[highlight_content]

बृहदारण्यकोपनिषत् तृतीयोऽध्यायः

।। श्रीः ।।

 

बृहदारण्यकोपनिषत्

 

(शुक्लयजुर्वेदकाण्वशाखान्तर्गता)

[उपक्रमशान्तिपाठः]

हरिः ओम्

पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। ।। ओं शान्तिः शान्तिः शान्तिः ।।

शुक्लयजुर्वेदीयानां एषः शान्तिपाठमन्त्रः । परब्रह्मणः समग्रस्वरूपस्वभावप्रतिपादकः इति यथासिद्धान्तं विपुलविशदं विवरणं अर्हति । तथा हि – पूरी आप्यायने (धा.पा.१८०४) इत्यस्मात् चौरादिकत्वेन स्वार्थणिजन्तात् धातोः क्तप्रत्यये सति वा दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः (पा.सू.७-२-२७) इति पाणिनि सूत्रेण पूर्णशब्दोऽयं निपात्यते । इडागमाभावः निपातस्य फलम् । णिलोपः, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं चेति पूर्णशब्दसिद्धौ प्रक्रिया । क्तप्रत्ययश्च इह कर्तरि कर्मणि वेति उभयथापि भाव्यम् । तत्र कर्तरि – ब्रह्मस्वरूपेण पूरयति – व्याप्नोति इत्यर्थः । कर्मणि तु ब्रह्म कल्याणगुणैः सम्भृतमित्यर्थः । असङ्कुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र सर्वदा सर्वथा च पूर्णत्वं ब्रह्मणः प्रतिपाद्यते ।

तद्यथा – सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम सर्वव्याप्तस्य तत्तद्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् । तद्वा कथम्? न हि एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भवः, इति शङ्का निरस्यते सिद्धान्तिभिः विशिष्टाद्वैतिभिः व्यक्तिषु परिसमाप्तामपि व्यापिनीं तार्किकाणां जाति निदर्शयद्भिरिति भाव्यम् । सर्वदा-इति कालानवच्छेदेन व्याप्तिविवक्षा । सर्वथा-इति व्याप्तिप्रकारविवक्षा च । तत्र स्वरूपतः गुणतश्चेति व्याप्तिप्रकारद्वैविध्यम् । तेन दीपादुत्पन्नप्रदीपन्यायेन परस्वरूपवत् उत्तरेषां ‘व्यूह-विभव-अन्तर्यामि-अर्चावताराणां अपि गुणैः पूर्णतासिद्धिः । एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि । तथा हि – पूर्णमदः पूर्णमिदं इति पूर्णमिदं पूर्णमदः इति च पाठभेदः दृश्यते । तत्र विप्रकृष्टवाचिना अदश्शब्देन नित्यविभूतिवर्तिपरस्वरूपग्रहणम् । सन्निहितवाचिना इदंशब्देन च हृदयगुहावतिं अन्तर्यामिरूपं विवक्षितम् । पूर्णशब्दः गुणपौष्कल्यवचनः । तथा च – परवासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं च षाड्गुण्यपुष्कलमिति प्रथमवाक्यार्थः । अथ, पूर्णात् – पूर्वोक्तपरवासुदेवसकाशात् आविर्भूतं पूर्णं – व्यूहस्वरूपं, उदच्यते – बहुप्रकारं भवति । सङ्कर्षण-प्रद्युम्न-अनिरुद्ध-रूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः । तत्र व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतः गुणषट्कमेव इति न न्यूनता भाव्या । इदं चोक्तं पाञ्चरात्रानुसारतः श्रीवत्सचिह्नगुरुभिः वरदराजस्तवे-

गुणैष्षभिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ

ततस्तिस्रः तेषां त्रियुगयुगळैर्हि त्रिभिरभूत् ।। (१६) इत्यादिना

पूर्णस्य पूर्णं – इह षष्ठ्यन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं वदति । तत्सम्बन्धि पूर्ण रामकृष्णादि विभवावतारजातम् । तत् (द्वितीयान्तम्) आदाय स्वहेतुत्वेन स्वीकृत्य, पूर्णमेवावशिष्यते – अर्चावताररूपमेव चरमतया वर्तते सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्ण च, इति मन्त्रस्य पदार्थविवरणम् । एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे एवंविधपरिपूर्ण-ब्रह्मस्वरूपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूषणस्य अरुम्बदाख्ये द्रविडभाषामयटिप्पणे समञ्जसमिदं विवरणं दृश्यम् ।

यद्यपि श्रीरङ्गरामानुजमुनीन्द्रः बृहदारण्यके (७-१) अयं मन्त्रः प्रकरणात् प्रणवस्तुति-परतया व्याख्यातः । तदेवम् – पूर्णमदः पूर्णमिदं इत्यनेन परोक्षप्रत्यक्षसर्वलोकानां  वेदशब्दप्रभवत्वात् तद्व्याप्तत्वं प्रोच्य, (कारणेन कार्यस्य व्याप्तत्वात् कारणीभूतवेदशब्दव्याप्तता लोकानां इति) । एवं पूर्णात् (व्याप्तात् लोकात्) पूर्ण पूरणकर्तृव्याहृतिरूपभूर्भुवरादि शब्दजातम् उदच्यते – उत्कृष्टं भवति इति च व्याख्याय, पूर्णस्य पूर्णं – व्याप्तलोकस्य पूरकं व्याहतिरूपशब्दजातम्, आदाय – उपसंहृत्य, पूर्णं – तस्यापि व्यापकं ओङ्काररूपं वस्तु, अवशिष्यते – कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते इति विवरणं कृतम् । अथ तैरेव अन्ते इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम् । अन्यथा निमित्तकारणस्य व्याहत्यादेः कार्यव्यापकत्वासम्भवात् । उपादानभूतस्य भूतपञ्चकस्यैव व्यापकत्वसम्भवात् असामञ्जस्यं स्यात् इति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्त्या अवास्तवमेवेदं प्रणवस्तुतिपरत्वमिति व्यञ्जनात्, युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मण एव परत्वादिपञ्चकपरतया व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरङ्गरामानुजीयं विवरणं वाक्यान्वयाधिकरणगतश्रुतप्रकाशिका वचनविरुद्धमपि । तत्र हि व्यासार्यै: यादवप्रकाश-पक्षनिराससन्दर्भ परमात्मपरतयैव मन्त्रोऽयं विवृतः । तत्रेयं तदीयसूक्तिः परमात्मनः पूर्णत्वं च अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्यविशिष्टतया प्रतिपत्तियोग्यत्वम् इति ।।

।। इति शान्तिपाठविवरणम् ।।

[1. व्यूहः – पर एवोपासनार्थं जगत्सृष्ट्याह्यर्थञ्च वासुदेव – सङ्कर्षण – प्रद्युम्न -अनिरुद्ध भेदेन चतुर्धाऽवस्थितः । विभवः – तत्तत्सजातीयरूपेणाविर्भावः । अन्तर्यामि – स्वर्गनरकाद्यनुभवदशायामपि जीवात्मनः योगिभिः द्रष्टव्यतया हृदयप्रदेशावस्थितरूपम् । अर्चावतारः – देशकालविप्रकर्षरहितः आश्रिताभिमतद्रव्यादिकं शरीरतया स्वीकृत्य तस्मिन्नप्राकृतशरीरविशिष्टस्सन् अर्चकपराधीन-स्रानभोज्या-सनशयनसनस्थितिः सर्वसहिष्णुः परिपूर्णो गृहग्रामनगरप्रशस्तदेशशैलादिषु वर्तमानो मूर्तिविशेषः ।]

बृ दा ण्य को नि त्

तृतीयोऽध्यायः

प्रथमं ब्राह्मणम्

अश्वब्राह्मणम्

[अश्वमेधीयाश्वस्य अङ्गेषु उषा आदि दृष्टिः]

 

हरिः ओम् उषा वा अश्वस्य मध्यस्य शिरः सूर्यश्चक्षुर्वातः प्राणो व्यात्तमग्निर्वैश्वानरः संवत्सर आत्माऽश्वस्य मेध्यस्य द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यं दिश: पार्श्वे अवान्तरदिशः पर्शवः, ऋतवोऽङ्गानि मासाश्चार्द्धमासाश्च  पर्वाण्यहोरात्राणि प्रतिष्ठा नक्षत्राण्यस्थीनि, नभो माँसानि उवध्यँ सिकतासिन्धवो गुदा यकृञ्च क्लोमानश्च पर्वता ओषधयश्च वनस्पतयश्च लोमानि । उद्यन् पूर्वार्धो निम्लोचन् जघनार्धो यद्विजृम्भते तद्विद्योतते यद्विधूनुते तत् स्तनयतियन्मेहति तद्वर्षति, वागेवास्य वाक् ।।

प्रकाशिका

रङ्गरामानुजमुनिविरचिता

[मङ्गलाचरणम्]

अतसीगुच्छसच्छायमञ्चितोरस्थलं श्रिया

अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।।

 

[आचार्यवन्दनम्]

व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि

बृहदारण्यकव्याख्यां करोमि विदुषां मुदे ।।

 

[अवतारिका]

अष्टाध्यायात्मके बृहदारण्यके प्रवर्योपसत्प्रतिपादक प्रथमद्वितीयाध्यायौ उपेक्ष्योत्तरोऽध्यायगणो व्याख्यायते । यद्यपि उषा वा अश्वस्य इत्यादिकमपि अश्वमेधादि-कर्मविषयकमेव, तथापि ब्रह्मदृष्टिः विधिरूपतया ब्रह्मात्मकत्व प्रतिपादनपरतया’ यथाकथञ्चित् ब्रह्मसम्बन्धित्वेन तद्व्याख्यानस्योचितत्वात् । अत एवाश्वमेधब्राह्मणादेब्रह्मपरोपनिषद्भाग-सङ्गतिरुपपद्यते। न च प्रवर्ग्योपसत्पराध्यायद्विकस्य ब्रह्मपर आरण्यकमध्ये विद्यासन्निधौ पाठाद्विद्यार्थत्वं शङ्क्यम्; वेधाद्यर्थभेदात् (ब्र.सू.३-३-२५) इति अधिकरणे शुक्रं प्रविध्य हृदयं प्रविध्य (अथर्व.उ.१) तेजस्वि नावधीतमस्तु (तै.आन.१) इत्यादीनां शत्रुहृदय-वेधाध्ययनादि प्रकाशकानां मन्त्राणां, देवा ह वै सत्रं निषेदुः (शत.ब्रा.१४-१-१) इति बृहदारण्यक आरम्भपठितब्राह्मणप्रतिपादितप्रवर्ग्यादेः च कर्मणः, लिङ्गादिबलेन अन्यत्र विनियुक्तत्वेऽपि विद्यासन्निधिपाठाऽऽनर्थक्यपरिहाराय विद्यार्थत्वं इति पूर्वपक्षे, विद्यासन्निधिपाठस्य दिवाकीर्त्यत्वारण्यपाठ्यत्वादिसौकर्यार्थतया अपि उपपत्तेः बलवद्भिः लिङ्गादिभिः अभिचाराध्ययनज्योतिष्टोमादि अर्थत्वं इति वेधाद्यर्थभेदात् (ब्र.सू.३-३-२५) इति सूत्रेण सिद्धान्तितत्वात् । तस्य च सूत्रस्य अयं अर्थः – ‘मन्त्रप्रतिपाद्यस्य वेधाद्यर्थस्य विद्यार्थत्वाभावेन विद्यार्थात् भेदात् तत्प्रकाशनद्वारा विद्याशेषत्वमपि इत्यभिचारादिशेषत्वम्’ इति । ततः च न विद्यार्थत्वशङ्कायाः अवकाशः ।

सर्वकर्मश्रेष्ठ अश्वमेधाङ्गभूते अश्वे-यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति (छां.उ.१-१-१०) इति कर्मवीर्यवत्तरत्वापादिका विश्वरूपत्व उपासना उपदिश्यते- उषा वा अश्वस्य मध्यस्य शिरः मेघः।– यज्ञः, तं अर्हति इति मेध्यः । यज्ञार्थस्य पशोः यत् शिरः तत् उषा: – ब्राह्मः मुहूर्तः । लिङ्गव्यत्ययः छान्दसः । उषसः अहर्मुखत्वेन अहश्शिरस्त्वात् पशोः शिरसि तद्बुद्धिः उपपद्यते इति द्रष्टव्यम् । आदित्यादिमतयश्च अङ्ग उपपत्तेः (ब्र.सू.४-१-६) इति अधिकरणे य एव असौ तपति तं उद्गीथं उपासीत (छां.उ.१-३-१) इत्यत्र कर्माङ्गभूते उद्गीथे आदित्यदृष्टिः कर्तव्या, उत आदित्ये उद्गीथदृष्टिः इति विशये, ब्रह्मदृष्टिरुत्कर्षात् (ब्र.सू.४-१-५) इति सूत्रोक्तन्यायेन उत्कृष्टदृष्टेः एव अपकृष्टे कर्तव्यत्वात् कर्माङ्गस्य उद्गीथस्य कर्मोपकारकत्वेन उत्कृष्टतया तद्बुद्धिः एव आदित्ये कर्तव्या इति पूर्वपक्षे प्राप्ते-आदित्यादिमतयश्च अङ्गे उपपत्तेः (ब्र.सू.४-१-६) इति सूत्रेण सिद्धान्तितम् । अत्र च शब्दः अवधारणे । अङ्ग एव आदित्यादिमतयः कार्याः, कर्माराध्यतया आदित्यादीनां एव उत्कृष्टत्वस्य उपपत्तेः इति तदर्थः । ततः च अश्वस्य शिरःप्रभृति अवयवेषु कर्माङ्गभूतेषु एव उष आदि बुद्धिः, कार्या, न तु उष आदौ शिर आदिबुद्धिः । सूर्यश्चक्षुः इति – अश्वस्य चक्षुस्सूर्यः ।

सूर्याधिष्ठातृकत्वात् तद्बुद्धिस्तत्र कार्येत्यर्थः । वातः प्राणः अश्वस्य प्राण एव वातः । वाय्ववस्थाविशेषत्वात्प्राणस्य तद्बुद्धिस्तत्र कार्येत्यर्थः । व्यात्तमग्निः वैश्वानरः विवृतं  मुखमेव वैश्वानरोऽग्निः । अग्निर्वाग्भूत्वा मुखं प्राविशत् (ऐत.उ.१-२-४) इति अग्नेर्मुखाधिष्ठा-तृत्वात् तद्बुद्धिस्तत्र कार्येत्यर्थः । संवत्सरः इति – संवत्सरः अश्वस्य मध्यस्य आत्मा स्वरूपमित्यर्थः । ऋतवोऽङ्गानि इत्यादिना संवत्सरावयव ऋतुमासादीनां तदवयवत्वेन निरूपयिष्यमाणत्वात् संवत्सरस्यावयविशरीरात्मकत्वम् । अश्वस्य मध्यस्य इति सर्वत्रानुषङ्गार्थं पुनर्वचनम् । संवत्सर शब्देन संवत्सराभिमानी प्रजापतिर्वा विवक्षितः । द्यौः पृष्ठम् – ऊर्ध्वत्वसामान्यात् । अन्तरिक्षमुदरम् – अवकाशत्वसाम्यात् । पृथिवी पाजस्यम् । भुजान्तरामित्यर्थः । द्यौः पृष्ठमन्तरिक्षमुदरमियमुर (बृ.उ.१-२-३) इत्यग्नेरुरसि पृथिवीदृष्टि-दर्शनात् । दिश: पार्श्वे – दिशः दक्षिणोत्तरत्वाद्याश्रयत्वात्पार्श्वे । अवान्तरदिशः पर्शवः वायव्याद्या अवान्तरदिशः पार्श्वास्थीनी । ऋतवोऽङ्गानि – स्पष्टोऽर्थः ।

मासाश्चार्धमासाश्च पर्वाणि इति । पर्वाणि अङ्गसन्धयः । समविभागसाम्यात् । अहोरात्राणि प्रतिष्ठा – पादा इत्यर्थः । नक्षत्राण्यस्थीनि – शुक्लत्वसाम्यात् । नभो मांसानि अस्थ्यात्मकनक्षत्रसंपृक्तत्वात् । उवध्यं सिकताः अर्धजीर्णं घासाद्यशनं सिकताः । विश्लिष्टावयवसाम्यात् । सिन्धवो गुदाः । गुदा इति अवयवाभिप्रायेण बहुवचननिर्देशः । सिन्धवः – नद्य इत्यर्थः । यकृच्च क्लोमानश्च पर्वताहृदयस्याधःप्रदेशवर्तिदक्षिणोत्तरमांसखण्डौ यकृत्क्लोमशब्दवाच्यौ । क्लोमानः – इति एकस्मिन् व्यत्ययाद्बहुवचनम् । पर्वता: – काठिन्योन्नतत्वपिण्डाकारत्वसाम्यात् । ओषधयश्च वनस्पतयश्च लोमानि – सूक्ष्मत्वसाम्यात् । उद्यन् पूर्वार्धः सूर्य इति शेषः । उद्यन् सूर्यः शरीरपूर्वार्ध इत्यर्थः । निम्लोचन् जघनार्ध: । निम्लोचन् – अस्तं गच्छन् सूर्यः अपरार्धः, पूर्वापरत्व-साम्यात् । यद्विजृम्भते तद्विद्योतते – मुखव्यादानमेवान्तरप्रकाशहेतुत्वात् विद्युत् । यद्विधूनुते तत्स्तनयति – रोमविधूननमेव सशब्दत्वात् मेघनिर्घोषः । यन्मेहति तद्वर्षति मूत्रोत्सर्जनमेव सेचनत्वसाम्यावर्षणम् । वागेवास्य वाक् – नात्र कल्पनापेक्षा ।। १ ।।

[अश्चानुबन्धिषु दृष्टिः]

 

अहर्वा अश्वं पुरस्तान्महिमाऽन्वजायत तस्य पूर्वे समुद्रे योनिः। रात्रिरेनं पश्चान्महिमान्वजायत तस्यापरे समुद्रे योनिः एतौ वा अश्वं महिमानावभितः संबभूवतुः। हयो भूत्वा देवानवहद्वाजी गन्धर्वानर्वाऽसुरानश्वो मनुष्यान् समुद्र एवास्य बन्धुः समुद्रो योनिः। ।।

 

इति तृतीयाध्याये प्रथमं ब्राह्मणम् ।।

 

प्र. – अहर्वा अश्वमिति– अश्वस्याग्रतः पृष्ठतश्च सौवर्णराजतौ महिमाख्यौ ग्रहौ पात्रविशेषौ स्तः । तयोर्मध्ये अश्वं पुरस्तात्अश्वस्य पुरस्तात् यो महिमा महिमाख्यो ग्रहविशेषः । सः अहरेव अन्वजायत -समपद्यत । तत्राहर्भावना कर्तव्येति यावत् । अह्न इव सौवर्णपात्रस्यापि पीतप्रभत्वात् । तस्य पूर्वे समुद्रे योनि: – पूर्वः समुद्रो योनि: – आसादनस्थानम् । सौवर्णपात्रग्रहासादनस्थाने पूर्वसमुद्रबुद्धिः कार्येत्यर्थः । यद्वा – महिमान्वजायत इत्यत्रानुर्लक्षणार्थः । कर्मप्रवचनीयत्वात्तद्योगे अश्वमिति द्वितीया । रात्रिरेनम् इति । एनम् – अस्य अश्वस्य पश्चाद्यो राजतो महिमाख्यो ग्रहविशेषः । सः रात्रिरन्वजायत – रात्रिस्समपद्यतेत्यर्थः । चन्द्रिकाधवलत्वसाम्यात् । तस्यापरे समुद्रे योनि: – पश्चिमस्समुद्रः तदासादनस्थानमित्यर्थः । एतौ वा इति – एतौ वै महिमाख्यौ ग्रहौ अश्वस्य पूर्वोत्तरपार्श्वयोः प्रतिष्ठितावित्यर्थः । अतः सर्वतो महिमशाल्यश्व इति स्तुत्वा हयवाज्यर्वाश्वरूपैश्चितुर्भिर्जातिविशेषैर्देवगन्धर्वासुरमनुष्यवोढृत्वेनाश्वं स्तौति – हयो भूत्वा देवानवहत् इत्यादिना । समुद्र एवास्य बन्धुः इति । अस्य अश्वस्य समुद्रो बन्धुः । तत्र बन्धुदृष्टिः कर्तव्येत्यर्थः । तत्र हेतुमाह – समुद्रो योनिः इति – उच्चैश्श्रवसोऽश्वस्य वारुणाश्वानां च तस्मादुत्पत्तिदर्शनात् समुद्रो योनित्वेन ध्यातव्य इत्यर्थः ।। २ ।।

।। इति तृतीयाध्याय प्रथमब्राह्मण प्रकाशिका ।।

तृतीयाध्याये द्वितीयं ब्राह्मणम्

 

अश्वमेधब्राह्मणम्

 

[अश्वमेधादौ दृष्टिविधानाय मृत्युकर्तृकसृष्टिवर्णनम्]

 

नैवेह किञ्चनाग्र आसीत् मृत्युनैवेदमावृतमासीदशनायया अशनाया हि मृत्युः। तन्मनोऽकुरुत आत्मन्वी स्यामिति सोऽर्चनचरत् तस्यार्चत आपोऽजायन्त अर्चते वै मे कमभूदिति तदेवार्कस्यार्कत्वम् कँ वा अस्मै भवति, एवमेतदर्कस्यात्वं वेद ।। ।।

 

प्र. अश्वमेधाङ्गभूतचित्याग्नौ तदङ्गभूतसंवत्सरकाले च ब्रह्मदृष्टिं विधित्सन् प्रथमतो अग्नेरुत्पत्तिप्रकारमाह – नैवेह किञ्चनाग्र आसीत् इत्यादिना । केचित्तु नात्र दृष्टिर्विधीयते, अपि तु तात्त्विकतदात्मकत्वानुसन्धानसिद्धये परमात्मन उत्पत्त्यादिकमाम्नायते इत्याहुः । नोभयथापि विरोधं पश्यामः । इह – ‘जगति’ किञ्चन – परिदृश्यमानं स्थूलावस्थं वस्तु अग्रे – सृष्टेः प्राक् नैवासीत् । अत्र अग्रे नैवासीत् इत्यनेन न शून्यत्वमुच्यते, असत्कार्यानभ्युपगमात् तथा हि सति शशविषाणादेर प्युत्पत्तिप्रसङ्गात् । घट: प्राक्नैवासीदिति प्रतीतेर्घटत्वावस्थापूर्वभाविपिण्डत्वावस्थाविषयकत्वदर्शनेन इहापि, ‘नाग्र आसीत्’ इति प्रतीतेः परिदृश्यमानस्थूलावस्थाविरोध्यवस्थावत्त्वमेवार्थः । ननु परिदृश्यमानमिदं जगत् दृश्यमानस्थूलावस्थाविरोधिनी कामवस्थामभजदित्यय आह मृत्युनैवेदमावृतमासीदशनायया इति । कारणवाक्यत्वादत्र मृत्युशब्देन मृत्युसंज्ञकाचिच्छरीरपरमात्मोच्यते । यस्याव्यक्तं शरीरं, यस्याक्षरं शरीरं, यस्य मृत्युश्शरीरं, एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायण: (सुबा.उ.७) इति सुबालश्रुतौ मृत्युशब्दस्य तमसि प्रयुक्तत्वात् । अत्र अशनाया नाम सञ्जिहीर्षा । अशनायोदन्याधनाया बुभुक्षापिपासागर्धेषु (पा.सू.७.४.३४) इति बुभुक्षार्थे निपातितोऽशनायाशब्दः सञ्जिही लक्षयित्वा तद्वतिलक्षितलक्षणया वर्तते ।

ततश्चायमर्थः – सञ्जिहीर्षुणा तमश्शरीरेण परमात्मना परिदृश्यमानं स्थूलावस्थं जगत् आवृतमासीत् – तिरोहितस्थूलावस्थमासीत् । स्थूलावस्थां विहाय तमश्शरीरकपरमात्मा-वस्थमासीदित्यर्थः । अशनायाशब्दस्य मृत्युशब्दिते परमात्मनि प्रयोगे हेतुमाह – अशनाया हि मृत्युः इति । लोके बुभुक्षाविशिष्टो हि पुरुषो जन्तून् हिनस्ति । अतो बुभुक्षायाः मरणहेतुत्वेन मृत्युत्वं प्रसिद्धमित्यर्थः । यद्यपि तत्रत्याशनायामृत्युशब्दयोर्भिन्नत्वात् प्रकृते मृत्युशब्दप्रतिपाद्यस्य तमश्शरीरकपरमात्मनः सञ्जिहीर्षा वाच्यशनायाशब्दप्रयोगविषयतायां न तदुपपादकम्, तथाप्येकशब्दरूषितत्वेनार्थद्वयैकीकरणेन श्रुतिप्रवृत्तिरुपपद्यत इति द्रष्टव्यम् । तन्मनोऽकुरुतात्मन्वी स्यामिति इति । तदिति लिङ्गव्यत्ययः छान्दसः । सः – मृत्युः, तमश्शरीरकः परमात्मा, अहं आत्मन्वी – शरीरीचेतनाचेतनप्रपञ्चशरीरकस्यामिति सङ्कल्प्यमनः कृतवानित्यर्थः । न च साञ्जिहीर्षोः सिसृक्षाकार्यमनस्सृष्टिविरुद्धेति वाच्यम् । सृष्ट्वा संहरिष्यामीत्येवंभूतसृष्टिसंहारलक्षणविहारेच्छया एव अशनाया शब्देन विवक्षितत्वात् । अत्र मनश्शब्देन ‘मनोमहान्मतिब्रह्म’ (अ.को.) इति नामपाठात् महत्तत्वमुच्यते । तच्चोप-लक्षणमहङ्करादिभूतावधिकसृष्टेरपि । मनश्शब्दस्यान्तःकरणार्थकत्वेपि मनश्शब्दः स्वपूर्वभावि महदादीनामप्युपलक्षकः, महदादिसृष्ट्यभावे मनस्सृष्ट्यभावात् । अन्यत्सर्वं पूर्ववत् । आत्मशब्दात् ‘तदस्यास्तीत्यस्मिन्’ (पा.सू.५.२.९४) इति अर्थे विनिप्रत्ययः छान्दसः । सोर्चन्नचरत् इति । अर्चन् – प्रीणयन् । आत्मानमिति शेषः । कर्मकारकञ्च स्वयमेव, अश्रुताध्याहारादपि प्रकृतस्यैव कर्मत्वोपपत्तेः । अर्चन् इत्यत्र लक्षणहेत्वोः क्रियायाः (पा.सू.३-२-१२६) इति हेतौ शतृप्रत्ययः । जगद्व्यापारलीलया स्वात्मानं प्रीणयितुमचरदित्यर्थः । उक्तं हि भगवता बादरायणेन जगत्सृष्टेर्लीलारस एव प्रयोजनमिति । तथाहि – द्वितीयाध्याये स्मृतिपादे – जन्मजरामरणादिदुःखबहुळं जगत्सृजतोऽ’वाप्त-समस्तकामस्य परमात्मनः प्रवृत्तेः स्वार्थत्वपरार्थत्वासम्भवात् , प्रयोजनानुद्देशेन प्रेक्षावत्प्रवृत्तेर-योगात्, प्रवृत्तिर्नोपपद्यते इति न प्रयोजनवत्त्वात् (ब्र.सू.२-१-३२) इति सूत्रेण पूर्वपक्षं कृत्वा, लोकवत्तु लीला कैवल्यम् (ब्र.सू.२-१-३३) वैषम्यनघृण्ये न सापेक्षत्वात् तथा हि दर्शयति (ब्र.सू.२-१-३४) न कर्माविभागादिति चेन्नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२-१-३५) सर्वधर्मोपपत्तेश्च (ब्र.सू.२-१-३६) इति चतुर्भिस्सूत्रैः सिद्धान्तितम् ।

तेषां चायमर्थः यथा महाराजस्यापि केवललीलप्रयोजनाः ‘कन्दुकादिक्रीडाः दृष्टाः । एवं परमात्मनोऽपि केवललीलार्था जगत्सृष्ट्यादि प्रवृत्तिरिति लोकवत् इति सूत्रस्यार्थः । ननु विषमं देवमनुष्यतिर्यगादि सृजतः परमात्मनो वैषम्यं प्रसजेत्, अतिघोरनरकादि-सृष्ट्या निर्घृणत्वञ्च प्रसजेदिति चेत् – न । तत्तत्कर्मानुसारेण कर्मसापेक्षतया सृजतो न पक्षपातादिप्रसक्तिः । साधुकारी साधुर्भवति पापकारी पापो भवति । (बृ.उ.६-४-५) ‘निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । प्रधानकारणीभूता यतो वै सृज्यशक्तयः’ ।। (वि.पु.१-४-५१) निमित्तमात्रं साधारणमित्यर्थः । सृज्यशक्तयः – कर्माणीत्यर्थः – इति श्रुतिस्मृतिलक्षणं प्रमाणं दर्शयति । अतो वैषम्यनैर्घृण्ये नेति वैषम्यनैर्घृण्यसूत्रस्यार्थः ।

ननु प्रळये जीवस्य ब्रह्मणा । अविभागेन तदाश्रितानां च कर्मणामभावात् सर्गाद्यसृष्टौ स्वेच्छया तरतमभावापन्नं जगत्सृजतो वैषम्यादिकमपरिहार्यमिति, न कर्माविभागात् इति सूत्रखण्डेन परिचोद्य, नानादित्वादुपपद्यते चाप्युपलभ्यते च (ब्र.सू.२-१-३५) इति सूत्रखण्डेन परिहृतम् । जीवानामनादित्वात्, तदानीं कर्मणामपि सत्वात् न वैषम्यादिप्रसङ्गः । न च जीवानामनादित्वे प्रळये, सदेव सोम्येदमग्र आसीत् (छां.उ.६-२-१) इति अविभागो नोपपद्यते इति वाच्यम् – अविभक्तनामरूपतया भेदकाकारास्फुरणमात्रेणाविभाग-व्यवहारोपपत्तेः । तदनादित्वं च श्रुतिस्मृतिषूपलभ्यते न जायते म्रियते वा विपश्चित् (कठ.उ.२-१-१८) प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि (भ.गी.१३-१९) इति इति सूत्रार्थः । सर्वधर्मोपपत्तेश्च (ब्र.सू.२-१-३६) प्रधानादिष्वसम्भावितानामपि सृष्ट्युपयुक्त-सार्वज्ञ्यसर्वशक्तित्वादिसकलधर्माणां परमात्मन्येव उपपत्तेश्च परमात्मैव जगत्कारणमिति सृष्टिीलाप्रयोजनत्वं स्थितम् ।

अतः सोऽर्चन्नचरत् इत्यस्योक्त एवार्थः । तस्यार्चत आपोऽजायन्त अर्चतप्रीणनाय प्रवृत्तस्य तस्य – परमात्मनः सकाशादाप उत्पन्ना इत्यर्थः । तत्र चापां प्राधान्यात् अप्छब्दप्रयोगः । अपां सृष्टिश्च स्रष्टुर्नारायणत्वे लिङ्गम् । एको ह वै नारायणः (महा.ना.१-१) इत्युपक्रम्य ता इमा आपः इति श्रुतेः । अर्चते वै मे कमभूत् इति वै शब्दोऽवधारणे । अर्चनप्रवृत्ताय मे – मह्यं कम् – जलं अभूदिति स परमात्मा अमन्यतेत्यर्थः । तदेवार्कस्यार्कत्वम् इति। यस्माद्धेतोरेवममन्यत, अत एतत्तदेवार्क शब्दितस्य परमात्मनः अर्कशब्दप्रवृत्तौ निमित्तमित्यर्थः । अर्कशब्दितत्त्वं च परमात्मनः अर्को वाजसनिशृङ्गी (स.ना.८५) इति भगवन्नामसहस्रपाठादिति द्रष्टव्यम् । एतत्सर्वं सर्व-व्याख्यानाधिकरणे व्यासार्यै: स्पष्टमुक्तम् । नामनिरुक्तिज्ञानस्य फलमाह – कं वा अस्मै भवति इति । कं – सुखं, हः – प्रसिद्धौ । वै शब्दोऽवधारणे । सुखमेवेत्यर्थः । शिष्टं स्पष्टम् ।। १ ।।

[चित्याग्निसृष्टि:]

आपो वा अर्कः । तद् यदपां शर आसीत् तन् समहन्यत । सा पृथिव्य-भवत् । तस्यामश्राम्यत् । तस्य श्रान्तस्य तप्तस्य तेजोरसं निरवर्तताग्नि: ॥२॥

प्र. – अण्डस्य भगवदात्मकभूतपरिणामत्वं वक्तुम् अपां भगवदात्मकत्वमाह –आपो वा अर्क इति । आप: – अर्कशब्दित भगवदात्मिका इत्यर्थः । तद्यदपां शर आसीत् इति । दध्नोमण्डांश इव भूतान्तरसंसृष्टानामपां यः शरः – सारांश आसीत, तत् समहन्यत – बाह्येन तेजसा पच्यमानं सत् सङ्घातभावमापद्यत । सा पृथिव्यभवत् -तत इति शेषः । ततः – संहन्यमानेभ्यो भूतेभ्यः सा पृथिवी – अण्डरूपा पृथिव्यभवत्

ता – आप: तद्धिरण्मयमण्डमभवत् (महो.१-४) इति महोपनिषदैकार्यात् । तस्यामश्राम्यत् इति । तस्यां – अण्डाकारेण परिणतायां पृथिव्यां सत्यामिति शेषः । मृत्युशब्दितः परमात्मा । अश्राम्यत् अत्र ‘श्रान्तिशब्द: करणलक्षणया यत्नपरः । अयततेत्यर्थः । तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्निः इति। तस्य -परमात्मन: श्रान्तस्य– कृतयत्नस्य, तप्तस्य – सृज्यवर्गपर्यालोचनवतः शरीरात् तेजोरसः । तेजस्सारभूतोऽग्नि: निरवर्तत । एवमेव व्यासार्यैरुक्तम् ।। २ ।।

 

[चित्याग्नयङ्गेषु दृष्टि:]

 

त्रेधात्मानं व्याकुरुत आदित्यं तृतीयं वायुं तृतीयम् एष प्राणस्रोधा विहितः तस्य प्राची दिक् शिरोऽसौ चासौ चेर्मौ अथास्य प्रतीची दिक् पुच्छमसौ चासौ सक्थ्यौ दक्षिणा चोदीची पार्श्वे द्यौः पृष्टमन्तरिक्षमुदरमियमुरः एषोऽप्सु प्रतिष्ठितः यत्र क्व चैति तदेव प्रतितिष्ठत्येवं विद्वान् ।। ।।

प्र. – त्रेधात्मानं व्याकुरुत इति । सः – अग्निरात्मानं त्रेधा व्यभजदित्यर्थः । आदित्यं तृतीयं वायुं तृतीयम् इति । अग्न्यादित्यवाय्वात्मना त्रेधा विभक्त इत्यर्थः । त्रयाणां मध्ये चित्याग्निः अंशी; वाय्वादित्यावंशाविति भावः । अग्निवाय्वपेक्षया आदित्यस्य तृतीयत्वम् । अग्न्यादित्यापेक्षया वायोस्तृतीयत्वम् । एष प्राणस्रोधा विहितः इति । यः त्रेधा विभक्त: अग्निवाय्वादित्यात्मना – वाय्वादित्यांशको यः एषोग्निः – स एष प्राण: – परमात्मेत्यर्थः । तत्र तद्दृष्टिः कर्तव्येति यावत् । एषोग्निरर्क इति उत्तरत्राग्नौ अर्कशब्दित परमात्मा ध्यानस्य वक्ष्यमाणत्वात् इति द्रष्टव्यम् । तस्य प्राची दिक् शिर इति । तस्य – अग्नेः शिर आदौ प्रागादि बुद्धिः कर्तव्येत्यर्थः । शिरसः प्राचीनसम्बन्धित्वात्तत्र तप्टुद्धिः कर्तव्या । एवमुत्तरत्रापि द्रष्टव्यम् । असौ चासौ चेर्मौ इति । ‘ईशान्याग्नेयौ’ । ईर्मौ – बाहू । अथास्य प्रतीची दिक्पुच्छम् । पुच्छे प्रतीचित्वबुद्धिः कर्तव्या । तत्सम्बन्धित्वादिति भावः । असौ चासौ सक्थ्यौ इति । वायव्यनैऋत्यौ सक्थिनी – ऊरु इति यावत् । सक्थ्याविति छान्दसः प्रयोगः । दक्षिणा चोदीची पार्श्वे । दक्षिणोत्तरपार्श्वे अपि दक्षिणोत्तरदिग्द्वयम् । ‘तद्दिग्वर्तित्वादिति भावः। द्यौः इत्यादि । इयं – पृथिवीत्यर्थः । शिष्टं स्पष्टम् । एषोप्सु प्रतिष्ठित इति । एषः – अग्निः । अप्सु प्रतिष्ठितत्वं च उक्तरीत्या तन्मूलोत्पत्तिकत्वादिति द्रष्टव्यम् । यत्र क्व चैति तदेव प्रतितिष्ठति  एवं विद्वान् इति । एवं विद्वान् यत्र क्व च – प्रदेशे एति – गच्छति । तदेव – ‘तत्रैव प्रतितिष्ठति – प्रतिष्ठां लभत इत्यर्थः ।। ३ ।।

[मृत्युकर्तृकसंवत्सरसृष्टिः]

 

सोऽकामयत द्वितीयो आत्मा जायतेति मनसा वाचं मिथुनँ समभवदशनाया मृत्युः तद्यद्रेत आसीत्, संवत्सरोऽभवत् पुरा ततः संवत्सर आस तमेतावन्तं कालमबिभः, यावान् संवत्सरः तमेतावत: कालस्य परस्तादसृजत तं जातमभिव्याददात् भाणमकरोत् सैव वागभवत् ।। ।।

प्र. – एवमर्कप्राणशब्दितपरमात्मदृष्टिविशिष्टमश्वमेधाङ्गभूतचित्याग्निमुत्पत्त्यादि-प्रकारोपेतमुपवर्ण्य अश्वमेधाङ्गभूतसंवत्सरकालं मृत्युशब्दितपरमात्मदृष्टिविशिष्टं प्रतिपादयितुमुपक्रमते – सोऽकामयत इत्यादिना । सः अशनाया मृत्युः – पूर्वोक्तः सञ्जिहीर्षुः मृत्युशब्दितः परमात्मा पूर्वसृष्टाग्निरूपात्मापेक्षया द्वितीय आत्मा आत्मान्तरं मे जायतामिति सङ्कल्पं कृतवान् । सङ्कल्प्य च त्रयीलक्षणां वाचं मनसा मिथुनं द्वन्द्वभावं समभवत् – संभावितवान् । स्रक्ष्यमाणप्रपञ्चपरिज्ञानाय । नामरूपञ्च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः ।। (वि.पु.१-५-६४) इति न्यायेन साक्षाद्वा चतुर्मुखशरीरकतया वा त्रयीं पर्यालोचितवान् इत्यर्थः । तद्यद्रेत आसीत्स संवत्सरो भवत् इति । मनसा त्रयी पर्यालोचनलक्षणसंभोगे यद्रेत: – बीजम् । कारणमुत्पन्नं इदमित्थं कर्तव्यमिति निश्चयात्मकम् । तेन संवत्सरः – संवत्सरलक्षण-कालशरीरकः संवत्सरो विश्वकर्मा, संवत्सरः प्रजापतिः, प्रजापतिः संवत्सरो महान् कः? इति संवत्सराभिमानितया प्रसिद्धः प्रजापतिः द्वितीय आत्मा अभवदित्यर्थः । यद्यपि संवत्सरकालस्यैवाश्वमेधाङ्गत्वम् न तदभिमानि प्रजापतेः । तथापि तयोरभेदोपचारेण श्रुतिप्रवृत्त्युपपत्तिरिति द्रष्टव्यम् । पुरा ततस्संवत्सर आस इति । ततः . तस्मादिदं इत्यं कर्तव्यमिति निश्चयरूपात् रेतश्शब्दितात् कारणात् पुरा – प्रथमतः – सद्य एवेति यावत् । सद्य एव संवत्सररूप आत्मा न बभूव । द्वादशमासपरिमाणस्य संवत्सरस्य सद्यो निष्पत्त्यसम्भवादिति भावः । तमेतावन्तं कालमबिभ इति । यावान् संवत्सरः – यावता कालेन संवत्सरः पूर्णोऽभवत् । तावन्तं कालं रेतश्शब्दितकारणाकारेण अबिभः – भरणं कृतवानित्यर्थः । अबिभ इति “भृञ् भरणे’ (धा.पा.८९८) इति धातोर्लङि रूपम् । तमेतावत: कालस्य परस्तादसृजत इति । एतावत: कालस्य परस्तात् । द्वादशसु मासेषु पूर्णेषु संवत्सररूपं द्वितीयमात्मानम् असृजतेत्यर्थः । तं जातमभिव्याददात् इति । जातं तं संवत्सरं अभि – अभिमुखीकृत्य, व्याददात् – विशिष्य पुत्रत्वेन परिजग्राहेत्यर्थः । स भाणमकरोत् इति । सः – संवत्सर आत्मा बालस्वभावत्वात् भाणिति शब्दमकरोत् । सैव वागभवत् – भूरादिव्याहतिरूपा वागभवदित्यर्थः ।। ४ ।।

 

[संवत्सरकर्तृक सर्वसृष्टिः]

 

ऐक्षत, यदि वा इममभिमँस्ये कनीयोऽन्नं करिष्य इति तया वाचा तेनात्मना इदं सर्वमसृजत, यदिदं किञ्चऋचो यजूँषि सामानि च्छन्दाँसि यज्ञान् प्रजाः पशून् यद्यदेवासृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति तददितेरदितित्वम् सर्वस्यैतस्यात्ता भवति, सर्वमस्यान्नं भवति, एवमेतददितेरदितित्वं वेद ।। ।।

प्र. – ऐक्षत इत्यादि । यद्यहमिमं संवत्सरं सृष्ट्वा आत्मानं कृतकृत्यतया अभिमँस्ये, ततः अन्नं कनीयः करिष्ये – अन्नमल्पीय एव स्यादिति यावत् । अत्तव्यस्य भूयसोऽर्थस्याभावात् इति सः मृत्युः ऐक्षत – अचिन्तयदित्यर्थः । तया इति । सः -मृत्युशब्दितः परमात्मा, तया वाचा संवत्सरनिष्पादितया भूरादिव्याहृतिलक्षणया वाचा, तेनात्मना – संवत्सररूपेणात्मना च निमित्तभूतेन, यदिदं किञ्च तत्सर्वमसृजत इत्यर्थः । स भूरिति व्याहरत् (ते.ब्रा.२-२-४) आदी वेदमयी दिव्या यतस्सर्वाः प्रसूतयः इत्यादिना भूरादिशब्दस्य सृज्यमान प्रपञ्चहेतुत्वगमनात्, संवत्सराख्यकालस्यापि कार्यमात्रहेतुत्वाचा इति भावः । यदिदं किञ्च इत्येतत्प्रपञ्चयति ऋचो यजूँषि इत्यादि । छन्दांसि – गायत्र्यादीनि शिष्टं स्पष्टम् । ‘ननु त्रय्या’ मिथुनीभूतया कथं ऋगादीनां सृष्टिः, तेषां तदभिन्नत्वादिति चेन्न । कर्मसु विनियुक्तत्वावस्थाविशिष्टतया ऋगादीनामुत्पत्तिसम्भवात् । सर्वप्रत्यक्षगोचरतया वा । यद्यत् इति । सः – मृत्युः परमात्मा यद्यदेवासृजत – तत्तत् सृष्टं सर्वं, अत्तुं . संहर्तुं अध्रियत – ऐच्छदित्यर्थः । सर्वं वा अत्तीति तददितेरदितित्वाम् इति । अदितेः . अदितिशब्दवाच्यस्य परमात्मनः सर्वात्तृत्वत्वादेवादितिशब्दप्रवृत्तिनिमित्तात् अदितित्व-मित्यर्थः । नामनिरुक्तज्ञानस्य फलमाह – सर्वस्य इति । अत्ता भवति – अनुभविता भवति । अन्नं भवति अनुभाव्यं भवति । न चैकस्य भोक्तृत्वोक्तौ तत्प्रतिसम्बन्धिन इतरस्य भोग्यत्वं सिद्धमिति तत्कथनवैयर्थ्यं शङ्कनीयम् । तद्दाढ्यार्थतया तत्प्रपञ्चनरूपत्वेनादोषात् ।। ५ ।।

 

[अश्वस्य सृष्टिप्रकारं अश्वमेधनिर्वचनं अश्वमेधे आदित्यदृष्टिश्च]

 

सोऽकामयत भूयसा यज्ञेन भूयो यजेयेति सोऽश्राम्यत्। तपोऽतप्यत । तस्य श्रान्तस्य तप्तस्य यशोवीर्यमुदक्रामत् प्राणा वै यशोवीर्यम् तत् प्राणेषुक्रान्तेषु शरीरं श्वयितुमध्रियत तस्य शरीर एव मनः आसीत् ।। ।।

प्र. एवमश्वमेधाङ्गभूतयोरग्निसंवत्सरयोः सृष्टिप्रकारादिकं उक्त्वा अश्वस्य सृष्टि प्रकारं, अश्वमेधनिर्वचनं, अश्वमेधे आदित्यदृष्टिं च वक्तुमारभते – सोऽकामयत इति । सः प्रजापतिशरीरकः परमात्मा अकामयत । किमति? भूयसा महता यज्ञेन परमात्मानं भूयः – मुहुर्मुहुः यजेयेति । यद्वा – भूयश्शब्दो भूमवाची । भूमानं परमात्मानं यजेयेतीत्यर्थः । सोऽश्राम्यत् इति महायज्ञसामग्र्यसम्पत्त्या श्रान्त इवाभवत् । स तपोऽतप्यत इति । परमात्मानमुद्दिश्य तपश्चचारेत्यर्थः । तस्य श्रान्तस्य इति । यशश्च वीर्यं च यशोवीर्यम् । यशोवीर्यशब्दार्थमेवाह – प्राणा वे यशोवीर्यम् इति । यशसो वीर्यस्य च प्राणायत्तत्वात् प्राणा एव यशोवीर्यम् इत्यर्थः । ततश्च यशोवीर्यमुदक्रामत् इत्यस्य प्राणा उदक्रामन्नित्यर्थः । तत्प्राणेषूत्क्रान्तेषु इति । प्राणेषु उत्क्रन्तेषु सत्सु तत् . प्रजापतेश्शरीरं श्वयितुमध्रियत – उच्छूनतां गन्तुं प्रवृत्तम् । तस्य शरीर एव मन आसीत् इति । तस्य – प्रजापतेः ‘शरीरान्निर्गतस्यापि तस्मिन्नेव शरीरे मन आसीत् । मया त्यक्तं स्थूलं शरीरमच्छूनं हेयमासीदिति शरीरविषय एव चिन्ता सर्वदा संवृता इत्यर्थः ।।६।।

 

[संवत्सरेण यज्ञार्थं स्वशारीरस्याश्वीकरणम्]

 

सोऽकामयत मेध्यं इदँ स्यात्, आत्मन्व्यनेन स्यामिति ततोऽश्वः समभवत् यदश्वत् तन्मेध्यमभूदिति तदेवाश्वमेघस्याश्वमेधत्वम् एष वा अश्वमेधं वेद, एनमेवं वेद तमनवरुध्यैवामन्यत तें संवत्सरस्य परस्तादात्मन आलभत। पशून् देवताभ्यः प्रत्यौहत् तस्मात् सार्वदैवत्यं प्रोक्षितं प्राजापत्यमालभन्ते। एष वा अश्वमेधो एष तपतिः तस्य संवत्सर आत्मा अयमग्निरर्कःतस्येमे लोका आत्मानः तावेतावर्काश्वमेधो सो पुनरेकैव देवता भवति मुत्युरेव । अप पुनर्मृत्युं जयति, नैनं मृत्युराप्नोति, मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति ।। ।।

 

।। इति तृतीयाध्याये द्वितीयं ब्राह्मणम् ।।

प्र. – सोऽकामयत इति । एवं चिन्ताविशिष्टः प्रजापति: मे – मदीयं इदं – शरीरं मेध्यं – यज्ञार्हं स्यात् । अनेन शरीरेणाहं आत्मन्वी – शरीरी स्यामित्येवं अकामयत -समकल्पयत् । एवं सङ्कल्प्य पुनरपि सः प्राणस्सन् प्रजापतिः ‘तत्र प्रविष्ट इति भावः । ततोश्वस्समभवत् इति । ततः – प्रजापतिना पुनरनुप्रविष्टात् स्थूलशरीरात् उपादानभूता-दश्वरूपस्सन् प्रजापतिरुत्पन्न इत्यर्थः । यदश्वयत् इत्यादि । यत् – यस्मात्कारणात् प्रजापते-श्शरीरमुत्क्रान्तेषु प्राणेषु अश्वयत् – उच्छूनं, तत एव मेध्यञ्चाभवत्, तदेव पश्चादश्वरूपं मेध्यमभूत् । तत एवास्याश्वरूपस्य प्रजापतेरश्वमेधत्वम् । अश्वयदित्यश्वः । मेधार्हत्वान् मेधः । यद्यप्यश्वमेधशब्दो यागनाम, तथापि यागद्रव्ययोरभेदोपचारात् तथोक्तिरुपपद्यत इति द्रष्टव्यम् । यागपरत्वेऽपि न दोषः – यज्ञार्थकमेधशब्दस्वारस्यात् इति वदन्ति । एष  वा इत्यादि । एनम् – पशु एवं यथोक्तनिर्वचनं वेद – स एवाश्वमेधवेत्ता, नान्य इत्यर्थः । तमनवरुध्यैवामन्यत इति । तम् – अश्वरूप पशुं अनवरुध्य – अवरोधनमकृत्वा संवत्सरमात्रमुत्सृष्टबन्धनमेव कृत्वा, परमात्मानमनेन यक्ष्य इत्यवमन्यत इत्यर्थः । तं संवत्सरस्य परस्तादात्मन आलभत पशून् देवताभ्यः प्रत्यौहत् इति । संवत्सरस्य परस्तात् – पूर्णं संवत्सरे ततः परं प्रजापतिः, आत्मने स्वान्तर्यामिणे परमात्मने तम् – अश्वं, आलभत – अश्वालम्भं कृतवान् । ग्राम्यानारण्यानप्यन्यान् पशून् अग्नीन्द्रादिभ्यः देवताभ्यः प्रत्यौहत् – ‘परि विभज्यालभतेत्यर्थः । तस्मात्सर्वदैवत्यं प्रोक्षितं प्राजापत्यमालभन्ते इति । तस्माद्धेतोरिदानीन्तना अपि यजमानाः सर्वदेवतासमष्टिभूतप्रजापतिरूप परमात्मदेवताकत्वेन ‘सर्वदैवयं प्रोक्षणपर्यग्निकरणादि संस्कृतं प्रजापतिदेवताकमश्वम् आलभन्ते इत्यर्थः ।

एष वा अश्वमेधो एष तपति इति । तपत आदित्यस्य दृष्टिरश्वमेधे कर्तव्या इत्यर्थः । तत्र युक्तिमाह – तस्य संवत्सर आत्मा तस्य – अश्वमेधशब्दितस्य संवत्सर आत्मा । अश्वस्य मेध्यस्य (बृ.उ.३-१-१) इति पूर्वब्राह्मणे उक्तत्वात् संवत्सरात्मकत्वं सिद्धम् । संवत्सरादिकालचक्रप्रवर्तकस्यादित्यस्य संवत्सरात्मकत्वात् संवत्सरात्मके मेध्येऽश्वे संवत्सरात्मकादित्याध्यासो युज्यत इत्यर्थः । अयमग्निरर्क इति । अयं चित्याग्निः अर्कः – पूर्वमर्कशब्दनिर्दिष्टः परमात्मेत्यर्थः । तत्र तदध्यासः कर्तव्य इति यावत् । तत्र युक्तिंं वक्ति – तस्येमे लोका आत्मान इति । तस्य अध्यस्यमानस्य परमात्मनः स्वर्गाद्या इमे लोका आत्मान: – शरीरभूता इत्यर्थः । द्यौः पृष्ठमन्तरिक्षमुदरम् इत्यादिना चित्याग्नेः सर्वलोकशरीरकत्वस्य प्रतिपादितत्वात् धुलोकादिशरीरके चित्याग्नौ प्रतीके तादृशस्य परमात्मनोऽध्यसनम्, अश्वस्य च ‘संवत्सर आत्म’ इत्युक्तत्वात् तस्मिन् अश्वमेधे संवत्सरात्मकादित्याध्यसनं च युज्यत इति भावः । तावेतावर्काश्चमेघौ इति ।

अर्कशब्देन ‘अयमग्निरर्क’ इत्यर्कशब्दितश्चित्याग्निरुच्यते । तावेतौ – चित्याग्न्यश्वमेधौ प्रागुक्तेदृशमहिमशालिनावित्यर्थः । सो पुनरेकैव देवता भवति इति । उ शब्दोऽव-धारणार्थः । अग्न्यश्वमेधाभ्यामेतादृशदृष्टिविशिष्टाभ्यां प्रीणनीया देवतैकैव भवतीत्यर्थः । सा केत्याशङ्क्याह – मृत्युरेव इति । परमात्मैवैत्यर्थः । यद्वा – तावेतावग्न्यश्वमेधौ अप्ययकाले मृत्युशब्दितः परमात्मैवेत्यर्थः । एतादृशानुसन्धानविशिष्टाग्न्यश्वमेधयोः प्रयोजनमाह – अपपुनर्मृत्युं जयति इति । अपमृत्युं जयति इत्यर्थः । नैनं मृत्युराप्नोति इति । एनं संसारो नाप्नोतीत्यर्थः ।

ननु ब्रह्मज्ञानसाध्यायाः संसारनिवृत्तेः कथं दृष्टिविशिष्टचित्याग्न्यश्वमेध-साध्यत्वमित्यत्राह – मृत्युरस्यात्मा भवति इति । मृत्युः – परमात्मा अस्य – अश्वमेधानुष्ठातुः आत्मा भवति – आत्मत्वेनावगतो भवतीत्यर्थः । नित्यसिद्धस्यात्मत्वस्यासाध्यत्वात् । ततश्चाग्न्यश्वयोर्ब्रह्मात्मकत्वावगमद्वारा संसारनिवृत्तिहेतुत्वमुपपद्यत इति भावः । एतासां देवतानाम् इति । अग्नीन्द्रादिसायुज्यकामस्य तदपि भवतीत्यर्थः ।। ७ ।।

।। इति तृतीयाध्याय द्वितीयब्राह्मण प्रकाशिका ।।

तृतीयाध्याये तृतीयं ब्राह्मणम्

उद्गीथं ब्राह्मणम्

[मुख्यप्राणदृष्टिविधानाय देवासुरस्पर्धाख्यायिका]

द्वया ह प्राजापत्या देवाश्चासुराश्च । ततः कानीयसा एवं देवाः, ज्यायसा असुराः । स एषु लोकेष्वस्पर्धन्त । ते ह देवा ऊचुर्हन्ताऽसुरान् यज्ञ उद्गीथेनात्यया इति ॥१॥

प्र. – अथ कर्माङ्गभूतोद्गातरि मुख्यप्राणदृष्टिं विधातुमाख्यायिका आह – द्वया  वै प्राजापत्या देवाश्चासुराश्च इत्यादिना । ह शब्दो वृत्तार्थस्मरणे। प्रजापतेरपत्यानि प्राजापत्याः। ‘दित्यदित्यादित्य (पा.सू.४-१८५) इत्यादिना अपत्यार्थे ण्यप्रत्ययः । द्वयाः द्विविधाः द्विप्रकाराः इत्यर्थः । द्वित्रिभ्यां तयस्यायज्वा (पा.सू.५-२-४३) इत्ययच्प्रत्ययः । के ते? देवाश्चासुराश्चततः कानीयसा इति । ततः तत्र, तेष्वित्यर्थः । देवाः कानीयसाः कनीयांसः। स्वार्थे अण् । अल्पीयांस इति यावत् । ज्यायसाः ज्यायांसः, भूयांसः । भूयांसोऽसुरा इति श्रुत्यन्तरात् । एषु लोकेष्वस्पर्धन्त इति । ते -देवासुराः एषु लोकेषु – त्रैलोक्यराज्यनिमित्ते अस्पर्धन्त – परस्परविजिगीषां कृतवन्त इत्यर्थः । ते देवा ऊचुः इत्यादि । हन्त इत्यसुरविजयोपायदर्शनजहर्षे । अत्रोद्गीथशब्द उद्गातृपरः । उत्तरत्र उद्गातुरेवाध्यस्तप्राणभावस्योपास्यताप्रतीतेः । उद्गात्रात्येष्यन्ति इति (बृ.उ.३-३-२) इति उत्तरत्र बहुकृत्व उद्गातृशब्दस्याभ्यसिष्यमाणतया तदनुरोधेन ‘प्रक्रमस्थ उद्गीथशब्दस्य उद्गातृपरत्वस्य वक्तव्यत्वात् । सति बाधके कर्मवाचिशब्दस्य लक्षणया कर्तृपरत्वयोगात् ।। १ ।।

यद्वा उद्गीथशब्दः उद्गातृविशेषणभूतोद्गीथपर इति न लक्षणा । तथा च असुरान् अस्मिन् यज्ञे यज्ञाङ्गभूते उद्गीथेन अध्यस्तप्राणभावेनोद्गानकर्त्रा – यज्ञांगभूतोद्गातरि प्राणदृष्टिरूपोपासनेनेति यावत् । अत्ययाम – अतितरेम, जयेम; अन्यथा भूयसामसुराणां अल्पीयोभिः स्वै: – दृष्टोपकरणैर्जेतुमशक्यत्वादिति देवा हर्षेणान्योन्यं उक्तवन्त इत्यर्थः ।

[गुणोपसंहारपादविचारः]

तथा हि गुणोपसंहारपादे अन्यथात्वाधिकरणे (ब्र.सू.अ.३-३-२) – अत्रोद्गीथशब्द: केवलोद्गीथपर इति अन्यथात्वं शब्दादिति चेन्नाविशेषात् (ब्र.सू.३-३-६) इति सूत्रेण पूर्वपक्षं कृत्वा – न वा प्रकरणभेदापरोवरीयस्त्वादिवत् (ब्र.सू.३-३-७) संज्ञातश्चेत्तदुक्तमस्ति तु तदपि (ब्र.सू.३-३-८) व्याप्तेश्च समञ्जसम् (ब्र.सू.३-३-९) इति त्रिभिस्सूत्रै:, अत्रोद्गीथ-शब्दस्योद्गातृगीयमानोद्गीथपरतया कृत्स्नोद्गीथगानकर्तरि मुख्यप्राणदृष्टिरूपाया उद्गीथविद्याया उद्गीथाङ्गभूते प्रणवे मुख्यप्राणदृष्टिरूपा छान्दोग्योपात्त उद्गीथविद्या भिद्यत इति सिद्धान्तितम् । इत्थं हि तत्र भाष्यम् – अस्ति हि उद्गीथविद्या वाजिनां छन्दोगानां च । वाजिनां तावत् – द्वया ह वै प्राजापत्या देवाश्चासुरश्च इत्यारभ्य ते ह देवा ऊचुः हन्तासुरान् यज्ञ उद्गीथेनात्ययाम इत्युद्गीथेनासुरविध्वंसनं प्रतिज्ञाय उद्गीथे वागादिमनःपर्यन्तदृष्टावसुरैरभिभवमुक्त्वा अथ हेममास प्राणमूचुः इत्यादिनोद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति एवं वेद इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टि: विहिता । एवं छन्दोगानामपि देवासुरा ह वै यत्र संयेतिरे (छां.उ.१-२-१) इत्यारभ्य, तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम (छां.उ.१-२-१) इत्युद्गीथेनासुरपराभवं प्रतिज्ञाय तद्वदेव उद्गीथे वागादिदृष्टौ दोषमभिधाय अथ ह य एवायं मुख्यः प्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.उ.१-२-७) इत्यादिनोद्गीथे प्राणदृष्ट्यासुरपराभवमुक्त्वा यथाश्मानमाखणमृत्वा विध्वंसते एवं ह वै स विध्वंसते य एवंविदि पापं कामयते (छां.उ.१-२-८) इति शत्रुपराभवायोद्गीथे प्राणदृष्टिविहिता । वेदना विषयविधिप्रत्ययाश्रवणेपि फलसाधनत्वश्रवणात् वेदनविषयो विधिः कल्प्यते । उद्गीथविद्यायाः क्रत्वर्थत्वेन क्रतुसाद्गुण्यफलकत्वेप्यार्थवादिकमपि फलं तदविरुद्धं ग्राह्यमेवेति देवताधिकरणे (ब्र.सू.अ.१-३-७) प्रतिपादितम् । तत्र संशय्यते, किमत्र विद्यैक्यं उत नेति । किं युक्तम्? विद्यैक्यमिति । कुतः? उभयत्रोद्गीथस्यैव अध्यस्तप्राणभावस्य उपास्यत्वश्रवणात् चोदनाद्यविशेषात् । फलसंयोगस्तावच्छत्रुपरिभवरूपो न विशिष्यते । रूपमप्यध्यस्तप्राणभावोद्गीथाख्योपास्यैक्यादविशिष्टम् । चोदना च विदिधात्वर्थ-गताऽविशिष्टा । आख्या चोद्गीथविद्येत्यविशिष्टा । अत्र सिद्धान्तच्छायया परिचोद्य परिहरति – अन्यथात्वं शब्दादिति चेन्नाविशेषात् इति (ब्र.सू.३-३-६) यदुक्तं विद्यैक्यमिति, तन्नोपपद्यते, रूपभेदात् । रूपान्यथात्वं हि शब्दादेव प्रतीयते । वाजसनेयके हि – अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् (बृ.उ.३-३-७) इत्युद्गानस्य कर्तरि प्राणदृष्ट्याऽसुरपराभवमुक्त्वा, य एवं वेद इति कर्तर्येव प्राणदृष्टिरेवंशब्दादवगम्यते । छान्दोग्ये – अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे (छां.उ. १-२-७) इत्युद्गानस्य कर्मण्येवोद्गीथे प्राणदृष्टिर्विहिता । अत एकत्र कर्तरि प्राणदृष्टिशब्दात् अन्यत्र कर्मणि प्राणदृष्टिशब्दाञ्च रूपान्यथात्वं स्पष्टम् । रूपान्यथात्वे च विधेयभेदे सति केवलचोदनाद्यविशेषाऽकिञ्चित्कर इति विद्याभेद इति चेत् – तन्न। अविशेषात् । अविशेषेण ह्युभयत्रोद्गीथसाधनकः परपरिभवः उपक्रमे प्रतीयते । वाजसनेयके – ते ह देवा ऊचुर्हन्तासुरान् यज्ञ उद्गीथेनात्याम इत्युपक्रमे श्रूयते । छान्दोग्येपि – तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्याम (छां.उ.१-२-१) इति । अत उपक्रमाविरोधाय तेभ्य एष प्राण उदगायत् इत्यध्यस्तप्राणभाव उद्गीथः उद्गानकर्मभूत एव पाकादिष्वोदनादिवत् सौकर्यातिशयविवक्षया कर्तृत्वेनोच्यते । अन्यथोपक्रमगत उद्गीथशब्दः कर्तरि लाक्षणिकः स्यात् । अतः विद्यैक्यमिति प्राप्ते प्रचक्ष्महे -न वा प्रकरणभेदात् परोवरीयस्त्वादिवत् (ब्र.सू.३-३-७)। न वेति पक्षं व्यावर्तयति । न चैतदस्ति, यद्विद्यैक्यमिति । कुतः? प्रकरणभेदात् । ओमित्येतदक्षरमुद्गीथमुपासीत’ (छां.उ.१-१-१) इति प्रकृतमुद्गीथावयवभूतं प्रणवं प्रस्तुत्य एतस्य वा अक्षरस्योपव्याख्यानं भवति । देवासुरा ह वै यत्र संयेतिरे इत्यारभ्य अथ य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इत्युद्गीथावयवभूतप्रणवविषयमुपासनं छन्दोगा अधीयते । वाजसनेयिनस्तु तादृशप्राचीन प्रकरणाभावात् हन्तासुरान्यज्ञ उद्गीथेनात्ययाम इति कृत्स्नमुद्गीथं प्रस्तुत्य अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गाय (बृ.उ.३-३-७) इत्यादिकृत्स्रोद्गीथविषयमधीयते । ततः प्रकरणभेदेन विधेयभेदः – विधेयभेदे च रूपभेद इति न विद्यैक्यम् । किञ्च अथ ह य एवायं मुख्यप्राणस्तमुद्गीथमुपासाञ्चक्रिरे इति पूर्वप्रकृत उद्गीथावयवभूतः प्रणव एवाध्यस्तप्राणभावः छन्दोगानां उपास्यः । वाजिनां तु कृत्स्नस्यैवोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्या उपास्य इति । अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति, तथेति तेभ्य एष प्राण उदगायत् इत्युद्गातरि प्राणाध्यासं निर्दिश्य – य एवं वेद इत्युद्गातेवाध्यस्तप्राणभाव उपास्यो विधीयते । अतश्च रूपभेदः । न च उद्गातर्युपास्ये विहिते उद्गीथेनात्ययाम इत्याख्यायिकोपक्रमविरोधः शङ्कनीयः ।  उद्गातुरुपासने उद्गीथस्योद्गानकर्मभूतस्यावश्यापेक्षितत्वात् तस्यापि परपरिभवाख्यं फलंप्रति हेतुत्वात् । अतो रूपभेदाद्विद्याभेद इति चोदनाऽविशेषेऽपि न विद्यैक्यम् । परोवरीयस्त्वादिवत् । यथैकस्यामेव शाखायामुद्गीथावयवभूते प्रणवे परमात्मदृष्टिविधानसाम्येऽपि हिरण्मय-पुरुषदृष्टिविधानात् परोवरीयस्त्वादिगुणविशिष्टदृष्टिविधानमर्थान्तरभूतम् । संज्ञातश्चेत्तदुक्तमस्ति तु तदपि (ब्र.सू.३-३-८)। उद्गीथविद्येति संज्ञैक्यात् तत् विद्यैक्तमुक्तं चेत्, तत् . संजैक्यं विधेयभेदेप्यस्त्येव । यथाग्निहोत्रसंज्ञा नित्याग्निहोत्रे कुण्डपायिनामयनाग्निहोत्रे च। यथा चोद्गीथविधेति छान्दोग्यप्रथमप्रपाठकोपात्तासु बह्वीषु विद्यासु । व्याप्तेश्च समञ्जसम् (ब्र.सू.३-३-९) । छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासुद्गीथावयवस्य प्रणवस्य प्रथमप्रस्तुतस्योपास्यत्वेन व्याप्तेश्च तन्मध्यगतस्य तद्ध देवा उद्गीथमाजह्नु: इत्युद्गीथशब्दस्य प्रणवविषयत्वमेव समञ्जसम् । अवयवे च समुदायशब्दः ‘पटो दग्धः’ इत्यादिषु दृश्यते ।

अतश्चोद्गीथावयवभूतः प्रणव एवोद्गीथशब्दनिर्दिष्ट इति स एव प्राणदृष्ट्या उपास्यः छान्दोग्ये प्रतिपत्तव्यः । वाजसनेयके तु कृत्स्नोद्गीथविषय उद्गीथशब्द इति कृत्स्नोद्गीथस्य कर्तोद्गाता प्राणदृष्ट्या उपास्य इति विद्यानानात्वं सिद्धमिति । अतोऽत्रोद्गीथशब्दः उद्गातृगीयमानोद्गीथपर एव । न तु तद्ध देवा उद्गीथमाजहुरनेनैनानभिभविष्यामः (छां.उ.१-२-१) इति छान्दोग्यगतोद्गीथशब्दात् स्वतन्त्रोद्गीथपर इति द्रष्टव्यम् ।। १ ।।

 

[वागादिकं प्रति वेदोक्तवाक्यानि]

 

ते वाचमूचुस्त्वं उद्गायेति तथेति तेभ्यो वागुदगायत् यो वाचि भोगस्तं देवेभ्य आगायत्, यत् कल्याणं वदति तदात्मने तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन् यः पाप्मा यदेवेदमप्रतिरूपं वदति एव पाप्मा ।। ।।

प्र.-ते वाचमूचुस्त्वं उद्गायति इति । त्वं न उद्गाता भवति यागभिमानिनीं देवतां प्राथितवन्त इत्यर्थः । तथेति तेभ्यो वागुदगायत् इति । तथेत्यङ्गीकृत्य तेभ्यः – देवेभ्यो वागुद्गानं कृतवतीत्यर्थः । दृष्टिविधिप्रकरणत्वा-दसम्भवदर्थकत्वाच्च आवित्यादिमतयश्चांग उपपत्तेः’ (ब्र.सू.४-१-६) इति न्यायेन क्रत्वङ्गभूते उद्गातरि वाग्दृष्टिं कृतवन्त इत्यर्थः । यो वाचि भोगस्तं देवेभ्य आगायद्यत्कल्याणं वदति तदात्मन इति । वाचि निमित्ते यो भोग: गानादिजन्यो यः सुखानुभवः । तम् – भोगं देवेभ्य आगायत् । देवानां भोगमुद्दिश्य आगायत् – गानं कृतवती । गानेन देवानां भोगं सम्पादितवतीति यावत् । यत् कल्याणवार्ताभिलपनरूपं वागिन्द्रियकार्यं, तदप्यात्मने ‘वाक्सम्पादितवती’त्यर्थः । तेऽविदुरनेन इति । ते – असुराः अविदुः . ज्ञानवन्त इत्यर्थः । किमिति? अनेन – वाग्रूपेणोद्गात्रा नः अस्मान् अत्येष्यन्ति ज्येष्यन्तीति । तमभिद्रुत्य इति । तं – उद्गातारं अभिद्रुत्य – शीघ्रं प्राप्य पाप्मना अविध्यन् – पापेन संयोजितवन्तः। : सपाप्मायदेव इति । यः पाप्मा तद्वेधनसाधनभूतः, स तु यदेवेदं अप्रतिरूपं – अनुचितमशिवानृतपैशुन्यादि वदति, स एव – तद्रूप एव; स पाप्मेत्यर्थः । अयं भावः – वागिन्द्रियमसुराः क्रोधाद्युत्पादनद्वारा परुषातिवादपैशुन्यादिदूषितमकुर्वन्निति । ततश्चासुरबुद्धिकार्या तत्तदिन्द्रियाणां पापप्रवृत्तिरिति भावः ।। २ ।।

[वागादीनां असुरपराभूतत्वम्]

 

अथ प्राणमूचुस्त्वं उद्गायेति तथेति तेभ्य: प्राण उदगायत् प्राणे भोगस्तं देवेभ्य आगायत् यत् कल्याणं जिघ्रति तदात्मने तेऽविदुरनेन वै उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन् यः पाप्मा यदेवेदमप्रतिरूपं जिघ्रति एव पाप्मा ।। ।।

 

अथ चक्षुरूचुस्त्वं उद्गायेति तथेति तेभ्यश्चक्षुरुदगायत् यश्चक्षणि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं पश्यति तदात्मने तेऽविदुरनेन वै न उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन् यः पाप्मा यदेवेदमप्रतिरूपं पश्यति एव पाप्मा ।। ।।

 

अथ श्रोत्रमूचुस्त्वं उद्गायेति तथेति तेभ्यश्श्रोत्रमुदगायत् श्रोत्रे भोगस्तं देवेभ्य आगायत् यत् कल्याणँ शृणोति तदात्मने ।तेऽविदुरनेन वै उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन् यः पाप्मा यदेवेदमप्रतिरूपं शृणोति एव पाप्मा ।। ।।

प्र.-अथहप्राणमूचुः इत्यादि । प्राणम् – घ्राणम् । शिष्टं स्पष्टम् ।। ३-५ ।।

अथ मन ऊचुस्त्वं उद्गायेति तथेति तेभ्यो मन उदगायत् यो मनसि भोगस्तं देवेभ्य आगायत्; यत् कल्याणं सङ्कल्पयति तदात्मने तेऽविदुरनेन वै उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविध्यन् यः पाप्मा यदेवेदमप्रतिरूपैं सङ्कल्पयति एव पाप्मा । एवमु खल्वेता देवताः पाप्मभिरुपासृजन् एवमेनाः पाप्मनाऽविध्यन् ।। ।।

प्र.-उक्तमर्थं निगमयति – एवमु खल्वेताः इति । शब्दः अवधारणे । एवमेव खलु उक्तया रीत्या एता देवताः – वागाद्याः उक्ताः अनुक्ताष्टा पाप्मभिः – अनृतवदनादिलक्षणैः उपासृजन् – ‘उपगतवत्यः’ इत्यर्थः । एवमेनाः पाप्मना अविध्यन् इति एवम् -उक्तया रीत्या असुराः एनाः – वागादिदेवताः । पाप्मना अविध्यन् – अनृतादिपाप्मना वेधनं कृतवन्तः इत्यर्थः ।। ६ ।।

 

[मुख्यप्राणस्य असुरपरिभवितृत्वम्]

 

अथ हेममासन्यं प्राणमूचुस्त्वन्न उद्गायेति तथेति तेभ्य एष प्राण उदगायत् । तेऽविदुरनेन वै उद्गात्राऽत्येष्यन्तीति तमभिद्रुत्य पाप्मनाऽविव्यत्सन् स यथाऽश्मानमृत्वा लोष्टो विध्वँसेत, एवँ हैव विध्वँसमाना विष्वञ्चो विनेशः ततो देवा अभवन् पराऽसुराः भवत्यात्मना, पराऽस्य द्विषन् पाप्मा भ्रातृव्यो भवति एवं वेद ।।

प्र. अथ हेममासन्यं प्राणम् इति । आसन्यं – मुख्यमित्यर्थः । यद्वा आस्ये भव: आसन्यः । आस्य शब्दस्य । पद्दन्’…. (पा.सू.६-१-६३) इत्यादिना आसन्नादेशः । मुख्यमिति यावत् । तं प्राणं देवाः ऊचुः उक्तवन्तः । किमिति? त्वं उद्गायेति स्पष्टोऽर्थः । तेभ्य एष प्राण उदगायत् इति – उद्गातरि मुख्यप्राणदृष्टिं कृतवन्तः इत्यर्थः । तथैव हि व्याख्यातं व्यासार्यै: अन्यथात्वं शब्यात (अ.सू.३-३-६) इत्यधिकरणे । तेऽविदुइत्यादि । अवित्सन् – बेद्धुमैच्छन् । व्यध ताडने (धा.पा.११८२) तस्मात् सीन नेट्। अकित्वान्न सम्प्रसारणम् । शिष्टं स्पष्टम् । यथा अश्मानं ऋत्वा लोष्टो विध्वंसेत इति । यथा अश्मचूर्णनाय ‘क्षिप्तः लोष्टः – पांसुपिण्डः अश्मानम्-पाषाणं ऋत्वा प्राप्य विध्वंसेत – चूर्णीभवेत् । सः दृष्टान्तो यथा, तथा अध्यस्त मुख्यप्राणभावोद्गात्रु-पासनानिष्ठान् देवान् प्राप्य विध्वंसमाना: – चूर्णीभवन्तः विष्वञ्चः – नानागतयः विनष्टा: अभवन्नित्यर्थः । ततो देवाः अभवन् पराऽसुराः इति। ततः परं देवाः देवा जाता, द्योतमाना अभवन्नित्यर्थः । यद्वा देवाः अभवन् – सत्तां अलभन्तेत्यर्थः । विजयिनो अभवन्निति वा अर्थः । असुरास्तु परा अभवन् – पराभूता अभवन् । भवत्यात्मना पराऽस्य द्विषन् भ्रातृव्यो भवति एवं वेद इति । यः उद्गातारम् अध्यस्तप्राणभावमुपास्ते, सः आत्मना भवति – उत्तरो भवतीत्यर्थः । यद्वा, आत्मना मनसा समीचीनेन युक्तो भवतीत्यर्थः । अस्य द्विषन् द्विषश्शतुर्वा (वा.१५२२) वचनमिति कर्मणि षष्टी । एनं प्रति द्वेषं कुर्वन् शत्रुः पाप्मा च पराभूतो भवतीत्यर्थः । भवत्यात्मना परास्य द्विषन् भ्रातृव्यो भवति य एवं वेद इति शत्रुपराजयफलायोद्गीथे प्राणदृष्टिविहिता भाष्यस्योपलक्षणतया पाप्मपराभवस्य, आत्मना भवनस्य च फलत्वप्रतिपादनस्य न विरोध इति द्रष्टव्यम् । यद्वा अस्य द्विषन् भ्रातृव्यः आत्मना स्वत एव पराभवति, पाप्मा भवति निन्दादियुक्तश्च भवतीत्यर्थः ।। ७ ।।

 

[मुख्यप्राणस्य आङ्गीरस नामधेयम्]

 

ते होचुः, क्व नु सोऽभूत्, यो इत्थमसक्तेति अयमास्येऽन्तरिति । सोऽयास्य आङ्गिरसः अङ्गानौं हि रसः ।। ।।

प्र.- ते होचुः सोऽभूद्यो नः इत्थमसक्तेति इति । ते ह देवाः ऊचुः । किमति? यः मुख्यप्राणः नः अस्माकम् इत्थम् – उक्तरूप शत्रुपराजयम् असक्तः . संयोजितवान् । षञ्जे: सिचि व्यत्ययेनात्मनेपदे झलो झलि (पा.सू.८-२-२६) इति सिज्लोपे तस्य ‘छान्दसेन ञित्त्वे सिद्धत्वेन’ ‘अनिदिताम्’ (पा.सू.६-४-२४) इत्यनुनासिकलोपः; कुत्वम् । यः संयोजितवान्, सः क्व नु कस्मिन् देशे प्रतिष्ठित: इत्यूचुः – ‘मन्त्रयाञ्चक्रुः’ इत्यन्वयः । एवं सम्मन्त्र्य ददृशुः, अयमास्येन्तरिति सोऽयास्यः इति अन्तरास्ये अयमिति प्रत्यक्षतो दृष्टो यः प्राणः सोऽयास्यः आङ्गिरसो अङ्गानां रसः इति । अङ्गानां प्राणो हि रसः, अतः आङ्गिरसः इत्यर्थः ।। ८ ।।

 

[मुख्यप्राणस्य दूर्नामकत्वम्]

 

सा वा एषा देवता दूर्नाम दूर ह्यस्या मृत्युः दूरँ वा अस्मान् मृत्युर्भवति एवं वेद ।। ।।

 

प्र. सा वा एषा देवता दूर्नाम दूरं ह्यस्या मृत्युः इति । हि – यस्मात् कारणात् अस्याः मुख्यप्राणरूपाया देवतायाः मृत्युः दूरं भवति, तस्मात् प्राणस्य दूर्नामत्वं इत्यर्थः । दूर्नामकत्वेन प्राणविद्यायाः फलमाह – दूरं वा इत्यादिना ।  स्पष्टोऽर्थः ।। ९ ।।

 

[मुख्यप्राणेन वागादिषु आपादित दोषबहिष्करणम्]

 

सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युमपहत्य यत्रासां दिशामन्तस्तद्गमयाञ्चकार तदासां पाप्मनो विन्यदधात् तस्मान्न जनमियात्नान्तमियात्। नेत् पाप्मानं मृत्युमन्ववायानीति ।। १० ।।

प्र. – सा वा एषा देवता इति । सा उद्गातरि अध्यस्योपासिता एषामृत्युदूरत्वेन दूर्नामिका मुख्यप्राणरूपा देवता पूर्वमसुरैः अनृतादिपाप्मभिः संयोजितानां वागादिदेवतानां मृत्युम् – मरणादिदुःखहेतुतया मृत्युशब्दितं पाप्मानं अपहत्य – वागादि-देवताभ्यः आच्छिद्य, यत्र आसां दिशामन्तः – सर्वदिगन्तप्रदेशः तद्गमयाञ्चकार । दूर्नामत्याद्दूरं मृत्युं निनायेत्यर्थः । तदासां पाप्मनो विन्यदधात् इति । आसाम् । वागादिदेवतानां पाप्मनः पापानि तत् – तेषु दिगन्तदेशेषु विन्यदधात् – विशिष्य निधानं कृतवतीत्यर्थः ।

तस्मातन्न जनमियात् नान्तमियात् इति । यस्मात् कारणात् प्रत्यन्तदेशानां वागादिदेवताविनिर्मुक्त अनृतादिलक्षण पापनिधानाश्रयतया म्लेच्छदेशत्वम् ,अत एव तत्र देशे जनम् – जननम् – उत्पत्तिमिति यावत् । अन्तम् – मरणं च नेयात् – न प्राप्नुयात् । तत्र देशे उत्पत्तिमरणे अशोभने इति यावत् । नेत् पाप्मानं मृत्युम् अन्ववायानीति इति । नेत् – नैवेत्यर्थः । पाप्मानं मृत्यु नैव अन्वावायानि नानुगच्छेयमिति भीतस्सन् उत्पत्तिमरणे न प्राप्नुयात् इत्यन्वयः । उत्पत्तिमरणे ‘तादृशदेशे यथा न भवतः, तथा यतेत इति यावत् ।। १० ।।

[मुख्यप्राणेन वागादीनां यथावत् रक्षणम्]

 

सा वा एषा देवतैतासां देवतानां पाप्मानां मृत्युमपहत्याथैना मृत्युमत्यवहत् ।। ११ ।।

प्र. – सा वा एषा देवतैतासां देवतानां पाप्मानं मृत्युम् अपहत्य अथ एनाः मृत्युम् अत्यवहत् इति । सैषा मुख्यप्राणदेवता । आसाम् – वागादिदेवतानां पाप्मानं मृत्युम् अपहत्य ततः आच्छिद्य अथ – तदनन्तरं एनाः -वागादिदेवताः मृत्युमतीत्यावहत्, मृत्युमतिक्रान्तं स्वरूपं प्रापयदित्यर्थः ।। ११ ।।

वै वाचमेव प्रथमामत्यवहत्, सा यदा मृत्युमत्यमुच्यत, सोऽग्निरभवत् । सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यते ।। १२ ।।

प्र.-तदेव प्रपञ्चयति – वै वाचमेव प्रथमां अत्यवहत् इत्यादिना । सः -प्राणः प्रथमाम् – इतरदेवतासु प्रधानभूतां वाचम् अत्यवहत् – मृत्युमत्यक्रामयत् इत्यर्थः सा – वाक् यदा मृत्युमत्यमुच्यत – मृत्योरतिमुक्ताः – अन्यन्तमुक्ता आसीत्, सोऽग्निरभवत् । तदेति शेषः । सः इति अग्न्यपेक्षया पुल्लिङ्गनिर्देशः । यद्यपि वागभिमानिनी देवता सर्वदा अग्निरेव – तथापि अपगतदोषतया अग्रनयनादिप्रवृत्तिनिमित्तपौष्कल्यशालितया अग्निरभवत् । अद्य रामस्य रामत्वम् इत्यादिवदिति भावः । तदेवाह – सोऽयमग्निः परेण मृत्युमतिक्रान्तो दीप्यत इति । एवं मृत्युमतिक्रान्तो अग्निः निरस्तपापरूपमलतया मृत्युं परेण – मृत्योः परस्तात् दीप्यत इत्यर्थः ।। १२ ।।

 

अथ प्राणमत्यवहत् यदा मृत्युमत्यमुच्यत, वायुरभवत् सोऽयं वायुः परेण मृत्युमतिक्रान्तः पवते ।। १३ ।।

 

अथ चक्षुरत्यवहत् तद् यदा मृत्युमत्यमुच्यत, आदित्योऽभवत् । सोऽसावादित्यः परेण मृत्युमतिक्रान्तः तपति ।। १४ ।।

प्र. – एवमुत्तरत्रापि द्रष्टव्यम् ।। १३-१४ ।।

अथ श्रोत्रमत्यवहत् तद्यदा मृत्युमत्यमुच्यत, ता दिशोऽभवन् ता इमा दिशः परेण मृत्युमतिक्रान्ताः ।। १५ ।।

प्र. -अतिक्रान्ता इति । अत्र भान्तीति शेषः । दिक् शब्दः दिग्देवतापरः ।। १५ ।।

अथ मनोऽत्यवहत् तद्यदा मृत्युमत्यमुच्यत, चन्द्रमा अभवत् । सोऽसौ चन्द्रः परेण मृत्युमतिक्रान्तो भाति एवँ वा एनमेषा देवता मृत्युमतिवहति  एवं वेद ।। १६ ।।

प्र. -एवं वा एनमेषा देवता मृत्युम् अतिवहति एवं वेद इति । यः पुमान् वागाद्यभिमानि अग्न्यादिदेवतानां मृत्य्वतिवहनकर्म वेद, तमेनमेषा प्राणदेवता मृत्युमतिवहति – अतितारयतीत्यर्थः । शिष्टं स्पष्टम् ।। १६ ।।

 

[मुख्यप्राणेन स्वार्थगृहीतस्य अन्नस्य वागादिभ्योऽपि विभजनम्]

 

अथात्मनेऽन्नाद्यमागायत् यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते इह प्रतितिष्ठति ।। १७ ।।

 

प्र. अथात्मने अन्नाद्यम् आगायत् इति। यो वाचि भोगस्तम् देवेभ्य आगायत् यत् कल्याणं वदति तदात्मने इति यजमानगामिफलव्यतिरिक्तं कल्याणवदनादिकं यथा वागाद्या देवता आगायन् , तथा प्राणोऽप्यात्मने अन्नाद्यम् आगायत् । अन्नमत्तीत्यन्नादः । तस्य भावः अन्नाद्यम् । आदिवृद्ध्यभावः छान्दसः। अथवा अन्नं च तत् आद्यं च अन्नाद्यम् । आद्यम् – अदनार्हम् । भक्षणार्हमित्यर्थः । आगायत् – गानसामर्थ्येन उपास्थापयत् । संपादितवान् इत्यर्थः। यद्धि किञ्चान्नमद्यते, अनेनैव तदद्यते इति । अत्र अनशब्दः प्राणवाची । अद्यमानं सर्वं प्राणेनैव अद्यत इत्यर्थः । इह प्रतितिष्ठति इति ।इह-अन्ने सत्येव प्राणः प्रतिष्ठितो भवतीत्यर्थः । तस्मादन्नस्य प्राणाहारत्वात् अन्नादत्वं सिद्धमिति भावः ।। १७ ।।

 

ते देवा अब्रुवन्, एतावद्वा इदँ सर्वं यदन्नम् तदात्मन आगासी: अनु नोऽस्मिन्नन्न आभजस्वेति ते वै माऽभिसंविशतेति तथेति तँ समन्तं परिण्यविशन्त तस्माद्यदनेनान्नमत्ति, तेनैतास्तृप्यन्ति एवँ वा एनँ स्वा अभिसंविशन्तिभर्ता स्वानाँ श्रेष्ठः पुर एता भवत्यन्नादोऽधिपतिर्य एवं वेद हेवंविदँ स्वेषु प्रति प्रतिबुभूषति‘, हैवालं भार्येभ्यो भवति अथ एवैतमनुभवति, यो वै तमनु भार्यान् बुभूर्षति, हैवालं भार्येभ्यो भवति ।। १८।।

प्रते देवा अब्रुवन् इति । वागाद्याः ते देवाः प्राणमब्रुवन् । किमिति? एतावद्वा इदं सर्वं यदन्नम्, तदात्मन आगासी:, अनुनोऽस्मिन्नन्न आभजस्वेति इति । यदिदमन्नमस्ति, एतावद्वै सर्वमिदम् । तत् – तादृशमन्नम् आत्मने – स्वार्थमागासीः । वयञ्च अन्नार्थिनः, अन्नं विना स्थातुम् अशक्यत्वात् । तस्मादस्मिन्नन्ने अनु – त्वद्भोगानन्तरं :-अस्मान् आभजस्व आङ् ईषदर्थे अन्तर्भावितण्यर्थोऽयं भजि:-भाजय, अल्पाल्पभागवतः कुरु इत्यर्थः ।

सः एवमुक्तः प्राणः प्रत्याह –ते वै माऽभिसंविशतेति ते वै-तादृशा: अन्नार्थिनः यूयं मा – माम् अभि – अभितः संविशत – उपविशत इत्यब्रवीत् । तथेति तं समन्तं परिण्यविशन्त इति । वागाद्या देवताः तथेति प्रतिश्रुत्य समन्तात् – परितः न्यविशन्त – निविष्टा इत्यर्थः । भागिनश्च अभवन्निति भावः । तस्मात् यदनेन अन्नमत्ति तेनैताः तृप्यन्ति इति । तस्माद्धेतोः अनेनप्राणेन सहितस्सन् जीवो यदन्नमत्ति, तेनैवान्नेन वागाद्याः तृप्यन्ति । प्राणे अन्नेन आप्यायिते वागाद्याः प्राणा अन्नेन आप्यायिता भवन्तीत्यर्थः ।।

एतद्वेदनस्य फलमाह- एवं वा एनं स्वा अभिसंविशन्ति, भर्ता स्वानाँ श्रेष्ठः पुर एता भवति अन्नादो अधिपतिः एवं वेद इति । यस्तु एवं वेद – उपास्ते, तादृशं एनम् – विद्वांसम्, यथा वागाद्याः प्राणस्य परितो निविष्टाः, एवं स्वा: – ज्ञातयः अभितः संविशन्ति – परितः उपासते । स्वानाम् – ज्ञातीनां भर्ता – पोषकः श्रेष्ठश्च पुर एता – अग्रेसर: अन्नादः अरोगदृढगात्रतया अभिमतान्नभोक्ता अन्येषां अधिपतिश्च भवतीत्यर्थः । हैवंविदँ स्वेषु प्रति प्रतिबुभूषति हैवालं भार्येभ्यो भवति इति ।

एवं विधम् – एतादृश प्राणविद्यानिष्ठं प्रति स्वेषु – ज्ञातिषु प्रति – प्रतिभटः, छान्दसस्सुलोपः । बुभूषति – भवितुमिच्छति, प्रतिस्पर्धी भवितुं इच्छतीत्यर्थः प्रतिपत्तिर्बुभूषति इति पाठेऽपि स एवार्थः । सः भार्येभ्यः – भर्तव्यभार्यापुत्रादिभ्यः -भार्यापुत्रादिभरणाय इति यावत् । नालं भवति – पुत्रकळत्रादि भरणेपि असमर्था भवतीत्यर्थः । अथ एवैतम् अनुभवति यो वै तमनुभार्यान् बुभूर्षति एवालं भार्येभ्यो भवति अथ शब्दः प्रकृतमपेक्ष्यार्थान्तरपरत्वे । ज्ञातीनां मध्ये य एतम् – प्राणविदम् अनुभवति – अनुगतो यो वा एतम् – प्राणविदम् अनु – अनुसृत्य भार्यान् – भर्तव्यान् पुत्रकळत्रादीन् बुभूर्षति – भर्तुम् इच्छति । भृञः सनि उदोष्ठ्यपूर्वस्य (पा.सू.७-१-१०२) इत्युत्वम् । एवालं भार्येभ्यो भवति – उक्तोऽर्थः ।। १८ ।।

[मुख्यप्राणस्य अनेकादि नामनिर्देशेन तन्निर्वचनम्]

 

सोऽयास्य आङ्गिरसोऽङ्गानाँ हि रसः प्राणो वा अङ्गानाँ रस: प्राणो हि वा अङ्गानाँ रसः तस्मात् यस्मात् कस्माच्चाङ्गात् प्राण उत्क्रामति, तदैव तच्छुष्यति एष हि वा अङ्गानाँ रसः ।। १९ ।।

प्र-पूर्वमुक्तमेव अयास्यत्वम् आङ्गिरसत्वञ्च विद्याभेदभ्रमापनुत्तये पुनराह सोऽयास्य इत्यादिना । सोऽयास्य आङ्गिरसोऽङ्गानां हि रसः प्राणो वा अङ्गानां रसः इत्यन्तेन उक्त एवार्थः स्मारितः । पुनस्तमेवार्थ प्रसिद्ध्योपपादयति – प्राणो हि वा इत्यादिना । हि – यस्मात् प्राणानाम् अङ्गरसत्वम् , तस्मात् यस्मात् कस्माश्चिदङ्गात् प्राण उत्क्रामति, तदैव तदङ्गं शुष्यति । नीरसत्वादिति भावः ।। १९ ।।

एष एव बृहस्पतिः वाग्वै बृहती तस्या एष पतिः तस्मादु बृहस्पतिः ।। २० ।।

प्र. –एष एव बृहस्पतिः इति । : चार्थे । बृहस्पतिश्च एष एवेत्यर्थः । तत्र हेतुमाह – वाग्वैबृहती इति । बृहत्याख्यच्छन्दसो वाग्रूपत्वादिति भावः । तस्याः तादृश्या वाचः एषःप्राण: पति: रक्षक: इत्यर्थ: । वागादिसत्ताया: तदधीनत्वादिति भावः ।। २० ।।

 

एष एव ब्रह्मणस्पतिः वाग्वै ब्रह्म तस्या एष पतिः ब्रह्मणस्पतिः ।। २१ ।।

प्र. – एष एव ब्रह्मणस्पतिः इति ब्रह्म शब्दः वेदपरः । शिष्टं पूर्ववत् ।। २१ ।।

 

एष एव साम वाग्वै सा अमैषः सा अमश्चेति तत् साम्नस्सामत्वम् यद्वेव समः पॢषिणा समो मशकेन समो नागेन समः एभिः त्रिभिर्लोकैसमोऽनेन सर्वेण, तस्माद्वैव साम अश्नुते साम्नः सायुज्यं सलोकतां जयति, य एवमेतत् साम वेद ।। २२ ।।

प्र. – एष एव साम इति एष एव – वाग्विशिष्टो मुख्यप्राण एव साम । सा च अमश्चेति सामशब्दनिर्वचनात् । सा इति स्त्रीलिङ्गेन तच्छब्देन वाक् परामृश्यते । अम गतिभाजनशब्देषु (धा.पा.४६५) इति गमनार्थादमतेरः। अमति – गच्छति इति अमः प्राणः । तदुपपादयति – वाग्वै सा अम एष इति – उक्तोऽर्थः । प्रकारान्तरेण सामशब्दनिर्वचनमाह – यद्वेव पॢषिणा  इत्यादि । यद्वेव – यत् उ एव इति पदच्छेदः । उ शब्दः वा अर्थः । यस्मादेव वा पॢषिणा  – पुत्तिका शरीरेण समः, मशकशरीरेण समः, हस्तिशरीरेण समः, समष्टिजीवभूतत्रैलोक्यशरीरकब्रह्मणः शरीरेणापि समः, देवमनुष्यादिसर्वप्राणशरीरेणापि समः । यथा घटप्रदीपप्रभा तावन्मात्रव्यापिनी, प्रासाद-प्रदीपप्रभा च प्रासादव्यापिनी, एवं प्राणोऽपि ब्रह्मादिपिपीलिकान्तशरीरेषु तत्तत् शरीरानुरूपव्याप्तिमत्त्वेन समः, तस्माद्वै सामतस्मादेव वा सामेत्यर्थः ।

एतदेव वाक्यमवलम्ब्य मुख्यप्राणस्य विभुत्वं पूर्वपक्षीकृत्य इन्द्रियाणामिव मुख्यप्राणस्यापि उत्क्रान्त्यादि श्रवणात् अणुत्वमिति प्राणपादे अणुश्च (ब्र.सू.२-४-१२) इति सूत्रेण सिद्धान्तितम् ।

एतत् ज्ञानस्य फलमाह – अश्नुते साम्न: सायुज्यं सलोकतां जयति य एवमेतत् साम वेद इति । साम्नः सामशब्दितस्य प्राणस्य सायुज्यम् प्राणदेवतासमानभोगताम् अश्नुते । सलोकतां जयति – सालोक्यं प्राप्नोति, एवं वेद सामशब्दनिरुक्तं सर्वदा अनुसन्धत्ते ।। २२ ।।

 

एष वा उद्गीथः प्राणो वा उत् प्राणेन हीदँ सर्वमुत्तब्धम् वागेव गीथा उच्च गीथा चेति उद्गीथः ।। २३ ।।

प्रएष वा उद्गीथः इति । एष वा – एष एव वाक्प्राणसमुदायः’ उद्गीथः – उद्गीथाख्यप्राणभक्तिरित्यर्थः । तदुपपादयति – प्राणो वा उत् प्राणेन हीदँ सर्वम् इत्यादिना । उत्तब्धम् – धृतमित्यर्थः । शिष्टं स्पष्टम् ।। २३ ।।

 

तद्धापि ब्रह्मदत्त: चैकितायनेयो राजानं भक्षयन् उवाचअयं त्यस्य राजा मूर्धानं विपातयतात्, यदितो अयास्याङ्गिरसो अन्येनोदगायदिति वाचा ह्येव  प्राणेन चोदगायदिति ।। २४ ।।

प्र. – तद्धापि ब्रह्मदत्तश्चैकितायनेयो राजानं भक्षयन् उवाच इति । तत् -तत्र, आख्यायिकेति शेषः । ह शब्दः प्रसिद्धी । आख्यायिकाऽपि प्रसिद्धा अस्तीत्यर्थः । चैकितायनेयः – ‘चिकितस्य’ अपत्यं चैकिति: ‘अत इब्’ (पा.सू.४-१-९५) तरय गोत्रापत्यं युवा चैकितायन: फक्’ । तस्य अयनादेशः । चैकितायनस्य अपत्यं चैकितायनेयः । चैकितायनेयो ब्रह्मदत्तनामा ऋषिः राजानम् – सोमं भक्षयन्नुवाच । किमिति? अयं त्यस्य राजा मूर्धानंविपातयतात् अयम् – भक्ष्यमाणो राजा -सोम: त्यस्य -अन्यस्य शिरः विपातयतु । ननु किं तेनापराद्धम् इत्याशङ्क्याह . यदितो अयास्य आङ्गिरसो अन्येन उदगायत् इति । यत् – यस्मात् कारणात् इतः अस्मात् अयास्य आङ्गिरसः – मुख्यप्राणात् अन्येन – देवतान्तरेण अन्यः उदगायत् – उद्गानं कृतवान् । अयास्याङ्गिरसशब्दितमुख्यप्राणवेदनमन्तरेण देवतान्तरदृष्टिं कृत्वा यस्तूद्गायति, तस्य सोमं पिबतो मूर्धा पततु इत्यर्थः । इति शब्दो ब्रह्मदत्तवचस्समाप्तौ । वाचा ह्येव प्राणेन चोदगायत् हि – यस्माद्धेतोः सोमं पिबन् शपथं कृतवान्, तस्मात् ब्रह्मदत्तः अयास्य आङ्गिरस शब्दित वाक् सहित प्राणवेदनमेव कृत्वा उद्गानं कृतवान् इत्यर्थः ।। २४ ।।

तस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् तस्य वै स्वर एव स्वम् तस्मादार्त्विज्यं करिष्यन् वाचि स्वरमिच्छेत् ।  तया वाचा स्वरसंपन्नयाऽऽर्त्विज्यं कुर्यात् तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव; अथो यस्य स्वं भवति भवति हास्य स्वम्, एवमेतत् साम्नः स्वं वेद ।। २५ ।।

प्रतस्य हैतस्य साम्नो यः स्वं वेद भवति हास्य स्वम् इति । एतस्यप्रकृतस्य सामशब्दवाच्यस्य तस्य प्राणस्य यः स्वं वेद, तस्य स्वम् – धनं भवति इति प्रथमतः प्रलोभ्य शुश्रूषामुत्पाद्याह – तस्य वै स्वर एव स्वम् इति । स्वरः – कण्ठध्वनिः । तस्मादाऽऽर्त्विज्यं करिष्यन् वाचि स्वरम् इच्छेत् इति । ऋत्विजः कर्म आर्त्विज्यम् – औद्गात्रादिकं करिष्यन् वाचि स्वरम् – कण्ठध्वनिम् इच्छेत् । इच्छेत् इति पदव्यत्ययः छान्दसः । यथा कण्ठध्वनिर्भवति, तमुपायं मधुपिप्पलीसेवादिलक्षणं कुर्यादित्यर्थः ।स तया इत्यादि स्पष्टम् । तस्माद्यज्ञे स्वरवन्तं दिदृक्षन्त एव इति । यस्मात् स्वर एव साम्न: स्वम्, तस्माद्यज्ञे स्वरवन्तमेव स्तोतारं दिदृक्षन्ते । जना इति शेषः । अथो यस्य स्वम् भवति इति । यस्य स्वम् – धनमस्तीत्यर्थः । अथ शब्दो वाक्यान्तरापक्रमे । अत्यल्पमिदमुच्यते स्वरवन्तं दिदृक्षन्त इति; यस्य स्वम् – धनमस्ति तं सर्वं दिदृक्षन्त इत्यर्थः । अतः स्वर एव स्वमिति निर्दिष्टस्वरवतो दिदृक्षितत्वं युज्यत इत्यर्थः । सामस्वरे स्वत्ववेदनस्य फलमाह – भवति ह्यस्य स्वम् इत्यादि । स्पष्टोऽर्थः ।। २५ ।।

 

तस्य हैतस्य साम्नो यस्सुवर्णं वेद, भवति हास्य सुवर्णम् तस्य वै स्वर एव सुवर्णम् भवति हास्य सुवर्णम्, एवमेतत् साम्नः सुवर्णं वेद ।। २६ ।।

 

प्रतस्य हैतस्य साम्नो: यः सुवर्णं वेद भवति हास्य सुवर्णम् इति । साम्नः प्रकृतस्य सामशब्दितस्य । अन्यः स्पष्टार्थः । एवं फलप्रदर्शनेन शुश्रूषामुत्पाद्याह – तस्य वै स्वर एव सुवर्णम् इति । क्रुष्टप्रथमादिलक्षणसामस्वरविदः स्वर एव सुवर्णम् भूषणम् इत्यर्थः । सामस्वरे सुवर्णत्व ज्ञानस्य फलमाह – भवति हास्य सुवर्णम् इत्यादि ।स्पष्टोऽर्थः ।।

 

तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद, प्रति तिष्ठति तस्य वै वागेव प्रतिष्ठा । वाचि हि खल्वेष एतत्प्राण: ‘प्रतिष्ठितो गीयते इत्युहैकआहुः ।। २७ ।।

 

प्र. – तस्य हैतस्य साम्नो यः प्रतिष्ठां वेद प्रति तिष्ठति इति । एवं फल प्रदर्शनेन पूर्ववच्छुश्रूषाम् उत्पाद्याह – तस्य वै वागेव प्रतिष्ठा इति । तस्य सामशब्दितस्य प्राणस्येत्यर्थः । कुत इत्यत्राह-वाचि हि खल्वेष एतत्प्राणः प्रतिष्ठितो गीयते इत्युहैक आहुः एषः – मुख्यप्राणो वाचि – वागिन्द्रियस्थानभूतजिह्वामूलीय स्थानेषु प्रतिष्ठितस्सन् एतत् साम गीयतेसामभावमापन्न उद्गीयत इत्येक आहुः ।उ शब्दोऽवधारणे । पूर्वत्र इह प्रतितिष्ठतीति प्राणस्य अन्नप्रतिष्ठितत्वोक्तेः वाक्छब्दित जिह्वामूलादि प्रतिष्ठितत्वं एकीयमतमिति भावः ।। २७ ।।

 

[अभ्यारोहमन्त्रः]

 

अथात: पवमानानामेवाभ्यारोहः वै खलु प्रस्तोता साम प्रस्तौति ।  यत्र प्रस्तुयात्, तदैतानि जपेत्असतो मा सद्गमय, तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति ।  यदाहासतो मा सद्गमयेति, मृत्युर्वा असत् सदमृतं मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह तमसो मा ज्योतिर्गमयेति मृत्युर्वे तमो ज्योतिरमृतम् मृत्योर्माऽमृतं गमय अमृतं मा कुर्वित्येवैतदाह मृत्योर्माऽमृतं गमयेति नात्र तिरोहितमिवास्ति

अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यमागायेत् तस्माद् तेषु बरं वृणीतं यं कामं कामयेत् तम् एष एवंविदः उद्गाताऽऽत्मने वा यजमानाय वा यं कामं कामयते तमागायति। तद्धैतल्लोकजिदेव हैवालोक्यताया आशास्ति, एवमेतत् साम वेद ।। २८ ।।

।। इति तृतीयाध्याये तृतीयं ब्राह्मणम् ।।

प्र. – एवमुद्गातृप्राणविद्योपदेशानन्तरं एवम्भूत प्राणविदमुद्गातारं प्रति प्रार्थनारूपाणां ब्रह्मलोकाभ्यारोहहेतुतया अभ्यारोह शब्दिताना मन्त्राणां प्रयोगकालं मन्त्रार्थञ्च आह – अथातः पवमानानामेव अभ्यारोहः‘ – इति । बहिष्पवमानामाध्यन्दिनपवमानाऽऽर्भव-पवमानभेदभिन्नानां त्रयाणां पवमानानामेव अभ्यारोहः – अध्यारोहमन्त्रः इति संज्ञेति शेषः । नेतरेषाम् आज्यपृष्टादिस्तोत्राणाम् इत्यर्थः । एतेषाम् अभ्यारोहमन्त्राणां जपकालं वक्तुं प्रथमं प्रस्तोतृसंज्ञार्थमाह – वै खलु प्रस्तोता साम प्रस्तौति । यः साम प्रस्तौति, स एव खलु प्रस्तोतेत्यर्थः । यत्र प्रस्तुयात् तदैतानि जपेत् इति । सः ‘प्रस्तोता यत्रयदा प्रस्तौति, तदा एतानि – यजूंषि यजमानो जपेदित्यर्थः । यजूंषि पठति – असतो मा सद्गमय तमसो मा ज्योतिर्गमय मृत्योर्मा अमृतं गमयेति इति । एतानि यजूंषि स्वयमेव व्याचष्टे – यदाह असतो मा सद्गमयेति मृत्युर्वा असत्सदमृतं मृत्योर्मा अमृतं गमय अमृतं मा कुरु इत्येवैतदाह इति । मा – मां असतः सद्गमय मृत्योः अमृतं कुरु । मृत्योः – संसारात् उद्धृत्यामृतं कुरु इत्यर्थः । यदाह – अनेन मन्त्रेण यत् प्रतिपाद्यमाह, तदमृतं मा कुरु इत्येतदाह इत्यन्वयः । एवमुत्तरत्रापि द्रष्टव्यम् । मृत्योर्मा अमृतं गमयेति नास्ति तिरोहितमिव अस्ति इति । तृतीयपर्यायः स्पष्टार्थ इत्यर्थः ।

अथ यानीतराणि स्तोत्राणि तेष्वात्मने अन्नाद्यम् आगायेत् इति । यस्मात् कारणात् त्रिष्वपि पवमानेषु उद्गाता एभिः यजुर्मन्त्रै: यजमानेन स्वगतं फलं याचितः; अत: यजमानगामि फलमुद्दिश्यैव आगायेत् । पवमानत्रयव्यतिरिक्तेषु आज्यादिषु नवसु स्तोत्रेषु आत्मने स्वार्थम् अन्नाद्यमुद्दिश्य आगायेत् इत्यर्थः । तस्माद् तेषु वरं वृणीत यं कामं कामयेत् तम् इति । तस्माद्धेतोः तेषु – पवमानव्यतिरिक्तस्तोत्रेषु यं कामं कामयेत – तं वरं वृणीतेत्यर्थः । एष एवंविद उद्गाता इत्यादि । तमागायति . तमुद्दिश्य आगायति । आगानेन तं संपादयति इत्यर्थः । तद्धैतल्लोकजिदेव इति । – प्रसिद्धं पूर्वोक्तं तदेतत् – प्राणवेदनं लोकजिदेवब्रह्मलोकसाधनमेवेत्यर्थ:। न हैवालोक्यताया आशास्ति, एवमेतत् साम वेद इति । सामशब्दनिर्दिष्टं प्राणं एवम् – अयास्याङ्गिरसत्वादि प्रागुक्त गुणविशिष्टं यो वेदय उपास्ते स: अलोक्यताया:- लोक्यता लोकार्हता तदभावः अलोक्यताब्रह्मलोकार्हत्वाभावतो भीत्या न हैवाशास्ति – नैवाशास्ते । साधनान्तरं नाभिलषति, तस्य कृतार्थत्वादिति भावः ।। २८ ।।

 

।। इति तृतीयाध्याये तृतीयब्राह्मणप्रकाशिका ।।

 

तृतीयाध्याये चतुर्थं ब्राह्मणम्

 

आत्मब्राह्मणम्

 

[सर्गारम्भे आत्मसद्भावः]

 

आत्मैवेदमग्र आसीत् पुरुषविधः सोऽनुवीक्ष्य नान्यदात्मनोऽपश्यत् । सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् तस्मादप्येतामन्त्रितो ऽहमयमित्येव अग्रे उक्त्वाऽथान्यन्नाम प्रब्रूते यदस्य भवति ।  यत् पूर्वोऽस्मात् सर्वस्मात् सर्वान् पाप्मनऔषत् तस्मात् पुरुषः। औषति वै तं योऽस्मात् पूर्वो बुभूषति, एवं वेद ।। ।।

प्र.-अथ नारायण तदुपासन – तत्प्राप्तीनां ‘परमतत्त्वहितपुरुषार्थत्वम् तत्प्रसङ्गात् सनकादियोगीश्वर लक्षणातिसृष्टेः विसृष्ट्यपेक्षया’ अतिशयितत्वं च वक्तुमुपक्रमते आत्मैवेदमग्र आसीत् पुरुषविधः इत्यादिना । इदं – जगत्, अग्रे – सृष्टेः प्राक् पुरुषविधः आत्मैव आसीत् । अस्य वाक्यस्य कारणवाक्यत्वात् आत्म शब्दः नारायणपरः । स यो हैतमग्निं ‘वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ ‘अन्वयं पुरुषविदः’ (तै.आन-२) इत्यादौ पुरुषविधशब्दस्य भगवति प्रयुक्तत्वाञ्च । पुरुषस्य विधेव विधा यस्य सः पुरुषविधः -पुरुषाकारः इत्यर्थः। अस्यात्मनः पुरुषविधत्वं च आनन्दमयत्वं ज्ञापयति, आत्मन आकाश: सम्भूतः (तै.आन-१) इत्युपक्रम्य, अन्योन्तर आत्माऽऽनन्दमयः (तै.आन-५) इत्युक्त्वा तस्य पुरुषविधत्वप्रतिपादनात् इति व्यासार्यै: सर्वव्याख्यानाधिकरणे (श्री.भा.१-४-८) हि उक्तम् ।

सोऽनुवीक्ष्य नान्यदात्मनो अपश्यत् सःपुरुषः अनुवीक्ष्य – अन्वीक्ष्य साक्षत्कुर्वन् आत्मनोऽन्यम् – विभक्तं नापश्यत्। सृष्टेः प्राक् तमः परे देव एकी भवति (सुबा.उ.३-२-२) इत्युक्तरीत्या अय:पीताम्बुवत् चिदचित्प्रपञ्चस्य परमात्मना अविभक्त्तत्वात् इति भावः । सोऽहमस्मीत्यग्रे व्याहरत् ततोऽहन्नामाभवत् इति। अहम् इति हिरण्यगर्भनाम । अहमभिमानाश्रयव्यष्टिपुरुषाणां प्रथमजत्वात् हिरण्यगर्भस्य ।

उक्तञ्च मोक्षधर्मे भृगुभरद्वाजसंवादे-

तस्मात् पद्यात् समभवत् ब्रह्मा वेदमयो निधिः ।।

अहङ्कार इति ख्यातः सर्वभूतात्मभूतकृत् ।। (म.भा.शां.१७५-१५,१६)

इति तस्मादयमर्थः- अहमस्मि – अहङ्कारः स्याम् , चतुर्मुखः स्यामिति सङ्कल्प’वाक्यम् अग्रे – ब्रह्मसृष्टिपूर्वकाले व्याजहार’ । ततो अहन्नामा – चतुर्मुखः अभवदिति । तस्मादप्येतर्हि आमन्त्रितो अहमयम् इत्येवाग्र उक्त्वा अथ अन्यन्नाम प्रब्रूते यदस्य भवति इति । यस्माद्धेतोः भगवता प्रथमतश्चतुर्मुखे अहंशब्दः प्रयुक्तः तस्माद्धेतोः एतर्ह्यपि ‘अस्मिन्नपि’ काले केनचित् पुंसा ‘आमन्त्रितोऽयं जनः अहमित्येवाग्रे उक्त्वा अथ पश्चात् अस्य यत् पित्रादिकृतं नाम भवति तद्वदतीत्यर्थः ।

यत् पूर्वो अस्मात् सर्वस्मात् सर्वान् पाप्मन औषत्तस्मात् पुरुष: इति। सः आत्मा यस्मात् कारणात् अस्मात् – दृश्यमानात् जगतः सर्वस्मात् पूर्वः, यस्मात् च हेतोः सर्वान् पाप्मन औषत् – अदहत् – उष दाहे (धा.पा.६९६) तस्मात् ‘कारणात् पुरुषशब्दवाच्य इत्यर्थः । अत्र सः इत्यनेन नाव्यवहितस्यापि अहन्नाम्नो ग्रहणमुचितम्, तस्य “कर्मवश्यस्य स्वयं सर्वपापप्रदाहकत्वाद्यसंभवादिति द्रष्टव्यम् । पूर्वत्वं चात्र कारणत्वम् । ततश्च सर्वकारणत्वे सति सर्वपापप्रदाहकत्वं पुरुषशब्दप्रवृत्तिनिमित्तमिति भाव:।  

पुरसंज्ञे शरीरेऽस्मिन् शयनात् पुरुषो हरिः

शकारस्य षकारोऽयं व्यत्ययेन प्रयुज्यते ।।

इति भगवदसाधारणपुरुषशब्देन उपक्रमात् इयम् उपनिषत् नारायणपरेति अवगन्तव्यम्। तवेदनस्य फलमाह – औषति वै तं यः अस्मात् पूर्वो बुभूषति एवं वेद इति ।  एवम् – पुरुषत्वनिरुक्तिक्रमं वेद – निरन्तरम् अनुसन्धत्ते, सः तम् औषति – दहति किम् इत्यत्राह – : अस्मात् – इति । पूर्वो बुभूषति – श्रेष्ठो भवितुम् इच्छति । यः अस्मात् – उपासकात् श्रेष्ठो भूयासमिति इच्छति इत्यर्थः। विजिगीषुं तिरस्करोतीति पिण्डितार्थः ।। १ ।।

 

सोऽबिभेत् तस्मादेकाकी बिभेति हायम् ईक्षाञ्चक्रेयन्मदन्य न्नास्ति कस्मान्नु बिभेमीति तत एवास्य भयं वीयाय कस्माद्ध्यभेष्यत् ? द्वितीयाद्वै भयं भवति ।। ।।

प्र. – सोऽबिभेत् इति । सः ‘अहन्नामा चतुर्मुखः अबिभेत् – आत्मन एकाकि तां दृष्ट्वा अस्थानभयाविष्टः अभवदित्यर्थः। अत्र सः इति न परमप्रकृतस्य परमात्मनः परामर्शः सम्भवति, तस्य ‘अपहतपाप्मत्वेन भयसम्बन्धाभावादिति द्रष्टव्यम् । तस्मादेकाकी बिभेति इति । अत एव हि लोके ‘अद्यतनोपि’ असहायो बिभेति इत्यर्थः। हायमी– क्षाञ्चक्रे इति । ह शब्द: वृत्तार्थस्मरणे । सः -अयं चतुर्मुखः एवम् ईक्षाञ्चक्रे – इत्थम् अचिन्तयत् इत्यर्थः । किमिति? यन्मदन्यन्नास्ति कस्मान्नु बिभेमीति इति। यत् यस्माद्धेतोः मत् – मत्तः अन्यत् – मत्प्रतिद्वन्द्वि वस्त्विह नास्ति, कुतोऽहं बिभेमीति । लोके हि प्रतिद्वन्द्विसत्वे असहायत्वं भयहेतुः । तदभावे असहायत्वं न भयहेतुरिति भाव:। तत एवास्य भयं वीयाय इति । तत एव – विवेकरूपात् ‘ज्ञानादस्य हिरण्यगर्भस्य भयं वीयाय – वीतमीत्यर्थः । उक्तमर्थम् श्रुतिः स्वयमेव अनुमोदते – कस्माद्ध्यभेष्यत् द्वितीयाद्वै भयं भवतीति । द्वितीयस्य प्रतिद्वन्द्विन एव भयहेतुत्वम्, अतः तस्यैव अभावे कुतो भयं प्राप्स्यतीति भावः । हिरण्यगर्भस्यापि शरीरपरिग्रहानन्तरमेव भयोत्पते शरीरित्वम् कष्टमिति भावः।

अत्र अद्वैतसाक्षात्कारात् भयं निवृत्तमिति नार्थः । तथा सति आत्मरतेः तस्योत्तरत्र नैव रेमे इत्यादिना अरतिरिरंसा प्रतिपादनविरोधात् । प्रारब्धवशात् अरतिरिरंसानुवृत्तौ भयमपि तद्वशात् कुतो नानुवर्ततेत्यास्तां तावत् ।। २ ।।

 

[स्त्रीपुरुषरूपेण आविर्भूय मनुष्यादिसृष्टिः]

 

वै नैव रेमे तस्मादेकाकी रमते द्वितीयमैच्छत् स हैतावानास, यथा स्त्रीपुमांसौ संपरिष्वक्तौ इममेवात्मानं द्वेधा अपातयत् । ततः पतिश्च पत्नी अभवताम् तस्मादिदम् अर्धबृगलमिव स्व इति स्माह याज्ञवल्क्यः तस्मादयमेकांश:’ स्त्रिया पूर्यत एव ताँ समभवत् ततो मनुष्या अजायन्त ।। ।।

प्र.- वै नेव रेमे इत्यादि । सः – चतुर्मुखः नैव रेमे । इष्टार्थसंयोगजा प्रीतिः रतिः । तां न लब्धवान् इत्यर्थः । तस्मादेकाकी रमते इति । यस्मादेकाकिन: चतुर्मुखस्य न रतिः अत एव अद्यापि असहायस्य रतिः नोपलभ्यत इत्यर्थः। द्वितीयमैच्छत् इति । प्रजापतिः द्वितीयं रन्तुमैच्छत् इत्यर्थः । हैतावानास यथा स्त्रीपुंसौ संपरिष्वक्तौ इति । शब्दः वृत्तार्थस्मरणे । यथा लोके स्त्रीपुंसौ रत्यर्थ संपरिष्वक्तौ यत्परिमाणो स्याताम् , तत् परिमाणो विवृद्धौ बभूवेत्यर्थः । इममेवात्मानं द्वेधा अपातयत् इति । सः प्रजापतिः इमम् – विवृद्धम् आत्मानं – शरीरं द्वेधा अपातयत् । ततः पतनादेव पतिपत्नी-शब्दवाच्यौ दम्पती अभवतामित्यर्थः । उक्तञ्च श्रीविष्णुपुराणे – ब्राह्मणोऽभून्महान् क्रोधः त्रैलोक्यदहनक्षमः। (वि.पु.भ्रूकुटीकुटिलात् तस्य ललाटात् क्रोधदीपितात् । समुत्पन्नस्तदा रुद्रो मध्याह्नार्कसमप्रभः।। अर्धनारीनरवपुः प्रचण्डोऽतिशरीरवान् । विभजाऽऽत्मानमित्युक्त्वा तं ब्रह्मान्तर्दधे ततः ।। तथोक्तोऽसौ द्विधास्त्रीत्वं पुरुषत्वं तथाकरोत् ।। (वि.पु..११,१२.१४) इति

श्रीभागवते च –

कस्य रूपमभूद्द्वेधा यत् कायमभिचक्षते

ताभ्यां रूपविभागाभ्यां मिथुनं समपद्यत ।। (भाग.१२५२) इति।

तस्मादिदम् अर्धबृगलमिव स्व इति स्माह याज्ञवल्क्यः इति । तस्माद्धेतोः इदं शरीरं स्वः स्वस्य आत्मन इति यावत् । विभक्तिव्यत्ययः छान्दसः । विवाहात् प्राक् अर्धबृगलमिव – अर्धविदळमिव इति ह याज्ञवल्क्य आह स्म उक्तवान् । तस्मादयमेकांश: स्त्रिया पूर्यत एव इति । यस्मात् विवाहात् प्राक् अर्धविदळम् तस्मात् एकांश: पुरुषशरीरार्धभागः विवाहे सति स्त्रिया पूर्यते । अर्धो वा एष आत्मनो यत् पत्नी इति श्रुतेरित्यर्थः। आकाश: स्त्रिया पूर्यत इति पाठेऽपि आकाश: पूरणीयावकाशः इत्यर्थः । तां समभवत् इति । ताम् शतरूपाख्यां आत्मनो दुहितरं स प्रजापतिः समभवत् – मैथुन्यम् उपगतवान् । ततः – तस्मात् सङ्गमात् मनुष्या उत्पन्ना इत्यर्थः ।

उक्तञ्च विष्णुपुराणे – शतरूपाश्च तां नारी तपोनिर्धूतकल्मषाम्

स्वायम्भुवो मनुर्देव: पत्नीत्वे जगृहे प्रभुः ।। (वि.पु.१.७.१७) इति ।। ३ ।।

 

सो हेयमीक्षाञ्चक्रेकथन्नु मा आत्मन एव जनयित्वा सम्भवति? हन्त तिरोऽसानीति सा गौरभवत्, ऋषभ इतरः तां समेवाभवत् ततो गावोऽजायन्त । वडबेतराऽभवत्, अश्ववृष इतरः गर्दभीतरा, गर्दभ इतरः ताँ समेवाभवत् तत एकशफमजायत अजेतराऽभवत् बस्त इतरः अविरितरा, मेष इतरः तां तां समेवाभवत् ततोऽजावयोऽजायन्त एवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यः तत् सर्वमसृजत ।।

प्र. – सो हेयमीक्षाञ्चक्रे इति । सा इयम् इति पदच्छेदः । ‘सेयं ह – प्रसिद्धा शतरूपा’ कन्या ईक्षाञ्चक्रे – इत्थम् अचिन्तयत् इत्यर्थः । चिन्ताप्रकारमेवाह – कथन्नु मा आत्मन एव जनयित्वा सम्भवति इति । नु इति वितर्के कथंनु – कथं वा मा – मां आत्मन एव उत्पाद्य सम्भवति – उपगच्छति। इति वितर्क्य, ततः तत्रोपायं निश्चित्याह – हन्त तिरोसानीति हन्त इत्युपायदर्शनजहर्षे । तिरोसानि – जात्यन्तरेण तिरोहिता भवानि इति निश्चितवतीत्यर्थः । इति ईक्षित्वा सा शतरूपा गौरभवत् । वृषभ इतरः इति । इतर: मनुः वृषभः – ‘पुंगवः अभूत् । ताम् – गोरूपां शतरूपां समेवाभवत् – समभवदेव । पुनरपि मैथुन्यम् उपगतवान् इत्यर्थः। ततो गावो अजायन्त इति । स्पष्टोऽर्थः । वडबेतरा अभवत् इति । इतरा-शतरूपा वडबा– अश्वा अभवत् । अश्ववृष इतरःइतरस्तु – मनुः अश्ववृष: – पुमश्वो अभवदत्यर्थः । वृषः वृष सेचने (धा.पा.७०६) रेतस्सेक्तेत्यर्थः । तत एकशफमजायत इति। अश्वाश्वतरगर्दभादयः अजायन्त इत्यर्थः । इतरत् स्पष्टम् । अजेतरा अभवत् वस्त इतरः इत्यादि । बस्त: – छागः। तां तां समेवाभवत् इति । [तां तां इति वीप्सा] ताम् – अजां ताम् – अविञ्च समभवदेव इत्यर्थः । इतरस्य स्पष्टोऽर्थः।। ४ ।।

 

सोऽवैदहं वाव सृष्टिरस्मि, अहं हीदं सर्वम् असृक्षीति ततः सृष्टिरभवत् । सृष्ट्यां हास्येतस्यां भवति, एवं वेद ।। ।।

प्र. – सोऽवैदहं वाव सृष्टिरस्मि अहं हीदं सर्वं असृक्षीति इति । हि -‘यस्मात् अहं इदं सर्वं जगत् असृक्षि – सृष्टवानस्मि । तस्मात् अहं वाव अहमेव सृष्टिः। सृज्यते इति सृष्टि: जगदुच्यते। अहमेव सृष्टिरिति – मत्सृष्टमिदं जगदहमेवेति सः प्रजापतिः अवैत् – ज्ञातवान् इत्यर्थः । ततः सृष्टिरभवत् इति । यस्माद्धेतोः प्रजापतिः अहमेव सृष्टिरिति अभेदोपचारेण ‘स्वस्मिन् सृष्टिशब्द’ प्रायुंक्त, ततः स सृष्टिनामा अभवदित्यर्थः । सृष्ट्यां हास्यैतस्यां भवति, एवं वेद इति । एवम् – सृष्टिनिरुक्तिं वेद, सः अस्य प्रजापतेः एतस्यां सृष्टौ ब्रह्मसृष्टौ ह प्रसिद्धः मुख्यो भवतीत्यर्थ: ।। ५ ।।

 

[अग्न्यादिदेवता सृष्टिरूपविसृष्टि:]

 

अथेत्यभ्यमन्यत् मुखाच्च योनेर्हस्ताभ्याञ्चाग्निमसृजत तस्मात् एतदुभयमलोमकमन्तरत: अलोमका हि योनिरन्तरतः तद् यदिदमाहुरमुं यजामुं यजेत्येकैकं देवम्, एतस्यैव सा विसृष्टिः एष होव सर्वे देवाः । अथ यत् किञ्चेदमार्द्रम् तद् रेतसोऽसृजत तदु सोमः एतावद्वा इदं सर्वम्अन्नच्चेवान्नादश्च सोम एव अन्नमग्निरन्नादः । सैषा ब्रह्मणोऽतिसृष्टिः यच्छ्रेयसो देवानसृजत अथ यन्मर्त्यस्सन् अमृतानसृजत, तस्मादतिसृष्टिः अतिसृष्ट्यां हास्यैतस्यां भवति, एवं वेद ।।।।

प्र.- अर्थत्यभ्यमन्यत् इति । सः – चतुर्मुखः अथ इति मङ्गलशब्दोच्चारण पूर्वकम् अभ्यमन्यत्। एवं मुखाच्च हस्ताभ्याञ्च मन्थनं कृत्वा योनेः कारणभूतात् मुखात् हस्ताभ्याञ्च अग्निमसृजत इत्यर्थः । तस्मादेतदुभयम् अलोमकम् अन्तरतः इति एतदुभयम् – फूत्कारनिर्मन्थनसाधनमुखहस्तात्मकमुभयं तस्मात् – अग्रेर्योनित्वात् अन्तरतः – मध्ये अलोमकम् – लोमशून्यमित्यर्थः । अग्नियोनित्वात् मुखस्य हस्तयोः अन्तरतः लोमशून्यत्वसिद्ध्यर्थं योनेरन्तरतो निर्लोमकत्वप्रसिद्धिं दर्शयति – अलोमका हि योनिरन्तरतः इति । स्पष्टोऽर्थः । तद्यदिदमाहुरमुं यजामुं यजेत इति । तत् – तस्माद्धेतोः यज्ञे याज्ञिका: अमुं यज अमुं यजेति यदिदं वचनम् एकैकं देवम् – इन्द्रादि-लक्षणं निर्दिश्याहुः, सा – तद्वचननिर्दिष्ट इन्द्रादिदेवविषयिणी सर्वा विसृष्टिः विविधसृष्टिः एतस्य – प्रजापतेरेव । अग्निद्वारा सर्वदेवतासृष्टिरपि प्रजापतिकर्तृकैवेत्यर्थः । सर्वस्य यष्टव्यदेवजातस्य अग्न्यधीनसत्ताकत्वादिति भावः । एष ह्येव इति । अत एत तत्सृष्टत्वादेव सर्वे देवाः एष ह्येव – ‘एष प्रजापतिरेव’। कार्यकारणयोः अभेदोपचारात् तथोक्तिः। अथ यत्किञ्चेवम् आर्द्रम् इति । अथ इति वाक्यान्तरोपक्रमे । यत्किञ्चेदं कार्यम् आर्द्रम् – द्रवरूपं दृश्यते,. तद्रेतसो असृजत ‘तद्रेतसा’ प्रजापतिः असृजतेत्यर्थः। शिश्नाद्रेतो रेतस आपः …इति श्रुतेः । तदुसोम इति । : अवधारणे । तदु – तद्द्र्व-द्रव्यमेव सोमः सोमरसः । एतावद्वा इदम् इति । इदम् सर्वम् – कार्यजातम् एतावद्वै -एतावदेव । किं तत् ? अन्नं चैव अन्नादश्च – अन्नान्नादात्मकम् इत्यर्थः। सर्वस्य जगतः अन्नान्नादात्मकत्वे अग्नीषोमात्मकत्वम् आयातमित्याह – सोम एवान्नम् अग्निरन्नादः इति । सोमस्य ‘भक्ष्यमाणत्वात् अन्नत्वम्, अग्ने: ताद्दाहकतया अन्नादत्वम् । अतो जगत् अग्निषोमात्मकमिति भावः।

सैषा ब्रह्मणोऽतिसृष्टिर्यच्छ्रेयसो देवान् असृजत इति । यत् – यस्मात् श्रेयसः – श्रेष्ठान् ऊर्ध्वरेतसः सनकसनन्दनादीन् देवान् असृजत, सैषा ब्रह्मणो अतिसृष्टिः – अतिशयिता सृष्टिः अतिसृष्टिः । कथम् अतिशयितसृष्टित्वम् इत्यत आह अथ यन्मर्त्यस्सन् अमृतान्असृजत, तस्मादति सृष्टिः इति । अथ यत् यस्मात् प्रजापतिः स्वयम् मर्त्यस्सन् – मरणधर्मा सन् अमृतान् मुक्तियोग्यान् ज्ञानवैराग्यादिसम्पन्नान् मुमुक्षून् सनकसनन्दनादीन् असृजत, तस्मात् सा अतिसृष्टिः इत्यर्थः । अतिसृष्ट्यां हास्यैतस्यां भवति इति । एवं वेद – य एवं प्रकारेण ज्ञानवान्, स एतस्यां अस्य‘चतुर्मुखस्य अतिसृष्टौ’ प्रसिद्धः मुख्यो भवतीत्यर्थः । ज्ञानवैराग्यमुमुक्षासम्पन्नो भवतीति यावत् ।। ६ ।।

[अव्याकृतरूपेण आदौ स्थितिः]


तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यामेव व्याक्रियत असौनामाऽयमिदंरूप इति तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामायमिदंरूप इति ।  एष इह प्रविष्ट आनखाग्रेभ्यः, यथा क्षुरः क्षुरधाने अवहितः स्यात्,
विश्वम्भरो वा विश्वम्भरकुलाये तं पश्यतिअकृत्स्नो हि सः । प्राणन्नेव प्राणो नाम भवति, वदन् वाक्, पश्यंचक्षुः, शृण्वन् श्रेत्रम्, मन्वानो मनः तान्यस्यैतानि कर्मनामान्येव ।  योऽत एकैकमुपास्ते, वेद अकृत्स्नो ह्येषोऽत एकैकेन भवति। आत्मेत्येव उपासीत अत्र ह्येते सर्व एकं भवन्ति । तदेतत् पदनीयमस्य सर्वस्य, यदयमात्मा अनेन ह्येतत् सर्वं वेद। यथा वै पदेनानुविन्देत् एवम् कीर्तिं श्लोकं, विन्दते, एवं वेद ।। ।।


प्र. – ननु आत्मैवेदमग्र आसीत् इत्ययुक्तम्, यदिदं किञ्च मिथुनमापिपीलिकाभ्यः तत्सर्वम् असृजत इति सृष्टतया निर्दिष्टस्य मिथुनादिरूपस्य प्रपञ्चस्य इदंशब्दनिर्दिष्टस्य आत्मभिन्नत्वेन आत्मैवेदमग्र आसीत् इति वक्तुमयुक्तत्वात् इत्याशङ्क्य इदमादि-
नामरूपभाक्त्वात् इदंशब्दवाच्यमपि तच्छरीरं ब्रह्मैव । तस्य च ‘आत्मैवेदमग्र आसीत्’ इत्यात्मशब्दवाच्य सूक्ष्मचिदचिद्विशिष्टब्रह्माभेद उपपद्यत इत्येतत् तदर्थोऽत्र सन्दर्भ आरभ्यते-तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यामेव व्याक्रियत  इति । शब्दो वृत्तार्थस्मरणे तदिदम् – मिथुनादिलक्षणं जगत् तर्हि तदासृष्टेः प्राक् अव्याकृतमासीत् – अव्यक्तमासीत्, अव्यक्तशरीरकं ब्रह्मासीत् इत्यर्थः; नामरूपाभ्यां न व्याकृतमिति व्युत्पत्या अव्याकृतशब्दस्य अव्यक्तवचनत्वात् । अव्यक्तत्वञ्च नामरूपविशिष्टतया अनभिव्यक्तत्वम् । अव्याकृतशब्दस्य तच्छरीरकब्रह्मपरत्वे युक्तिः समनन्तरमेव स्पष्टयिष्यते। तदेव अव्याकृतशरीरं ब्रह्मैव-नामरूपाभ्याम् इति इत्थंभावे तृतीया – नामरूपवत्तया व्याक्रियत – व्याकृतमासीत् । व्याङ्भ्याम् उपसर्गाभ्याम्, विविच्य समन्तात्कृतमासीत् इत्यर्थः । तदेव दर्शयति असौनामायमिदंरूप इति । असौ नामा देवमनुष्यादिनामा, इदंरूप: – करचरणादिरूपवान् इत्येवं अयम् – पूर्वोक्त आत्मैव व्याक्रियतेत्यर्थः । तदिदमप्येतर्हि नामरूपाभ्यामेव व्याक्रियते असौनामाऽयमिदंरूप इति इति । अनेन वाक्येन सृषट्यादिकालिके अप्रत्यक्षे अव्याकृतनामरूपव्याकरणे सुग्रहत्वाय निदर्शनमुच्यते । तत् – पूर्वं तथा नामरूपाभ्यां व्याकरणाद्धेतोः एतदपि – इदानीमपि इदम् – उत्पद्यमानं चराचरव्यक्तिजातम् , इदं रूपोऽयम् – एतादृशसंस्थानवानयम् असौ नामा – देवदत्त यज्ञदत्तादिनामवानिति नामरूपाभ्यामेव व्याक्रियते । इत्थमेव आदावपि नामरूपाभ्यां व्याकरणमवधेयम् इत्यर्थः । उभयत्र, असौ नामा इति छान्दसोऽलुक् । अदोनामेति वक्तव्ये, असौ नामेति लिङ्गव्यत्ययोऽपि छान्दसः । ततश्च नामरूपवत्वमव्याकृतशब्दितस्य ब्रह्मणः सिद्धमिति सर्वाणि च नामानि तत्प्रवृत्तिनिमित्तभूतानि च रूपाणि तदीयान्येव।अतः इदमादिशब्दैरपि तस्यैव निर्देशसम्भवात् ‘आत्मैवेदमग्र आसीत्’ इत्यभेदनिर्देशे न अनुपपत्तिरिति भावः ।

नामरूपाभ्यामेव इत्यत्र एवकारो भिन्नक्रमः । तदेव नामरूपाभ्याम् स्वयमेव व्याक्रियतेत्यर्थः । व्याक्रियत इत्यत्र कर्मकर्तरि लकारः । कर्त्रन्तराक्षेपे गौरवात् तदात्मानं स्वयमकुरुत (तै.आन.७) इत्यनेन ऐकार्थ्यात् । उक्तञ्च भगवता भाष्यकृता – तदेव
अविभक्तनामरूपं ‘ब्रह्मसंज्ञ’ सत्यसंकल्पं स्वेनैव विभक्तनामरूपं स्वयमेव व्याक्रियत इत्युच्यते इति ।

ननु अव्याकृतमासीत् इत्यत्र क्तप्रत्ययस्य कर्मार्थकत्वमेव वक्तव्यम्; न तु कर्मकर्त्रर्थकत्वम् । न च कर्मकर्तर्यपि कर्मवद्भावेन क्तप्रत्ययसिद्धिरस्तु इति वाच्यम् लान्तस्य यः कर्मणा तुल्यक्रियः कर्ता, तस्यैव कर्मवद्भावविधानात् । ‘कृत्यर्थखलर्थेषु’ कर्मवद्भावा-
भावात् अवश्यं कर्मण्येव क्तः वक्तव्यः। ततश्च तदवैरूप्याय व्याक्रियत इत्यत्रापि कर्मण्येव लकारः अस्त्विति चेन्न – एवकारेण कर्त्रन्तरव्यवच्छेदात् कर्त्रन्तराक्षेपे गौरवाञ्च व्याक्रियतेति लकारस्य कर्मकर्तर्येव अभ्युपगन्तव्यत्वात्, वैरूप्यस्यापि सोढव्यत्वात् ।

[तस्यात्मनः सर्वत्रान्तःप्रवेशः]

ननु आत्मनः कथं देवमनुष्यादिनामरूपवत्वम् देवमनुष्यादिशरीरे तस्य अवर्तमानत्वादिति इमां शङ्कां व्यावर्तयति – एष इह प्रविष्टः आनखाग्रेभ्यः इति । एष:– अव्याकृतशरीरकः सः – पूर्वमात्मशब्दितः परमात्मा इह – कार्यवर्गे आनखाग्रेभ्यः प्रविष्टः – कारणावस्थायां चिदचितोः व्याप्य स्थितत्वात् कार्यावस्थायामपि तयोः परिपूर्ण एव स्थित इत्यर्थः । प्रविष्टः – अन्तर्यामिरूपेणेति शेषः । तत्र द्रष्टान्तम् आह- यथा क्षुरः क्षुरधाने अवहितः स्यात् विश्वम्भरो वा विश्वम्भर कुलाये इति । क्षुरो धीयते अस्मिन्निति क्षुरधानम् – क्षुरकोशः । तस्मिन् यया क्षुरः अवहितः – पिहिताप्रविष्टः, विश्व बिभर्ति वैश्वानराग्निरूपेणेति विश्वम्भरः – अग्निः। ‘सः तस्य विश्वम्भरस्याग्ने: कुलाये . हनीडे – दारुणीति यावत् – यथा पिहितप्रविष्टः तथा इह प्रविष्ट इति पूर्वेणान्चयः । तत्र पश्यत्यकृत्स्रो हि सः इति । यस्तिलतैलवत् सर्वस्वरूपव्याप्तं परमात्मानं न पश्यति स: अकृत्स्न:- अपूर्णस्वरूपः। असत्कल्प इति यावत् ।

[तस्यैव प्राणवागादित्वम्]

परमात्मन एव सर्वनामरूपवत्वमुपपादयति – प्राणन्नेव प्राणो नाम भवति इत्यादिना । प्राणन्नेव – प्राणनक्रियां कुर्वन्नेव परमात्मा प्राणनामा’ भवति । प्राणितीति प्राणः इति व्युत्पत्तेरित्यर्थः । वदन् वाक् – वदनक्रियां कुर्वन्नेव वाङ्नामा भवति । वक्तीति वाक्पश्यंश्चक्षुः – दर्शनक्रियां कुर्वन् चक्षुर्नामा भवति। चष्ट इति चक्षुः । शृण्वन् सन् श्रोत्रं भवति । शृणोतीति हि श्रोत्रम्। मन्वानःमननं कुर्वन्नेव मनो भवति । मनुत इति हि मनः । तान्येतानि प्राणादिनामानि अस्य ‘परमात्मनः पाचक-लावकादिवत् कर्मनामान्येव । अतः स परमात्मैव प्राणवागादिद्वारा प्राणनवदनादिकर्ता, तथा तत्तच्छब्दप्रवृत्तिनिमित्तभूत जातिगुणक्रियाद्याश्रयः स एवेति तस्यैव तत्तत्प्रवृत्तिनिमित्तक-चराचरशब्दवाच्यत्वमपि इति सर्वनामरूपाश्रयत्वं परमात्मनो अस्तीति भावः। अत्र प्राणानादिकरणेषु प्राणादिषु कर्तृत्वोपचारः प्राधान्यादवगन्तव्यः ।

[कारणत्वाधिकरणम्]

इदञ्च वाक्यं का रणत्वेन च आकाशादिषु (ब्र.सू.अ.१-४-४) इत्यधिकरणे समन्वयाध्याये चिन्तितम् । तथाहि – सदेव सोम्येदमग्र आसीत् (छा.उ.६-२-१) इति क्वचित् सत्पूर्विका सृष्टिराम्नायते । असद्वा इदमग्र आसीत् (शत.ना.मा.पा.६-१-१,तै.आन.७-१) इति क्वचित् असत्पूर्विका। अतो वेदान्तेषु सृष्टिरव्यवस्थितेति जगतो ब्रह्मैककारणत्वम् निश्चेतुं न शक्यम् । तद्धेदं तर्ह्यव्याकृतमासीत् तन्नामरूपाभ्यां व्याक्रियत (बृ.उ.३-४-७) इति अव्याकृतकर्तृकसृष्टेराम्नातायाः साङ्ख्यस्मृत्यनुरोधित्वात् प्रधानमेव जगत्कारणम् । अत ईक्षणादयो गौणा नेतव्याः इति पूर्वपक्षे प्राप्ते – कारणत्वेन च आकाशादिषु यथाव्यपदिष्टोक्ते: (ब्र.सू.१-४-१४) समाकर्षात् (ब्र.सू.१-४-१५) इति सूत्राभ्यां सिद्धान्तितम् ।

जन्माद्यस्य यतः (ब्र.सू.१-१-२) इत्यादि सूत्रेषु प्रतिपादितम् सर्वज्ञं सत्यसङ्कल्पं ब्रह्म यथाव्यपदिष्टम् इत्युच्यते । तस्यैव, आत्मन आकाशस्सम्भूतः (तै.आन.१-१) इत्यादिषु वाक्येषु आकाशादिकारणत्वेनोक्तेः। समाकर्षात् (ब्र.सू.१-४-१५) असद्वा इदमग्र आसीत्
(शत.ब्रा.मा.पा.६-१-१, तै.आन.७-१) इत्यत्र सोऽकामयत (तै.आन.६-२) इति प्रकृतस्य ब्रह्मण एव । तदप्येष श्लोको भवति (तै.आन.६-३) इति समाकृष्य असद्वा इदमग्र आसीत् (शत.ब्रा.मा.पा.६-१-१,तै.आन.७-१) इत्यभिधानात् असच्छब्दः सूक्ष्म-
चिदचि द्विशिष्टब्रह्मपरः’, तद्धेदं तर्ह्यव्याकृतमासीत् (बृ.उ.३-४-७) इत्यत्रापि अव्याकृतस्य स एष इह प्रविष्ट: आनखाग्रेभ्यः पश्यँश्चक्षुः इत्यादिना उत्तरत्र समाकृष्यमाणत्वात् । पश्यत्वादीनामचेतनेऽभावात् । अव्याकृतशब्दोऽपि अव्याकृतशब्दित अव्यक्तशरीरक-
परमात्मपर एवेत्यर्थः इति निर्णीतम् ।

[स्मृत्यधिकरणम्]

तथा साङ्ख्ययस्मृतिश्च नानुरोद्धव्येति स्मृतिपादे, स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्न अन्यस्मृत्यनकाशदोषप्रसङ्गात् (ब्र.सू.२-१-१) इत्यधिकरणे स्थितम् । तत्र हि सदेव सोम्येदमग्र आसीत् (छां.उ.६-२-१) तद्धेदं तर्ह्यव्याकृतमासीत् (बृ.उ.३-४-७) इत्येवंरूपश्रुतीन परस्परविरुद्धार्थतया प्रतीयमानानां स्वतोऽर्थनिर्णयासमर्थानां तत्त्वप्रतिपादक-सर्वज्ञ’कपिलप्रगीतस्मृत्यनुसारेणैव’ अर्थो निर्णेतव्यः। इतरथा साङ्ख्यस्मृतेः मन्वादिस्मृतिवत् कर्मस्वरूपे सावकाशत्वाभावेन अनवकाशत्वरूपो दोषः प्रसज्येत इति पूर्वपक्षं कृत्वा – यद्वै किञ्च मनुः अवदत् तद् भेषजम् (तै.सं.२-२-१०) इति श्रुतिप्रतिपादितप्रामाण्यानां श्रुत्यविरुद्धानांभूयसीनां मन्वादिस्मृतीनां प्रधानकारणवादेऽनवकाशप्रसङ्गेन श्रुतिविरुद्धायाः एतादृश्या एकस्याः साङ्ख्यस्मृतेरेव अनादरणीयत्वमुचितम् । मन्वादिस्मृतयो हि ऐककण्ठ्येन सर्वज्ञं ‘परमात्मानं जगत्कारणम्’ अभिदधति ।

यथाऽऽह मनुः-

आसीदिदं तमोभूतम् (.स्मृ.) इत्यारभ्य
ततःस्वयंभूर्भगवान् अव्यक्तो व्यञ्जयन्निदम्
महाभूतादिवृत्तौजाः प्रादुरासीत् तमोनुदः।।
सोऽभिध्याय शरीरात् स्वात् सिसृक्षुः विविधाः प्रजाः।
अप एव ससर्जादौ तासु वीर्यम् अपासृजत् ।। (.स्मृ.) इति

भगवद्गीतासु च –
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा (.गी.)
अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।। (.गी.१०) इति।

महाभारते च –
कुतः सृष्टमिदं सर्वं जगत् स्थावरजङ्गमम्
प्रळये कमप्येति तं मे ब्रूहि पितामह ।। (.भा.शां.) इति पृष्ट आह .
नारायणो जगन्मूर्तिरनन्तात्मा सनातनः (.भा.शां.१२) इति

तथा-
तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम (म.भा.शां.८-१३) इति;
अव्यक्तं पुरुषे ब्रह्मनिष्क्रिये संप्रलीयते (म.भा.शा.८-१४) इति च ।

आह च भगवान् पराशरः-
विष्णोः सकाशात् उद्भूतं जगत् तत्रैव स्थितम्
स्थितिसंयमकर्ताऽसौ जगतोऽस्य जगञ्च सः ।। (वि.पु.१-१-३१) इति।

आह च आपस्तम्ब:-
पू: प्राणिनः सर्वगुहाशयस्य अहन्यमानस्य विकल्मषस्य (आप.ध.सू.२२-६) इत्यारभ्य;
तस्मात् कार्याः प्रभवन्ति सर्वे मूलं शाश्वतिकः नित्या: (आप.ध.सू.२६-१-२) इति ।

न च मन्वादिस्मृतीनां कर्मस्वरूपे सावकाशत्वम् । कर्माराध्यपरमात्मस्वरूपेऽपि तात्पर्यात्।
ननु कपिलेन मन्वाद्यभिमतस्य परमात्मनः अनुपलब्धेः तस्य अप्रामाणिकत्वमिति चेत्, तत्राह-

इतरेषाञ्च अनुपलब्धः (ब्र.सु.२-१-२)। इतरेषां मन्वादीनां वैदिकानां बहूनां साङ्ख्योक्तप्रकारेण तत्वानुपलब्धेः साङ्ख्यस्मृतिः अननुरोद्धव्या इति सिद्धान्तः कृतः।

[रचनानुपपत्यधिकरणम्]

तथा साङ्ख्याभिमतस्य प्रधानस्य जगत्सृष्टृत्वं न युक्तिसहमिति तर्कपादे रचनानुपपत्तेः (ब्र.सू.अ.२-२-१) इत्यधिकरणे स्थितम् । तथाहि – रचनानुपपत्तेश्च नानु पानं प्रवत्तेश्च (ब्र.सू.२-२-१) । सत्त्वरजस्तमोमयसुखदुःखमोहात्मकं जगत् तत्स्वरूपोपादा कं कार्यत्वात् इत्यनुमानसिद्धं साङ्ख्याभिमतं प्रधानं न जगत्कारणम् अनुमीयते इति व्युत्पत्य अनुमानशब्दः आनुमानिकप्रधानपरः – तादृशस्य प्रधानस्य तादृशस्वभावाभिज्ञचेतन अनधिष्ठितत्वेन विचित्रप्रपञ्चरचनासामर्थ्यानुपपत्तेः । तादृशचेतनाधिष्ठितस्यैव दार्वादेरचेतनस्य कार्यप्रवृत्तेः दर्शानाञ्च न प्रधानं जगत्कारणमित्यर्थः । पयोम्बुवञ्चेत् तत्रापि (ब्र.सू.२-२-२) । ननु पयसः चेतनानधिष्ठितस्यापि दधिभावेन परिणामवत्, वारिदमुक्तजलस्य नाळिकेररसात् आत्मना परिणामवत् चेतनानधिष्ठितस्यापि प्रधानस्य परिणामः किं न स्यादिति चेन्न तत्रापि प्राज्ञाधिष्ठानमस्त्येव; तस्यापि पक्षत्वादित्यर्थः । अन्यत्राभावाञ्च न तृणादिवत्
(ब्र.सू.२-२-४) । धेन्वाधुपयुक्ततृणादेः प्राज्ञानधिष्ठितस्यापि क्षीराकारेण परिणामदर्शनात् इत्युदाहरणान्तरावलम्बनेन शङ्का । धेन्वाद्युपयुक्तातृणवत् अनडुदाधुपयुक्ततृणादेः क्षीरभावेन परिणामाभावात् तत्रापि प्राज्ञादिष्ठानमपेक्षितमिति परिहाराभिप्रायः । पुरुषाश्म-वदिति चेत् तथापि (ब्र.सू.२-२-५)। दृक्छक्तियुक्त पुरुषसन्निधानात् दृक्छक्तिशून्योऽप्यन्धो यथा प्रवर्तते, यथा अयस्कान्ताश्मसन्निधानात् अयसः अचेतनस्य प्रवृत्तिः एवं चिन्मात्रात्मक- पुरुषसन्निधानात् अचेतनं प्रधानं जगत्सर्गे प्रवर्तते इति चेत् – तथापि प्रधानस्य स्रष्टृत्वं नोपपद्यते । पुरुषस्य चिन्मात्रवपुषः तदनुगुणोपदेशादिव्यापाराभावात्, सन्निधानमात्रस्य प्रयोजकत्वे नित्यसर्ग प्रसङ्गात् । अङ्गित्वानुपपत्तेश्च (ब्र.सू.२-२-६) प्रळये साम्यावस्थानां सत्त्वरजस्तमसाम् उत्कर्षापकर्षलक्षण अङ्गागिभाववशेन जगत्सृष्टिः ‘वक्तव्या । सा नोपपद्यते । कालविशेषे अङ्गागिभावे नियामकाभावात् इत्यर्थः। अन्यथाऽनुमितौ च
ज्ञशक्तिवियोगात् (ब्र.सु.२-२-७) । दूषितप्रकारातिरिक्तप्रकारेण प्रधानानुमानेऽपि ज्ञातृत्व-शक्त्यभावात् ‘जगत्स्रष्टृत्वं प्रधानस्य नोपपद्यते । अभ्युपगमेऽप्यर्थाभावात् (ब्र.सू.२-२-८) आनुमानिकप्रधानाभ्युपगमेऽपि पुरुषस्य तन्मते चिन्मात्रत्वेन निष्क्रियत्वेन भोगाप-वर्गयोरभावात् पुरुषभोगाद्यर्था प्रधानप्रवृत्तिरिति नोपपद्यते । अतो व्यर्थः प्रधानाभ्युपगमः । विप्रतिषेधाञ्चासमञ्चसम् (ब्र.सू.२-२-९) । पुरुषो न संसरति न मुच्यते – इत्युक्त्वा ‘पुरुषभोगाद्यर्था’ प्रधानप्रवृत्तिरित्याधुपपादयत् साङ्ख्यदर्शनं पूर्वोत्तरविरोधाच्च असमञ्जसमिति स्थितम् ।

ततश्च साङ्ख्याभिमतप्रधानस्य तुच्छत्वात्। तद्धेदं तर्ह्यव्याकृतम् आसीत् (बृ.उ.३-४-७) इत्यत्र न तत्प्रतिपादकत्वशङ्कावकाशः । प्रकृतमनुसरामः  योऽत एकैकमुपास्ते वेद अत: – अस्माद्धेतोः सर्वनामरूपविशिष्टं परमात्मानं विहाय, एकैकम् – एकैकनामरूपविशिष्टं जीवमुपास्ते, वेद-स नोपास्ते। तदुपासनम् उपासनमेव न भवतीत्यर्थः। उपासनशब्दमध्यपठितत्वात्
विदिरुपासनपरः । उक्तं च व्यासार्यै: लघुसिद्धान्ते – न स वेद इत्यस्य, स योऽत एकैक-मुपास्ते इत्येतद्वाक्यपूर्वकत्वात् उपक्रमोपसंहारयोः उपासनशब्दः, मध्ये वेदनशब्दः इति । कुत इत्यत्राह – अकृत्स्रो ह्येषोऽत एकैकेन भवति इति। अतः – ब्रह्मण एव सर्वनामरूपविशिष्टतया सर्वात्मत्वात् एकैकेन नामरूपेण विशिष्टः एष:-जीव: अकृत्स्न: – अपूर्णा भवतीत्यर्थः । एकैकेनेति इत्थंभूतलक्षणतृतीया’ । तस्माद्धेतोः, आत्मेत्येव उपासीत अत्र ह्येते सर्व एकं भवन्ति इति । ‘एकैक ‘नामरूपं जीवं विहाय सर्वनामरूपभाजं परमात्मानमुपासीत । अत्र – परमात्मनि हि ‘यस्मात् सर्वे’ पदार्थाः शरीरतया एकं भवन्ति । न तु स्वरूपैक्यम्: जडाजडयोः ऐक्यासम्भवात् : शरीर-शरीरिणोश्च पृथक्-स्थित्याद्यभावेन एकत्वव्यवहारस्य दृष्टत्वादिति द्रष्टव्यम्। ततश्च देवदत्तस्य आत्मा यज्ञदत्तस्य आत्मेति किञ्चित्प्रतियोगिकतयोपासने हि न सर्वान्तर्भावः । आत्मत्वेनैव उपासने सङ्कोचकाभावात् असङ्कुचितं सर्वात्मत्वं लभ्यते इति भावः ।

यद्वा- योऽत एकैकमुपास्ते वेद इति । यस्मात् नामरूपात्मक प्रपञ्च विशिष्टं ब्रह्म , अतः यः एकैकं विशेषणांशं विशेष्यांशं वा पृथक्सिद्धतया उपास्ते न स वेद । तत् उपासनमेव न भवतीत्यर्थः। कुत इत्यत्राह – अकृत्स्रोह्येषोऽत एकैकेन भवत्यात्मेत्येवोपासीत इति । हि – यस्मात् एषः विशिष्टपदार्थः एकैकेन – विशेषणांशेन विशेष्यांशेन वा अकृत्स्नः – अपूर्णो भवति – केवलविशेषणांशेऽपि पूर्णता नास्ति । केवलविशेष्यांशेऽपि पूर्णता नास्ति । यतः अतः आत्मेत्येव नामरूपात्मकचिदचित्प्रपञ्चा-
पृथक्सिद्धविशेष्यत्वेन उपासीत इत्यर्थः । अत्र ह्येते सर्वं एकं भवन्ति इति । अत्र हि विशिष्टे सर्वे पदार्थाः एकं भवन्ति – अन्तर्भवन्ति इत्यर्थः । विशिष्टे विशेषण विशेष्ययोः अन्तर्भूतत्वादिति भावः । एतदेव अभिप्रेत्य ‘आत्मेति तु उपगच्छन्ति (ब्र.सू.४-१-८)
इत्यत्र व्यासार्यै: अकृत्स्नःअपूर्णः । विशिष्ट एव हि पूर्णः इत्युक्तम् ।

तदेतत् पदनीयम् अस्य सर्वस्य इति । तदेतत् परमात्मस्वरूपम् अस्य सर्वस्य नामरूपात्मकप्रपञ्चस्य पदनीयम् – प्रपदनीयम् प्रपत्तव्यमित्यर्थः । पदेर्धातोः अनीयर् प्रत्ययः । अथवा पदनीयम् – ज्ञातव्यमिति वा अर्थः । तत्र हेतुमाह यदयमात्मा इति ।
अस्य सर्वस्य इत्येतदत्रापि ‘काकाक्षिन्यायेन अन्वेति । यत् – यस्मात् कारणात् अस्य – सर्वस्य अयमात्मा, अत इत्यर्थः । तमेवैकं जानथात्मानं (मुं.उ.२-२-५) इति आत्मन एव ज्ञातव्यत्वाभिधानादिति भावः । अनेन ह्येतत् सर्वं वेद इति । अनेन आत्मना अभिज्ञातेन सर्वं वेद – सर्वज्ञो भवतीत्यर्थः । ‘अत्र दृष्टान्तमाह – यथा वै पदेन अनुविन्दे देवम् इति । वै शब्दौ प्रसिद्धौ । यथा चोराद्यपहृतं गवादिधनं पदेन – तत्पदाङ्कितप्रतिपदेन ‘लभते’, एवं पदनीयत्वेन प्राङ् निर्दिष्टेन’ सर्वस्य पदभूतेन ब्रह्मणा सर्वम् अनुविन्देत् वेदेत्यर्थः । अनुङ्गिकञ्च फलमाह – कीर्तिं श्लोकं विन्दते एवं वेद इति । कीर्तिम् – ख्यातिसामान्यम् , श्लोकम् – पुण्यश्लोकत्वं च लभत इत्यर्थः ।। ७ ।।

[
आत्मनः पदनीयत्वं प्रेयस्त्वच्च]


तदेतत् प्रेयः पुत्रान्प्रेयो मित्रात्प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरोयदयमात्मा। योऽन्यमात्मन: प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यति इतीश्वरो तथैव स्यात् आत्मानमेव प्रियमुपासीत आत्मानमेव प्रियमुपास्ते, हास्य प्रियं प्रमायुकं भवति ।। ।।

प्रतदेतत् प्रेयः पुत्रात् प्रेयो मित्रात् प्रेयो वित्तात् प्रेयोऽन्यस्मात् सर्वस्मादन्तरतरी यदयमात्मा इति । यत् – यस्मात् कारणात् अयं सर्वेषां अन्तरतर: अभ्यन्तरतरः ‘अत्यन्तान्तरङ्ग: – मुख्य’ इति यावत् तादृश आत्मा, तत् – तस्माद्धेतो: एतत् – एषः पुत्रमित्रादिप्रियान्तरापेक्षया अतिप्रियतरः इत्यर्थः । योऽन्यमात्मनः प्रियं ब्रुवाणं ब्रूयात् प्रियं रोत्स्यतीतीश्वरो तथैव स्यात् इति। यः -एववित् आत्मनोऽपि परमात्मापेक्षयापि अन्यत् प्रिय अस्तीति ब्रुवाणं प्रति व: ईश्वर:- प्रयं रोत्स्यति – प्रियनिरोधमीश्वरः करिष्यतीति यदि ब्रूयात्, तथैव भवेदित्यर्थः । आत्मानमेव प्रियमुपासीत इति। तस्माद्धेतोः निरतिशयप्रियम् परमात्मानमेव उपासीतेत्यर्थः । ‘परमात्मनो हि अनुभूयमानस्य निरतिशयानन्दताया प्रियत्वमानन्दवल्ल्यादिसिद्धं द्रष्टव्यम्। आत्मानमेव प्रियमुपास्ते इत्यादि । प्रमायुक्तम् – प्रकृष्टं मायुः मरणं यस्य तत् । प्रमायुक्तं न भवति – अविनष्टं भवतीत्यर्थः । शिटं स्पष्टम् ।।८।।

[अहं ब्रह्मास्मीत्युपासनविधानोद्धातः]


तदाहुः यद ब्रह्मविद्यया सर्वं भविष्यन्तो मनुष्या मन्यन्ते, किमु तद् ब्रह्मावैत्‘, यस्मात् तत् सर्वम् अभवदिति ।। ।।


प्र. – तदाहुः इति । तत् – वक्ष्यमाणं आहुः – पप्रच्छुः इत्यर्थः । यद् ब्रह्मविद्यया सर्वं भविष्यन्ती मनुष्या मन्यन्ते किमु तद्ब्रह्मावैत्, यस्मात् तत् सर्वमभवदिति । इदं हि वाक्यं व्यासार्यै:, ‘यद्ब्रह्मविद्यया सर्वं भविष्यन्तः – सर्वशब्दवाच्य परमात्मपर्यन्ता-
विर्भाव’कामाः मनुष्या मन्यन्ते, किमु तद्ब्रह्मावैत् यस्मात्तत्सर्वमभवदिति – तत् ब्रह्म किं वेद्यं वस्त्वन्तरमवैत् यस्माद्वेदनात् तत् सर्वमभवदिति ब्रह्मणोऽपि परं तदुपास्यं वस्त्वस्ति न वेति बुभुत्सा उत्थापिता इति सर्वव्याख्यानाधिकरणे व्याख्यातम् ।। ९ ।।

[‘अहम् ब्रह्मास्मिइत्युपासनौचित्यनिरूपणम्, उपासकस्य
देवैरनभिभाव्यत्वम्, अन्येषां दैवपशुत्वं ]

ब्रह्म वा इदमग्र आसीत् तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात् तत् सर्वमभवत् तद्यो यो देवानां प्रत्यबुध्यत, एव तदभवत् तथर्षीणाम्, तथा मनुष्याणाम् तद्धेतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवं सूर्यश्चेति तदिदमप्येतर्हि एवं वेद अहं ब्रह्मास्मीति, इदं सर्वं भवति । तस्य देवाश्चनाभूत्या ईशते आत्मा ह्येषां भवति अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति वेद यथा पशुरैवं देवानाम् यथा वै बहवः पशवो मनुष्यं भुञ्ज्यु: एवमेकैकः पुरुषो देवान् भुनक्ति एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति, किमु बहुषु? तस्मादेषां तन्न यम्, यदेतन्मनुष्या विद्युः ।। १० ।।

प्र. – ब्रह्म वा इदमग्र आसीत्तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवदिति इति । इदमपि वाक्यं व्यासार्यै: उपास्यान्तरशून्यमित्युत्तरमाह – तदात्मानमेवावैदहं ब्रह्मास्मीति तस्मात्तत्सर्वमभवत् इति आत्मानमेव अवैत् । नतु अन्यदुपास्यम् । तस्मात् तत् सर्वम् अभवदित्यर्थः। अन्यवेदनस्य उपायत्वनिषेधे तात्पर्यम्: न तु स्ववेदनस्य उपायत्वविधाने । यथा, स कारणं करणाधिपाधिपो न चास्य कश्चिज्जनिता न चाधिपः (श्वे.उ.६-९) इति कारणानन्तरनिषेधेन परमकारणत्वसिद्धिः । एवमुपास्यान्तरनिषेधेन ब्रह्मणः परमोपास्यत्वमिह विविक्षितम् इति सर्वव्याख्यानाधिकरणे विवृतम् । अत्र आत्मेतरत् न अवैत् इति वक्तव्ये, आत्मानमेवावैदहं ब्रह्मास्मीति इत्युक्ति: तदिदमप्येतर्हि य एवं वेद अहं ब्रह्मास्मीति इत्यादिना वक्ष्यमाणब्रह्मवेदन प्रशंसाहेतुसिद्ध्यर्था । ब्रह्म वा इदमग्र आसीत् इति तस्य ब्रह्मणः जगत्कारणत्वोक्तिश्च, कारणं तु ध्येयः (अथर्वशिखा.३) इति
कारणस्यैव ध्येयतया सर्वकारणस्य ब्रह्मणः कारणान्तराभावादेव ध्येयान्तरं नास्तीति द्योतनार्थेति तात्पर्य द्रष्टव्यम् ।

एवमुपास्यान्तरशून्यं ब्रह्म ज्ञातवतः फलमाह – तद्यो यो देवानां प्रत्यबुध्यत, एव तदभवत्। तथर्षीणाम्, तथा मनुष्याणाम् इति । देवानाम् ऋषीणां मनुष्याणां वा मध्ये’ यो यो ब्रह्म प्रत्यबुध्यत, स सर्व एव तदभवत् – सर्वमभवत् । सर्वशब्दवाच्य-परमात्मपर्यन्ताविर्भाववान् अभवदित्यर्थः । सर्वात्मभूतपरमात्मात्मको अभवत् । सर्वेणैकात्म्यं, प्राप्तवानिति यावत् । ऐकात्म्यस्य नित्यप्राप्तस्य प्राप्तव्यत्वासम्भवात् तत्साक्षात्कारः फलमिति फलति । तदेवाह – तद्वैतत् पश्यन् ऋषिर्वामदेवः प्रतिपेदे अहं मनुरभवम् सूर्यश्चेति इति। ह शब्दो वृत्तार्थस्मरणे। तदेतत् – ब्रह्म पश्यन् – उपासीनो वामदेवर्षिः अहं मनुरभवं सूर्यश्चेति – मदात्मैव मन्वादीनामात्मेति प्रतिपेदे। मन्वादिना सर्वेण स्वस्येकात्म्यं साक्षात्कृतवानित्यर्थः । तदितमप्येतर्हि एवं वेद अहं ब्रह्मास्मीति इदं सर्वं भवति इति । एतर्ह्यपि – एतस्मिन्नपि काले तदिदं ब्रह्म अहमस्त – सर्वात्मक-ब्रह्मात्मकोऽहमस्मीत्येवं यो यो वेद, ‘स सर्वोऽपि इदं सर्वं भवति – एतत्सर्वात्मक-ब्रह्मपर्यन्ताविर्भाववान् भवतीत्यर्थः। ततश्च ब्रह्मात्मकत्वोपासनस्य सर्वैकात्म्य-
साक्षात्कारहेतुत्वं पूर्वकाले एव, नास्मिन् काले इति न मन्तव्यमिति भावः ।

तस्य देवाश्चनाभूत्या ईशते इति । तस्य – ब्रह्मविदः देवाश्चन – देवा अपि अभूत्यै – मुक्त्यैश्वर्यविधाताय नेशते – न समर्थाः कुतोऽन्ये इति भावः । न शब्दोऽप्यर्थः। व्यवधानं छान्दसम् । तत्र हेतुमाह – आत्मा ह्येषां भवति इति। सः ब्रह्मवित् यस्मात् देवानामपि आत्मा – ‘नियन्ता भवति । ब्रह्मविद्याप्रभावेन वशित्वादि-सिद्धिमत्तया तानपि नियन्तुं शक्त इत्यर्थः। अतः तस्य मुक्त्यैश्वर्यव्याघाते न कोऽपि समर्थं इत्यव्याहता एवंविदो मुक्तिरिति भावः ।

एवं ब्रह्मात्मविदां कृतार्थतामुक्त्वा अतादृशामनर्थं दर्शयति- अथ योऽन्यां देवतामुपास्ते अन्योऽसावन्योऽहमस्मीति वेद यथा पशुरेवं देवानाम् इति। यः पुमान् धारकत्वनियन्तृत्वादिना स्वस्मात् आत्मत्वेन अन्यां देवतां -परमात्मरूपाम्, असौ – देवता अन्यः – धारकत्वनियन्तृत्वादिना आत्मभूतादन्यः अहं च धार्यत्वनियाम्यत्वादिप्रयुक्त तच्छरीरत्वाश्रयात् अन्यः – भिन्न इत्युपास्ते, वेद . ‘सः अज्ञ’ इत्यर्थः । यथा इत्यादि यथा लोके पशुःमनुष्याणां शेषभूतः, एवं स देवानां पशुः। तक्तिङ्करतया शेषभूतः इत्यर्थः । यथा वै बहवः पशवो मनुष्यं भुञ्ज्युः एवमेकैकः पुरुषो देवान् भुनक्ति इति । वै शब्दःप्रसिद्ध्यर्थे । यथा बहवः पशवः एकं मनुष्यं दोहवाहादिक्रियाभिः भुञ्ज्युः – परिपालयन्ति, एवमेकैकः अब्रह्मवित् पुरुषः शुश्रूषया अग्नीन्द्रादीन् देवान् भुनक्ति – परिपालयति, प्रीणयति । तक्तिङ्करो भवतीति यावत् । एतावांस्तु विशेषः – बहवः पशवः एकस्य किङ्कराः । अब्रह्मवित् पुरुषस्तु एकैक एव सर्वदेवानां किङ्कर इति । ततः फलितमाह – एकस्मिन्नेव पशावादीयमानेऽप्रियं भवति, किमु बहुषु तस्मादेषां तन्न प्रियम्, यदेतन्मनुष्या विद्युः इति । लोके हि पशुस्वामिन आच्छिद्य राजचोरादिभिः, एकस्मिन् पशौ आदीयमाने ‘गृह्यमाणे अप्रियं भवति, किमुत बहुषु पशुषु ह्रियमाणेषु । तस्मात् एषां देवानां तत् प्रियं न भवति। मनुष्या ब्रह्म विद्युः – ब्रह्मज्ञानिनो भवन्तीति यदेतत् , तन्न प्रियमित्यन्वयः । अतः स्वकिङ्करतया पशुभूता मनुष्याः ब्रह्मविद्यां प्राप्य पशुभावात् मुच्येरन्निति बुद्ध्या यथाशक्ति देवतेभ्यो विघ्नमाचरन्तीति भावः । अतः । श्रेयांसि बहुविघ्नानि ‘ इति न्यायेन विघ्रबाहुल्यजटिलेऽपि ब्रह्मज्ञाने विघ्नवारणक्षमभगवत्प्रणामार्चनादिकम् अनुतिष्ठन् अवहितो ब्रह्मविद्यायां यतेतेति भावः ।

[आत्मवोपासनाधिकरणार्थतत्त्वम्]

आत्मेत्येव उपासीत इति वाक्यं भगवता बादरयणेन चतुर्थाध्याये चिन्तितम् । तत्र हि – पृथगात्मानं प्रेरितारञ्च मत्वा जुष्टस्ततस्तेनामृतत्वमेति (श्वे.उ.१-६) इति जीवेश्वरपृथक्त्वज्ञानस्य अमृतत्वसाधनत्वश्रवणात् स्वात्मानं प्रति अपृथक्सिद्ध विशेष्यत्वलक्षणमात्मत्वं ब्रह्मणो नास्त्येव। अत एव आत्मेत्येव उपासीत इति करणेन दृष्टिविधित्वं सूच्यते। तादृशी च’ दृष्टिः ‘न मोक्षार्थोपासनविषया । ततश्च मोक्षोपासने तात्त्विकविषयत्ववश्यम्भावेन अतस्मिन् तदारोपरूपदृष्टिविधेरयुक्तत्वात् पृथक्त्वेनैव अनुसन्धानं कार्यम् तु अपृथक्सिद्धविशेष्यत्वरूपात्मत्वेनेति पूर्वपक्षे पठति-आत्मेति तूपगच्छन्ति ग्राहयन्ति च (ब्र.सू.४-१-३) इति । त्वं वा अहमस्मि भगवो देवते, अहं वै त्वमसि भगवो देवते (वरा.उ.२-३४) इति पूर्वे उपासितारः आत्मत्वेन उपगच्छन्तिउपासत इत्यर्थः। य आत्मनि तिष्ठन् इत्यादीनि न शास्राणि प्रत्यगात्मापेक्षया आत्मतां ग्राहयन्ति प्रतिपादयन्ति । न च पृथक्त्वानुसन्धानस्य विरोधः शक्यः । किञ्चिज्ज्ञत्वसर्वज्ञत्वादि-लक्षणभेदकाकारस्य पारमर्थिकत्वात् भेदरूपं पृथक्त्वमस्त्येव । नियमेन आधारत्वलक्षणम्
अपृथक्सिद्धविशेष्यत्वरूपम् आत्मत्वमप्यस्त्येव । न हि ईदृशं आत्मत्वं भेदविरोधि। अतः आत्मेत्येव उपासीत इति विधिवशात् आत्मत्वेनैव उपासनं कर्तव्यमिति स्थितम् । प्रकृतमनुसरामः ।। १० ।।

[देवलोके इन्द्रादिक्षत्रसृष्टिः]


ब्रह्म वा इदमग्र आसीदेकमेव तदेकं सन्न व्यभवत् तच्छ्रेयोरूपमत्यसृजत क्षत्रम्, यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति। तस्मात् क्षत्रात् परं नास्ति तस्मात् ब्रह्मणः क्षत्रियमधस्तात् उपास्ते राजसूये क्षत्र एव तद्यशो दधाति । सैषा क्षत्रस्य योनिर्यत् ब्रह्म तस्मात् यद्यपि राजा परमतां गच्छति, ब्रह्मैवान्तत उपनि: अयति स्वां योनिम् एने हिनस्ति, स्वां योनिमृच्छेति। पापीयान् भवति, यथा श्रेयांसं हिंसित्वा ।। ११ ।।

प्र. – स मुखाच्च योनेर्हस्ताभ्याञ्च अग्रिम् असृजत इति तस्य श्रान्तस्य तप्तस्य तेजोरसो निरवर्तताग्नि: इति च ब्राह्मणवर्णानिवसष्टिः प्रागुक्ता । इदानीम् इन्द्रादिरूपक्षत्रादि-सृष्टिं वक्तुम् आत्मैवेदम् अग्र आसीत् इत्यादिनोक्तमेवप्रपञ्चस्य ब्रह्मोपादनकत्वम्, बहुकृत्वोऽपि पथ्यं वदितव्यम् इति नीतिमनुसृत्य शिष्यावधानाय पुनरपि स्मारयति ब्रह्म वा इदमग्र आसीदेकमेव इति । स्पष्टोऽर्थः ।

तदेकं सन्न व्यभवत् इति । व्यभवत् – वैभवं न प्राप्तमित्यर्थः । न च अग्नि सृष्ट्यनन्तरं ब्रह्मणः कथमेकत्वोक्तिरिति वाच्यम् । तदविवक्षया एकत्वोक्तत्युपपत्तेरिति द्रष्टव्यम् । तदच्छ्रेयोरूपम् अत्यसृजत क्षत्रम् इति । क्षत्रम् – क्षत्रियाख्यं श्रेयः – श्रेष्ठं रूपम् – शरीरभूतम् अत्यसृजत – अतिक्रान्ततया सर्वाधिकतया ससर्जेत्यर्थः । तदेव प्रपञ्चयति – यान्येतानि देवत्रा क्षत्राणीन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो मृत्युरीशान इति इति । देवत्रा – देवेषु । ‘देवमनुष्य’ (पा.सू.५-४-५६) इत्यादिना सप्तम्यर्थे त्राप्रत्ययः । देवेषु इन्द्रवरुणादीनि यान्येतानि क्षत्राणि, तानि ससर्जेत्यर्थः। ब्रह्म बृहस्पतिः क्षत्रमिन्द्रः मरुतो वै देवानां विश: (तै.सं.५-४-७) इति श्रुतेः इन्द्रादीनां क्षत्रियत्वम् । देवेष्वपि तपोविशेषणवर्णविशेषसम्भवात् अभिमानित्वाद्वा क्षत्रियत्वं द्रष्टव्यम् । उभयमपि व्यासार्यै: वर्णितम् । तस्मात् क्षत्रात् परं नास्ति इति । यस्माद्धेतोः इन्द्रादयो देवश्रेष्ठा अपि क्षत्रियाः, तस्मात् क्षत्रियात् परम् श्रेष्ठं नास्तीत्यर्थः । तस्माद्ब्राह्मणः क्षत्रियमधस्तात् उपास्ते राजसूये इति । यस्मात् क्षत्रियः श्रेष्ठः तस्मात् ब्राह्मणपि राजसूय यज्ञे क्षत्रियमधस्तात् – क्षत्रियस्य अधस्तात् – ततोऽन्यत्रापि दृश्यते इति द्वितीया – उपास्ते – उपविशति इत्यर्थः । क्षत्र एव तद्यशो दधाति इति । राजसूये राज्ञा ब्रह्मन् इत्यामन्त्रितः ऋत्विक् राजानमाह – त्वं राजन् ब्रह्मासि इति श्रवणात् तद्यशः – ब्राह्मणत्वप्रयुक्तं यशो राजसूये क्षत्रे – क्षत्रिये एव ब्राह्मणो यस्मात् कारणात् आदधाति, तस्माच्च हेतोः क्षत्रिय एव श्रेष्ठ इत्यर्थः ।

सैषा क्षत्रस्य योनिः यद्ब्रह्म इति । एवं विधस्यापि क्षत्रस्य, ब्रह्म – ‘ब्राह्मण इति यत्, सा योनिरित्यर्थः’ । राजसूये क्षत्रियगतातिशयस्यापि ब्राह्मणधीनत्वात् यजन अध्ययनयोः तदधीनत्वाच्च क्षत्रियस्य श्रैष्ठ्यं ब्राह्मणानुग्रहप्रयुक्तमिति भावः । योनिशब्दाभि-प्रायेण सैषा इति स्त्रीलिङ्गनिर्देशः । तस्माद्यद्यपि राजा परमतां गच्छति, ब्रह्मवान्तत उपनिश्रयति स्वां योनिम् इति । तस्मादेव हेतोः यद्यपि राजसूयाभिषेकदशायां परमताम् – श्रेष्ठतां राजा – क्षत्रियो गच्छति, कर्मावसाने तु स्वां योनिम् – स्वयोनिभूतं ब्रह्म-ब्राह्मणमेव उपनिःश्रयति – याजनादिकार्याय ब्राह्मणसमीपमुपेत्य निहीनतया श्रयतीत्यर्थः । एनं हिनस्ति स्वां योनिमृच्छति इति । -यस्तु क्षत्रिय: एनम् – ब्राह्मणं हिनस्ति, सः स्वां योनिं स्वोत्पतिस्थानमेव ऋच्छति – हिनस्तीत्यर्थः । ‘मातृपितृहा’ भवतीति यावत् । तदेव विवृणोति पापीयान् भवति, यथा श्रेयांसं हिंसित्वा इति । यथा श्रेयांसम् – पित्रादिकं हिंसित्वा पापीयान् भवति, एवं पापीयान् भवतीत्यर्थः ।। ११ ।।

[देवलोके वैश्यादिसृष्टिः]


नेव व्यभवत् विशमसृजत, यान्येतानि देवजातानि गणश आख्यायन्तेवसवो रुद्रा आदित्या विश्वे देवा मरुत इति १२

प्र- स नैव व्यभवत् । स विशमसृजत इति । सः परमात्मा क्षत्रं सृष्ट्वापि न व्यभवत् – विभुत्वं नाप्तवान् । ततो विशम् – वैश्यमसृजतेत्यर्थः । तदेव दर्शयति -यान्येतानि देवजातानि गणश आख्यायन्ते-वसवो रुद्रा आदित्या विश्वेदेवा मरुत इति । देवजातानि – देवसमूहा: गणशः – गणरूपेण आख्यायन्ते । वसुरुद्रादित्य- विश्वदेवमरुतां गणदेवतात्वप्रसिद्धे: ।। २२ ।।

नैव व्यभवत् शौद्रं वर्णमसृजत पूषणम् इयं वै पूषा इयं हीदँ सर्वं पुष्यति, यदिदं किञ्च १३

नैव व्यभवत् शौद्रं वर्णम् असृजत पूषणम् इति । स्पष्टोऽर्थः । इयं वै पूषा, इयं हि इदं सर्वं पुष्यति यदिदं किञ्च इति । इयम् – पृथिव्येव पूषा इत्युच्यते । हि – यस्मात् यदिदं किञ्च – दृश्यमानम् इदं सर्वं पुष्यति । अतः पृथिव्या एव सर्वकार्य-पोषकत्वात् पृथिव्येव पूषा इत्यर्थः । यथा अग्रीन्द्रादीनां ब्राह्मणत्वक्षत्रियत्वाश्रयत्वम् , एवं पृथिव्या अपि शूद्रत्वाश्रयत्वं तदभिमानित्वं वा द्रष्टव्यम् ।। २३ ।।

[क्षत्रक्षत्रभूत धर्मसृष्टिः]

 

नैव व्यभवत् तच्छ्रेयोरूपमत्यसृजत धर्मम् । तदेतत् क्षत्रस्य क्षत्रम्, यद्धर्मः तस्मात् धर्मात् परं नास्ति अथो अबलीयान् बलीयाँसम् आशँसते धर्मेण, यथा राज्ञैकम् यो वै धर्मः सत्वं वै तत् तस्मात् सत्यं वदन्तमाहुः धर्मं वदतीति, धर्म वा वदन्तँ सत्यं वदतीति । एतद्ध्येवैतत् उभयं भवति ।। १४ ।।

 

प्र. – नैव व्यभवत् तच्छ्रेयोपमत्यसृजत धर्मम् इति । एवं चातुर्वर्ण्यं-सृष्ट्यनन्तरमपि सः आत्मा नैव व्यभवत् – विभूतिं न आप्तवान् । अतो विभूति वृद्धयर्थं तच्छ्रेयोरूपम् – तस्य श्रेयोरूपत्वेन प्राङ्निर्दिष्टस्य क्षत्रियस्यापि श्रेयोरूपं धर्मं सृष्टवानित्यर्थः ।

तदेतत् क्षत्रस्य क्षत्रं यद्धर्मः इति । तदेतत् – धर्म इत्युक्तमेतत् वस्तु क्षत्रस्य क्षत्रम् – सर्वनियन्तृतया उग्रादपि क्षत्रानियन्तृतया उग्रमित्यर्थः । तस्माद्धर्मात्परं नास्ति । तस्मात् धर्मात् परम् – अधिकं किमपि नास्ति इत्यर्थः । अथो अबलीयान् बलीयांसम् आशंसते धर्मेण, यथा राज्ञा, एवम् इति । अथो शब्दः अप्यर्थः । अबलीयानथो – ‘अबलिष्टोपि’ पुमान् बलीयांसं पुमांसं जेतुमाशंसते धर्मेण – धर्मबलेन । यथा राजा एवम् इति । यथा राजबलमवलम्ब्य दुर्बलो बलीयांसं’ जिगीषति तथेत्यर्थः । लोकेऽस्मिन् दुर्बलस्य दारादिकम् अपहरन् बलवानपि बाधितो दृष्टः । अतः बलवतः तस्य धर्मविरोधिनः तद्दण्डनं धर्मेणैव कृतमिति गम्यत इति भावः । यो वै धर्मः, सत्यं  वै तत् इति । यः क्षत्रादपि श्रेयोभूतः वै प्रसिद्धो धर्मः, सः सत्यं वै सत्यवदनमेव इत्यर्थः ।

तत्र युक्तिमाह – तस्मात् सत्यं वदन्तमाहुः धर्म वदतीति, धर्म वा वदन्तँ सत्यं वदतीति इति । स्पष्टोऽर्थः । एतद्ध्येवैतदुभयं भवति इति । एतद्ध्येव – सत्यवदनमेव एतदुभयम् – सत्यधर्मलक्षणोभयरूपं भवति । तस्मात् सत्यवदनं सर्वशेषभूतमिति भावः ।। १४ ।।

 

[लोकद्वयेऽपि ब्राह्मणादिविभागः, ब्रह्मणः अविदितत्वे अरक्षकत्वम् ]

 

तदेतत् ब्रह्म क्षत्रं विट्छूद्रः तदग्निनैव देवेषु ब्रह्माभवत् ब्राह्मणो मनुष्यषुक्षत्रियेण क्षत्रियो, वैश्येन वैश्यः, शूद्रेण शूद्रः । तस्यादग्रावेव देवेषु लोकमिच्छन्ते, ब्राह्मणे मनुष्येषु एताभ्याँ हि रूपाभ्यां ब्रह्माभवत् । अथ यो वा अस्माल्लोकात् स्वं लोकम् अदृष्ट्वा प्रैति, एनमविदितो न भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् यदि वा अप्यनेवंविन्महत् पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव आत्यानमेव लोकमपासीत स  आत्यानमेव लोकमुपास्ते, हास्य कर्म क्षीयते अस्माद्ध्येवात्मनो यद्यत् कामयते, तत्तत् सृजते ।। १५ ।।

प्र. – उक्तां – ‘चतुर्वर्णस्वरूपत्वं निगमयति – तदेतत् ब्रह्म क्षत्रं विट् छूद्र: इति । तत् – तस्मात् उक्तरीत्या ब्राह्मणक्षत्रादिवर्णानां ब्रह्मणो जातत्वात् एतद्ब्रह्मैव ब्रह्मक्षत्र-विट्छूद्रात्मकनिति भावः । ननु ब्रह्मणः कथं चातुर्वर्ण्यस्वरूपत्वम् । क्षत्रादिवर्णत्रय-सृष्टिर्ह्युक्ता; न ब्रह्मवर्णसृष्टिः अत्र इत्यपेक्षायामाह – तदग्निनैव देवेषु ब्रह्माभवत् इति । अग्निना इति इत्थंभावे तृतीया । स मुखाञ्च योनेहस्ताभ्यां च अग्निमसृजत इति, तेनारसो निरवर्तताग्निः इति च सृष्टत्वेन प्रागुक्तेन अग्निनैव विशिष्टं सत् तत् – परं ब्रह्म देवेषु ब्रह्माभवत् – ब्राह्मणोऽभवत् । अग्निरूपं ब्रह्म ब्राह्मणत्वजातिमत् । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने नमः (वि.पु.१-४-२८) इतिवत् । अत: ब्रह्मणोऽग्निद्वारा ब्रह्मणत्वम् इत्यग्निरूपो ब्राह्मणो अभवदिति पर्यवसितोऽर्थः । एवमेव इन्द्रादिरूपविशिष्टं ब्रह्म तद्द्वारा क्षत्रियत्वजातिमदभूत्; वसुरुद्रादिरूपविशिष्टं ब्रह्म तद्द्वारा वैश्यत्व-जातिमदभूत् पृथिवीरूपविशिष्टं ब्रह्म तद्द्वारा शूद्रत्वजातिमदभूत् इति सिद्धम् । एवं परब्रह्मणो देवेषु ब्राह्मणत्व-क्षत्रियत्वादिजातिमत्त्वम् अग्नीन्द्रादिद्वारकमित्युक्त्वा मनुष्येषु ब्राह्मणत्वादिजातिमत्त्वप्रकारं ब्रह्मणो दर्शयति – ब्राह्मणो मनुष्येषु क्षत्रियेण क्षत्रियो बैश्येन वैश्यः शूद्रेण शूद्रः इत्यादि । ब्राह्मणो मनुष्येषु इत्यत्र ब्राह्मणेन इत्यध्याहर्तव्यम्, ब्राह्मणेन ब्राह्मण इति । क्षात्रियेण क्षत्रिय इत्युत्तरग्रन्थानुसारात् । ततश्च देवेषु अग्न्यादिद्वारेणेव मनुष्येष्वपि परं ब्रह्म ब्राह्मणद्वारा ब्राह्मणत्वजातिमदभवत् । क्षत्रियवैश्यादिद्वारा क्षत्रियत्वादि-जातिमदभवत् इत्यर्थः ।

प्रसङ्गात् अग्निब्राह्मणौ प्रशंसति – तस्मात् अग्नावेव देवेषु लोकमिच्छन्ते ब्राह्मणे मनुष्येषु इत्यादि । तस्मात् -बुद्धिस्थाद्वक्ष्यमाणाद्धेतोः, पूर्वोक्तहेतोर्वा – देवेषु -देवानां मध्ये लोकम् अग्नावेव इच्छन्ते – इच्छन्ति । लोकम् फलम् । अग्नौ इति निमित्तसप्तमी । अग्ने: निमित्तादेव इच्छन्ति लोकम् । मनुष्येषु – मनुष्याणां मध्ये ब्राह्मणादेव निमित्तात् लोकमिच्छन्ति इत्यर्थः । यद्वा – देवानां मध्ये अग्नावेव हुत्वा, मनुष्याणां मध्ये ब्राह्मण एव दत्वा लोकमिच्छन्ति इत्यर्थः । तस्मात् इति पूर्वपरामृष्टं प्राशस्त्यहेतुमाह – एताभ्यां हि रूपाभ्यां ब्रह्माभवत् । प्रथमत इति शेषः । एताभ्याम् अग्निब्राह्मणरूपाभ्यां हि यस्मात् परं ब्रह्म प्रथमतो विशिष्टम् अभवदित्यर्थः । अतोऽग्ने: देवेषु, ब्राह्मणस्य मनुष्येषु अग्नजत्वात् प्राशस्त्यमिति भावः । यदभवत्, तस्माल्लोकम् इच्छन्ति इति पूर्वेणान्वयः ।

एवं निखिलजगत्कारणत्वादिगुणकम् आत्मस्वरूपमुक्त्वा तद्वेदनस्य अवश्य-कर्तव्यत्वमाह – अथ यो वा अस्माल्लोकात् स्वं लोकमदृष्ट्वा प्रैति, एनमविदितो  भुनक्ति, यथा वेदो वा अननूक्तो अन्यद्वा कर्माकृतम् इति । अथ शब्दो वाक्यान्त-रोपक्रमे । वै शब्द: प्रसिद्धौ । लोक्यते दृश्यत इति लोकः । नित्यसूरिभिः सर्वदा आलोक्यमानत्वात् परमात्मा लोक इत्युच्यते । एवंमूतं स्वम् – स्वीयमन्तरात्मानम् अदृष्ट्वा – दर्शनसमानाकारेणज्ञानेन अविषयीकृत्य यः पुमान् अस्माल्लोकात् प्रैति – लोकान्तरं गच्छति, तमेनं सः परमात्मा ‘स्व: आत्मभूतोऽपि भुनक्ति – न परिपालयति । कस्त हेतोः इत्यत आह – अविदितः । अनुपासिता इत्यर्थः । उपासनाभावे वस्तुगत्या शेषितया आत्मभूतोऽपि संसारं न निवर्तयति इत्यर्थः । ययाऽऽह योगी याज्ञवल्क्यः –

गवां सर्पिः शरीरस्थं करोत्यङ्गपोषणम्

निस्सृतं कर्मचरितं पुनस्तस्यैव भेषजम् ।।

एवं हि शरीरस्थः सर्पिर्वत् परमेश्वरः

विना चोपासनां देवो करोति हितं नृणाम् ।। इति ।।

तत्र दृष्टान्तमाह – यथा वेदो वा अनूक्तो अन्यद्वा कर्माकृतम् इति । वेदस्य सर्वोपकारार्थप्रवृत्ततया सर्वसाधारण्येऽपि अनधीतो न पालयति, ‘यथा’ ज्योतिष्टोमादि वैदिकं कर्म अननुष्ठितं नोपकरोति, तथेश्वरः स्वस्य शेषिभूतोऽपि अनुपासितः संसारं न निवर्तयति इत्यर्थः । यदि वा अप्यनेवंवित् महत्पुण्यं कर्म करोति, तद्धास्यान्ततः क्षीयत एव इति । शब्दः प्रसिद्धौ । अनेवंवित् अब्रह्मवित् यदि वाऽपि महदश्वमेधादि पुण्यं कर्म करोति – कुर्यात् , तत् – अस्य अब्रह्मविदः कर्म अन्ततः सुदूरं गत्वापि बहुकालं स्थित्वापीति यावत् – क्षीयते – नश्यत्येव इत्यर्थः । क्षीणफलं भवतीति यावत् । यो वा एतदक्षरं गार्ग्यविदित्वा अस्मिन् लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्त्राणि अन्तवदेवास्य तद्भवति (बृ.उ.-५-८-९) इति श्रुतेरिति भावः । अतः किं कार्यमित्यत आह – आत्मानमेव लोकमुपासीत इति । इतरत् परित्यज्य आत्मानमेव लोकमुपासीत इत्यर्थः । लोक्यत इति लोकः फलम् । उपायभूतम् आत्मानमेव उपेयभूतं भजेत इत्यर्थः ।

एवंसति न पूर्वोक्तो दोष इत्याह – स य आत्मानमेव लोकमुपास्ते, हास्य कर्म क्षीयते इति । उक्तरीत्या परमात्मोपासकस्य कर्म न क्षीयत इत्यर्थः । अत्र कर्मशब्द: उपासना परः; तदङ्गभूतकर्मपरो वा । आत्मोपासकस्य इतरकर्माप्रसक्तेरिति द्रष्टव्यम् । कर्मणः क्षणिकस्य अत्र निषिध्यमानं क्षयित्वं नाम क्षयिफलकत्वरूपम् । कर्मणश्च अक्षयफलकत्वम् उपासनाद्वारेति द्रष्टव्यम् । अस्माध्येवात्मनो यद्यत्कामयते तत्तत् सृजते इति । तस्मादेव – ब्रह्मवेदनाद्धेतोः – हि शब्दः श्रुत्यन्तरप्रसिद्धिं दर्शयति । अयमुपासकः स यदि पितृलोककामो भवति सङ्कल्पादेवास्य पितरः समुत्तिष्ठन्ति (छां.उ.८-२-१) सड़कल्पादेव तच्छ्रुतेः (ब्र.सू.४-४-८) इति श्रुतिसूत्रोक्तरीत्या आत्मनः स्वस्य यद्यत् कामयते – यद्यदभिलषितम्, तत् सर्वं सङ्कल्पमात्रेण सृजति इत्यर्थः ।। १५।।

[जीवात्मनोपि सर्वभूतलोकत्वम्]

 

अथो अयं वा आत्मा सर्वेषां भूतानां लोकः यज्जुहोति यद्यजते, तेन देवानां लोकः अथ यदनुब्रूते तेनर्षिणाम् अथ यत् पितृभ्यो निपृणाति यत् प्रजामिच्छते, तेन पितृणाम् अथ यन्मनुष्यान् वासयते, यदेभ्योऽशनं ददातितेन मनुष्याणाम् अथ यत् पशुभ्यतृणोदकं विन्दति, तेन पशूनाम् यदस्य गृहेषु श्वापदा वयाँस्यापिपीलिकाभ्य उपजीवन्ति, तेन तेषां लोकः यथा वै स्वाय लोकायारिष्टमिच्छेत् । एवं हैवंविदे सर्वाणि भूतान्यरिष्टिमिच्छन्ति तद्वा एतद्विदितं मीमाँसितम् ।। १६ ।।

प्र. – ननु आत्मानमेव लोकमुपासीत इत्युक्तमयुक्तम् । लोको हि नाम प्राणिभोगस्थानविशेषः । तथात्वात्मनः कथमित्याशङ्क्य ‘कैमुतिकन्यायेन’ ‘परब्रह्मण: लोकत्वं दर्शयितुं प्रत्यगात्मन एव ‘सर्वोपकारकत्वेन सर्वभूतोपेयत्वात् सर्वभूतलोकत्वं प्रथममाह’ – अथो अयं वा आत्मा सर्वेषां भूतानां लोकः अथो शब्दो वाक्यान्तरोप-क्रमे । वैशब्दोऽवधारणे । अयं अहमिति प्रत्यक्षसिद्धः आत्मा वै जीवात्मैव सर्वेषां भूतानां लोक इत्यर्थः । तदेव उपपादयति – यज्जुहोति यद्यजते तेन देवानां लोकः

: – प्रत्यगात्मा जुहोति इति यत्, यजत इति च यत्; आभ्यां यागहोमाभ्यां देवानाम् उपकारकत्वेन लोक इत्यर्थः । अथ यदनुब्रूते तेनर्षीणाम् इति । अनुब्रूते – स्वाध्यायमधीते इति यत् । तेन – अध्ययनेन ऋषीणां लोक इत्यर्थः । अथ यत्पितृभ्यो निपृणाति पिण्डोदकादि प्रयच्छतीति यदित्यर्थः । निर्मृणानि इति पाठे निर्मर्णनं और्ध्वदैहिकम् । मृण – हिंसायाम् (धा.पा.१३३२) इति हि धातुः । यत्प्रजामिच्छते । प्रजामुत्पादयतीति यदिति यावत् । तेन पितॄणां लोक इति शेषः । अथ यन्मनुष्यान् – – – – मनुष्याणाम् अथ अपि च वासयते – गृहे शयनासनावकाश प्रदानेन अतिथीन्’ वासयते इति यत्; वसद्भ्यश्च अन्नं ददाति इति यत्’, ततो मनुष्याणां लोक इत्यर्थः । अथ यत्पशुभ्यः पशूनाम् इति । तृणानि च उदकञ्च तृणोदकं पशुभ्य: गवादिभ्यः विन्दति ‘लम्भयतीति’ यदित्यर्थः । तेन पशूनाम् – लोक इति शेषः । यदस्य ……लोकः । आपिपीलिकाभ्यः इत्यत्र आङ् अभिविधौ । श्वापदाःश्वादयः । वयांसि – काकादीनि । कणबलिभाण्डप्रक्षाळनादि यदस्य गृहस्थस्य गृहे श्वपक्षिपिपीलिकादयः उपजीवन्ति, अतस्तेषां लोक इत्यर्थः । एवं स्वात्मनः सर्वभूतलोकत्वपरिज्ञानस्य फलमाह यथा वै स्वायलोकाय इति । वै शब्दः प्रसिद्धौ । यथा लोके जनः स्वायलोकाय – स्वभोगस्थानाय । अरिष्टं – रिष्टं नाश: रिष हिंसायां (धा.पा. ६९४) इति हि धातुः, भावे क्तः । अरिष्टं – अनाशम् इच्छति । एवमेव आत्मनः सर्वभूतलोकत्वविदे सर्वाणि – देवपितृप्रभृति’ आपिपीलिकं भूतानि अरिष्टं – क्षेमं वाञ्छन्ति इत्यर्थः । एवं परमात्मन: लोकत्वोपपादनोपयुक्तं प्रत्यगात्मनः सर्वभूतलोकत्वमुपपाद्य अथ तदुपजीवनेन परमप्रकृतं परमात्मन: लोकत्वमुपसंहरति – तद्वा एतद्विदितं मीमांसितम् । तद्वा -एवं प्रत्यगात्मनः सर्वभूतलोकत्वदर्शनादेव एतत् – परमप्रकृतं परमात्मनः ‘लोकत्वं विदितं मीमांसितं – कैमुतिकन्यायतर्कानुगृहीतं ‘सत् विदितमित्यर्थः’ । उक्तरीत्या प्रत्यगात्मन एव सर्वभूतलोकत्वे प्रत्यक्षसिद्धे सर्वात्मनः परमात्मनः सर्वभूतलोकत्वं न सन्देग्धव्यम् इति यावत् ।।

[आत्मनः जायापुत्रवित्तकर्मापेक्षा]

 

आत्मेवेदमग्र आसीदेक एव सोऽकामयत जाया मे स्यात्, अथ प्रजायेयअथ वित्तं मे स्यात्, अथ कर्म कुर्वीयेति एतावान् वै कामः नेच्छँश्चनातो भूयो विन्देत् तस्मादप्येतर्ह्येकाकी कामयतेजाया मे स्यादथ प्रजायेय, अथ वित्तं मे स्यादथ कर्म कुर्वीयेति यावदप्येतेषामेकैकं प्राप्नोति अकृत्स्न एव तावन्मन्यते तस्योकृत्स्नतामन एवास्यात्मा वाग् जाया प्राणः प्रजा चक्षुः मानुषं वित्तम्, चक्षुषा हि विन्दते, श्रोत्रं दैवँ श्रोत्रेण हि तच्छृणोति आत्मैवास्य कर्म आत्मना हि कर्म करोति एष पाङ्क्तो यज्ञः, पाङ्क्त: पशुः, पाङ्क्त: पुरुषः। पाङ्क्तमिदँ सर्वं यदिदं किन्च तदिदँ सर्वमाप्नोति, एवं वेद ।। १७ ।।

 

इति तृतीयाध्याये चतुर्थब्राह्मणम् ।।

 

प्र. – आत्मैवेदमग्र आसीदेक एव इदं – जायापुत्रादिविभागवज्जगत् अग्रे-तत्सृष्टेः पूर्वकाले जायापुत्रादिविभागशून्यतया एक एव आत्मैवासीत् । परं ब्रह्म जायापुत्रादिसृष्टेः पूर्वं केवलपुरुषरूप एव स्थित इत्यर्थः । सोऽकामयत इत्यादि । सः पुरुषरूपः परमात्मा अकामयत । किमिति? मे-मम जाया भूयात्, अथतदनन्तरं पुत्रादिरूपेण प्रजायेय, अथ वित्तञ्च में भवतु, तेन यज्ञादिकर्म कुर्वीय .करवाणि इत्यकामयत इत्यर्थः । परमात्मनः सर्वनामरूपाश्रयत्वात् कर्मानुगुणं प्रथम पुरुषरूपेण सृष्टजीवद्वारा एतादृशकामनाश्रयत्वम् । काठिन्यवान् यो बिभर्ति तस्मै भूम्यात्मने (वि.पु.१-४-२८) इतिवत् मुख्यमेव द्रष्टव्यम् । एतावान् वै कामः । जायापुत्रवित्तकमव्यतिरेकेण संसारिणां कामः – कामनाविषयः कोऽपि नास्ति । किन्तु एतावानेव इत्यर्थः । नेच्छंश्चनातो भूयो विन्देत् न शब्दोप्यर्थः । इच्छत्रापि ‘चिन्तयन्नपि अतो भूयः एभ्यः जायापुत्रवित्तकर्मभ्यः अधिकं त्रैगुण्यनिष्ठः न लभत इत्यर्थः । तस्मादप्येतर्हि एकाकी कामयते इत्यादि । कस्माद्धेतो: एतर्ह्यपि अद्यत्वेऽपि एकाकी पुरुषः जायापुत्रवित्तादिरहितः जायापुत्रवित्तकर्माणि एव कामयते इत्यर्थः । अतः इदानीन्तनैकाकीपुरुषे दृश्यमाना एषा कामना, एवमेवाग्रेप्यभूत् इत्यत्र ज्ञापिका इति भावः । यावदप्येतेषामेकैकं प्राप्नोति इति । सः – एकाकी पुरुषः यावत् -यावन्तं कालं एतेषां – जायादीनां चतुर्णां मध्ये एकैकमपि न प्राप्नोति तावत्कालं अकृत्स्न: एकांशहीन इत्येव स्वात्मानं मन्यते इत्यर्थः । अत इदानीन्तनदर्शनानु-गुण्येनाग्रेऽप्येतेषां जायादीनां चतुर्णामपि कामनाविषयत्वम् अवधेयमिति भावः । यस्तु वैराग्येण वा अलाभेन वा जायापुत्रवित्तकर्मान्यतमहीनतया अकृत्स्नः तस्य कृत्स्नतासम्पत्तिप्रकारं दर्शयति तस्योकृत्स्नता । उशब्दोऽवधारणे तस्य – तादृशल्य कृत्स्नता ‘पूर्णता एवमेव’ भवति इत्यर्थः । मन एवास्यात्म इति अस्य – अकृत्स्नत्वं मन्यमानस्य पुरुषस्य मन एव आत्मा त्रिवर्गप्रधानस्वस्वरूपतया कल्पनीयम् इत्यर्थः । मनसः प्रधानत्वात् इति भावः । वाग्जाया इति । वाचः मनोधीनवृत्तिकत्वात् स्रीत्वसाम्याच वाचं जायां कल्पयेत् इति भावः । प्राणः प्रजा पुत्र इत्यर्थः । वाङ्मनसाधीनत्वात् ‘प्राणस्य, प्राणं पुत्रत्वेन कल्पयेत् इत्यर्थः । देवमानुषभेदेन वित्तम् द्वेधा विभज्य दर्शयति – चक्षुर्मानुषंतच्छृणोति इति । तत् – हिरण्यपश्चादिकं मानुषवित्तं हि – यस्मात् चक्षुषा विन्दते, अत: मानुषवित्तोपलम्भकत्वाञ्चक्षुरेव मानुषं वित्तं कल्पनीयम् । तत् – दैवशब्दितादृष्टं तत्प्रतिपादकश्रुतिस्मृतिद्वारा श्रोत्रेण हि – यस्माच्छृणोति तस्मात् तदुपलम्भकत्वात् श्रोत्रं दैवं वित्तं कल्पयेत् इत्यर्थः । आत्मैवास्य कर्म आत्मना हि कर्म करोति इति । अत्र आत्मशब्दः शरीरपरः । ऐहिकामुष्मिककर्म-करणत्वात् शरीरं कर्म कल्पयेत् इत्यर्थः । एषो पाङ्क्तो यज्ञः । आत्मजायापुत्रवित्त-कर्मलक्षणपञ्चकनिर्वर्त्य: सः एषः समुदाय: ‘पञ्चाक्षराः पङ्क्ति: पाङ्क्तो यज्ञः’ इतिनिर्दिष्टपाङ्क्तयज्ञात्मा, पञ्चत्वसङ्ख्यासामान्यात् इत्यर्थः । तथा पाङ्क्त: पशुः । पशोरपि पाञ्चभौतिकत्वात् पाङ्क्त्वम् । अतः मन आदि पूर्वोक्त समुदायोऽपि पञ्चत्वसङ्ख्याश्रयत्वात् पाङ्क्त: पशुरित्यर्थः । पाङ्क्त: पुरुषः । पुरुषस्यापि पाञ्चभौतिकत्वेन पाङ्क्त्वम् । अतः मन आदि पञ्चकसमुदायोऽपि’ पञ्चत्वसङ्ख्यासामान्यात् पाङ्क्त: पुरुष एवेति भावः । पाङ्क्तमिदं सर्वं यदिदं किञ्च । यदिदं किञ्चित् दृश्यते लोके, तस्य सर्वस्यापि पाञ्चभौतिकत्वात् पाङ्क्त्वम् इत्यर्थः । अतः मनोलक्षणात्मादि समुदायस्यापि पञ्चत्वसङ्ख्याश्रयत्वेन पाङ्क्त्वात् पाङ्क्तयज्ञत्व पाङ्क्तपशुत्व पाङ्क्तपुरुषत्व पाङ्क्तसर्वत्वदृष्टिः तत्र कर्तव्या इति भावः । एतत् दृष्ट्युपासनस्य फलमाह – तदिदं सर्वमाप्नोति एवं वेद इति । मनोवाक्प्राणचक्षुश्श्रोत्र-शरीरलक्षण समुदायमात्मजायापुत्रवित्तकर्मरूपेण पूर्वोक्तक्रमेण पाङ्क्तयज्ञत्व पाङ्क्तपशुत्व पाङ्क्तपुरुषत्व पाङ्क्तसर्वत्वरूपेण य उपास्ते, स तदिदँ सर्वंपाङ्क्तशब्दितं ‘निखिलं प्राप्नोति’ इत्यर्थः ।। १७ ।।

।। इति तृतीयाध्यायस्य चतुर्थ ब्राह्मण प्रकाशिका ।।

 

तृतीयाध्याये पञ्चमं ब्राह्मणम्

 

सप्तान्नब्राह्मणम्

 

[अत्रसप्तक सृष्टिः]

 

यत् सप्तान्नानि मेधया तपसाऽजनयत् पिता

एकमस्य साधारणं द्वे देवानभाजयत् ।।

त्रीण्यात्मनेऽकुरुत पशुभ्य एकं प्रायच्छत्

तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च ।।

तस्मात्तानि क्षीयन्ते अद्यमानानि सर्वदा

यो वै तामक्षितिं वेद सोऽन्नमत्ति प्रतीकेन ।।

देवानपि गच्छति र्जमुपजीवति ।। इति श्लोकाः ।।

 

प्र. – यत्साप्तान्नानि मेधया तपसा अजनयत् पिता इत्यादि प्रथमखण्डश्लोकाः श्रुत्यैव व्याख्यास्यन्ते इति नेह तन्यते ।। १ ।।

[अन्नसप्तकविवरणम्]

 

यत्साप्तान्नानि मेधया तपसाऽजनयत् पितेति मेधया हि तपसाऽजनयत् पिता

 

एकमस्य साधारणमिति इदमेवास्य तत् साधारणमन्नम् यदिदमद्यते ।  एतदुपास्ते, पाप्मानो व्यावर्तते मिश्रँ ह्येतत् । द्वे देवानभाजयदिति हुतञ्च प्रहुतञ्च तस्माद्देवेभ्यो जुह्वति प्र जुह्वति । अथो आहुर्दर्शपूर्णमासाविति तस्मान्नेष्टियाजुकः स्यात् । पशुभ्य एकं प्रायच्छदिति तत्ययः पयो ह्येवाग्रे मनुष्याश्च पशवश्चोपजीवन्ति तस्मात् कुमारं जातं घृतं वैवाग्रेप्रतिलिलेहयन्ति‘, स्तनं वा नु धापयन्ति। अथ वत्सं जातमाहुरतृणाद इति

 

तस्मिन्त्सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति पयसि हीदँ सर्वं प्रतिष्ठितम्यच्च प्राणिति यच्च तद्यदिदमाहुः संवत्सरं पयसा जुह्वदपपुनर्मृत्युं जयतीति तथा विद्यात् यदहरेव जुहोति, तदहः पुनर्मृत्युमपजयति । एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति । तस्मात्तानि क्षीयन्ते अद्यमानानि सर्वदा ।। इति

पुरुषो वा अक्षितिः हीदमन्नं पुनःपुनर्जनयते । यो वै तामक्षिर्ति वेदेति पुरुषो वा अक्षितिः हीदमन्नं धिया धिया जनयते कर्मभिः यद्वैतन्न कुर्यात्। क्षीयते । सोऽन्नमत्ति प्रतीकेनेति मुखं प्रतीकं मुखेन इत्येतत् ।  देवानपिगच्छति ऊर्जमुपजीवतीति प्रशँसा ।। ।।

प्र प्रथमखण्डोदाहृतान् एतान् श्लोकान् श्रुतिः स्वयमेव व्याकरोति । यत्सप्तान्नानिपिता इति । अत्र पितेतीति ‘इति करणपर्यन्तं व्याख्येयप्रतीकग्रहणम’ । मेधया हि तपसा अजनयत्पिता इत्यंशः तस्य व्याख्यानम् । पिता – सर्वजनकः परमात्मा मेधया – ज्ञानरूपेण तपसा सप्तान्नानि अजनयत् इति यत् तदिदमन्नजनकत्वम्, तपसा चीयते ब्रह्म, (मुं.उ.१-१-९) यस्य ज्ञानमयं तपः तस्मादेतद्ब्रह्म नामरूपमन्नं च जायते (मुं.उ.१-१-१०) इति ज्ञानमयेन तपसा नामरूपलक्षणान्नजनकस्य परमात्मन: हि प्रसिद्धं खलु, अतः किमत्र व्याख्यातव्यमस्तीति भावः ।

एकमस्य साधारणमिति इति प्रतीकधारणम् । तद्व्याचष्टे इदमेव….यदिदमद्यते इति । यदिदं – व्रीहियवादिरूपम् अहाते, तदिदमेव, अस्य – भोक्तृवर्गस्य ‘देवपित्रादेः साधारणमन्नम् इत्यर्थः । साधारणत्वफलमाह – एतदुपास्ते इत्यादिना । एतत् -ईदृशं साधारणमन्नं देवपित्रादिभ्यः अदत्वा उपास्ते – यः भुङ्क्ते सः पाप्मनः न व्यावर्तते – ‘न विमुच्यते इत्यर्थः । तत्र हेतुमाह – मिश्रं ह्येतत् हि – यस्माद्धेतोः एतत् व्रीहियवादिरूपमन्नं मिश्रं – मिश्रितम्, देवपित्राद्यन्यदीयद्रव्येण सङ्कीर्णम् साधारणमिति यावत् । अत: देवपित्रादिभ्यः अदत्वा भुञ्जानस्य पापमनिवार्यमिति भावः ।

गीतञ्च भगवता –

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ।। (भ.गी.३-१२)

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः

ते त्वघं भुञ्जते पापा ये पचन्त्यात्मकारणात् ।। (भ.गी.३-१३) ।। इति ।

तथा च श्रुतिः केवलाघो भवति केवलादी इति केवलादी देवपित्रोदिभ्य: अदत्वा भुञ्जानः इत्यर्थः । तस्मात् देवपित्रादिभ्यः निवेदितं मनुष्येण भोक्तव्यमित्यर्थः । एवञ्च प्रसिद्धमन्नं मनुष्येषु विनियुज्यत इति फलितार्थ: ।

हे देवानभाजयत् इति व्याख्येयम् । तव्द्याचष्टे – हुतञ्च प्रहुतञ्च तस्माद्देवेभ्यो जुह्वति प्र जुह्वति द्वे देवानभाजयत् इति मन्त्रखण्डेन द्वे अन्ने सृट्टा पिता सर्वका देवान् असाधारण्येन अभाजयत् – अप्रीणयत् इत्यर्थकेन ये अन्ने उक्ते ते हुतञ्च प्रहुतञ्च इति व्याचक्षते इत्यर्थः । हुतं – औपासनं प्रहुतम् – अग्निहोत्रादि । यस्मात् हुतप्रहुते देवेभ्यः परमात्मना दत्ते । तस्मात् देवेभ्य: देवानुद्दिश्यैव जुह्वति प्रजुह्वति । हुतप्रहुते वैदिकाः कुर्वन्ति इत्यर्थः । एतस्यैव मन्त्रांशस्य व्याख्यान्तरमाह – थो आहुर्दर्शपूर्णमासौ इति । तस्मान्नेष्टियाजुकः स्यात् अथो इति पक्षान्तरोपन्यासे। केचन दर्शपूर्णमासावेव, ‘हुतप्रहुताख्यतया पूर्वपक्षे व्याख्याते’, देवान्ने इत्याहुः । यस्मात् दर्शपूर्णमासयोः देवान्नत्वम्, तस्मात् इष्टियाजुकः तदतिरिक्तकाम्येष्टियजनशीले न स्यात् इत्यर्थः । यद्वा – तस्मात् – दर्शपूर्णमासयोरेव हुतप्रहुततया देवान्नत्वात् तत्र कियत्यप्यपचारे देवाः कुप्येयुः इति नेष्टियाजुकः स्यात् – दर्शपूर्णमासयोः आर्त्विज्यं न कुर्यात् इत्यर्थः ।

क्रमप्राप्तं त्रीण्यात्मनोऽकुरुत इति मन्त्रं वक्तव्यबाहुल्यात् अन्ते’ व्याचिकीर्षु: तदतिक्रम्य तदुत्तरमन्त्रं व्याकर्तुं पशुभ्य एकं प्रायच्छत् इति प्रतीकं धृत्वा तव्द्याचष्टे-तत् पयः पयो ह्येवाग्रे इत्यादिना । तत्पयः तत् – पशुभ्य: ‘दत्ततया मन्त्रोक्तमन्नं पयः -क्षीररूपम् इत्यर्थः । अत एव हि मनुष्याः पशवश्च अग्रे – प्रथमतः पय एव उपजीवनन्ति इत्यर्थः । अत्र मनुष्याश्च उपजीवन्ति इत्युक्त्वा पशुभ्यः एकं प्रायच्छत्’ इत्यत्र पशुशब्दो द्विपाश्चतुष्पात्साधारणो द्रष्टव्यः । तस्मात् – पयसः द्विपाच्चतुष्पादन्नत्वादेव जातं कुमारं जातकर्मसंस्कारे घृतं वैव – पयोविकारं घृतमेव अग्ने प्रथमतः प्रलिलेहयन्ति ‘आस्वादयन्ति इत्यर्थः । लिहेर्धातोः णिचि द्विर्वचनं छान्दसम् । स्तनं वा नु घापयन्ति । जातकर्माद्यकरणे स्तनं वा धापयन्ति – पाययन्ति इत्यर्थः । नुशब्दः खल्वर्थे । अथ वत्सं जातमाहुरतृणाद इति । अथशब्दो वाक्योपक्रमे । पयसः पश्वन्नत्वादेव जातमात्रं वत्सं अतृणाद इति । पयोमात्राहार इत्याहुः इत्यर्थः । तथा च यवव्रीहितृणाद्यदनायोग्यकालेऽपि पयस एव पशुभिः आह्नियमाणत्वात् पयः पश्वन्नमिति युक्तमिति भावः । तस्मिन् सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति व्याख्येयग्रहणम् । तव्द्याचष्टे पयसि हीदं सर्वं प्रतिष्ठितं यच्च प्राणिति यच्च नेति यत् प्राणिति-चेष्टते मनुष्यपश्चादिकम्। यच्च न चेष्टते वृक्षादिकम्। ‘तदिदं सर्वं’ पयसि प्रतिष्ठितं पयोऽधीनजीवनं हि प्रसिद्धमित्यर्थः । स्थावरप्रतिष्ठाहेतुभूतजलस्यापि पयश्शब्देन ग्रहणात् स्थावराणामपि पयोन्नकत्वं सम्भवतीति भावः । तद्यदिदमाहुस्संवत्सरं पयसा जुह्वदिति । ‘संवत्सरं कालं पयसा जुह्वत् – पयोहोम कुर्वन् अपमृत्युं जयतीति यदाहुः, तत्पुनस्तथा न विद्यात् । तर्हि कथं ज्ञातव्यम् इत्यत्राह – यदहरेव जुहोति तदहः पुनर्मृत्युमपजयति । यस्मिन्नहनि पयसा जुहोति, तदहर्मात्रसाध्यपय आहुत्यैव तस्मिन्नेवाहनि’ अपमृत्युं जयति इत्यर्थः । (अपमृत्युशब्दयोः व्यवधानं छान्दसम्) । एतज्ज्ञनस्य फलमाह –एवं विद्वान् सर्वं हि देवेभ्योऽन्नाद्यं प्रयच्छति इति । अन्नाद्यं इत्याद्यशब्देन पय आज्यादिकमुच्यते । एवं विद्वान् – एकाहमातन्नसाध्यपयोहोमस्य अपमृत्युजयफलकत्वज्ञानवान् यद्यत् अन्नाद्यं स्वयमत्ति, तत् सर्वं देवेभ्य एव ददाति इत्यर्थः । देवेभ्यः तद्दानेन यत्फलं लभते तल्लभत इति भावः ।।

तस्मात्तानि नक्षीयन्ते अद्यमानानि सर्वदा इति व्याख्येयग्रहणम् । अत्र तस्मात् इति शब्दार्थं व्याचष्टे – पुरुषो वा अक्षिति: स हीदमन्नं पुनः पुनर्जनयते इति । वैशब्दो-ऽवधारणे । अक्षिति:। – “अक्षत’ इत्यर्थः । यस्मादक्षत: – अक्षयः “पुरुषः परमात्मा’ । प्रत्यहमन्नानि पुनः पुनः प्राणिकर्मानुसारेण जनयति, तस्माद्धेतोः अहरहरद्यमानान्यपि अन्नानि नक्षीयन्तं इति मन्त्रार्थः इत्यर्थः ।

यो वै तामक्षितिं वेद इति प्रतीकग्रहणम् । तव्द्याचष्टे – पुरुषो वा अक्षितिः इत्यादिना । अत्र अक्षितिशब्दार्थः पुरुषो वै – पुरुष एव । परमात्मैव इत्यर्थः । तस्यैव पुरुषशब्दमुख्यार्थत्वात् । धिया – सङ्कल्पेन इत्यर्थः । उत्पाद्यान्न व्यक्त्यभिप्रायात्’ धिया धिया इति वीप्सा । हि – पुरुषशब्दितः परमात्मैव इदमन्नं धिया धिया“सङ्कल्प्य सङ्कल्प्य प्रत्यहं – पुनःपुनः कर्मभिः जनयते – प्राणिनां कर्मभिस्सहितस्सन् जनयते । प्राणिकर्मानुगुणं जनयति इत्यर्थः । अत्र कर्मभिः इत्युक्तिः ईश्वरस्य वैषम्य-नैर्घृण्यपरिहाराय । वैषम्यनैर्घृण्ये न सापेक्षत्वात् (ब्र.सू.२-१-३४) इति न्यायादिति भाव: एतत् – अन्नं यद्ध- यदि हि स परः पिता इत्युक्त: । पुनःपुनः प्रत्यहं न कुर्यात्, अन्नं क्षीयेत ह । ‘अतः प्रत्यहम् अन्नकरणात् न क्षीयते इति भावः । एतादृशमक्षितिं” परं ब्रह्म यो वेद इति मन्त्रार्थं इत्यर्थः ।

सोऽत्रमत्ति प्रतीकेन इत्यंशं व्याचष्टे – मुखं प्रतीकं मुखेन इत्येतत् । अत्र मुखमिति व्याख्यानम् , प्रतीकमिति व्याख्येयम् । मुखेन इत्येतत् – प्रतीकेन इत्यनेन मन्त्रवचनेन मुखेन इत्युक्तं भवति इत्यर्थः । अनुष्यमात्रेऽपि अत्तीति  प्रयोगसम्भवात् मुख्यभोजनप्रतीत्यर्थं मुखेन अन्नमत्ति इत्युक्तम् । ततश्च अन्नादनस्य मुखमात्रसाध्यत्वात् मुखेन इत्यस्य वैयर्थ्यं न चोदनीयम् । देवानपिगच्छति ऊर्जमुपजीवतीति प्रतीकधारणम् । तत् तात्पर्यकथनेन व्याचष्टे – प्रशंसा इति । ऊर्जं अन्नम्। निरतिशयभोग्यं परमात्मानम् इत्यर्थः । प्रशंसा – प्रशंसारूपफलश्रुतिरिति यावत् । अत्र प्रशंसा – इत्येतत् ब्राह्मणवाक्यं सोऽन्नमत्ति इत्यादि मन्त्रखण्डत्यस्यापि तात्पर्यकथनरूपम् । अत्र प्रतीकेन इति पदस्य ब्याख्येयत्वात् सोऽन्नमत्तीति खण्डः पृथग्गृहीतः । तत्र सप्तान्नस्रष्टृत्वादि-पूर्वोक्तगुणविशिष्टब्रह्मोपासकस्य सोऽन्नमत्तीति प्रथमखण्डेन ऐहिकातन्नभोक्तृत्वम्: स देवान् इति द्वितीयखण्डेन सर्वदेवतासायुज्यरूपमामुष्मिकं फलम् : स ऊर्जमिति तृतीयखण्डेन, अहमन्नमन्नमदन्तमद्मि इत्यादिषु परब्रह्मवाचकतया प्रतिपन्नस्य अन्नशब्दस्य पर्यायभूत ऊर्जशब्दः परब्रह्मवाचक इति तदुपजीवनरूपब्रह्मानुभवः मोक्षाख्यं फलमुच्यत इति विवेको द्रष्टव्यः ।। २ ॥

[आत्मार्थकॢप्तमनोवाक्प्राणात्मकान्नत्रयविवेचनम्]

त्रीण्यात्मनेऽकुरुतेति । मनो वाचं प्राणम् । तान्यात्मनेऽकुरुत । अन्यत्रमना अभूवम्, नादर्शम् ; अन्यत्रमना अभूवम् ; नाश्रौषमिति । मनसा ह्येव पश्यति, मनसा शृणोति । कामस्सङ्कल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्हीर्धीर्भिरित्येतत् सर्वं मन एव । तस्मादपि पृष्ठत उपस्पृष्टो मनसा विजानाति । य:कश्च शब्दो वागेव सा । एषा ह्यन्तमायत्ताः एषा हि न । प्राणोऽपानो व्यान उदानः समानोऽन इत्येतत् सर्वं प्राण एव । एतन्मयो वा अयमात्मा; वाङ्मयो मनोमयः प्राणमयः ।। ३ ।।

प्र. – त्रीण्यात्मनेऽकुरुतेति व्याख्येयग्रहणम् । तव्द्याचष्टे – मनो वाचं प्राणं तान्यात्मनेऽकुरुत इति । पूर्वोक्तः पिता सर्वेश्वरः मनोवाक्प्राणरूपाणि त्रीण्यन्नानि आत्मने – सर्वस्मै जीववर्गाय अकुरुत कृतवान् इत्यर्थः । उक्तं च व्यासार्यै: ज्योतिरधिकरणे सप्तान्नब्राह्मणव्याख्यानदशायाम् परमात्मनः सङ्कल्पात् जीवानाम् उपजीव्यत्वेन अन्नशब्दवाच्यानां सप्तानाम् उत्पत्तिमुक्त्वा, तत्र प्रसिद्धान्नम् , दर्शपूर्णमासौ, पयश्च इत्यन्नचतुष्टयस्य मानुषदेवतिर्यक्षु विनियोगमुक्त्वा त्रीण्यात्मनेऽकुरुत इत्यवशिष्टान्नत्रयस्य सर्वविधप्रवृत्तिहेतुत्वात् सामान्येन ‘सर्वभोक्तृवर्गशेषम् अकरोत् इत्युक्त्वेति उक्तम् । मनोवाक्प्राणानां ‘सर्वजीव साधारणोपकारकत्वं क्रमेणाह – अन्यत्रमना अभूवं नादर्शमन्यत्रमना अभूवं नाश्रौषमिति इति अत्र लोकः प्रत्येतीति शेषः ।

अन्यत्र मनो यस्य सः अन्यत्रमनाः । मनसः व्यासङ्गदशायाम् इन्द्रियसम्बन्धेऽप्यर्थे विषयानुभवाभावः अनन्तरास्मरणलिङ्गेन अनुभूयत’ इति भावः । ततः किमित्यत्राह –मनसा ह्येष पश्यति मनसा शृणोति इति । मनसः यस्मात् व्यासङ्गदशायां दर्शनश्रवणा-भावः, तस्मात् दर्शनश्रवणे मनःकरणके इति भावः । अत्यल्पमिदम् उच्यते दर्शनश्रवणे मनःकरणके इति, कामादिकमपि मनःकरणकमित्याह – कामस्सङ्कल्पो विचिकित्सा इत्यादिना । कामः – विषयाभिलाषः, सङ्कल्पः – व्यवसायः, विचिकित्सा – सन्देहः, श्रद्धा – कर्मसु आस्तिक्यबुद्धिः, अश्रद्धा – तद्विपरीत बुद्धिः, धृतिः – प्रीतिः, अधृतिः -अप्रीतिः, हीःलज्जा: धीः – प्रमाणजन्यज्ञान मात्रम्, भी: – आगामिदुःखशाङ्का एतत्सर्वं मनः – ‘मनःकरणकमेवेति फलितार्थः’ । कार्यकरणोपचारात् कामादीनां मन एव प्रधानं साधनमित्युक्तम् । मनसः ज्ञानकरणत्वे हेत्वन्तरमाह – तस्मादपि पृष्ठतः उपस्पृष्टी मनसा विजानाति इति तस्मात् – मनसः ज्ञानकरणत्वेन सर्वजीवोपकरणत्वादेव पृष्ठतः – रूपग्रहणयोग्य चक्षुरगोचरेऽपि प्रदेशे वृश्चिकादिना उपस्पृष्टः मनसा विजानाति . वृश्चिकादीन् अनुमिनोति । अन्यथा तत्र वृश्चिकादिज्ञानं न स्यात् । तस्मादपि हेतो: मन एव ज्ञानकरणमिति भावः ।।

एवं मनसः आत्मभोगार्थत्वमुक्त्वा वाचस्तदाह – यः कश्च शब्दो वागेव सा इति । परेषां स्वाभिमतार्थज्ञापनाय प्रयुज्यमानः यः कश्च – सर्वोऽपि शब्दः बागेव .वागिन्द्रियाधीनोच्चारणकर्म इत्यर्थः । ततश्च शब्दाभिवदनमेव जीवानां वागिन्द्रिय-साध्योपकार’ इति भावः । अत्र सा इति स्रोलिङ्गनिर्देशो विधेयाभिधायि वाक्छब्दाभि-प्रायेण । कार्यकरणोपचारनिर्देशश्च पूर्ववदेव द्रष्टव्यः । अत एव पूर्ववाक्ये कामादीनां मन:परिणामरूपत्व वादश्च परास्तः । तथासति वैरूप्यप्रसङ्गात् इत्यलमनेन । एषा ह्यन्तमायत्तेति एषा – वाक् सर्वस्यान्तं ‘सर्वपदार्थानाम् इयत्ताम्’ आयत्ता – प्राप्ता । *सर्वेषामियत्तां प्रकाशयितुं शक्नोति इत्यर्थः । एषा हि न इति । एषा हि वाक् स्वयं नान्तमायत्ता – ‘अन्यैरपरिच्छिन्ना’ इत्यर्थः । वाक् स्वयमन्यापरिच्छेद्या सती इतरषां तु परिच्छेदिका इत्यर्थः ।

क्रमप्राप्तं प्राणस्य आत्मोपकारकत्वप्रकारमाह – प्राणोऽपानोव्यान उदानसमानोऽन इत्येतत् सर्वं प्राण एव इति । प्राण एव प्राणनापानन व्यानन उदनन समननाख्य व्यापारः प्राणापानव्यानोदानसमाननामकस्सन् तद्वृत्तिद्वारा ‘उपकारकः’, अन इति ‘सामान्य-नामकश्चेति यावत् । सूत्रितञ्च – पञ्चवृत्तिर्मनोवव्द्यापदिश्यते (ब्र.सू.२-४-११) इति ।

इत्थं हि तदधिकरणम् – मुख्यः प्राणः किं वायुमात्रम् , उत तदीयस्पन्दनक्रिया, उत वायुरेव कञ्चिदवस्थाविशेषम् आपन्न इति विशये, यः प्राणः स वायुः इति श्रुतेः वायुमात्र प्राणः । अथवा उच्चासनिश्वासात्मकवायुक्रियायां प्राणशब्दप्रसिद्धेः क्रिया वा स्यात् इति पूर्वपक्षे प्राप्ते न वायुक्रिये पृथगुपदेशात् (ब्र.सू.२-४-८) । एतस्मात् जायते प्राणो मनस्सर्वेन्द्रियाणि च । खं वायुज्योतिरापः इति वाय्वपेक्षया पृथगेव द्रव्योत्पत्ति-प्रकरणे व्यपदेशात् न वायुमात्रं तत्क्रिया वा प्राणः । ‘तर्हि किमग्निवद्भूतान्तरम्? नेत्याह चक्षुरादिवत्तु तत्सहशिष्टयादिभ्यः (ब्र.सू.२-४-९) चक्षुरादिवत् अयं जीवोपकरणविशेषः ।

न तत्त्वान्तरम् । प्राणसंवादादिषु चक्षुरादिभिस्सह प्राणस्य शासनं श्रूयमाणं हि तत्साम्यमव-गमयति । तथा मुख्यः प्राण इत्यादि व्यपदेशोऽपि प्राणशब्दितचक्षुरादिसाजात्यमेवावगयति इत्यर्थः । ननु प्राणस्यापि जीवोपकरणत्वे तद्वदुपकारकक्रिया वक्तव्या । तदभावात् नोपकरणत्वमित्यत्राह – अकरणत्वाच्च दोषस्तथा हि दर्शयति (ब्र.सू.२-४-१०) । करणं क्रिया । उपकारकक्रियाराहित्यात् यो दोषः स न संभवति । शरीरधारण लक्षणोपकारकक्रियां हि श्रुतिरेव दर्शयति । अहमेवैतत् पञ्चधाऽऽत्मानं विभज्यैतद्वाणमवष्टभ्य विधारयामि (प्र.उ.२-३) इति, प्राणेन रक्षन्नपरं कुलायम् (बृ.उ.२-३-१२) इति च । नन्वेवं नामभेदाच्च कार्यभेदाच्च प्राणापानादयः तत्त्वान्तरं स्युः । नेत्युच्यते, पञ्चवृत्तिः मनोवद्यपदिश्यते । यथा कामस्संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा इत्यादिवचनात् मन एव कार्यभेदात् यथा’ कामादिशब्दै: व्यपदिश्यते । कामात्यः न मनसः तत्त्वान्तरम् । एवं प्राणोऽपानोव्यान उदानस्समान इत्येतत्सर्वं प्राण एवेति वचने प्राणस्य एकस्यैव कार्यभेदात् प्राणापानव्यानोदानादित्ववचनात् न तत्त्वान्तरं प्राणापानादयः इति सिद्धान्तितम् । अत्र न च धर्मभूतज्ञानावस्थाविशेषाः कामादयः मनस्तत्त्वान्तरमेवेति कथं कामादीनां तत्त्वान्तरत्वनिषेध इति वाच्यम् । कामादिरूपज्ञानपरिणाम हेतुत्वावस्थस्य मनस एव कामादि शब्दैः अभिधानात्’ । न तत्त्वान्तरम्, कामस्सङ्कल्प इत्यादिवाक्ये कामादि-शब्दितमिति व्यासार्यैरुक्तत्वात् । प्रकृतमनुसरामः । एतन्मयो वा अयमात्मा इति । वैशब्दः प्रसिद्धी । अयमात्मा जीवः । एतन्मय इत्यस्य अर्थमाह – वाङ्मयो मनोमयः प्राणमय इति । प्राचुर्ये मयट् । मनोवाक्प्राणप्रचुरः । तत्कृतोपकारप्रचुर’ इति यावत् ।। ३ ।।

 

[वाङ्मनःप्राणानां स्तुतिः]

 

त्रयो लोका एत एव बागेवायं लोको मनोऽन्तरिक्षलोक: प्राणोऽसौ लोकः ।। ।।

प्र-वाङ्मनःप्राणान् सर्वात्मकत्वेन स्तौति – त्रयो लोका एत एव इत्यादिना । त्रयो लोका इत्यस्य एतच्छब्दस्य च अर्थं स्वयमेव विभज्याह – वागेवार्यं लोकः इत्यादिना । अयं लोकः – पृथिवीलोक इत्यर्थः । अन्तरिक्षलोकः – भुवर्लोक इत्यर्थः । असौ लोकः – तदूर्ध्वलोकः इत्यर्थः ।। ४ ।।

त्रयो वेदा एत एव वागेवर्ग्वेदो मनो यजुर्वेदः प्राण: सामवेदः

 

देवाः पितरो मनुष्या एत एव वागेव देवा मनः पितरः प्राणो मनुष्या: ।।।।

प्र-त्रयो वेदा एत एव इत्यादि । स्पष्टार्थम् ।। ५-६ ।।

पिता माता प्रजैत एव मन एव पिता, वाङ्माता प्राणः प्रजा ।।।।

प्र-पिता माता प्रजैत एव इत्यादि । प्रजाः पुत्र इत्यर्थः ।। ७ ।।

[वाङ्मनःप्राणानां विज्ञातादिरूपत्वम् ]

विज्ञातं विजिज्ञास्यमविज्ञातमेत एव । यत्किञ्च विज्ञातं वाचस्तद्रूपम् । वाग्धि विज्ञाता । वागेवैनं तद्भूत्वाऽवति ।। ८ ।।

प्र. – विज्ञातं विजिज्ञास्यमविज्ञातमेतम् एवेति प्रतिज्ञातं वाङ्मनःप्राणानां विज्ञातादिरूपत्वं क्रमेण उपपादयति खण्डत्रयेण । तत्र प्रथमं वाचः विज्ञातरूपत्वम् उपपादयति – यत्किञ्चविज्ञातंवाचस्तद्रूपम् इति । यत् वाग्व्यवहारात् विज्ञातं भवति, तत्सर्वं वाचो रूपमित्यर्थः । तदेव प्रसिद्ध्या दर्शयति – वाग्धि विज्ञाता इति विज्ञाताः वाचा विज्ञायमानास्सर्वेऽपि वागेव हि । तदधीनप्रकाशत्वात् सैव इत्यर्थः ततश्च किमित्यत्राह – वागेवैनं तद्भूत्वाऽवति इति । तत् – वाचा विज्ञायमानं पदार्थजातं एनं – विज्ञातारं यत् अवति – रक्षति । उपकरोति यदिति यावत् । ‘तद्विज्ञायमानं वागेव भूत्वा’ अवति । वाचा विज्ञायमानेन पदार्थेन य ‘उपकारो भवति’; स सर्वोऽपि वागधीन एव । तस्माद्वाच आत्मोपकारकत्वं सिद्धमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।। ८ ॥

यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपं मनो हि विजिज्ञास्यम् मन एव एनं तत्भूत्वाऽवति

प्र. – यत्किञ्च विजिज्ञास्यं, मनसस्तद्रूपम् इति विजिज्ञास्यं – विचिन्तनीय-मित्यर्थः । यत् चिन्तितं देवादिकमुपकरोति । तद्भूत्वा मन एव उपकरोति । चिन्तितै: देवादिभिः आत्मने क्रियमाण उपकारः तच्चिन्तनकरणभूतमनःप्रयुक्त एवेति भावः ॥९॥

यत्किञ्चाविज्ञातं प्राणस्य तद्रूपं प्राणो हि अविज्ञातः प्राण एनं तद्भूत्वाऽवति ।। १०

प्र यत्किञ्चाविज्ञातं इति । प्राणो हि अविज्ञातः हि – यस्मात् ‘प्राण इन्द्रियागोचरः तस्मात् सः अविज्ञातः । अतः प्राणस्य अविज्ञातत्वात् अविज्ञातमात्मोप-कारकं सर्वं वस्तु प्राण एवेति भावः । प्राण एनं तद्भूत्वाऽवति इति । पूर्वसुकृतवशात् अचिन्तितं यदुपकरोति, तद्भूत्वा प्राण एव उपकरोतीत्यर्थः । प्राणवति हि जीवे अद्ययादिवश अचिन्तितं वस्तु उपकरोति । अतः तदुपकारः प्राणप्रयुक्त इति भावः ।। १० ।।

[वागधिष्ठातृप्रदर्शनम्]

तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः तद्यावत्येव वाक् तावती, पृथिवी तावानयमग्निः ।।११।।

प्र. – एवं प्रशस्य त्रयाणामाधारा’नधिष्ठातृृंश्च दर्शयति – तस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निः इति । तस्यै – तस्याः, विभक्तिव्यत्ययश्छान्दसः । तस्य वागिन्द्रियस्य पृथिवी शरीरम् – आयतनम् । ‘कण्ठादिस्थानाष्टकगोळस्थं पार्थिवांशमाश्रित्य वागिन्द्रियं तिष्ठति इत्यर्थः । ज्योतीरूपं – ज्योतिर्मयमधिष्ठातृदेवतास्वरूपम् अयमग्निः इत्यर्थः । तद्यावत्येव वाक् तावती पृथिवी तावानयमग्निः इति । तत् – एवं पृथिव्यग्नयोः ‘वागिन्द्रियं प्रति’ आधारत्वात् अधिष्ठातृत्वाच्च यावती वाक्यत्र यत्र वागिन्द्रियं वर्तते, तावती पृथिवी – तत्र तत्र तदधिष्ठानतया पृथिव्यप्यस्ति । तावानयमग्निः तदधिष्ठातृतया अग्निरप्यस्ति इत्यर्थः ।। ११ ।।

[मनोऽधिष्ठातृप्रदर्शनम्]

 

अथैतस्य मनसः द्यौः शरीरं ज्योतीरूपमसावादित्यः तद्यावदेव मनस्तावतीद्यौस्तावानसौ आदित्यः तौ मिथुनँ समैताम् ततः प्राणोऽजायत इन्द्रः ।  एषोऽसपत्नः द्वितीयो वै सपत्नः नास्य सपत्नो भवति, एवं वेद ।। १२ ।।

प्रअथैतस्य मनसो द्यैश्शरीरम् इति । इह घुशब्दः आकाशपरः, न तु लोकविशेषपरः, अनुपपत्तेः । न हि स्वर्गलोक एव मनसोऽधिष्ठानम्। अन्येषाममनस्कत्व-प्रसङ्गात् । धुशब्दो हि लोकविशेष इव नभो मात्रे च वर्तते । सुरलोको द्योदिवौ वे स्त्रियाम् (अ.को.१-१-६) इतिवत्; द्यो दिवौ द्वे स्त्रियामभ्रं व्योमपुष्करमम्बरम् (अ.को.१-२-१) इति च ‘त्रिकाण्डोक्तेः । तत्रापि सामर्थ्यात् हृदयाकाशे पर्यवस्यति । हृदयच्छिद्ररूपाकाश आयतनमित्यर्थः । ज्योतीरूपमसावादित्यः तद्यावदेवमनस्तावती द्यौस्तावानसावादित्य इत्यस्य पूर्ववदर्थः । अत्र मनस आदित्याधिष्ठानकत्वमपि श्रुतिप्रामाण्यात् अभ्युपगन्तव्यमिति द्रष्टव्यम् । तौ मिथुनं समैताम् तौ – अग्न्यादित्यौ मिथुनं समैतां – मिथुनोभावम् अगच्छताम् । ततः प्राणो अजायतेति । अस्यायमभिप्रायः – आदित्याधिष्ठेयमनःपूर्विका अग्न्यधधिष्ठेय वाक् प्रवृत्तिः । तदुभयपूर्विका पञ्चवृत्तिप्राणाधीना शरीरप्रवृत्तिरिति । स इन्द्रस्स एषोऽसपत्नः इति । सः प्राण: इन्द्रः – परमेश्वर्यशाली इत्यर्थः ।

इन्द्रियान्तरापेक्षया प्राणस्य ईश्वरत्वादिति भावः । एषः -प्राण: असपत्न इत्यर्थ:। प्राणस्य असपत्नत्वं चक्षुरादिषु स्वसदृशप्रतिस्पर्धिरहितत्वम् । सपत्नशब्दार्थकथनेन श्रुति तदेव विवृणोति – द्वितीयो वै सपत्नः इति । एवं मनोवाक्प्रवृत्तिपूर्वकशरीरप्रवृत्तिहेतोः प्राणस्य इन्द्रत्वासपत्नगुणवेदिनः फलमाह – नास्य सपत्नो भवति, एवं वेद इति । स्पष्टोऽर्थः ।। १२ ।।

 

[प्राणाधिष्ठातृप्रदर्शनम्]

 

अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्रः तद्यावानेव प्राणस्तावत्य आपस्तावानसौ चन्द्रः ।  एते सर्व एव समास्सर्वेऽनन्ताः यो हैतानन्तवतं उपास्ते, अन्तवन्तँ  लोकं जयति अथ यो हैताननन्तानुपास्ते अनन्तँ लोकं जयति ।। १३ ।।

प्र अथैतस्य प्राणस्यापश्शरीरं इति । प्राणा वा आपः (तै.आर.६.२२) इति हि श्रुतिः । पानीयं प्राणिनां प्राणा विश्वमेव च तन्मयम् इत्यायुर्वेदविदः । अतः प्राणस्य आप एव आयतनम् । आधार इत्यर्थः । चन्द्रो ज्योतीरूपमधिष्ठाता प्राणस्य । अतो यत्र प्राणः, तत्र तदधिष्ठानमापः । अधिष्ठाता चन्द्रश्चास्तीत्यर्थः । एते सर्व एव समास्सर्वेऽनन्ता इति । एते – वाङ्मनःप्राणाः सर्व एव समाः । हस्तिमशकादीनां ‘सर्वेषां शरीरेषु समाः । यथा दीपप्रभा घटगृहप्रासादादिविषमपरिमाणाधारै: असम-परिमाणौ’ तत्तदाधारवशेन सङ्कोचविकासौ याति । तथा प्राणा अपि मशकमातङ्गादि-देहवशेन तत्तद्देहपरिमाणानुगुणसङ्कोचविकासौ यान्ति इत्यतः । प्राणाः सर्वशरीरेषु तत्तच्छरीरपरिमाणत्वेन समा इत्यर्थः । सर्वेऽनन्ताः । ‘आनन्त्यं च वाङ्मनःप्राणानाम्’ आकल्पस्थायित्वात् मनःप्राणवाग्व्यष्टिभेदाच्चेति द्रष्टव्यम् । तस्मात् फलार्थिना आनन्त्येनैव एते मनोवाक्प्राणा उपासनीयाः । अन्तवत्वेन उपासने तु तत्फलप्राप्तिरित्याह – यो हैतानन्तवत उपास्ते इत्यादि । लोकं-कलम् । अन्तवन्तं लोकं जयति– उद्दिष्ट फलपूर्तिनः स्यात् इत्यार्थः । अनन्तं लोकं जयति – उद्दिष्टं फलं पूर्णं प्राप्नोति इत्यर्थ: अत्रानन्तशब्दः चिरकालस्थायित्वाभिप्रायः । प्राणपादे हि सर्व एव समाः सर्वे अनन्ताः इत्यानन्यश्रवणान् प्राणशब्दितानाम् इन्द्रियाणाम् विभुत्वमिति पूर्वपक्षे प्राप्ते – अणवश्य (ब्र.सू.२-४-३) इति सूत्रेण सिद्धान्तितम्। तत्र तमुत्क्रामन्तं प्राणोऽनूत्क्रामति इत्यादिषु उत्क्रान्त्यादिश्रवणात् ‘परिच्छिन्नत्वे सिद्धे उत्क्रान्त्यादौ पार्श्वस्थैरनुपलभ्यमानत्वात् अणवश्य प्राणा भवन्ति । अनन्तानुपास्ते इत्यानन्त्यश्रुतिस्तु दर्शनश्रवणाद्यानन्तकार्यविशिष्टतया तदुपासनाविधिपरेति स्थितम्। प्रकृतमनुसरामः ॥ १३ ॥

[पुरुषस्य षोडशकलचन्द्र साम्यम्]

 

एष संवत्सर: प्रजापतिः षोडशकल: तस्य रात्रय एव पञ्चदशकलाध्रुवैवास्य षोडशी कला रात्रिभिरेव पूर्यतेऽप क्षीयते सोऽमावास्याँ रात्रिमेतया षोडश्या कलया सर्वमिदं प्राणभृदनुप्रविश्य ततः प्रातर्जायते तस्मादेतां रात्रि प्राणभृतः प्राणं विच्छिन्द्यादपि कृकलासस्यै तस्या एव देवताया अपचित्यै १४

प्र.- एष संवत्सरः प्रजापतिः इत्यादि । अत्र स एष इति सौम्यो वै देवतया पुरुषः इति श्रवणात् प्राणाधिदेवताभूतः पूर्वोक्तश्चन्द्रः परामृश्यते । अत एव च स प्रजापतिः इत्युच्यते । चन्द्रमाष्षड्ढो षता स ऋतून् कल्पयति इति प्रकारेण सर्वर्तुप्रवर्तकतया स एव च संवत्सरसंज्ञः । स तु षोडशकलः । तस्य – चन्द्रस्य तत्र पञ्चदशकलाः, रात्रय एव – रात्रि शब्दिताः तिथय एव । कथं पुनः कलानां तिथित्व-मित्यत्राह – रात्रिमभिरेव पूर्यतेऽप क्षीयते इति । रात्र्यधीनोपचयापचयवत्वात् कलानां, कला रात्रय एव इत्युक्तिरौपचारिकी सङ्गच्छत इत्यर्थः । षोडशकलत्वेन उक्तस्य चन्द्रस्य पञ्चदशकलासु रात्र्यधीनोपचयापचयासु कथितासु षोडशीकला कि रूपा इत्यत्राह – ध्रुवैवास्य षोडशीकला इति । षोडश्याः कलायाः नाशाभावात् ध्रुवत्वमिति द्रष्टव्यम् सोऽमावास्यां रात्रिम् इत्यादि । सः – चन्द्रमाः अमवास्यां रात्रिं – अमावास्यायां रात्रौ एतया – ध्रुवत्वेन पूर्वोक्तया षोडश्या कलया सर्वमिदं प्राणभृत् – प्राणिजातमनुप्रविश्य तत: अपरेद्युः प्रातर्जायते इत्यर्थः । तस्मादेतां रात्रिं प्राणभृत इत्यादि । तस्मात् एतां रात्रिं – अमावास्यायां रात्रौ कृकलासस्यापि प्राणिनः प्राणं विच्छिन्द्यात् – न हिंस्यात् । यस्य प्राणिनः हिंसा न निषिद्धा स्वल्पदोषा तादृशस्य ‘प्राणिनोऽपि’ कृकलासस्य प्राणं न हिंस्यात् । कस्य हेतोः? एतस्या एव – चन्द्ररूपाया देवतायाः सर्वप्राणिजातप्रविष्टायाः अपचित्यै – पूजायै पूजासिद्ध्यर्थमित्यर्थः । इतरथा तदपचारस्स्यादिति भावः ।। १४ ॥

 

[षोडशकलचन्द्रविद्याफलम्]

 

यो वै संवत्सरः प्रजापतिः षोडशकलोऽयमेव योऽयमेवंवित् पुरुषः । तस्य वित्तमेव पञ्चदशकला:, आत्मैवास्य षोडशी कला वित्तेनैव च पूर्यतेऽप क्षीयते तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् तस्माद्यद्यपि सर्वज्यानिं जीयते आत्मना चेज्जीवति, प्रधिनाऽगादित्येवाहुः ।। १५ ।।

प्र. – षोडशकलचन्द्रविद्याफलमाह – यो वै संवत्सरः प्रजापतिः इति । अत्रापि संवत्सरप्रजापतिशब्दौ पूर्ववत् चन्द्रपरौ । योऽयमेवंवित् पुरुषः – पूर्वोक्तं संवत्सरत्व प्रजापतित्वादिगुणविशिष्ट चन्द्रवेत्ता सः अयमेव चन्द्र एव भवति इत्यर्थः ।कथं चन्द्रो भवति इत्यत्राह – षोडश कल इति । यथा चन्द्रः षोडशकलः, एवं तद्वेत्ता पुरुषोऽपि षोडशकलो भवतीत्यर्थः । पुरुषस्य षोडशकलत्वमेव उपपादयति – तस्य वित्तमेव पञ्चदशकला: आत्मैवास्य षोडशी कला, वित्तेनैव पूर्यतेऽप च क्षीयते इति । उपचयापचयाशालिगवादिवित्तं पञ्चदशकलास्थानीयम् उपचयापचय-शालित्वादेव आत्मा – शरीरं तु ध्रुवकलास्थानीयं वित्तवत् उपचयापचययोः पदे पदे अभावात् । अत: षोडशकलत्वं पुरुषस्य सम्भवतीत्यर्थः । आ च पूर्यते, अप च क्षीयते इत्यत्र व्यवधानं ‘छान्दसम् । आत्मशब्दितस्य शरीरस्योक्तं ध्रुवकलात्वमेवोपपादयति तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तम् इति । आत्मा शरीरं नभ्यं -नााभिमर्हतीति नभ्यम्।

‘नाभे:नभं च (ग.सू.९५) इति नभादेशः । षोडशकलाविशिष्टचन्द्रवत् वित्तविशिष्टः पुरुषश्चक्रतुल्यः। तत्र शरीरं नाभिस्थानीयमिति यावत् । वित्तं तु प्रधिः परिवारभूतमरनेमि स्थानीयमिति द्रष्टव्यम् इत्यर्थः । तदेव उपपादयति – तस्माद्यद्यपि सर्वज्यानिं जीयतेआत्मना चेज्जीवति प्रधिनागादित्येवाहुः इति । ‘सर्वज्यानि . प्रति इति शेषः । ज्या वयो हानौ (धा.पा.१५००) ज्यानिः नाशः सर्वस्वनाशो यथा भवति तथेति यावत् । जीयते – श्यनि गृहिज्ये (पा.सू.६-१-१६) इति सम्प्रसारणम् । नश्यति इत्यर्थः । यस्मात् शरीरवित्ते नाभिप्रधिस्थानीये, तस्मादेव हेतोः पुरुषो यद्यपि सर्वज्मानिं जीमते पुरुषस्य सर्वस्वं नाशो यद्यपि भवति । तथापि आत्मना – शरीरेण चेज्जीवति तदा प्रधिना – प्रधिस्थानीयेन परिवारभूतेन वित्तेन अगात् – गतवान् । विनष्ट इत्येवाहुः शास्रज्ञाः न तु शरीरेण नष्ट इत्याहुः । अतः शरीरस्य ध्रुवकलात्वम् इत्यर्थः । अयमभिप्रायः । कान्तारे सर्वस्वापहरणेऽपि शरीरमात्रं जीवति चेत् सर्वं ‘चित्तमाप्स्यते षोडशकलपुरुष वेदो वित्तस्य चन्द्रकलावत् अपक्षयविनाशस्वभावत्वात् विद्यामहिम्ना स्वयमेव पूर्णं भविष्यतीति विद्वांस आहुरिति । अत एव व्यासार्यै: । तदर्थकथनदशायां तद्वेदनफलं चोक्तम् इत्युक्तम् । अतः अयं सन्दर्भः पूर्वोक्तषोडशकल चन्द्रविद्याफलप्रतिपादनपरो द्रष्टव्यः ॥ १५ ॥

[आत्मन: वित्तविशेषसम्पाद्याः लोकाः]

अथ त्रयो वाव लोका मनुष्यलोकः पितृलोको देवलोक इति सोऽयं मनुष्यलोकः पुत्रेणैव जय्यो नान्येन कर्मणा कर्मणा पितृलोको विद्यया पितृलोकः । देवलोको वै लोकानां श्रेष्ठः तस्माद्विद्यां प्रशंसन्ति ।। १६ ।।

प्र. – मनोवाक्प्राणानां प्रकारान्तरेण आत्मोपकारकत्वं दर्शयितुं पीठिकामारचयति .अथ त्रयो वाव लोका: मनुष्यलोकः पितृलोकः देवलोक इति । अथ इत्युपकार. प्रकारान्तरोपन्नासे वावशब्दोऽवधारणे । स्पष्टोऽर्थः । सोऽयं मनुष्यलोक इति । उक्तेषु त्रिषु लोकेषु अयं मनुष्यलोकःपुत्रेणैव जय्य: – प्राय: । न कर्मादिना इत्यर्थः । नान्येन कर्मणा इत्यत्र अन्येन इत्यस्य कर्मणा इति विवरणम् । कर्मणा इति विद्याया अप्यूपलक्षणं द्रष्टव्यम् । कर्मणा पितृलोको विद्यया देवलोक इति । केवलकर्मणा अन्तरिक्षलोक: प्राप्यो भवति । काम्यविद्याविशेषेण देवलोक प्राप्तिर्भवति इत्यर्थः । देवलोको वै लोकानां श्रेष्ठः तस्माद्विद्यां प्रशंसन्ति इति । अत्र देवलोकशब्दस्य भगवल्लोकपरत्वम्, विद्याशब्दस्य ब्रह्मविद्यापरत्वमपि स्वारसिकं’ द्रष्टव्यम् । यतो विद्याया एवं ‘श्रेष्ठभूतदेवलोक साधनत्वम् । अत: विद्यां, विद्वांसः प्रशंसन्ति – स्तुवन्ति इत्यर्थः ।। १६ ।।

[सम्प्रत्तिकर्म]

अथातः सम्प्रत्तिर्यदा प्रैष्यन् मन्यतेऽथ पुत्रमाह त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति। पुत्रः प्रत्याहअहं ब्रह्माहं यज्ञोऽहं लोक इति यद्वै किञ्चानूक्तं तस्य सर्वस्य ब्रह्मेत्येकता ये वै के यज्ञास्तेषाँ सर्वेषां यज्ञ इत्येकता ये वै के च लोकास्तेषाँ सर्वेषाँ लोक इत्येकता एतावद्वा इदँ सर्वम् एतन्मा सर्वं सन्नयमितोऽभुनजदिति तस्मात् पुत्रमनुशिष्टं लोक्यमाहुः तस्मादेनमनुशासति ।  यदैवंविदस्माल्लोकात् प्रैति, अथैभिरेव प्राणै: सह पुत्रमाविशति स यद्यनेन किञ्चिदक्ष्णयाऽकृतं भवति; तस्मादेनँ सर्वस्मात् पुत्रो मुञ्चति तस्मात् पुत्रो नाम पुत्रेणैवास्मिन् लोके प्रतितिष्ठति ।। अथैनमेते दैवाः प्राणा अमृता आविशन्ति ।। १७ ।।

 

प्र. – मनुष्यलोकस्य पुत्रेण ‘जय्यत्वप्रकारमाह’ – अथात; सम्पत्तिः इत्यादिना । सम्पत्तिः – सम्प्रदानम् । सम्प्रत्तिरिति वक्ष्यमाणस्य कर्मणः नामधेयम् । ‘पुत्रे हि’ स्वात्मव्यापारसम्प्रदानं करोति अनेन प्रकारेण पिता । तेन सम्प्रत्तिसंज्ञकमिदं कर्म । तत् कस्मिन् काले कर्तव्यमित्यत्राह – यदा प्रैष्यन् मन्यते । स पिता यदा – यस्मिन्काले प्रैष्यन् मन्यते – अरिष्टदर्शनेन मरिष्यामि इति मन्यते । अथ तदा पुत्रमाह – पुत्रमाहूय आह इत्यर्थः । किमिति? त्वं ब्रह्म त्वं यज्ञः त्वं लोक इति । सः पुत्रः प्रत्याह पितुरुक्तामुक्तिं प्रत्युत्तरयति । किमिति? अहं ब्रह्माऽहं यज्ञोऽहं लोक इति । अस्यार्थं श्रुतिरेव व्याचष्टे । तत्रत्वं ब्रह्मेति पितुः प्रथमवाक्यस्यार्थमाह – यद्वै किञ्च अनूक्तं तस्य सर्वस्य ब्रह्मेत्येकता इति । यत्किञ्चानूक्तं – अधीतमनधीतञ्च । तस्य सर्वस्यैव ब्रह्म इत्येतस्मिन् पदे एकता – एकत्वम् इत्यर्थः । योऽध्ययनव्यापारो मे कर्तव्य आसीत् एतावन्तं काल वेदविषयः । सः ब्रह्मशब्दार्थभूतः, इत ऊर्ध्वं त्वं – त्वमेव । त्वत्कर्तृकोऽस्तु इत्यर्थः । ते सर्वे त्वं यज्ञ इति पितुर्वाक्यं व्याचष्टे – ये वै के यज्ञास्तेषां सर्वेषां यज्ञ इत्येकतेति ये यज्ञाः ‘मया अनुष्ठिता’ अननुष्ठिताश्च । ते सर्वे त्वं यज्ञ इत्यत्र यज्ञ-शब्दस्यार्थः । ततश्च यो यज्ञादिव्यापारो मया अननुष्ठित एतावन्तं कालं, मे कर्तव्यः, स यज्ञशब्दार्थस्सर्वोऽपि त्वमेव – त्वदधीनोऽस्तु इति यावत् । अथ त्वं लोक इति तृतीयपितृवाक्यस्यार्थमाह – ये वै के लोकास्तेषां सर्वेषां लोक इत्यैकतेति । ये के लोकाः – जिता अजिताश्च लोकशब्दार्थः । ततश्च ये लोका मया एतावन्तं कालमजिता: जेतव्याश्च, लोकशब्दार्थभूताः ते सर्वे त्वमेव त्वया साध्या इति त्वं लोक इत्यस्यार्थः इति भावः । अतः अहं ब्रह्म इत्यादि पुत्रवाक्यानामपि एवमेव पित्रुक्तवाक्यत्रयार्थाभ्युपगमोऽर्थ इति च भावः । अथैवं पुत्रं प्रतिवक्तुः पितुस्तात्पर्यम् आह श्रुतिः एतावद्वा इदं सर्वमेतन्मा सर्वं सन्नयमितोऽभुनजत् इति । लोके गृहिणां कर्तव्यं सर्वमिदं – वेदयज्ञलोकात्मकम् एतावद्वौ – एतावदेव । एतत्सर्वं वेदयज्ञलोकात्मकम् अयं पुत्रस्स्वयमेव भूत्वा स्वासम्पादितवेदयज्ञलोकच्छिद्रपूरको भूत्वेति यावत् । इमं भारं स्वात्मनि निधाय इतः – अस्माल्लोकात् मामां अभुनजत् -पालयिष्यति इत्यभिप्रायवान् पिता पुत्रायान्तकाले एवं ब्रवीति इति शेषः । ‘लृडर्थे लङ् इति: मन्त्रव्याख्यासमाप्तौ । तस्मात्पुत्रमनुशिष्टं लोक्यमाहुः इति । तस्मात् – एवं त्वं ब्रह्मेत्यादि मन्त्रेण उक्तत्वात् एवं पित्रा अनुशिष्टं पुत्रं लोक्यं – लोकसाधनमाहुः । तस्मात्तथा तस्य पुत्रस्य लोक्यत्वसिद्धिहेतोः, लोक्यत्वसिद्ध्यर्थमिति यावत् । एनं – पुत्रम् अनुशासति पितर इति शेषः । एवमनुशासनस्य फलमाह – यर्दैवित् अस्माल्लोकात् प्रैति इत्यादि । एवंवित् – एवं पुत्रानुशासनं कृतवान् सः – पिता यदा अस्मात् लोकात् प्रैति -परलोकं गछति । अथ तदा एभिरेव – स्वीयैः प्राणै: वाङ्मन: प्रभृतिभिः पुत्रमाविशति पुत्रो भूत्वा यज्ञादिकमयमेव करोति । एवम् अनुशिष्टेन पुत्रेण कृर्तं सर्व पुण्यं कर्म परलोकगतस्य पितुः स्वानुष्ठितसुकृतवत् उपकारकं भवति इत्यर्थः । किञ्च यद्यनेन किञ्चिदक्ष्णया कृतं भवति तस्मादेनं सर्वस्मात् पुत्रो मुञ्चति इति । सः-एवमनुशिष्ट: पुत्रः, यदि – कदाचित् अनेन – पित्रा किञ्चित्कर्तव्यम् अक्ष्णया – कोणच्छिद्रतः अन्तरा अकृतं – न कृतं भवति । तस्मात् – कर्तव्यरूपात् पित्रा अकृतात् लोकप्राप्तिप्रतिबन्धरूपात् ‘सर्वस्मात् पुत्रः मुञ्चति – मोचयति । पित्रा यद्यन्नकृतं तत्तत्सर्वं स्वयमनुतिष्ठन् पितुर्न्यूनतां पूरयित्वा तेन पूरणेन त्रायते इति भावः । तस्मात्पुत्रो नामेति । एवमनुशिष्टः पुत्रोऽपि पूर्वोक्तरीत्या पूरणेन पितुस्राणात् पुत्रो नाम भवति इत्यर्थः। ततश्च एवमनुशासनग्रहणं तथानुष्ठानं च पुत्रस्य, न केवलं पितुरेव उपकारकं, किन्तु पुत्रस्यापि । अन्यथा हि तस्य पुत्रत्वसिद्धिरेव न स्यादिति भावः । उपपादितं पुत्रेण मनुष्यलोकजयप्रकारं निगमयति  पुत्रेणैव अस्मिल्लोके प्रतितिष्ठति इति । सःपिता एवंविधेन’ पुत्रेण मृतोऽपि सन्, अमृतः अस्मिन्नेव लोके ‘प्रतितिष्ठति । एवमसौ पिता पुत्रेण मनुष्यलोकं जयति इति भावः ।

एवं पूर्वप्रतिज्ञातार्थेषु पुत्रेण पितुः मनुष्यलोकजयप्रकारमुक्त्वा अवशिष्टम्, कर्मणा पितृलोको विद्यया देवलोकः इत्युक्तमर्थमुपपादयितुं प्रस्तौति । अथैनमेते देवाः प्राणा अमृता आविशन्ति इति । अथ एनं – एवं पुत्रे निक्षिप्त भारं परलोकगतं ‘पुण्यविद्या-कर्माणं’ पुरुषम् अमृताः – अमोघाः, तत्र हेतुः दैवा: – मानुषेन्द्रियविलक्षणाः प्राणशब्दवाच्या मन आदय: आविशन्ति इत्यर्थः ।। १७ ।।

[सम्प्रत्तिकर्मणः फलम्]

पृथिव्यै चैनमग्नेश्च दैवी वागाविशति सा वै देवी वाक्, यया यद्यदेव वदति तत्तद्भवति ।। १८ ।।

प्र – तदेव प्रपञ्चयति – पृथिव्यै चैनमग्नेश्च दैवी वागाविशति । पृथिव्यै चेति चतुर्थी पञ्चम्यर्था । ‘अग्ने’रित्यन्तरदर्शनात् । पृथिव्याश्च अग्नेश्च दैवी वाक् एनं -परलोकगतं पुरुषमाविशति इत्यर्थः । एतस्यै वाचः पृथिवी शरीरं ज्योतीरूपमयमग्निरिति प्रागुक्तेः वाचः पृथिव्यायतनकत्वात् अग्नयधिष्ठितत्वाच्च । ताभ्यां हेतुभ्यां दैवी वाग् आविशति इति भावः । दैव्या वाचः लक्षणमाह – सा वै दैवी वाग्यया यद्यदेव वदति तत्तद्भवति इति । यया वाचा यद्यद्वदत्यनुकूलं प्रतिकूलं वा तत्तद्भवत्येव चेन्नियमेन सा दैवी वाक् – शापानुग्रहादिसमर्था वाक् दैवीत्यर्थः ।। १८ ।।

दिवश्चैनमादित्यच्च दैवं मन आविशति तद्वै दैवं मनो येनानन्द्येव भवत्यथो  शोचति ।। १९ ।।

प्र.- दिवश्चैनमादित्याच्च दैवं मन आविशति इति । अर्थतस्य मनसो द्यौश्शरीरं ज्योतीरूपमसावादित्य इति पूर्वमुक्तत्वात् मनसः अधिष्ठानभूताया दिवः . आकाशात्, अधिष्ठातुः आदित्याच्च हेतोः एनं – परलोकिनं पुण्यकर्माणं दैवं मन आविशति इत्यर्थः । देवमनसोः लक्षणमाह – तद्वै दैवं मनो येनाऽऽनन्येव भवत्यथो शोचति इति । येन मनसा पुरुषः सदा सुखीभवति, न च शोकं प्राप्नोति; तद्दैवं मनः अमोघसङ्कल्पम् आनन्दैककारणं मनो दैवं मन इत्यर्थः ।। १९ ।।

अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति वै देवः प्राणो यः सञ्चरश्चासञ्चरंश्च व्यथतेऽथो रिष्यति ।  एवंवित्सर्वेषां भूतानामात्मा भवति यथैषा देवतैवं यथैतां देवतां सर्वाणि भूतानि अवन्त्येवं हैवंविदं सर्वाणि भूतानि अवन्ति यदु किञ्जेमाः प्रजाः शोचन्त्यमैवासां तद्भवति पुण्यमेव अमुं गच्छति वै देवान् पापं गच्छति ।। २० ।।

 

प्र.- अभ्द्यश्चैनं चन्द्रमसश्च दैवः प्राण आविशति इति । अथैतस्य प्राणस्यापश्शरीरं ज्योतीरूपमसौ चन्द्र इति पूर्वम् उक्तत्वात्, अधिष्ठानभूताभ्योऽभ्द्य: अधिष्ठातुः चन्द्राच्च हेतोः एनं – परलोकिनं दैवः प्राण आविशति इत्यर्थः । तस्य लक्षणमाह – वै देवः प्राणो यः सञ्चरंश्चासञ्चरंश्च व्यथतेऽथो रिष्यति इति । अत्र असञ्चरन् इति दृष्टान्तार्थम् । यथा – असञ्चरन् व्यथते – न श्रान्तो भवति । तथा सञ्चरन्नपि यो न व्यथते, अथो – अपि च रिष्यति – रिङ्क्षये न नश्यति, वै – स एव दैवः प्राण इत्यर्थः । अप्रतिहतगमनादिव्यापारहेतुः हिंसानर्हः प्राणो दैवः प्राण इति भावः । ‘पृथिव्यग्निव्द्यादित्याप्चन्द्ररूपदेवताप्रसादादेवास्य मनोवाक्प्राणाः एवं विधा भवन्ति इत्यर्थः ।

एवं जीवोपकरणानां तेषां मनोवाक्प्राणानां परलोके आत्मोपकारकत्व-शक्तयतिशयमुक्त्वा’ एवंविदः फलमाह – एवंवित्सर्वेषां भूतानामात्मा भवति, यथैषा देवतैवम् इति । यथा एषा पूर्वोक्ता वागिन्द्रियादिदेवता सर्वेषां भूतानामात्मा भवति । अत्र वाङ्मनःप्राणदेवतानां सर्वभूतात्मवत्वं नाम सर्वभूतान्तर्वर्तिज्ञानतत्प्रेरणसामर्थ्यम् । एवं सः अयमपि भवति, य एवं वित् । प्राणादीनां परलोके आत्मोपकारकत्वशक्त्यतिशयं जानन् सर्वभूतात्मा भवति इत्यर्थः । अत्र एषा देवता इति जातावेकवचनम्, पृथिव्यग्नयादित्यानां बहुत्वात् इति द्रष्टव्यम् । यथैतां देवतां सर्वाणि भूतानि अवन्ति इति । यथा – स दृष्टान्तो यथा, एवमेव इदमित्यर्थः । तदेव विवृणोति – एताम् इत्यादिना । एताम् – वागादिदेवतां यथा सर्वेपि जन्तवः अवन्ति – अव रक्षणगति कान्त्यादिषु (धा.पा.६००) पूजयन्ति इत्यर्थः । एवं विदं – पूर्वोक्तवागाद्युपकारविशेषविदमप्येवमेव सर्वाणि भूतानि पूजयन्ति इत्यर्थः । ननु एवं विदः सर्वभूतप्रेरकत्वे तानि तानि भूतानि तत्तत्पापकर्मसु प्रेरयत: तस्य तत्पापं प्रसज्येत इत्याशङ्क्याह – यदु किञ्चेमाः प्रजाः शोचन्त्यमैवासां तद्भवति इति । यदु – यस्माद्वागादिदेवतोपासकप्रेरणप्रयुक्तादेव पापाद्धेतोः इमाः प्रजाः किञ्च – किञ्चन शोचन्ति तत् – प्रजाशोकनिमित्तं पापं आसां प्रजानामेव भवति ।

अमा-सह, सद्य इत्यर्थः । अमा सह समीपे च (अ.को.३-३-२५०) इति नैघण्टुकाः । नत्वेवंविदः प्रेरयितुरपि तत्पापं भवति इत्यर्थः । तत्र हेतुमाह – पुण्यमेवामुं गच्छति इति । यस्मात् अमुं – उपासकं पूर्वोक्तगुणविशिष्टवागाद्युपासनप्रयुक्तं पुण्यमेव गच्छतिप्राप्तम् , तेन च पुण्येनायं पूर्वोक्तवागादिदेवतासायुज्यं प्राप्तः, अतः तद्देवतावदेव अस्यापि न पापसम्बन्धगन्ध इत्यर्थः । दार्ष्टान्तिके उक्तार्थसिद्ध्यर्थं दृष्टान्तं शिक्षयति वै देवान् पापं गच्छति इति । तत्तत्पापकर्मसु प्रवर्तकानामपि इन्द्रियाधिष्ठातृदेवतानां’ यथा तत्पापं न प्राप्नोति – तादृशो महिमा हि तेषाम् । अतः तद्वदेव तद्विदोऽपि तत्सायुज्यं प्राप्तस्य न सर्वभूतप्रेरणकृतपापप्रसक्तिरिति भावः ।। २० ।।

[मुख्यप्राणस्य श्रेष्ठत्वप्नदर्शनम्]

 

अथातो व्रतमीमाँसाप्रजापतिर्ह कर्माणि ससृजे तानि सृष्टान्यन्योन्येनास्पर्धन्त वदिष्याम्येवाहमिति वाग्दध्ने द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रम् एवमन्यानि कर्माणि यथाकर्म तानि मृत्युश्श्रमो भूत्वोपयेमे । तान्यानोत् तान्याप्त्वा मृत्युरवारुन्धत् तस्माच्छ्राम्यत्येव वाक्, श्राम्यति चक्षुःश्राम्यति श्रोत्रम् अथेममेव नाप्नोत्, योऽयं मध्यमः प्राणः तानि ज्ञातुं दध्निरे अयं वै नः श्रेष्ठो यः सञ्चरँश्चासञ्चरँश्च व्यथते, अथो रिष्यति हन्तास्यैव सर्वे रूपमसामेति एतस्यैव सर्वे रूपमभवन् तस्मादेत एतेनाख्यायन्ते प्राणा इति । तेन वाव तत्कुलमाचक्षते यस्मिन् कुले भवति, एवँ वेद; उ हैवंविदा स्पर्धते, अनुशुष्य हैवान्ततो म्रियते इत्यध्यात्मम् ।। २१ ।।

प्र. -‘एवमत्र’ वाङ्मनःप्राणानां साधारण्येन उपास्यत्वमुक्तम् । तत्र प्राणस्य श्रैष्ट्यनिर्धारणाय आरभते – अथातो व्रतमीमांसा इति । अथ – अनन्तरम् अत: – एतावत्पर्यन्तं सामान्येन वाङ्मनःप्राणानाँ त्रयाणामप्युपासनस्य उक्तत्वात् व्रतस्य-उपासनात्मकव्रतस्य मीमांसा – विचारः । प्रवर्तत इति शेषः । एतेषां प्रयाणां मध्ये किं विषयकमुपासनं मुख्यतया कर्तव्यमिति विचार्यत इति यावत् । प्रजापतिर्ह कर्माणि ससृजे इति । हः – प्रसिद्धौ । प्रजापतिः – चतुर्मुखः, प्रजापतिशब्दमुख्यार्थः सर्वेश्वरो वा चतुर्मुखद्वारा कर्माणि – कर्मज्ञानेन्द्रियाणि व्यष्टिरूपाणि ससृजे – सृष्टवान् इत्यर्थ: तानि सृष्टान्यन्योन्येनास्पर्धन्त । एवं सृष्टानि तानि – इन्द्रियाणि परस्परं स्वस्व व्यापाराधिक्याभिमानेन स्पर्धां कृतवन्ति इत्यर्थः । कथं? वदिष्याम्येवाहमिति वाग् दध्रे इति । ‘धृङ् अवस्थाने (धा.पा.४१३) इति हि धातुः । अहमेव वदिष्यामि, नान्य: कश्चिन्मत्तः वक्तुं समर्थ इति वाक् दध्रे – अभिमन्यमाना स्थितवती इत्यर्थः । द्रक्ष्याम्यहमितिचक्षुः इत्यादि । स्पष्टोऽर्थः । एवमन्यानि कर्माणि यथाकर्म इति । एवं अहमेव स्प्रक्ष्यामि, अहमेव गृह्णामि इत्यादि प्रकारेण अन्यान्यपि कर्माणि . इन्द्रियाणि यथाकर्म – यथा स्वविषयमभिमन्यमानानि’ अवस्थितवन्ति इत्यर्थः ।तानि मृत्युः श्रमो भूत्वोपयेमे इति । तानि – एवं दुरभिमानेनाविरतं स्वस्वव्यापारेषु वर्तमानानि वाक् चक्षुरादीनि मृत्युः – व्यापारनिरोधको देवताविशेषः श्रमोभूत्वा । ग्लानिरूपस्सन् उपयेमे – समीपं प्राप्त इत्यर्थः । तान्याप्नोत् – श्रमरूपो मृत्युः तानि – इन्द्रियाणि आप्नोत् – प्राप्तवान् । तान्याप्त्वा मृत्युरवारुन्धत् तानि – इन्द्रियाणि आप्त्वा प्राप्य अवारुन्धत् – अवरोधं कृतवान् । कार्यासमर्थानि अकरोत् इत्यर्थः । अत्र उपयेमे आप्नोत्, अवारुन्धत् इति क्रमोक्तिः, श्रमस्य क्रमाभिवृद्ध्या कार्या सामर्थ्यप्रयोजकता-भिप्रायेणेति द्रष्टव्यम् । अत्र प्रत्यक्षं प्रमाणयति – तस्मात् श्राम्यत्येव इत्यादिना । श्राम्यति श्रमं प्राप्नोति इत्यर्थः । निरन्तरव्यापारे वागादीनां श्रमप्राप्तिः अद्यापि दृश्यमानापूर्वमप्येवमेव समभवत् इत्यर्थे ज्ञापिका इत्यर्थः ।

वागाधुक्तिः सर्वेन्द्रियोपलक्षणार्था । अथ विवक्षितं मुख्यप्राणस्य श्रेष्ठ्यं वक्तुं तस्य इन्द्रियेभ्यः वैलक्षण्यमाह – अथेममेव नाप्नोद्योऽयं मध्यमः प्राण इति । योऽयं प्रसिद्धः मध्यमः – देहमध्ये ‘वर्तमानः प्राणः, तमेव’, निरन्तरमुच्छ्वासादिव्यापारे वर्तमानमपि वागादीनिव श्रमो नाप्नोत् इत्यर्थः । अद्यापि हि प्राणस्य उच्छ्वासादौ श्रमाभावो दृश्यते अत एवेति भावः । तानि ज्ञातुं दध्रिरे तानि – ‘श्रान्तानि वागादीनीन्द्रियाणि’, अस्माकं निरन्तरं व्यापारं कुर्वतां मध्ये यं श्रमरूपो मृत्युः न प्राप्तः, स श्रेष्ठो भविष्यति । अतः अस्मासु श्रमरहितः कः श्रेष्ठः इति ज्ञातुं दध्रिरे – निश्चयेन ‘प्रवृत्तानि’ इत्यर्थः । धृङ् अवस्थाने (धा.पा. ६००) इति हि धातुः । अयं वै नः श्रेष्ठो इत्यादि । एवं ज्ञातुं प्रवृत्तानि इन्द्रियाणि अस्माकं निरन्तरव्यापारेऽप्यश्रमं मुख्यप्राणं दृष्ट्वा इति चिश्चितवन्तः । किमिति ?

अयं वै– अयमेव मुख्य:प्राण: : – अस्माकं प्राणानां मध्ये श्रेष्ठः । यतोऽयं सञ्चरन्नपि असञ्चरन्निव न व्यथते – न श्रमं प्राप्नोति । अत्र असञ्चरन्निति दृष्टान्तार्थम् । अथो शब्दः अप्यर्थः । रिष्यति न हिंस्यतेऽपि । ‘रुष रिष हिंसायाम् (धा.पा. ६९३, ६९४) इति हि धातुः । हन्त इत्यनुरूपप्रधानलाभजे हर्षे । तस्मादयमेव अस्माकं श्रेष्ठ इति हेतोरस्यैव मुख्यप्राणस्य सर्वे वयं वागादयो रूपमसाम – तदैधीनप्रवृत्तयो भवेम इति – इत्येवं निश्चित्य ते सर्वे वागादयः एतस्यैव – मुख्यप्राणस्य रूपमभवन् तदधीनवृत्तयोऽभवन् इत्यर्थः ।।

अत एव त इन्द्रियाणि (ब्र.सू.२-४-१५) इत्यधिकरणे सर्वेन्द्रियाणां मुख्यप्राणाधीनवृत्तित्वेन वृत्तिवैलक्षण्यात् न मुख्यप्राणस्य इन्द्रियान्तर्भाव इत्युक्तम् । तथा हि तत्र किं सर्वे प्राणशब्दनिर्दिष्टा इन्द्रियाणि उत मुख्यप्राणव्यतिरिक्ता एवेति विशये जीवोपकरणत्वाविशेषात्, प्राणशब्दवाच्यत्वाविशेषाच्च मुख्यप्राणाश्च इन्द्रियाणि इति पूर्वपक्षे प्राप्ते – त इन्द्रियाणि तद्व्यपदेशादन्यत्र श्रेष्ठात् (ब्र.सू.२-४-१५), भेदश्रुतेर्वैलक्षण्याच्च (ब्र.सू.२-४-१६) इति सूत्रद्वयेन सिद्धान्तितम् । अयमर्थः – त एव वागादय इन्द्रियाणि न तु श्रेष्ठप्राणः । ततः श्रेष्ठ प्राणादन्यत्रैव – इतरेष्वेव, इन्द्रियाणि दशैकञ्च (भ.गी.१३-५) इति इन्द्रियत्वव्यपदेशात् । किञ्च भेदश्रुतेः – एतस्माज्जायते प्राणो मनस्सर्वेन्द्रियाणि च (मुं.उ.२-१-३) इति प्राणापेक्षया इन्द्रियाणां भेदव्यपदेशात् न श्रेष्ठः प्राण इन्द्रियम् । न च तत्रैव मनस्सर्वेन्द्रियाणि च, इति मनसोऽपि भेदव्यपदेशात् इन्द्रियत्वाभावः शक्यशङ्कः । मनष्षष्ठानीन्द्रियाणि (भ.गी.१५-७) इन्द्रियाणि दशैकं च (भ.गी.१३-५) इत्यादिनां मनसः इन्द्रियान्तर्भावग्राहकप्रमाणानां परोक्तरीत्या गामग्निं ब्राह्मणञ्चैव त्रीणि तेजांसि न स्पृशेत्’ इत्यत्र अतेजोभ्यां गोब्राह्मणाभ्यां तेजस्सङ्ख्यापूरणवत्; वेदानध्यापयामास महाभारतपञ्चमान् (महा.भा.आदि.५७-७४) इत्यादौ अवेदेन भारतेन वेदसङ्ख्या पूरणवच्च अनिन्द्रियेण मनसा इन्द्रियसङ्ख्यापूरकतया अन्यथासिद्धत्वेऽपि इन्द्रियाणां मनश्चास्मि (भ.गी.१०-२२) इत्यनन्यथासिद्धप्रमाणसद्भावेन मनस इन्द्रियत्वध्रौव्यात्; मुख्यप्राणे इन्द्रियत्वग्राहक प्रमाणाभावाञ्च अत: प्राणो मनस्सर्वेन्द्रियाणि (मुं.उ. २-१-३) इति श्रुतौ प्राणे .गोबलीवर्दन्यायावतारः। । मनसि तु तदवतारोऽस्त्येवेति द्रष्टव्यम् । वैलक्षण्याच्च ।

एतस्यैव सर्वे रूपमभवन् इति ‘चक्षुरादीना तदधीनप्रवृत्तित्वलक्षणकार्य’वैलक्षण्यदर्शनाञ्च इन्द्रियेभ्यो भिन्न एव प्राण इति । प्रकृतमनुसरामः । तस्मादेते एतेनाख्यायन्ते प्राणा इति इति । यस्मात्कारणात् वागाद्याः प्राणस्यैव रूपमभवन् , तस्मात् एते – वागादयः एतेन – प्राणनाम्नैव प्राणा इत्येव उच्यन्ते । अतो मनोवागाद्यपेक्षया प्राणस्यैव श्रैष्ठ्यमिति स एव मुख्यतया उपास्य इति भावः। एवमध्यात्मोपास्यविषयमीमासां परिसमाप्योपासकस्य फलमाह – तेन वाव तत्कुलमाचक्षते यस्मिन् कुले भवति एवं वेद इति । यः एवं – पूर्वोक्तप्रकारेण ‘मुख्यप्राणं वेद, यस्मिन् कुले भवति – जायते तत् कुलं तन्नाम्नैव – प्रसिद्धमाचक्षते’; यथा रघुकुलं यदुकुलमिति । कुलश्रेष्ठो भवतीति यावत् । हैवं विदा स्पर्धते, अनुशुष्य हैवान्ततो म्रियते इति । उ शब्दोऽधारणे । ह शब्दः प्रसिद्धौ । य: पुमान् एवंविदा ‘उक्तगुणविशिष्टप्राणविदा साकं स्पर्धते, सः अनुशुष्यैव – शुष्को भूत्वा अन्ततः .बहुकालेन म्रियते, चिरकालं रोगादिशुष्कशरीरो म्रियते – न सहसा इत्यर्थः । – प्रसिद्ध प्राणोपासनमाहात्म्यमित्यर्थः । इत्यध्यात्मम् – ‘प्राणोपासनप्रकार उक्त इति शेषः ।। २१ ।।

[देवताविषयक उपासनाप्रकारः, वायोः श्रेष्ठत्वकथनम्]

 

अथाधिदैवतम्ज्वलिष्याम्येवाहमित्यग्निर्दघ्रे, तप्स्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः एवमन्या देवता यथादैवतम् यथैषां प्राणानां मध्यम प्राणः, एवमेतासां देवतानां वायुः म्लोचन्ति ह्यन्या देवताः, वायुः । सैषानस्तमिता देवता यद्वायुः ।। २२ ।।

 

प्र. – अथाधिदैवतम् उपासनाप्रकार उच्यते इति शेषः । ज्वलिष्याम्येवाहमित्यग्निर्दध्रे । अहमेव ज्वलिष्यामि; मत्समः कोऽपिज्वलनव्यापारे नास्तीति अग्निःदध्रे – धृतवान् ; चिश्चित्य निरन्तरज्वलनपरो बभूव इत्यर्थः । तस्याम्यहमित्यादित्यो भास्याम्यहमिति चन्द्रमाः इति । स्पष्टोऽर्थः । एवमन्या देवता यथादैवतम् इति । एवमेव अन्याः – श्रोत्राद्यभिमानिन्यः दिगादिदेवताः यथादैवतम् – तत्तद्देवतावृत्तिमनतिक्रम्य अभि’मेनिरे’; तथा निरन्तरं स्वस्वव्यापारपराश्चाश्चाभूवन् इत्यर्थः । यथैषां– यथा अध्यात्मम् इतरेषां ‘वागादि प्राणानां’ मध्ये हृदयमध्यवर्ती सः – पूर्वोक्तमुख्यप्राणः श्रेष्ठः एवमधिदैवतम् इतरासाम् अग्निसूर्यादिदेवतानां मध्ये वायुः ‘श्रेष्ठः इत्यर्थः । तत्र हेतुमाह – म्लोचन्ति ह्यन्या देवताः वायुरिति । इतरा अग्निसूर्याद्याः देवताः म्लोचन्ति अस्तं गच्छन्ति; न वायुः । तस्य अहोरात्रमेकरूपत्वादिति भावः । सैषानस्तमित इति ।

यद्वायुः – यदितिलिङ्गव्यत्ययः छान्दसः । यो वायुरित्युच्यते, सैषानस्तमिता देवता । तस्मादधिदैवतं वायुरेव श्रेष्ठत्वेन निर्धारित: पूर्ववदग्निसूर्यादिभिः देवतैः । अत: प्राधान्येन स एव उपास्य इति भावः ।। २२ ।।

[प्राणनापाननविधानम्]

 

अथैष श्लोको भवति

यतश्चोदेति सूर्योस्तं यत्र गच्छतीति

प्राणाद्वा एव उदेति प्राणेऽस्तमेति

तं देवाश्चक्रिरे धर्म एवाद्य श्व इति

यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति

तस्मात् एकमेव व्रतमाचरेत्प्राण्यावाच्चैवापान्याच्य, नेन्मा पाप्मा मृत्युराप्नुवदिति यद्यु चरेत् समापिपयिषेत्

तेनो एतस्यै देवतायै सायुज्यँ सलोकतां जयति ।। २३ ।।

।। इति तृतीयोध्याये पञ्चम ब्राह्मणम् ।।

प्र. – उक्तार्थे साक्षितया मन्त्रं पठितुमाह – अथैष श्लोको भवति इति । प्रकृतविषये अयं श्लोकः ‘संवादको भवतीत्यर्थः । यतश्चोदेति सूर्योऽस्तं यत्र च गच्छति इत्यमुं पठितं श्लोकार्धं स्वयमेव व्याचष्टे श्रुतिः, प्राणाद्वा एष उदेति प्राणेऽसमेति इति । अत्र प्राणशब्दार्थो वायुः । वायुप्रेरणाधीनत्वात् आदित्यादिगतेः अग्न्यादित्यादेरुदयास्तमयौ वाय्वाधीनौ इत्यतो वायोरेव भवतः इति भावः । श्लोकस्य उत्तरार्धमाह – तं देवाश्चक्रिरे धर्म श्व इति इति । तं – प्राणमेव देवाः – अध्यात्मं वागादयः, अधिदैवतम् अग्न्यादित्यादयश्च धर्मं चक्रिरे – प्राणोपासनमेवः श्रेयस्साधनमिति निश्चितवन्तः । अतः स एव धर्मः अद्याप्यनुष्ठेयः, श्वोऽप्यनुष्ठेयः इति । अमुमेवमन्त्रोत्तरार्धस्य अर्थं स्वयं संक्षिप्याह श्रुतिः – यद्वा एतेऽमुर्ह्यघ्रियन्त तदेवाप्यद्य कुर्वन्ति इति । वै शब्दोऽवधारणे यत् – यस्मात्कारणात् एते वागाद्याः देवाः अमुर्हि – अमुष्मिन् काले मुख्यप्राणम् अघ्रियन्त – उपास्यत्वेन अवधृतवन्तः, तस्मादद्यापि तदेव कुर्वन्ति – मुख्यप्राणोपासनमेव अनुतिष्ठन्ति इत्यर्थः ।

एवं श्रुतिः मीमांसां परिसमाप्य तत्र निश्चितमर्थमाह – तस्मादेकमेवव्रतं चरेत् इति।तस्मात्-उक्तहेतुभि: एकं व्रतं -मुख्यप्राणोपासनमेव चरेत् -आचरेत् अनुतिष्ठेत् इत्यर्थः । एवं मुख्यप्राणोपासनप्रकारं विधाय, अथ तत्प्रकारकमाह . प्राण्याच्चैवापान्याच्च, नेन्मा पाप्मा मृत्युराप्नुवदिति इति । उक्तप्राणोपासनारम्य-समये प्राण्यादपान्याच्चैव – प्राणनापानने – रेचकपूरके उपासनाङ्गतया कुर्यात् ।

किमर्थम्? मां – माम् इच्छब्दोऽवधारणे पाप्मा पापरूपः श्रमरूपो मृत्युः नाप्नुवत् -शत्रन्तोयं शब्दः, मा नावाप्नुयात् इति बुद्ध्या इत्यर्थः । अन्यथा प्राणनापाननाकरणे श्रमेण व्यापारावरोधः स्यादिति भावः । किञ्च यद्यु चरेत् समापिपयिषेत् । यदीदं प्रथममुपक्रमेत् तर्हि समापिपयिषेत् समापनं कर्तुमिच्छेत् – समापनं कुर्यादेव मध्ये विच्छेदं न कुर्यात् इत्यर्थः । एवं साङ्गमुपासनमुक्त्वाऽथ तत्फलमाह – तेनो एतस्यै देवतायै सायुज्यं सलोकतां जयति इति । उ शब्दोऽवधारणे । एतस्यै देवतायै इति विभक्तिव्यत्ययश्छान्दसः । एतस्या देवताया इत्यर्थः । तेन – अनुष्ठितेन ‘प्राणोपासनेन एतस्याः प्राणदेवताया ‘एव सायुज्यं समानगुणयोगं सालोक्यञ्च प्राप्नोति इत्यर्थः ।। २३ ।।

।। इति तृतीयाध्याय पञ्चमब्राह्मण प्रकाशिका ।।

तृतीयाध्याये षष्ठं ब्राह्मणम्

 

[आत्मनः नामरूपकर्मत्रयात्मत्वम्]

 

त्रयं वा इदं नाम रूपं कर्म तेषां नाम्नाम् वागित्येतदेषामुक्थम् ।अतो हि सर्वाणि नामान्युत्तिष्ठन्ति एतदेषाँ साम ; एतद्धि सर्वैर्नामभिस्समम् । एतदेषां ब्रह्म एतद्धि सर्वाणि नामानि बिभर्ति ।। १ ।।

प्रत्रयं वा इदं नामरूपं कर्म इति । चेतनाचेतनात्मके जगति इदं -.परिदृश्यमानम् अचेतनात्मकं जगत् त्रयमेव । किं तत्? नामरूपं कर्मेति । अत्र कर्म . जीवीयपुण्यपापात्मकम् अचेतनस्य नामरूपात्मकपरिणामे कारणम् । तत्कार्य देवमनुष्यादिनामरूपात्मकं जगत् – एतत्त्रितयरूपमेव इत्यर्थः । तेषां – नामरूपकर्मणां मध्ये एषां नाम्नां देवो मनुष्या घटः पट इत्यादीनां वागिति शब्दनिर्दिष्टमेतत् – ‘वागिन्द्रियात्मकं वस्तु उक्थं – ‘उत्पादनमित्यर्थः । तदेव प्रदर्शयति – अतो हि सर्वाणि नामान्युत्तिष्ठन्ति इति । वागिन्द्रियाधीनत्वात् सर्वेषां नाम्नाम् अभिलापस्य अत: – वागिन्द्रियादेव सर्वाणि नामानि अनुतिष्ठन्ति – जायन्ते इति हि – प्रसिद्धमित्यर्थः । कथमेकेन वागिन्द्रियेण अनन्तानाम् अभिलाप इत्यत्राह – एतदेषां साम इति । वागित्येतत् एषां – सर्वेषां नाम्नां साम इत्यर्थः । तत्र सामपदार्थं विवृण्वन् एतदुपपादयति – एतद्धि सर्वेर्नामभिस्समम् इति । कार्यानुरूपत्वात् कारणस्य सर्वैर्नामभिः समं – सर्वनामानुरूपमेव वागिन्द्रियम् इत्यर्थः । समत्वमेव सामत्वमिति भावः । एतदेषां ब्रह्म इति । वागित्येतदेषां नाम्नां ब्रह्म इत्यर्थः । ‘ब्रह्मशब्दार्थविवरणेन एतदुपपादयति’ – एतद्धि सर्वाणि नामानिबिभर्ति इति । भर्तृत्वमेव बृहत्वरूपं ब्रह्मत्वम् । अतः एतत् – वागिन्द्रियं सर्वाणि नामानि बिभर्तीति भर्तृत्वात् वागिन्द्रियस्य नामानि प्रति ब्रह्मत्वमिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् ।। १ ।।

अथ रूपाणां चक्षुरित्येतदेषामुक्थमतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति । एतदेषाँ सामः एतद्धि सर्वैरूपै: समम् एतदेषां ब्रह्म। एतद्धि सर्वाणि रूपाणि बिभर्ति

प्रअथरूपाणां चक्षुरित्येतदेषामुक्थम् इति । पूर्ववदर्थः । अतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति इति । रूपज्ञानस्य चक्षुः उत्थितत्वात् रूपस्य चक्षुरुत्थितत्व. व्यवहार औपचारिकः । एतदेषां सामैतद्धि सर्वरूपैस्समम् इति । सर्वरूपज्ञान-जनकत्वाञ्चक्षुषः कारणस्य कार्यसमत्वोक्तिः । एतदेषां ब्रह्मतद्धि सर्वाणि रूपाणि बिभर्ति इति । चक्षुषो ‘रूपज्ञानभर्तृत्वाद्रूपभरणं’ तज्ज्ञानद्वारा द्रष्टव्यम् ।। २ ।।

अथ कर्मणाम् – आत्मेत्येतदेषामुक्थम्। अतो हि सर्वाणि कर्माण्यु-त्तिष्ठन्ति । एतदेषाँ साम; एतद्धि सर्वेः कर्मभिस्समम् । एतदेषां ब्रह्म; एतनि सर्वाणि कर्माणि बिभर्ति । तदेत् त्रयँ सदेकमयमात्मा आत्मो एकस्सन्नेतत्रयम् तदेतदमृतँ सत्येन च्छन्नम् प्राणो वा अमृतम्, नामरूपे सत्यम् ताभ्यामयंप्राणश्छन्न: ।। ।।

प्रअथ कर्मणाम् इत्यादि । अत्र कर्मशब्दः पुण्यपापात्मककर्मपर इति पूर्वमुक्तम् । आत्मशब्दो जीवपरः । आत्मन एव पुण्यपापानि जायन्ते । स च सर्वपुण्यपापाकर्तृत्वानुरूपः, सर्वपुण्यपापानां भर्ता चेत्यर्थः । ‘पदानामर्थः स्पष्टः । तदेतत्त्रयं सदेकमयमात्मा इति । एवं नामरूपकर्मात्मकस्य अचेतनस्य चेतनभूतात् प्रत्यगात्मनः जीवात् अत्यन्तवैलक्षण्येऽपि नामरूपकर्मलक्षणं तदेतत्त्रियम् एकं सदयमात्मा नामरूपकर्माण्यात्मना अगृहीतविवेकानि पामराणामेकमिव भवन्ति इत्यर्थः । तदेतत् द्रढयति – आत्मो एकस्सन्नेतत्त्रयम् इति । विवेकिनां त्रयमेतत् अविवेकिनामेक आत्मैव इत्यर्थः । उ शब्दोऽवधारणे । अविवेकिभिः आत्मा पृथक् कुतो न ज्ञायत इत्यत्राह तदेतदमृतं सत्येन च्छन्नम् । तदेतद्वाक्यम् अमृतसत्यशब्दविवरणपूर्वकं श्रुति: ‘स्वयमेव व्याचष्टे’ – प्राणो वा अमृतं नामरूपे सत्यम् ताभ्यामयं प्राणश्छन्नः इति । अत्र प्राणशब्दो ‘बद्धजीवपरः प्राणो वा आशाया भूयान् (छां.उ.७-१५-१) इत्यादौ प्राणशब्दस्य ‘बद्धजीवे प्रयोगात् । सत्यं – ‘पुण्यपापकर्मफलम्’ इत्यर्थः । ऋतं पिबन्तौ (क.उ. ३-१) इत्यादी सत्यापरपर्यायस्य ऋतशब्दस्य कर्मफले प्रयोगदर्शनात् । कर्मफलं हि अवश्यंभावितया सत्यं भवितुमर्हति । तथा च पूर्ववाक्ये अमृतमित्युक्तः प्राण: – जीवात्मा । सत्यशब्दोक्ते च नामरूपे, ताभ्यां – नामरूपाभ्यामयं प्राणशब्दितः प्रत्यगात्मा छन्नः । अत: पामरैः न ज्ञायते विविच्येति पूर्ववाक्यार्थः; ततश्च कर्मफल भूताभ्यां नामरूपाभ्यां ‘सपिण्डितोयं स्वयम् अमृतःअपहतपाप्मत्वादिमानेव आत्मा व्याधकुलसंवर्धित राजकुमारवत् “ताभ्यां प्रच्छन्नो भवति, नामरूपाभ्याम् अगृहीतविवेको ‘भवतीति पूर्ववाक्यफलितार्थ इत्यर्थः ।

केचित्तु – प्राणशब्दविवृतोऽयममृतशब्दः निरुपाधिकामृतप्राणशब्दवाच्य परमात्मपरः । तथा च स एव नामरूपात्मक जगतोऽन्तर्यामी सन् जीवकर्मफलतया स्वसृष्टाभ्यां ताभ्यां स्वयमेव विशिष्टो भवति इति वाक्यार्थः । ततश्च तद्धेदं तर्ह्यव्याकृतमासीत्तन्नामरूपाभ्यां व्याक्रियत (बृ.उ.१-४-७) इत्यादौ प्रपञ्चितस्य परमात्मन एव सर्वनामरूपभाक्त्वत्व-मित्यस्यार्थस्य निगमनपरोऽयं ताभ्यामयं प्राणश्छन्न इत्यन्तसन्दर्भ इत्यपि वदन्ति ।। ३ ।।

।। इति तृतीयाध्याये षष्ठब्राह्मण प्रकाशिका ।।

 

।। इति तृतीयोऽध्यायः

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.