनुपरतव्यापारस्यैव तस्य पाणिपेषणानन्तरं पूर्वमसतः प्रबोधस्य प्राप्त्या उत्थानासम्भवात् । न च जीवस्याप्यनुपरतव्यापारस्य तदसंभवः शङ्क्यः । तस्य स्फुरणात्मकव्यापारसत्वेऽपि तदानीम् अप्रबोधत्वात् । प्राणस्य तु तदानीमपि शरीरे सञ्चरतः स्वनामभिरामन्त्रणाश्रवणमचेतनत्वमापादयत्येवेति चेतनस्य तद्वैलक्ष्यण्यं सिद्ध्यत्येवेति द्रष्टव्यम् ।। १५ ।।
[सुप्तपुरुषस्य स्वरूपप्रतिपादनम्]
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्, य एष विज्ञानमयः पुरुषः,क्वेष तदाभूत् कुत एतदागादिति, तदु ह न मेने गार्ग्यः ।। १६ ।।
प्र. -एवं देहेन्द्रियमनःप्राणव्यतिरिक्तं जीवं प्रदर्श्य ततोऽप्यन्यं परमात्मानं प्रदर्शयितुमारभते – स होवाचाजातशत्रुः इति । एवं जीवं प्रदर्श्य अजातशत्रुः गार्ग्यमाह इत्यर्थः । किमिति? यत्रैष एतत्सुप्तोऽभूध एष विज्ञानमयः क्वेष तदाभूत् कुत एतदागादिति इति । यत्र – यदा एषः एतत्सुप्तोऽभूत् – एतत् – स्वापं सुप्तो अभूत् । स्वापं प्राप्तोऽभूत् । एतदित्यनेनैव स्वपि धात्वर्थस्य सिद्धत्वात् सुप्त इत्येतत् प्रत्ययार्थमात्रपरम् । पाकं पचतीतिवत् । यद्वा एतत् – ईदृशं सुप्तं यस्य सः एतत्सुप्तः । क एष इति निर्दिष्ट इत्यत्राह’ य एष विज्ञानमयः पुरुषः । ‘यः सम्प्रबुध्यमानः एव सर्वेन्द्रियार्थविज्ञानमयतया उत्तिष्ठति स एष पुरुषः । क्वेष तदा भूत् । अयं तदा – पाणिपेषणोत्यापनात् प्राक् स्वापदशायां क्व स्थितः । एतत् – एतस्मिन् काले कुत आगात् – कुत उद्गत इति इत्यर्थः । इत्याह – पप्रच्छेति पूर्वेण सम्बन्धः । एवं जीवसुषुप्तेः स्थानतया प्रबोधापादनतया च जीवात् परमीश्वरं दर्शयितुमेव अजातशत्रुणा पृष्टोऽपि गार्ग्यः, तदु ह न मेने . तत्प्रश्नार्थं न ज्ञातवान् । उशब्दोऽवधारणे । हशब्दो वृत्तार्थस्मरणे ।। १६ ।।
[आत्मनः स्वरूपनिरूपणम्]
स होवाचाजातशत्रुर्यत्रैष एतत्सुप्तोऽभूत्, य एष विज्ञानमयः पुरुषः, तदैषां प्राणानां विज्ञानेन विज्ञानमादाय य एषोऽन्तर्हृदय आकाशः तस्मिञ्छेते । तानि यदा गृह्णात्यथ हैतत्पुरुषः स्वपिति नाम । तद्गृहीत एव प्राणो भवति, गृहीता वाग् गृहीतं चक्षुर्गृहीतँ श्रोत्रं गृहीतं मनः ।। १७ ।।
प्र. – स हो वाचाजातशत्रुः । एवं स्वपृष्टे अर्थे विमूढं गार्ग्यं तदर्थं स्वयमेव ज्ञापयन् अजातशत्रुराह – किमिति? यत्रैष इत्यादि । यत्र – यदा, य एष विज्ञानमयः पुरुषः, एष एतत्सुप्तोऽभूत्, तदा तस्मिन् शेते इति सम्बन्धः । अत्र, प्राणानां विज्ञानेन विज्ञानमादाय – प्राणशब्दवाच्येन्द्रियजन्यं ज्ञानं मनसा सह आदाय इत्यर्थः । ‘उपरतव्यापारं मनः कृत्वा इत्यर्थः । अनेन इन्द्रियव्यापारोपरतिः फलिता । तेषां मनस्सापेक्षत्वात् इति व्यासार्यै: विवृतम् । य एषोऽन्तर्हृदय आकाशः इति जीवस्वापस्थानपरतया निर्दिष्ट आकाशशब्दः परमात्मपरः । सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते (छा.उ.१-९-१), आकाशो ह वै नामरूपयोर्निवहिता (छां.उ.८-१४-१) इत्यत्र आकाशशब्दस्य परमात्मनि प्रसिद्धेः । कौषीतकीनामुपनिषदि समानप्रकरणे अथास्मिन् प्राण एवैकधा भवति (कौषी.उ.३-४:३९) इति प्राणशब्दितस्य सुषुप्त्याधारश्रवणात् । अत एव प्राणः (ब्र.सू.१-१-२४) प्राणस्तथानुगमात् (ब्र.सू.१-१-१९) इत्यादौ प्राणशब्दस्य परमात्मपरत्वस्य साधितत्वात्, आकाशप्राणशब्दयोः श्रौतनिरुक्त्यनुसारेण परमात्मपरत्वेनाविरोधसम्भवे तत्परित्यागस्य अनुचितत्वात्, सता सोम्य तदा सम्पन्नो भवति (छां.उ.६-८-१) इति सुषुप्तौ ब्रह्मसम्पत्तेः श्रुत्यन्तरसिद्धत्वाच्च आकाशशब्दस्य ब्रह्मैव अर्थः । तत्र च शयनं नाम तदेकतापत्तिः । एकत्वं च देवत्वमनुष्यत्वादिलक्षणभेदकाकारास्फुरणम्। ततश्च सुषुप्तौ जोवो देवत्वाद्यहमभिमानानुगुणज्ञानप्रसररूपकार्यावस्थाप्रहाणेन स्वद्वारा तद्राहित्यरूपकारणावस्थावति स्वशरीरिणि ब्रह्मणि अवतिष्ठत इति वाक्यार्थः । एवं सुप्तः परमात्मनि अवतिष्ठत इत्यत्र स्वपितीति व्यवहारं प्रमाणमाह – तानि इत्यादि। तानि– इन्द्रियाणि यदा गृह्णाति -स्वस्थानेभ्यो यदा उपसंहरति -इन्द्रियजन्य-ज्ञानानुकूलयत्नवान् यदा न भवतीति यावत्’ । अथ – अनन्तरमेव पुरुषः पुरुष स्वपिति इत्येतन्नाम भवति । पुरुषः स्वपितोति शब्दः प्रयुज्यते इति भावः । अत्र, स्वमपितो भवति, तस्मादेनं स्वपितीत्याचक्षते इति छान्दोग्यश्रुत्यनुसारेण स्वस्मिन् – कारणावस्थ-स्वशरीरकपरमात्मनि अपीत इति स्वपिति शब्दार्थोऽभिप्रेतः । तदानीं इन्द्रियोपसंहारमेव उपपादयति । तद्गृहीत एव प्राणो भवति इत्यादिना । तत् – तदा इत्यर्थः ।अत्र प्राणशब्दः इन्द्रियप्रकरणत्वात् घ्राणेन्द्रियपरः, न तु मुख्यप्राणपरः । मुख्यप्राणस्य तदानीं सञ्चारदर्शनात् । ‘स्व स्व स्थानेभ्यो घ्राणवाक्चक्षुस्त्रोत्रमनःप्रभृतीनि इन्द्रियाणि उपसंहृतानि भवन्तीत्यर्थः । गन्धादिविषयग्रहणवदनादिव्यापारयोरदर्शनादिति भावः ।। १७।।
[विज्ञानात्मनः स्वप्नावस्था]
स यत्रैतत् स्वप्न्यया चरति ते हास्य लोकास्तदुतेव महाराजो भवति उतेव महाब्राह्मण उतेव उच्चावचं निगच्छति स यथा महाराजो जानपदान् गृहीत्वा स्वे जनपदे यथाकामं ‘परिवर्तते‘, एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते ।। १८ ।।
प्र. – सुप्ते: स्वप्रवैलक्ष्यण्यं वक्तुं स्वप्रमुपक्षिपति – स यत्रैतत् इत्यादिना । एतत्-एष इत्यर्थः । लिङ्गव्यत्यश्छान्दसः । स एषः – शरीरेन्द्रियप्राणविलक्षणतया प्रदर्शितो जीव: यत्र-यदा स्वप्न्यया-स्वप्नावस्थया स्वप्नावस्थमनसा युक्तस्सन् स्वप्नस्थाने सञ्चरति इत्यर्थः । ते हास्य लोकाः तदुतेव इत्यादि । तदेति शेषः । ते ह-प्रसिद्धा: स्वर्गादिलोकाः अस्य स्वाप्निकजीवस्य भवन्ति । तत् -तदा उत्तर शब्द: अप्यर्थः। महाराज इव साम्राज्यादिगुणविशिष्टो भवत्यपि । ‘महाब्राह्मण इव’ श्रोत्रियत्वादिगुणयुक्तोऽपि भवति इत्यर्थः । उतेव उच्चावचं निगच्छति इति । उच्चावचमिव – देवत्वतिर्यक्त्वा–द्युत्कृष्टापकृष्टगुणविशिष्टशरीरमप्यचिन्तनं प्राप्नोति इत्यर्थः । स्वप्नपदार्थानां तत्तत्काले तत्तत्सूक्ष्मपुण्यपापानुगुण्येन परमात्मसृष्टतया यथार्थत्वस्य, य एषु सुप्तेषु जागर्ति कामं कामं पुरुषो निर्मिमाण: । तदेवशुक्रममृतम् (क.उ.५-८), अथ रथान् रथायोगान् पथसृज्यमान — – – – स हि कर्ता (बृ.उ.६-३-१०) इत्यादिभिः प्रामाणिकत्वात् । अत्र इवशब्दो न स्वाप्निकवस्तुमिथ्यात्वपरः, अपितु जाग्रद्वस्तुसादृश्यपर एवेति द्रष्टव्यम् । ‘अत एव हि सूत्रकृता वैधर्म्याच्च न स्वप्नादिवत् (ब्र.सू.२-२-२८) इति सूत्रितम् । स यथा महाराजो जानपदान् गृहीत्वा इत्यादि । सः जागरप्रसिद्धो यथा महाराजः जानपदान् – जनपदप्रभवान् भोग्यपदार्थान् गृहीत्वा – उपादाय उपसंहृत्य स्वे जनपदे – स्वीयमूलराजधान्यां यथेष्टं परिवर्तते – सञ्चरति, एवमेवैषः – ‘स्वप्रदृक्पुरुष: एतत् – एतस्मिन्काले प्राणान् गृहीत्वा – स्वस्थानेभ्य इन्द्रियाणि उपसंहृत्य स्वे शरीरे यथेष्टं परिवर्तते – ‘सञ्चरति – विहरति’ इत्यर्थः । न च प्राणेन रक्षन्नपरं कुलायं बहिष्कुलायादमृतः चरित्वा (बृ.उ.४-३-१२) इति बहिष्कुलायसञ्चरणस्य श्रुतत्वात् , स्वप्नं शरीरादिसृष्टेश्च प्रमाणप्रतिपन्नत्वात् स्वे शरीरे यथाकामम् इति अनुपपन्नमिति वाच्यम् स्वप्रदृष्टव्याघ्रमनुष्यादिदेहान्तरस्यापि जाग्रच्छरीरवत् स्वकर्मानुगुणमीश्वरसृष्टतया स्वीयत्वेन स्वे शरीरे इत्यस्याविरोधात् । नन्वेवं स्वे शरीरे इति व्यर्थम् , अव्यावर्तकत्वात् । स्वप्ने व्याघ्रमनुष्यादिशरीरेण हि हिमवदादिदेशगमनस्य अनुभूयमानतया पूर्वशरीरात् बहिर्गमने प्राप्ते तद्व्यावर्तकतता हि, स्वे शरीरे यथाकामं परिवर्तते इति वाक्यं सफलं स्यादिति चेत् न । स्वे ‘शरीरे इत्यस्य स्वप्नदृक्स्वप्ने स्वीये शरीरे’ यत्र क्वापि परिवर्तते, न तु जाग्रच्छरीर एवैति जाग्रद्रृशायानिव नियमोऽस्तीति एतदर्थपरत्वात् वाक्यस्य । इतरथा बहिष्कुलायश्रुतिविरोधात् ।
न च बहिष्कुलायश्रुतिः उपपत्तिरूपतात्पर्यलिङ्गानुगृहीततया प्रबलत्वात् न भाक्ततया व्याख्यायेति वाच्यम् । तथात्वे जीवस्य स्वशरीर एव स्थिततया जाग्रद्रृशायामिव स्वातन्त्र्येण शरीररक्षणस्य सिद्धतया प्राणेन रक्षन्नवरं कुलायम् इति प्राणद्वारा रक्षकत्वोक्तिः अत एव अमृतत्वोक्तिश्च अनुपपन्ना स्यात् । अतो बहिष्कुलाय श्रुतिः उपपत्तिरूपतात्पर्य-लिङ्गानुगृहीततया प्रबलत्वात् न भाक्ततया व्याख्येयेति स्वे शरीरे इति श्रुतिस्तदनुरोधेन पूर्वोक्तार्थपरा इत्येव युक्तमिति द्रष्टव्यम् ।
इदं च वाक्यं वियत्पादे उपादानाद्विहारोपदेशाच्च (ब्र.सू.२-३-३४) इति सूत्रे चिन्तितम् । तत्र हि-जीवो न कर्ता – तस्यानाधेयातिशयत्वेन आत्मनि कृतेः असम्भवात्’, असङ्गो ह्यपुरुषः (बृ.उ.६-३-१५) इति श्रुत्या असङ्गत्वावगमेन कृतिनिमित्तसंयोगाद्यभावाच्च । हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् । उभौ तौ न विजानीतौ नायं हन्ति न हन्यते ।। (क.उ.२-१९) ‘इति आत्मनः’ कर्तृत्वस्य प्रतिषिद्धत्वात् -प्रकृतेः क्रियमाणानि गुणै: कर्माणि सर्वशः ।
अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ।। (भ.गी.३-१७)
नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति । (भ.गी.१४-१९)
इत्यादि स्मरणाच्च अन्तःकरणरूपेण परिणता त्रिगुणात्मिका प्रकृतिरेव कर्त्री, न जीव इति पूर्वपक्षे प्राप्ते – कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२-३-३३) अ आत्मैव कर्ता, न प्रकृतिः, ज्योतिष्टोमेन यजेत इत्यादि शास्त्राणामर्थवत्त्वावश्यम्भावात् । शास्त्रं हि न प्रवृत्तस्य प्रवर्तकज्ञानोत्पादनद्वारा प्रवृत्तिमुत्पाद्य साफल्यं गच्छेत् । अन्तःकरणादेरचेतनस्य प्रवर्त्यत्वे तस्याचेतनत्वेन प्रवर्तकज्ञानोत्पादनासम्भावात् शास्त्रं विफलमेव स्यात् । न च आत्मनोऽनाधेयातिशयत्वात् कृत्यभावश्शङ्क्यः । सुखदुःखाद्यतिशयस्य प्रत्यक्षसिद्धत्वेन अनाधेयातिशयत्वासिद्धेः । न च कृतिनिमित्तसंयोगाभावः । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहु-मनिषिणः (क.उ.३-४) इति निमित्तसंयोगस्य श्रुत्या प्रतिपादनात् । असङ्गत्वश्रुतेस्तु जाग्रद्रृशायां स्वप्नदृष्टेन जीवस्य सम्बन्धाभावमात्रपरत्वात् , हन्ता चेन्मन्यते हन्तुम् इति श्रुतेः हननक्रियायां नित्यस्यात्मनः कर्तृकर्मभावनिषेधपरत्वेन कर्तृत्वसामान्यप्रति-क्षेपकत्वाभावात् । यच्च, प्रकृतेः क्रियमाणानि इत्यादिना गुणानामेव कर्तृत्वं न स्मर्यते इति – तत्सांसारिकप्रवृत्तिषु आत्मनः कर्तृता सत्वरजस्तमोगुणसंसर्गकृता, न स्वरूपप्रयुक्तेति प्राप्ताप्राप्तविवेकेन गुणानामेव कर्तृत्वमित्युच्यते । तथा च तत्रैव उच्यते, कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु (भ.गी.१३-२१) इति । अत एव-अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् ।
त्रिविधा च पृथक्चेष्टा दैवञ्चैवात्र पञ्चमम् ।। (भ।गी।१८-१४) तत्रैवं सति कर्तारमात्मानं केवलं तु यः । पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ।। (भ.गी.१८-१६) इति अधिष्ठानादिसापेक्षे सति आत्मनः कर्तृत्व, यः केवलमात्मानं कर्तारं पश्यति, स न पश्यतीति केवलस्यैवात्मनः कर्तृत्वं निषिद्ध्यते ।
उपादानाद्विहारोपदेशाच्च (ब्र.सू.२-३-३४) । स यथा महाराज इति प्रकृत्य, एवमेवैष एतत्प्राणान् गृहीत्वा स्वे शरीरे यथाकामं परिवर्तते इत्युपादानविहारयोः कर्तृत्वोपदेशात् ।
व्यपदेशाच्च क्रियायां न चेन्निर्देशविपर्ययः (ब्र.सू.२-३-३५) । विज्ञानं यज्ञं तनुते कर्माणि तनुतेऽपि च (तै.आन.५-१) इति वैदिकलौकिकक्रियासु कर्तृत्वव्यपदेशाच्च आत्मा कर्ता । नतु न विज्ञानशब्देनात्मनो व्यपदेशः, किन्तु बुद्धेरिति चेत् – तथासति बुद्धे: कारणत्वात् विज्ञानेन यज्ञं तनुते इति निर्देशः स्यात् । उपलब्धिवदनियमः (ब्र.सू.२-३-३६) । यथा त्वात्मनो विभुत्वे सार्वत्रिकोपलब्धि: स्यादित्युपलब्ध्यनियमः प्रसज्यते । एवमात्मनः अकर्तृत्वे प्रकृतेश्च कर्तृत्वे तस्याः सर्वपुरुषसाधारणत्वात् सर्वाणि कर्माणि सर्वेषां ‘भोगाय’ स्युः । अन्तःकरणादयोऽपि नियामकाभावात् अनित्यतास्स्युः ।
शक्तिविपर्ययात् (ब्र.सू.२-३-३७) । बुद्धेः कर्तृत्वे भोक्तृत्वस्य कर्तृत्वसामान्याधि-करण्यात् भोक्तृत्वमपि बुद्धेरेव स्यात् । ततश्च पुरुषोऽस्ति भोक्तृभावात् इति साङ्ख्यदर्शन सङ्गतमेव स्यात् । समाध्यभावाच्च (ब्र.सू.२-३-३८) । प्रकृतेः कर्तृत्वे आत्मनश्चाकर्तृत्वे प्रकृति-‘विविक्तात्मज्ञानलक्षणसमाधिश्च लुप्येत’; प्रकृतेः तादृशज्ञानासंभवात् , आत्मनो निष्क्रियस्य ‘कर्तृत्वानङ्गीकाराच्च ।
ननु आत्मनो कर्तृत्वे स्वाभाविके सति सर्वदा कर्तृत्वं स्यात् , तथा च तक्षोभयथा (ब्र.सू.-२-३-३९) । यथा तक्षा सत्यामिच्छायां वास्यादि सहकारिसम्पत्तौ करोति, नान्यदा – तथा आत्मापि इच्छादिसम्पत्तौ करोति, इतरथा न करोति इत्युपपद्यते । न च कर्तृत्वस्यानैपायिकत्वे यावद्द्रव्यभावित्वमिति नियमः । बदरफले श्यामरक्तरूपयोः अनौपाधिकयोरपि यावद्द्रव्यभावित्वात् ‘दर्शनादिति सिद्धान्तितम्’ । अनेनैवात्मनः कर्तृत्वसमर्थने बुद्धिगतं कर्तृत्वमात्मनि अध्यस्यते इति वदन्तो मृषावादिनोऽपि पराकृताः । अन्त:करणमिति लोकवेदयोः करणत्वेन प्रसिद्धायाः बुद्धेः कर्तृत्वासम्भवात्, शक्तिविपर्ययात् इति सूत्रे बुद्धेः करणशक्तिहीयेत, कर्तृशक्तिश्चापद्येत । सत्याच्च कर्तृशक्तौ कर्तृशक्तियुक्तायाः तस्याः करणमन्यत्कल्पनीयं स्यात् । शक्तोऽपि हि कर्ता लोके करणमुपादाय प्रवर्तत इति । ततश्च नाममात्रेविवादस्स्यात् नार्थभेदः कश्चित् । करणव्यतिरिक्तस्य कर्तृत्वाभ्युपगमात् इति परैरुक्तत्वात्’ गुहां प्रविष्टौ (ब्र.सू.१-२-११) इति सूत्रे च, वस्तुतो नैकस्यापि कर्तृत्वम् , बुद्धेश्चेतनत्वात्, आत्मनो निर्विकारत्वात् इति परैरेव उक्तत्वाच्च अन्तःकरणगतं कर्तृत्वमात्मन्यध्यस्यत इत्युक्तिः पूर्वापरविरुद्धैव इत्यास्तां तावत् । प्रकृतमनुसरामः ।। १८ ।।
[आत्मनः सुषुप्त्यवस्था]
अथ यदा सुषुप्तो भवति यदा न कस्यचन वेद, हिता नाम नाड्यो द्वासप्तति सहस्राणि हृदयात्पुरीततमभिप्रतिष्ठन्ते ताभिः प्रत्यवसृप्य पुरीतति शेते । स यथा कुमारो वा महाराजो वा महाब्राह्मणो वाऽतिघ्नीमानन्दस्य गत्वा शयीत, एवमेवैष एतच्छेते ।। १९ ।।
प्र–एवं स्वप्नं निरूप्य तद्विलक्षणं सुषुप्तिमाह – अथ यदा सुषुप्तो भवति इत्यादिना । अथ-स्वप्नानन्तरं, यदा – यस्मिन् काले सुषुप्तो भवति, यदा न कस्यचन वेद – यदा च न किञ्चिदपि विजानाति इत्यर्थः । अत्र यदा न कस्यचन वेद इत्यनेन सुषुप्तो भवति इत्युक्तसुषुप्तिस्वरूपमत्यन्तज्ञानसङ्कोच इत्युक्तं भवति । हिता नाम नाड्यः इत्यादि । तदेति शेषः । हिता नाम – आत्मनः हितावहत्वात् हिताहिता इति प्रसिद्धाः द्वासप्ततिसहस्राणि – द्विसहस्राधिकसप्ततिसहस्राणि नाड्यः सिराः हृदयात् -‘हृदय’ प्रविश्य पुरीततिमभि – पुरीतच्छब्दितहदयान्तर्वतिमांसपिण्डमभिमुखीकृत्य प्रतिष्ठन्ते – प्रस्थिताः भवन्ति । ताभिः – नाडीभिः प्रत्यवसृप्य – करणगणोपसंहारपूर्वकं ताभिः द्वारभूताभिः नाडीभिः प्रत्यागत्य पुरीतत् स्थाने शेते । अत्र पुरीतति वर्तमाने ब्रह्मणि शेते इत्यर्थः। य एषोऽन्तर्हृदयः आकाशस्तस्मिञ्छेते इति परमात्मनः सुषुत्याधारत्व-प्रतिपादकपूर्ववाक्यानुसारात्, पर्यङ्कास्तरणयोः शयानपुरुषाधारत्ववत् पुरीतद्ब्रह्मणोपि समुञ्चित्य सुप्तपुरुषाधारत्वस्य उभयलिङ्गपादे तदभावो नाडीषु (ब्र.सू.३-२-७) इत्या समर्थितत्वात् ।
तथा हि – तद्यत्रैत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं न विजानाति आसु तदा नाडीषु सुप्तो भवति (छां.उ.८-८-३), ताभिः प्रत्यवसृप्य पुरीतति शेते य एषोऽन्तर्हृदयः आकाशे तस्मिञ्छेते इति नाडीपुरीतद्ब्रह्मणां सुषुप्तिस्थानत्वाश्रवणात् समुच्चये सप्तम्यवगतनिरपेक्षाधारत्वप्रतीतिभङ्गप्रसङ्गात् युगपदनेकस्थानवृत्यसम्भवाच्च विकल्प इति पूर्वपक्षे, तदभावो नाडीषु तच्छ्रुतेरात्मनि च (ब्र.सू.३-२-७) तदभाव: – पूर्वनिर्दिष्ट, स्वप्राभावः – सुषुप्तिरिति यावत् – ‘नाडीषु’, आत्मनि – परमात्मनि चकारात् पुरीतति चेत्यर्थः । तच्छ्रुतेः पूर्वोदाहृतवाक्येषु नाडीपुरीतद्ब्रह्मणां त्रयाणामपि सुषुप्तजीवाधारत्व. श्रुतेरित्यर्थः । नाडीमार्गेणैव गत्वा पुरीतदाख्यं हृदयवेष्टनमांसपिण्डं, तत्र हृदयान्ततिनि ब्रह्मणि शयाने जीवः, प्रासादे खट्वायां शेते, पर्यङ्के शेते इतिवत्, नाडीषु शेते, पुरीतति शेते, ब्रह्मणि शेते इति ‘निर्देशात् त्रयस्याप्युपपत्तेः समुच्चये सम्भवति पाक्षिकवाधगर्भा विकल्पो नाङ्गीकार्यः । साक्षात्स्थानं तु ब्रह्मैवेति सूत्रार्थः ।
अतः प्रबोऽधोऽस्मात् (ब्र.सू.३-२-८)। यतः ब्रह्मैव सुषुप्तिस्थानम्, अत एव सुप्तस्य स त आगत्य न विदुः (छां.उ.६-१०-२) इति ब्रह्मण एव नित्यत्वात् प्रबोधः श्रूयमाणः उपपद्यते इति सिद्धान्तितम् । प्रकृतमनुसरामः । स यथा कुमारो वा इत्यादि । स यथा– स दृष्टान्तो वक्ष्यमाणो यथा इत्यर्थः कुमारः – ‘राजतनयः महाराजः – सप्तद्वीपपतिः, महाब्राह्मण: – अनवरतब्रह्मानन्दपरो ब्रह्मवित् एतदन्यतमो यथा आनन्दस्य अतिघ्नीं – अतिशयं गतां मात्रां गत्वा शयीत तिष्ठेत् । एवमेव एषः – सुप्तो जीवः एतत् – एतस्मिन् काले स्वापदशायाम् अतिशयितामानन्दस्य दशां प्राप्य पुरीतति शेते अवतिष्ठत इत्यर्थः । एतच्छब्दः पुरीतत्परो वा द्रष्टव्यः । एतत् – एतस्यां पुरीतति इत्यर्थः । एवं स्वप्नसुषुप्त्योः वैलक्ष्यण्यं निरूपितम् । तथा जागरस्य त्वाभ्यां वैलक्ष्यण्यस्य पाणिपेषोत्त्थानादिभिः स्फुटतया प्रसङ्गात् इत्थमवस्थात्रयं वैराग्याय उपपादितं भवति ।। १९ ।।
स यथोर्णनाभिस्तन्तुनोच्चरेत्, यथाग्ने: क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति . एवमेवारमादात्मनस्सर्वे प्राणा: सर्वे लोका सर्वे देवाः सर्वाणि भूतानि व्युच्चरन्ति ।। तस्योपनिषत् सत्यस्य सत्यमिति । प्राणा वै सत्यम् । तेषामेष सत्यम् ।। २०।।
।। इति चतुर्थाध्याये प्रथमब्राह्मणम् ।।
प्र–एवं पूर्वोक्तप्रश्नयोः क्वैष तदाऽभूत् इत्यस्योत्तरमुक्तम् । अथ कुत एतदागात् इत्यस्योत्तरमाह – स यथोर्णनाभिः तन्तुनोच्चरेत् इत्यादिना । सः-प्रसिद्ध: ऊर्णनाभिः – लूताख्यः कीटविशेषः तन्तुजालमध्यस्थितः आहारग्रहणाय यथा तन्तुना -तन्तुद्वारा बहिरूद्गच्छेत् इत्यर्थः । दृष्टान्तान्तरमाह – यथाग्ने: क्षुद्रा विस्फुलिङ्गा व्युच्चरन्ति इति । अत्र उद्गमनापादनस्य ब्रह्मणः उद्गच्छत् सर्वभूतापेक्षया अध्यतिष्ठद्दशाङ्कुलम् (पु.सू.४) इयुक्तवैपुल्य ब्रह्मणः एकस्य कथं सर्वभूतल्याधारत्वमित्येतच्छद्गावारणायोक्तं प्रथमदृष्टान्तेन । द्वितीयेन त्वेकदैव सर्वभूतोद्गमनं निदर्शितम् । अथवा यथा ऊर्णनाभिरेक एव सन् नानाविध तन्तुरूपेण विजिहीर्षुरुच्चरति, एवमेव ब्रह्म नानाभूतरूपेण इति प्रथमदृष्टान्तार्थः ।
तदानीं तन्तुना – नानातन्तुरूपेण इत्यर्थो द्रष्टव्यः । व्युच्चरन्ति – उद्गच्छन्ति इत्यर्थः । शिष्टं स्पष्टम् । एवमेवास्मदात्मनः इत्यादि । एवमेव उक्तदृष्टान्तद्वयवदेव । अस्मात् सुषुप्त्याधारात् परमात्मनः । सर्वे प्राणा: – प्राणशब्दो जीवपरः । सर्वे जीवा इत्यर्थः । सर्वेलोकाः – लोकशब्दो ज्ञानपरः, ‘लोकनं’ लोक इति व्युत्पत्तेः । सर्वाणि ज्ञानानि इत्यर्थः । सर्वे देवाः – सर्वाणि इन्द्रियाणि इत्यर्थः । देवशब्द इन्द्रियपरः । सर्वाणि भूतानि – देवमनुष्यादि- रूप जीवाः सर्वे च । सर्वे द्रष्टारः सर्वाणि दर्शनानि सर्वाणि तत्करणानि च सुषुप्त्याधारभूतादेकस्मात् ब्रह्मण एव युगपदेव व्युच्चरन्ति इत्यर्थः ।
ननु अत्र सुप्त तज्जीवमात्रोद्गमनापादनप्रश्ने क्वैष तदाभूत् कुत एतदागात् इति कृते सर्वभूतोद्गमनापादानत्वकीर्तनस्य किं फलमिति चेत्, न; सर्वभूतोद्गमनापादानस्य परमात्मनः सुप्तैतज्जीवोद्गमनापादानत्वे को भार इत्येतदर्थपरत्वात् तस्य । न च समानप्रकरणे कौषीतकीनामुपनिषदि एतस्मादात्मनः प्राणाः यथायतनं विप्रतिष्ठन्ते प्राणेभ्यो देवा देवेभ्यो लोका (कौ.उ.४-४०) इति क्रमान्तरं वर्णितमिति विरोधश्शङ्कनीयः । यथा आत्मन: आकाशस्सम्भूत: आकाशाद्वायुः वायोरग्नि: आग्नेरापः अभ्द्य: पृथिवी (तै.आन.१-१) इति श्रुतेः । एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च । खं वायु ज्योतिरापः पृथ्वी विश्वस्य धारिणी (मुं.उ.२-१-३) इति श्रुतेश्च । विपर्ययेण तु क्रमोऽत उपपद्यते च (ब्र.सू.३-२-१५) इति न्यायेनाविरोधसमर्थने एतस्माज्जायते इत्यादि योगपद्यक्रमश्रुतेः, आत्मनः आकाश इत्यादिषु परम्परारूपक्रमोपस्थापकश्रुत्यनुसारेण अर्थो वर्णितः । एवमिहापि एतस्मादात्मनः प्राणा इति कौषीतकी श्रुत्यनुरोधेन एतच्छ्रुत्यर्थस्य वर्णनीयतया परमात्मनो जीवाः – तेभ्यः प्राणिभ्यः इन्द्रियाणि, तेभ्यो ज्ञानानि व्युच्चरन्ति इत्यर्थात् अविरुद्धत्वं द्रष्टव्यम् । अत्र जगद्वाचित्वाधिकरणे प्राणनामामन्त्रणाश्रवणपाणिपेषोत्थानादिभिः प्राणाद्यतिरिक्तजीवप्रदर्शनं तदतिरिक्तपरमात्मप्रतिपत्त्यर्थमिति, अन्यार्थं तु जैमिनिः प्रश्नव्याख्यानाभ्याम् (अ.सू.१-४-१८) इति सूत्रेण स्थापितम् । इदमधिकरणं च कौषीतकी-प्रकाशिकायाम् उपन्यस्ते तत्रैव द्रष्टव्यम् ।
इत्थं शरीरेन्द्रियप्राणविलक्षणतया प्रदर्शितात् जीवात् तत्सुषुप्त्याधारत्वतत्प्रबोधा-पादनत्वाभ्यां विलक्षणतया प्रतिपादितस्य परब्रह्मणः सुषुप्तिदशायामानन्दप्रापकत्वकथनेन मोक्षरूपाया ब्रह्मप्राप्तेः परमानन्दरूपत्वं कैमुत्यन्यायेन सूचयन् अजातशत्रुः प्रासङ्गिजागरा-द्यवस्थानिरूपणनिर्विण्णाय मुमुक्षवे गार्ग्याय ब्रह्मप्राप्तिसाधनभूतोपासनप्रकारमुपदिशति ।
तस्योपनिषत् सत्यस्य सत्यम् इति । तस्य-परमात्मन: सत्यस्य सत्यमिति उपनिषत् -रहस्यनाम इत्यर्थः । एतनामार्थं स्वयमेव विवृणोति – प्राणा वै सत्यं तेषामेष सत्यम् इति । प्राणा: – जीवात्मनः’ इत्यर्थः । तेषाम् – अचेतनवत्स्वरूपान्यथाभावरूप-विकाराभावात् सत्यता – निर्विकारता अस्तीति ते सत्यमित्युच्यन्ते वैशब्दः प्रसिद्धौ । एवं जीवानां स्वरूपविकाराभावेऽपि स्वभावभूतधर्मभूतज्ञानेनविकारितया न निरवधिकं सत्यत्वम् – परमात्मनस्तु जीवानामिव पुण्यपापप्रयुक्तस्य धर्मभूतज्ञानसङ्कोचविकासलक्षण-स्वभावस्यान्यथाभावस्याऽप्यभावात् तदपेक्षाप्यधिकसत्यता इति सत्यस्य सत्यता इत्यर्थः ।
अत्र सत्यस्य इत्येकवचनं जात्यभिप्रायम् । प्राणो वै – इति विवरणात् । तेन एकजीव-वादव्युदासः । सत्यस्य इति षष्ठी च निर्धारणार्था । तेषामेष सत्यमिति विवरणस्वारस्यात् । तेन जीवब्रह्मैकवादव्युदासः । ततश्च उक्तगुणविशिष्टस्योक्तनाम्नापासनं मोक्षसाधनम्, अतः त्वमप्येवमुपास्स्व इत्यजातशत्रुराह इत्यर्थः ।। २० ।।
।। इति चतुर्थध्याये प्रथमब्राह्मणप्रकाशिका ।।
चतुर्थाध्याये द्वितीयं ब्राह्मणम्
शिशुब्राह्मणम्
[शिशुसंज्ञकमध्यमप्राणस्योपासनम् ]
यो ह वै शिशं साधानँ सप्रत्याधानँ सस्थूणं सदामं वेद । सप्त ह द्विषतो भ्रातृव्यानवरुणद्धि । अयं वाव शिशुर्योयं मध्यमः प्राणः । तस्येदमेवाधानमिदं प्रत्याधानम् । प्राणस्स्थूणान्नं दाम ।। १ ।।
प्र. – अथ प्राणा वै सत्यम् इत्यत्र जीवानां प्राणशब्दवाच्यत्वं, प्राणाविनाभाव-सम्बन्धेन भवतीत्युपपादयितुमिदं ब्राह्मणमारभ्यते – यो ह वै शिशुं साधानम् इत्यादि । आधानप्रत्याधानस्थूणादामविशिष्टं शिशुं यो वेद तस्य इदं फलं ह प्रसिद्धम् । किं तत्? सप्त द्विषतो ‘भ्रातृव्यान्‘ – ‘सप्त पुरुष पर्यान्तान्’ द्वेषयुक्तान् शत्रून् अवरुणद्धि -स्ववशीकरोति इत्यर्थः । मन्त्रस्यार्थमाह श्रुतिः स्वयमेव अयं वाव शिशु: योऽयं मध्यमः प्राण: इत्यादिना । मध्यमः शरीरमध्यवर्ती अयं – पञ्चवृत्तिर्य: प्राणः, सोऽयमेव शिशुः – इतरकरणवत् क्रियाकर्तृत्वादिशून्यत्वात् शिशुरिव शिशुः इत्यर्थः । वाव शब्दः एवार्थः । तस्य – शिशोः, वत्सस्थानीयस्य मुख्यप्राणस्य इदमेव आधानम् -आधीयतेऽस्मिन् इत्याधानम् , गर्भगोळकम् । इदं – मध्यमः प्राण इत्यत्र मध्यशब्दोपस्थापित शरीरमध्यदेशरूपं हृदयमेव आधानं – ‘गर्भगोळकम् इत्यर्थः । इदं प्रत्याधानं – इदमिति प्रत्यक्षोपस्थापितं शरीरमेव प्रत्याधानम् । आहितस्याधानं प्रत्याधानम् । गर्भे आहितो हि वत्सः पश्चाद्भूमौ आधीयत इति प्रत्याधानं – प्रसूतिभूमिः । एवं हृदये लब्धात्मको हि प्राणः पश्चात्सर्वशरीरव्यापी अभिव्यज्यत इति शरीरं प्राणस्य प्रत्याधानं प्रसूति भूमिस्थानीयम्’ । प्राणः स्थूणा – स्थूणायां हि बद्धो वत्सो भवति; एवं प्राणशब्दिते जीवे हि मुख्यप्राणो बद्धो भवति । जीवे शरीरे स्थित एव प्राणस्य अवस्थितेः । अतो जीवः प्राणस्य स्थूणास्थानीयः । अन्नं दाम । दाम – पाश इत्यर्थः । यथा वत्सः पाशेन बद्धोऽवतिष्ठते, एवम् अन्नेन पाशेन बद्धो हि प्राणोऽवतिष्ठते । अन्नं प्राणस्य षड्विंश इति श्रुतेः । षड्विंशो हि पाशविशेषः । तथा च हृदयदेशे लब्धसत्ताकश्शरीरेऽभिव्यक्तः पञ्चवृत्तिः प्राणोऽन्नेन जीवे निबद्धो वर्तते इति प्राणिवत्ससादृश्यं विभावयतः पूर्वोक्तं फलं भवतीति मन्त्रार्थ इत्यर्थः ।।
[प्राणस्य सप्त अक्षितयः]
तमेतास्सप्ताक्षितय उपतिष्ठन्ते । तद्या इमा लोहिन्यो राजयस्ताभिरेनँ रुद्रोन्वायत्तोऽथ या अक्षन्नापस्ताभिः पर्जन्यो या कनीनिका तया आदित्यो यत्कृष्णं तेनाग्निर्यच्छुक्लं तेनेन्द्रोऽधरयैनं वर्तन्या पृथिव्यन्वायत्ता द्यौरुत्तरतया । नास्यान्नं क्षीयते य एवं वेद ।। २ ।।
प्र–तमेतास्सप्ताक्षितय उपतिष्ठन्ते । तमेतं – चक्षुष्यारूढं प्राणम् एताः–वक्ष्यमाणा सप्त अक्षितय: उपतिष्ठन्ते – उपस्थिता भवन्ति । न विद्यते क्षितिः, क्षयो येषां ते तथोक्ताः । अक्षितित्वञ्च तेषां वक्ष्यमाणा नामापेक्षिकं द्रष्टव्यम् । ता एव सप्ताक्षितीराह –तद्या या इमा अक्षन् लोहिन्यो राजय इत्यादिना । तत् – तत्र अक्षन् – चक्षुषि, अक्षन् इति छान्दसं रूपम् । या इमाः लोहिन्यः लोहिताः राजयः रेखाः सन्ति; ताभिः–द्वारभूताभिः एनं प्राणं रुद्रः अन्वायत्तः उपस्थितो भवति इत्यर्थः । अथ इति वाक्यान्तरोपक्रमे । याः अक्षन् – अक्षिणि शुण्ठ्यादिकटुद्रव्यसंयोगेनाभिव्यज्यमाना आपः, ताभिः – द्वारभूताभिः पर्जन्यो देवतात्मा उपतिष्ठते । या कनीनिका–अक्ष्णि या कनीनिका–तारका तेजोमयी द्दक्शक्तिरिति यावत् । तया–तद्वारा आदित्य उपतिष्ठते; अक्ष्णि यत् कृष्णं रूपं तेनाग्निरुपतिष्ठते; यदक्ष्णि शुक्लं रूपं दृश्यते तेनेन्द्रः उपस्थितो भवति इत्यर्थः । अधरयैनं वर्तन्या पृथिव्यन्वायत्ता । अधरया वर्तन्या – अधरेण पक्ष्मणा एनं – प्राणं पृथिवी अन्वायत्ता– उपस्थिता इत्यर्थः । द्यौरुत्तरतया । वर्तन्येति वर्तते । उत्तरया वर्तन्या – उत्तरेण पक्ष्मणा द्यौर्देवतात्मा उपस्थितेत्यर्थः । सप्ताक्षित्युपस्थेयचक्षुर्निष्ठप्राणज्ञानस्य फलमाह – नास्यान्नं क्षीयते च एवं वेद इति । स्पष्टोर्थः ।। २ ।।
[शिरस: चमसत्वकथनम्]
तदेष श्लोको भवति–
अर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यज्ञो निहितं विश्वरूपम् । तस्यासत ऋषयस्सप्त तीरेवागष्टमी ब्रह्मणा संविदाना ।। इति । अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इति । इदं ‘तच्छिरः । एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपमिति । प्राणा वै यशो निहितं विश्वरूपम् । प्राणानेतदाहा तस्यासत ऋषयस्सप्त तीरे इति । प्राणा वा ऋषयः प्राणानेदाह । वागष्टमी वाग्ध्यष्टमी ब्रह्मणा संवित्ता‘ ।। ३ ।।
प्र. – तदेषा श्लोको भवति इति । तत् – तस्मिन् मुख्यप्राणविषये तत्प्रतिपादक: एषः – वक्ष्यमाणः श्लोको भवतीत्यर्थः । अर्वाग्बिल: चमस ऊर्ध्वबुध्न: इत्यादिनोपात्तममुं मन्त्रं श्रुतिरेव व्याचष्टे । तत्र, अर्वाग्बिलश्चमस ऊर्ध्यबुध्न इति मन्त्रखण्डमुपादाय तेनोच्यमानमर्थमाह – इतीदं तदेव शिर इति । इति मन्त्रखण्डेनोक्तं तत् इदं प्रसिद्धमेव शिरः । ‘कण्ठादुपरिभाग’ इति यावत् । कथं तदर्थरतदित्याशङ्क्याहह – एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्न: इति । चम्यतेऽनेन इति चमसः भक्षणसाधनमित्यर्थः । एषः– उक्तो मुखरूपश्चमस: अर्वाग्बिलः – अधोविद्यमानस्य आस्यस्य बिलरूपत्वात् ‘अर्वाग्बिलत्वम् ऊर्ध्वबुध्न: – शिरस ऊर्ध्वस्थूलमूलभागरूपबुध्नाकारत्वात् ऊर्ध्वबुध्नत्वम् । लोके हि प्रसिद्धश्चमसः ऊर्ध्व बिलः तिर्यग्बुध्न: – अयं तु कण्ठोर्ध्वभाग उक्तगुणो विलक्षणश्चमस इति भावः । तस्मिन् यशो निहितं विश्वरूपमितीत्युपात्तं मन्त्रखण्डं विवृणोति – प्राणा वै यशो निहितं विश्वरूपं प्राणानेतदाह इति । इति एतत् – तस्मिन् यश इत्यादि वाक्यं प्राणानाहेति प्रतिज्ञा । तत्र हेतुमाह – प्राणा वै यशो निहितं विश्वरूपम् इति । प्राणस्य प्राणापानादिबहुरूपतया विश्वरूपत्वम् यशोवत् प्रसृमरत्वात् यशस्त्वेन रूपणम् । वृत्तिभेदात् प्राणा इति बहुवचनम् । एतादृशो मुख्यप्राणः तस्मिन् मुखरूपे चमसे निहित इति मन्त्रखण्डार्थ इत्यर्थः । तस्यासत ऋषयस्सप्ततीर इति इत्युपात्तमन्त्रखण्डार्थमाह प्राणा वा ऋषयः प्राणानेतदाह इति । नासाक्षिश्रोत्रास्योपाधिसम्बन्धिनः सप्तशीर्षण्या: प्राणाः ऋषयः इति मन्त्रोक्ताः । अतः तस्यासत ऋषय इत्येतत् – अयं मन्त्रखण्डः प्राणानाहेति । तथा च सप्त शीर्षण्याः प्राणाः तस्य – मुखचमसस्य तीरे – समीपे वर्तन्ते इत्यर्थः । वागष्टमी ब्रह्मणा संविदाना इति इत्युपात्तं मन्त्रभागं व्याचष्टे – वाग्ध्यष्टमी ब्रह्मणा संवित्ता इति । वागेवाष्टमी । ननु सप्तमीत्वेनोक्ताया वाचः कथमष्टमीत्वम् इत्यत्राह – ब्रह्मणा इत्यादि । ब्रह्मणा – वेदेन चतुर्मुखेन वा संविदाना – संवादं कुर्वती वागष्टमी इत्यर्थः । तथा च वाच: वक्ष्यमाण प्रकारेण अत्तृत्वेन रूपेण सप्तमत्वेपि वेदवक्तृत्वेन रूपान्तरेण अष्टमत्वमुपपद्यत इति मन्त्रार्थ इत्याह – ब्रह्मणा संवित्ता इति । संवित्ता-समित्येकीकारे वित्तशब्दो ज्ञानपरः । ब्रह्मणा एकप्रत्यया एकबुद्धिः ब्रह्मणा – एककण्ठा । वेदवादिनी इति यावत् ।। ३ ।।
[श्रोत्रादिषु सप्तऋषित्व दृष्टिः]
इमावेव गौतम भरद्वाजौ अयमेव गौतमौयं‘ भरद्वाजः इमावेव विश्वामित्र–जमदग्नी अयमेव विश्वामित्रोऽयं जमदग्निः, इमावेव वसिष्ठकश्यपौ अयमेव वसिष्ठोऽयं कश्यपः ।। वागेवात्रिर्वाचा ह्यन्नमद्यतेऽत्रिर्ह वै नामैतद्यदत्तिरिति । सर्वस्यात्ता भवति, सर्वमस्यान्नं भवति, य एवं वेद ।। ४ ।।
।। इति चतुर्थाध्याये द्वितीयब्राह्मणम् ।।
प्र.-सप्त ऋषयः के इत्यत्र श्रोत्राक्षिनासास्योपाधिसंबन्धिनः सप्त प्राणान् सप्तर्षित्वेन रूपयन्ती श्रुतिः प्रथमं कर्णौ प्रदर्शयन्त्युवाच – इमावेव गौतमभरद्वाजौ इति । इमौ ‘दृश्यमानौ कर्णावेव गौतमभरद्वाजौ सप्तर्षीणामन्यतमौ इत्यर्थः । तत्र पुनर्विभज्य दर्शयति – अयमेव गौतमोयं भरद्वाजः -इति । दर्शितयोः कर्णयोर्मध्ये एको गौतमः एको भरद्वाज इत्यर्थः । एवमुत्तरत्रापि । चक्षुषी उपदिशन्त्युवाच – इमावेव विश्वामित्रजमदग्नी इति । चक्षुषी एव विश्वामित्रजमदग्नी । तत्रापि चक्षुषोर्मध्ये एकं विश्वामित्रः, अपरं जमदग्निः इत्यर्थः । नासिके उपदिशन्ती उवाच । इमावेव वसिष्ठकश्यपौ इत्यादि । पूर्ववदेव नासिकयोर्मध्ये एका वसिष्ठः, अपरा कश्यप इत्यर्थः । वागेवात्रि: वाचा ह्यन्नमद्यते इति । वागिन्द्रियाधिष्ठानभूतेनास्येन अन्नमद्यत इति तदुपाधिद्वारकात्तृत्व-वत्वात् वागिन्द्रिय मेवात्रिरित्यर्थः । अत्रिर्ह वै नामैतद्यदत्तिरिति इति । यदत्तिरिति नामैतत् । एतत् – वागिन्द्रियं यत् – यस्मादत्तृत्वादत्तिरित्येवं नामवत्; तस्मात् अत्रिर्ह वै – अत्रिरिति प्रसिद्ध परोक्षेण ‘उच्यते इत्यर्थः। । वागत्रित्वज्ञानस्य फलमाह सर्वस्य इत्यादि । य एवं वागत्रित्वं वेद, स सर्वस्यात्ता भवति – सर्वस्य भोक्ता भवति । अत्र सर्वस्यात्ता भवति इत्यनेनैव सर्वमस्यान्नं भवति इत्यस्यार्थस्य सिद्धत्वात् सिद्धस्य कीर्तनमनुकूलभोग्यत्वकीर्तनमिति द्रष्टव्यम् ।। ४ ।।
।। इति चतुर्थेध्याये द्वितीयब्राह्मण प्रकाशिका ||
चतुर्थाध्याये तृतीयं ब्राह्मणम्
मूर्तामूर्तब्राह्मणम्
[ब्रह्मणः रूपद्वयम्]
द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं च मर्त्यं चामृतं च स्थितं च यच्च सञ्च त्यच्च ।। १ ।।
प्र– द्वे वाव ब्रह्मणो रूपे इत्यादि । ब्रह्मणः द्वे रूपे शरीरे । वाव शब्द: प्रसिद्धौ । के ते द्वे रूपे इत्यत्राह – मूर्तञ्चामूर्तं च इत्यादि । ‘मूर्त‘ – कठिनम् , अमूर्तं अकठिनम् । मर्त्यं • मरणधर्मात्मकम् । विनश्वरम् इत्यर्थः । अमृतं – तदितरत् । स्थितम् – अव्यापकम् । यत् – व्यापकम् । एति गच्छति सर्वानिति यत् । व्यापकमिति यावत्’ । सत् – चाक्षुषप्रत्यक्षोपलभ्यम् । स्वतो रूपवदिति यावत् । त्यत् – तदितरत् इत्यर्थः ॥१॥
[मूर्तस्वरूपम्]
तदेतन्मूर्तं यदन्यद्वायोश्चान्तरिक्षाच्चैतन्मर्त्यमेतत् स्थितमेतत् सत्तस्यैतस्य मूर्तस्यैतस्य स्थितस्यैतस्य सत एष रसो य एष तपति सतो ह्येष रसः ॥२॥
प्र. – एवं ब्रह्मरूपत्वेन प्रतिज्ञाते मूर्तामूर्ते दर्शयन्तीश्रुतिः तत्र प्रथमं मूर्तमर्त्यस्थित-सदात्मकं रूपं दर्शयति तदेतन्मूर्तम् इत्यादि । यदन्यद्वायोश्चान्तरिक्षाच्च । वाय्वन्तरिक्षव्यतिरिक्तं पृथिव्यप्तेजोलक्षणं यदस्ति, तदेतत् कठिनत्वेन मूर्तम् । एतन्मर्त्यमेतत् स्थितमेतत्सत् । तथा मूर्तत्वेनोक्तम् एतदेव रूपं विनश्वरत्वाव्यापकत्वचाक्षुषप्रत्यक्षोपलभ्यत्वरूपधर्मयुक्ततया मर्त्यस्थितसच्छब्दवाच्यमित्यर्थः । अत्र काठिन्यमप्तेजसोः करकासुवर्णादौ द्रष्टव्यम् । तस्यैतस्य मूर्तस्य इत्यादि । य एष तपति लोकं ‘तेजोमण्डलरूपेण एष: – तदेतदादित्यमण्डलं हि– यस्मात् सच्छब्दितस्य तेजोबन्नस्य रसः तेजोबन्नवत् मण्डलस्य प्रत्यक्षोपलभ्यमानत्वादिति भावः । तस्माद्धेतोः आदित्यमण्डले मूर्तत्व-मर्त्यत्व-स्थितत्त्वसत्त्वरूपधर्मचतुष्टययुक्त तेजोबन्नरसत्वबुद्धिः कर्तव्या इत्यर्थः ।। २ ।।
[अमूर्तस्वरूपनिरूपणम्]
अथामूर्तं वायुश्चान्तरिक्षञ्च: एतदमृतमेतद्यदेतत्त्यत् । तस्यै तस्यामूर्तस्यै–तस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो य एष एतस्मिन् मण्डले पुरुषः । त्यस्य ह्येष रस इत्यधिदैवतम् ।। ३ ॥
प्र– अथामूर्तम् इति । रूपमुच्यते इति शेषः । तदेवाह – वायुश्चान्तरिक्षञ्च इति । एतदमृतमेतद्यदेतत्त्यत् इति । अत्र वाय्वाकाशयोः अमृतत्वयत्वरूपाविनश्वरत्वव्यापकत्वे आपेक्षिके मन्तव्ये, त्यत्वञ्च स्वतो रूपवत्त्वाभावपर्यवसन्नं ग्राह्यम् । अतस्तयो-विनाशित्वकार्यत्वप्रत्यक्षत्वादेरविरोधः । तस्यैतस्यामूर्तस्य इत्यादि । त्यस्य ह्येष रसः । हि – यस्मादादित्यमण्डलस्थपुरुषः अस्मदादिप्रत्यक्षागोचरत्वात् त्यस्य रसः । तस्मादमूर्तत्वामृतत्वयत्त्वत्यत्त्वलक्षणधर्मचतुष्टयाश्रयवाय्वन्तरिक्षसत्त्वबुद्धिः आदित्य- मण्डलस्थपुरुषे ‘परमात्मनि कर्तव्या इत्यर्थः । इत्यधिदैवतम् । इति – उक्तरीत्या अधिदैवतमुपासनकर्तव्यता प्रकार उक्त इत्यर्थः ।। ३ ।।
[अध्यात्म मूर्तनिरूपणम्]
अथाध्यात्ममिदमेव मूर्तं यदन्यत् प्राणाच्च यश्चायमन्तरात्मन्नाकाशः एतन्मर्त्य मेतस्थितमेतत्सत् । तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य स्थितस्यैतस्य सत एष रसो यच्चक्षु: । सतो ह्येष रसः ।। ४ ।।
प्र–अथाध्यात्मम् इति । इतः परमध्यात्मं मूर्तामूर्तरसोपासचिन्ताप्रकारो वर्ण्यते इत्यर्थः । अध्यात्मम् – आत्मनि । देह इत्यर्थः । इदमेव– – -आकाश इति। यत् मुख्यप्राणादन्यत्, यश्चान्तरात्मन् शरीरान्तः आकाशः तस्माच्चान्यत्, सर्वमिदं मूर्तीमत्यर्थः । आकाश इत्यत्र तस्माच्च इति शेषः । एतन्मर्त्यं, एतदेव स्थितं, एतदेव सच्च इत्यर्थ:। तस्येतस्य मूर्तस्य इत्यादि । चक्षुर्गोळस्य प्रत्यक्षोपलभ्यत्वेन सद्रसत्वसम्भवात् अनुगल मूर्तत्वमय॑त्वस्थितत्वरूपधर्मचतुष्टयविशिष्टप्राणशरीरान्तराकाशोभयान्यशरीरवर्ति-वस्तुरसत्वबुद्धिः कर्तव्या इत्यर्थः । पदार्थाः पूर्ववत् ।। ४ ।।
[अध्यात्मम् अमूर्तनिरूपणम्]
अथामूर्तं प्राणश्च यश्चायमन्तरात्मन्नाकाशः, एतदमृतमेतद्यदेतत्यत् । तस्यै–तस्यामूर्तस्यैतस्यामृतस्यैतस्य यत एतस्य त्यस्यैष रसो योऽयं दक्षिणोऽक्षन् पुरुषः । त्यस्य ह्येषरसः ।। ५ ।।
प्र– अथामूर्तम् इति । रूपमुच्यत इति शेषः । प्राणश्च….. एतदमृतम् इत्यादि । प्राणहार्दाकाशयोरमूर्तत्वामृतत्त्वयत्त्वत्यत्वाख्यधर्मचतुष्टयवत्वस्य पूर्वोक्तरीत्या सम्भवादमूर्तत्वादि धर्मचतुष्टयाश्रयप्राणहार्दाकाशयोः दक्षिणाक्षिस्थः पुरुषः परमात्मा रसः, तस्यास्मदादिप्रत्यक्षानुपलभ्यत्वेन त्यस्य रसत्वात् । ततश्च दक्षिणाक्षिस्थे परमात्मनि मूर्तत्वादिचतुष्टयविशिष्टप्राणहार्दाकाशरसत्वबुद्धिः कर्तव्या इत्यर्थः । ननु अहिकुण्डलाधिकरणभाष्ये – मूर्तामूर्तस्याचित्प्रपञ्चस्य ब्रह्मणो रूपत्वम्। द्वे वाव ब्रह्मणो रूपे इत्यादिनोपदिश्यते इत्युक्तम् । तत् व्याचक्षाणैर्व्यासार्यै: चिदचिदात्मकप्रपञ्च कथनेन अचित्प्रपञ्चोपि कथितस्स्यादित्यर्थः । न त्वन्ययोगव्यवच्छेदः सङ्गत्युपयोगित्वेन अचित्प्रपञ्चोपादानं कृतमिति भाष्यस्थमचित् प्रपञ्चपदं चित्प्रपञ्चस्याप्युपलक्षकमिति व्याख्यातम् । न चास्मिन् श्रुतिसन्दर्भे चित्प्रपञ्चसमर्पकं किमपि पदं दृश्यते इति चेत् न । वाय्वन्तरिक्षादिशब्दानां चित्संसृष्टाचित्परत्वोपपत्त्या चित्प्रपञ्चस्यापि उपादानसम्भवेन चेतनाचेतन- प्रपञ्चस्य द्वे वाव ब्रह्मणो रूपे इत्यादिना ब्रह्मशरीरत्वप्रतिपादनादिति ध्येयम् ।। ५ ।।
[‘नेति नेति‘ इति ग्रहणम् ‘सत्यस्य सत्यम्‘ इत्येतद्विवरणम्]
तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासो यथा पाण्ड्वाविकं यथेन्द्रगोपो यथाग्न्यर्चिर्यथा पुण्डरीकं यथा सकृद्विद्युत्तम् । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति य एवं वेद अथात आदेशो नेति नेति। न ह्येतस्मादिति नेत्यन्यत् परमस्ति । अथ नामधेयं सत्यस्य सत्यमिति । प्राणा वै सत्यम्। तेषामेष सत्यम् ।। ६ ।।
।। इति चतुर्थाध्याये तृतीयं ब्राह्मणम् ।।
प्र– अथ न केवलं ब्रह्मणो मूर्तामूर्ताख्यचेतनाचेतनशरीरकत्वम् – दिवयतेजो- । विराजमानदिव्यविग्रहोप्यस्ति इत्याह –तस्य हैतस्य पुरुषस्य रूपम् इत्यादिना । यथा माहारजनं वास: कौसुम्भवस्रमिव यथा पाण्ड्वाविकं – पाण्डरवर्णः ‘कम्बळ, इव’ यथेन्द्रगोपः – शक्रगोपक्रिमिरिव, यथाग्नयर्चिः-अग्नेर्ज्वालेव, यथा पुण्डरीकम् – अम्भोजमिव इत्यर्थः । यथा सकृद्विद्युत्तम् । विद्युत्तमिति द्युतेर्निष्ठा ।विद्योतनमिति यावत् । सकृत् – युगपत् प्रवृत्ता विद्युदिव इत्यर्थः । एवंरूपं रूपं तस्यैतस्य-मूर्तामूर्तचिदचिच्छरीरस्य तद्रसत्वेनोपास्यस्य ब्रह्मणः ह– आदित्यवर्णं तमस: परस्तात्, विद्युतः पुरुषात्, हिरण्मयः पुरुषः इत्यादिश्रुत्यन्तरप्रसिद्धं भवति इति पूर्वेणान्ययः । सकृद्विद्युत्तेव ह वा अस्य श्रीर्भवति इति । सकृद्विद्युत्तेव– युगपत्प्रवृत्तविद्युदिव | अस्य श्रीः प्रकाशमाना भवति । य एवं – पूर्वोक्तरीत्या वेद-उपास्ते इत्यर्थः । द्वे वाव ब्रह्मणो रूपे इति मूर्तामूर्तात्मकरूपवत्त्वे ब्रह्मणः कथिते तत्प्रयुक्ते-यत्तालक्षणपरिच्छेदरूपप्रकारवत्वं प्राप्तं प्रतिषेद्धुमुपक्रमते – अथात आदेशो नेति नेति आदेश: – उपदेश इत्यर्थः । क्रियत इति शेषः । अथ – शब्दो वाक्यान्तरोपन्यासार्यः । अतः – पूर्वं ब्रह्मणो मूर्तामूर्तशरीरत्वेन उक्तत्वात् तत्प्रयुक्तेयत्तानिवारणाय अयमुपदेशः क्रियत इत्यर्थः । इति शब्द इयत्तालक्षणप्रकारवचनः । नेति नेति – नैवम् नैवम् इत्यर्थः ।
मूर्तामूर्तात्मकरूपद्वयवत्त्वप्रयुक्तेयत्तालक्षणप्रकारयुक्तो नेत्यर्थः । इयत्तायाः नेति नेतीत वीप्सा आत्यन्तिकाभाव द्योतनार्था । नेति नेतीतीयत्तानिषेध एव – न पूर्वोक्तप्रकारनिषेध इत्यभिप्रायेणाह – न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति । इति नेति इयत्तारहितं यद्ब्रह्म । प्रतिपादितम्, तस्मादेतस्मादन्यद्वस्तु परं न ह्यस्ति । ब्रह्मणोऽन्यत् स्वरूपतो गुणतश्च परं-‘उत्कृष्टं नास्तीत्यर्थः । न त्वन्यमात्रस्यात्र निषेधः । तथा हि सति अन्यत् – परमिति पदद्वयान्यतरवैयर्थ्यापत्तेरिति द्रष्टव्यम् । तदुपपादयति – अथ नामधेयं सत्यस्य सत्यं प्राणा वै सत्यं प्राणा वै सत्यं तेषामेष सत्यम् इति । प्रकृतिवत् स्वरूपविकाररहिततया सत्यशब्दवाच्येभ्यः प्राणशब्दनिर्दिष्टेभ्य चेतनेभ्योऽपि कदाचिदपि ज्ञानादिसङ्कोचाभावात् परमात्मा सत्यं – निर्विकारमित्यतः तस्य सत्यस्य सत्यमिति नामधेयं भवति । अतः चेतनाचेतनाभ्यां परः स एवेति न ततोऽप्यन्यः पर इत्यर्थः ।
ननु द्वे वाव ब्रह्मणो रूपे इति पूर्वमुपदिष्टस्य मूर्तामूर्तात्मकरूपस्य, तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासः इति सन्दर्भेण उपदिष्टस्य वा रूपस्य अथात आदेशो नेति नेति इत्यनेन निषेधः किं न स्यादिति चेत् – न, तथा सति रूपिणोपि ब्रह्मणः प्रतिषेधः प्राप्नोति । ननु तथा सति मानान्तराप्राप्तब्रह्मस्वरूपप्रतिपादकशास्त्राप्रामाण्यप्रसङ्गात् तन्निषेधो नोपपद्यते इति चेन्न – द्वे वाव ब्रह्मणो रूपे इति ब्रह्मणो मानान्तराप्राप्त-मूर्तामूर्तात्मकरूपद्वयवत्त्वप्रतिपादकशास्त्रस्याप्यप्रामाण्यप्रसङ्गसाम्यात् । न चोपासनार्थ तदुपदेशसाफल्यमिति वाच्यम् । ब्रह्मस्वरूपेऽपि तथात्वप्रसङ्गात् । अत: नेति नेति इत्यनेन इयत्तैव निषिध्यते । इदं वाक्यम् उभयलिङ्गपादे प्रकृतैतावत्वम् (ब्र.सू.३-२-२१) इति ‘सूत्रे’ चिन्तितम् । तत्र हि संसारिजीवस्येव ब्रह्मणोऽपि मनुष्यादिदेहान्तरवस्थित्या तत्प्रयुक्तसुखदुःखभोक्तृत्वमपि प्रसजेत् ।
यद्यपि परमात्मनो देहान्तरावस्थितिप्रयुक्तभोक्तृत्वम् आशङ्क्य परितो दह्यमानगृहान्तर्वतित्वे देवदत्तयज्ञदत्तयोरविशिष्टेऽपि तत्स्वामिनस्तदभिमानिनो देवदत्तस्येव यज्ञदत्तस्य तत्कृतदुःखादर्शनवत् देहान्तर्वर्तित्वे जीवपरयोरविशिष्टेऽपि तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन् अन्योऽभिचाकशीति (मुं.उ.३-१-१) इति श्रुत्यनुसारेण देहाभिमानि जीववत् न परस्य भोक्तृत्वमिति सम्भोगप्राप्तिरिति चेन्न वैशेष्यात् (ब्र.सू.१-२-८) इति सूत्रे स्थितम् । तथा स्मृतिपादेपि सर्वस्यापि परमात्मशरीरतया शरीरं प्रति स्वामित्वमपि परमात्मनोऽस्तीति मनुष्यादिशरीरस्वामिनः तदन्तर्वर्तिनः परमात्मनो भोक्तृत्वमवर्जनीयमिति जीवेश्वरस्वभावाविभाग इति पूर्वपक्षं प्रापय्य शरीरस्वामित्वेपि तदन्तर्वतित्वेति नित्याविर्भूतापहत-पाप्मत्वादिगुणकस्य परमात्मनो न भोक्तृत्वप्रसङ्गः । यथा लोके राजशासनानुवर्तिनां तदतिवर्तिनां च राजानुग्रहनिग्रहकृतसुखदुःखयोगेपि न राज्ञि तत्प्रसक्तिः । एवं न परमात्मनि शात्सरि भोक्तृत्वप्रसक्तिरिति भोक्त्रापत्तेरविभागश्चेत्स्यालोकवत् (ब्र.सू.२-१-१४) इत्यधिकरणे स्थितम् ।।
तथापि शासकस्यापि राज्ञः स्वेच्छयापि पूयशोणितादिकर्दमिते कारागृहेय सतो दुःखसम्बन्धापरिहारवत् परमात्मनोपि स्वेच्छया हेयेषु मनुष्यादिशरीरेषु वसतो दुःखसम्बन्धोऽपरिहार्यः । ब्राह्मणादिशरीरस्वामित्वाच्च, ब्राह्मणादिशब्दवाच्यत्वावश्यम्भावेन ब्राह्मणो यजेत इत्यादि विधिकिङ्करत्वावश्यंभावेन कर्मवश्यत्वादेरप्यवश्यम्भावात् इति पूर्वपक्षे प्राप्ते – न स्थानतोपि परस्योभयलिङ्गं सर्वत्र हि (ब्र.सू.३-२-११) मनुष्यादि-देहस्थानप्रयुक्तं भोक्तृत्वं परस्य न सम्भवति । अपहतपाप्म विजरो विमृत्युर्विशोको विजिधित्सोऽपिपासः सत्यकामः सत्यसङ्कल्पः (छां.उ.८-१-५) इति श्रुत्या सर्वत्र हि विद्यमानं परं ब्रह्म हेयप्रत्यनीकत्वकल्याणैकतानत्वरूपोभयलिङ्गयुक्तमेव भवति । अतो न भोक्तृत्वप्रसङ्गः । भेदादिति चेन्न प्रत्येकमतद्वचनात् (ब्र.सू.३-२-१२) यथा जीवस्य अपहतपाप्मत्वादिगुणाष्टकयुक्तस्यापि मनुष्यादि देहयोगरूपावस्थाभेदाभ्दोक्तृत्वम् – एवं परमात्मनोऽपि किं न स्यादिति चेन्न – स त आत्मान्तर्याम्यमृत इति । अन्तर्यामिण: परस्य ब्रह्मणो नित्याविर्भूतगुणाष्टकत्वलक्षणामृतत्वं श्रूयते – अतो न जीवसाम्यम् । अपि चैवमेके (ब्र.सू.३-२-१३) अपि च एके शाखिनः तयोरन्यः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभि-चाकशीति (मुं.उ.३-१-१, श्वे.उ.४-६) इति जीवपरयोर्भोक्तृत्वलक्षणं वैषम्यमधीयते । अरूपवदेव हि तत्प्रधानत्वात् (ब्र.सू.३-२-१४) सर्वशरीर्यपि ब्रह्म अरूपवदेव – अशरीरि-तुल्यमेव । आकाशो ह वै नामरूपयोनिर्वहिता ते यदन्तरेति (छा.उ.८-१४-१), नामरूपकार्यास्पृष्टतत्वे सति नामरूपनिर्वोढृत्वस्य प्रतिपादनेन मनुष्यादिनामरूप-सम्बन्धकृतकार्यस्य तत्राप्रसक्तेः । अत: सर्वत्र विद्यमानमपि ब्रह्म उभयलिङ्गमेव ।
ननु ब्रह्मणः कल्याणगुणा न सन्ति – अथात आदेशो नेति नेति इति प्रतिषेधादिति चेत् – तत्राह प्रकाशवच्चावैयर्थ्यात् (ब्र.सू.३-२-१५)। यथा सत्यं ज्ञानमनन्तं ब्रह्म (तै.आन.२-१) इति श्रुत्यवैय्यर्थ्याय ज्ञानादिरूपत्वमभ्युपगम्यते । एवं सत्यकामस्सत्यसङ्कल्प इत्यादि श्रुत्यवैयर्थ्याय कल्याणगुणगणोप्यभ्युपगन्तव्यः । ननु सत्यं ज्ञानमिति ज्ञानस्वरूपत्व प्रतिपादनादेव ज्ञानस्य गुणाश्रयत्वासम्भवात् अर्थात् ‘गुणा’ निषिद्धा इति चेत् तत्राह – आह च तन्मात्रम् (ब्र.सू.३-२-१६) सत्यं ज्ञानमिति श्रुति: ब्रह्मणो ‘ज्ञानरूपतामात्रं प्रतिपादयति न गुणाश्रयतां प्रतिषेधति । तेजोरूपस्य ‘सूर्यस्य’ प्रभारूपतेजोन्तराश्रयत्ववत् ज्ञानरूपस्यापि ब्रह्मणः सार्वज़्याद्याश्रयत्वमुपपद्यते । दर्शयति चाथो अपि स्मर्यते (ब्र.सू.३-२-१७) दर्शयति च वेदान्तगणः निष्कलं निष्क्रियं शान्तं निरवद्यं निरञ्जनम् (श्वे.उ.६-१९) परास्य शक्ति: विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च । (श्वे.उ.६-८) इति ब्रह्मण उभयलिङ्गत्वम् । स्मर्यते च यो मामजमनादिं च वेत्ति लोकमहेश्वरम् । (भ.गी.१०-३) इत्यादिभिः ।
अत एव च उपमा सूर्यकादिवत् (ब्र.सू.३-२-१८) । यत एवं तत्तत्स्थानस्थितस्यापि तद्दोषास्पृष्टत्वम् अत एव, आकाशमेकं हि यथा घटादिषु पृथग्भवेत् । तथात्मैकोऽप्यनेकस्थो जलाधारेष्विवांशुमान् ।। एक एव हि भूतात्मा भूते भूते व्यवस्थितः । (याज्ञ.स्मृ.३-१४४) एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। (ब्र.उ.१-२) इति जलगतसूर्यप्रतिबिम्बादिवदिति दृष्टान्तो युज्यते-अम्बुवदग्रहणात्तु न तथात्वम् (ब्र.सू.३-२-१९) । तु शब्दः चोद्यं द्योतयति । अम्बुवदिति सप्तम्यन्ताद्वतिः । परमात्मनः न तथात्वम् – सूर्यप्रतिबिम्बादिसाम्यं न सम्भवतीत्यर्थः । कुतः? अम्बुवदग्रहणात् -अम्बुनि यथा प्रतिबिम्बो गृह्यते – न तथा हि परमात्मा गृह्यते । तत्र हि अजलस्थमेव प्रतिबिम्बं जलस्थमिव गृह्यते । अतः तत्र तद्गतदोषासंस्पर्शो युज्यते । प्रकृते च विकारान्तर्वर्तिनि ब्रह्मणि तद्गतदोषासंस्पर्शो न युज्यते वक्तुम् । वृद्धिह्रासभाक्त्व-मन्तर्भावादुभयसामञ्जस्यादेवं दर्शनाच्च । (ब्र.सू.३-२-२०) विकारान्तर्भावप्रयुक्तविकारगत-वृद्धिह्रासादि भाक्त्वलक्षणो यो दोषः स नापतति तद्गततया प्रतीयमानस्यापि तद्गतदोषास्पृष्टत्वांशे आकाशसूर्यरूपदृष्टान्तद्वयसामञ्जस्य सम्भवात् । सिंह इव माणवक: इत्यादौ विवक्षित कार्यांश एव दृष्टान्तत्वदर्शनाच्च न सर्वथा साम्यं दृष्टान्तदान्तिकयोः अपेक्षितमिति भावः ।।
ननु द्वे वाव ब्रह्मणो रूपे इति प्रकृतस्य मूर्तामूर्तात्मकप्रपञ्चस्य, यथा माहारजनं वास: इत्यादिनोपक्षिप्तस्य आकारविशेषस्य च, अथात आदेशो नेति नेति इति प्रतिषेधात् निर्विशेषमेव ब्रह्म । अतो नोभयलिङ्गत्वमिति । तत्राह प्रकृतैतावत्वं हि प्रतिषेधति ततो ब्रवीति च भूयः (ब्र.सू.३-२-२१) । प्रकृतैः द्वे वाव ब्रह्मणो रूपे इत्यादिना प्रतिपादितैः रूपैः ब्रह्मणो यदेतावत्त्वम् परिच्छिन्नत्वलक्षणो यः प्रकारः, तं इति शब्देन परामृश्य नेतिनेति इति निषेधति, न तु स्वरूपेण ब्रह्म – सम्बन्धिरूपं निषेधति । न हि श्रुतिः स्वयमेव मानान्तराप्राप्तं मूर्तामूर्तात्मकप्रपञ्चरूपत्वं ब्रह्मणः प्रतिपाद्य स्वयमेव निषेधति इति युज्यते वक्तुम् । ‘प्रक्षालनाद्धि पङ्कस्य दूरादस्पर्शनं वरम् इति न्यायात् ।अत एव निषेधानन्तरमपि ब्रह्मणो भूयो गुणनातं ‘ब्रवीति श्रुति:। न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति स्वरूपतो गुणतश्च सर्वोत्कृष्टत्वं प्रतिपाद्यते । अथ नामधेयं सत्यस्य सत्यम सत्यम् इति नामधेयरूपगुणवत्ता च प्रतिपाद्यते । अतः नेति नेति इति प्रकृतैतावत्त्वमात्रस्य निषेध:।
तदव्यक्तमाह मि (ब्र.सू,३-२-२२) । तत् – ब्रहा अव्यक्तम् मानतरागम्यमिति श्रुतिराह- म चक्षुषा ग्रह्यते नापि वाचा (मुं.उ,३-१.८) इति । ततश्च मानान्तरागम्यस्य श्रुत्येकसमधिगम्यस्य ब्रहारवरूपस्य बा, मूर्तामूर्तात्मकप्रपञ्चशरीरकत्वस्य वा न निषेधो युक्तः। अपि संराधने प्रत्यक्षानुमानाभ्याम् (ब्र.सू,३-२-२३) । संराधनं सम्यक्प्रीणनम् । भक्तिरूपापन्ननिदिध्यासनम् । तस्मिन् सत्येव साक्षात्कारः, नान्यथा इति, ततस्तु तं पश्यते निष्कळं ध्यायमानः । (मुं.उ,३-१-८) माह वेदैर्न तपसा न दानेन न चेज्यया । (भ.गी.११.५३) भक्त्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।। (भ.गी.११.५४) इति श्रुतिस्मृतिभ्यामवगम्यते । प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् (ब्र.सू.३-२-२४) । निदिध्यासनजन्यसाक्षात्कारदशायां च ‘ब्रह्मस्वरूपं भूतानन्दज्ञानादितुल्यतया अहंमनुरभवं सूर्यश्च (ऋ.सं. ४-२६-१) इति ब्रह्मशरीरभूतमनुसूर्यादिप्रपञ्चस्यापि तत्त्वविद्भिर्वामदेवादिभिः साक्षात्क्रियमाणत्वात् ब्रह्मस्वरूपवत्तच्छरीरभूतमूर्तामूर्तात्मक-प्रपञ्चस्याप्यबाधितत्वं सिद्धम् । ब्रह्मस्वरूपप्रकाशश्च ‘कथं भवति इत्याकाङ्क्षायामाह- प्रकाशश्च कर्मण्यभ्यासादिति । संराधनात्मके ध्यानरूपे कर्मण्यभ्यासात् प्रकाशो भवति ध्याननिर्मथनाभ्यासात् देवं पश्येन्निगूढवत् (श्वे,उ.१-१४) इति श्रुत्युक्तरिति भाव:। अतोऽनन्तेन तथा हि लिङ्गम् (ब्र.सू.३-२-२५) । अत: उक्तहेतुभिः अनन्तेन कल्याणगुणेन विशिष्टं ब्रह्म । तथा हि सत्येव उभयलिङ्गं ब्रह्म उपपन्नं भवतीत्यर्थः । इति तत्र स्थितम् । न ह्येतस्मादिति नेत्यन्यत्परमस्ति इति वाक्यं तत्रैव पादे तथान्यप्रतिषंधात् (ब्र.सू.३-२.३५) इति सूत्रे चिन्तितम् । तत्र हि उक्तात् परब्रह्मणोपि पर किञ्चिदस्ति य आत्मा स सेतुर्विधृति (छां.उ.८-४-१) इति सेतुत्वश्रवणात् । सेतुर्हि कूलान्तरप्रापक:। एवमस्यापि परस्य ब्रह्मणः प्राप्यान्तर प्रापकत्वमभ्युपगन्तव्यम् । किञ्च, चतुष्पाद्ब्रह्म (छां.उ.३-१८-२) षोडशकलमिति ‘एतस्य ब्रह्मणः’ परिच्छिन्नत्वावगमात् अपरिच्छिन्नं मुख्यं ब्रह्मेतोजगत्कारणात् अन्यदिति निश्चीयते । तथा, अमृतस्यैष सेतुः (मुं.उ.२-२-५) इति प्राप्येणामृतेन सम्बन्धो व्यपदिश्यते । तथा परात्परं पुरुषमुपैति दिव्यम् (मुं.उ.३-२-८) इति परस्माद्ब्रह्मणः प्राप्यस्य भेदो व्यपदिश्यते । अत: परब्रह्मणोपि अन्यत्प्राप्यान्तरमस्तीति परमतःसेतून्मानसम्बन्धभेदव्यपदेशेभ्यः (ब्र.सू.३-२-३०) इति सूत्रेण पूर्वपक्षं ‘प्रापय्य’ उत्तरं पठति –
सामान्यात्तु (ब्र.सू.३-२-३१) तु शब्दः पक्षं व्यावर्तयति । असङ्करकारित्व-लक्षणसेतुसामान्यात् सेतुरिति ब्रह्मोच्यते । एष सेतुर्विधरण एषां लोकानामसम्भेदाय (बृ.उ.६-४-२२) इति श्रुतेः । प्रसिद्धो हि सेतुः पार्श्वद्वयवर्तिजलासङ्करकारीति भावः । बुद्ध्यर्थः पादवत् (ब्र.सू.३-२-३२)। चतुष्पाद्ब्रह्म इत्युन्मानव्यपदेशो बुद्ध्यर्थः, उपासनार्थः । यथा ब्रह्मप्रतीकभूते मनसि वाक्पादः प्राणः पादः इति व्यपदेशो उपासनार्थः, तद्वत् । न हि मनसो वागादि पादवत्वं वास्तवं सम्भवति । स्थानविशेषात्प्रकाशादिवत् (ब्र.सू.३-२-३३)। यथा आलोकाकाशादेः वातायनघटादिस्थानभेदात् परिच्छिन्नतया अनुसन्धानम्, एवमनुन्मितस्यापि ब्रह्मण उन्मितत्वमुपपद्यत इति भावः । उपपत्तेश्च (ब्र.सू.३-२-३४) । यमेवैष वृणुते तेन लभ्य: (मुं. उ. ३-२-३) इति स्वप्राप्तेस्स्वयमेव साधनतया जोघुष्यमाणे ब्रह्मणि, अमृतस्यैष सेतुरिति श्रुतस्य प्राप्यप्रापकभावसम्बन्धस्य उपपत्तेरित्यर्थः । तथान्यप्रतिषेधात् (ब्र.सू.३-२-३५) । यदुक्तम् परात्परमिति पर भेदो व्यपदिश्यत इति तन्न। न ह्येतस्मादिति नेत्यन्यत्परमस्तीति इति नेतिशब्दनिर्दिष्टात् एतस्माद्ब्रह्मणो अन्यत्परं नास्तीत्यन्यस्य परस्य प्रतिषेधात् । परात्परं पुरुषम् इति श्रुतिस्तु अक्षरात्परतः परः (मुं.उ.२-१-२) इति अक्षरापेक्षया परस्मात्समष्टिजीवात् परम् अदृश्यत्वादिगुणकं प्रकृतं भूतयोन्यक्षरपुरुषमेव प्रतिपादयतीत्यर्थः । अनेन सर्वगतत्वमायामशब्दादिभ्यः (ब्र.सू.३-२-३६) अनेन ब्रह्मणा सर्वस्य जगतो गतत्वं – व्याप्तत्वम्, तेनेदं पूर्णं पुरुषेण सर्वं (श्वे.उ.३-९) अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थित: (तै.ना.११) नित्यं विभुं सर्वगतं सुसूक्ष्मम् (मु.उ.१-१-६) इत्यादिभिरायामवाचिशब्दादियुक्तैः प्रमाणैरवगम्यते । अत इदमेव परं ब्रह्म सर्वस्मात्परमिति स्थितम् । प्रकृतमनुसरामः ।। ६ ।।
।। इति चतुर्थाध्याये तृतीयब्राह्मण प्रकाशिका ।।
चतुर्थाध्याये चतुर्थं ब्राह्मणम्
।। प्रथम मैत्रीयी ब्राह्मणम् ।।
[ याज्ञवल्क्यमैत्रेयी संवादः]
मैत्रेयीति होवाच याज्ञवल्क्यः, उद्यास्यन् वा अरेऽहमस्मात् स्थानादस्मि हन्त तेऽनया कात्यायन्यान्तं करवाणीति ।। १ ।।
प्र.– अमृतत्व-प्राप्त्युपायत्व-सर्वजगत्कारणत्व-सर्वात्मत्वादिकल्यणगुण प्रतिपिपादयिषया ‘चतुर्थं ब्राह्मणमिद मारभ्यते – मैत्रेयीति होवाच याज्ञवल्क्य इति याज्ञवल्क्यस्य मुनेः द्वे भार्ये स्त: । मैत्रेयी-कात्यायनी चेति । मित्राया अपत्यं मैत्रेयी तां मैत्रेयी इत्यामान्त्र्याऽऽह याज्ञवल्क्य इत्यर्थः । किमिति इत्यत्राह – उद्दास्यन् वा….करवाणीति इति । अरे मैत्रेयि! अहमस्मात्स्थानात् – गार्हस्थ्यलक्षणादाश्रमात् उद्दास्यन्नस्मि – ऊर्ध्वं गन्तुमिच्छन्नस्मि । हन्त – इत्यनुकम्पायाम् । ते – तव अनया कात्यायन्या सह अन्तं – निश्चयम् युवयो: ‘कलहशान्तये द्रव्यविभागनिर्णयं करवाणि इत्युवाचेत्यन्वयः ।। १।।
[अमृतत्वसाधननिरूपणम्]
सा होवाच मैत्रेयी यन्नु म इयं भगोः सर्वा पृथिवी वित्तेन पूर्णा स्यात् कथं तेनामृता स्यां इति । नेति होवाच याज्ञवल्क्यः; यथैव उपकरणवतां जीवितम्, तथैव ते जीवितम् स्यात्। अमृतत्वस्य तु नाशाऽस्ति वित्तेनेति ।। २ ।।
प्र–सा होवाच मैत्रेयी इति । सा मैत्रेयी तं मुनिं प्रत्याह इत्यर्थः । किमिति? यन्नु म इयं ……तेनामृता स्यामिति इति । हे भगोः सम्बुद्धौ विभाषा भवद्भगवदघवतामोच्चावस्य इति ओत्वं, रुत्वम्, विसर्गश्च – हे भगवन् ! सर्वापि इयं पृथिवी वित्तेन पूर्णा यत् – यदि मे – मम स्यात् वशंवदा स्यादित्यर्थः । तदा तेन वित्तेन कथं – कथञ्चित् अपि अमृत स्यां नु? संसारान्मुक्ता स्यां किमित्यर्थः । नु इति प्रश्ने । नेति होवाच याज्ञवल्क्य: इत्यादि । स: याज्ञवल्क्य: नेत्युवाच ह । वित्तेन त्वं संसारान्मुक्ता न स्याः इति ह निश्चतमाह इत्यर्थः । तर्हि वित्तेन किं स्यादित्यत्राह – यथैवोपकरणवतां जीवितं तथैव ते जीवितं स्यात् इति । उपकरणवतां – भोगसाधनवतां जीवितं – सुखजीवनं यथा सिद्ध्यति, तथैव ते भोगोपकरणवित्तवत्त्याः जीवितं – सुखेन जीवनं परं ‘लभ्यते इत्यर्थः । यथा वित्तेन ऐहिकसुखं, तथा मोक्षसुखमपि किं न लप्स्यत इति पृच्छन्तीं पुनः प्रत्याह – अमृतत्वस्य तु इति । तु शब्दो मोक्षस्य, नान्यः पन्थाः इत्यादि श्रुतिसिद्धं ज्ञानैकसाध्यत्वमाह। अमृतत्वस्य – मोक्षस्य वित्तेन साधनेन प्राप्यत्वाशाऽपि नास्तीत्यर्थ: । मोक्षस्य वित्तप्राप्यत्वसम्भावनाऽपि नास्तीति यावत् ।। २ ।।
[मैत्रय्या अमृतत्वसाधनविद्याप्रार्थनम्]
सा होवाच मैत्रेयी येनाहं नामृता स्यां किमहं तेन कुर्यां यदेव भगवान् वेद मे ब्रूहीति ।। ३ ।।
प्र. – सा…..ब्रूहीति इति । सा मैत्रेयी प्रत्युवाच । ह! अहो स्त्रिया वित्तत्यागेन मोक्षसाधनापेक्षेति भावः । किमिति? मम अमृतत्वप्राप्त्यनुपायभूतेन वित्तेनाहं किं करिष्यामीति । तर्हि किं तव अपेक्षितम् ? तत्राह – यदेव इति । भगवान् यत् अमृतत्वप्राप्युपायं वेद, तदेव मे ब्रूहि इत्यर्थः ।। ३ ।।
[याज्ञवल्क्येन उपदेशप्रतिज्ञा]
स होवाच याज्ञवल्क्यः प्रिया बतारे नः सती प्रियं भाषसे एह्यास्स्व व्याख्यास्यामि ते व्याचक्षाणस्य तु मे निदिध्यासस्वेति ।। ४ ।।
प्र– स होवाच……भाषसे इत्यादि । एवमुक्तो याज्ञवल्क्यः तां प्रत्युवाच । किमिति इत्यत्राह – प्रिया इति । बत इत्यनुकम्पायाम् । अरे मैत्रेयि ! त्वं सती – साध्वी च सती, नः – अस्माकं प्रिया – अनुकूला च सती, प्रियं – मनोनुकूलं वाक्यं भाषसे इति तां प्रशंस्य अत्यादरेणाह – एह्यास्व इति । एहि – इह आगच्छ आस्स्व – मत्समीपे उपविश इति । सभक्ति साध्वसां तां समीपोपवेशने अनुज्ञायाह – व्याख्यास्यामि इति । ते – अमृतत्वोपायं तवापेक्षितं व्याख्यास्यामि – वक्ष्यामि । किन्तु व्याचक्षाणस्य व्याख्यानं कुर्वत: मे – मम वाक्यानि निदिध्यासस्व – अर्थतो निश्चयेन ध्यातुमिच्छ । यदा – व्याचक्षाणस्य तु मे सुखं निदिध्यासस्व – निध्यानमवलोकनम् – अवलोकितुमिच्छ । अवलोकय इति यावत् । इति शब्दो वाक्यावसाने । एवमुक्ता मैत्रेयी सावधाना सती स्वस्य श्रवणावधानं ज्ञापयितुमाह – ब्रवीतु मे भगवानिति इति । स्पष्टोऽर्थः ।। ४ ।।
[ब्रह्मविद्योपदेशः]
स होवाच – न वा अरे पत्युः कामाय पतिः प्रियो भवति । आत्मनस्तु कामाय पतिः प्रियो भवति । न वा अरे जायायै कामाय जाया प्रिया भवति । आत्मनस्तु कामाय जाया प्रिया भवति । न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति । आत्मनस्तु कामाय पुत्राः प्रिया भवन्ति । न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति । आत्मनस्तु कामाय वित्तं प्रियं भवति । न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति । आत्मनस्तु कामाय ब्रह्म प्रियं भवति । न वा अरे क्षत्रस्य कामाय क्षत्रं प्रियं भवति । आत्मनस्तु कामाय क्षत्रं प्रियं भवति । न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति । आत्मनस्तु कामाय लोका: प्रिया भवन्ति । न वा अरे देवानां कामाय देवाः प्रिया भवन्ति । आत्मनस्तु कामाय देवाः प्रिया भवन्ति । न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति आत्मनस्तु कामाय भूतानि प्रियाणि भवन्ति । न वा अरे सर्वस्य कामाय सर्वं प्रियं भवति । आत्मनस्तु कामाय सर्वं प्रियं भवति ।
आत्मा वा अरे द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः मैत्रेयि! आत्मनो वा अरे दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितं भवति ।। ५ ।।
प्र. – एवमुपसन्नायै मैत्रेय्यै याज्ञवल्क्यो मोक्षोपायं ब्रह्मोपासनमुपदेष्टुमारभे इत्याह स होवाच इति । किमिति न वा . . . . . प्रियो भवति इत्यादि । अत्र अमृतत्वार्थिन्यै मैत्रेय्यै अमृतत्वसाधनदर्शनविषयतया, आत्मैव द्रष्टव्य इत्युपदिश्यमान आत्मा परमात्मा इत्यवश्यमभ्युपेयः । तमेवं विद्वानमृत इह भवति, नान्य पन्था अयनाथ विद्यते (पु.सू. १७) इति तस्यैय ‘परमात्मदर्शनस्य मोक्षसाचनत्वावगमात् ब्रह्म त्वं पादात् इत्यादिना तस्यात्मनः सर्वात्मकत्वकथनात् , आत्मनो वा दर्शनेन इत्यादिना तज्ज्ञानेन सार्वज्ञ्यावेदनेन सर्वोपादानत्वप्रतिपादनाच्च अस्मिन् प्रकरणे द्रष्टव्यतया उपदिश्यमान आत्मा परमात्मा इति सिद्धम् । अतः तदुपामादकस्यास्य सदर्भस्य यथा परमात्मपरत्वं स्यात्- तथा अर्थो वार्णनीय इति च सिद्धम् । अतोऽस्य वाक्यस्यायमर्थः । न वा इत्यत्र वैशब्दोऽवधारणेनैव इत्यर्थः। पत्युः कामाय – कामः सङ्कल्पः, कामाय-सङ्कल्पाय, सङ्कल्पं सफली कर्तुमित्यर्थः। क्रियार्थोपपदस्य च कर्मणि स्थानिनः (पा.सू.२-३-१४) इति चतुर्था । तथा च अरे ! है मैत्रेयि पत्युः प्रियत्वम्, अहमस्याः प्रियस्यामिति पति-सङ्कल्पसाफल्याय नैव भवतीति न वा अरे पत्युः कामाय पतिः प्रियो भवति। इत्यस्यार्थः । जायां प्रति पत्युः प्रियत्वं पतिसङ्कल्यायत्तं न भवतीति यावत् । वेदाध्ययनं सफलीकर्तुं यज्ञः इत्युक्ते वेदाध्ययनस्य यज्ञः फलमिति हि सिद्धति । एवं सङ्कल्पसाफल्याय प्रियवमित्युक्ते सङ्कल्यायत्तं प्रियवमिति हि सिद्ध्यति । ततश्च अहमस्या जायायाः प्रिय: स्याम् इति पतिः सङ्कल्पयन्नपि न स तस्याः प्रियो भवति । किन्त्वात्मनः कामाय पतिः – पत्न्या: प्रियो भवति । पत्युः प्रियत्वमात्मनः कामाय । परमात्मन: सङ्कल्पात् पतिः पत्न्या: प्रियो भवति इत्यर्थः । आत्मशब्दस्य परमात्मनि मुख्यवृत्तत्वात् अत्रापि आत्मेति परमात्मैव उच्यते, प्रकरणावैरूप्याच्च । ततश्च परमात्मा यो यस्य प्रियः भवत्विति तत्तकर्मानुगुणं सङ्कल्पयति । स तस्य प्रियो भवतीति वाक्यार्थ: । अत्रापि कामाय इत्यत्रापि पूर्ववच्चतुर्थी । एवमुत्तरत्रापि वाक्यानामार्थो द्रष्टव्यः । ब्रह्म – ब्राह्मण इत्यर्थः । क्षत्रं – क्षत्रिय इत्यर्थः । लोकाः – स्वर्गाद्या इत्यर्थ:।
देवाः – उपास्या देवता इत्यर्थः । ततः किमित्यत्राह – आत्मा वा अरे द्रष्टव्यो श्रोतब्यो मन्तव्यो निदिध्यासितव्य इति । ‘तस्मात् पतिजायादीनां प्रियचं यत्सङ्कल्यायत्तम् – तस्य परमात्मनः प्रसादाय परमात्मा द्रष्टव्यः । स हि परमात्मादर्शनेन प्रसत्रस्सन् तद्दर्शनरूपब्रह्मविद्ययैव पतिजायादिषु तत्तत्प्रतिनियतप्रियत्वापादकपुण्यापुण्यात्मकभगवत्सङ्कल्पोपरमे कर्मप्रतिबन्धनिवृत्तेः स्वोपासकाय निरङ्कुशस्वातन्त्र्येण सर्वेषामपि वस्तूनां पतिजायादिवत् , ततोऽधिकं वा प्रियत्त्वमापादयितुंं शक्नोति। मोक्षदशायामानुकूल्यप्रातिकूल्यविभागविरहितं सर्वशरीरकं सविभूतिकं ब्रह्मानन्दरूपं तत्प्रसादादेव तदुपासकोऽनुभवतीति तत्प्रसादसिद्ध्यर्थं स एव परमात्मोपास्य इति फलितार्थः। न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्वं ह पश्यः पश्यति सर्वमाप्नोति सर्वश: (छां.उ-७-२६-२) इति श्रवणादिति भावः । अत्र स्वाध्यायस्यार्थपरत्वेन अधीतवेदः पुरुषः प्रयोजनवदर्थदर्शनात् तन्निर्णयाय स्वयमेव गुरुमुखात् न्याययुक्तार्थग्रहणलक्षणश्रवणे प्रवर्तत इति श्रवणस्य प्राप्तत्वात् श्रोतव्य इत्यनुवादः । स्वात्मन्येवमेवेति युक्तिभिः ज्ञातार्थप्रतिष्ठापनलक्षणमननस्य श्रवणप्रतिष्ठार्थतया प्राप्तत्वात् मन्तव्य इति चानुवादः । अतोऽनवरतभावनारूपं ध्यानमेव निदिध्यासितव्य इति विधीयते । उपायदशाप्रभृतिभगवद्ध्यानस्यानुकूलत्वसूचनाय निदिध्यासितव्य इति सन्नन्तपदेन निर्देशः ।
अत्र- स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः (छां.उ.७-२६-२) इति ध्यानस्यैव मोक्षं प्रति अव्यवहितहेतुत्वश्रवणात् । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मुं.उ.२-२-८) इति दर्शनस्यापि मोक्षाव्यवहित’कारणत्वश्रवणात्’ उभयोः एकार्थत्वस्य वक्तव्यत्वात्, चाक्षुषज्ञानवाचितया दृशिधातोः, चक्षुषज्ञानस्य च न चक्षुषा गृह्यत (मुं.उ.३-१-८) इत्यचाक्षुषतया प्रतिपन्ने ब्रह्मणि विधातुमसम्भवात्, द्रष्टव्य इति दर्शनशब्देन उपचारात् दर्शनसमानाकारमिति विशदंज्ञानम् अभिधीयते । ततश्च द्रष्टव्यो, निदिध्यासितव्यः इत्याभ्यां दर्शनसमानाकारत्वविशिष्टं ध्यानं विधीयते । आर्षेयं वृणीते एकं वृणीते द्वौ वृणीते, त्रीन् वृणीते, न चतुरो वृणीते, न पञ्चाति वृणीते इत्यत्रार्षेयं वृणीते त्रीन् वृणीते इत्याभ्यां त्रित्वविशिष्टार्षेयवरणविधानवत् इति द्रष्टव्यम् ।
एवं विहितस्य दर्शनसमानाकारत्वविशिष्टविशदतमनिध्यानस्य किं फलम् इत्यत्राह –मैत्रेय्यात्मना…….विदितं भवति इति । अत्र वाक्ये विज्ञानशब्दो निदिध्यासनपरः; आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति स्थानप्रमाणात् । वैशब्दोऽवधारणे। तथा च तस्मिन् परमात्मनि श्रवणमननाभ्यां दर्शनसमानाकारध्यान-विषयीकृते सत्येव तत्प्रसादादिदं सर्वं विदितं भवति । अनुकूलत्वेन विदितं भवति ।
सर्वं प्रियं भवति इति यावत् । आत्मनो दर्शनात्मकविज्ञानेनैव सविभूतिकनिरतिशयप्रिय-ब्रह्मप्राप्तिर्भवति । नान्येन वित्तादिनेति वाक्यार्थः । यद्वा – निदिध्यासितव्यतया निर्दिष्टस्य परमात्मन: जगत्कारणत्वे सत्येव ध्येयत्वसिद्धिस्स्यात् । कारणं तु ध्येय: (अथर्व.शि.३-१) इत्यवधारणात् । अत: तस्य जगत्कारणत्वं लक्षणमाह – आत्मनो वा इत्यादिना ।
उपादानोपादेयोः अभेदात् तस्मिन् आत्मनि ज्ञाते सर्वं विदितं भवति इत्यर्थः । श्रवणमति-विज्ञानदर्शनानि ज्ञानावस्थाविशेषाः । अत्र सर्वमिदं इति शब्दौ स्थूलावस्थाचिद-चिद्विशिष्टब्रह्मपरौ । सर्वशरीरकस्य ब्रह्मण एव चराचरव्यपाश्रयसकलशब्दवाच्यत्वस्य चराचरव्यपाश्रयस्तु स्यात् (ब्र.सू.२-३-१७) इत्यत्र समर्थितत्वात् । आत्मशब्दोपि सूक्ष्मचिदचिद्विशिष्टब्रह्मपरः; तस्य शरीरप्रतिसम्बन्धिनिरूढत्वात्, सामर्थ्यात् सूक्ष्मचिदचितोः शरीरत्वेन प्रवेशात् । अत: तयोरात्मसर्वपदार्थयोः अभेदात् आत्मविज्ञानेन सर्वं विज्ञातमित्युप-पद्यते । अनेन जगदुपादानत्वमुक्तं भवति । अत्र निदिध्यासितव्य इत्युक्त्वा सर्वोपादनत्व-कथनात् जगत्कारणत्वं सकलपरविद्यानुयायीत्युक्तं भवतीति वदन्ति ।। ५ ।।
ब्रह्म तं परादाद्योऽन्यत्रात्मनो ब्रह्म वेद । क्षत्रं तं परादाद्योऽन्यत्रात्मनः क्षत्रं वेद । लोकास्तं परादुर्योऽन्यत्रात्मनो लोकान् वेद। देवास्ते परादुर्योऽन्यत्रात्मनो देवान् वेद । भूतानि तं परादुर्योऽन्यत्रात्मनो भूतानि वेद । सर्वं तं परादाद्योऽन्य–त्रात्मनस्सर्वं वेद – इदं ब्रह्मेदं क्षत्रमिमे लोका इमे देवा इमानि भूतानि इदं सर्वं यदयमात्मा ॥६॥
प्र. – ननु कथमात्मनि विज्ञाते सर्वमिदं विज्ञातं स्यात् जगतः तन्द्रिन्नत्वात् इत्याशङ्क्य सर्वात्मत्वमेवाह – ब्रह्म तं परादाद्योन्यत्रात्मनो ब्रह्म वेद इत्यादिना । ब्रह्म -ब्राह्मणवर्गः । क्षत्रादिसहपाठात् । यस्त्वधिकारी ब्राह्मणवर्णं आत्मनोऽन्यत्र-परमात्मनोऽन्यत्र स्थितम्, न तु परमात्मनि स्थितम्, ‘अपरब्रह्मात्मकं स्वनिष्ठं वेद जानीयात् , तं ब्रह्म – स ब्राह्मणवर्ण एव परादात् – पराकुर्यात् , अभिभवेत् । आत्मनो अन्यत्वेन अब्रह्मात्मकत्वेनावगतो ब्राह्मणवर्ण एव तं तथावगन्तारं संसारयति इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । अतः सर्वस्य ब्रह्मात्मकत्वमेव स्वरूपमित्युक्तं भवति । अब्रह्मात्मकत्वप्रतिपत्तेः संसारहेतुत्वोक्त्या मिथ्याज्ञानत्वसिद्धेरिति द्रष्टव्यम् । क्षत्रं-क्षत्रियवर्णः । लोकाः – भूस्वर्गादिलोकाः देवाः – आराध्याः, तत्तल्लोकाप्रापिका देवताः। भूतानि – अचित्संसृष्टचेतनवर्गः । इतरः स्पष्टार्थः । ननूक्तरीत्या सर्वस्य ब्रह्माधारकतया ब्रह्मात्मकत्वेऽपि ब्रह्मात्मकस्य शरीरभूतस्य जगतः शरीरभूत’ब्रह्मापेक्षया भिन्नत्वेन तथाविधब्रह्मज्ञानेन सर्वज्ञानासम्भवात् , तस्मिन् विज्ञाते इदं सर्वं विदितमिति निर्देशो नोपपद्यत इत्याशङ्क्य सर्वस्यापि तच्छरीरत्वेन शरीरवाचिनां च शब्दानां शरीरपर्यन्तत्वात् इदं सर्वमिति शब्दाभ्यामन्यैरपि शब्देस्तत्तच्छरीरकं ब्रह्मैवाभिधीयते इति सर्वशरीरिणि ब्रह्मणि ज्ञाते तच्छरीरभूततया तदन्तर्गतं च सर्वमिदं ज्ञातं भवत्येव इत्यभिप्रेत्याह – इदं ब्रह्मेदं क्षत्रम् इत्यादि । अयमात्मेति यदुक्तं ब्रह्म, तदेव ब्रह्मक्षत्रलोकदेवादिसर्वरूपम्, सर्वशब्दवाच्यमित्यर्थः । ततश्च आत्मनि विज्ञाते इदं सर्वं विदितं भवति – एतत्सर्वशरीरकं ब्रह्म विदितं भवति इत्यर्थ उपपद्यत इति भावः ॥ ६ ॥
[सर्वं ब्रह्मात्मकम् इति दृष्टान्तेन निरूपणम्]
स यथा दुन्दुभेर्हन्यमानस्य न बाह्यान् शब्दान् शक्रुयात् ग्रहणाय दुन्दुभेस्तु ग्रहणेन दुन्दुभ्याघातस्य वा शब्दो गृहीतः।। ७ ।।
प्र. -एवं जगत्कारणत्वविशिष्टपरमात्मोपासनां विधाय उपासनोपकरणभूत-मन:प्रभृतिकरणनियमनमाह – स यथा – – – शब्दो गृहीतः इति । दुन्दुभरित्यानादरे षष्ठी । ग्रहणशब्द इह निरोधपरः । उपादाननिरोधयोः द्वयोरपि ग्रहणशब्दवाच्यत्वात् यथा गृहीतानि पुष्पाणि, गृहीतश्चोर इति । स यथा – स दृष्टान्तो यथा इत्यर्थः । दुन्दुभेर्हन्यमानस्य – दुन्दुभ्यौ हन्यमाने बाह्यान् – ततो बहिर्निस्सरत: शब्दान् ग्रहणाय न शक्नुयात् – न निरोद्धुं ‘शक्नुयात् इत्यर्थः’ । कथं तहि निरुणद्धि इत्यत्राह – दुन्दुभेस्तु इति । किन्तु आहन्यमानं दुन्दुभिमनुपेक्ष्य दुन्दुभेर्ग्रहणेन – शब्दनिस्सरणाधारभूत-दुन्दुभिनिरोधेन, दुन्दुभ्याघातस्य वा – तदाहन्तृपुरुषस्य निरोधेन या शब्दो गृहीतः -.भेर्वा: निस्सरन्तःशब्दा निरुध्यन्ते इत्यर्थः । दुन्दुभ्याधातस्येति कर्तरि क्तः । भेरी दण्डयोरन्यतर-निरोधेन ‘तत्संयोग निरोधद्वारा भैरीशब्दायता निरुध्यन्ते, एवम् इन्द्रियेषु विषयगणे व्याप्रियमाणेषु बाह्यार्थानुभवो दुर्निरोधः । तस्मात् विषयापहरणेन वा इन्द्रियनिरोधेन वा विषयन्द्रियसंयोगनिरोधद्वारा परमात्मसाक्षात्कारविरोधिबाह्यार्थज्ञानं निरुध्यत इत्यर्थः । एवं निरुध्य, निदिध्यासितव्यो द्रष्टव्य: इत्युक्तं , दर्शनसमानाकाराविच्छिन्नपरमात्मास्मृतिसन्तानं साधयेदिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ७।।
स यथा शङ्खस्य ध्मायमानस्य न बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय शङ्खस्य तु ग्रहणेन शङ्खध्मानस्य वा शब्दो गृहीतः॥ ८॥
प्र.- शङ्खध्मानस्य इति । नन्द्यादित्वात् कर्तरि ल्युः । शङ्खध्मातुः इत्यर्थः । शिष्टं स्पष्ठम् ॥ ८॥
स यथा वीणायै वाद्यमानायै न बाह्याञ्छब्दाञ्छक्रुयात् ग्रहणाय, वीणायै तु ग्रहणेन वीणावादस्य वा शब्दो गृहीतः ॥ ९ ॥
प्र.- स यथा वीणायै वाद्यमानायै इत्यादि । अत्र वीणायै इति चतुर्थी षष्ठ्यर्थे । छान्दसो विभक्तिव्यत्ययः । वीणावादस्य इति कर्तरि क्तः । सर्वं पूर्ववत् ।। ९ ।।
[सर्वं ब्रह्मात्मकमेव]
स यथाऽऽर्द्रैधाग्नेरभ्याहितात् पृथक् धूमा विनिश्चरन्त्येवं वा अरेऽस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदो यजुर्वेदः सामवेदोऽथर्वाङ्गिरस इतिहासः पुराणं विद्या उपनिषदः श्लोकाः सूत्राण्यनुव्याख्यानानि व्याख्यानान्यस्येवैतानि सर्वाणि निश्श्वसितानि ।। १० ।।
प्र– पूर्वं परमात्मनः सामान्येनोक्तं सर्वकारणत्वं प्रपञ्चयति य यथा….विनिश्चरन्ति इत्यादिना । ‘एध‘ शब्दः अकारान्त: इन्धनवाची । ‘आर्द्रेधाग्निग्रहणं’ ब्रह्मण एव चिदचिद्विशिष्टस्य सङ्कल्पविशिष्टस्य च उपादानत्वनिमित्तत्वयोर्ज्ञापनार्थम् । अग्निर्हि धूमोत्पत्तौ औष्ण्येन निमित्तम् इन्धनविशिष्टत्वेन तु उपादानं भवतीति द्रष्टव्यम् । अभ्याहितात् – आध्मानवीजादिना प्रवर्तितात् इत्यर्थः । पृथग्विधा धूमाः विनिश्चरन्ति –
निर्गच्छन्ति इत्यर्थः । स यथा – स दृष्टान्तो यथा, एवं वै – एवमेव अरे मैत्रेयि! अस्य -पूर्वोक्तस्य जगदभिन्ननिमित्तोपादानभूतस्य महतो भूतस्य – परमात्मनः निःश्वसितं -निःश्वासवदनायासेनैव तस्मादुद्गतं, किं तत्? एतत् – वक्ष्यमाणमित्यर्थः । तदेवाह –यदृग्वेदोयजुर्वेद इत्यादिना । इतिहासः – रामायणादिः पुराणं – विष्णुपुराणादि, विद्याः – चतुष्षष्ठिविद्या: उपनिषदः प्रसिद्धाः श्लोकाः – स्मृतिरूपाः सूत्राणि -ब्रह्मसूत्रादीनि । अनुव्याख्यानानि – भाष्यव्याख्यानानि, व्याख्यानानि – भाष्यरूपाणि । ऋग्वेद इत्यादि यद्यदस्ति, एतानि सर्वाणि भगवतो अस्यैव निःश्वसितानि अयत्नेन तदुद्गतानि इत्यर्थः । यद्यपि सूत्रस्मृतिपुराणादयो व्यासादुद्गता इति पुराणेषु प्रसिद्धः । तथापि तेषां भगवर्दशत्वात् भगवन्निश्श्वसितत्वोक्तिरुपपद्यत इति द्रष्टव्यम् । अत्र यद्यपि बाचकशब्दसृष्टिमात्रमुक्तम् । तथापि षष्ठे मैत्रेयीब्राह्मणे तु इष्टं हुतमाशितं पायितम् इत्यादिना भोग्यभोगस्थानभोक्तृवर्गरूपवाच्यसृष्टेरुक्तत्वात् , ‘ अनुक्तस्य अन्यतोग्राह्यत्वात् अत्रापि वाच्यस्य सृष्टिरुक्ता इति द्रष्टव्यम् । अनेन पूर्वं सामान्यतो निर्दिष्टं जगत्कारणत्वं विवृतं भवति ।। १० ।।
[परमात्मन: सर्वायनत्वनिरूपणम् ]
स यथा सर्वासामपां समुद्र एकायनम् – एवं सर्वेषां स्पर्शानां स्वगेकायनमेवं सर्वेषां रसानां जिह्वैकायनमेवं सर्वेषां गन्धानां नासिकैकायनमेवं सर्वेषां रूपाणां चक्षरेकायनमेव सर्वेषां शब्दानां श्रोत्रमेकायनमेवं सर्वेषां सहकल्पानां मन एकायनमेवं सर्वासां विद्यानां हृदयमेकायनमेवं सर्वेषां कर्मणां हस्तावेकायनमेवं सर्वेषामानन्दानामुपस्थं एकायनमेवं सर्वेषां विसर्गाणां पायुरेकायनमेवं सर्वेषामध्वनां पादावेकायनमेवं सर्वेषां वेदानां वागेकायनम् ।। ११ ।।
प्र– एवं प्रथमोक्तं जगत्कारणत्वं विशदयित्वा तदनन्तरं सामान्येन, स यथा दुन्दुभेर्हन्यमानस्य इत्यादिनोक्तं परोपासनकरणभूतकरणग्रामनियमनं ‘विशदयति’ – स – – –यथा वागेकायनम् इत्यादिना । समुद्रस्य सर्वासामपामेकायनत्वं नाम तदुपादातृत्वमेव; एवं त्वचः सर्वस्पर्शानामेकायनत्वं नाम तदुपादातृत्वम् । ततश्चायमर्थः – यथा समुद्रो भूयसीरपो बहुधाः विशतीर्गृह्णाति, ताभिः कदाचिदपि न पूर्यते च – एवं त्वगिन्द्रियमसङ्ख्याकान् बहुधा प्राप्नुवतः स्पर्शविशेषान् गृह्णाति, तैः कदाचिदपि न तृप्यति च-ततश्च स्वगिन्द्रियस्य स्पर्शविषयकव्यापारा अनन्ता इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । सर्वासाम् विद्यानां हृदयम् इति । अवस्थाविशेषविशिष्टं मन एव हृदयमित्युच्यते । अध्वनाम् । अध्वगमनानाम् इत्यर्थः । शिष्टस्य स्पष्टोऽर्थः । ततश्च एकैकेन्द्रियवृत्तिविशेषा अनन्ताः । ततश्च आत्मसाक्षात्कारार्थिना एते वृत्तिविशेषा निरोद्धव्या इत्यभिप्रायः । ततश्च, स यथा दुन्दुभेर्हन्यमानस्य इत्यनेनोक्तं ब्रह्मोपासनोपायोगिकरणग्रामनियमनं विवृतं भवति ।। ११ ।।
[परमात्मोपासनं मोक्षकारणत्वम्]
स यथा सैन्धवखिल्य उदके प्रास्त उदकमेवानुविलीयेत; न हास्योद्ग्रहणायैव स्याद्यतो यतस्त्वाददीत लवणमेवैवं वा अरे इदं महद्भूतमनन्तमपारं विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्तीत्यरे ब्रवीमीति होवाच याज्ञवल्क्यः ।। १२ ।।
प्र- अथ सर्वावस्थास्वपि जीवस्वरूपस्य परमात्मनिष्ठतया स्वातन्त्र्याभाव-ज्ञापनाय जीववाचिशब्देन परमात्मनं निर्दिशन् अमृतत्वोपायप्रवृत्तिप्रोत्साहनाय भूतसंघात्मक शरीरमरणा’नुविधायिनः संसरतो जीवस्यापरिच्छिन्नज्ञानैकाकारतामुपपादयति । एवमुपपादिते हि, स्वयमपरिच्छिन्नज्ञानानन्दाकार एव सन् अयं जीवः पञ्चभूतस्य शरीरानुविधानेन जन्ममरणादिचक्रे स्वकर्मतिरोहितस्वरूपः परिभ्रमति । तच्च कर्म ईश्वरसङ्कल्परूपं सर्वथा ईश्वर परतन्त्रेण स्वेन स्वातन्त्र्येण निर्मोचयितुमशक्यम् ।
अतः तादृश कर्मबन्धविमोचनपूर्वकस्य स्वभावाविर्भावरूपमोक्षप्राप्तये परमात्मोपासनमेव कर्तव्यमिति प्रतीयेतेति । स यथा सैन्धवखिल्य इत्यादि । सः लवणरसघनतया प्रसिद्धः सैन्धव खिल्यः – लवणखण्डः । खिल एव खिल्यः । स्वार्थे यत् प्रत्ययः । यथा सैन्धवशकल: उदके प्रास्त: प्रक्षिप्त: उदकम् अनु – अनुसृत्य प्रविश्य विलीयत एव । अस्य – विलीनस्य लवणस्य उद्ग्रणाय – उदकात् पृथक्कृत्य ग्रहीतुं नैव स्यात् – कोपि न शक्तरस्यात् । तच्चोदकं यथा– यतो यतः – यस्मात् यस्मात्प्रदेशात् , मध्यतः पार्श्वतो वा आददीत – गृह्णीयात् । ततस्ततः तत्तोयं लवणमेव – लवणरसमयमेव भवति । एवं वै – एवमेव । उक्तलवणखिल्यदृष्टान्तवदेव महद्भूतं – सर्वचेतनाचेतनेभ्य: उत्कृष्टम् । तदेवोपपादयति – अनन्तमपारम् इति । अनन्तं – स्वरूपेणापरिच्छेद्यम् अपारं गुणतोप्यपरिच्छेद्यं ब्रह्म विज्ञानधन एव सन् – जीव एवं सन् , जीवशरीरक, एव सन् इति यावत् । अनेन जीवेनात्मनाऽनुप्रविश्य (छा.उ.६-३-२) इति श्रुते. जीवशरीरकतया भूतेषु अनुप्रविश्य एतेभ्यो भूतेभ्य समुत्थाय तान्येवानुविनश्यति । भूतेषु शरीरादिरूपेण उत्पद्यमानेषु तेभ्य एव – भूतेभ्यः हेतुभ्यः स्वयमुत्पद्यमानस्तेषु नश्यत्सु तानि – भूतानि अनु-पश्चात् स्वयं ‘विनश्यति इत्यर्थः । देहोरपत्ति विनाशानुविधाप्युत्पादविनाशवान् भवतीति यावत् । विनाशो नाम अत्यन्तज्ञानसङ्कोचः । विनश्यति न पश्यति इत्यर्थः । इति । स्वाप्ययसम्पत्त्योः (ब्र.सू.४-४-१६) इति सूत्रे भगवता भाष्यकृतोक्तम् । उत्पत्तिर्नाम विकासप्रादुर्भावः । इमावुत्पत्तिविनाशौ विज्ञानमयशब्दिते जीवशरीरके महद्भूतमित्युक्ते, परमात्मनि जीवद्वारा सम्भवत इति द्रष्टव्यम् । न प्रेत्य संज्ञास्ति इति । प्रेत्य – चरमदेहवियोगं प्राप्य, येयं प्रेते विचिकित्सा मनुष्ये इति प्रयोगात् । तदा मोक्षदशायां स्वाभाविकापरिच्छिन्नज्ञानस्य सङ्कोचाभावेन न संज्ञास्ति । समित्येकीकारे । ज्ञाधातोर्ज्ञानमर्थः । ततश्च भूतसंघातेन एकीकृत्य ज्ञानं संज्ञाशब्दार्थः । सा नास्तीत्यर्थः इति द्रष्टव्यम् । ततश्च पूर्वोक्त भगवदुपासनेन ज्ञानसङ्कोच-हेतुभूतकर्मणो विनाशे निरङ्कुशापरिच्छिन्नज्ञानवतो जीवस्य स्वस्वरूपयाथात्म्यज्ञानेन संज्ञाशब्दितदेहात्मभ्रमादिनिवृत्यापूर्वोक्तभूतानुविधानप्रयुक्तोत्पत्तिविनाशादिः मोक्षदशायां नास्तीति तद्रूपसंसारचक्रभ्रमणनिवृत्त्यर्थं परमात्मोपासनमेव कार्यमिति याज्ञवल्क्यो मैत्रय्या उपदिदेश इत्यर्थः । अत्र अरे ब्रवीमि इत्युक्ति: स्वोक्तिप्रामाण्यदार्ढ्यर्थम् । न च महद्भूत– मनन्तमपारम् इति निर्दिष्टस्यैव ब्रह्मणः विज्ञानघन एवैतेभ्यो भूतेभ्यस्समुत्थाय इति जीवत्वसंसारित्वाऽऽवेदनं साक्षादेवास्तु; किमिति, विज्ञानघन: जीवशरीरक इति व्याख्याय जीवद्वारकं तस्य तदिदमुच्यत इति वाच्यम् – निरनिष्ट निरवद्यः इत्यादि श्रुतिप्रति-पन्ननिखिलहेयप्रत्यनीकत्वस्य परमात्मानः संसारित्वासम्भवात् । अत एव मोक्षधर्म जनकयाज्ञवल्क्यसंवादे याज्ञवल्क्येनैव, अन्यश्च राजन् स परस्तथाऽन्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ।। (महा.भा.मौ.३०६-७५) इति शरीरशरीरिणोः जीवेश्वरयोर्भेदे सत्यपि शरीरान्तःस्थितस्य शरीरिण एकत्यात् अयमेक: पुरुष इति सशरीरे जीवे व्यवहारवत् परमात्मनो जीवान्तरवस्थितिनिबन्धनाः प्रकार्यक्यविषयाः जीवेश्वराभेदव्यवहारा इत्युक्तम् । ततश्च तेनैव याज्ञवल्क्यैनात्रापि जीवस्य परमात्मशरीरतया तद्वाचिना विज्ञानघनशब्देन परमात्मनोऽभिधानं तद्धर्मभूतोत्पत्ति-विनाशादिना धर्मवत्त्वकथनञ्च न विरुद्धम्, उपपन्नतरञ्चेति द्रष्टव्यम् ।
न च उक्तरीत्या निर्विकारे परमात्मनि उत्पत्तिविनाशयोः सद्वारकविशेषणत्वे आवश्यके सति तावन्मात्रमेव कथनीयं स्यात् ; न त्वधिकम् । एवं सति विज्ञानघनत्वस्य परमात्मनि साक्षादेव सम्भवात् विज्ञानघनशब्दस्य जीवबाचित्वमाश्रित्य विज्ञानघनशब्देन जीवशरीरकपरमात्माभिधानाश्रयणक्लेशः, अवस्थितेरिति काशकृत्स्नः (ब्र.सू.१-४-२२) इति सूत्रभाष्ये कुतोऽनुभूयते इति वाच्यम् – परमात्मनः स्वरूपेणोत्थानविनाशासम्भवात्, जीवरूपेण उत्थान विनाशयोः वक्तव्यत्वेन जीववाचिपदस्य कस्यचिदश्रवणे जीवद्वारकत्वोक्तयोगेन तद्वाचिपदावश्यकत्वात्, अन्यस्य चाभावात् , विज्ञानघनशब्दस्य जीवबाचित्वसम्भावाच्च, विज्ञानघनशब्देन जीवशरीरकपरमात्माभिधीयते इति भाष्योक्तेः विरोधाभावात्; उपपन्नतरत्वाच्चेति द्रष्टव्यम् ।। १२ ।।
सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहत्, न प्रेत्य संज्ञास्तीति । स होवाच याज्ञवल्क्यो न वा अरेऽहं मोहं ब्रवीम्यलं वा अरे इदं विज्ञानाय ।। १३ ।।
प्र.-सा होवाच मैत्रेय्यत्रैव मा भगवानमूमुहत्, न प्रेत्य संज्ञास्तीति । एवं याज्ञवल्क्योनोपदिष्टा मैत्रेयी उवाच । किमिति । न प्रेत्य संज्ञास्ती इत्यस्मिन् वाक्य एव भगवान् मा– माम् अमूमुहत् । मुहेर्णा चङि छन्दसि मोहयति स्म इत्यर्थः । विज्ञानघनशब्दितस्य ज्ञानैकाकारस्य आत्मनो मुक्तौ संज्ञाभावो विरुद्ध इत्यतो मुक्तौ संज्ञाभावप्रतिपादके भवद्वाक्ये मोहो मे संवृत इति भावः । अत्र न प्रेत्य संज्ञास्तीति वाक्यस्य विज्ञानघनत्वोक्तिविरोधे आपादनीयेऽपि, मैत्रेय्या गुरु गौरवेण स्वस्य वाक्यार्थास्फूर्तिरूपमोह एव वाचनिकवृत्या आपदित इति द्रष्टव्यम् । यद्यपि संज्ञाशब्दो देहात्मैक्यभ्रान्तिपर इति न विरोध: । तथापि तदिभिप्रायानभिज्ञानात् मुह्यन्ती मैत्रेयी एवमुक्तयतीति द्रष्टव्यम्।
स होवाच– – – – विज्ञानाय इति। स: – इत्थं पृष्टो याज्ञवल्क्य: प्राह किमिति? अरे – मैत्रेयि! न प्रेत्य संज्ञास्तीति नाहं मोहं – मोहकं वचो ब्रवीमि। इदं -विज्ञानघनशब्दितं महद्भूतं प्रेत्यापि विज्ञानायालमेव – ज्ञातुं पर्याप्तमेव इत्यर्थ:। ततश्च मुक्तौ सर्वज्ञतया सर्वं पश्यत एव न सतो विज्ञानघनस्य मया पूर्वनिर्दिष्ट संज्ञाभावो नाम देहात्मैक्य- विषयकभ्रान्त्यभावात्मेति भावः ।। १३ ।।
[न प्रेत्य संज्ञास्ति‘ इत्यस्य विवरणम् ]
यत्र हि द्वैतमिव भवति, तदितर इतरं जिघ्रति, तदितर इतरं पश्यति, तदितर इतरं श्रृणोति, तदितर इतरमभिवदति, तदितर इतरं मनुते, तदितर इतर विजानाति । यत्र वा अस्य सर्वमात्मैवाभूत्, तत् केन कं जिघ्रेत्, तत्केन कं पश्येत्, तत्केन कं शृणुयात्। तत् केन कमभिवदेत्, तत्केन कं मन्वीत, तत्केन कं विजानीयात् । येनेदं सर्वं विजानाति, तं केन विजानीयात् । विज्ञातारमरे केन विजानीयादिति ।। १४ ।।
।। इति चतुर्थाध्याये चतुर्थब्राह्मणम् ।।
प्र.-एवं न प्रेत्य संज्ञास्ति इति स्ववाक्यस्य मुक्तौ देहात्मभ्रमनिवृत्तिपरत्वेन विज्ञानघनत्वाविरोधमुक्त्वास्वनिष्ठताभ्रमनिवृत्तिप्रतिपादकत्वेनापि तदविरोधमुपपादयति – यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति इत्यादिना । यत्र – यस्यामवस्थायां हि-प्रसिद्धम् । द्वैतमिव भवति – स्वनिष्ठतया परमात्मनः पृथगिव भवति इत्यर्थः । स्वतन्त्र इव भवति इति यावत् । स्वातन्त्र्यस्य अप्रामाणिकद्योतनार्थ इव शब्दः । तत् – तस्यां दशायां इतरः इतरं पश्यति । इतरः – परमात्मनो भिन्नात्मकः – पृथक्सिद्ध इति यावत् इतरं – भिन्नात्मकं परमात्मनः पृथक्सिद्धं विषयं पश्यति । अत्र इतरेण इत्यध्याहार्यम् । उत्तरत्र तत्केन कं जिघ्रेत् इति दर्शनात् । इतरेण – स्वतन्त्रेण करणेन जिघ्रति इत्यर्थः ।
एवमुत्तरत्रापि । अत्र जिघ्रति–पश्यति–शृणोति–मनुते–विजानातीत्युक्तं सर्वज्ञानेन्द्रिय-वृत्त्युपलक्षणम् । तत्र मनुते इति मनोवृत्तिरुक्ता, विजानाति इति बुद्धिवृत्तिरिति तयोर्भेदः । अभिवदति इत्युक्तो वागिन्द्रियव्यापारः सर्वकर्मेन्द्रियव्यापारोपलक्षणार्थ इति द्रष्टव्यम् । एवमुत्तरत्रापि । यत्र वा अस्य सर्वमात्मैवाभूत् तत्केन कं जिघ्रेत् इत्यादि । यत्र – यदा, अस्य – जीवस्य सर्वं – वस्तु आत्मैवाभूत्– परमात्मा पृथक्सिद्धमेकात्मकमेवाभूत् । तदा केन – भिन्नात्मकेन करणेन कं – भिन्नात्मकं विषय जिघ्नेदित्यर्थः । अत्र क इत्यध्याहार्यम् । तदितर इतरं पश्यतीति पूर्वमुक्तत्वात् । कः – भिन्नात्मकः स्वतन्त्रः कर्ता जिघ्रेदित्यर्थः । अत्र किं शब्द इतर शब्दश्च सर्वत्र स्वतन्त्रतत्प्रतिक्षेपपरः । अयं सर्वत्र द्रष्टव्यम् । अत्र सदैकात्मक स्य जगतः कालभेदेन भिन्ना भिन्नात्मकत्वयोः परमात्मा पृथक्सिद्ध्यपृथक्सिद्धिरूपयोः असम्भवात् आत्मैवाभूत् इत्यस्य एकात्मकत्वेन ज्ञातमभूदिति, द्वैतमिव भवति इत्यस्य भिन्नात्मकत्वेन ज्ञानं भवतीति चैवार्थो वक्तव्यः । तथा च यस्यात्मभेद-प्रतातिः कियत्यप्यस्ति तस्य कर्तृकर्मकरणेषु भिन्नात्मकत्वप्रतीतिरनुवर्तते । यस्यात्मभेदप्रतीतिः यदा सर्वथा नास्ति । तदा विरुद्धधर्मवत्तत्वाप्रतीते कर्तृकर्मकरणेषु भिन्नात्मकतया प्रतीतिः सर्वथा नास्तीति पर्यवसितोऽर्थः । शिष्टं स्पष्टम् । द्वयमेव साधनमित्यवश्यं निदिध्यासनेन भगवत्प्रसादो मुमुक्षुणा सम्पादनीय इत्युपसंहरति वाक्यद्वयेन । येनेदं सर्वं विजानाति; तं केन विजानीयात् इत्यादिना । येन -परमात्मना प्रसन्नेनानुगृहीतः इदं सर्वं विजानाति – सर्वज्ञो भवति, तं परमात्मनं केन हेतुना विजानीयात् – क इत्था वेद यत्र सः इतिवत् परमात्मा । प्रसादमन्तरेण परमात्मा दुरवबोध इत्यर्थः । विज्ञातारमरे केन विजानीयात् इति । अत्र विज्ञातृशब्देन प्रक्रमोदितजगत्कारणत्वाक्षिप्तसर्वज्ञत्वाश्रयः परमात्मैव उच्यते । तादृशं विज्ञातारं सर्वज्ञं परमात्मानं प्रक्रमोदितध्यानं विना केन – केवलयज्ञदानाधुपायेन विजानीयात् । न केनापि इत्यर्थः । उक्तं च व्यासार्यै: परमात्मप्रसादादृते तस्य दुरवगमत्वपरं तं केन विजानीयादिति पूर्वं वाक्यम्; उपासनातिरिक्त केवल यज्ञदानाधुपायान्तरनिषेधपरं विज्ञातारमरे केन विजानीयात् इत्युत्तरवाक्यम् इति । ततश्च परमात्मप्रसाद परमात्मोपासनयोरप्यावश्यकत्वं द्वाभ्यां वाक्याभ्यां प्रतिपादितं भवति । अत्र परमात्मोपासन तत्प्रसादसाध्या परमात्मगतिः । किं रूपेति? चिन्तायां दर्शनसमानाकारध्यानरूपावगतिरेव परमात्मप्रसादोपासन साध्यत्वेन वाक्यद्वयप्रतिपन्नेति केचिदूचुः मुक्तिकालीना देशविशेषविशिष्टब्रह्मसाक्षात्कारलक्षणा, परात्परं पुरिशयं पुरुषमीक्षत इत्युक्तेत्यपरे । नोभयथापि विरोधं पश्यामः । इति शब्दः प्रतिवचनसमाप्तौ ।
इदञ्च ब्राह्मणं समन्वयाध्याये चतुर्थपादे चिन्तितम् । उपक्रमे पतिजायापुत्रवित्तादि-प्रियसम्बन्धित्वलक्षणजीवलिङ्गकीर्तनात्, ‘मध्ये च, विज्ञानघन एवैतेभ्यो भूतेभ्यो समुत्थाय तान्येवानुविनश्यति इति देहानुविधायिजननमरणलक्षणजीवलिङ्गप्रतिपादनात्, अन्ते च, विज्ञातारमरे केन विजानीयात् इति विज्ञातृत्वरूपजीवलिङ्गकीर्तनाच्च कृत्स्नमपि प्रकरणं जीवपरमेव । परमात्मलिङ्गानि तु कथञ्चिन्नेयानि इति पूर्वपक्षे पठति आचार्यः – वाक्यान्वयात् (ब्र.सू.१-४-१९) । कृत्स्नस्य वाक्यसन्दर्भस्यान्वयः परमात्मन्येव उपपद्यते, नान्यत्र ।
तथाहि – अमृतत्वस्य तु नाशाऽस्ति वित्तेन इति याज्ञवल्क्येन अभिहिते येनाहं नामृता स्यां किमहं तेन कुर्याम् इति अमृतत्वोपायमात्रार्थिन्ये मैत्रेय्यै आत्मा वा अरे द्रष्टव्यः इति द्रष्टव्यत्वेन उपदिष्टस्यात्मन: परमात्मत्वमेवाभ्युपगन्तव्यम् । आख्यायिकाया विद्यागतविशेषप्रतिपादनोपयुक्तत्वस्य पुरुषार्थपादे स्थितत्वात् । तत्र हि अथ ह याज्ञवल्क्यस्य । भार्ये बभूवतुः इत्याद्याख्यानानां सर्वाण्याख्यानानि पारिप्लवे शस्यन्ति इत्यश्वमेधगतपारिप्लवनामकशस्त्रे विनियुक्तत्वात् पारिप्लवार्थान्याख्यानानि, न तु विद्योपयोगीनीति पारिप्लवार्था इति चेत् (ब्र.सू.३-४-२) इति सूत्रखण्डेन पूर्वपक्षं कृत्वा, न विशेषित्वात् इत्यादिना सिद्धान्तितम् । अयमर्थः – न सर्वाख्यानानि पारिप्ल वार्थानि भवितुमर्हन्ति । सर्वाण्याख्यानानि शंसन्तीति विधाय मनुवैवस्वतो राजा इत्यादिना केषाञ्चिदाख्यानानामेव विशेषितत्वात् । वाक्यशेषपठितानामेवाख्यानानां पारिप्लवे विनियोगेन सर्वेषामपि विद्यासन्निधिपठितानां याज्ञवल्क्याद्याख्यानानां च तत्तद्वक्यगतपरमात्म-विषयकत्वादिविशेषप्रतिपादनोपयोगित्वमेव । तथा चैकवाक्योपबन्धात् (ब्र.सू.४-४-२४) यथा, तेजो वै घृतं, सोरोदीत् इत्येवमादीनां, अक्ताः शर्करा उपदधाति, तस्माद्बर्हिषि रजतं न देयम् इत्यादिविधिनिषेधैकवाक्यतया विधिनिषेधविषयस्तुती निन्दाद्युयोगित्वम्’-तथैव आत्मा वा अरे द्रष्टव्यः इत्यादि विधिना । आख्यानानाम् एकवाक्यत्वोपबन्धात् विधेयविद्याविशेषोपयोगित्वमवश्याभ्युपगन्तव्यमिति सिद्धान्तितम् । ततश्च उपक्रम-गताख्यायिकावशात्परमात्मविषयत्वमेव प्रकरणस्य तथा अस्य महतो भूतस्य निःश्वसितमेतत् आत्मनो वा अरे दर्शनेन श्रवणेन इत्यादिना प्रतीयमानं सर्वोपादानत्वम्, ब्रह्म तं परादात् इत्यादिना प्रतीयमानं सार्वात्म्यं, च न परमात्मनोऽन्यत्र सम्भवति । यदुक्तम् पतिजायापुत्रादिसम्बन्धित्वकीर्तनं जीवलिङ्गमिति – तन्न; तस्य वाक्यस्य परमात्मानुगुणतया अर्थवर्णनोपपत्तेः । तद्वर्णन प्रकारश्च पूर्वमेव प्रदर्शितः ।
ननु एवं विज्ञानघन एवैतेभ्यो भूतेभ्यो समुत्थाय इति जीववाचिविज्ञानघनशब्देन कथं परमात्मनोऽभिधानम्? उत्पादविनाशादि जीवलिङ्गानाञ्च कथं परमात्मनि समन्वय इति चेत् – तत्राह-
प्रतिज्ञासिद्धेर्लिङ्गमाश्मरथ्यः (ब्र.सू.२-४-२०) । एक विज्ञानेन सर्वविज्ञान-प्रतिज्ञाक्षिप्तोपादानोपादेयाभावलब्धाभेदसूचकं जीवधर्माणां तत्र कीर्तनमित्याश्मरथ्य आचार्यों मन्यते । उत्क्रमिष्यत एवम्भावादित्यौडुलोमिः (ब्र.सू.१-४-२१) आमुक्तेर्भेद एव स्याज्जीवस्य च परस्य च । मुक्तस्य तु न भेदोस्ति भेदहेतोरभावतः ।। इत्युक्तरीत्या मुक्तिदशायां भाव्यभेदमाश्रित्य परमात्मनि जीवधर्माभिधानमुपपद्यत इत्यौडुलोमिराचार्यो मन्वते । अवस्थितेरिति काशकृत्स्नः (ब्र.सू.१-४-२२)। जीवे परमात्मनः अन्तर्यामितया अवस्थितेराकृत्यधिकरणन्यायेन शरीरभूतजीववाचिशब्दैः शरीरिणः परमात्मनोऽभिधानसंभवात् शरीरभूतजीवधर्माणां शरीरिणि परमात्मन्युपपत्तेश्च जीवश्रुतिलिङ्गानां परमात्मनि नानुपपत्तिरिति स्थितम् ।
अत्र तु काशकृत्स्नमतमेव आचार्यस्य मतम् । तदुपरि पक्षान्तरानुपन्यासात् , आश्मरथ्योडुलोमिमतयोः दुष्टत्वाञ्च । उपादानोपादेययोः भेदाभेदावद्याश्मरथ्यमतं जैनमतप्रतिक्षेपादेव प्रतिक्षिप्तम् ।तर्कपादे जैनानां मतं हि प्रतिक्षिप्तमाचार्येण। ये चैवं मन्यन्ते जीवाजीवास्रवसंवरनिर्जरबन्धमोक्षा नाम सप्त पदार्थाः । बोधात्मको जीवः । इन्द्रियप्रवृत्तिरास्रवः । शमदमादिरूपा प्रवृत्तिः ‘संवरः । तप्तशिलारोहणादिनिर्जरः। बन्धोऽष्टविधं कर्म। तत्र घातिकर्म चतुर्विधम्, ज्ञानावरणीयं दर्शनावरणीयं मोहनीय-मान्तरायिकमिति । तत्र सम्यग्ज्ञानात् न मोक्ष इति विपर्ययो ज्ञानावरणीयं कर्म। आर्हतदर्शनाभ्यासन्न मोक्ष इति ज्ञानं दर्शनावरणीयम् । बहुषु विप्रतिषिद्धेषु मोक्षमार्गेषु विशेषानवधारणीयं मोहनीयम् । मोक्षमार्गप्रवृत्तानां तद्विघटनकरं विज्ञानम् आन्तरायिकम्। तानीमानि श्रेयोमार्गहन्तृत्वात् घातिकर्माणि इत्युच्यन्ते । अथ घातिकर्म चतुर्विधम् । वेदनीयं नामिकं गोत्रिकमायुष्कञ्चेति । तत्र वेदनीयं कर्म शुक्लपुद्गलविपाकहेतुः । तद्धि कर्म बन्धोऽपि न भवति । निश्श्रेयसप्राप्तिहेतुज्ञानाविघातकत्वात् । शुक्लपुद्गलारम्भकं वेदनीयं कर्मानुगुणं नामिकं कर्म । तद्धि शुक्लपुद्गलस्य अवस्थां कलिलबुद्बुदादि कामारभते । गोत्रितं तु अव्याकृतं ततोप्याद्यं शक्तिरूपेणावस्थितम् । आयुष्कम् – आयुः कथयत्युत्पादनद्वारेण इत्यायुष्कम् । तान्येतानि शुक्लपुद्गलाश्रयत्वादघातिकर्माणि । तदेतत्कर्माष्टकं पुरुषं बध्नातीति बन्धः। विगलितसमस्तक्ले शतद्व्यसनावरणज्ञानसुखैकतानस्य आत्मन उपरिदेशावस्थानं मोक्ष इत्येके । अन्ये तु ऊर्ध्वगमनशीलस्य जीवस्य शुष्कालाबुफलोन्मज्जनवत् सततोर्ध्वगमनं मोक्ष इति वर्णयन्ति ।
इममन्यमपि प्रपञ्चमाचक्षते – पञ्चास्तिकायानाम् , जीवास्तिकायः, पुद्गलास्तिकायो, धर्मास्तिकायोऽधर्मास्तिकाय आकाशस्तिकायश्चेति। अस्तीति कायतेशब्द्यते इत्यस्तिकायः । एवं सर्वत्र । तत्र च जीवास्तिकायस्त्रिविधः । बद्धो मुक्तो, नित्यसिद्धश्च । तत्र नित्यसिद्ध आर्हतः । इतरौ द्वौ प्रसिद्धौ । पूर्यते गलति च इति उपचितापचितं वस्तु पुद्गलशब्देन उच्यते । पुद्गलास्तिकायश्च षोढा । पृथिव्यादिभूतचतुष्टयं स्थावरं, जङ्गमञ्चेति । धर्मास्तिकायः प्रवृत्यनुमेयः। अधर्मास्तिकायः स्थितिहेतुः। आकाशास्तिकायो द्विविधः । लोकाकाशो अलोकाकाशश्चेति । उपर्युपरि वर्तमानानां लोकानामन्तर्वर्ती आकाशो लोकाकाशः ।
सर्वेषां लोकानामूर्ध्ववर्ती अनावृताकाशो अलोकाकाशः । सर्वेप्यते पदार्थाः – स्यादस्ति, स्यान्नास्ति, स्यादस्ति च नास्ति च, स्यादस्ति वक्तव्यं, स्यादस्तिचावक्तव्यं, स्यानास्ति चावक्तव्यं, स्यादस्ति च नास्ति चावक्तव्यं च इत्येवं सत्त्वासत्त्वसदसत्वसदसद्विलक्षणत्वसत्वविशिष्टसदसद्विलक्षणत्व असत्वविशिष्ट-सदसद्विलक्षणत्वसदसत्वविशिष्टसदसद्विलक्षणत्वरूपसप्तभङ्गी परिवृताः । स्याच्छब्दोऽयं तिङन्तप्रतिरूपको निपातोऽनैकान्त्यद्योती ।
एवं सर्वं वस्त्वनेकान्तम् इत्यार्हतसमयस्साधु:। कस्याप्यप्रतिक्षेपकत्वादिति पूर्वपक्षे प्राप्ते – नैकस्मिन्नसम्भवात् (ब्र.सू.२-२-३१) । एकस्मिन् वस्तुनि सत्त्वासत्त्वभिन्नत्वाभिन्नत्वादि विरुद्धधर्माणां परस्परविरहस्वरूपाणामसम्भावात् तन्मतसमञ्जसम् । प्रमाणाप्रमाणविभाग-भङ्गप्रसङ्गेन सर्वव्यवहारोच्छेदप्रसङ्गात् । एवंचात्मकार्त्स्रय-(ब्र.सू.२-२-३२) जीवस्य देहानुरूप-परिमाणत्वमित्येवमभ्युपगच्छतां जैनानां हस्त्यादिशरीरस्थात्मनो न्यूनपरिमाण मशकादि-शरीरानुप्रवेशे आत्मनः परिपूर्णता न स्यात् । अथ सङ्कोचविकासधर्मतया आत्मनः पर्यायेण अवस्थान्तरापत्त्या न विरोध इति चेत् तत्राह – न च पर्यायादप्यविरोधो विकारादिभ्यः (ब्र.सू.२-२-३३) ! कालभेदेन सङ्कोचविकासावस्थाभ्युपगमे विकारादित्वा-नित्यत्वादिदोषप्रसङ्गः । अन्त्यावस्थितेश्चोभयनित्यत्वादविशेषः (ब्र,सू.२-२-३४) जीवस्य यदन्त्यं परिमाणं मोक्षावस्थागतम् । ‘तस्य ततःपरं’ देहान्तरपरिग्रहाभावेनावस्थितत्वात् तस्य परिमाणस्य तदाश्रयस्य च जीवस्य च उत्तरावस्थाप्राप्तिविधुरत्वेन नित्यत्वात् तदेव परिमाणं पूर्वत्राप्यविशिष्टमित्येवाभ्युपगन्तव्यम् । उत्तरावधिशून्यस्य पूर्वावध्यभावात् । ततश्च देहभेदेन तदनुरूपपरिमाणभेद इति जैनानां च दर्शनमसङ्गतमिति । ततश्च जैनमतप्रतिक्षेपेणैव भेदाभेदसमावेशवाद्याश्मरथ्यमतमपि निरस्तमेव । परमात्मात्मनोर्योग: परमार्थ इतीष्यते । मिथ्यैतदन्यद्दद्द्रव्यं हि नैति तद्द्रव्यतां यतः ।। इति स्मरणात् ब्रह्मभिन्नस्य जीवस्य मुक्तौ ब्रह्मैक्यवाद्यौडुलोमिमतमपि निरस्तम् । अत: काशकृत्स्नमतमेव भगवद्बादरायणमतम् । अत एव अंशो नानाव्यपदेशात् (ब्र.सू.२-३-४२) इति जीवस्य ब्रह्मांशत्वमेवोक्तम् ।
तत्र ह्यधिकरणे ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे.उ.१-९) इत्यादि भेदश्रुत्यनुरोधात् अभेदवादो जात्याद्यभेदाभिप्रायेण गौणो नेतव्यः । अथवा तत्त्वमस्याद्यभेदश्रुत्यनुरोधात् भेदव्यपदेश औपाधिकभेदपरतया नेतव्य इत्येवं पूर्वपक्षे प्राप्ते – उच्यते – अंशो नानाव्यपदेशात् अन्यथा चापि दाशकितवादित्वमधीयत एके (ब्र.सू.२-३-४२) । नानाव्यपदेशात् . भेदव्यपदेशात् अन्यथा चापि अभेदेनापि व्यपदेशात् श्रुतिद्वयानुग्रहाय ब्रह्मणोंशो जीव इत्यवगम्यते । चिदचिद्विशिष्टं हि ब्रह्मणस्स्वरूपम् । तत्र विशेषणभूत चिदंशस्यान्तर्भूतत्वात् अभेदव्यपदेशोपपत्ति:।विशेष्यापेक्षया विशेषणस्य भिन्नत्वात् भेदव्यपदेशस्याप्युपपत्ति:।
‘ब्रह्म दाशा ब्रह्म दासा ब्रह्म मे कितवा उत’ इति दाशकितवादीनामपि ब्रह्मत्वमेके शाखिनः अधीयते । नास्याभेदव्यपदेशस्य गौणत्वं वक्तुं युज्यते। नापि सृज्यत्व-‘संहार्यत्वादिलक्षणभेदव्युपदेशस्यमानान्तरासिद्धार्थाभिधायिनो अनुवादित्वं गौणत्वं वा वक्तुं युज्यते । अतो व्यपदेशद्वयमुख्यत्वाय नीलगोत्वाद्यपृथक्सिद्धविशेषण-भूतरूपजात्यादिविशिष्टद्रव्यस्य यथारूपजात्यादिविशेषणमंशः । एवमपृथक्सिद्धविशे-भूतषणशक्तिस्थानीयो जीवोंश इत्यर्थः ।
मन्त्रवर्णात् (ब्र.सू.२-३-४३) पादोऽस्य विश्वाभूतानि (पु.सू.) इति मन्त्रवर्णेन सर्वजीवानां भूतशब्दितानां पादशब्दिताशंत्वप्रतिपादनाच्च जीवो ब्रह्मविशेषणांशः। अपि स्मर्यते (ब्र.सू.२-३-४४) ममैवांशो जीवलोकः (भ.गी.१५-७) इति गीतावचनाच्च अंशत्वम् । ननु जीवस्यांशत्वे जीवस्य ब्रह्मैकदेशत्वावश्यम्भावेन तत्गता दोषाः ब्रह्मणि स्युः । नेत्युच्यते । प्रकाशादिवत्तु नैवं परः (ब्र.सू.२-३-४५) । तुशब्दः चोद्यं व्यावर्तयति । परः – परमात्मा, एवं न – जीववन्नदुष्टः । प्रकाशादिवत् । यथा प्रकाशगोत्वादि-विशिष्टप्रभावद्गवादिद्रव्यस्य प्रभा गोत्वादिकमंशः – तादृशोयमंशः – न तु घटाकाशादि-वत्तदेकदेशरूपः । अतो न जीवदोषेण परस्य दुष्टता । स्मरन्ति च (ब्र.सू.२-३-४६) । स्मरन्ति च पराशरादयः ।
एकदेशस्थितस्याग्नेर्ज्योत्स्ना विस्तारिणी यथा ।
परस्य ब्रह्मणश्शक्तिस्तथेदमखिलं जगत् ।। (वि.पु.१-२२-५६) इति प्रकाशाद्यंशसाम्यम् ।
ननु सर्वेषां ब्रह्मांशत्वे समाने केषाञ्चिद्वेदाध्ययनाद्यनुज्ञा, केषाञ्चित्परिहार इति व्यवस्था कथनं सङ्गच्छताम् ? तत्राह – अनुज्ञापरिहारौ देहसम्बन्धाज्ज्योतिरादिवत् (ब्र.सू.२-३-४७)। यथा अग्न्यादेकरुपपस्यैवश्रोत्रियचण्डालागारादिसम्बन्धवशेन हेयत्वोपादेयत्वे, एवं ब्रह्मांशत्वाविशेषेऽपि जीवानां त्रैवर्णिकात्रैवर्णिकशरीरसंयोगात् वेदाध्ययनाद्यनुज्ञा-परिहारावुपपद्यते । असन्ततेश्चाव्यतिकरः (ब्र.सू.२-३-४८) । प्रतिशरीरं भिन्नानां जीवानामणुत्वेन सर्वत्रासन्ततत्वात् न भोगव्यतिकरदोषोऽपि भवति। ननु जीवब्रह्मभेदपक्षेऽपि अविद्याकृतोपाधिभेदात् भोगासंकर उपपत्स्यते। तत्राह -आभात एव च (ब्र.सू. २-३-४१) अखण्डैकरसप्रकाशमात्रस्वरूपस्य ब्रह्मण: अविद्याकृतस्वरूपतिरोधानतत्पूर्वकोपाधिभेद-परिकल्पनहेतुराभास एव। प्रकाशस्वरूपस्य तिरोधानं हि प्रकाशनाश एवेति पर्यवस्येत्। ननु पारमार्थिकोपाध्युपहितब्रह्मजीववादे उपाधिभेदहेतुभूतानाद्यदृष्टवशात् भोगव्यवस्था भविष्यति । तत्राह – अदृष्टानियमात् (ब्र.सू.१-३-५०) । ब्रह्मस्वरूपस्य छेदनभेदनाद्यसम्भवेन सर्वेषामप्यदृष्टानामनियतत्वात् न भोगव्यवस्था सिद्धयेत् । ननु अदृष्टहेतुभूताभिसन्ध्यादि अवस्थया अदृष्टव्यवस्था – तद्द्वारा भोगव्यवस्था च भविष्यतीत्यत्राह – अभिसन्धादिष्वपि चैवम् (ब्र.सू.२-३-५१) । अभिसन्ध्यादीनामपि छेदनाद्यनर्ह ब्रह्मस्वरूपमात्रसम्बन्धित्वात् अव्यवस्था तदवस्थैव । प्रदेशभेदादिति चेन्नान्तर्भावात् (ब्र.सू.२-३-५२)। ननु ब्रह्मस्वरूपस्यैकत्वेप्युपाधिप्रदेशभेदादुपपद्यते भोगव्यवस्था इति चेन्न – उपाधीनां तत्र तत्र गमनात् सर्वप्रदेशानां सर्वोपाध्यन्तर्भावेन भोगव्यतिकरस्तदवस्थ एव । प्रदेशभेदेन उपाधिसम्बन्धेपि सर्वस्य ब्रह्मप्रदेशत्वात् सर्वसम्बन्धि दुःखं ब्रह्मण एव स्यादिति ‘ब्रह्मभावो महानर्थ आपद्यते इति । अत: जीवो ब्रह्मणो विशेषणांश इति स्थितम् । ततश्च अन्तर्यामितया परमात्मनोऽवस्थितेश्शरीरवाचि शब्दानां च शरीरपर्यन्तत्वात् शरीरभूतजीववाचिविज्ञानघनशब्देन शरीरभूतपरमात्माभिधानं न विरुद्ध्यत इति काश- कृत्स्नमतमेव बादरायणमतम् । प्रकृतमनुसरामः ।। १४ ।।
।। इति चतुर्थाध्याय चतुर्थब्राह्मण प्रकाशिका ।।
चतुर्थाध्याये पञ्चमं ब्राह्मणम्
मधुब्राह्मणम्
[आत्मा सर्वान्तर्यामी]
इयं पृथिवी सर्वेषां भूतानां मध्वस्यै पृथिव्यै सर्वाणि भूतानि मधु, यश्चायमस्यां पृथिव्यां तेजोमयो अमृतमयः पुरुषो यश्चायमध्यात्मं शरीरस्तेजोमयो अमृतमय: पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मदँ सर्वम् ।।१।।
प्र. – पूर्वं, तस्य हैतस्य पुरुषस्य रूपं यथा माहारजनं वासः इति मूर्तामूर्तब्राह्मणे दिव्यमङ्गलविग्रहविशिष्टतया प्रतिपादितः पुरुष एव मैत्रेयी ब्राह्मणे आत्मा वा अरे द्रष्टव्यः इत्युक्त आत्मा सर्वान्तर्यामि इति प्रतिपादनाय इदं ब्राह्मणमारभ्यते । इयं पृथिवी सर्वेषां भूतानां मधु; अस्यै पृथिव्यै सर्वाणि भूतानि मधु इत्यादिना। इयं दृश्यमाना पृथिवी सर्वेषां भूतानां मधु । सर्वभूतानां धारणानपानादिहेतुत्वयोपजीव्यत्वेन पृथिव्यास्सर्व-भूतमधुत्वम् । अस्यै पृथिव्यै – अस्याः पृथिव्या इत्यर्थः । विभक्तिव्यत्ययश्छान्दसः । सर्वभूतानां पृथिवीधार्यत्वेन तत्पोष्यत्वेन तदनुकूलत्वात् पृथिवीं प्रति मधुत्वं द्रष्टव्यम् । एवं पृथिव्याः भूतानाञ्चोपजीव्योपजीवकत्वेन परस्परमधुत्वमित्यर्थः । यश्चायमस्यां पृथिव्याम् इत्यादि । अस्यां – सर्वभूतोपजीव्यतया मधुभूतायां पृथिव्यामन्तर्यामितयावस्थितः ।
तेजोमयः स्वयम्प्रकाशज्ञानमय इति यावत् । अमृतमय: मरणादिधर्मशून्यः । अपहतपाप्मात्वादिगुणाश्रय इति यावत् । यः पुरुषो वर्तते । यश्चायमध्यात्मम् – आत्मनि अध्यात्मम् । अत्र आत्मशब्देन देहेन्द्रियमनःप्राणजीवसङ्घात उच्यते । तस्मिन् योयं शारीरः – शरीरान्तर्यामी तजोमयोऽमृतमयश्चेति पूर्ववत् । यश्चैष पुरुषः अत्र शरीरस्य पृथिवीविकारत्वात् अधिभूतं पृथिव्याः स्थाने अध्यात्मं शरीरस्य निवेशः । अयमेव सः योयमात्मा । योयमात्मा-आत्मा वा अरे द्रष्टव्य इति मैत्रेयी ब्रह्मणे आत्मतया निर्दिष्टः, सोयमेव – पृथिव्यन्तर्यामी, शरीरान्तर्यामी चायमेव इत्यर्थः । अयमेव पुरुषः तस्य हैतस्य पुरुषस्य रूपम् इत्युक्तदिव्यमङ्गलविग्रहवानपि इति द्रष्टव्यम् । इदममृतम् – उपकोसलविद्यादौ एतदमृतमभयमेतद्ब्रह्म इति अमृतत्वब्रह्मत्वादिना निर्दिश्यमानमपि इदमेव । इदं ब्रह्मेदं सर्वं – सर्वं खल्विदं ब्रह्म इत्यादौ सर्वोपादानतया निर्दिश्यमानमपि इदमेव ब्रह्म इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ।। १ ।।
इमा आप: सर्वेषां भूतानां मध्वासामपाँ सर्वाणि भूतानि यश्चायमास्वप्सु तेजोमयोऽमृतमयः पुरुषो याचायमध्यात्मँ रेतसस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। २ ।।
प्र. इमा आप: सर्वेषां भूतानाम् इत्यादि । रैतसः – यो रेतसि तिष्ठन् यो रेतेसोऽन्तरं – इत्यन्तर्यामिब्रह्मणे रेतोऽन्तरतया निर्दिष्टः परमात्मा रैतस इत्युच्यते । रेतसो जलविकारवत्वात् । आपो रेतो भूत्वा शिश्नं प्राविशन् (ऐ.उ २-२) इति श्रुतेश्य । अधिभूतमपां स्थाने अध्यात्मं रेतसो निवेशः । अन्योन्योपजीव्योपजीवकत्यवतीरधि भूताध्यात्मयोर्जलरेतसोऽन्तर्यामी पूर्वोक्त आत्मा इत्यर्थः । शिष्ट स्पष्टम् ।। २ ।।
अयमग्नि: सर्वेषां भूतानां मध्वस्याग्ने: सर्वाणि मधु यश्चायमस्तिन्नग्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं वाङ्ग्मयस्तेजोमयीऽमतमयपुरूषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।।३।।
प्र.-अयमग्नि: सर्वेषां भूतानां मधु इत्यादि। अग्न्यभिमानिकत्वाद्वाच: अग्निर्वाग्भूत्वा मुखं प्राविशत् (ऐ.उ. ३-२) इति श्रुतेश्च अध्यात्मं तत्स्थाने वाचो निवेश उपपद्यते । वाङ्मय इति । यो वाचि तिष्ठन् इत्पन्तर्यामिब्राह्मणोक्त इत्यर्थः । शिष्टं पूर्ववत् ।।३।।
अयं वायु: सर्वेषां भूतानां मध्वस्य वायो: सर्वाणि भूतानि मधु। यश्चाय–मस्मिन्वायौ तेजोपयोऽमृतमय: पुरुषो यश्चायमध्यात्मं प्राणस्तेजोमयोऽमृतमय: पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। ४ ।।
प्र. – अयं वायुः सर्वेषां भूतानां मधु इत्यादि । मुख्यप्राणस्य वायुविकारत्वात् तत् स्थाने तन्निवेश:। प्राण:- मुख्यप्राणशरीरतया प्राण इति होवाच इत्यादावुक्त इत्यर्थ: ।।४।।
अयमादित्य: सर्वेषां भूतानां मध्वस्यादित्यस्य सर्वाणि भूतानि मधु। यश्चायमस्मिन्नादित्ये तेजोमयोऽमृतमय: पुरुषो यश्चायमध्यात्मं चाक्षुषस्तेजो–मयोऽमृतमय: पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम्।।५।।
प्र. – अयमादित्यस्सर्वेषां भूतानां मधु इत्यादि । सर्वत्र उपजीव्योपजीवकभावेन मधुत्वं ज्ञेयम् । आदित्यश्चक्षुर्भूत्वा अक्षिणी प्राविशत् (ऐ.उ.३-२) इति श्रुतेरादित्यस्य चक्षुरभिमानित्वात् आदित्यस्थाने चक्षुनिवेश इत्येवं सम्बन्धविशेषः तत्र तत्र द्रष्टव्यः । चाक्षुष इति । यश्चक्षुषितिष्ठन् इत्युक्त इत्यर्थः ।। ५ ।।
इमा दिशः सर्वेषां भूतानां मध्वासां दिशां सर्वाणि भूतानि मधु । यश्चायमासु दिक्षु तेजोमयोऽमृतमयः पुरुषो याचायमध्यात्मं श्रौत्रः प्रातिश्रुत्कस्तेजोमयोऽमृतमय: पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। ६ ।।
प्र. –इमा दिशः सर्वेषाम् इत्यादि । श्रौत्रः – श्रौत्रान्तर्यामी । प्रातिश्रुत्कः -.प्रतिश्रुत्का – प्रतिध्वनिः तत्सम्बन्धी प्रातिश्रुत्कः । प्रतिशब्दग्राहीति यावत् । मूलशब्दग्राही इत्यपि सिद्धम् । प्रतिशब्दग्रहणस्य मूलशब्दग्रहणपूर्वकत्वात् । तदाहित्वञ्च परमात्मनः श्रोत्रेन्द्रियाधिष्ठातृत्वात् उपपद्यत इति द्रष्टव्यम् । दिशश्श्रोत्रं भूत्वा कर्णो प्राविशत् (ऐ.उ.२) इति श्रुतिरत्रानुसन्धेया ।। ६ ।।
अयं चन्द्रः सर्वेषां भूतानां मध्वस्य चन्द्रस्य सर्वाणि भूतानि मधु । यश्चायमस्मिंश्चन्द्रे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानस्तेजोमयोऽमृतमय: पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। ७ ।।
प्र. – अयं चन्द्रः सर्वेषाम् इत्यादि । मानस इति यो मनसि तिष्ठन्मनसोऽन्तर इत्युक्तः परमात्मा इत्यर्थः । चन्द्रस्य मनोऽधिष्ठातृत्वात् चन्द्रस्थाने मनो निवेश इति प्रष्टव्यम् ।। ७ ।।
इयं विद्युत्सर्वेषां भूतानां मधु । अस्यै विद्युतः सर्वाणि भूतानि मधु । यश्चायमस्यां विद्युति तेजोमयोऽमृतमयः पुरुषो यश्चायध्यात्मं तैजसस्तेजो–मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ॥ ८ ॥
प्र. – इयं विद्युत् सर्वेषां भूतानां मधु इत्यादि । अस्यै विद्युते – अस्याः विद्युत इत्यर्थः, तैजसः – कौक्षेयतेजस्सम्बन्धी इत्यर्थः । विद्युज्जाठरयोः तैजसत्वेन ऐक्यात् तत्स्थानेतदुक्तिः
अयं स्तनयित्नु: सर्वेषां भूतानां मध्वस्य स्तनयित्नोः सर्वाणि भूतानि मधु । यश्चायमस्मिंस्तनयित्नौ तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शाब्दः सौवरः तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।।९।।
प्र. – अयं स्तनयित्नु: सर्वेषां भूतानां मधु इत्यादि । ‘स्तनयित्नुः‘ – मेघगर्जनं शाब्दः-वागिन्द्रियोच्चार्यमाणशब्दान्तर्यामी । यस्सर्वेषु वेदेषु तिष्ठन् (बृ.उ.३-७-१९) इत्याधुक्तः । तस्यैव विशेषणम् सौवर इति । स्वरे भवः सौवरः । द्वारादित्वात् ऐजागमः । अत्र स्तनयित्नुरिति मेघनिष्ठघनगर्जनमेव गृह्यते । अध्यात्मं तत्स्थाने शब्दस्य निवेशादिति द्रष्टव्यम् । अत्र शब्दस्तु अद्रव्यत्वेन शरीरत्वासम्भवात् ‘तद्गुणक’ द्रव्यनिष्ठतया वा तदुक्तिद्रष्टव्या । प्रमाणबलादद्रव्यस्यापि शब्दस्य द्रव्यत्वघटितशरीरत्वाभावेऽपि परमात्माश्रयत्वेन प्रकारान्तरेण शरीरत्वोक्तिरविरुद्धा इति वा द्रष्टव्यम् ।। ९ ।।
अयमाकाशः सर्वेषां भूतानां मध्वस्याकाशस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्नाकाशे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ हृद्याकाशस्तेजो–मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ, सर्वम् ।।१०।।
प्र.-अयमाकाशस्सर्वेषां भूतानां मधु इत्यादि । हृद्याकाश इति । अथ यदिदमस्मिन् ब्रह्मपुरे दहरं पुण्डरीकं वेश्म दहरोऽस्मिन्नन्तर आकाश इत्युक्तः परमात्मा इत्यर्थः । शिष्ट स्पष्टम् ।। १० ।।
अयं धर्मः सर्वेषां भूतानां मध्वस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन्धर्म तेजोमयोऽमृतमय: पुरुषो यश्चायमध्यात्मं धार्मस्तेजोमयोऽमृतमय: पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। ११ ।।
प्र. – अयं धर्मस्सर्वेषां भूतानां मधु इत्यादि । श्रुतिस्मृतिप्रसिद्धो ज्योतिष्टोमादिरूपो धर्मः । अत्र परमात्मनः यश्चायमस्मिन् धर्मे इति क्रियारूपधर्मान्तर्यामित्वोक्तिः । यस्य वेदाश्शरीरं यस्य यज्ञाश्शरीरम् इत्यादाविव पूर्वखण्डोक्तशब्दवदेव तदाश्रयद्रव्यनिष्ठतया द्रष्टव्या । अपृथसिद्धिमात्राभिप्राया वा इति न विरोधः । धार्मस्तु तत्फलभूतसुखादि-रूपः । तदन्तर्यामी पुरुष इत्यर्थः ।। ११ ।।
इदं सत्य सर्वेषां भूतानां मध्वस्य सत्यस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् सत्ये, तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मँ सात्यस्तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। १२ ।।
प्र– इदं सत्यं सर्वेषां भूतानां मधु इत्यादि । सत्यं – सत्यवचनं सात्यं -तत्फलभूतं सुखादि । अत्रापि सत्यान्तर्योमित्वोक्तिः पूर्ववत् तदभिमानिदेवतादिद्वारा द्रष्टव्या ।। १२ ।।
इदँ मानुषं सर्वेषां भूतानां मध्वस्य मानुषस्य सर्वाणि भूतानि मधु । यश्चायमस्मिन् मानुषे तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं मानुषस्तेजो–मयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। १३ ।।
प्र. – इदं मानुषं सर्वेषां भूतानां मधु इत्यादि । अत्र अधिदैवतं मानुषं नाम लक्षणया मनुष्यप्रसिद्धमग्रीन्द्रादिरूपम् । अध्यात्म मानुष इत्यत्र मानुषशब्दो मुख्यमनुष्यान्तर्यामिपरः ।। १३ ।।
अयमात्मा सर्वेषां भूतानां मध्वस्यात्मनः सर्वाणि भूतानि मधु । यश्चायमस्मिन्नात्मनि तेजोमयोऽमृतमयः पुरुषो यश्चायमात्मा तेजोमयोऽमृतमयः पुरुषोऽयमेव स योऽयमात्मेदममृतमिदं ब्रह्मेदँ सर्वम् ।। १४ ।।
प्र. – एवमध्यात्माधिभूताधिदैवतभेदभिन्नसर्वाचेतनान्तर्यामित्वम् ; तद्द्वारा सर्वाचेतनवैलक्षण्यं च ब्रह्मणः प्रतिपादितम् । अथ चेतनान्तर्यामित्वमुखेन सर्वचेतनवैलक्षण्यं प्रतिपादयति । अयमात्मा सर्वेषां भूतानां मधु इति । आत्मा प्रत्यगात्मा इत्यर्थः । यश्चायमस्मिनात्मनि तेजोमयोऽमृतमय इति । सर्वेषु पर्यायेषु यश्चायं तेजोमयोऽमृतमयः पुरुष इति निर्दिष्टो यः, सोऽस्मिन् आत्मन्यवस्थितोऽन्तर्यामीत्यर्थः, सोऽपि क इत्यत्राह – यश्चायमात्मा इति । पूर्वब्राह्मणयोः पुरुषात्मशब्दाभ्यामुक्तः परमात्मैवेत्यर्थः ।। १४ ।।
स वा अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूतानाँ राजा । तद्यथा रथनाभौ च रथनेमौ चाराः सर्वे समर्पिता:, एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मनः समर्पिताः ।। १५ ।।
प्र– स वा अयमात्मा सर्वेषां भूतानामधिपतिः इत्यादि । स वा अयमात्मा यता प्रबन्धेन प्रतिपादितश्चेतनाचेतनविलक्षण आत्मा सर्वेषां भूतानाम् अधिपतिः शेषी । पतिशब्दः शेषिणि रूढः इति व्यासार्यै: समर्थितत्वात् । सर्वेषां भूतानाम् राजा–नियन्ता । नाभि: – चक्रमध्यवर्तिसरन्ध्रकाष्ठम् । नेमिः – बाह्यवलयाकारकाष्ठम् । अरा: मध्यवर्तिदारुशलाकाः । अरा यथा नाभिनेम्याश्रिताः, एवं सर्वाणि भूतानि देवलोकप्राणजीवाः परमात्माश्रिता इत्यर्थः । चेतनाचेतनात्मकः सर्वोऽपि प्रपञ्चः तदाश्रित इति यावत् ।। १५ ।।
[मधुविद्यास्तुत्यर्था आख्यायिका]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् . तद्वां नरा सनये दस उग्रमाविष्कृणोमि तन्यतुर्न वृष्टिम् । दध्यङ् ह यन्मध्वाथर्वणो वामश्वस्य शीर्णा प्रयदीमुवाचेति‘ ।। १६ ।।
प्र. – एवमुपदिष्टमधुविद्यास्तुतये आख्यायिका आरभ्यते । अत्रेयमाख्यायिका अनुसन्धेया । दध्यङ्ङाथर्वणनामा ऋषिः इन्द्रात् मधुब्राह्मणविद्यां प्राप्तवान् । इन्द्रेण च, तदुपदेशसमये स दध्यङ्ङाथर्वण एवमनुशिष्ट: अन्यस्म नैतदुपदेष्टव्यम् । अन्यथा कृते ते शिरश्छेत्स्यामि इति । इत्युक्तोऽप्यसौ लोभादश्विनोः समीपमागत्य एवमुक्तवान् -मयेयं मधु विद्या इन्द्रात् प्राप्ता । अतोऽस्या अन्यस्मा उपदेशे स इन्द्रो मे शिरश्छेत्स्यतीति भीतोऽस्मि । तद्भयं युवाभ्यां निवार्यते चेत् , युवयोः मधुब्राह्मणमुपदेक्ष्यामि इति । ततः ताभ्यामश्विभ्यां स दध्यङ्ङाथर्वण इत्थं प्रयुक्तः – इन्द्रात् ते भयं व्यपैतु । आवां त्वां रक्षिष्यावः । तत्रेत्यमुपायं करिष्याव: । उपदेशात्पूर्वकाले आवामेव त्वदीयं शिरश्छित्वाऽन्यत्र स्थापयित्वा अन्यदीयेन शिरसा त्वां योजयिष्यावः । तेन शिरसा आवाभ्यामुपदिश ।
उपदेशकुपितेन इन्द्रेण तच्छिरसि छिन्ने त्वदीयमेव शिरो यथापूर्वं प्रतिसन्धास्यामहे इति । एवं तौ तेन समयं कृत्वा तथैव तेनोपायेन विद्यां प्राप्तवन्तौ; तत इन्द्रेण तच्छिरसि छिन्ने तस्य पूर्वशिरो यथापूर्वं प्रतिसंहितवन्तौ चेति । इमामाख्यायिकामभिप्रेत्याह –इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच इति । वै शब्दो यथोक्ताख्यायिका-वृत्तान्तस्मरणे दधि अञ्चतीति दध्यङ् । ऋत्विगित्यादिना क्विन् । हलन्तादसंयोगान्तलोपे, क्विन् प्रत्ययस्य कुरिति कुत्वम् । आथर्वणः – अथर्वणः पुत्रः । स दध्यङ्ङाथर्वणः अश्विभ्यां तदेतत् मधुब्राह्मणमुवाच इत्यर्थः । तदेतदृषिः पश्यन्नवोचत् । तदेतत्–अश्विनोर्वृत्तं क्रूरकर्मणा विद्याप्राप्तिरूपं योगसाक्षात्कारेण पश्यन् कश्चिदृषिः अश्विनौ प्रति उवाच इत्यर्थः । किमितीत्यत्राह –
तद्वां नरा सनये इत्यादि । हे नरा । सुपां सुलुक् (पा.सू.७-१-३९) इत्यादिना द्विवचनस्य आडादेशः । हे नरौ – दिव्यपुरुषौ; हे अश्विनौ; वां – युवयोः, सनये -सनिः – लाभः, लाभाय । मधुविद्यालाभाय इति यावत् । तल्लाभाय युवाभ्यां कृतमिति फलितार्थः । उग्रं क्रूरं शिरश्छेदन पुनः प्रतिसन्धानरूपं दंसः – कर्म अस्ति । सकारान्तोयं दंसश्शब्दः । तन्यतुः – पर्जन्यः । वृष्टिं न -वृष्टिमिव । न शब्द इवार्थे । यथा पर्जन्यो वृष्टिं प्रकाशयति; एवं तत् – पूर्वकाले युवाभ्यां कृतं कर्म आविष्कृणोमि -प्रकाशयामि । लोकप्रसिद्धं यथा तथा घोषयामि इत्यर्थः, किं तदा विष्क्रियत इत्यत्राह दध्यङ् – – – –उवाच इति । ईं शब्दोऽनर्थको निपातः । हः – प्रसिद्धौ । हे अश्विनौ! वां – युवयोः दध्यङ् आथर्वणः अश्वस्य शीर्ष्णा – स्वशिरोव्यतिरिक्तेन अश्वशिरसा मधु – मधुविद्यां प्रोवाचेति यत्, तत् ह प्रसिद्धं यथा तथा आविष्कृणोमीत्यर्थः । इति स ऋषिः तावभीषयदिति भावः । ततश्च एवं महता प्रयत्नेन अश्विभ्यां दधीचो विद्या सङ्गृहीता इयमिति विद्या स्तुता भवति ।। १६ ।।
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् –आथर्वणायाश्विनौ दधीचेऽश्व्यँ (श्वियँ) शिरः प्रत्यैरयतम् । स वां मधु प्रवोचदृतायन् त्वाष्ट्रं यद्दस्रावपि कक्ष्यं वामिति ।। १७ ।।
प्र –इदं वै तन्मधु इति । पूर्ववदर्थः । मन्त्रान्तरप्रदर्शनाय अयमारम्भः । तं मन्त्रमेवाह – आथर्वणायाश्विनौ इत्यादि । हे अश्विनौ ! दधीचे आथर्वणाय – दध्यङ्नाम्ने आथर्वणाय अश्व्यं शिरः-अश्वस्य सम्बन्धि शिरः प्रत्यैरयतम् – युवां प्रतिसंहितवन्तौ । सः दध्यङ्नामा ऋषिः वां – युवयोः ऋतायन् – उपदेक्ष्यामीति स्वोक्तं वचः ऋतं कुर्वन् – सूनृतं कुर्वन् त्वाष्ट्रं मधु – त्वष्टा – यज्ञशिरः । तत्सम्बन्धि त्वाष्ट्रम् । शिरस्त्वमाधाय-कत्वसाम्यात् तादृशं मधु – प्रवर्ग्यमिति यावत् । प्रवर्ग्यस्य तु त्वाष्टृशब्दितयज्ञशिरः प्रतिसन्धानार्थत्वात् त्वाष्ट्रत्वम् । मधुब्राह्मणस्यापि शिरःप्रति-समाधानार्थतया त्वाष्ट्रतुल्यतया त्वाष्ट्रत्वमित्यर्थः । तत् प्रवोचत् – प्रोक्तवान् । हे दस्रौ! हे अश्विनौ ! नासत्यावश्विनौ दस्रौ (अ.को.१.१.५१) इत्यमरः । कक्ष्यं – गोप्यमपि यत् ब्रह्मसम्बन्धि मधुब्राह्मणम्, वां–युवयोः प्रोवाचेत्यर्थः । ततश्चानेन क्रूरकर्मणा ब्रह्मविद्याप्राप्तिर्युवां अयुक्ता इत्युपालम्भः । विद्यास्तुत्यर्थं पूर्ववत् ।। १७ ।।
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यतन्नवोचत्–पुरश्चक्रे द्विपदः पुरश्चक्रे चतुष्पदः । पुरः स पक्षी भूत्वा पुरः पुरुष आविशत् इति । स वा अयं पुरुषः सर्वासु पूर्षु पुरिशयो नानेन किञ्चनानावृतं नानेन किञ्चिनासंवृतम् ।। १८ ।।
प्र. – इदं वै-..-अवोचत् इति । पूर्ववदर्थः । मन्त्रान्तरप्रदर्शनार्थोऽयमारम्भः। पुरश्चक्रे द्विपदः इत्यादि । मधुविद्याप्रतिपाद्यः सर्वान्तर्यामी परमात्मा । कुतः स. परमात्मा । द्विपदः पुरश्चक्रे। पुरः – पुराणि । पूर्शब्दोऽयं द्वितीयाबहुवचनान्त: । शरीराणीति यावत् । द्विपात्पुराणि देवमनुष्यादिशरीराणि चक्रे – सृष्टवान् । तथा चतुष्पदः पुरः – चतुष्पात्पुराणि पश्वादिशरीराणि च चक्र इत्यर्थः । एवं देवमनुष्य- पश्वादिशरीरं सृष्ट्वा पुर:– पुरस्तात् – आदिकाले सः-परमात्मा पक्षीभूत्वा संसरणहेतुभूत’काम्यविद्याकर्मावृतो भूत्वा इत्यर्थः । अत्र काम्यविद्याकर्मणी एव संसरतो जीवस्य पक्षत्वेन रूप्येते । ताभ्यामेव संसरणात् । संसारिजीवशरीरको भूत्वेति यावत् । परमात्मनः अद्वारककर्मसम्बन्धाभावात् पुरः आविशत् । सृष्टानि सर्वाणि पुराणि जीवशरीरः परमात्मा प्रविष्ट इत्यर्थः । अनेन जीवेनात्मनानुप्रविश्य (छां.उ.६-३-२) इति श्रुत्यन्तरात् । अत एव पुरुषः – पुरुष उच्यत इत्यर्थः । तमिमं मन्त्रं श्रुतिरेव स्वयं व्याचष्टे – स वा अयं पुरुषः सर्वासु पूर्षु पुरिशय इत्यादि । वै शब्दः प्रसिद्धौ । सर्वासु पूर्षु – सर्वशरीरेषु वर्तमानः सोऽयं – मधु ब्राह्मणप्रतिपाद्यः, पुरसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः । शकारस्य षकारोयं व्यत्ययेन प्रयुज्यते ।। इत्युक्तरीत्या पुरिशय: – सर्वशरीरान्तर्वतीति । तस्मात् पुरिशयनाद्धेतोः पुरुष इत्यर्थः । तामेव सर्वान्तर्यामित्वरूपां सर्वव्याप्तिं व्यतिरेकमुखेन द्रढयति । नानेन किञ्चिनानावृतं नानेन किञ्चनासंवृतम् इति। अनावृतं – बहिरनावृतमित्यर्थः । असंवृतं– अन्तरसंवृतमित्यर्थः । ‘अन्तर्बहिश्चानेन परमात्मना’ अव्याप्तं किञ्चन – किमपि वस्तु नास्तीत्यर्थः । अतोऽस्य पुरुषशब्दवाच्यत्वमिति मन्त्रार्थ इत्यर्थः ।। १८ ।।
[परमात्मनः सर्वात्मत्वम्]
इदं वै तन्मधु दध्यङ्ङाथर्वणोऽश्विभ्यामुवाच । तदेतदृषिः पश्यन्नवोचत् –रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः पुरुरूप ईयते युक्ता ह्यस्य हरयश्शता दर्शति । अयं वै हरयोऽयं वै दश च शतानि सहस्राणि बहूनि चानन्तानि च । तदेतत् ब्रह्मापूर्वमनपरमनन्तमबाह्यमात्मा ब्रह्म सर्वानुभूरित्यनु–शासनम् ।। १९ ।।
॥ इति चतुर्थाध्याय पञ्चमब्राह्मणम् ।।
प्र. – इदँ वै तन्मयु इत्यादि । पूर्ववदर्थः । मन्त्रान्तरप्रदर्शनार्थोऽयमारम्भः । तमेव मन्त्रमाह – रूपं रूपं प्रतिरूपो बभूव इत्यादि । रूप्यते इति रूपं – दृश्यं वस्तु । वीप्सायां द्विवचनम् । प्रतिवस्तु इति यावत् । प्रतिरूप: सदृशरूप इत्यर्थः तत्तद्रूपशब्दित वस्तुसदृशतयाऽन्तर्यामितया परिपूर्णोऽवस्थित’ इति यावत् । बभूव इति । सर्वदा परिपूर्ण एव इत्यर्थः । यद्वा – प्रतिरूपं – प्रतिष्ठितं रूपं यस्य सः तथोक्तः । सर्वान्तर्यामीति फलितोऽर्थः । तदस्य रूपं प्रतिचक्षणाय । चक्षिङो भावे ल्युट् । प्रतिचक्षणं व्यवहारः । प्रतिचक्षणाय – व्यवहाराय । तदिति श्रवणात् यदिति शेषः । यत् व्यवहाराय यत् व्यवहर्तव्यमिति यावत् । तत् सर्वमस्य मधुब्राह्मणवेद्यस्य परमात्मनः रूपं -शरीरमित्यर्थः । यद्वा – तत् – तस्मादिति वाऽर्थः । तथा च यस्मादयं प्रतिरूपो बभूव, तस्मादेव सर्वं व्यवहार्यं वस्तु तच्छरीरमित्यर्थः । ननु शरीरसम्बन्धस्य कर्माधीनत्वात् तत्कर्मानारब्धस्य व्यवह्रियमाणप्रपञ्चस्य कथं तद्रूपत्वम्? तस्य कर्माभावात् इत्याशङ्ख्यामाह – इन्द्रो मायाभिः पुरुरूप ईयते इति ।
इन्द्र: परमेश्वरः । इदि परमेश्वर्यै इति हि धातुः । माया वयुनं ज्ञानम् इति नैघण्टुकाः । मायाभिः – सङ्कल्परूपज्ञानैः । विचित्राश्चर्यकारित्वात् ज्ञानरूपत्वाच्च मायाशब्दितत्वं सङ्कल्पस्योपपद्यते । पुरुरूपः बहुशरीरः सः परमेश्वरः स्वसङ्कल्परूपज्ञानेनैव बहुशरीरो भवति, न कर्मापेक्षया । ईयते – तादृशबहुशरीरस्सन्नवर्तत इत्यर्थः । स्वेच्छागृहीतानन्तदेह इति यावत् । न तु रूपं रूपं प्रतिरूपो बभूव इत्यतदयुक्तम् । अनन्तेषु ब्रह्मादिस्तम्बपर्यन्तेषु रूपेषु एकस्य परमात्मनः तत्तदन्तर्वर्तितयाऽवस्था नासम्भवात् इत्याशङ्क्याह युक्ता ह्यस्य हरयश्शता दशा इति । शता शतानीत्यर्थः । सुपां सुलुक् (पा.सू.७-१-३९) इत्यादिना आकारादेशः । अस्य – अनन्तप्रपञ्चस्य युक्ताः-योग्या इत्यर्थः । तदनुरूपसङ्ख्याशालिन इति यावत् । शतानि दश हरयः – शतानि दश – अनन्ता इति यावत् । अनन्ता हरयः । अन्तर्यामिविग्रहानन्त्यादानन्त हरय ‘इत्युक्तमिति’ द्रष्टव्यम् । सर्वत्र मन्त्रसमाप्तौ इति शब्दः ।
अमुं मन्त्रं श्रुतिः स्वयमेव व्याकरोति । अयं वै – – – अनन्तानि इति । वै शब्दोऽवधारणे । यमेक एव हरिः दश ‘शतानि च सहस्राणि बहूनि च हरयो भवति । अतोऽयमेव अनन्तानि हरयो भवति । एवं प्रत्येकं स्वरूपेणापि पर्याप्त्या सर्वशरीरित्वं उपपद्यते इति च शब्दार्थः । विचित्रशक्तेः परमात्मनः कानुपपत्तिरिति भावः । अत्र पूर्वमन्त्रे जीवद्वारकसर्वानुप्रवेशेन पुरुषत्वमुपपादितम् । द्वितीयेन तु विग्रहद्वारकानुप्रवेशेन साक्षाद्व्याप्त्या च पुरुषत्वोपपादनमिति भेदः । आभ्यां मन्त्राभ्यां वेद्यभूतपरमात्ममहिमप्रशंसाद्वारा मधुविद्या स्तुता भवति । एतादृशमहिमशालिपरमात्म-विषयत्वादेवेयं मधुविद्या पूर्वोक्तरीत्या अश्विभ्याम् अतिश्रमेणाप्यार्जिता इति तन्माहात्म्यवेदिनौ ऋषी ऊचतुः इति फलितार्थः ।
एवमियता प्रबन्धेन निर्दिष्टं ब्रह्म इत्युपसंहरति । तदेतद्ब्रह्म इति । ब्रह्मशब्दित-त्रिविधपरिच्छेदराहित्यमुपपादयति । अपूर्वम् इत्यादिना । अपूर्वमनपरम् – पूर्वोत्तर-कालशून्यम् । कालापरिच्छिन्नमित्यर्थः । कालापरिच्छिन्नस्य हि पूर्वोत्तर कालसम्भव इति भावः । अनन्तरमबाह्मम् । देशपरिच्छेदशून्यमित्यर्थः । देशपरिच्छिन्नस्य हि बाह्याभ्यन्तरव्यवहारार्हत्वमिति भावः । अथ सर्वोत्कृष्टत्वलक्षणं वस्तुपरिच्छेदाभावमुप-पादयति अयमात्मा इति । सर्वनियन्तृतया सर्वोत्कृष्टमित्यर्थः । यद्वा सर्वात्मत्वादेव इदमिदं नेति निर्देशानर्हत्वलक्षणवस्त्वपरिच्छेदोऽत्र विवक्षितो द्रष्टव्यः । अयं – मधुविद्याविषय इत्यर्थः । ब्रह्म – एवं त्रिविधपरिच्छेदशून्यतया ब्रह्मशब्दवाच्य इति भावः । सर्वानुभूः -सर्वज्ञः । इदं जगत्कारणत्वनियन्तृत्वाक्षिप्तसर्वशक्तित्वादिगुणानामपि उपलक्षणम् । अत्र सर्वम् अनुभवति । सर्वदा सर्वथा साक्षात्करोति इति व्युत्पत्तिष्टव्या । इत्यनुशासनम् । अनुशासनम् – उपदेशः इति – पर्याप्त इत्यर्थः ।। १९ ।।
।। इति चतुर्थाध्याये पञ्चमब्राह्मण प्रकाशिका ।।
चतुर्थाध्याय षष्ठं ब्राह्मणम्
वंशब्राह्मणम्
[मधुविद्यास्तुतये वंशब्राह्मणम्]
अथ वँश: – पौतिमाष्यो गौपवनात्, गौपान: पौतिमाष्यात् , पौतिमाष्यो गौपवनात्, गौपवन: कौशिकात् , कौशिक: कौण्डिन्यात् , कौण्डिन्यश्शाण्डिल्यात्, शाण्डिल्य: कौशिकाच्च, गौतमाच्च गौतमः ।।१।।
आग्निवेश्यात्, आग्निवेश्यः शाण्डिल्यच्च आनभिम्लताच्च, आनभिम्लात आनभिम्लातात्, आनभिम्लत आनभिम्लातात्, आनभिम्लातो गौतमात्, गौतमः सैतवप्राचीनयोग्याभ्याम्, सैतवप्राचीनयोग्यौ पाराशर्यात्, पाराशर्य: भारद्वाजात्, भारद्वाजो भारद्वाजच्च गौतमाच्च, गौतमो भारद्वाजात्, भारद्वाज:, पाराशर्यात्, पाराशर्यो बैजवापायनात्, बैजवापायन: कौशिकायने; कौशिकायनिः ॥२॥
प्र.-अज्ञातसम्प्रदायाया विद्याया अभ्युदयफलकत्वाभावेन अनादरणीयत्वात्, आचार्यवंशो ज्ञेयः इति श्रवणाच्च विद्याप्रवर्तकाचार्यपरम्परामुपदिशति – अथ वंश इत्यादिना । वंशः – शिष्याचार्यपरम्पराक्रमः । कीर्त्यते इति शेषः । सर्वत्र प्रथमान्तैः शिष्यनिर्देशः, पञ्चम्यन्तैराचार्यनिर्देशः । पौतिमाष्यो गौपवनात् – पौतिमाष्य:, शिष्य: आचार्यात् गौपवनात् । प्राप्तविद्यो बभूव इति शेषः । एवमुत्तरत्रापि द्रष्टव्यम् ।। १ ।।
शाण्डिल्यः कौशिकाच्च गौतमाच्च इति । तस्य शाण्डिल्यस्य आचार्यद्वयं कौशिको गौतमश्चेति भावः । एवमुत्तरत्रापि पञ्चम्यन्तद्वयस्थले द्रष्टव्यम् ।। २ ।।
घृतकौशिकात्, घृतकौशिकः पाराशर्यायणात्, पाराशर्यायणः पाराशर्यात्, पाराशर्यो जातूकर्ण्यात्, जातूकर्ण्य आसुरायणाच्च यास्काच्च, आसुरायणस्रैवणे:, त्रैवणिरौपजन्धने:, औपजन्धनिरासुरेः, आसुरिर्भारद्वाजात्, भारद्वाज आत्रेयात्, आत्रेयो माण्डे:, माण्डिर्गौतमात्, गौतमो (गौतमात्) वात्स्यात्, वात्स्यः शाण्डिल्यात्, शाण्डिल्यः कैशोर्यात् काप्यात्, कैशोर्यः काप्यः कुमारहारितात्, कुमारहारितो गालवात्, गालवो विदर्भीकौण्डिन्यात्, विदर्भीकौण्डिन्यो वत्सनपातो बाभ्रवात्, वत्सनपाद्वाभ्रवः पथ: सौभरात्, पन्थाः सौभरोऽयास्यादाङ्गिरसात्, अयास्य आङ्गिरस आभूतेस्त्वाष्ट्रात्, आभूतिस्त्वाष्ट्र: विश्वरूपात् त्वाष्ट्रात्, विश्वरूपस्त्वाष्ट्रोऽश्विभ्याम्, अश्विनौ दधीच आथर्वणात्, दध्यङ्ङाथर्वणोऽथर्वणो दैवात्, अथर्वा दैवो मृत्योः प्राध्वँसनात्, मृत्युः प्राध्वँसन: प्रध्वँसनात्, प्रध्वँसन एकर्षेः, एकर्षिविप्रचित्तेः, विप्रचित्तिर्यष्टे:, व्यष्टिः सनारोः, सनारुः सनातनात्, सनातनः सनकात्, सनक: परमेष्ठिन:, परमेष्ठी ब्रह्मणः । ब्रह्म स्वयम्भु । ब्रह्मणे नमः ।। ३ ।।
प्र– परमेष्ठी ब्रह्मणः ब्रह्म स्वयम्भु इति । पूर्वोक्तस्सनकगुरुः परमेष्ठी – चतुर्मुखः, ब्रह्मणः – परब्रह्मणः । सर्वेश्वरात् नारायणात् प्राप्तविद्यो बभूव इत्यर्थः ।
तच्च ब्रह्म नारायणः स्वयम्भु – स्वयमेव भवतीति स्वयंभुः उपदेशमन्तरेण ‘विद्या प्रवर्तकं भवति’ इत्यर्थः ।
ब्रह्मणे नमः इति । सर्वगुरो ब्रह्मणे नारायणाय नम इत्यर्थः ।। ३ ।।
।। इति चतुर्थाध्याये षष्ठब्राह्मण प्रकाशिका ।।
।। इति चतुर्थोऽध्यायः ।।