श्री:
बृहदारण्यकोपनिषत्
अथ पञ्चमोऽध्यायः
। प्रथमं ब्राह्मणम् ।
[अश्वलब्राह्मणम्]
जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे । तत्र ह कुरुपाञ्चालानां ब्राह्मणा अभिसमेता बभूवुः । तस्य ह जनकस्य वैदैहस्य विजिज्ञासा बभूव, क:स्विदेषां ब्राह्मणानामनूचानतम इति । स ह गवाँ सहस्रमवरुरोध । दश दश पादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः ।। १ ।।
प्र. – अथ मधुकाण्डसिद्धमेव सर्वान्तर्यामित्वं मुखान्तरेण अस्मिन्नध्याये दृढी- क्रियते । तत्र पुष्कलधनदानं बहुविद्वत्समवायश्च विद्यार्जनोपाय इति प्रदर्शनाय आख्यायिका आरभ्यते – जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे इत्यादि । ह इति वृत्तार्थस्मरणे । वैदेहः–विदेहदेशाधिपतिः जनकः बहुदक्षिणेन यज्ञेन ईजे–इष्टवान् । ईजे-असंयोगाल्लिट् कित् (पा.सू.१-२-५) इति ‘कित्त्वात्’ सम्प्रसारणम् । तत्र ह – – –बभूवुः । तत्र – तस्मिन् यज्ञे ह बहुदक्षिणतया प्रसिद्धे विद्वद्भूयिष्ठकुरुपाञ्चालदेशेभ्यः ब्राह्मणा: अभिसमेताः–समागता: । एवं बहुषु ब्राह्मणेषु आगतेषु तस्य ह जनकस्य वैदेहस्य प्रसिद्धं यष्टुं प्रवृत्तस्य विजिज्ञासा – विचारः बभूव । किमिति? कःस्विदेषां ब्राह्मणानामनूचानतम इति । एषाम् – आगतानां ब्राह्मणानां मध्ये स्वित् इति वितर्के । कःस्वित् – को वा अनूचानतमः अतिशयेन ब्रह्मविद्यानुवचनकुशलः । इति जिज्ञासा ‘बभूव इति’ पूर्वत्रान्वयः । स ह गवां सहस्रमवरुरोध । सः – जनकः तज्जिज्ञासया ह प्रसिद्धं यथा तथा स्वगोष्ठे’ गवां सहस्रम् अवरुरोध – यूथीचकार । किश्च – दशदश बभूवुः । पादः– पलस्य चतुर्थाँशः । पादस्तुरीयो भागस्स्यात् (अ.को.२-९-८९) इत्युक्तेः । सुवर्णस्य दशदशपादाः सार्धपलद्वयमिति यावत् । प्रत्येकमेकैकस्या गोः श्रृङ्गयोर्निबद्धा बभूवुरित्यर्थः ।। १ ।।
[यजे जनकन गोसहस्रपणकथनम् , याज्ञवल्क्येन यागस्वीकरणम्]
तान् । होवाच, ब्राह्मणा भगवन्तो यो वो ब्रह्मिष्ठः स एता गा उदजतामिति । ते ह ब्राह्मणा न दधृषुः । अथ ह याज्ञवल्क्यः स्वमेव ब्रह्मचारिणमुवाचैता; सोप्योदज सापश्रवा ३ इति । ता ‘होदकालयत्‘ । ते ह ब्राह्मणाश्चुक्रुधु:, कथं नो ब्रह्मिष्ठो ब्रवीतेति । अथ ह जनकस्य वैदेहस्य होताऽश्वलो बभूव – सहैनं पप्रच्छ, त्वं नु खलु नो याज्ञवल्क्य ब्रह्मिष्ठोऽसी ३ इति । स होवाच नमो वयं ब्रह्मिष्ठाय कुर्मो गोकामा एव वयँ स्म इति । तै ह तत एव प्रष्टुं दध्रे होताऽश्वलः ।। २ ।।
प्र– तान् हेवाच । स जनक एवं ब्रह्मिष्ठतमतया निर्धारितया देया इति ता गा: सदक्षिणाकाः निरुध्य तमर्थं ह-प्रसिद्धं तान् -ब्राह्मणान् प्रत्युवाच । किमिति। ब्राह्मणाः– – – उदजतामिति । हे भगवन्तः – पूजावन्तः। हे ब्राह्मणाः वः -भवतां मध्ये यो ब्रह्मिष्ठः – अतिशयेन यो ब्रह्मवित्, स एता: गा: उदजतां – स्वगृहं प्रति कालयतु– नयतु इत्युवाच इत्यन्वयः । अज गतिक्षेपणयोः (धा.पा.३२०) इति हि धातुः । ते ह ब्राह्मणा न दधृषु: – एवं वदत्यपि जनके ते ब्राह्मणा न दधृषु: – न धृष्टा बभूवु: । आधृषाद्वा (ग.सू.२०२) इति णिजभावे रूपम् । तेषु – ब्राह्मणेषु बहुषु मध्ये न कोऽपि ता गाः नेतुं दध्रे । ह इत्याश्चर्ये । अथ ह – – –उवाच ।अथ एवमधृष्टान् तान् दृष्ट्वापि याज्ञवल्क्यः स्वमेव ब्रह्मचारिणं स्वशिष्यमित्थमुवाचैव इत्यर्थः । हेत्याश्चर्ये किमिति? एता: सोम्योदज सामश्रवा३ इति । साम शृणोतीति सामश्रवाः । हे सोम्य!। सोमार्ह ! हे सामश्रवः ! एताः गाः अस्मद्गृहान् प्रति उदज – कालय इति स्वशिष्यमुवाच इत्यर्थः । ता होदकालयत् । स सामश्रवाः ताः तद्गृहान् अनयत् इत्यर्थः । उदाचकारेति पाठेऽपि स एवार्थः । ते ह – – – – ब्रवीतेति । याज्ञवल्क्येन ब्रह्मिष्ठपणस्वीकरणेन आत्मनो ब्रह्मिष्ठता प्रतिज्ञातेति सर्वे क्रुद्धा बभूवुः । कथं नः – अस्मान् अनादृत्य अहं ब्रह्मिष्ठः इति वदेदयं याज्ञवल्क्य इति चुक्रुशुश्च इत्यर्थः । चुक्रुशुरिति पाठेऽपि उक्त एवार्थ: । अथ ह – – – – बभूव इति । अथ – तदा विदेहराजस्य जनकस्य होता ऋत्विगश्चलो नामा आसीत् इत्यर्थः । स हैनं– – – इति । न:– समवेतानां बहूनां अस्माकं मध्ये हे याज्ञवल्क्य! त्वमेव खलु प्रसिद्धं ब्रह्मिष्ठोऽसीति अश्वलनामा स होता ‘पप्रच्छ इत्यर्थः’ । असी३ इति भर्त्सने प्लुतिः । नुश्वधारणे । स होवाच इति। स:– याज्ञवल्क्यः तमश्वलं ह प्रसिद्धं प्रत्युवाच इत्यर्थः । किमिति इत्यत्राह – नमो वयं – – – स्म इति । वयं ब्रह्मिष्ठाय नमः कुर्मः । नास्माभिः ब्रह्मिष्ठत्वाभिमानात् गावो नीताः किन्तु गोकामा वयम् इत्यतो गोकामनयैव नीता इति सोपहासमुक्तवान् इत्यर्थः । तं ह – – – अश्वल इति । एवमुपहसितो होता अश्वल: तत एव सोपहासवचनादेव क्रुद्धस्सन् तं – याज्ञवल्क्यं पराजेतुं प्रश्न ‘प्रष्टुमवस्थितो’ बभूव इत्यर्थः । धृङ् • अवस्थाने (छा.पा.१४१३) इति हि धातुः ।। २ ।।
अश्वलस्य प्रथमः प्रश्न:
[कर्ममृत्युना अतिमुक्तिः]
याज्ञवल्क्येति होवाच, यदिदं सर्वं मृत्युनाप्तं सर्वं मृत्युनाऽभिपन्नम्, केन यजमानो मृत्योराप्तिमतिमुच्यत इति । होत्रर्त्विजाऽग्निना वाचा । वाग्वै यज्ञस्य होता । तद्येयं वाक् सोऽयमग्निः, स होता, स मुक्तिः, साऽतिमुक्तिः ।। ३ ।।
प्र. –याज्ञवल्क्येति होवाच इति । प्रथमं याज्ञवल्क्येति संबोध्य वक्ष्यमाणं प्रश्नमश्वल उवाचेत्यर्थः । तमेव प्रश्नमाह – यदिदं- अभिपन्नम् इत्यादि । यदिदं -प्रत्यक्षादिप्रसिद्धं जगत् चेतनाचेतनात्मक मृत्युना – मृत्युशब्दोपलक्षितेन जन्मजरामरणधर्मेण आप्तं – व्याप्तं, न केवलं व्याप्तम्, किन्तु मृत्युना अभिपन्नं – वशीकृतञ्चेत्येतत्सिद्ध-मित्यर्थः । यद्वा – आप्तम् इत्यस्य विवरणमभिपन्नमिति । इति प्रश्नोपयुक्तं सिद्धमर्थमनूद्य विवक्षितं प्रश्नमाह – केन – – –इति इति । एवं सति यजमान: – ब्रह्मविद्यार्थं कर्म कुर्वन् अधिकारी केनानुष्ठितेन साधनेन मृत्योः आप्तिं – व्याप्तिं ‘संसारबन्धमतिक्रम्य क्षिप्रं विद्यासिद्ध्या मुच्यत इत्यर्थः । तमेतं प्रश्नं याज्ञवल्क्यः प्रतिवक्ति । होत्रर्त्विजाऽग्निना वाचा इति । तदर्थमूढं तमाश्वलं प्रति पुनस्स्वयमेव तदेतद्व्याचष्टे – वाग्वै– – – –सातिमुक्तिः इति । कर्माङ्गभूते होतरि अग्नयभिन्नत्वेन वा अग्नयधिष्ठितत्वेन वा ध्याता या वाचो दृष्टौ कृतायां कर्मणो वीर्यवत्तरतया ब्रह्मोपासनद्वारा जीवद्दशायामेव विश्लिष्टा-श्लिष्टपूर्वोत्तरदुरितभरत्वलक्षणा मुक्तिर्भवति, शरीरवियोगानन्तरं प्रकृत्यतिक्रान्त-पदाधिरोहणलक्षणा अतिमुक्तिर्भवति इत्यर्थः । क्रमादुद्देश्यविधेयाभिप्राय: स मुक्तिस्सातिमुक्तिः इति लिङ्गभेदेनायं निर्देशो दृष्टव्यः । वाग्वै यज्ञस्य होता – यज्ञाङ्गभूत होतरि वाग्दृष्टि कर्तव्या इत्यर्थः । तद्येयं वाक् । या होतर्यध्यस्यमाना चागित्यर्थः । सोऽयमग्निस्य होता । सा वागेवाग्न्यधिष्ठितत्वादिना अग्न्यभेदेन ध्याता होतर्यध्यस्यमाना मुक्त्यादि साधनमित्यर्थः । स मुक्तिस्साऽतिमुक्तिरिति कारणे कार्योपचारः ।। ३ ।।
याज्ञवल्क्येति होवाच, यदिदं सर्वमहोरात्राभ्यामाप्तं सर्वमहोरात्राभ्यामभिपन्नम्, केन यजमानोऽहोरात्रयोराप्तिमति मुच्यते इति । अध्वर्युणर्विजा चक्षुषाऽऽदित्येन । चक्षुर्वे यज्ञस्याध्वर्युः । तद्यदिदं चक्षुः सोऽसावादित्यः, सोऽध्वर्युः, स मुक्तिः, सातिमुक्तिः ।। ४ ।।
प्र– स एव पुन: पृच्छति। याज्ञवल्क्येति होवाच इत्यादिना। अहौरात्रयोरानिर्नाम कतिपयाहोरात्रैर्विनश्वरत्वम् ।उत्तरमाह-अध्वर्युणर्त्विजा इति। आदित्याधिष्टितत्वादिना आदित्याभेदारोपविषयभूतचक्षुर्दृष्टिविषय: कर्माङ्गभूतोऽध्वर्यु: मुक्त्यादिहेतुरित्यर्थ: ।शिष्टं पूर्ववत्।
[तिथ्यादिकालादप्यतिमुक्तिः]
याज्ञवल्क्येति होवाच यदिदं सर्वं पूर्वपक्षापरपक्षाभ्यामाप्तँ सर्वं पूर्वपक्षापरपक्षाभ्यामभिपन्नम्, केन यजमानः पूर्वपक्षापरपक्षयोराप्तिमतिमुच्यत इति । उद्गात्रर्त्विजा वायुना प्राणेन । प्राणो वै यज्ञस्योद्गाता । तद्योऽयं प्राणः स वायुः, स उद्गाता, स मुक्तिः साऽतिमुक्तिः ।। ५ ।।
प्र. – पुनः पृच्छति । याज्ञवल्क्येति होवाच इति । पूर्वपक्षापरपक्षयोराप्तिर्नाम कतिपयपक्षैर्विनश्वरत्वम् । उत्तरमाह – वायुविकारत्वादिना वाय्वभिन्नमुख्यप्राणदृष्टिविषयभूत उद्गाता कर्माङ्गभूतः पूर्ववत् मुक्तयतिमुक्तिहेतुरित्यर्थः । शिष्टं पूर्ववत् ।। ५ ।।
याज्ञवल्क्येति होवाच यदिदमन्तरिक्षमनारम्बणमिव, केनाक्रमेण यजमानः स्वर्गं लोकमाक्रमत इति । ब्रह्मणर्त्विजा मनसा चन्द्रेण । मनो वै यज्ञस्य ब्रह्मा । तद्यदिदं मनः सोऽसौ चन्द्रः, स ब्रह्मा, स मुक्तिः, सोऽतिमुक्तिः । इत्यतिमोक्षाः । अथ सम्पदः ।। ६ ।।
प्र. – पुनरेवाश्वल: पृच्छति । याज्ञवल्क्येति होवाच इत्यादिना । अनारम्बणं -रलयोरभेदः । अन्तरिक्षमिदम् अनालम्बनमिव दृश्यते तत् – अन्तरिक्षं स्वयमनालम्बन केनाऽऽक्रमेण – आक्रमणसाधनेन केन वा आक्रम्य यजमान: – ब्रह्मविद्यार्थकर्मानुष्ठाता स्वर्गं – निरतिशयसुखरूपतया स्वर्गाख्यमप्राकृतं मुक्तिस्थानं भगवल्लोकमाक्रमत इत्यर्थः । अत्र स्वर्गलोकशब्दस्य भगवल्लोकवाचित्वेन स मुक्तिस्सातिमुक्तिः इत्युत्तरवाक्यस्वारस्य भवति ।
उत्तरमाह-ब्रह्मणर्त्विजा इति । चन्द्राभिन्नत्वेन वा तदभिन्नत्वेन वा तदभिमानिकत्वेन वा ध्यातमनोदृष्ट्योपासीतो ब्रह्मा भगवल्लोकाक्रमणसाधनम् इत्यर्थः । इत्यतिमोक्षा इति । इति अनेन प्रकारेण अतिमोक्षा:-प्रकृतिमण्डलातिक्रमेण-रूपमोक्षप्रश्नास्समाप्ता इत्यर्थः । अथ सम्पद इति । उच्यन्त इति शेषः । येनाग्रिहोत्रादीनां फलत्वकर्मणामन्तवत्फलाय सम्पादनं, सा सम्पत् ।।
[फलप्रापकाः सम्पदः]
याज्ञवल्क्येति होवाच, कतिभिरयमद्यभिौताऽस्मिन् यज्ञे करिष्यतीति । तिसृभिरिति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव च तृतीया । किं ताभिः जयतीति । यत्किञ्चेदं प्राणभृदिति ।। ७ ।।
प्र – तमेव सम्पद्विषयमश्वलप्रश्नमाह – याज्ञवल्क्येति होवाच इत्यादि । अयं होता अद्य यज्ञकाले कतिभिः ऋग्भिः कतिसङ्खाभिः ऋग्भिः अस्मिन्यज्ञे करिष्यति । हौत्रमिति शेषः । याज्ञवल्क्य ‘उत्तरमाह’ – तिसृभिरिति इति । ऋग्भिरि-त्यनुषङ्गः । पुनः प्रश्नमवलस्याह- कतमास्तास्तिस्र इति इति । सङ्ख्येयऋग्विशेषविषयोऽयं प्रश्नः । पूर्वस्तु ऋङिनष्ठसङ्ख्याविषय इति भेदः । कास्ता ऋच इत्यर्थः । उत्तरमाह-याज्ञवल्क्यः ‘पुरोनुवाक्या च याज्या च शस्यैव च तृतीया‘ इति । यागकालात् प्राक् प्रयुज्यमाना ऋचः पुरोनुवाक्या: । यागसाधनभूता ऋचो याज्या: । शस्रार्थाः ऋच: शस्याः । सर्वत्र जात्यभिप्रायेणैकवचनं द्रष्टव्यम् । तिसृष्येय हौत्रीणामृचामन्तर्भाव:, न चतुर्थः प्रकार इति भावः । एवमग्रेऽपि । कि ताभिर्जयतीति पुनरश्वलप्रश्नः । प्रयुज्यमानाभिः ताभिः ऋग्भिः किं फलं यजमानः प्राप्नोति इत्यर्थः । याज्ञवल्क्य उत्तरमाह यत्किञ्चेदं प्राणभृत् इति । प्राणिजातं यत्किञ्चिदस्ति तत्सर्वं जयतीति शेषः ॥ ७॥
याज्ञवल्क्येति होवाच कत्ययमद्याध्वर्युरस्मिन् यज्ञ आहुतीर्होष्यतीति । तिस्र इति । कतमास्तास्तिस्र इति । या हुता उज्ज्वलन्ति; या हुता अतिनेदन्ते; या हुता अधिशेरते । किं ताभिर्जयतीति । या हुता उज्ज्वलन्ति, देवलोकमेव ताभिर्जयति । दीप्यत इव हि देवलोकः । या हुता अतिनेदन्ते, पितृलोकमेव ताभिर्जयति । एवमिव हि पितृलोकः । या हुता अधिशेरते, मनुष्यलोकमेव ताभिर्जयति । अथ इव हि मनुष्यलोकः ।। ८ ।।
प्र. – पुनरश्वल: प्रश्नमाह – याज्ञवल्क्येति होवाच – इति । कति – कतिसङ्ख्याकाः आहुतीर्होष्यतीत्यर्थः । शिष्टं पूर्ववत् । अत्र याज्ञवल्क्यस्योत्तरम् । तिस्र इति । पुनः प्रश्न: कतमाः तास्तिस्र इति । उत्तरम् । या हुताः– – अधिशेरत इति।या: आहुतयो हुतास्सत्यः उज्ज्वलन्ति ताः ऊर्ध्वं ज्वलन्त्यः समिदाज्याहुतयः एका कोटिरित्यर्थः । या आहुतयो हुताः अतिनेदन्ते–अतीव कुत्सितशब्दं कुर्वन्ति । नेदशब्दकुत्सायां (धा.पा.) शीत्कारशब्दं कुर्वन्ति इत्यर्थः । तादृश्यो मांसाद्याहुतयो द्वितीया कोटिः । यास्त्वाहुतयो हुता: अधिशेरते – अधि – अधोगत्वा अग्नौ शेरते, ताः पयः सोमाद्या आहुतयः तृतीया कोटिरित्यर्थः । अन्यत् पूर्ववत् । पुनः प्रश्नः । किं ताभिर्जयत इति । उत्तरं- या हुता इत्यादि । याः हुतास्सत्य: उज्ज्वलन्ति, ताभिराहुतिभिः समिदादिभिः देवलोकं जयतीत्यर्थः । तत्र हेतुमाह – दीप्यत इव हि देवलोकः इति । हि – यस्मात् अत्रत्यानां देवलोको दीप्यते इव भासते । अत उज्ज्वलानां समिदाज्याहुतीनाम् उज्ज्वलदेवलोक-साधनत्वमुपपद्यत इति भावः । या हुता इत्यादि । या हुताः आहुतयः अतिनेदन्ते . कुत्सितशब्दं कुर्वन्ति, पितृलोकमेव ताभिर्जयतीति । अत्र हेतुमाह – एवमिव हि पितृलोक इति । एवमिव हि – यस्मात् कुत्सितशब्दयुक्त एव इत्यर्थः । कुत्सितशब्द-कर्तृत्वसामान्यात् कुत्सितशब्दयुक्ताभिः आहुतिभिः कुत्सितशब्दयुक्तं पितृलोकं जयतीत्यर्थः । पितृलोकसंबद्धायां हि संयमन्यां पुर्यां वैवस्वतेन यात्यमानानां हा हतोऽस्मीति शब्दो भवति । अतः पितृलोकस्य कुत्सितशब्दयुक्तत्वमस्तीति द्रष्टव्यम् । या हुता इत्यादि । या आहुतयो हुता: अग्नौ अधिशेरते इत्युक्ताः, तृतीयकोट्यन्तर्भूताभिस्ताभि: मनुष्यलोकमेव जयति इति । अत्र हेतुमाह – अध इव हि मनुष्यलोक इति । ऊर्ध्वलोकापेक्षया मनुष्यलोकः अध इव हि वर्तते । अत तत्सामान्यात् ताभिरधश्शयानाभि: मनुष्यलोकं जयति इत्यर्थः ।। ८ ।।
याज्ञवल्क्येति होवाच – कतिभिरयमद्य ब्रह्म यज्ञं दक्षिणतो देवताभि–र्गोपायतीति । एकयेति । कतमा सैकेति । मन एवेति । अनन्तं वै मनोऽनन्ता विश्वेदेवा अनन्तमेव स तेन लोकं जयति ।। ९ ।।
प्र. – पुनः स एव पृच्छति – याज्ञवल्क्येति– – – गोपायतीति । विहारस्य दक्षिणत उपविष्टो ब्रह्मा कतिभिः कतिसङ्ख्याकाभिः देवताभिः ‘उपासिताभिः यज्ञ गोपायतीति प्रश्नार्थः । उत्तरमाहयाज्ञवल्क्यः – एकयेति । कतमा सैकेति पुनः प्रश्नः । सा देवता का? इत्यर्थः । उत्तरं – मन एवेति । तेन किं जयतीति पुनः प्रश्नोऽध्याहर्तव्यः । उत्तरमाह- अनन्तं वै मनः इति । तत्रफलं विवक्षु: प्ररथमं मनस उपास्तिप्रकारमाह – अनन्तं वै मन इति । मनः आनन्त्यगुणविशिष्टतया उपास्यमित्यर्थः । तदानत्ये हेतुमाह – अनन्ता विश्वेदेवा इति। विश्वे – सर्वे इत्यर्थः। देवशब्द : इन्द्रियपर: । ‘मनसः अधीनानां सर्वेषामिन्द्रियाणामानन्त्यात् मनस आनत्यमिति भावः । एवमुपासनप्रकारमुक्त्वा फलमाह – अनन्तमेव स तेनलोकं जयति इति । एवमानन्त्यगुणविशिष्टतयोपासितेन [ब्रह्मणा] मनसा अनन्तं भगवल्लोकं मुक्तिस्थानं भगवदुपासनद्वारा जयतीत्यर्थः । एवमुत्तरस्वाभाव्यात् यज्ञं गोपायतीति प्रश्नस्यापि विद्यार्थस्य कर्मणः क्षिप्रब्रह्मविद्यो-त्पादकत्वशक्याधानमेव्यर्थ इति द्रष्टव्यम् ।। ९ ।।
[उद्गातृकर्म तत्फलं च]
याज्ञवल्क्येति होवाच कत्ययमद्योद्गातास्मिन् यज्ञेस्तोत्रियाः स्तोष्यतीति। तिस्र इति । कतमास्तास्तिस्र इति । पुरोनुवाक्या च याज्या च शस्यैव च तृतीया। कतमास्ता या अध्यात्ममिति । प्राण एव पुरोनुवाक्या, अपानो याज्या, व्यान: शस्या । किं ताभिर्जयतीति । पृथिवीलोकमेव पुरोनुवाक्वया जयत्यन्तरिक्षलोकं याज्यया द्युलोकं शस्यया ततो ह होताश्वल: उपरराम ।। १० ।।
।। इति पञ्चमाध्याये प्रथमब्राह्मणम् ।।
प्र. – पुनः स एव पृच्छति । याज्ञवल्क्येति होवाच– – –स्तोष्यतीति । अयमुद्गाता अद्य- यागकाले अस्मिन् यज्ञे स्तोत्रियाः – स्तोत्रसाधनभूताः ऋचः’ कतिसङ्ख्याकाः स्तोष्यतीत्यर्थः । अत्र याज्ञवल्क्य उत्तरं पठति – तिस्रः इति । पुनः प्रश्नः कतमास्तास्तित्र इति । उत्तरं – पुरोनुवाक्या -तृतीया इति । उक्तोऽस्यार्थः पूर्वमेव। पुनः पृच्छति कतमास्ता; या अध्यात्ममिति । ता: – पुरोनुवाक़्याद्यास्तिस्र: अध्यात्मं कतमा भवन्ति । आसु किंरूपाध्यात्मदृष्टिः कर्तव्या इत्यर्थः । उत्तरं प्राण एव – – शस्येति । पुरोनुवाक्याज्याशस्यासु क्रमात् अध्यात्मं प्राणापानव्यानदृष्टिं कृत्वा उद्गाता ताः प्रयुञ्जीत इत्यर्थः । पुनः पृच्छति – किन्ताभिर्जयतीति । प्राणादिदृष्टिविशिष्ट-पुरोनुवाक्यादिभिः प्रयुज्यमानाभिः कान् लोकान् जयतीत्यर्थः । उत्तरमाह – पृथिवीलोकमेव – शस्यया इति । स्पष्टोर्थः । ततो ह होताश्वल उपरराम इति । एवं स्वकृतप्रश्नानाम् उत्तरे दत्ते प्रष्टव्यान्तराभावात् होता अश्वल: ‘उपरराम – तृष्णीं बभूव इत्यर्थः ।। १०।।
।। इति पञ्चमाध्याये प्रथमब्राह्मण प्रकाशिका ।।
पञ्चमाध्याये द्वितीयं ब्राह्मणम्
जारत्कारवब्राह्मणम्
[ग्रहातिग्रहविषये प्रश्न: उत्तरञ्च]
अथ हैनं जारत्कारव आर्तभागः पप्रच्छ । याज्ञवल्क्येति होवाच, कति ग्रहाः, कत्यतिग्रहा इति । अष्टाग्रहा अष्टावतिग्रहा इति । य एते अष्टौ ग्रहा अष्टावतिग्रहा: कतमे त इति ।। १ ।।
प्र. – अथ है नं – – –पप्रच्छ इति । अथ – अश्वलपराभवानन्तरम् एनं -याज्ञवल्क्यं जारत्कारव:-जरत्कारगोत्रजः ऋतुभागपुत्रः आर्थभागः विजिगीषयैव पप्रच्छ इत्यर्थः । हे याज्ञवल्क्येति सम्बोधनेन तं स्वाभिमुखं कृत्वा, ग्रहाः कति, अतिग्रहा: कति? इति प्रश्नद्वयं पृष्टवान् इत्यर्थः । उत्तरमाह याज्ञवल्क्य: अष्टौग्रहा अष्टौ अतिग्रहा इति । पुनः प्रश्नः य एते– – ते इति । ये ग्रहाः अतिग्रहाश्च अष्टौ अष्टाविति त्वयोक्ताः, त एते के? इत्यर्थः ।। १ ।।
[प्राणस्य प्रहातिमहत्वकथनम् ]
प्राणो ये ग्रहः, सोऽपानेनातिग्रहेण गृहीतः । अपानेन हि गन्धान् जिघ्रति ।।२।।
प्र. – अत्र याज्ञवल्क्यस्य उत्तरं प्राणो वै– इत्यादि । अत्र प्राणशब्देन नस्यत्वसामान्यात् घ्राणेन्द्रियं गौण्या वृत्त्याऽभिधीयते । गृह्णाति – आत्मानं स्ववशं करोतीति ‘ग्रहः‘ – इन्द्रियम् । पचाद्यच् । अपान: गन्धः । अपानेन – निश्वासवायुना उपनीयमानत्वात् गन्धोऽपानशब्देन लक्ष्यते । सः–घ्राणेन्द्रियात्मको ग्रह: तेन विषयरूपेणातिग्रहेण गन्धात्मना गृहीतः – व्याप्तो भवति । अतिशयेन स्वस्वविषयिणं इन्द्रियादिकं गृह्णाति – स्ववशीकरोतीति अतिग्रहः विषयः । गन्धस्य घ्राणवशीकरण-प्रकारमुपपादयति – अपानेन हि गन्धान् जिघ्रतीति । अत्र घ्राणेन इत्यध्याहर्तव्यम्। अपानेन निश्वासेन उपनीतान् गन्धान् घ्राणेन जिघ्रतीत्यर्थः यद्वा – अपानशब्दो प्राणपरो द्रष्टव्यः । उत्तरसन्दर्भेकरूप्यात् । अतो गन्धग्राहकत्वात् घ्राणं गन्धाधीनमिति भावः । ततश्च, इन्द्रियेभ्यः परा ह्यर्था: (क.उ.३-१०) इत्युक्तरीत्या ग्रहशब्दितेभ्योऽपीन्द्रियेभ्योऽतिग्रहशब्दितानां, विषयाणां प्रबलतया तद्वशीकरणे विषयेन्द्रियवियोजनरूप एव यत्नः कर्तव्यो मुमुक्षुणा इति भावः।। २ ।।
[वागादीनां ग्रहातिग्रहत्व कथनम्]
वाग्वै ग्रहः, स नाम्नाऽतिग्रहेण गृहीतः । वाचा हि नामान्यभिवदति ।। ३ ।।
जिह्वा वै ग्रहः, स रसेनातिग्रहेण गृहीतः । जिह्वया हि रसान् विजानाति ।। ४ ।।
चक्षुर्वै ग्रहः; स्वरूपेणातिग्रहेण गृहीतः । चक्षुषा हि रूपाणि पश्यति।। ५ ।।
श्रोत्रं वै ग्रहः, स शब्देनातिग्रहेण गृहीतः । श्रोत्रेण हि श्ब्दाच्छृणोति ।। ६ ।।
मनो वै ग्रहः, स कामेनातिग्रहेण गृहीतः । मनसा हि कामान् कामयते ।। ७ ।।
हस्तौ वै ग्रहः, स कर्मणाऽतिग्रहेण गृहीतः । हस्ताभ्याँ हि कर्म करोति ।। ८ ।।
त्वग्वै ग्रहः, स स्पर्शेनातिग्रहेण गृहीतः । त्वया हि स्पर्शान् वेदवते । इत्येतेऽष्टौ ग्रहा अष्टावतिग्रहाः ।।९।।
प्र. – वाग्वै ग्रहः इत्यादि । सर्वं पूर्ववत् । एवं घ्राणवाग्जिह्वाचक्षुश्श्रोत्रमनो-हस्तत्वग्रूपान् ग्रहान् तद्विषयरूपानतिग्रहांश्च उक्त्वा उपसंहरति इत्येते अष्टौ ग्रहा अष्टावतिग्रहाः इति । स्पष्टोऽर्थः । विषयेन्द्रियमध्ये एतेषामेव प्रबलत्वात् अवश्य-निग्रह्यत्वाभिप्रायेण अष्टानामेव उक्तिरिति द्रष्टव्यम् ।। ३-९ ।।
[मृत्यु जयोपायः]
याज्ञवल्क्येति होवाच, यदिदँ सर्वं मृत्योरन्नम्, का स्वित् सा देवता यस्या मृत्योरन्नमिति । अग्निर्वै मृत्युः सोऽपामन्नम् । अप पुनर्मृत्युं जयति, य एवं वेद ।। १० ।।
प्र– एवं ग्रहातिग्रहप्रश्नस्य उत्तरे दत्ते आर्तभाग: एवान्यत् पृच्छति-याज्ञवल्क्येति होवाच इत्यादि । यस्य मृत्यो:। इदं सर्वं दृश्यमानमन्नम् – अदनीयम्। सोऽपि मृत्यु:। यस्या: देवताया अन्नं भवति, सा का देवतेति प्रश्नार्थः । याज्ञवल्क्य उत्तरमाह • अग्निर्वैमृत्यु: सोऽपामन्नम् इति । अग्निना हि सर्वं दृश्यते । अतः सर्वं तस्यान्नमिति स मृत्युः । सोऽप्यद्भिर्नाश्यते । अतोऽपामग्र्यन्नकत्वमिति भावः । अपामग्र्यन्नकत्व ‘चिन्तनस्य फलमाह – अपपुनर्मृत्युं जयति य एवं वेद इति । अपामपग्र्यकत्वं चिन्तयन् अपमृत्युं जयति इत्यर्थः । अत्र कास्वित् सा देवतेति प्रश्नानुरोधात् अप्छब्दस्य अपामित्यस्य अप्तन्त्वाभिमानिनारायणपरत्वेऽपि न दोषः । केवलासु अप्सु देवताशब्दस्या-स्वारस्यात् अस्मिन् पक्षे अग्निर्वै मृत्युरित्यत्र अग्निशब्दस्य कालाग्निरुद्रपरत्वं द्रष्टव्यम् । अग्निर्वैरुद्र:’ इति प्रसिद्धेश्च । एतदेवाभिप्रेत्य व्यासार्यै: – आर्तभागप्रश्नस्य विद्वद्विषर्यैत्वेऽपि इति ग्रन्थेनास्य प्रकरणस्य परमात्मविषयत्वमपि अन्यारुह्योक्त्या सूचितम् ।। १० ।।
[आत्मन: प्राणोत्क्रमणाभाव:]
याज्ञवल्क्येति होवाच, यन्नायं पुरुषो म्रियते, उदस्मात् प्राणा क्रामन्त्याहो नेति नेति होवाच याज्ञवल्क्यः, अत्रैव समवनीयन्ते । स उच्छ्वयत्याध्यायत्याध्मातो मृतश्शेते ।। ११ ।।
प्र. – पुनस्स एव पृच्छति – याज्ञवल्क्येति– – –नेति।यन्न-यदा अयं पुरुषः – जीवः म्रियते; तदा किम् अस्मात् – म्रियमाणाज्जीवात् प्राणा उत्क्रामन्ति -जीवं विहाय यथायथं गच्छन्ति; आहो – उत न यथायथं गच्छन्ति, किन्तु तत्संयुक्ता एव सन्तः तेन सहैव उत्क्रामन्तीति प्रश्नार्थः । न यथायथं गच्छन्तीत्युत्तरमाह – नेति होवाच याज्ञवल्क्य इति । तर्हि किं भवन्तीत्यत्राह अत्रैव समवनीयन्ते– – शेते । इति। अत्रैव– अस्मिन् आत्मन्येव समवनीयन्ते-संयुज्यन्ते।समित्येकीकारे। एकीभूततया संयुक्ता भवन्तीत्यर्थः । न तं विहाय उत्क्रामन्ति किन्तु सहैव उत्क्रामन्तीत्यर्थः । स उच्छ्वयति । सः – पुरुषो मृतः उत्क्रान्त प्राणस्सन् श्वयथुं प्राप्नोतीत्यर्थः । आध्मायति बाह्यवायुना पूर्यते । आध्मातः – एवं बाह्यवायुना पूरितस्सन् शेते इत्यर्थः । यद्यपि उच्छूनत्व आध्मातत्वादिः देहधर्मः । न त्वस्मादिति निर्दिष्टम्रियमाण जीवधर्मः । तथापि देहात्मनोः अभेदोपचारेण स इति परामृश्य तथा निर्देशो द्रष्टव्यः । न च स उच्छ्वयत्याध्मायत्याध्मातो मृतश्शेते इति उच्छूनत्वादिविस्पष्टदेहधर्मश्रवणेन देहापादनकोत्क्रमणप्रतिषेधविषयकत्वोप-पत्तापभेदोपचारम् आश्रित्य जीवापादानकोद्गमननिषेधपरत्वं कुत आश्रयणीयम् इति वाच्यम् । योऽकामो निष्काम आप्तकाम आत्मकामो न तस्मात् प्राणा उत्क्रामन्ति (बृ.उ.६-४-६) इत्यत्र शारीरापादनकोद्गमनप्रतिषेधवादिनः न तस्मादित्यस्य परैरपि अभेदोप- चारस्य अवश्याश्रयणीयत्वेन दोषसाम्यात् । प्रतिषेधादिति चेन्न शारीरात् (ब्र.सू.४-२-१२) इति सूत्रभाष्यादौ अस्यार्थस्य प्रपञ्चितत्वात् नात्रास्माकं वक्तव्यमवशिष्यते ।। ११ ।।
याज्ञवल्क्येति होवाच, यत्रायं पुरुषो म्रियते, किमेनं न जहातीति । नामेति । अनन्तँ ह वै नाम; अनन्ता विश्वे देवाः । अनन्तमेव स तेन लोकं जयति ।। १२ ।।
प्र. – पुनरार्तभाग एव पृच्छति – याज्ञवल्क्यति– – न जहाति इति। पूर्वत्र प्राणा म्रियमाणं न जहातीत्युक्तम् । इदानीं तु प्राणेभ्योऽन्यच्च किं वा म्रियमाणं न जहातीति प्रश्नः । याज्ञवल्क्य उत्तरमाह – नामेति । नामधेयं न त्यजति इत्यर्थः । तदत्याग एव प्रदर्श्यते प्रसिद्ध्या अनन्तं ह वै नाम इति । देहे नष्टेऽपि युधिष्ठिरादोनां नामानुवृत्तिदर्शनात् अनन्तं नाम । नाम्रो नाशो नास्ति इत्यर्थः । नामाभिमानिदेवता अप्यनन्ता इत्याह – अनन्ता विश्वे देवा इति । विश्वे देवा नामाभिमानिन इति द्रष्टव्यम् । नामानन्त्यज्ञानस्य फलमाह – अनन्तमेव स तेन लोकं जयति इति । तेन – अनुवृत्तेन नाम्रा अनन्तं – शाश्वतं पुण्यलोकं जयति इत्यर्थः । अत एव हि लोके नामानुवृत्यर्थ यतन्त इति भावः ।। १२ ।।
याज्ञवल्क्येति होवाच यत्रास्य पुरुषस्य मृतस्य अग्निं वागप्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिश:श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लामानि वनस्पतीन् केशाः, अप्सु लोहितञ्च रेतश्च निधीयते, क्वायं तदा पुरुषो भवतीति । आहर सोम्य हस्तमार्तभाग! आवामेवैतस्य वेदिष्यावो न नावेतत् स जन इति । तो होत्क्रप्य मन्त्रयाचक्राते । तो ह यदृचुतः कर्म ह वै तदूचुतुः । अथ यत् प्रशशँसतुः, कर्मह वै तत् प्रशशँसतुः, पुण्यो वै पुण्येन कर्मणा भवति; पाप: पापेनेति । ततो ह जारत्कारव आर्तभाग उपरराम ।। १३ ।।
।। इति पञ्चमाध्याये द्वितीय ब्राह्मणम् ।।
प्र. – पुनरप्यार्तभागः पृच्छति – याज्ञवल्क्येति — – वागप्येति इत्यादि । अत्र वागादीन्द्रियाणामाकल्पस्थायित्वात् , आहङ्कारिकत्याच्च मरणदशायाम् अनुपादानभूते अग्न्यादौ तेषां लयासम्भवाच्च अग्निं वागप्येति इति वाचः अग्नावप्ययो नाम वागिन्द्रियाभि-मानिदेवभूतस्याग्नेः वागिन्द्रियाधिष्ठानानुकूलव्यापारमन्तरेण अवस्थितिरेव । मरणदशायां म्रियमाणजीवसम्बन्धि वागिन्द्रियं तदभिमानी अग्निर्नव्यापारयतीति यावत् । सूत्रितञ्च भगवता बादरायणेन – अग्नयादिगतिश्रुतेरिति चेन्न भाक्तत्वात् (ब्र.सू.३-१-४) इति । एवमुत्तरत्रापि वातं प्राण इत्यादौ द्रष्टव्यम् । अप्ययश्च भाक्तो यथायोग्यं द्रष्टव्यः ।
आकाशमात्मा इति । आत्मा – देहान्तर्गताकाश इत्यर्थः । ओषधिर्लोमानि वनस्पतीन् केशा इति । लोमकेशाभिमानिदेवता ‘ओषधिवनस्पत्यभिमादेवतामप्येति लोमकेशाभि-मानित्वं विहाय केवलमोषधिवनस्पत्यभिमानिनी भवति इत्यर्थः । अप्सु लोहितं च रेतश्च विधीयते इति । निधीयते – प्रक्षिप्यते इत्यर्थः । कार्य तदा पुरुषो भवति इति । म्रियमाणसम्बन्धिषु सर्वेषु उक्तरीत्या तत्तदाधाराश्रितेषु सत्सु अयं शारीरः पुरुषः तदा किमाश्रितो भवति इति प्रश्नः ।
एवं पृष्टो याज्ञवल्क्यः एतदुत्तरस्य सुगोप्यस्य प्रकृतजल्पमार्गेण सर्वजन समक्षमप्रकटनोयत्वात् आर्तभागं वादमार्गेण बोधयिष्यन्नाह . आहर सोम्य– – –सजने इति । हे सोम्य – सोमार्ह । हे आर्तभाग! इति सम्बोध्य, हस्तं त्वदीयमाहर इत्युक्त्वा प्रसारितमार्तभाग हस्तं गृहीत्वा पुनः प्राह – आवामेव एतस्य प्रश्नस्योत्तरं वेदिष्याव: – ज्ञास्यावः इत्यर्थः । यद्यपि याज्ञवल्क्य एव विचारको निर्णेता च- अथापि द्विवचनं वीतरागकथात्वद्योतनार्थम् । नौ – आवयोः एतत् – प्रकृतप्रश्नोत्तरं सजने -जनसमुदाये न भवतीत्यर्थः । एवं याज्ञवल्क्योक्तमातभागोऽप्यङ्गीचकार । तौ होत्क्रम्य मन्त्रयाञ्चक्राते इति । अथ तौ – आर्तभागयाज्ञवल्क्यौ तस्माद्देशात् उत्क्रम्य – विजनं गत्वा मन्त्रयाञ्चक्राते – विचारमकुरुताम् इत्यर्थः । तौ ह– – – प्रशशंसतु इति । तौ -आर्तभागयाज्ञवल्क्यौ मिळित्या विचार्य निश्चित्य कार्यकारणसंघातात्मक-शरीरान्तरपरिग्रहहेतुतया शारीर पुरुषस्याधारभूतं यदुक्तवन्तौ, तत् कर्मैव । अथ यत् प्रशशंसतुः । तादृशशरीरान्तरपरिग्रहहेतुषु यत् स्तुतवन्तौ तत्कर्मैव इत्यर्थः । यद्यपि ईश्वरकालादीनि कारणान्तराणि सन्ति – तथापि तेषां साधारणकारणत्वात् शारीरस्य ‘शरीरपरिग्रह हेतुनां मध्ये कर्मैव असाधारणं कारणं पुरुषस्य आश्रयभूतमिति स्तुतवन्तौ इत्यर्थः । तदेव प्रदर्शयति – पुण्यो वै – – – पापेन इति । वै शब्दोऽवधारणे । पुण्येन कर्मणैव पुण्यो भवति – पुण्यशरीरयुक्तो भवति । पापेन कर्मणैव पापो भवति । पापशरीर युक्तो भवति इत्यर्थः । तद्य इह रमणीयचरणा अभ्याशो ह यत्ते रमणीयां योनिमापद्येरन् ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनिं वा । अथ य इह कपूयचरणा अभ्याशो ह यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा (छां.उ.५-१०-७) इति श्रुत्यन्तरादिति भावः । ततो ह – उपरराम इति । पूर्ववत् स्पष्टोऽर्थः ।। १३ ।।
।। इति पञ्चमाध्याये द्वितीयब्राह्मण प्रकाशिका ।।
पञ्चमाध्याये तृतीयं ब्राह्मणम्
भुज्युब्राह्मणम्
[पारिक्षिताः कुत्रगताः‘ इति मृत्युप्रश्नः]
अथ हैनं भुज्यु र्लाह्यायनिः‘ पप्रच्छ । याज्ञवल्क्येति होवाच – मद्रेषु चरकाः पर्यव्रजाम । ते पतञ्जलस्य काप्यस्य गृहानैम । तस्यासीद्दुहिता गन्धर्वगृहीता । तमपृच्छाम् कोऽसीति । सोऽब्रवीत् सुधन्वाङ्गीरस इति । तं यदा लोका–नामन्तानपृच्छाम, अतैनं ब्रूम क्व परिक्षिता अभवन्निति । क्व पारिक्षिता अभवन् ? स त्वा पृच्छामि, याज्ञवल्क्य! क्व पारिक्षिता अभवन्निति ।। १ ।।
प्र. – अथ हैनं भुज्युर्लाह्यायनि: पप्रच्छ इति । अथ -आर्तभागोपरामानन्तरं भुज्युः – नामतः लाह्यायनिः– गोत्रत: लाह्यस्य गोत्रापत्यम् गर्गादिभ्यो यञ् (पा.सू. ४-१-१०५) तस्यापत्यम् (पा.सू.४-१-९२) यञिञोश्च (पा.सू.४-१-१०१) इति फक् । ततः गोत्राद्यूनि (पा.सू.४-१-९४) इति नियमात् अत इञ् । स एवं याज्ञवल्क्यं पप्रच्छेत्यर्थः । याज्ञवल्क्येति होवाच इति । पूर्ववदर्थः । मद्रेषु चरका: पर्यव्रजामेति । मद्रानाम जनपदाः । तेषु चरकाः अध्ययनार्थं व्रत’चरणात् चरकाः’ । यद्वा – मद्रेषु चरन्तीत्यर्थे चरेष्टः (पा.सू.३-२-१६) इति ट प्रत्यये, स्वार्थे कः । पर्यव्रजाम–पर्यटितवन्तः इत्यर्थः । अस्मदो द्वयोश्च (पा.सू.१-२-५९) इत्येकस्मिन् बहुवचनम् ।
सब्रह्मचार्यपेक्षया वा । ते पतञ्जलस्य काप्यस्य गृहानैम । ते – वयं नाम्ना पतञ्जलस्य, गोत्रेण काप्यस्य गृहान् ऐम-गतवन्त:।इणो लङ्।तस्यासीत् दुहिता गन्धर्वगृहीता। तस्य-काप्यस्य दुहिता – पुत्री गन्धर्वेण – अमानुषेण सत्त्वेन आविष्टा स्थिता तमपृच्छाम । तं – गन्धर्वम् अपृच्छाम । लङ् । किमिति । कोऽसीति । सोऽब्रवीत्सुधन्वाङ्गीरस इति । सः–गन्धर्व नामतोऽहं सुधन्वा, गोत्रत आङ्गिरस: इत्यब्रवीत् । तं – गन्धर्वं वयं लोकानां – पुण्यलोकविशेषाणाम् अन्तानपृच्छाम-निश्चयान् पृष्टवन्तः इति यत्, तत् त्वां पृच्छामि । जानामि चेत्, वद इति शेषः । अथ हैनं….. अभवन् इति । ब्रूम इत्यडभावश्छान्दसः । अथ ह – अनन्तरसमन्यदपि एनं गन्धर्वं ब्रूम – अपृच्छाम । किन्तत् । पारिक्षिता: – परिक्षित्पुत्राः क्व – कस्मिन् लोके अभवन्निति । सम्भ्रमे द्विरुक्तिः । स त्वा पृच्छामि याज्ञवल्क्य क्व – – – अभवन् इति । सः – ततो गन्धर्वादवगत तत्स्वरूपः अहं त्वां पृच्छामि तमेत प्रश्नं पारिक्षिता: क्वाभवन् इति इत्यर्थः। ।। १ ।।
[गन्धर्वाभिहितरीत्या याज्ञवल्क्येन प्रत्युत्तरम्]
स होवाच उवाच वै स्म सोऽगच्छन् वै ते तत् यत्र अश्वमेधयाजिनो गच्छन्तीति । क्वन्वश्वमेधयाजिनो गच्छन्तीति । द्वात्रिंशतं वै देवरथाह्वयान्ययं लोकः। तं समन्तं पृथिवी द्विस्तावत् पर्येति । ताँ समन्तं पृथिवीं द्विस्तावत् समुद्रः पर्येति तद्यावती क्षुरस्य धारा, यावद्वा मक्षिकायाः पर्त्रम्, तावानन्तरेणाकाशः । तानिन्द्र: सुपर्णो भूत्वा वायवे प्रायच्छत् ; तान् वापरात्यनि धित्वा तत्रागमयत् यत्राश्वमेध–वाजिनोऽभवन्निति । एवमिव वै स वायुमेव प्रशशँस । तस्मात् वायुरेव व्यष्टिर्वायु–स्समष्टिः । अपपुनर्मृत्युं जयति य एवं वेद । ततो ह भुज्युर्लाह्यायनिरुपरराम ।। २ ।।
प्र. – स होवाच । सः – याज्ञवल्क्य उवाच ह उत्तरम् किमिति । उवाच वै – – गच्छन्ति इति । यत्र – यस्मिन् लोके अश्वमेधयाजिनो गच्छन्ति, तत् – तं लोकं ते पारिक्षिता अगच्छन्निति गन्धर्व: युष्मभ्यम् – उवाच वै स्म – उक्तवान् किल इत्यर्थः । एवमुत्तरे दले याज्ञवल्क्यं पुनः स एव पप्रच्छ । क्व न्वश्वमेधयाजिनो गच्छन्ति इति । अश्वमेध याजिनः कं लोकं गच्छन्तीत्यर्थः । एवं पुनः पृष्टो याज्ञवल्क्यस्तु एतस्यैव द्वितीय प्रश्नस्योत्तरे’ दत्तेऽपि, लोकानामन्तानमपृच्छाम इति – प्रथमप्रश्नस्य प्रतिवचनम् अन्तरेण अयं न शाम्यतीति मत्वा प्रथमप्रश्नस्यारयाचोक्तरमाह द्वात्रिंशतं वै देवरथाह्यान्ययं लोक इत्यादिना । देवरथः – सूर्यरथः । तस्य गत्या अह्रा यावद्देशपरिमाणं परिच्छिद्यते, तत् देवरथाह्यम् । द्वात्रिंशद्गुणित देवरथाह्यदेश परिमितः अयं लोकः –लोकालोकगिरिपरिवृतदेश इत्यर्थः । द्वात्रिंशतं – द्वात्रिंशत् इत्यर्थः । तं समन्तं पृथिवी द्विस्तावत् पर्येति । तं – लोकालोककृतं लोकं समन्तं – समन्ततः द्विगुणा पृथिवी पर्येति । तां समन्तं पृथिवी द्विस्तावत्समुद्रः पर्येति । तां – महापृथिवीं समन्ताद्विगुणः समुद्रः पर्यति, यं घनोदकमाचक्षते पौराणिकाः । तत्राश्वमेधलोकमार्गविवरपरिमाणमुच्यते तद्यावती क्षुरस्य धारा इत्यादि । क्षुरस्य धारा यावती – यावदतिसूक्ष्मपरिमाणा, मक्षिकायाः पत्त्रं– पतत्रं घनेन यावत्परिमाणम्, अतिसूक्ष्मम् तावान् इत्यर्थः । तत्–तत्राण्डकटाहे क्षुरधारया मक्षिकापत्रेण वा सदृशः अन्तरेणाकाशः – मध्ये रन्ध्रमित्यर्थः । तत्र सूक्ष्मरन्ध्रमार्गे पारिक्षितानां गतिप्रकारमाह – तानिन्द्रस्सुपर्णो भूत्वा वायवे प्रायच्छत् इति । तान् – पारिक्षितान् इन्द्रः सुपर्णो भूत्वा समीचीनचाहनं भूत्वा वायचे प्रायच्छत् – दत्तवान् इत्यर्थः । कश्चित्प्रदेशमिन्द्र एवोद्वा तान् अनन्तरं वायवे दत्तवान् इत्यर्थः । तान् –अभवन् इति । वायुस्तु तान् पारिक्षितान् आत्मनि धित्वा–श्वशरीरे स्थापयित्वा, यत्र – ब्रह्मलोकेऽश्वमेधयाजिनो गच्छन्ति, तत्रागमयत् इत्यर्थः ।
ततश्वेन्द्रस्यापि प्रवेशायोग्यरन्ध्रमार्गद्वारा वायुः पारिक्षितान् चतुर्मुखलोकम् अगमयत् इत्यर्थः । एवं याज्ञवल्क्य उक्त्वा स्वोक्तस्य संवादं दर्शयति । एवमिव वै स वायुमेव प्रशशंस इति । एवमेव खलु, सः – भवद्भि: पृष्टो गन्धर्वः वायुमेव स्तुतवान् इत्यर्थः । इवशब्द एवार्थे; वैशब्दः – किलार्थत्माद्वायुरेव व्यष्टिर्वायुः समष्टिरिति । तस्मात् – गन्धर्वेण स्तुतत्वात् स वायुः समष्ट्यात्मकापञ्चीकृतभूतव्यष्ट्यात्मकब्रह्मलोकतदधस्तनलोकसञ्चारितया सूत्रात्मप्राणरूपेण सर्वनिर्वाहकतया व्यष्टिसमष्टिरूप’ इत्यर्थः । व्यष्टिसमष्ट्यात्मतया वायुचिन्तनस्य फलमाह – अप पुनर्मृत्युं जयति य एवं वेद इति । यो वेद, स पुन: अपमृत्युं जयतीति सम्बन्धः । ततो ह भुज्युर्लाह्यायनतिः उपरराम । पूर्ववदर्थः ।। २ ।।
।। इति पञ्चमाध्याये तृतीयब्राह्मण प्रकाशिका ।।
पञ्चमाध्याये चतुर्थं ब्राह्मणम्
उपस्तब्राह्मणम्
[उपस्तेन ब्रह्मात्मस्वरूपप्रश्नः]
अथ है नमुपस्तश्चाक्रायणः पप्रच्छ । याज्ञवल्क्येति होवाच, यः साक्षादपरोक्षब्र्दह्मा च आत्मा सर्वान्तरः, तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । यः प्राणेन प्राणिति स त आत्मा सर्वान्तरो योऽपानेनापानिति स त आत्मा सर्वान्तरो यो व्यानेन व्यानिति स त आत्मा सर्वान्तरो य उदानेन उदानिति स त आत्मा सर्वान्तरः, एष त आत्मा सर्वान्तरः ।। १ ।।
प्र. – एकास्य याज्ञवल्क्यस्य कर्मकाण्डे । अविचाल्यं वैदुष्यं मत्था जनकसभिका: ब्राह्मणा: ब्रह्मकाण्डे वा अख्य अप्रतिभां सम्पादयिष्याम इति मन्यमानाः प्रष्टुं, प्रावर्तन । तदेवाह – अथ – – – पप्रच्छ इत्यादिना । नाम्ना उषस्तः । चक्रम्य गोत्रापत्यं नडादिभ्य: फक् (पा.सू. ४.१.५९) चाक्रायणः । शिष्टं स्पष्टम् । याज्ञवल्क्येति होवाच इति । पूर्ववदर्थः । प्रश्नमेवाह । यस्साक्षादपरोक्ष्यत् ब्रहा थ आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इति । अपरोक्षात् – अपरोक्षमित्यर्थः । सुपां सुलुक् (पा.सू.८.१.३९) इत्यादिना अदादेशः । अपरोक्षवं नाम सर्वदेशकालसन्निहितत्वम् । देशकाल सत्रिकर्षं ह्यापरोक्ष्यदर्शनात् । यदपरोक्षं साक्षाद्ब्रह्मा-अव्यवधानेन ब्रह्म -अगौणं मुख्यं ब्रह्मेति यावत् । सर्वान्तर आत्मा च आत्मा वा अरे द्रष्टव्य: श्रोतव्य: इत्यादिना दर्शनादिकर्मत्वेन उक्तश्च यः, तादृशं वस्तु मे व्याचक्ष्यति प्रश्नः । व्याचक्ष्व-विविच्य आचक्ष्व – प्रदर्शय इत्यर्थः । उत्तरत्र न दृष्टे द्रष्टारं पश्ये: इति द्रष्टव्यत्वादेरन्यत्र निषेधात् द्रष्टव्यत्वादिकमपि प्रश्नविषय इति द्रष्टव्यम् । याज्ञवल्क्य उत्तरमाह – एष त आत्मा सर्वान्तर इति । ते य आत्मा स एव सर्वान्तर इत्यर्थः । पृच्छति उषस्त: कतमो याज्ञवल्क्य सर्वान्तर इति । यदुक्तम् ते आत्मा सर्वान्तर इति, तदस्तु किन्तु कतम आत्मा सर्वान्तर इति तव अभिप्राय इति न जाने । किं देहेन्द्रियप्राणजीवादिषु कश्चिन्मे आत्मा सर्वान्तरः, उत ततोऽन्य इत्यर्थः । यद्यपि ते आत्मेति व्यतिरेकनिर्देशेन प्रत्यक्षदृष्टाभिमुखशरीरव्यतिरेकः सिद्ध्यति । तथापि इन्द्रियाद्यन्यतमत्व सन्देहो नापाकृत इति भावः । अत्र याज्ञवल्क्य उत्तरमाह यः प्राणेन प्राणिति स त आत्मा सर्वान्तर इत्यादि । अत्र एष त आत्मा सर्वान्तर इत्यत्र उक्त इति शेषः । प्राणित्यपानितिव्यानितीत्यादौ रुदश्च पञ्चभ्यः (पा.सू.७-३-९८) इतीट् । प्राणादिभिः प्राणनादिव्यापारकर्ता यः, ते आत्मा । स एव सर्वान्तर आत्मा इत्यर्थः । अत्र प्राणेन इत्यादिना प्राणस्य करणतया निर्देशात् प्राण व्यतिरेकः सिद्धः । सुषुप्तौ बाह्याभ्यन्तर इन्द्रियोपरतावपि प्राणनादिव्यापारदर्शनात् तद्व्यतिरेकोपि सिद्धः । सुषुप्तौ जीवस्याप्युपरत- व्यापारतया प्राणेन प्राणितृत्वाभावात् तद्व्यतिरेकोपि सिद्ध्यतीत्याशयः ।। १ ।।
[आत्मलक्षणकथनम्]
स होवाचोषस्तश्चाक्रायणो यथा विब्रूयादसो गौरसावश्व इति, एवमेवै–तव्द्यपदिष्टं भवति; यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर: तं मे व्याचक्ष्वेति । एष त आत्या सर्वान्तरः। कतमो याज्ञवल्क्य सर्वान्तरः । न दृष्टेर्द्रष्टारं पश्येर्न श्रुतेः श्रोतारं शृणुया: न मतेर्मन्तारं मन्वीथाः, न विज्ञात:विज्ञातारं विजानीयाः, एष त आत्मा सर्वान्तरः। अतोऽन्यदार्तम् । ततो होषस्तश्चाक्रायण उपरराम ।। २ ।।
प्र. – स होवाचोषस्तश्चाक्रायण इति । जीवव्यतिरेको नोक्त इति मत्वा आशयम-विद्वानुषस्तः पुनराह इत्यर्थः । किमिति । यथा विब्रूयादसौ– – –भवति इत्यादि । यथा हि गां प्रदर्श्य, असौ गौरसावश्व इति गव्यश्वाभेदोपदेशो विरुद्धः, एवमेव,’ ‘यत् साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरस्तं मे व्याचक्ष्व इति मामकप्रश्ने, एष त आत्मा सर्वान्तरः, य: प्राणेन प्राणिति इति प्राणनादि कर्तुर्मदात्मनो जीवस्य सर्वान्तरत्वकथनं विरुद्धवचनमेवः, ‘जीवस्याणुत्वेन प्रतिदेहभिन्नत्वेन च सर्वान्तरत्वासम्भवात् विब्रूयात्–विरुद्धं ब्रूयादित्यर्थः । अत: कतमो याज्ञवल्क्य सर्वान्तरः? स तावत् अविरुद्धतया वक्तव्य इत्यर्थः। उत्तरमाह- न दृष्टे: – – – श्रृणुया: इत्यादि। अत्र ‘दृष्टेर्द्रष्टारमित्यादिः। पाकं पचतीतिवन्निर्देशः। द्रष्टारं – कर्तारमित्यर्थः । एवं श्रोतारमित्यादावपि । तेन द्रष्टुत्वादे: काल्पनिकत्वनिवृत्तिः। तथा च दर्शनश्रवणमनननिदिध्यासनानां यः कर्ता जीवः, स न द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः । दर्शनादिकर्तुर्जीवादन्य एव दर्शनादिकर्मभूतः सर्वान्तर आत्मा । इन्द्रियाधीनदर्शनादीनां कर्तारं जीवं प्राणनादिकर्तृत्वेन’ न पश्ये:, न मन्वीथा इत्यादिर्वाक्यार्थः । एष त आत्मा इत्यादि । त आत्मेति – मयोक्त एष एव । अतोऽन्यदार्तम् इति । अतः – एष त आत्मेति मदुक्तात् परमात्मनः अन्यत् – व्यतिरिक्तं त्वदभिमतमौपाधिकप्राणितृत्वादिमत् जीवजातम् आर्तं – दुःखीत्यर्थः। अतः स न परमात्मेति भावः । अत एव नित्यमुक्तानां कदापि अस्पृष्टदुःखत्वात् अतोऽन्यदार्तमित्युक्तिः कथमिति शङ्का प्रत्युक्ता । तेषामिहाप्रसक्तत्वात् । अन्यशब्दस्य संनिहितप्राणितृत्वादिमत्संसारि- जीवपरत्वात् । यद्वा, आर्तं – जीवाख्यं त्वदभीष्टं न निर्विकारं वस्तु । तस्य कर्मकृतस्वभाव-विकारवत्वादिति भावः । ततो होषस्तश्चाक्रायण उपरराम । पूर्ववत् ।। २ ।।
।। इति पञ्चमाध्याये चतुर्थब्राह्मण प्रकाशिका ।।
पञ्चमाध्याये पञ्चमं ब्राह्मणम्
कहोलग्राहाणम्
[एषणात्रयव्युत्थानवर्णनम्, बाल्यपाण्डित्यमौनविधानम् ]
अथ हैनं कहोल: कौषीतकेय: पप्रच्छ । याज्ञवल्क्येति होवाच, यदेव साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तर:, तं मे व्याचक्ष्वेति । एष त आत्मा सर्वान्तरः । कतमो याज्ञवल्क्य सर्वान्तरः । योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति । एतं वै तमात्मानं विदित्वा ब्राह्मणाः पुत्रैषणायाश्च वित्तैषणायाश्च लोकैषणायाश्च । व्युत्थाय अथ भिक्षाचर्यं चरन्ति । या होव पुत्रैषणा; सा वित्तैषणा, या वित्तैषणा, सा लोकैषणा; उभे ह्येते एषणे, एव भवतः । तस्मात् ब्राह्मण: पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेत् । बाल्यञ्च पाण्डित्यञ्च निर्विद्याथ मुनिः । अमौनञ्च मौनञ्च निर्विद्याथ ब्राह्मणः। स ब्राह्मण: केन स्यात् । येन स्यात् तेनेदृश एव । अतोऽन्यदार्तम् । ततो ह कहोळः कौषीतकेय उपरराम ।। १ ।।
प्र.-अथ हैनं कहोळः कौषीतकेय: पप्रच्छ इति । कहोळ:- नामतः । कुषीतकस्यापत्यं कौषीतकेयः। विकीर्णकुषीतकात् काश्यपे (पा.सू.४-१-१२४) इति ढक्। अन्यत् पूर्ववत् । याज्ञवल्क्येति होवाच इति । पूर्ववत् । यदेव साक्षादपरोक्षाद्ब्रह्म इत्यादिः प्रश्नः । तत्र याज्ञवल्क्योत्तरम् एष त आत्मा सर्वान्तर इति । पुनः प्रश्नः । कतमो याज्ञवल्क्य सर्वान्तरः इति। पूर्ववदर्थः । यद्यपि प्रश्नोऽयमुषस्तेन कृत एव, दत्तोत्तरश्च । निरुपाधिकसर्वप्राणिप्राणनहेतुत्व निरङ्कुशसर्वान्तरत्वाद्यैरस्य जीवव्यावृत्तिरपि सिद्धा । न दृष्टेद्रष्टारम् इत्यादिना दर्शनश्रवणादिकर्तुर्जीवस्य द्रष्टव्यत्वादिनिषेधमुखेन मुख्यब्रह्मत्वमपि प्रतिषिद्धम् । तथापि प्राणितृत्वस्य जाग्रदादिदशाविशेषे जीवेऽपि सम्भवात्, यत्किञ्चित् देहाद्यपेक्षया आन्तरे जीवे आपेक्षिकसर्वान्तरत्वसम्भवात् । न दृष्टेर्द्रष्टारम् इत्यत्रापि दृष्टिव्यतिरिक्तद्रष्टुनिषेधपरत्वसम्भवेन ज्ञानस्वरूपस्यैव सतो जीवस्य ज्ञानगुणकत्व- प्रतिपादकत्वसम्भवात् उक्तधर्माणां परमात्मैकान्तिकत्वं निश्चेतुमसमर्थस्य कहोळस्य दृढतरेण व्यावर्तकधर्मेण जीवव्यावृत्तिनिश्चिचीषया पुनःप्रश्नः उपपन्न इति द्रष्टव्यम् ।
अत एव व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू.३-३-३७) इति सूत्रे व्यावर्तकधर्मभूयस्तया व्यावृत्ति ‘बुद्ध्यतिशयां र्थमेकविषयकप्रश्नद्वयम् इत्युक्तं व्यासार्यैः ।। तदभिप्रायं जानन् याज्ञवल्क्यो दृढतरजीवव्यावृत्तिसिद्धये व्यावर्तकधर्मान्तरमाह-योऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येति इति । अशनाया – बुभुक्षा पातुमिच्छा पिपासा। शोकः– इष्टानिष्टवियोगसंयोगजः मोहः – कामादिजनितः, अज्ञानं वा । जरामृत्यू प्रसिद्धौ । जीवस्य कर्माधीनदेहसंसर्गितया अशनायाद्यतीतत्वाभावात् तद्व्यावृत्तिः सिद्ध्यतीति भावः । यद्यपि मुक्तानां नित्यानाञ्च अशनायाद्यतीत्वमस्ति तथापि तेषामशनाया-द्यतीतत्वस्य परमात्मसङ्कल्पायत्तत्वादनन्यसङ्कल्पाधीनाशनायाद्यतीतत्वमुपाध्यनुक्तिसिद्धं परमात्मन एव । किञ्च, प्रकृते बद्धजीवव्यावृत्तेरेव स त आत्मेति निर्दिष्टस्योपदेष्टव्यतया नित्यमुक्तव्यावर्तक धर्मानुक्तावपि न दोष इति द्रष्टव्यम् ।
अथ व्यावर्तकधर्मान्तरमप्याह – एतं वै तमात्मानं इत्यादि । तमेवैतं – सर्वान्तरं अशनायाद्यतीतमेव परमात्मानम् आर्तं विदित्वा, ब्राह्मणा इत्यनेन क्षत्रियादिव्यावृत्तिः । पुत्रैषणायाश्च । इषेर्ण्यन्तात् स्त्रियां ण्यासश्रन्धो युच् (पा.सू.३-३-१०७) इति युच् । क्तिनोऽपवादः । अण्यन्तात्तु इच्छेति निपातः । इषे; स्वार्थे णिच् छान्दसः । पुत्रैषणा इत्यनेन तृतीयाध्याये जाया मे स्यात् प्रजायेय इति योक्ता, सा गृह्यते । वित्तैषणायाश्च इत्यनेन वित्तं मे स्यात् अथ कर्म कुर्वीय इति योक्ता, सा गृह्यते । लोकैषणायाश्च इत्यनेन जाया प्रजावित्तकर्मसाध्यसकललोकेच्छा गृह्यते – उक्तैषणात्रयात् व्युत्थाय – एषणात्रयं हित्वा-यथाविधि संन्यस्येति यावत् अथ – अनन्तरं देहयात्रार्थं भिक्षाचर्यं चरन्ति–भिक्षाटनं कुर्वन्ति इत्यर्थः । इदं चोपलक्षणं सर्वसन्न्यासाश्रमधर्मानुष्ठानस्य । अत्र अप्राप्तत्वात् पारिव्राज्यं विधीयते । यो ह्येव पुत्रैषणा वित्तैषणा या वित्तैषणा सा लोकेषणेति । अवर्जनीयात् – परस्परसम्बन्धादन्योन्याविनाभूता एतास्तिस्रोऽपीति भावः । उभे ह्येते एषणे एव भवतः इति । सर्वथा तिस्र एताः साध्यसाधनविषय-केषणाद्वयमेव भूत्वा पर्यवस्यन्ति इति भावः । तस्माद्ब्राह्मणः– – –मुनिः इति ।
यस्मात् वैराग्यमावश्यकं तस्मात् ब्राह्मणः -अधीतवेद इत्यर्थः । ब्रह्म वेदमधीते इति ब्राह्मणः । जातिपरो वा । पाण्डित्यं निर्विद्य – ऊहापोहक्षमा धीः – पण्डा साऽस्यसञ्जाता इति पण्डितः । तस्य कर्म (धर्मः) पाण्डित्यम् । औपदेशिकाधिगमरूपं विवेकनिर्वेद-विरक्ति ‘फलकम् तत्पाण्डित्यं निर्विद्य – लब्ध्वा बाल्येन – स्वमाहात्म्यानाविष्करण-लक्षणबालस्वभावेन युक्तस्सन् ब्रह्मणि तिष्ठासेत् – तन्निष्ठां लभेत । उपासीतेति यावत्। तथैव व्याख्यातं च व्यासार्यैः । बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिः । बाल्यपाण्डित्ये पूर्वोक्ते निर्विद्य – लब्ध्वा अथ मुनिस्स्यात् । आलम्बनसंशीलनलक्षणमननशीलस्स्यादित्यर्थः । ध्यानविच्छेददशायामप्यत्यन्तविषयोन्मुखत्वराहित्याय शुभाश्रयवस्तुसंशीलनं कर्तव्यमित्यर्थः ।
अमौनं च मौनं च निर्विद्याथ ब्राह्मण इति। अमौनं – मौनादन्यत् मौनात्पूर्वनिर्दिष्टं बाल्यपाण्डित्यलक्षणं द्वयम् । मौनं – आलम्बनसंशीलनात्मकं, अमौनं मौनं चेत्येतदुभयं निर्विद्याथ ब्राह्मण: ब्रह्मवित् भवति। लब्धनिदिध्यासनो भवतीत्यर्थः । पुनः कहोळः पृच्छति स ब्राह्मणः केन स्यादिति । स ब्राह्मण: – त्वदुक्तो लब्धनिदिध्यासनो ब्रह्मविदुक्तोपायादन्येन केन स्यादिति प्रश्नार्थः। याज्ञवल्क्यस्योत्तरम् । येन स्यात्तेनेदृश एव इति । येन – ‘मौनपर्यन्तेन’ साधनेन ब्राह्मणस्यादित्युक्तम् । तेनैवेदृशस्स्यात् न केनाप्यन्येनोपायेन इत्यर्थः। अतोऽन्यदार्तम् इति । अत: अस्मात्परमात्मनः यदन्यत् -प्राणिजातं तत् आर्तं – दुःखीत्यर्थः । ततश्च यस्स्वयमशनायाद्यतीत एव सन्-आर्तिरूपा- त्संसारात् विरक्तस्य तस्माद्ब्राह्मण इत्याद्युक्त साधनसाध्यनिदिध्यासनं कुर्वतो जीवस्य संसारमोक्षं करोति । स एव मया स त आत्मेत्युक्तः । न तु त्वदभिमतो बद्धजीव इति भावः । अत एव नित्यमुक्तव्यावृत्तिश्च सिद्धेति दृढतरजीवव्यावृत्तिसिद्धिरिति द्रष्टव्यम्। ततो ह कहोळः कौषीतकेय उपरराम इति। स्पष्टोऽर्थः ।।
अत्र – बाल्येन तिष्ठासेदित्यत्र बाल्यशब्दस्वभावकर्मसाधारणत्वेऽपि वयोविशेष-लक्षणबालभावस्य इच्छया सम्पादितुमशक्यत्वेनविधेयत्वात् कर्मव विधेयम् । तत्र कामचारकामवादकामभक्षत्वादिकं यद्वालस्य कर्म, यच्च डम्भादिराहित्यलक्षणं स्वमाहात्म्या-नाविष्करणरूपं ‘कर्म’ तत्सर्वं बाल्यशब्देन विधेयम् । अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिद-परिहारलक्षणनिषिद्ध कर्मविधानवत् विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधान-सम्भवादिति पूर्वपक्षे प्राप्ते उच्यते – अनाविष्कुर्वन्नन्वयात् (ब्र.सू.३-४-४९)। स्वमाहात्म्यमनाविष्कुर्वन्नेव विद्वान् वर्तेत । स्वमाहात्म्यानाविष्करणलक्षणबाल्यस्यैव विद्यायामन्वयसम्भवात् । नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्त मानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् ।। (क.उ.३-२-२४) इति विशिष्य विद्यायामपि प्रतिषिद्धस्य कामचारादेः विद्याङ्गतयाऽन्वयासम्भवात् इत्यङ्गपादे स्थितम् । तत्रैव तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य बाल्येन तिष्ठासेद्वाल्यं च पाण्डित्यं च निर्विद्याथमुनिः इत्यत्र मुनिशब्देन पाण्डित्यशब्दविहितं ज्ञानमेवानूद्यते, न ततोऽर्थान्तरं ज्ञानं विधीयते – प्रमाणाभावादिति पूर्वपक्षे प्राप्ते उच्यते –
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् (ब्र.सू.३-४-४६) विधीयते इति कर्मसाधनो विधिशब्दः । सहकार्यन्तरं, च तद्विधिश्च सहकार्यन्तरविधिः। तद्वतः -विद्यावत: तृतीयं-बाल्य-पाण्डित्यापेक्षया तृतीयं मौनं विद्यायास्सहकार्यन्तरं विधीयते इत्यर्थः । न च मुनिशब्दार्थस्य पाण्डित्यशब्देनैव प्राप्तत्वात् विधेयत्वानुपपत्तिरिति वाच्यम् । पक्षेण प्रकृष्ट मननशीले व्यासादौ मुनिशब्दप्रयोगात् प्रकृष्टं मननमेव मुनिशब्दार्थः । तच्च पाण्डित्यशब्दितादौपदेशिकार्थाधिगमात् । श्रवणप्रतिष्ठार्थान्मननाच्चुर्थान्तरभूतमालम्बन संशीलनात्मकमिति तस्याप्राप्तत्वेन विधानार्हत्वात् विधेयत्वं युज्यते । पक्षः – परिग्रहः । पक्ष परिग्रहे (धा.पा.१५५१) इति धातुः । आदर इति यावत् । तत्कृतप्रकर्षयुक्तं यत् मननं मौनम् । तदेव मुनिशब्देन विधीयते। सादरमननमालम्बनसंशीलनं विधीयते इत्यर्थः, विध्यादिवत् । अत्रापि विधिशब्दः कर्मसाधनः । विधिश्चासावादिश्चेति समासः। विधेयादिवदित्यर्थः । प्रस्तुतमननापेक्षया आदिर्यो विधेयः। प्राक्तनो यो विधेयः । पाण्डित्यबाल्यलक्षणः । ततश्चायमर्थः, विद्याङ्गतया यथा वाल्यपाण्डित्ये विधीयते, एवमेवमुनिशमेनापि आलम्बनर्सशीलनलक्षणं सादरं मननं तृतीयं सहकारि विधीयते इत्यर्थः । यद्वा- विध्यादिवदित्यत्र विधिशब्देन विधेयं यज्ञदानाद्युच्यते। आदिपदग्राह्यं रागप्राप्तं श्रवणं मननं च । सहकार्यन्तरविधिरित्यत्र च सहकार्यन्तरेति पृथक्पदं लुप्तविभक्तिकम् । ततश्चायमर्थ:-तृतीयं मौनं यत्-तद्यजनश्रवणमननवत् बाल्यपाण्डित्यापेक्षया सहकार्यन्तरं सत् अर्थान्तरं सद्विध्यर्हमित्यर्थः । पाण्डित्याभिन्नत्वे हि अनुवाच्यता स्यादित्यर्थः ।
ननु – बाल्यपाण्डित्यमौनशमादि नानाश्रमधर्मभूतयज्ञाद्यङ्गिकाया विद्यायाः सर्वेषु आश्रमेषु सम्भवात्, छान्दोग्ये अभिसमावृत्य कुटुम्बे शुचौ देशे इत्यारभ्य न खल्वेवं वर्तयन् यावदापयुषं ब्रह्मलोकमिभसम्पद्यते न च पुनरावर्तते (छा.उ. ८-१५-१) इति गार्हस्थ्यधर्मेण उपसंहारः कथमित्यत्राह · कृत्स्नभावात्तु गृहिणोपसंहारः (ब्र.सू.३-४-४७) तु शब्द: पक्षं व्यावर्तयति । कृत्स्नेषु आश्रमेषु ब्रह्मविद्यायास्सन्द्भावात् छान्दोग्ये गृहस्थेन उपसंहारः उपलक्षणार्थः । यथा छान्दोग्ये गृहस्थधर्मकीर्तनमितराश्रमधर्मापलक्षणार्थम् । एवं बृहदारण्यके, भिक्षाचर्यं चरन्ति इति सन्न्यासिधर्मकीर्तनम् आश्रमधर्मान्तरोप-लक्षणार्थमित्याह – मौनवदितरेषामप्युपदेशात् (ब्र.सू.३-४-४८)। अत्र मौनशब्देन मौनसमभिव्याहृतसन्न्यासिधर्मभूतभिक्षाचरणादिकं लक्ष्यते। मौनवत् – सन्न्यासिधर्मवत् इतरोऽप्याश्रमधर्मो विद्याङ्गमित्यर्थः । इतरेषामप्याश्रमिणां ब्रह्मसंस्थोऽमृतत्वमेति इति ब्रह्मविद्याया मोक्षस्य चोपदेशात् इति स्थितम् । उषस्तकहोळब्राह्मणद्वयञ्चेदं गुणोपसंहारपादे अन्तरा भूतग्रामवत् स्वात्मानोऽन्यथा भेदानुपपत्तिरिति चेन्नोपदेशवत् (ब्र.सू.३-३-३५) इत्यत्र चिन्तितम् । तत्र हि एतद्ब्राह्मणद्वयप्रतिपाद्यविद्ययोः भेदोऽस्ति, नेति विशये पूर्वपक्षी प्रत्यवतिष्ठते, अन्तरा भूतग्रामवत् स्वात्मनोऽन्यथा भेदानुपपत्तिरिति चेत् इति। अन्तरशब्दाद्भावप्रधानात् सुपां सुलक् इति तृतीयेकवचनस्य आकारादेशे अन्तरेति रूपम् । अन्तरा – अन्तरत्वेनेत्यर्थः । अन्तराशब्दो मध्यवचनोऽप्यस्ति। तयोरेकशेषेण सूत्रेऽयमन्तरेति निर्देशः । ततश्चायमर्थ:-मध्ये उषस्तब्राह्मणे, एष त आत्मा सर्वान्तरः इति सर्वान्तरत्वेन निर्देश: भूतग्रामवत् स्वात्मनः, भूतग्रामवान् यः स्वात्मा – भूतग्रामशब्दिताचेतनान्तर्यामी यः प्रत्यगात्मा तद्विषयकः, यः प्राणेन प्राणिति इति प्राणितृत्वादिजीवधर्मस्य वाक्यशेषे कीर्तनात् । कहोळब्राह्मणं तु अशनायाद्यतीतत्वरूपपरमात्मलिङ्गात् परमात्मविषयकमेव । यदि ब्राह्मण द्वयमपि परमात्मविषयं स्यात् तर्ह्युषस्तेन पृष्टे प्रत्युक्ते च परमात्मस्वरूपे कहोळस्य पुनःप्रश्न: प्रतिवचनञ्चासङ्गतं स्यात् । अतो वेद्यभेदाद्विद्याभेद इति पूर्वपक्षे प्राप्ते – नोपदेशवत् । न वेद्य भेदो युज्यते । यत् साक्षादपरोक्षाद्ब्रह्म य आत्मा सर्वान्तरः इति मुख्यब्रह्मत्व-लक्षणसाक्षाद्ब्रह्मत्व ‘सर्वदेशसर्वकाल’सन्निहितत्व लक्षणापरोक्षत्वसर्वान्तर्यामित्वरूप सर्वान्तरत्वरूपपरमात्मलिङ्गविशिष्टविषयत्वेन प्रश्नद्वयस्याप्येकविषयत्वावश्यम्भावात् । यः प्राणेन प्राणिति इति वाक्यशेषश्रुतस्यापि निरुपाधिकसर्वप्राणिप्राणनहेतुत्वस्य परमात्मलिङ्गत्वात्, उत्तरत्र न दृष्टेर्द्रष्टारं पश्ये: इत्यादिना इन्द्रियाधीन दर्शनादीनां कर्तारं प्रत्यगात्मानं प्राणनस्य कर्तृत्वेनोक्त इति न मन्वीथा इति प्रत्यगात्मव्यावृत्तेः प्रतिपादितत्वाञ्च उषस्तप्रश्नप्रतिवचनमपि परमात्मविषयमेव । अत एव कहोळप्रश्ने, यदेव साक्षा–दपरोक्षाद्ब्रह्म इति एवकारेण पूर्वपृष्टाधिकविषयत्वं व्यावर्तितम् । नन्वेवं सति पुनः प्रश्नवैयर्थ्यमिति चेन्न-उपदेशवत् । यथा सद्विद्यायाम् उत तमादेशमप्राक्ष्यः (छां.उ.६-१-२) इति प्रक्रान्ते सदुपदेशे भगवांस्त्वेव मे तद्ब्रवीतु (छां.उ.६-५-७) भूय एव मा भगवान् विज्ञापयतु (छां.उ.६-५-४) इति प्रश्नस्य, स एषोऽणिमैतदात्म्यमिदं सर्वम् (छां.उ.६-८-७) इति प्रतिवचनस्य च भूयो भूय आवृत्तिः सतो ब्रह्मणः तत्तन्माहात्म्य-विशेषप्रतिपादनाय दृश्यते, तद्वत् एकस्यैव सर्वान्तरभूतस्य कृत्स्नप्राणिप्राणनहेतोः परस्य ब्रह्मणः अशनायाद्यतीतत्वादिरूपब्रह्मलिङ्गान्तरप्रतिपादनाय कहोळस्य पुनः प्रश्नोपपत्तेः ।
व्यतिहारो विशिंषन्ति हीतरवत् (ब्र.सू.३-३-३७) हि – यस्माद्धेतोः एकमेव परमात्मानं याज्ञवल्क्यवचनानि सर्वप्राणिप्राणनहेतुत्वाशनायाद्यतीतत्वादिधर्मः विशिषन्ति, तस्माद्धेतोः वेद्यैक्यात् विद्यै क्येन व्यतिहारः – ब्राह्मणद्वयश्रुतानां गुणानामितरेतरत्रोपसंहारः कर्तव्यः । इतरवत् – यथा सद्विद्यायां वेद्यैक्य प्रयुक्तविद्यैक्यबलात् भूय एव मा भगवान् विज्ञापयतु इति, तथा सोम्येति होवाच इति प्रश्नप्रतिवचनभेदेऽपि सर्वप्रतिवचनगतानांसर्वेषां धर्माणां सर्वत्रोपसंहारः, तद्वत्।
ननु सद्विद्यायामपि प्रश्नप्रतिवचनभेदात् भेद एवास्त्वित्यत्राह – सैव हि सत्यादयः (ब्र.सू.३-३-३७) सैव हि – सच्छब्दाभिहिता देवतैव हि, तत् सत्यं स आत्मा इति श्रुता। सत्यत्वादयश्च धर्मः उद्दालको हारुणि: श्वेतकेतुं पुत्रमुवाच (छां.उ.६-८-१) इत्यारभ्य प्रवृत्तेषु नवस्वपि खण्डेषु अनुगताः दृश्यमानाः वेद्यैक्यमवगमयन्ति। अतो न दृष्टान्त- सिद्धिशङ्का कार्या इति स्थितम् । प्रकृतमनुसरामः ।। १ ।।
।। इति पञ्चमाध्याये पञ्चमब्राह्मण प्रकाशिका ।।
बृहदारण्यकोपनिषत्
पञ्चमोऽध्यायः
Part 2
पञ्चमाध्याये षष्ठब्राह्मणम्
गार्गीब्राह्मणम् – ओतप्रोतब्राह्मणम्
[गार्ग्याः अबाद्याधाराणा प्रश्नाः उत्तराणि च]
अथ हेन गार्गी बाचक्रवी पप्रच्छ । याज्ञवल्क्येति होवाच यदिदँ र्वमप्स्वोतञ्च । प्रोतञ्च, कस्मिन्नु खल्वाप ओताश्च प्रोताश्चेति । वायौ गार्गीति कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति । अन्तरिक्षलोकेषु गार्गाति । कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च प्रोताश्चेति । गन्धर्वलोकेषु गार्गीति । कस्मिन्नु खलु गन्धर्वलोका ओताश्च प्रोताश्चेति । आदित्यलोकेषु वायौ गार्गीति । कस्मिन्नु खलु वायुरोतश्च प्रोतश्चेति गार्गीति । कस्मिन्नु खल्चादित्यलोका ओताश्च प्रोताश्चेति । चन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु चन्द्रलोका ओताश्च प्रोताश्चेति । नक्षत्रलोकेषु गार्गीति। कस्मिन्नु खलु नक्षत्रलोका ओताश्च प्रोताश्चेति । देवलोकेषु गार्गीति । कस्मिन्नु खलु देवलोका ओताश्च प्रोताश्चेति । इन्द्रलोकेषु गार्गीति । कस्मिन्नु खलु इन्द्रलोका ओताश्च प्रोताश्चेति । प्रजापतिलोकेषु गार्गीति । कस्मिन्नु खलु प्रजापतिलोका ओताश्च प्रोताश्चेति । ब्रह्मलोकेषु गार्गीति । कस्मिन्नु खलु ब्रह्मलोका ओताश्च प्रोताश्चेति। स होवाच गार्गि! माऽतिप्राक्षीः, मा ते मूर्धा व्यपप्तत् । अनति प्रश्न्यां वे देवतामतिपृच्छसि गार्गि! माऽतिप्राक्षीरिति।। ततो ह गार्गी वाचक्रव्युपरराम ।। १ ।।
प्र. – अथ पप्रच्छ इति । गर्गस्य गोत्रापत्यं गार्ग्यः । गर्गादिभ्यो यञ् (पा.सू.४-१-१०५) स्त्रीत्वविवक्षायाम् यञश्च (पा.सू.४-१-१६) इति ञीप् । यस्येति च (पा.सू.६-४-१५८) इत्यकारलोपः। हलस्तद्धितस्य (पा.सू.६-४-१५०) इति यकारलोप: गर्गगोत्रजा स्त्रीत्यर्थः । वाचक्नवी । वचक्नुर्नाम ऋषिः । तस्यापत्यं स्त्री । अणि, ङीपि, आदिवृद्धौ, ओर्गुणे, अवादेशे, यस्येति च इत्यकारलोपे वाचक्नवी । वचक्नुपुत्रीत्यर्थः । अन्यत् स्पष्टम् । याज्ञवल्क्येति होवाच । पूर्ववत् । यदिदं सर्वमप्स्वोतञ्च प्रोतञ्च । यदिदं – दृश्यमानं पार्थिवं सर्वं धातुजातं कारणभूतासु अप्सु ओतञ्च प्रोतञ्च – दीर्घतन्तुषु पटवदोतम् तिर्यक्तन्तुषु पटवत् प्रोतञ्चास्ति । अप्सु प्रोतत्वाभावे पार्थिवो धातुः सक्तुमुष्टिवत् विशीर्येत इति भावः । ताः आपः कस्मिन्नु खल्वोताः प्रोताश्चेति प्रश्नः । तत्र याज्ञवल्क्यस्य उत्तरं वायौ गार्गीति । हे गार्गि! त्वदुक्ता आपः वायौ ओताश्च प्रोताश्चेत्यर्थः । एवमुत्तरत्रापि प्रश्नप्रतिवचनरूपतया वाक्यानि नेयानि । प्रजापतिलोक: दक्षादिलोकः । ब्रह्मलोकः चतुर्मुखलोकः । न चात्रबादेः स्वयोनिभूतवाय्वादौ ओतत्वादिसम्भवेऽपि, अधःस्थितानाम् अन्तरिक्षलोकादीनाम् उपरितनेषु गन्धर्वलोकादिषु ओतत्वप्रोतत्वे अनुपपन्ने इति शङ्कयम् – पर्वतानामुपरिस्थितानां क्षितिधारकत्ववत्, ऊर्ध्वस्थितस्य ध्रुवस्य ज्योतिश्चक्रधारकत्ववच्च एतदुपपत्तेः इति दृष्टव्यम् । स होवाच । स– याज्ञवल्क्य उवाच ह इत्यर्थः । किमिति इत्यत आह – गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्तत् । हे गार्गि । ब्रह्मलोकमप्यतिक्रम्य तत ऊर्ध्वस्य तदाधारस्य प्रश्नं मा कुरु; ते मूर्ध्नः पतनं मा भूदित्यर्थः । पुनः पृच्छसि चेत्, पतिष्यतीति भावः । अपप्तत् । लुङि लृदित्वादङ् । पतःपुम् (पा.सू.७-४-१९) इति पुमागमः । तत् कुत इत्यत्राह – अनतिप्रश्नयां – – माऽतिप्राक्षीः । प्रश्नमर्हतीति प्रश्न्या, नियमाद्युपेतप्रश्नमर्यादामतिक्रम्य वर्तमानः प्रश्नः अतिप्रश्नः । आक्षेप इति यावत् । अतिप्रश्नमर्हतीत्यतिप्रश्न्या आक्षेपार्हा इत्यर्थः । सा न भवतीति अनतिप्रश्न्या । आक्षेपमुखेन ज्ञातुमयोग्यां परदेवतामाक्षेपमुखेन ‘ज्ञातुमिच्छसि इत्यतो यद्येवं पुनः पृच्छसि ततस्ते मूर्धा पतिष्यति इत्यर्थः । स्वरूपसत्ता न ते सिद्धयेदिति भावः । यद्यपि ब्रह्मलोकाधारविषयः प्रश्नो न परदेवताविषयः, अपि तु
अव्याकृताकाशविषयः – तथापि तदनन्तरप्रश्नः परदेवताविषयो भविष्यतीति दूरदृष्ट्या ब्रह्मलोकाधारप्रश्नमेव प्रतिचिक्षेपेति द्रष्टव्यम् –ततो ह गार्गी वाचक्नवी उपरराम । पूर्ववदर्थः । ततश्चेयं वाचक्नवी परदेवतां स्वयं जानन्त्यपि ऋषेः भीता इत्यूह्यम् ।। १ ।।
।। इति पञ्चमाध्याये षष्ठब्राह्मण प्रकाशिका ।।
पञ्चमाध्याये सप्तमं ब्राह्मणम्
अन्तर्यामिब्राह्मणम्
[उहालकस्य सूत्रान्तर्याम्युभयविषयकः प्रश्नः]
अथ हैनमुद्दालक आरुणि: पप्रच्छ । याज्ञवल्क्येति होवाच, मद्रेष्वव–साम पतञ्जलस्य काप्यस्य गृहेषु यज्ञमधीयानाः । तस्यासीद्भार्या गन्धर्वगृहीता । तमपृच्छाम, कोऽसीति । सोऽब्रवीत्, कबन्ध आथर्वण इति ।। १ ।।
प्र.- अथ हैनम् ‘उहालक आरुणिः‘ पप्रच्छ । नाम्ना उद्दालक: अरुणस्यापत्यम् आरुणिः । शिष्टं स्पष्टम् । याज्ञवल्क्येति होवाच । पूर्ववदर्थः । मद्रेषु – – – –यज्ञमधीयानाः । वयं मद्रेषु देशेषु, गोत्रतः काप्यस्य, नाम्ना पतञ्जलस्य गृहेषु गृहा: पुंसि च भूम्नयेव (अ.को.२-२-५) इति एकस्मिन् बहुवचनम् – यज्ञं – कल्पसूत्रम् अधीयानाः अवसाम – ‘उषितवन्त इत्यर्थः । तस्यासीत् भार्या गन्धर्वगृहीता । तस्य– काप्यस्य पतञ्जलस्य तमपृच्छाम । तं – ग्रहीतारं गन्धर्वं वयं पृष्टवन्तः । किमिति । त्वं कोऽसीति । सोऽब्रवीत् गन्धर्वः । किमिति अहं कबन्ध आथर्वण इति । नाम्ना कबन्धः, अथर्वणः पुत्रश्च इत्यर्थः । इतरत् स्पष्टम् ।। १ ।।
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तत् सूत्रम्, येनायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि संदृब्धानि भवन्तीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तद् भगवन् वेदेति ॥ २ ॥
प्र. – सोऽब्रवीत् याशिकांश्च इति । सः – गन्धर्वः याज्ञिकान् । यज्ञाध्येतृृन् तान्, तमध्यापकं काप्यञ्चाब्रवीत् इत्यर्थः । तदेवाह – वेत्थ नु – –भवन्तीति । येन सूत्रेण अयञ्च लोक: – भूलोकादिः परश्च लोक: ऊर्ध्वलोकाः, चतुर्दशभुवनानि, तत्स्थानि च सर्वाणि भूतानि संदृब्धानि – येन सूत्रैण, सूत्रेण पुष्पाणीव, ग्रथनेन विष्टब्धानि इत्यर्थः। तत् – ‘एतादृशं त्वं वेत्थ किम् ? इति प्रश्नः । सोऽब्रवीत् पतञ्जल; काप्यो नाहं तद्भगवन् वेदेति । स्पष्टोऽर्थः ।। २ ।।
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, वेत्थ नु त्वं काप्य! तमन्तर्यामिणम्, य इमञ्च लोकं परञ्च लोकँ सर्वाणि च भूतानि योऽन्तरो यमयतीति । सोऽब्रवीत् पतञ्जलः काप्यो नाहं तं भगवन् वेदेति ।। ३ ।।
प्र. – एवं सूत्रं पृष्ट्वा अन्तर्यामिणं पप्रच्छेत्याह – सोऽब्रवीत् – याज्ञिकांश्च इति । पूर्ववदर्थः । प्रश्नमेवाह – वेत्थ नु – वेद इति । य इमञ्च लोकं परञ्च लोकमन्तरो यमयति सर्वाणि च भूतानि योऽन्तरो यमयतीति यच्छब्दद्वयान्वयः । शिष्टस्य स्पष्टोऽर्थः ।। ३ ।।
सोऽब्रवीत् पतञ्जलं काप्यं याज्ञिकांश्च, यो वै तत् काप्य! सूत्रं विद्यात् तञ्चान्तर्यामिणमिति स ब्रह्मवित् स लोकवित् स देववित् स वेदवित् स भूतवित् स आत्मवित् स सर्वविदिति । तेभ्योऽब्रवीत् । तदहं वेद । तच्चेत् त्वं याज्ञवल्क्य! सूत्रमविद्वाँस्तञ्चान्तर्यामिणं ब्रह्मगवीरुदजसे, मूर्धा ते विपतिष्यतीति ।। ४ ।।
प्र.- सोऽब्रवीत् – – – याज्ञिकाश्च इति । पूर्ववत् । यो वै – अन्तर्यामिण–मिति । इति शब्दः प्रकारवचनः । हे काप्य! तत् सूत्रम्; तञ्चान्तर्यामिणमस्मत्पृष्टम् इति अस्मदवगतप्रकारेण यो विद्यादित्यर्थः । स ब्रह्मवित् – सर्वविदिति । स एव परब्रह्मवित् स एव तन्नियम्यलोकदेववेदभूतवित् । स एव आत्मवित् – परमात्मवित् । परब्रह्मणः परमात्मत्वप्रकारं स एव जानाति इत्यर्थः । स एव च सर्ववित् इत्येवं तेभ्योऽब्रवीत् । तेभ्यः – काप्ययाज्ञिकेभ्यः स गन्धर्वोऽब्रवीत् इत्यर्थः । अज्ञातज्ञानार्थोऽयं प्रश्नः, न वादिपराभवार्थः । अज्ञातान्तर्यामिकथनञ्च सनियमकप्रश्नसाध्यम् । अतो नैवं प्रष्टव्यम् इत्याशङ्कां वारयति । तदहं वेद – तत्सर्वम् अहं जाने इत्यर्थः । ततो नाज्ञातज्ञानार्थोऽयं मम प्रश्नः इति भावः । तच्चेत्वं – – – विपतिष्यतीति । तत् –सूत्रं तञ्चान्तर्यामिणमविदित्वा त्वं हे याज्ञवल्क्य ! ब्रह्मगवी: – ब्रह्मविद्यापणबन्धभूताः गाः गोरतद्धितलुकि (पा.सू.५-४-९२) इति टचि टिड्ढाणञ् (पा.सू.४-१-१५) इत्यादिना ङीष् उदजसे चेत् – कालयसि चेत्, ते मूर्धा पतिष्यतीति याज्ञवल्क्यम् उद्दालक: शशाप इत्यर्थः ।। ४ ।।
वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति । यो वा इदं कश्चित् ब्रूयात् वेद वेदेति; यथा वेत्थ, तथा ब्रूहीति ।। ५ ।।
प्र– अत्र, वेद वा अहं गौतम! तत् सूत्रं तञ्चान्तर्यामिणमिति याज्ञवल्क्यस्य प्रतिवचनम् । हे गौतम! तत् सूत्रं तञ्चान्तर्यामिणं त्वया पृष्टमहं वेदैव इत्यर्थः । एवमुक्त उद्दालक उवाच यो वा – – – ब्रूहीति । यः कश्चिद्वै सर्वज्ञ दम्भोऽपि कश्चित् लोके अहमिदं वेद इदं वेदेति केवलं वाचा ब्रूयादपि । तेन किं फलमित्यर्थः । अतस्त्वं यथा वेत्थ तथा ब्रूहि । येन प्रकारेण वेत्थ, तेन प्रकारेण ब्रूहि । किम्, अहं वेदेति केवलविकत्थनवचसा वञ्चयसीत्यर्थः ।। ५।।
[वायुः सूत्रमिति प्रत्युत्तरम्]
स होवाच – वायुर्वै गौतम! तत् सूत्रम् । वायुना वै गौतम! सूत्रेणायञ्च लोकः परश्च लोकः सर्वाणि च भूतानि सन्दृब्धानि भवन्ति । तस्माद्वै गौतम! पुरुषं प्रेतमाहुः, व्यस्रँसिषतास्याङ्गानीति । वायुना हि गौतम । सूत्रेण सन्दृब्धानि भवन्तीति । एवमेवैतत् याज्ञवल्क्य! अन्तर्यामिणं ब्रूहीति ।। ६ ।।
प्र – स होवाच वायुर्वै गौतम । तत्सूत्रम् । हे गौतम! तत् – सूत्रं त्वया पृष्टं वायुरेव इत्यर्थः । वैशब्दोऽवधारणे । वायोरेव सर्वलोकभूताधारत्वं सूत्रलक्षणमस्तीत्याह –वायुना – – – भवन्ति । उक्तेऽर्थे गमकमाह – तस्माद्वै गौतम – – भवन्तीति। यस्मात् सर्वाणि वायुना ग्रथितानि, तस्मादेव हेतोः उत्क्रान्तप्राणस्य पुरुषस्याङ्गानि उत्सूत्रमाल्यानीव विस्रस्तानि भवन्ति । अत एव जनाः मृतस्याङ्गानि व्यस्रंसिषत इत्याहुः । अतो वायुना संदृब्धानि सर्वलोकभूतानीति स याज्ञवल्क्य उवाच इति सम्बन्धः । व्यस्त्रंसिषत – लुङ् । उक्तमर्थम् उद्दालकः, अङ्गीकरोति । एवमेवैतद्याज्ञवल्क्य – भवतु एतदेवम् । इतरब्रूहीत्याह – अन्तर्यामिणं ब्रूहीति । स्पष्टोऽर्थः ।। ६ ।।
[अन्तर्यामिण: सूत्रनियन्तृत्वम्]
यः पृथिव्यां तिष्ठन्, पृथिव्या अन्तरो यं पृथिवी न वेद, यस्य पृथिवी शरीरम्, यः पृथिवीमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। ७ ।।
प्र. – याज्ञवल्क्य आह – यः पृथिव्यां – – – अन्तर्याम्यमृत: ।पृतिव्यां स्थितः तदन्तर्गतः तदवेद्यः तच्छरीरकश्च सन् , योऽन्तः प्रविश्य प्रतिनिवृत्तिलक्षणनियमनं करोतिः एषोऽन्तर्यामी ते अमृत आत्मा – निरुपाधिकामृतत्वशाली आत्मा इत्यर्थः । अत्र ते आत्मेति व्यतिरेकनिर्देशात् अन्तर्यामिण: जीवव्यतिरेकः सिद्धः, अमृतत्वविशेषणाच्च सिद्धयति । तद्धि विशेषणं जीवव्यावृत्त्यर्थम् । अन्तर्यामी ते आत्मा इत्युक्ते, आत्मशब्दस्य स्वरूपवचनत्वशङ्ख्या जीवव्यावृत्तिर्न प्राप्नोतीति हि अमृत इत्युक्तम् । जीवस्यामृतत्वसिद्धेः परमात्मा प्रसादाधीनत्वान्न तत् तस्य निरुपाधिकमिति निरुपाधिकामृतत्वशाली आत्मा परमात्मेव । अत्र अमृतत्वस्य उपाध्यनुक्तया निरुपाधिकत्वसिद्धिर्द्रष्टव्या ।
अत्र प्रश्चानुरूप्येण, इमं व लोकं परञ्च लोकं सर्वाणि च भूतानि योऽन्तरे यमयति एष त आत्मा अन्तर्यामी इति एकेनैव निर्देशन सर्वान्तर्यामिणः उद्दालकं प्रति, ते आत्मा इत्यात्मत्वप्रतिपादनसंभवात् यः पृथिव्यां तिष्ठन् योऽप्सु तिष्ठन् इत्यादि-पर्यायोपदेशबाहुल्यं किमर्थमिति चेन्न – पृथिव्यादिके एकेकवस्तुनि प्रत्येकं परिपूर्णत्वेन नियन्तृतया स्थितिज्ञापनार्थत्वेन सार्थक्यात् । परिपूर्णत्वञ्च अणुमात्रेऽपि वस्तुनि स्थितस्य निरवधिकषाङ्गुण्य विशिष्टतया प्रतिपत्तियोग्यत्वमिति व्यासार्यैर्वाक्यान्वयाधिकरणे वर्णितम्।
इदं हि ‘पूर्णत्व’नैकेन पूर्वोक्तरीत्या निर्देशन सिद्ध्यति । ननु, सर्वाणि च भूतानि योऽन्तरो यमयति, तं मे ब्रूहि इति, सर्वभूतानामप्यन्तर्यामी एकोऽस्ति, स वक्तव्य इति पृष्टवन्तमुद्दालकं, प्रति पृथिव्यन्तर्याम्येव ते अन्तर्यामी, जालान्तर्याम्येव ते अन्तर्याम् इति पृथिव्याद्यन्तर्यामिणश्च उद्दालकान्तर्यामिणश्चाभेदबोधनमसङ्गतम् अन्तर्याम्यैक्यस्य प्रागेव निक्षितत्वात् । अतः स त आत्मा इत्यत्र आत्मशब्दो नान्तर्यामिवचनः, अपितु स्वरूपवचन इत्येव युक्तमिति चेन्न आत्मशब्दस्य शेषित्वाधारत्वाद्यर्थ-कतयाऽप्युपपत्तेः ते आत्मेति व्यधिकरणनिर्देशस्वारस्यभङ्गायोगात् । पतिं विश्वस्य इत्यादिवाक्यैर्विश्वशेषिणः कस्यचिदवगतत्वात् तेन वाक्येन प्रतिपन्नस्ते आत्मा-ते शेषी पृथिव्यादीनाम् अन्तर्यामीति प्रघट्टार्थः ।। ७ ।।
योऽप्सु तिष्ठन्नद्भयोऽन्तरो यमापो न विदुर्यस्यापश्शरीरं, योऽपोऽन्तरो वामयति, एष त आत्माऽन्तर्याम्यमृतः ।। ८ ।।
योऽग्नौ तिष्ठम्नग्रेरन्तरो यमग्निर्न वेद, यस्याग्निश्शरीरं, योऽग्निमन्तरो यमयति, एषा आत्माऽन्तर्याम्यमृतः ।। ९ ।।
योऽन्तरिक्षे तिष्ठन्तरिक्षादन्तरो यमन्तरिक्षं न वेद, यस्यान्तरिक्षं शरीरम्, योऽन्तरिक्षमन्तरो यमयति, एष त आत्मान्तर्याप्यमृतः ।। १० ।।
यो वायौ तिष्ठन् वायोरन्तरो यं वायुर्न वेद, यस्य वायुः शरीरम् , यो वायुमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। ११ ।।
यो दिवि तिष्ठन् दिवोऽन्तरो यं द्यौर्न वेद, यस्य द्यौश्शरीरम्, यो दिवमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। १२ ।।
य आदित्येतिष्ठन्नादित्यादन्तरो यमादित्यो न वेद, यस्यादित्यश्शरीरम् , य आदित्यमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। १३ ।।
यो दिग्क्षु तिष्ठन् दिग्भ्योऽन्तरो यं दिशो न विदुर्यस्य दिशश्शरीरम्। यो दिशोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। १४ ।।
याचन्द्रतारके तिष्ठँश्चन्द्रतारकादन्तरो यं चन्द्रतारकँ न वेद, यस्य चन्द्रतारकँ शरीरम्, यश्चन्द्रतारकमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। १५ ।।
य आकाशे तिष्ठन्नाकाशादन्तरो यमाकाशो न वेद, यस्याकाशश्शरीरम्, य आकाशमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। १६ ।।
यस्तमसि तिष्ठँस्तमसोऽन्तरो यं तमो न वेद, यस्य तमश्शरीरम्, यस्तमोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। १७ ।।
यस्तेजसि तिष्ठँस्तेजसोऽन्तरो यं तेजो न वेद, यस्य तेजश्शरीरम्, यस्तेजोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । इत्यधिदैवतम् । अथाधिभूतम् ।। १८ ।।
प्र.– एवमप्सु अग्नौ अन्तरिक्षे वायो दिवि आदित्ये दिक्षु चन्द्रतारके आकाशे तमसि तेजसि च अन्तर्यामिणमुक्त्वा आह – इत्यधिदैवतम् । उपदिष्टमन्तर्यामिस्वरूपमिति शेषः । अथाधिभूतम् – अन्तर्यामिस्वरूपम् ‘उच्यते’ इति शेषः ।। ८-१८ ।।
यस्सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योऽन्तरो यँ सर्वाणि भूतानि न विदुर्यस्य सर्वाणि भूतानि शरीरम्, यः सर्वाणि भूतान्यन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः । इत्यविभूतम् । अथाध्यात्मम् ।। १९ ।।
प्र. – सर्वेषु भूतेषु चान्तर्यामिणमुक्त्वाह – इत्यधिभूतम् । अन्तर्यामिस्वरूपमुक्तमिति शेषः । अथाध्यात्मम् । अन्तर्यामिस्वरूपमुच्यत इति शेषः ।। १९ ।।
यः प्राणे तिष्ठन् प्राणादन्तरो यं प्राणो न वेद, यस्य प्राणश्शरीरम्, य: प्राणमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। २० ।।
यो वाचि तिष्ठन् वाचोऽन्तरो यं वाङ्न वेद, यस्य वाक् शरीरम्, यो वाचमन्तरो यमयति, एष त आत्मान्तर्याम्यमृतः ।। २१ ।।
यश्चक्षुषि तिष्ठन् चक्षुषोऽन्तरो यं चक्षुर्न वेद, यस्य चक्षुश्शरीरम्, यश्चक्षुरन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। २२ ।।
यश्श्रोत्रे तिष्ठन् श्रोत्रादन्तरो यँ श्रोत्रं न वेद, यस्य श्रोत्रँ शरीरम्, यश्श्रोत्रमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। २३ ।।
यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद यस्य मनश्शरीरम्, यो मनोऽन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। २४ ।।
यस्त्वचि तिष्ठँस्त्वचोऽन्तरो यँ त्वङ् न वेद, यस्य त्वक् शरीरम् यस्त्वचमन्तरो यमयति, एष त आत्माऽन्तर्याम्यमृतः ।। २५ ।।
यो विज्ञाने तिष्ठन् विज्ञानादन्तरो यं विज्ञानं न वेद, यस्य विज्ञानं शरीरम्, यो विज्ञानमन्तरो यममति, एष त आत्माऽन्तर्याम्यमृतः ।। २६ ।।
प्र. – एवं प्राणे वाचि चक्षुषि क्षोत्रे मनसि त्वचि च उक्त्वा आह यो विज्ञाने – अमृतः । अत्र विज्ञानशब्दो जीवात्मपरः । समानप्रकरणे माध्यन्दिनशाखायामत्रत्य विज्ञानशब्दस्थाने, आत्मनि तिष्ठन् इति आत्मशब्देन निर्देशदर्शनात्, ज्ञानस्वरूपस्य तस्य तच्छब्दवाच्यत्वयोगाच्चेति द्रष्टव्यम् ।। २०-२६ ।।
यो रेतसि तिष्ठन् रेतसोऽन्तरो यँ रेतो न वेद, यस्य रेतश्शरीरम्, यो रेतोऽन्तरो यमयत्येष त आत्माऽन्तर्याम्यमृतः । अदृष्टो द्रष्टा, अश्रुतश्श्रोत, अमतो मन्ता, अविज्ञाता विज्ञाता, नान्योऽतोऽस्ति द्रष्टा, नान्योऽतोऽस्त श्रोता, नान्योऽतोऽस्ति मन्ता, नान्योऽतोऽस्ति विज्ञाता; एष त आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् । ततो होद्दालक आरुणिरुपरराम ।। २७ ।।
प्र. – एवं रेतस्यन्तर्यामिणमुक्त्वाऽऽह – अदृष्टो द्रष्टा – – – विज्ञाता इति । अत्र द्रष्टृत्वं रूपसाक्षात्कारवत्वम् । न तु चक्षुर्जन्यज्ञानवत्वम्। तस्य परमात्मन्यसम्भवात् । श्रोतृत्वं शब्दसाक्षात्कारवत्त्वम् । मन्तृत्वं मन्तव्यविषयसाक्षात्कर्तृत्वम् । विज्ञातृत्वं विज्ञानशब्दितनिदिध्यासनविषयसाक्षात्कर्तृत्वम् । द्रष्टुत्वादिकं जीवस्यापि अस्तीति अदृष्टत्वादिना द्रष्टृत्वादिकं विशेषितम् । तादृशञ्च तन्न जीवस्यास्तीति भावः । अत्र च द्रष्टृत्वादौ उपाध्यनुक्तेः निरुपाधिकद्रष्टृत्वमर्थसिद्धमिति द्रष्टव्यम् । नान्यो – – – विज्ञाता । एष त आत्माऽन्तर्याम्यमृतः । अतोऽन्यदार्तम् । अन्यशब्दादेः सर्वनाम्न: पूर्वनिर्दिष्ट सदृशान्यपरत्वस्य, समानेषु पूर्वत्वात् (पू.मी.सू.७-१-९२) इति ‘साप्तमिकाधिकरणे व्यवस्थितत्वात् अत्राप्यन्यशब्देन पूर्वनिर्दिष्टादृष्टत्वादिविशेषितनिरुपाधिकरूपादि साक्षात्कारादिमतो निषेध उपपद्यते । जीवस्य करणायत्तज्ञानत्वात् अन्यस्तत्सदृशोऽदृष्टो द्रष्टा नास्तीत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् । शिष्टं स्पष्टम् । ततो होद्दालको आरुणि–रुपरराम । पूर्ववत् । इदञ्च ब्राह्मणमधिकृत्य समन्वयाध्याये द्वितीयपादे चिन्तितम् । यः पृथिव्यां तिष्ठन् इत्यारभ्यान्तर्यामिब्राह्मणे अधिदैवतमधिलोकमधिवेदमधियज्ञमधिभूतमध्यात्मञ्च अन्तरवस्थितत्वेनोक्तोऽयमन्तर्यामी जीव एव स्यात् । वाक्यशेषे, द्रष्टा श्रोता इति करणायत्तज्ञानवत्त्वोक्तेः । न च दर्शनश्रवणादिशब्दा: रूपशब्दादिसाक्षात्कारपराः । तादृशसाक्षात्कारवत्वञ्च परमात्मनोऽपि सम्भवतीति वाच्यम् – तथा हि सति, नान्योऽतोऽस्ति द्रष्टा इति तदतिरिक्तद्रष्टुनिषेधानुपपत्तेः । जीवस्यैव तदतिरिक्तस्य रूपादिसाक्षात्कारवतः सत्त्वात् । द्रष्ट्रादिशब्दाना करणायत्तज्ञानवत्त्वार्थकतया जीवपरत्वे तु जीवव्यतिरिक्तस्य करणायत्तज्ञानवतो निषेध उपपद्यते; ईश्वरस्य करणायत्तज्ञानवत्त्वाभावादिति पूर्वपक्षे प्राप्ते उच्यते अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् (ब्र.सू.१-२-१९) अधिदेवाधिलोकादिषु श्रूयमाणोऽन्तर्यामी परमात्मैव; सर्वभूतान्तरत्वामृतत्वादेः परमात्मधर्मस्य श्रवणात् । अधिलोकादयो माध्यन्दिने द्रष्टव्याः । अन्यशब्दस्य पूर्वोक्तन्यायेन पूर्वनिर्दिष्टा-दृष्टत्वादिविशेषितनिरुपाधिकरूपादि साक्षात्कर्त्रन्तरपरत्वेन वाक्यशेषोऽप्युपपद्यते ।
न च स्मार्तमतद्धर्माभिलापाच्छारीरश्च (ब्र.सू.१-२-२०) यथा स्मार्तं प्रधानम् , अदृष्टो द्रष्टा इति श्रुतस्यादृष्टत्वविशिष्टद्रष्टृत्वस्य, ‘सर्वान्तर्यामित्वादेश्च’ तदसम्भावितधर्मस्य श्रवणात् न प्रतिपाद्यम् – एवं न जीवोऽप्यत्र प्रतिपाद्यते ।। उभयेऽपि हि भेदेनेनैनमधीयते (ब्र.सू.१-२-२१) । काण्व माध्यन्दिनाश्च उभयेऽपि अन्तर्यामिणं जीवभिन्नमेव आमनन्ति । माध्यन्दिनाहि, य आत्मनि तिष्ठन्नात्मनोऽन्तरो इति, काण्वाश्चात्मपर्यायस्थाने, यो विज्ञाने तिष्ठन् इति आत्मापदस्थाने विज्ञानपदमधीयते । अतो न जीवोऽन्तर्यामीति स्थितम् । ननु अत्मनो ज्ञानाश्रयस्य कथं विज्ञानशब्दवाच्यत्वमिति चेन्न – अस्यार्थस्य वियत्पादे चिन्तितत्वात् । तथा हि यो विज्ञाने तिष्ठन्, विज्ञानं यज तनुते (तै.आन.५-१) ज्ञानस्वरूपमत्यन्तनिर्मलं परमार्थत: (वि.पु.१-२-६) इति श्रुतिस्मृतिभिः ज्ञानस्वरूपत्वेनैव आत्मनः प्रतीतेः न ज्ञाता आत्मा । अथवा यो वेदेदं जिघ्राणीति स आत्मा, एष हि द्रष्टा श्रोता इत्यादिश्रवणात् । अहं जानामि – अज्ञासिषम् इत्याद्यनुभवाञ्च आगन्तुकज्ञानाश्रय एव; न स्वयं ज्ञानरूप: । ज्ञानरूपत्ववचनानि तु लाक्षणिकानि इत्येवं पूर्वपक्षे प्राप्ते । उच्यते – ज्ञोऽत एव (ब्र.सू २-३-१९) । अत एव एष हि द्रष्टा श्रोता रसयिता घ्राता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः इति विज्ञानात्मनः एव जीवस्य द्रष्टृत्वादिश्रुतेरेव ज्ञानात्मकोऽपि सन् स्वाभाविकज्ञानाश्रयश्च भवतीत्यर्थः ।
ननु विभोरात्मनः स्वाभाविकज्ञानाश्रयत्वे तज्ज्ञानस्य सर्वपदार्थसम्बन्धात् सार्वज्यं सर्वदा स्यात् इत्याशङ्क्याह – उत्क्रान्तिगत्यागतीनाम् (ब्र.सू.२-३-२०) विभुत्वे स्यादियं शङ्काऽपि, तेन प्रद्योतेनैष आत्मा निष्कामति (बृ.उ.६-४-२)। ये वै के चास्माल्लोकात् प्रयन्ति, चन्द्रमसमेव ते सर्वे गच्छन्ति (कै.उ.१-२) तस्माल्लोकात् पुनरेत्यस्मै लोकाय कर्मणे (बृ.उ.६-४-६) इति जीवस्य उत्क्रान्तिगत्यागतीनां श्रवणात् जीवो न विभुः । अतो न सर्वदा सार्वज्ञ्यापत्तिरित्यर्थः । ननु शरीरादुत्क्रमणं नाम शरीरविषयकाभिमानराहित्यम् ।
तच्च विभोरप्यात्मनः सम्भवतीत्यत्राह स्वात्मना चोत्तरयोः (ब्र.सू.२-३-२१) । च शब्दोऽवधारणे । विभुत्वपक्षे उत्क्रमस्य कथञ्चित्सम्भवेऽपि उत्तरयोः गमनागमनयोः स्वात्मना – स्वरूपेणैव सम्पाद्यत्वात् विभुत्वे तदसम्भवः । किञ्च भूतकरणग्रामा-संपरिष्वक्तस्यैव, एतास्तेजोमात्रास्समभ्याददानो हृदयमेवान्ववक्रामति, शुक्रमादाय पुनरेति स्थानम् इति शरीर एव स्वात्मनैव गत्यागतिश्रवणात् विभुत्वे च तयोरसम्भवात् न विभुरात्मा । नाणुरतच्छ्रुतेरिति चेन्नेतराधिकारात् (ब्र.सू.२-३-२२) योऽयं विज्ञानमयः प्राणेषु इति जीवं प्रस्तुत्य स एष महानज आत्मा इति महत्वश्रुतेर्नाणुर्जीव इति चेत् – न यस्यानुवित: प्रतिबुद्ध आत्मा इति जीवेतरं परमात्मानमधिकृत्य तस्यैव तत्र महत्त्वप्रति-पादनात् । स्वशब्दोऽन्मानाभ्याञ्च (ब्र.सू.२-३-२३) एषोऽणुरात्मा चेतसा वेदितव्यः (मुं.उ.३-१-९) इति अणुत्वलक्षणस्य स्वस्य वाचकशब्दश्रवणात्, वालाग्रशतभागस्य शतधा कल्पितस्य च । भागो जीवस्सविज्ञेयः (श्वे.उ.५-९) इति अणुसदृशं वस्तूद्धृत्य तन्मानत्वस्य जीवे आमननाच्चाणुरेव ।
ननु अणुत्वे सति एकदेशस्थस्य कथं सकलदेहव्यापिवेदनोपलम्भ इत्यत्र मतान्तरेण परिहारमाह – अविरोधश्चन्दनवत् (ब्र.सू.२-३-२४) । यथा हरिचन्दनबिन्दुः शरीरैकदेशस्थोऽपि सकलदेहव्यापिनम् आह्वादं करोति, एवं जीवोऽपि भविष्यति । अवस्थितिवैशेष्यादिति चेन्नाभ्युपगमादि हि (ब्र.सू.२-३-२५) हरिचन्दनबिन्द्वादेः हृदयादिरूपदेशविशेषावस्थिति-विशेषादस्तु तथाभावः, आत्मनो न देशविशेषावस्थितिरस्तीति कथं तथात्वमिति चेन्न-हृदि ह्ययमात्मा इति जीवस्यापि शरीरप्रदेशविशेषावस्थित्यभ्युपगमात् । अथ स्वमतेन परिहारमाह गुणाद्वाऽऽलोकवत् (ब्र.सू.२-३-२६) वा शब्दो मतान्तरव्यावृत्त्यर्थः । लोके यथा एकदेशस्थानामपि मणिद्युमणिप्रभृतीनां प्रभा व्यापिनी, एवमेकदेशस्थितस्यापि जीवस्य प्रभास्थानीयधर्मभूतज्ञानव्याध्या सर्वाङ्गीणसुखदुःखाद्यनुभवसम्भवात् नानुपपत्तिः । ननु आत्मव्यतिरिक्तं ज्ञानं नास्तीत्यत्राह – व्यतिरेको गन्धवत् तथा च दर्शयति (ब्र.सू.२-३-२९) । यथा गन्धस्य पृथिवी व्यतिरेकः प्रत्यक्षसिद्धः, तथा, अहं जानामीति ज्ञानस्यात्मव्यतिरेकः प्रत्यक्षसिद्धः । जानात्येवायं पुरुष: इति श्रुतिश्च तथा दर्शयति । पृथगुपदेशात् (ब्र.सू.२-३-२८) विज्ञानात्मनोः, पृथक्कृत्य न हि विज्ञातुः विज्ञातेर्विपरिलोपो विद्यते (बृ.उ.६-३-३०) इति तत्तद्वाचकशब्दैरेव पृथक्कृत्य, उपदेशदर्शनात् आत्मधर्मभूतं ज्ञानम् अस्त्येव । ननु ज्ञानस्यात्मापेक्षया पृथक्त्वे, यो विज्ञाने तिष्ठन् इत्यादिश्रुतीनां का गतिरित्यत्राह – तद्गुणसारत्वात्तु तद्व्यपदेशः प्राज्ञवत् (ब्र.सू.२-३-२९) । तुशब्दः चोद्यं “व्यावर्तयति । जीवे विज्ञानगुणस्यैव सारभूतगुणत्वात् विज्ञानमिति जीवो व्यपदिश्यते । यथा प्राज्ञस्प परमात्मनः आनन्दगुणसारत्वात्, यदेष आकाश आनन्दो न स्यात् इत्यानन्दशब्देन व्यपदेशः । यावदात्मभावित्वाञ्च न दोषस्तद्दर्शनात् (ब्र.सू.२-३-३०) यथा गोत्वादीनां यावद्गोव्यक्तिभावित्वात् गोत्ववाचिभि: गवादिशब्दैः व्यक्तिनिर्देशो दृश्यते, एवमेव ज्ञानरूपधर्मस्य यावदात्मभावित्वात् तद्वाचिना ज्ञानशब्देन धर्मिणो व्यपदेशो न दोषाय इत्यर्थः । अत्र चकारात् ज्ञानवत् आत्मनोऽपि स्वप्रकाशत्वेन, ज्ञानमिति व्यपदेशो न दोषायेति समुच्चिनोति ।
ननु सुषुप्त्यादिषु ज्ञानाभावात् न ज्ञानस्य यावदात्मभाविधर्मत्वम् । तत्राह पुंस्त्वादिवत्त्वस्य सतोऽभिव्यक्तियोगात् (ब्र.सू.२-३-३१) । यथा सर्वदा विद्यमानस्य पुंस्त्वव्यञ्जकधातोः यौवनेऽभिव्यक्तिरेवं सर्वदा विद्यमानस्यापि विज्ञानस्येन्द्रियसम्प्र-योगदशायाम् अभिव्यक्तिः । अतश्च ज्ञानस्वरूपोऽणुरात्मा ज्ञाता च । ननु विज्ञानरूप एवात्मा विभुरस्तु, तत्राह – नित्योपलब्ध्यनुपलब्धिप्रसङ्गोऽन्यतरनियमोवाऽन्यथा (ब्र.सू.२-३-३२) ।
किं सर्वगत आत्मा उपलब्धेरेव वा अनुपलब्धेरेव वा हेतुः, उत उभयत्र । आद्यपक्षद्वयपक्षे उपलब्धेरेव वा अनुपलब्धेरेव वा इत्यन्यतरनियमः स्यात् । तृतीयपक्षे सर्वदा उपलब्ध्यनुपलब्धी स्याताम् । ततश्च उपलम्भानुपलम्भौ पर्यायेण दृश्यमानौ नोपपद्येयाताम् । अणोर्ज्ञानस्वरूपस्यैव आत्मनः इन्द्रियसम्प्रयोगादिकारणमहिम्ना कादाचित्की धर्मभूतज्ञानाभिव्यक्तिरिति सिद्धान्तपक्षेतु नानुपपत्तिरिति स्थितम् ।
तथा च तत्रैव पादे – कर्ता शास्त्रार्थवत्त्वात् (ब्र.सू.२-३-३३) इति प्रतिपादितं जीवानां कर्तृत्वं न परमात्मायत्तम् । तथात्वे हि प्रवृत्तिनिवृत्त्योः सालभञ्जिकावत् अस्वतन्त्रं जीवं नियोजयतोः विधिनिषेधशास्त्रयोः आनर्थक्यं स्यादिति पूर्वपक्षे प्राप्ते – उच्यते-परात्तु तच्छ्रुतेः । (ब्र.सू.२-३-४०) । तु शब्दः पक्षं व्यावर्तयति । तच्च कर्तृत्वं परात्। परमात्मायत्तमित्यर्थः। य आत्मानमन्तरो यमयति इति तत्कर्तृत्वस्य परायत्तत्वश्रवणात् । नन्वेवं विधिनिषेधशास्त्रानर्थक्यम् । तत्राह कृतप्रयत्नापेक्षस्तु विहितप्रति–षिद्धावैयर्थ्यादिभ्यः (ब्र.सू.२-३-४१) । परमात्मा जीवकृतं पूर्वप्रयत्नमपेक्ष्य तदनुमतिदानेन प्रवर्तयति । एवं सति विधिप्रतिषेधावैयर्थ्यानुग्राहकत्वादिकं सिद्ध्यति । स भगवान् पुरुषोत्तमः अवाप्तसमस्तकामः सर्वज्ञः सर्वेश्वरः सत्यसङ्कल्पः स्वमाहात्म्यानुगुण-लीलाप्रवृत्तः, एतानि कर्माणि समीचीनानि, एतान्यसमीचीनानि इति कर्मद्वैविध्यं संविधाय, तदुपादानोचितदेहेन्द्रियादिकं तन्नियमनशक्तिञ्च सर्वेषां क्षेत्रज्ञानां सामान्येन प्रदिश्य, स्वशासना-वबोधि शास्त्रञ्च प्रदर्श्य, अन्तरात्मतया अनुप्रविश्य अनुमन्तृतया च नियच्छंस्तिष्ठति । ते च क्षेत्रज्ञाः तदाहितशक्तयः तत्प्रदिष्टकरणकळेबरादिकाः तदाधाराः स्वयमेव स्वेच्छानुगुण्येन पुण्यापुण्यरूपे कर्मणी उपाददते । ततश्च पुण्यरूपकर्मकारिणं स्वशासनानुवर्तिनं ज्ञात्वा धर्मार्थकाममोक्षै: वर्धयति । शासनातिवर्तिनञ्च तद्विपर्यपेण योजयति । अतः स्वातन्त्र्य-दयाळुत्वादिवैकल्यचोद्यस्य नावकाशः । दया हि नाम स्वार्थनिरपेक्षापरदुःस्वा सहिष्णुता । सा स्वशासनातिवृत्तिव्यवसायिन्यपि वर्तमाना न गुणायावकल्पते । प्रत्युत अपुंस्त्व- मेवाऽऽवहति । तन्निग्रह एव तत्र गुण: । अन्यथा शत्रुनिग्रहादीनाम् अगुणत्वप्रसङ्गात् । स्वशासनातिवृत्तिव्यवसायनिवृत्तिमात्रेण नाद्यनन्तकल्पोपचितदुर्विषहानन्तापराधानङ्गीकारेण निरतिशय सुखसंवृद्धये’ स्वयमेव प्रयतते । यथोक्तम् –तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् ।
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ।। (भ.गी.१०-१०) इति । ननु कूपे पतन्तं बालकं दृष्ट्वा उपेक्षमाणस्य अनुमतिं कृतवतो वा पुंसो नैर्घृण्यादिप्रसक्तिवत् स्वाहितकर्मप्रवृत्तपुरुषविषये उपेक्षकत्वे वा, अनुमन्तृत्वे वा, प्रयोजकत्वे वा सर्वेश्वरस्य तस्य निर्दयत्वादिकम् अवश्यम्भावीति चेत् – शास्त्रप्रवर्तनमुखेन सामान्येन अहितप्रवृत्तिनिवारणस्य कृतत्वात् नोपेक्षणम् । तत्तत्प्रवृत्तिकाले विशेषतो निवारकत्वाभावलक्षणम् । उपेक्षकत्वं तु स्वतन्त्रस्य न पर्यनुयोज्यम् । एतादृशस्वातन्त्र्यमेव दोष इति चेत् – तत्र किं प्रमाणम् न प्रत्यक्षम्; तस्येश्वरविषये अप्रमाणत्वात् । नाप्यनुमानम् । तत्र हि किम् ईश्वराख्यं धर्मिणं शास्त्रेकसमधिगम्यमभ्युपेत्य तत्स्वातन्त्र्यस्य दोषत्वम् अनुमीयते, उतानभ्युपगम्य? अनभ्युपगमे हेतोः आश्रयासिद्धिः । अभ्युपगमे धर्मिग्राहकेण शास्त्रेण तस्य गुणत्वेन प्रतिपन्नत्वात् कालात्ययापदिष्टत्वम् ।
चिकीर्षापूर्वककृतिमत्त्वेन सालभञ्जिकाविलक्षणतया जीवस्य कर्तृत्वात् न शास्त्रानर्थक्यम्: प्रवर्तकज्ञानचिकीर्षोत्पादकत्वेन साफल्यात् । कालादिवत् साधारणकृतिहेतोरीश्वरस्य न वैषम्यादिप्रसक्तिश्च । उत्तञ्च भगवता पराशरेण –
निमित्तमात्रमेवासौ सृज्यानां सर्गकर्मणि । (वि.पु.१-४-५१) इति । निमित्तमात्रं -साधारणमात्रमित्यर्थः गीतञ्च भगवताऽपि ।
तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् । (भ.गी.४-१३) इति । साधारणकर्तारं विद्धि । असाधारणकर्तारं न विद्धीति हि तस्यार्थः । उक्तञ्च व्यासार्यै: –
वैयर्थ्यं यावता न स्यात् विधानप्रतिषेधयोः ।
नियन्तृत्वश्रुतेस्तावान् सङ्कोचो न त्वतः परः ।। इति ।।
नन्वेवं साधारणकारणैरेव सर्वकार्योत्पत्तिसम्भवे ईश्वश्वरस्य प्रयोजकत्वानुमन्तृत्वादिकं कुतोऽभ्युपगन्तव्यम् इति चेत् – कल्पनायामेव ईदृशचोद्यावकाशः । अन्त:प्रविष्टःशास्ता जनानां सर्वात्मा (तै.आर.३-११-१०) एष ह्येव साधु कर्म कारयति (कौँउ. ३.३-८) इत्यादि, प्रमाणप्रतिपन्नार्थे ईदृशचोद्यानवकाशादिति स्थितम् ।
तथा प्राणपादे – जीवस्य यत् स्वभोगसाधनशरीराद्यधिष्ठातृत्वम्, न तत् परमात्मायत्तमिति पूर्वपक्षे पाप्ते उच्यते – ज्योतिराद्यधिष्ठानं तु तदामननात् (ब्र.सू.२-४-१३) प्राणवता जीवेन सह । ज्योतिरादीनाम् अग्नयादिदेवतानां यत् प्राणविषयमधिष्ठानम् – जीवेन अग्न्यादिदेवताभिश्च क्रियमाणं प्राणकर्मकाधिष्ठानं यत्, तत्, तदामननात् तस्य परमात्मन आमननात् सङ्कल्पादेव भवति; योऽग्नौ तिष्ठन्नग्नेरन्तरो यमग्निर्न वेद यस्याग्निः शरीरं योऽग्निमन्तरो यमयति, य आत्मनि तिष्ठन् इत्यादिशब्दात् । तस्य च नित्यत्वात् (ब्र.सू.२-४-१४) सर्वेषां परमात्मनाऽधिष्ठितत्वस्य यावत्स्वरूपभावित्वाच्चेति स्थितम् । प्रकृतमनुसरामः ।। २७ ।।
।। इति पञ्चमाध्याये सप्तमब्राह्मण प्रकाशिका ।।
पञ्चमाध्याये अष्टमं ब्राह्मणम्
वाचक्नवीब्राह्मणम्
[गार्ग्या: ब्राह्मणान् प्रति प्रश्नानुज्ञा प्रार्थना]
अथ ह वाचक्नवी उवाच–ब्राह्मणा भगवन्तो हन्त! अहमिमं द्वौ प्रश्नौ प्रक्ष्यामि । ‘तौ चेन्मे‘ वक्ष्यति, न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति, पृच्छ गार्गीति ।। १ ।।
प्र. अथ ह वाचक्नव्युवाच इत्यादि । अन्तर्यामिब्राह्मणे प्रसिद्ध उद्दालके याज्ञवल्क्येन पराजिते, सर्वेषां ब्राह्मणानामेवमेव पराजयो भविष्यतीति मन्यमाना गार्गी, मातिप्राक्षीर्मा ते मूर्धा व्यपप्तत् इति याज्ञवल्क्यस्य स क्रोधोक्तया भीत्या पूर्वमुपरताऽपि ब्राह्मणानुज्ञां प्राप्य पुनः प्रष्टुकामा अनुज्ञादानाय ब्राह्मणानुवाच इत्यर्थः । ब्राह्मणा भगवन्तो हन्ताहम् इत्यादि । हन्त! हे भगवन्तो ब्राह्मणाः । इमं – याज्ञवल्क्यमहं प्रश्नद्वयं प्रक्ष्यामि । तस्य चेदुत्तरं मे प्रश्नद्वयस्य याज्ञवल्क्यो वक्ष्यति, तदा इमं याज्ञवल्क्यं युष्माकं मध्ये ब्रह्मोद्यं – ब्रह्मवादं प्रति जेता कोऽपि जातु ना स्तीत्यर्थः । ब्रह्मोद्यम् । वदरसुपि क्यप् च (पा.सू.३-१-२०६) इति क्यप् । तौ चेन्मे न विवक्षिष्यति मूर्धाऽस्य विपतिष्यतीति । मे – मम तौ पश्नौ अयं याज्ञवल्क्यो न प्रतिवक्ष्यति यदि, तर्हि माम्, मा ते मूर्धा व्यपप्तत् इत्यन्यायेन अब्रह्मवादिनीमिव पूर्वं शप्तवतोऽस्य याज्ञवल्क्यस्य अब्रह्मिष्ठस्य मूर्धा विपतिष्यति ब्रह्मिष्ठपणग्रहणदिति अस्मिन्नर्थे ब्राह्मणा अनुगृह्णन्तु इत्यर्थः । एवमुक्ता ब्राह्मणा आदृत्यानुमतिमदुः । पृच्छ गार्गीति । स्पष्टोऽर्थः ।। १ ।।
सा होवाच अहं वै याज्ञवल्क्य! यथा काश्यो वा वैदेहो वोप्रपुत्र उज्ज्यं धनुरधिज्यं कृत्वा द्वौ बाणवन्तौ सपत्नातिव्याधिनौ हस्ते कृत्वा उपोत्तिठे देवमेवाहं त्वां द्वाभ्यां प्रश्नाभ्यामुपोदस्थाम् । तौ मे ब्रूहीति । पृच्छ गार्गीति ।। २ ।।
प्र– सा होवाच । तदेव याज्ञवल्क्यं प्रति ब्राह्मणानुमतया वाचक्नव्योक्तमाह अहं वै – – – ब्रूही इति । हे याज्ञवल्क्य । अहं वै – प्रसिद्धं यथा तथा काशीदेशभवः विदेहदेशेभवो वा उग्रपुत्रः – शूरवंश्यः यथा उज्ज्यम् – उत्सृष्टज्यं धनुः पुनरपि सज्यं कृत्वा द्वौ बाणवन्तौ – बाणशब्देन शराग्रे यो वंशखण्डः, सोऽभिधीयते । तद्वन्तौ – – – सपत्नातिव्याधिनौ । सपत्नात्यन्तव्ययनशीलौ च शरौ हस्ते गृहीत्वा उपोत्तिष्ठेत् । सपत्नसमीपं गच्छति, एवमेय अहं द्वाभ्यां प्रश्नाभ्यां त्यामुपस्थिताऽस्मि उपोदस्थाम् । स्याधातोर्लुङ् । गतिस्थाधुपाभूम्य: (पा.सू.२-४-७७) इति सिचोलुक् । ती मे प्रश्नौ ब्रूहीत्यर्थ: । एवमुक्त आह – याज्ञवल्क्यः पृच्छ गार्गीति । स्पष्टोऽर्थः ।। २ ।।
[सूत्रं कस्मिन् ओतं प्रोतं इति प्रश्नः]
सा होवाच यदूर्ध्वं याज्ञवल्क्य दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षतेः कस्मिंस्तदोतञ्च प्रोतञ्चेति ।।
प्र. – सा होवाच इति । सा गार्गी पप्रच्छ । तदेवाह यदूर्ध्वं – – –प्रोतञ्च इति । हे याज्ञवल्क्य! दिवो यदूर्ध्व – धुलोकात् यत् ऊर्ध्वं वस्तु जातम्, यदर्वाक् पृथिव्याः – पृथिव्याश्चाधस्तनं यद्वस्तुजातम्, अनयोर्द्यावापृथिव्योरन्तराळवर्ति यत्, ये चे मे द्यावापृथिव्यौ, कालत्रयपरिच्छिन्नञ्च यद्वस्तुजातम्, व्यवहारविषयं एतत् सर्वं कुत्र वा, दीर्घतिर्यक् तन्तुष्विव पटः, ओतं प्रोतञ्च, तत् ब्रूहीति प्रश्नार्थः । यदवाक्पृथिव्याः इति पाठेऽप्ययमेवार्थः ॥३॥
[सूत्रमाकाशे ओतं प्रोतम् इति उत्तरम्‘]
स होवाच यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते, आकाशे तदोतञ्च प्रोतञ्चेति ।। ४ ।।
प्र.- स होवच इति । याज्ञवल्क्योऽत्रोत्तरमाह वक्ष्यमाणम् । यदूर्ध्व – —प्रोतञ्चेति । हे गार्गि! यदूर्ध्वमित्यादि त्वदुक्तं, सर्वमाकाशे ओतञ्च प्रोतञ्च इत्यर्थः । आकाशशब्देन चात्र न वायुमदम्बरं गृह्यते । तस्य सर्वविकाराश्रयत्वाभावात् । किन्त्व-व्याकृताकाशः । एतच्च, अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) इत्यत्र स्थितम् । शिष्टं पूर्ववत् ।। ४ ।।
सा होवाच नमस्तेऽस्तु याज्ञवल्क्य! यो म एतं व्यवोच: । अपरस्मै धारयस्वेति । पृच्छ गार्गीति ।। ५ ।।
प्र . – सा होवाच नमस्ते इत्यादि । अथ गार्ग्युवाच । किमिति? हे याज्ञवलय! यस्त्वं मे एतं प्रश्नं विविच्य उक्तवानसि, तस्मै ते नमोऽस्तु । इति तदुक्तमुत्तरमङ्गीकृत्याह –अपरस्मै – द्वितीयप्रश्नाय धारयस्व – चित्तं सावधानं कुरु इत्यर्थः । स होवाच पृच्छ गार्गीति । सः – याज्ञवल्क्यः हे गार्गि! पृच्छ – इत्यनुमेने इत्यर्थः ।। ५ ।।
[‘आकाशः कस्मिन्, ओतः प्रोत‘ इति प्रश्नः]
सा होवाच यदूर्ध्वं याज्ञवल्क्य! दिवो यदर्वाक् पृथिव्या यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवच्च भविष्यच्चेत्याचक्षते – कस्मिंस्तदोतञ्च प्रोतञ्चेति । आकाश एव तदोतं च प्रोतं चेति ॥ ६ ॥
प्र.- सा होवाच – सा गार्गी पप्रच्छ । किमिति? यदूर्ध्वं याज्ञवल्क्य इत्यादि । आकाश एव तदोतञ्च प्रोतञ्चेति । य आकाशस्त्वयोक्त इति शेषः । यदूर्ध्वं दिव इत्यादि अस्मदुक्त-सर्ववस्तुजातम् आकाशा एव तदोतञ्च प्रोतञ्चेति । त्वया य आकाश उक्तः, स आकाश: कस्मिन्नु खलु ओतश्च प्रोतश्चेति । सोऽव्याकृताकाशः किमाश्रित इत्यर्थः ।। ६ ।।
[अक्षरस्य प्रशासितुः प्रतिपादनेन प्रत्युत्तरम्]
स होवाच – एतद्वै तदक्षरं गार्गि । ब्राह्मणा अभिवदन्ति अस्थूलमनण्वहस्वम् अदीर्घमलोहितमस्नेहमच्छायमतमोऽवाय्वानाकाशमसङ्गमरसमगन्धमचक्षुष्कमश्रोत्र–मवागमनोऽतेजस्कमप्राणममुखमात्रमनन्तरमबाह्यम् । न तदश्नाति किञ्चन । न तदश्नाति कश्चन ।। ७ ।।
प्र. – स होवाच । अत्र याज्ञवल्क्य उत्तरमाह । किमित्यत्राह – एतद्वै – – –अबाह्यम् । हे गार्गि ! तदेतत् वै सर्वासूपनिषत्सु, यस्य तमश्शरीरम् यस्याव्यक्तं शरीरम् इत्यादिषु प्रसिद्धम् । अक्षरम् – अश्नुते व्याप्नोतीति वा, न क्षरतीति वा अक्षरं ब्रहा अव्याकृताकाशस्यापि आधारतया ब्राह्मणाः-ब्रह्मविद: अभिवदन्ति। अत्र ब्राह्मणाभिवदनकथनेन, नाहं किञ्चिद्विप्रतिपन्नं वक्ष्यामीति हृदयम् । तदेव ब्रह्म विशिनष्टि अस्थूलम् – स्थूलभिन्नम् । तर्हि किम् अणु इत्यत्राह-अनणु इति । तर्हि किं हस्वमित्यत आह – अहस्वम् इति । किं तर्हि दीर्घमित्यत्राह – अदीर्घम् इति । एवमुत्तरत्रापि द्रष्टव्यम् । अमात्रम् – मात्रा: इन्द्रियाणि; यद्वा, मात्रा -परिच्छेद: । तद्रहितमित्यर्थ: अनन्तरमबाह्यम् स्वाव्याप्तदेशशून्यमित्यर्थः । न तदश्नाति किञ्चन । तत्-अक्षरं कर्तृ किञ्चिदपि नाश्नाति । अवाप्तकामतया भक्ष्यनिरपेक्षमित्यर्थः । तत स्वयं कस्यापि भक्ष्यमित्याह – न तदश्नाति कश्चन । तत् – ब्रह्म कर्म । शिष्टं स्पष्टम् ।। ७ ।।
एतस्य वा अक्षरस्य प्रशासने गार्गि! सूर्याचन्द्रमसो विधृतो तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यो विधृते तिष्ठतः । एतस्य वा अक्षरस्य प्रशासने गार्गि! निमेषा मुहूर्ता अहोरात्राण्यर्धमासा मासा ऋतवसंवत्सरा इति विधृतास्तिष्ठन्ति । एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्यो नद्यस्स्यन्दन्त श्वेतेभ्य: पर्वतेभ्य: प्रतीच्योऽन्या यां याञ्च दिशमनु । एतस्य वा अक्षरस्य प्रशासने गार्गि ददतो मनुष्याः प्रर्शंसन्ति, यजमानं देवा दवीं पितरोऽन्वायत्ताः ।। ८ ।।
प्र. – एतस्य वा – – – तिष्ठतः इति । वै शब्दोऽवधारणे । प्रशासने – आज्ञाचक्रे सूर्याचन्द्रमसौ – देवताद्वन्द्वे च (पा.सू.६-२-१४१) इति पूर्वपदस्याऽऽनङ् । विधृतौ विशेषेण धृतौ सन्तौ तिष्ठत इत्यर्थः । प्रकृष्टं शासनं प्रशासनम् । क्वचिदप्यप्रतिहतत्वमेव शासनस्य प्रकर्षः । ततश्च सर्वविषयकं शासनमिति फलति । प्रशासितारं सर्वेषाम् इति प्रमाणानु-सारात् । ततश्च सर्वविषयकशासनाधीनसूर्याचन्द्रद्यावापृथिव्याद’धारकत्वं’ फलितम् । ततश्च प्रधानजीवयोः स्वरूपेण यत्किञ्चिद्धारकत्वेऽपि प्रशासनशब्दितसर्वविषयक-शासनाधीनसर्वधारकत्वासंभवात् नात्र जीवो वा प्रधानं वा प्रतिपाद्यते । इदञ्च, सा च प्रशासनात् इति सूत्रे स्पष्टम् । एतस्य वा अक्षरस्य प्रशासने गार्गि द्यावापृथिव्यौ विधृते तिष्ठतः स्पष्टम् । एतस्य – – – संवत्सरा इति विधृतास्तिष्ठन्ति । इति शब्दः प्रकारवचनः । संवत्सरा इत्येवंजातीयकाः कालविशेषा इत्यर्थः । एतस्य –प्राच्यो नद्यः –दिशमनु । अत्र प्रशासने इति सतिसप्तमी । प्राच्यः – प्रक्प्रवाहाः प्रसिद्धा गङ्गाद्या नद्यः श्वेतेभ्य: – हिमवदादिभ्यः पर्वतेभ्यः लोकोपकाराय स्यन्दन्ते । तत्प्रशासनाभावे ताः स्यन्दनाय न प्रभवन्तीति भावः । प्रतीच्यः – उ प्रत्युङ्मुखाः, अन्याः – उदीच्यश्च नद्यः तथा यां यां च दिशमनुप्रस्थिता मताः (गताः?) सर्वा एता एतस्य प्रशासने सति प्रस्यन्दन्ते इत्यर्थः ।
एतस्य – – – अन्वायत्ताः । एतस्यैवाक्षरस्य प्रशासने निमित्ते ददतः–तत्प्रशासनरूपया तदाज्ञया दानं कुर्वतो इत्यर्थः । आज्ञाकैङ्कर्यबुद्ध्या दानं कुर्वतो जनान् अन्वायत्ता: – अनुवशास्सन्तः मनुष्याः प्रशंसन्ति इत्यर्थः । प्रशासन इत्येतत् यजमानं देवा इत्यत्र, दर्वी पितर इत्यत्रापि सम्बद्ध्यते ।
अन्वायत्ता इति पदं देवमनुष्यपितृसाधारणम् । द्वितीयान्तपदानां प्रशंसन्ति इत्यनेनान्वयः। तथा च परमात्माज्ञया यागं कुर्वाणम् अन्वायत्तास्सन्तो देवाः प्रशंसन्ति । परमात्माज्ञया प्रवृत्तं दर्वीहोममन्वायत्तास्सन्तः पितरः प्रशंसन्तीत्यर्थः । एवमेव व्याख्यातं व्यासार्यै: ।। ८ ।।
यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मिंल्लोके जुहोति यजते तपस्तप्यते बहूनि वर्षसहस्राणि, अन्तवदेवास्य तद्भवति । यो वा एतदक्षरं गार्ग्यविदित्वाऽस्मात् लोकात् प्रैति, स कृपणः । अथ य एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति, स ब्राह्मणः ।। ९ ।।
प्र.- यो वा एतदक्षरम् इत्यादि । उक्ताक्षरपरब्रह्मज्ञानमन्तरेण क्रियमाणं होमयज्ञबहुकालसाध्य तप आदिकं सर्वमप्यस्य कर्तुः अन्तवदेव – नश्वरफलसाधनं भवतीत्यर्थः । योवा– – – स कृपण: । तद्ज्ञानमन्तरेण लोकादस्माल्लोकान्तरं गतस्यापि शोच्यता भवतीत्यर्थः । कृपणः – शोच्यः । ‘तदज्ञानात्। संसारो भवतीति यावत् ।यो वा एतदक्षरं गार्गि विदित्वाऽस्माल्लोकात् प्रैति ब्रह्मज्ञानवान् म्रियते, सः ब्राह्मण: ब्रह्मवित् ब्रह्मणः अनुभविता । मुक्त इति यावत् । ‘तथा’ च भगवता भाष्यकृता, यो वा एतदक्षरं गार्गि इत्येतत् व्याकुर्वता, यदज्ञानात् संसारप्राप्तिः, यद्ज्ञानाञ्चामृतत्वप्राप्तिः, तदक्षरं परं ब्रह्म इति भाषितम् ।। ९ ।।
तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्र श्रुतँश्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ । नान्यदतोऽस्ति द्रष्टृ नान्यदतोऽस्ति श्रोतृ नान्यदतोऽस्ति मन्तृ, नान्यदतोऽस्ति विज्ञातृ । एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति ।। १० ।।
प्र. – तद्वा एतदक्षरम् इत्यादि । अयोगिभिरदृश्यं सत् द्रष्टृ – रूपादि साक्षात्कर्तृ । एवमश्रुतममतमविज्ञातमित्यत्राप्ययोगिभिरिति योज्यम् । योगिविषये, द्रष्टव्यश्श्रोतव्यो मन्तव्यो निदिध्यासितव्यः इत्युक्तेः । श्रोतृ – शब्दसाक्षात्कर्तृ । मन्तृ – मन्तव्यसाक्षात्कर्तृ । विज्ञातृ – अध्यवसेयसाक्षात्कर्तृ । नान्यदतोऽस्तीति । अत्रापि अन्तर्यामिब्राह्मण-व्याख्यानोक्तरीत्या अन्यशब्दस्य तत्सदृशपरत्वमेव । यथा, चोळ एव भूपतिः, नान्यः, इत्युक्तेः तत्सदृशभूपतिनिषेधपरत्वम्, एवमिहापि अदृष्टत्वादिविशेषितनिरुपाधिक-द्रष्टृत्वाश्रयस्य परमात्मनः सदृशं किमपि नास्तीत्येवार्थः । यद्वा-यथा एतदक्षरम् अन्यैरदृष्टं सत् स्वव्यतिरिक्त, समस्तद्रष्टृस्वव्यतिरिक्तसमस्ताधारभूतञ्च, एवमनेनाक्षरेण अदृष्टम् एतस्याक्षरस्य आधारभूतमेतस्य द्रष्टृ नास्तीत्यर्थः । पूर्वव्याख्यायां समनिषेधः, अस्यां व्याख्यायामधिकनिषेधः फलति । न च, नेह नानाऽस्ति इतिवत् नान्यदतोऽस्ति इत्यादि वाक्यस्यापि अब्रह्मात्मकवस्तुनिषेधपरत्वोपपत्ती समाभ्यधिक निषेधपरतया’ व्याख्यानं किमर्थमिति वाच्यम् । तद्वदत्रैक्यविधिशेषत्वाभावेन समाभ्यधिकनिषेधपरत्वस्यैव युक्तत्वात् । उपसंहरति – एतस्मिन्न खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्चेति । स्पष्टोऽर्थः । इतिशब्दः प्रतिवचनसमाप्तौ ।। १० ।।
[गार्ग्या याज्ञवल्क्य प्रशंसा]
सा होवाच ब्राह्मणा भगवन्तः। तदेव बहमन्येध्वं यदस्मान्नमस्कारेण मुच्येध्वम् । न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । ततो ह वाचक्नव्युपरराम ।। ११।।
प्र.– एवं याज्ञवल्क्येन प्रत्युक्ता वाचक्नवी तदुक्तम् अभ्युपगम्य ब्राह्मणान् दृष्ट्वा आहेत्याह- सा होवाच । उक्तमेवाह – ब्राह्मणाः – – –मुच्येध्वम् । हे भगवन्तः ब्राह्मणाः! यूयं तदेव बहुमन्येध्वम् । किं तत्? यदस्मात् – याज्ञवल्क्यात् नमस्कारेण मुच्येध्वं – नमस्कारं कृत्वा मुच्यध्वमिति यत् – मुक्ता भवत इति यदित्यर्थः । तदेव बहुमन्येध्वमित्यन्वयः । न कदाचिदप्यस्य याज्ञवल्क्यस्य पराजयः शङ्कनीयः । अतो नमस्कारं कृत्वा अस्मान्मुक्ता भवत इत्यर्थः । मन्येध्वं मुच्येध्वमिति लिङ्मध्यमबहुवचनम् न वै जातु युष्माकमिमं कश्चित् ब्रह्मोद्यं जेतेति । युष्माकं मध्ये इमं – याज्ञवल्कयं कश्चिदपि ब्रह्मोद्यं – ब्रह्मवादं प्रति जेता नैवास्ति इत्यर्थः । ततो ह वाचक्नवी उपरराम । एवं ब्राह्मणान् प्रति उक्त्वा तूष्णीं बभूव इत्यर्थः ।।
[अक्षराधिकरणविचारः]
इदञ्च ब्राह्मणं समन्वयाध्याये तृतीयपादे चिन्तितम् । एतद्वै तदक्षरं गार्गि ब्राह्मणा अभिवदन्ति इत्यत्र अक्षरशब्दितं प्रधानमेव । अक्षरात् परतः परः (मुं.उ.२-१-२) इत्यादौ अक्षरशब्दस्य प्रधाने प्रयोगात्; अस्थूलम् इत्यादिनिषेधानाञ्च स्थूलत्वादिप्रसक्तिमति अचेतने सामञ्जस्यात् कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्याकाशाधारत्वेन प्रश्नस्य आकाशोपादानतया तदाधारभूतप्रधानविषयत्वौचित्याच्चेत्येवं प्राप्ते-
उच्यते – अक्षरमम्बरान्तधृतेः (ब्र.सू.१-३-९) अक्षरं परं ब्रह्म । अम्बरान्तधृतेः । अम्बरस्य आकाशस्य अन्तः – पारभूतं प्रधानम् तद्धारकत्वात् इत्यर्थः । अयं भाव: –कस्मिन्नु खल्वाकाश ओतश्च प्रोतश्च इत्यत्राकाशो न वायुप्रकृतिभूताकाशः, अपि तु अव्याकृताकाशः । यदूर्ध्वं गार्गि! दिवो यदर्वाक् पृथिव्याः यदन्तरा द्यावापृथिवी इमे यद्भूतञ्च भवञ्च भविष्यच्चेत्याचक्षते आकाश एव तदोतञ्च प्रोतञ्च इति कालत्रयवर्ति-विकाराधारतया उच्यमानत्वस्य भूताकाशे असम्भवेनाव्याकृताकाश एव सम्भवात् । तस्याप्याधारतया निर्दिश्यमानमक्षरं परमेव ब्रह्म भवितुमर्हति । ननु जीवस्याप्यचेतनाधारत्वसंभवात् जीव एवाक्षरशब्दित: किं न स्यादित्यत्रोत्तरम् –सा च प्रशासनात् (ब्र.सू.१-३-१०) । सा च अम्बरान्तधृतिः, एतस्य वा अक्षरस्य प्रशासने गार्गी सूर्याचन्द्रमसौ विधृतौ तिष्ठतः इत्यादिना प्रशासनाधीनाऽत्र श्रूयते । प्रकृष्टं शासनं प्रशासनम् । शासनस्य प्रकर्षश्च असङ्कुचितसर्वविषयत्वम् । ततश्चासङ्कुचित-चिदचिच्छासनं परमात्मधर्मः । अन्यभावव्यावृत्तेश्च (ब्र.सू.१-३-११) तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्टृ इत्यादिना उपदिश्यमानैः इतरादृष्टत्वे सति सर्वद्रष्टृत्वादिरूपैर्धर्मै: परमात्मान्यप्रकृतिजीवभाव’व्यावृत्तेश्च परमात्मैवेति स्थितम् ।
[आनन्दाद्यधिकरणविचारः]
तथा गुणोपसंहारपादे – एतद्वै तदक्षरं गार्गि! ब्राह्मणा अभिवदन्ति अस्थूलमनण्वह्रस्वम् इत्यादिनिर्दिष्टाः अक्षरसम्बन्धिनः अस्थूलत्वादयः प्रपञ्चप्रत्यनीकतारूपाः सर्वकर्मत्व सर्वकामत्वादिवत् सर्वासु परविद्यासु नोपसंहर्तव्याः । उपसंहारे प्रमाणाभावात् । ननु स्वरूपनिरूपकाणां सत्यत्वज्ञानत्वादिधर्माणां सर्वपरविद्योसंहारस्य, आनन्दादयः प्रधानस्य (ब.सू.३-३-११) इत्यधिकरणसिद्धत्वात्, तद्वदेव अस्थूलत्वादिकं किं न स्यादिति चेन्न-सत्यत्वादिकमन्तरेण ब्रह्मस्वरूपस्यैव प्रत्येतुमशक्यतया सत्यत्वादेः सर्वविद्योपसंहारेऽपि अस्थूलत्वादीनाम् अभावरूपाणाम्, लब्धरूपे क्वचित् किञ्चित् तादृगेव निषिध्यते इति न्यायेन ब्रह्मप्रतीत्यनन्तरभाविप्रतीतिकानां ब्रह्मस्वरूपप्रतीत्युपयोगित्वाभावेन सर्वपर-विद्योपसंहारे प्रमाणाभावादिति प्राप्ते -उच्यते –अक्षरधियां त्चवरोध: सामान्यतद्भावाभ्यामौपसदवत् तदुक्तम् (ब्र.सू.३-३-३३)। अक्षरब्रह्मसम्बन्धिनीनाम् अस्थूलत्वादि धियां सर्वासु परविद्यास्ववरोधः -सङ्ग्रहणं कर्तव्यम् । कुतः? सामान्यतद्भावभावाभ्याम् । सर्वेषूपासनेषु उपास्यस्याक्षरब्रह्मणः समानत्वात्, अस्थूलत्वादीनां ब्रह्मप्रतिपत्तौ अन्तर्भावाच्च इत्यर्थः । यथा सत्यत्वादिक-मन्तरेण ब्रह्मस्वरूपं प्रतिपत्तुमशक्यम् , तथा अस्थूलत्वादिकमन्तरेण जीवव्यावृत्तं ब्रह्मस्वरूपं सत्यज्ञानादिवाक्यैनं प्रतिपत्तुं शक्यम् । सत्यत्वादेः प्रत्यगात्मसाधारणत्वेन प्रत्यगात्म-व्यावृत्तत्वाभावात् । स्थूलत्वादिहेयानर्हत्वं तु न जीवसाधारणम् । ततश्च अस्थूलत्वादीनां निषेधरूपतया सत्यादिवाक्यजन्यब्रह्मप्रतीत्युपजीवकत्वेऽपि स्वेतरसमस्तव्यावृत्तब्रह्मस्वरूप-प्रतीतेः अस्थूलत्वादिकमन्तरेणासम्भवात् अस्थूलत्वादिकं सकलपरविद्योपसंहार्यमेव । इयदामननात् (ब्र.सू.३-३-३४)। आभिमुख्येन मननं आमननम् । ध्यानमिति यावत् । आमननात् ध्यानाद्धेतोः ध्यानार्थमियदेवापेक्षितम् ; न सर्वकर्मत्वसर्वकामत्वा-दिकमपि । तेन विनापि इतरव्यावृत्तब्रह्मस्वरूपस्य प्रत्येतुं शक्यतया न सर्वकर्मत्वादेः सर्वपरविद्योपसंहारः । अपितु यत्र प्रकरणे आम्नातम्, तत्रैव व्यवतिष्ठते । अस्थूलत्वादिकं तु सामर्थ्यरूपलिङ्गवशात् सर्वविद्यानुयायि। अत एव हि, संभृतिद्युव्याप्त्यपि चातः (ब्र.सू.३-३-२३) इत्यधिकरणे व्याप्त्यादेः सामर्थ्यवशात् अल्पायतनविद्यासु न निवेश इत्युक्तम् । तत्र हि-
[संभृत्यधिकरणविचारः]
ब्रह्म ज्येष्ठा वीर्या संभृतानि ब्रह्माग्र ज्येष्ठं दिवमाततान । ब्रह्म भूतानां प्रथमो हि जज्ञे तेनार्हति ब्रह्मणा स्पर्धितुं कः इति राणायनीयानां खिलेषु मन्त्रः श्रूयते । अस्य मन्त्रस्यायमर्थः- ब्रह्म – ब्रह्मणा इत्यर्थः । व्यत्ययश्छान्दसः । ज्येष्ठा – ज्येष्ठानि । शेः, शेश्छन्दसि (पा.सू.३-१.७०) इति लोपे (सुपां सुलुक् – पा.सू.७-१-३९ इति लुकि) न लोपे च रूपम् । वीर्या – वीर्याणि । संभृतानि – धृतानि । तथा च ब्रह्मणा बहूनि श्रेष्ठानि वीर्याणि धृतानि इत्यर्थः । ब्रह्माग्रे ज्येष्ठं दिवमाततान – तच्च ज्येष्ठं ब्रह्म अग्रे – इन्द्रादिजन्मनः प्रागेव दिवम् – स्वर्गम् आततान – व्याप्तवत् । किञ्च, ब्रह्म देवानां प्रथमो हि जज्ञे । ब्रह्म देवानामुत्पत्तेः प्रागपि विद्यमानमित्यर्थः । तेनार्हति ब्रह्मणा स्पर्धितुं कः । तादृशेन ब्रह्मणा कः स्पर्धितुं क्षमेत इत्यर्थः । अत्र परिच्छेदातीते ब्रह्मणि धुव्यापकत्वादिकथनस्य स्वरूपोपदेशार्थत्वाभावेन उपासनार्थत्वस्य सिद्धतया स्वप्रकरणे उपासनाद्यश्रवणेन अनारभ्याधीतस्य द्युव्यापनादेः प्रकरणान्तर श्रुतविद्यार्थत्वे वक्तव्ये नियामकाभावात् अस्थूलत्वादिवत् सत्यत्वादिवच्च सर्वविद्यार्थत्वे प्राप्ते उच्यते – संभृतिद्युव्याप्त्यपि चातः (ब.सू. ३-३-२३) । संभृतिद्युव्याप्तीति समाहारद्वन्द्वत्वादेकवद्भावः । संभरणं द्युव्यापनञ्च तत्तत् स्थानवशात् व्यवतिष्ठते । अल्पस्थानासु दहरशण्डिल्यादिविद्यासु अल्पत्व द्युव्यापकत्वयोः विरोधात् लिङ्गवशात् अल्पायतनानवरुद्धविद्यास्वेव व्यवतिष्ठते । न चैवमल्पायतनासु दहरशाण्डिल्यादिविद्यासु आनन्त्यस्यापि उपसंहारासम्भवेन सत्यत्व-ज्ञानत्वानन्तत्वादेः सर्वविद्यानुयायित्वस्य, आनन्दादयः प्रधानस्य इत्यधिकरणसिद्धस्य विरोधः स्यादिति वाच्यम् – स्वाभाविकानन्त्यस्य औपाधिकाल्पायतनत्वस्य चानुसन्धाने विरोधाभावात् । इह द्युपरिच्छिन्नत्वरूप द्युव्यापकत्वस्य च हृदयाद्यल्पायतनावच्छिन्नत्वस्य चौपाधिकतया परस्परविरुद्धौपाधिकपरिमाणद्वयानुसन्धानविरोधात् । इति हि तत्र स्थितम् । प्रकृतमनुसरामः ।। ११ ।।
।। इति पञ्चमाध्याये अष्टमब्राह्मण प्रकशिका ।।
पञ्चमाध्याये नवमब्राह्मणम्
शाकलब्राह्मणम्
[शाकल्येन देवताविषयकप्रश्न:]
अथ हैनं विदग्धः शाकल्यः पप्रच्छ, कति देवा याज्ञवल्क्येति । स हैतयैव निविदा प्रतिपेदे, यावन्तो वैश्वदेवस्य निविद्युच्यन्ते, प्रयश्च त्री च शतात्रयश्च त्रीच सहस्रति । ओमिति होवाच, कत्येव देवा याज्ञवल्क्येति । त्रयस्त्रिंशदिति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । षडिति । ओमिति होवाच, कत्येवदेवा याज्ञवल्क्येति । त्रय इति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । द्वाविति । ओमिति होवाच, देवा याज्ञवल्क्येति । अध्यर्ध इति । ओमिति होवाच; कत्येव देवा याज्ञवल्क्येति । एक इति । ओमिति होवाच कतमे त्रयश्च त्री च शता त्रयश्च त्री च सहस्रति ।। १।।
प्र. – अथ हैनं….पप्रच्छ इति । शकलस्यापत्यं शाकल्यः । विदग्धः समर्थम्मन्यः इति यावत् । प्रश्नमेवाह – कति देवा याज्ञवल्क्येति । किं संख्याका देवा इत्यर्थः । स हैतयैव निविदा प्रतिपेदे । सः–एवं पृष्टो याज्ञवल्कयः एतया – वक्ष्यमाणयैव निविदा देवतासङ्ख्या प्रतिपेदे – प्रत्यपादयत् । उक्तवानिति यावत् । तदेव व्याकरोति यावन्तो…..निविद्युच्यन्ते इति । वैश्वदेवस्य शास्रस्य निविदि – निविन्नाम वैश्वदेवशस्रे शस्यमानः देवतासङ्ख्यावाचकपदयुक्तमन्त्रविशेषः । तस्यां निविदि यावन्तो देवाः श्रूयन्ते, तावन्तो देवा इत्यर्थः । कियन्त तत्रोच्यन्ते इत्यत्राह – त्रयश्च त्री च शता सहस्रेति । त्रयश्च त्री च शता – त्रयश्च त्रीणि शतानि इत्यर्थः । उभयत्र सूपां सुलुक् (पा.सू.७-१-३९) इत्यादिना पूर्वसवर्णादेशः । त्र्यधिका त्रिशतीत्यर्थः । एवमुत्तरत्रापि । त्रयश्च त्री च सहस्रा । त्र्यधिका त्रिसहस्रीति यावत् । उक्तमङ्गीकरोति शाकल्यः ओमिति । उवाच । ‘विदग्ध’ इति शेषः । पुनरपि सूक्ष्मदृष्ट्या पृच्छति कत्येव देवा याज्ञवल्क्येति । उत्तरमाह – त्रयस्त्रिंशदिति । शाकल्योऽङ्गी करोति ओमिति । पुनरपि सूक्ष्मदृष्ट्या पृच्छति कत्येव । याज्ञवल्क्य उत्तरमाह षडिति । अभ्युपगच्छति ।। ओमिति । एवमुत्तरत्रापि द्रष्टव्यम् । अध्यर्ध इति । एक इति शेषः। अर्धाधिक एक इत्यर्थः । शिष्टं स्पष्टम् । एवं देवता सङ्कोच विकासविषयां संख्यां पृष्ट्वा संख्येयस्वरूपं पृच्छति शाकल्यः; कतमे ते– सहस्रेति । पूर्ववदर्थ: ।। १ ।।
[देवतासंख्याविवरणम्]
स होवाच महिमान एवैषामेते त्रयस्त्रिंशत्त्वेव देवा इति कतमे ते त्रयस्त्रिशदिति । अष्टौ वसव: एकादशरुद्राः, द्वादशादित्यास्त एकस्त्रिंशत् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति ।। २ ।।
प्र. – स होवाच इति । अत्र याज्ञवल्क्य उत्तरमाहेत्यर्थः । तदेवाह – महिमान – –देवा इति । एषां – त्रयस्त्रिंशतो देवानामेते षडधिकत्रिशताधिकत्रिसहस्रभेदाः महिमान एव – गुणभूता इत्यर्थः । तथैव व्यासार्यै: विरोधः कर्मणि (ब्र.सू.१-३-२६) इति सूत्रे उक्तम् । तस्मात् त्रयस्त्रिंशदेव देवा इत्यर्थः । पृच्छति कतमे ते त्रयस्त्रिंशदिति ।
उत्तरम् । अष्टौ वसवः । स्पष्टम् इन्द्रश्चैव प्रजापतिश्च त्रयस्त्रिंशाविति । त्रयस्त्रिंशतः पूरणौ इत्यर्थः । इन्द्रो द्वात्रिंशः । प्रजापतिः त्रयस्त्रिंश इत्यर्थः ।। २ ।।
[वसूनां विवरणम्]
कतमे वसव इति? अग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि च एते वसव एतेषु हीदं सर्वं वसु हितमिति तस्माद्वसव इति ।। ३ ।।
प्र. – पुनः पृच्छति कतमे वसव इति । अष्टौ वसव इत्युक्ता वसवः के इत्यर्थः । उत्तरम् । अग्निश्च पृथिवी – – – वसवः । स्पष्टम् । उक्तानां वसुत्वमुपपादयति –एतेषु – – इति । यस्मात् एतेषु – अग्नयादिषु सर्वमिदं वसुशब्दवाच्यं धनं हितं –निहितम् , ते तस्मात् ‘वसवः’ इत्युच्यन्त इत्यर्थः । अस्मिन् प्रकरणे अग्निपृथिव्यादिशब्दाः तत्तदभिमानिदेवता परा इति द्रष्टव्यम् ।। ३ ।।
[रुद्रदेवतासङ्ख्या]
कतमे रुद्रा इति दशेमे पुरुषे प्राणा आत्मैकादशस्ते यदस्माच्छरीरान्मर्त्या–दुत्क्रामन्त्यथरोदयन्ति तद्यद्रोदयन्ति तस्माद्बुद्रा इति ।। ४ ।।
प्र. – पृच्छन्ति कतमे रुद्रा इति । एकादश रुद्रा इत्युक्ता के इत्यर्थः । उत्तरं –दशमे पुरुषे प्राणा आत्मैकादशः । ज्ञानकर्मेन्दियाणि दश पुरुषस्थानानि – दशमे दशेमे इत्यर्थः । दशेमे पुरुषे इति पाठे स्पष्टोऽर्थः । एकादशं तु आत्मा-मन इत्यर्थः ।
ते प्राणाः यदा अस्मात् मर्त्यात् – मरणधर्मकात् शरीरादुत्क्रामन्ति, अथ तदा म्रियमाणं पुरुषं रोदयन्तीति ‘रुद्रा’ इत्यर्थः ।। ४ ।।
[आदित्य विशेषकथनम्]
कतम आदित्या इति । द्वादश वै मासाः संवत्सरस्य एत आदित्या एते हीदँ सर्वमाददाना यन्ति ते यदिदँ सर्वमाददाना यन्ति तस्मादादित्या इति ।। ५ ।।
प्र. – पृच्छति कतम आदित्या इति । द्वादशादित्या इत्युक्ताः के इत्यर्थः । उत्तरं द्वादश वै– – – इति । स्पष्टम् । तेषामादित्यत्वमुपपादयति । एते हीदं– – –इति। एते हि मासा इदम् – उत्पत्तिमतां जीवितं सर्वमाददानाः अपहरन्तो यन्ति गच्छन्ति । तस्मादादित्या इत्यार्थः ।। ५ ।।
[इन्द्रादिस्वरूपविशेषकथनम्]
कतम इन्द्रःकतमः प्रजापतिरिति स्तनयित्नुरेवेन्द्रो यज्ञः प्रजा पतिरितिकतम: स्तनयित्नुरित्यशनिरिति कतमो यज्ञ इति पशव इति ।। ६ ।।
प्र– कतम इन्द्रः कतम प्रजापतिः इति प्रश्नः । स्तनयित्नुरेवेन्द्रो यज्ञः प्रजापतिः इत्युत्तरम् । कतमः स्तनयित्नुः इति पुनः प्रश्नः । अशनिः इत्युत्तरम् । कतमो यज्ञ इति प्रश्नः । अत्रोत्तरम् पशव इति। यज्ञ साधनत्वात् पशव एव यज्ञ इत्युच्यन्ते इत्यर्थः ।। ६ ।।
[षट्देवतास्वरूपकथनम्]
कतमे षडिति । अग्निश्च पृथिवी च वायुश्चान्तरिक्षञ्च आदित्यश्च द्यौश्च । एते षट् । एते ही सर्वगँ षडिति ।। ७ ।।
प्र– कतमे षडिति प्रश्नः । षडित्युक्ता देवा के इत्यर्थः । एवमग्रेऽपि । उत्तरम् । अग्निश्च पृथिवी च वायुश्चान्तरिक्षं च आदित्यश्च द्यौश्च एते घडेते हीदं सर्वं षडिति । उक्तमिदं सर्वम् एते षट् । एते अग्नयादयः । अत एव एते षडित्यर्थः ।। ७ ।।
[देवतात्रयस्वरूपकथनम्]
कतमे ते त्रयो देवा इति । इम एव त्रयो लोकाः । एषु हि इमे सर्वे देवा इति । कतमौ तौ द्वौ देवाविति । अन्नञ्चैव प्राणश्चेति । कतमोऽध्यर् इति । योऽयं पवत इति ।।८।।
प्र. – कतमे ते त्रयो देवा इति प्रश्नः । उत्तरम् इमे एब त्रयो लोकाः देवा इति । सर्वदेवाश्रयत्वात् त्रय एव लोका देवा इत्यर्थः । प्रश्न: कतमौ तौ द्वौ देवौ इति । उत्तरम् अन्नञ्चैव प्राणश्चेति । कतमोऽध्यर्ध इति प्रश्नः । उत्तरं योऽयं पवत इति । वायुरेब इत्यर्थः ।। ८ ।।
[अध्यर्धस्वरूपविवरणम्]
तवाहुर्यदयमेक एवेव पवते अथ कथमध्यर्ध इति । यदिदमस्मिन्निदै सर्वमध्यारध्यात् तेनाध्यर्ध इति । कतम एको देव इति । प्राण इति । स ब्रह्म त्पवित्याचक्षते ।। ५ ।।
प्र. – तदाहुर्यदयमेक – – – इति । यत् – यस्मादयं वायुरेक एव पवते, तत् कथमिवाध्यर्ध इति शङ्कायाम् एवमुत्तरमाहुरित्यर्थः । तदेवोत्तरमाह यदिदमस्मिन् – –इति । अध्यार्ध्नोत् । ऋधु वृद्धौ (धा.पा.१२४६) अधिकवृद्धिं यस्मिन् वायाविदं जगत् प्राप्तम् । तेनायं वायुरध्यर्ध इत्युच्यत इत्यर्थः । कतम एको देव इति प्रश्न: । उत्तरं प्राण इति । ननु प्राणः पवमान पर्यायः । स च अध्यर्ध इत्युक्तः कथमेक इत्युच्यत इत्यत्राह – स ब्रह्म त्यदित्याचक्षते । अत्र प्राणशब्देन, त्यत् – अन्यत् सर्व विलक्षणं ब्रह्मेति यदाहु:, तदेवोच्यत इत्यर्थः । ततश्च ब्रह्मणो महिमानः सर्वे देवा इति पर्यवसितोऽर्यः ।। १ ।।
[एकस्यैव प्राणस्य अष्टविधभेदः]
पृथिव्येव यस्यायतनमग्निर्लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्। स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषँ सर्वस्य आत्मन: परायणम्, यमात्थ । य एवायँ शारीरः पुरुषः स एषः । यदैव शाकल्य तस्य का देवतेति । अमृतमिति होवाच ।। १० ।।
प्र. – शाकल्यः पृच्छति – पृथिव्येव – – – याज्ञवल्क्य । यस्य पृथिव्येव आयतनम् – आधारः । शरीरमिति यावत् । यस्याग्निलोकः । लोक्यते अनेनेति लोकः । दर्शनसाधनम् इत्यर्थः । अग्निना हि पश्यति । मनोज्योतिः । मन एव ज्योतिः सङ्कल्प-विकल्पादिकार्यकारि यस्य सः मनोज्योतिः । पृथिव्यायतनकत्वेनाग्निदर्शनसाधनकत्वेन मनसा सङ्कल्पयितृत्वेन च सर्वात्मनां सर्वजीवानां परायणः परमप्राप्यभूतः पुरुषशब्दितः परमात्मा वेद्य इति सिद्धम् । तत्र कीदृशविशेषणविशिष्टः परमात्मा पृथिव्यायतनकत्वेन अग्निदर्शनसाधनकत्वेन मनसा सङ्कल्पयितृत्वेन च ध्यातव्य इति प्रश्नस्य फलितार्थः । ईदृशः परमात्मा पृथिव्यायतनकत्वादिना ज्ञातव्य इति यो ज्ञाता, स एव ज्ञाता हे याज्ञवल्क्य। नान्य इत्यर्थः । एवमुक्तो याज्ञवल्क्य आह – वेद वा – – – यमात्थ । वैशब्द एवार्थः । अहं सर्वस्यात्मनः परायणं पृथिव्याद्यायतनकत्वादिना उपास्यं यं त्वं वदसि, तमहं जानाम्येव इत्यर्थः । कोऽसावित्यत्राह – य एवायं शारीरः पुरुषः स एषः । शारीरः – जीवः । तदन्तर्यामीति यावत् । यद्वा शारीरः– जगच्छरीरकः । ततश्च जगच्छरीरकत्वविशिष्टः सर्वात्मपरायणभूतः पुरुषशब्दितः परमात्मा पृथिव्यायतनकत्वादिना ध्यातव्य इत्यर्थः । एवं तस्योत्तरमुक्त्वा अस्मिन् विषये ज्ञेयं विशेषणान्तरं याज्ञवल्क्यः स्वयं पृच्छति – वदैव शाकल्यः तस्य का देवतेति । तस्य पृथिव्यायतनत्वादिवेदितुः उपास्य देवता का, पुनरपि किङ्गणविशिष्टा किंरूपविशिष्टा ध्यातव्या । तत् शाकल्य! त्वं वद इत्यर्थः । उत्तरमाह शाकल्यः अमृतमिति । अमृतमिति संज्ञया अमृतत्व-गुणेन वा विशिष्टा ध्यातव्या इत्यर्थः । स त आत्माऽन्तर्याम्यमृत: इति अन्तर्यामिण: अमृतत्वावेदनादिति द्रष्टव्यम् । यद्वा याज्ञवल्क्य आह – वदैव शाकल्य इति । हे शाकल्य! वदैव – पृच्छैव । यत् प्रष्टव्यम्, तत् सर्वं पृच्छ इत्यर्थः । तस्य का देवता इति शाकल्यप्रश्नः । अमृतमिति याज्ञवल्क्यस्योत्तरम् । एवमुत्तरत्रापि द्रष्टव्यम् ।। १० ।।
काम एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्बस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणम्, यमात्थ । य एवायं काममयः पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । स्रिय इति होवाच ॥ ११ ॥
प्र. – काम एव यस्यायतनम् । काममय इति । काम शरीरक इत्यर्थः । स्रिय इति होवाच इति । स्रिसंज्ञकतया ध्यातव्य इत्यर्थः ।। ११ ।।
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिर्यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्याद्याज्ञवल्क्य वेद वा अहं तं पुरुषँ सर्वस्यात्मनः परायणं यमात्थ य एवासावादित्ये पुरुषः स एष वदैव शाकल्य तस्य का देवतेति सत्यमिति होवाच ।। १२ ।।
प्र– रूपाण्येव यस्यायतनम् – – सत्यमिति होवाच इति । तद्यत् सत्यमसौ स आदित्यो य एष एतस्मिन् मण्डले पुरुषः इति श्रुतेरिति भावः ।। १२ ।।
आकाश एव यस्यायतनं श्रोत्रं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुष सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायं श्रोत्रः प्रातिश्रुत्कः पुरुषः, स एषः । वदैव शाकल्य तस्य का देवतेति । दिश इति होवाच ।। ३ ।।
प्र– आकाश एव यस्यायतनम् । श्रोत्रः प्रातिश्रुत्कः इति । प्रातिश्रुत्कः -प्रतिध्वनिविशिष्टः । श्रोत्रः – श्रोत्रेण अनुभूयमानः । श्रोत्रानुभूयमानत्वञ्च परमात्मनः प्रतिध्वनिद्वारा द्रष्टव्यम् । दिश इति होवाच इति । दिक्च्छरीरकः दिङ्नामको वा उपास्य इत्यर्थः ।। १३ ।।
तम एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदितास्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्य आत्मनः परायणम्, यमात्थ । य एवायं छायामयः पुरुषः, स एषः । वदैव शाकल्य तस्य का देवतेति । मृत्युरिति होवाच ।। १४ ।।
प्र. तम एव यस्यायतनम् । छायामय: – छायाशरीरकः इत्यर्थः । मृत्युरिति होवाच इति । मृत्युसंज्ञिक इत्यर्थः । बालाक्यजातशत्रुसंवादे छायापुरुषे मृत्युरिति वा अहमेवमुपास इति दर्शनादिति भावः ।। १४ ।।
रूपाण्येव यस्यायतनं चक्षुर्लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम् स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ । य एवायमादर्शे पुरुषः स एषः । वदैव शाकल्य तस्य का देवतेति । असुरिति होवाच ।। १५ ।।
प्र.- रूपाण्येव यस्यायतनम् – पूर्वमादित्यपुरुषे रूपसामान्यमुक्तम् इह तु तद्विशेष इति भिदा । असुरिति होवाच इति । बालाकिब्राह्मणे प्रातिश्रुत्कपुरुषे असुत्वमुक्तम् इह तु आदर्शपुरुषे असुत्वम् । तत्र आदर्शपुरुषे रोचिष्णुत्वमुक्तम् ; विधाभेदसम्भवादिति द्रष्टव्यम् । इयांस्तु विशेषः – बालाकिब्राह्मणे ब्रह्मलिङ्गाभावात् तत्रत्यपुरुषशब्दो न ब्रह्मपर्यन्तः । इह तु सर्वात्मत्वपरायणत्वादिरुपब्रह्मलिङ्गात् ब्रह्मपर्यन्तः इति विवेकः ।
केचित्तु बालाकि ब्राह्मण इव अत्रत्यपुरुषशब्दानामपि ब्रह्मपर्यन्तत्वं नाभ्युपगच्छन्ति । उभयथापि न विरोध: ।। १५ ।।
आप एव यस्यायतनँ हृदयं लोको मनो ज्योतिः। यो वै तं पुरुषं विद्यात्सर्वस्यात्मनः परायणँ स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणं यमात्थ । य एवायमप्सु पुरुषः स एषः वदैव शाकल्य तस्य का देवतेति । वरुण इति होवाच ।। १६ ।।
प्र. – आप एव यस्यायतनम् । य एवायम् अप्सु पुरुषः – अप्छरीरक इत्यर्थः । वरुण इति होवाच इति । वरुण नामक इत्यर्थः ।। १६ ।।
रेत एव यस्यायतनं हृदयं लोको मनोज्योतिः । यो वै तं पुरुषं विद्यात् सर्वस्यात्मनः परायणम्, स वै वेदिता स्याद्याज्ञवल्क्य । वेद वा अहं तं पुरुषं सर्वस्यात्मनः परायणम्, यमात्थ । य एवायं पुत्रमयः पुरुषः, स एषः वदैव शाकल्य तस्य का देवतेति । प्रजापतिरिति होवाच ।। १७ ।।
प्र. – रेत एव यस्यायतनम् – स्पष्टम् । उक्ताष्टपुरुषेषु मनोज्योतिष्ट्वं सर्वत्राऽनुगतम्; आयतनानां लोकानां धर्माणाञ्च भेदः ।। १७ ।।
शाकल्येति होवाच याज्ञवल्क्यः। त्वाँ स्विदिमे ब्राह्मणाः अङ्गारावक्षयणकृता३ इति ।। १८ ।।
प्र.- शाकल्येति होवाच याज्ञवल्क्यः । एवं प्रतिवादकुपितो याज्ञवल्क्यः शाकल्येति सम्बोध्य तमुवाच इत्यर्थः । तदेवाह – त्वां स्विदिमे इति । स्विदिति वितर्के । इमे नूनं ब्राह्मणाः स्वयं मत्प्रतिवादे भीतास्सन्तः, अङ्गारावक्षयणम् – अङ्गाराः अवक्षीयन्ते – गृहयन्ते येन पात्रेण तदङ्गारातक्षयणम् – तन्नूनं त्वाम् अकृत – कृतवन्तः ब्राह्मणाः त्वं तु न बुध्यसे आत्मानं मया दह्यमानमित्यभिप्रायः ।। १८ ।।
[सदेव सप्रतिष्ठदिकप्रश्नः]
याज्ञवल्क्येति होवाच शाकल्य यदिदं कुरुपाञ्चालानां ब्राह्मणानत्यवादी: किं ब्रह्म विद्वानिति? दिशो वेद सदेवाः सप्रतिष्ठा इति यदिशो वेत्थ सदेवाः सप्रतिष्ठाः ।। १९ ।।
प्र.-याज्ञवल्क्येति होवाच शाकल्यः । उवाच -अत्रोत्तरमाह इत्यर्थ:। किमिति? यदिदं – – –सप्रतिष्ठाः । कुरुपाञ्चालान् इमान् सर्वान् विदुषः – अत्यवादी: अत्युक्तवानसि अधिक्षिप्तवानसि किल, स्वयं भीताः त्वामङ्गवारावक्षयणं कृतवन्त इति । किं ब्रह्मविद्वान् इति । कीदृशब्रह्मविधावानिति हेतोरेवमधिक्षिपसि ब्राह्मणान् । अहं तु दिशः तदधिष्ठातृदेवताश्च तत्प्रतिष्ठाश्च इति‘ – एवम्प्रकारेण जाने । त्वमप्यहमिव दिशो देवताः तत्प्रतिष्ठाश्च यदि वेत्सि तर्हि, पृच्छामि वदेत्यर्थः ।। १९ ।।
[प्राचीदिकस्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां प्राच्यां दिश्यसीति । आदित्यदेवत इति । स आदित्यः कस्मिन् प्रतिष्ठित इति चक्षुषीति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति । चक्षुषा हि रूपाणि पश्यति । कस्मिन्नु रूपाणि प्रतिष्ठितानीति । हृदय इति होवाच; यस्मात् हृदयेन हि रूपाणि सर्वोलोको जानाति । तस्मात् हृदये ह्येव रूपाणि प्रतिष्ठितानि भवन्तीति । एवमेवैतद्याज्ञवल्क्य ।। २० ।।
प्र. – इत्युक्त्वा, तर्हि पृच्छेत्युक्तः शाकल्यः पृच्छति – किन्देवतोऽस्यां प्राच्या दिश्यसीति । अस्यां प्राच्यां दिशि किन्देवतः त्वमसि? का देवता यस्य सः किन्देवतः । प्राग्दिगधिष्ठातृत्वेन का देवतामुपास्स इत्यर्थः । याज्ञवल्क्य उत्तरमाह – आदित्यदेवत इति । आदित्यो देवता यस्य सः आदित्यदेवतः । प्राच्यां दिशि अधिष्ठातृत्वेनादित्यमहमुपासे इत्यर्थः । शाकल्यः पृच्छति – स आदित्यः कस्मिन् प्रतिष्ठित इति । उत्तरं चक्षुषीति । प्रतिष्ठित इत्यनुषङ्गः । पुनः पृच्छति । कस्मिन्नु चक्षुः प्रतिष्ठितमिति । उत्तरं रूपेष्विति । तत्रोपपत्तिमाह – चक्षुषा हि रूपाणि पश्यति । हि – यस्मात् चक्षुषा रूपाणि पश्यति, अतः चक्षुःस्वविषये प्रतिष्ठितमित्यर्थः पृच्छति – कस्मिन्नु रूपाणि प्रतिष्ठितानीति । उत्तरं हृदय इति होवाच । तत्रोपपत्तिमाह – हृदयेन हि– – । हि यस्माल्लोको हृदयेनैव रूपाणि जानाति, तस्मात्, हृदये हयेव रूपाणि प्रतिष्ठितानि भवन्ति । अन्तःकरण एव वासनात्मना प्रतिष्ठितानि भवन्तीत्यर्थः । उक्तमङ्गीकरोति एवमेवैत-द्याज्ञवल्क्य ।। २० ।।
[दक्षिणदिक्स्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां दक्षिणायां दिश्यसीति । यमदेवत इति । स यमः कस्मिन् प्रतिष्ठित इति । यज्ञ इति कस्मिन्नु यज्ञः प्रतिष्ठित इति? दक्षिणायामिति कस्मिन्नु दक्षिणा प्रतिष्ठितेति । श्रद्धायामिति यदा ह्येव श्रद्धत्तेऽथ दक्षिणां ददाति श्रद्धायाँ ह्येवदक्षिणा प्रतिष्ठितेति । कस्मिन्नु श्रद्धा प्रतिष्ठितेति । हृदय इति होवाच; हृदयेन हि श्रद्धां जानाति हृदये ह्येव श्रद्धा प्रतिष्ठिता भवतीति । एवमेवैतद्याज्ञवल्क्य ।। २१ ।।
प्र. – अथान्यत् पृच्छति किन्देवतो – – – दिश्यसीति पूर्ववदर्थः । उत्तरमाह – यमदेवत इति । पृच्छति स यमः कस्मिन् प्रतिष्ठित इति । उत्तरं दक्षिणायामिति । कस्मिन्नु दक्षिणा प्रतिष्ठिता इति प्रश्नः । श्रद्धायामित्युत्तरम् तत्रोपपत्तिमाह – यदा ह्येव – – प्रतिष्ठितेति । यदा श्रद्धा जायते, तदैव दक्षिणां ददाति । अतः श्रद्धायामेव दक्षिणा प्रतिष्ठिता इत्यर्थः । पृच्छति कस्मिन्नु श्रद्धा प्रतिष्ठितेति हृदय इति होवाच । उत्तरमिति शेषः । तत्रोपपत्तिमाह हृदयेन हि – हृदयेन हि – यस्मात् श्रद्धां जानाति करोति; अतो हृद्येव श्रद्धा प्रतिष्ठिता भवतीत्यर्थः । एवमेवैतद्याज्ञवल्क्यः । पूर्ववत् ।। २१ ।।
[प्रतीचीदिक्स्थदेवता तत्प्रतिष्ठा च]
किं देवतोऽस्यां प्रतीच्या दिश्यसीति । वरुण देवत इति । स वरुणः कस्मिन् प्रतिष्ठित इति? अप्स्विति । कस्मिन्नु आप: प्रतिष्ठता इति? रेतसीति कस्मिनु रेत: प्रतिष्ठितमिति? हृदय इति तस्मादपि प्रतिरूपं जातमाहुर्हृदयादिव सृप्तो हृदयादिव निर्मित इति हृदये ह्येव रेत: प्रतिष्ठितं भवतीति । एवमेवैत–द्याज्ञवल्क्य ।। २२ ।।
प्र.- अन्यत् पृच्छति – किन्देवतोऽस्यां प्रतीच्यां दिश्यस्तीति । उत्तरं वरुण देवत इति । स वरुणः कस्मिन्, प्रतीष्ठित इति प्रश्न: । अप्सु इत्युत्तरम् । कस्मिन्न्वापः प्रतिष्ठिता इति प्रश्नः । रेतसीत्युत्तरम् । कस्मिन्नु रेत: प्रतिष्ठितम् इति प्रश्नः । हृदय इत्युत्तरम् । तत्रोपपत्तिमाह – तस्मादपि – निर्मित इति । यस्माज्जातं पितुः प्रतिरूपं पितृसदृश संस्यानं पुत्रं जनाः पितुर्हृदयान्निर्गत इव वर्तते; पितुहृदयान्निमित इव वर्तते अयं कुमार इत्याहुः – अतो हृदय एव पुत्रपरिणामि रेत: प्रतिष्ठितमित्यर्थः । उत्तमङ्गीकरोति शाकल्यः एवमेवैतद्याज्ञवल्क्य ।। २२ ।।
[उदीचीदिकस्थदेवता प्रतिष्ठा च]
किन्देवतोऽस्यामुदीच्या दिश्यसीति? सोमदेवत इति । स सोमः कस्मिन् प्रतिष्ठित इति । दीक्षायामिति। कस्मिन्नु दीक्षा प्रतिष्ठितेति । सत्य इति तस्मादपि दीक्षितमाहुः सत्यं वदेति, सत्ये ह्येव दीक्षा प्रतिष्ठितेति । कस्मिन्नु सत्यं प्रतिष्ठितमिति? हृदय इति होवाच, हृदयेन हि सत्यं जानाति, हृदये ह्येव सत्यं प्रतिष्ठितं भवतीति । एवमेवैतद्याज्ञवल्क्य ।। २३ ।।
प्र. – अन्यत् पृच्छति किन्दबतोऽस्यामुदीच्या दिश्यसीति । सोमदेवत इत्युत्तरम् । स सोमः कस्मिन् प्रतिष्ठित इति प्रश्नः । दीक्षायामित्युत्तरम् । कस्मिन्नु दीक्षा प्रतिष्ठिता इति प्रश्नः । सत्यं इत्युत्तरम् । तत्रोपपत्तिमाह – तस्यादपि दीक्षितम् यस्मात् दीक्षितं सत्यं वदेति दीक्षा सिद्ध्यै तद्याजकाः शिक्षमाणा आतु, तस्मात् सत्ये ह्येव दीक्षा प्रतिष्ठिता इत्यर्थ: । कस्मिन्नु सत्यं प्रतिष्ठितमिति प्रश्नः । उत्तर हृदय इति । तदुपपादयति हृदयेन हि । अङ्गीकरोति एवमेवैतद्याज्ञवल्क्य ।। २३ ॥
[ऊर्ध्वस्थदेवता तत्प्रतिष्ठा च]
किन्देवतोऽस्यां ध्रुबायां दिश्यसीत्यग्निदेवत इति योऽग्नि: कस्मिन्प्रतिष्ठित इति वाचीति कस्मिन्नु वाक् प्रतिष्ठितेति हृदय इति कस्मिन्नु हृदयं प्रतिष्ठितमिति ।। २४ ।।
प्र. – पृच्छति – किन्देवतोऽस्यां ध्रुवायां दिश्यसीति । स्वलौकापेक्षया भूमेध्रुवत्वात् भूमिरूपा अधो दिक् ध्रुवा इत्युच्यते । उत्तरम् अग्निदेवत इति । सोऽग्निः कस्मिन् प्रतिष्ठित इति प्रश्नः । उत्तरं वाचीति । कस्मिन्नु वाक् प्रतिष्ठितेति प्रश्नः हृदय इत्युत्तरम् । पुनः पृच्छति कस्मिन्नु हृदयं प्रतिष्ठितमिति । एवं सर्वं दिग्देवताना प्रतिष्ठाभूतं हृदयं क्व प्रतिष्ठितमित्यर्थः ।। २४ ।।
[हृदयाधिष्ठानकथनम्]
अहल्लिकेति होवाच याज्ञवल्क्यो यत्रैतदन्यत्रास्मन्मन्यासै यद्ध्येतदन्यत्रास्मत् स्यात्, श्वानो वै न दद्युः वयाँसि वैनद्विमन्थीरन्निति ।। २५ ।।
प्र.-अहल्लिकेति होवाच याज्ञवल्क्यः । अहल्लिकेत्युक्त्वा याज्ञवलक्य उत्तरमाहेत्यर्थः । अहल्लिक’ इति शाकल्यस्य नामान्तरमिति कचित् । अहल्लिकः षण्डः । कोपादेवं शाकल्यं याज्ञवल्क्यो ब्रूते इति केचित् । यत्रैतदन्यत्र – – – विमधीरन् इति । अस्मत् – अस्माच्छरीरात् इत्यर्थः । यद्वा – अस्मिदिति पञ्चमी बहुवचनान्तोऽस्मच्छब्दो द्रष्टव्यः । अस्मत् – अस्मत्तः इत्यर्थः। अस्माच्छरीरादन्यत्र यत्र नाप्येतद्धदयं प्रतिष्ठितमिति किल मन्यासै– मन्यसे । यद्येतत् हृदयम् अस्मत् – अस्मत्तोऽन्यत्र गच्छेत् तदा एनत् – इदं शरीरं श्वानो वा अद्युः – भक्षयेयुः; वयांसि – पक्षिणो वा विमधीरन् – लोडयेयुः । तस्मात् शरीरस्य मध्ये हृदयं प्रतिष्ठितमित्यर्थः । अभेदोपचाराच्छरीरमेवास्मत् इत्युक्तमिति द्रष्टव्यम् ।। २५ ।।
[हदयशरीरयोरधिष्ठानकथनम्]
कस्मिन्नु त्वं चात्मा च प्रतिष्ठितौ स्थ इति । प्राण इति । कस्मिन्नु प्राण: प्रतिष्ठित इति । अपान इति । कस्मिन्नु अपान: प्रतिष्ठित इति । व्यान इति । कस्मिन्नु व्यानः प्रतिष्ठित इति । उदान इति । कस्मिन्नु दानः प्रतिष्ठित इति । समान इति । स एष नेति नेतित्यात्मा अंगृह्यो न हि गृह्यते; अशीर्यो न हि शीर्यते; असङ्गो न हि सज़्ज्यते; असितो न व्यथते, न रिष्यति । एतान्याष्टावायतनान्यष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः; स यस्तान् पुरुषानिरूह्य प्रत्यूह्यात्यक्रामत्, तं त्वौपनिषदं पुरुषं पृच्छामि; तं चेन्मे न विवक्ष्यसि, मूर्धा ते विपतिष्यतीति । तँ ह न मेने शाकल्य । तस्य ह मूर्धा विपपात । अपि हास्य परिमोषिणोऽस्थीन्य–पजह्नुरन्यन्मन्यमानाः ।। २६ ।।
प्र. – पुनः पृच्छति कस्मिन्नु ….स्थ इति । हृदयप्रतिष्ठाधारभूतस्त्वं – अस्मदिति त्वयोक्तं शरीरञ्च – आत्मा च – आत्मशब्देनात्र हृदयमुच्यते । त्वच्छरीरं त्वद्धृदयञ्च -कस्मिन् प्रतिष्ठितौ इत्यर्थः । स्थः इति अस्तेर्मध्यमपुरुषद्विवचनम् । उत्तरं प्राण इति । प्राणाधीनप्रतिष्ठात्त्वाच्छरीरमनसोरिति भावः । एवमुत्तरत्रापि द्रष्टव्यम् । कस्मिन्नु प्राण: प्रतिष्ठित इति प्रश्नः । अपान इत्युत्तरम् । कस्मिन्नु अपानः प्रतिष्ठित इति प्रश्नः । व्यान इत्युत्तरम् । कस्मिन्नु व्यानः प्रतिष्ठित इति प्रश्नः । उदान इत्युत्तरम् । कस्मिनुदान: प्रतिष्ठित इति प्रश्नः । समान इत्युत्तरम् ।
एवं प्रश्नप्रतिवचनपरम्परायां परिसमाप्तायां तूष्णीम्भूते शाकल्ये समानप्रतिष्ठा-धारप्रश्चस्य ते न कृतत्वाभावात् तमसौ न वेत्तीति निश्चित्य याज्ञवल्क्यः समानप्रतिष्ठाधारं स्वयं शाकल्यं पृच्छति तमेव समानप्रतिष्ठाधारं विशिनष्टि स एष नेति नेत्यात्मा । स एषः – उक्तसमानप्रतिष्ठाधारभूतः । अथात आदेशो नेति नेति इति निर्दिष्टो य आत्मा, स एषः – समान प्रतिष्ठाधारभूत इत्यर्थः । अगृह्यो न हि गृह्यते । इन्द्रियग्रहणायोग्यत्वात् इन्द्रियेण न गृह्यते । अशीर्यो न हि शीर्यते । विशरणयोग्यावयवशून्यत्वात् न शीर्यते । असङ्गो न हि सज्यते । निर्लेपत्वात् पापफलं नानुभवतीत्यर्थः । असितो न व्यथते न रिष्यति । असितः षिञ् बन्धने (धा.पा.१२४९)। कर्मबन्धशून्यत्वादेव सर्वदेहान्तर्गतोऽपि न व्यथते न शोचति, न रिष्यति न हिंस्यते वेत्यर्थः । एतादृर्शं समानप्रतिष्ठाधारभूतं याज्ञवल्क्यो मनसि निधाय, एतं शाकल्यो न वेत्तीति निश्चित्य पृच्छति । एतान्यष्टो – – पुरुषाः । यानि प्रागुक्तानि पृथिव्यादीन्यष्टावायतनानि, अग्नयाद्या अष्टौ लोकाः, अमृताधा अष्टौ देवाः, शरीराद्या अष्टौ देवाः, शारीराधा अष्टौ पुरुषा:; स य:-प्रसिद्धः पुरुषः एतान् पुरुषान् निरुह्य प्रत्यूह्य अत्यक्रामत् – अत्र पुरुषान् इत्युपलक्षणम् । आयतनलोकदेवादीनित्यपि द्रष्टव्यम्। एतान् निरूह्य प्रत्यूह्य सम्यनिर्धारणार्थो निरूहः । प्रतिव्यक्तयूहः प्रत्यूहः । आयतनदेवलोकपुरुषान् – प्रतिव्यक्ति तर्केण तत्तत्स्वरूपं निर्धार्यः तान् सर्वान् योऽत्यक्रामत् । यः पुरुषः अत्यक्रामत्–सकलकार्यवर्गविलक्षणत्वेन निश्चित इत्यर्थः । यद्यपि अतिक्रमणकर्तृत्वमौपनिषदात्मगतम्। निरूहप्रत्यूहकर्तृत्वं तु पुरुषगतम्, तथापि ण्यर्थगर्भतया य ऊहयित्वा अत्यक्रामत् इत्युक्तौ न विरोध इति द्रष्टव्यम् । ऊहविषयस्य परमात्मन: ऊहयितृत्वसंभवात् । अतिक्रमणं नाम, इदं वा परमिदं वा परमिति संशयविषयतातिक्रमणात्। तञ्च परमात्मकर्तृकं सम्भवतीति द्रष्टव्यम् – तं त्वोपनिषदं पुरुषं पृच्छामि । तं – सर्वविलक्षणम् औपनिषदम् – उपनिषदेकसमधिगम्यं त्वा पृच्छामि ; तं चेन्मे न विवक्ष्यसि, तर्हि मूर्धा ते विपतिष्यतीति याज्ञवल्क्यः शाकल्यं शशाप इत्यर्थः । सूत्रितञ्च परमपुरुषस्यैपनिषदत्वं भगवता बादरायणेनः शास्त्रयोनित्वात् (ब्र.सू.१-१-२) इति ।
तत्र ह्यधिकरणे – अङ्कुरादिकं सकर्तृकं कार्यत्वात् इत्यनुमानसिद्धेश्वरानुवादितया न वेदान्तवाक्यं तत्र प्रमाणम् । अतो वेदान्तन्यायग्रथनात्मकमीमांसाशास्त्रम् अनारम्भणीयम्। न च ईश्वरमनुमानसिद्धमनूद्य वेदान्तै: जगदुपादानत्वादिकं बोध्यताम् । अत: शास्रमारभ्यताम् इति वाच्यम् – कार्यत्वस्य उपादानभिन्नकर्तृकत्वेन व्याप्ततया अभिन्ननिमित्तोपादानत्व-प्रतिपादकवेदान्तवाक्यस्य घर्मिग्राहकानुमानजातीयनिमित्तोपादानभेदवाह्यनुमानबाधितत्वात्।
अतो न वेदान्तवाक्यं ब्रह्मणि प्रमाणमिति प्राप्ते उच्यते – शास्त्रयोनित्वात् (ब्र.सू.१-१-२) आस्त्रं योनिः प्रमाणं यस्य तत् शास्रयोनिः, तत्वात्। शास्रैकसमधिगम्यत्वात् वेदान्तानां प्रामाण्यमस्तीत्यर्थः । कार्यत्वेन हेतुना सकर्तृकत्वसाधने, तेनैव हेतुना गुणत्रयवश्यकर्तृकत्व-शरीरजन्यत्वादेरपि प्रसङ्गात् । प्रासादादिविपुलकार्यस्य अनेककर्तृकत्वदर्शनेन क्षित्यादि-कार्यस्यापि तथात्वप्रसङ्गाच्च । ईश्वरस्य नित्यकृत्यभ्युपगमे तदद्वारा हेतुभूतयोनिच्छयो: ईश्वरे असिद्धिप्रसङ्गेन ज्ञानेच्छाप्रयत्नलक्षणगुणत्रयाश्रयेश्वरासिद्धिप्रसङ्गात् । अतः शास्रैक-समधिगम्येश्वरस्वरूपोपादानत्वप्रतिपादकवेदान्तभागस्य नानुपपत्तिः।
[शिष्टापरिग्रहाधिकरणविचारः]
अत एव सांख्यपक्षस्याप्रतिष्ठिततर्कमूलत्वेन यथा आभासत्वम्, एवं कणभक्षा-क्षपादक्षपणकबौद्धपक्षाणां परमाणुकारणत्वपक्षपातिनां शुष्कतर्कमूलत्वात् वैदिक-परिग्रहशून्यत्वाच्च नादरणीयत्वमिति स्मृतिपादे, एतेन शिष्टापरिग्रहा अपि व्याख्याता: (ब्र.सू.२.१.१३) इत्यधिकरणे निर्णीतम् । शिष्टाः – परिशिष्टाः । ते च ते अपरिग्रहाश्च शिष्टपरिग्रहाः । अवशिष्टाः – वैदिकपरिग्रहशून्या: कणभुगादिपक्षाः एतेन सांख्यपक्षदूषणेनैव दुष्टत्वेन व्याख्याता इति सूत्रार्थः ।
[महदीर्घाधिकरणविचारः]
तथा तर्कपादेऽपि परमाणुकारणवादो दूषितः । तथाहि काणादपक्षस्य युक्तियुक्ततया आदरणीयत्वमस्त्विति पूर्वपक्षे प्राप्ते उच्यते – महद्दीर्घवद्वाह्रस्वपरिमण्डलाभ्याम् (ब्र.सू.२-२-१०) पारिमाण्डल्यपरिमाणाश्रयेण परस्परसंयुक्तपरमाणुद्वयेनाणुह्रस्वं व्द्यणुकमुत्पाद्यते, परस्परसंयुक्तेनाणुह्रस्वव्द्यणुकत्रयेण महद्दीर्घं त्र्यणुकमुत्पद्यते इत्यसमञ्जसप्रक्रियावत् इतरापि तत्प्रक्रिया असमञ्जसैव । किं तत्रासमजंस्यमिति चेत् न, निष्प्रदेशे परमाणौ प्रादेशिकसंयोगा-सम्भवात् । संयोगस्याव्याप्यवृत्तित्वनियमात् । परस्परासंयुक्तप्रदेशाभावे ततोऽधिक-परमाणकार्यानुत्पत्तिप्रसङ्गात् । उभयथापि न कर्मातस्तदभावः (ब्र.सू.२.२.११)। परमाणुनिष्पाद्यं कर्म अदृष्टकारितमिति हि तै रश्युपगम्यते । तत्र न परमाणुसमवेतमदृष्टं क्रियाहेतुः, अचेतनस्यादृष्टानाधारत्वात् । नाप्यात्मगतं परमाणुक्रियाहेतुः, व्यधिकरणत्वात् । अतः, अदृष्टकारिताद्यकर्मणा परमाणुद्वयसंयोगः इति तत्प्रक्रिया न युक्ता । समावायाभ्युपगमाच्च साम्यादनवस्थिते: (ब्र.सू.२-२-१२) जातिगुणादिविशिष्ट-प्रतीतिनिर्वाहकतया समावायाभ्युपगमे, तन्तुषु पटः समवेतः इति समवायिविशिष्ट प्रतीति-निर्वाहकता साम्येन सम्बन्धान्तरस्यावश्यकत्वात्। तत्रापि मम्बन्धान्तराभ्युपगमे अनवस्था च स्यात् । नित्यमेव च भावात् (ब्र.सू.२-२-१३) समावायलक्षणसम्बन्धस्य नित्यं सत्त्वात् सम्बन्धिनोरपि नित्यसत्त्वावश्यम्भावेन जगतो नित्यत्वमेव स्यात् । रूपादिमत्त्वाच्च विपर्ययो दर्शनात् (ब्र.सू.२.२-१४)। रूपादिमत्त्वाच्च परमाणोः त्वदभिमतनित्यत्वनिरवयवत्वादिव्यतिरेकः प्रसज्येत । लोके रूपादिमताम् अनित्यत्वादि-दर्शनात् । ननु एतद्दोषशान्तये रूपादिशून्या एव परमाणवः सन्तु । तत्राह – उभयथा च दोषात् (ब्र.सू २-२-१५)। कारणगुणपूर्वकत्वात् त्वन्मते कार्यगुणानाम्, द्वयणुकादीनामपि रूपादिशून्यात्वप्रसङ्गः ।
अपरिग्रहाच्चात्यात्यन्तमनपेक्षा (ब्र.सू.२.२.१६) । वैदिकपरिग्रहशून्यत्वाच्च तत्पक्षस्य, निःश्रेयसाथिभिः तत्पक्षेऽनपेक्षैव कार्या इति स्थितम् । वैशेषिकादयोऽर्धवैनाशिका इति हि शिष्टगोष्ठी प्रसिद्धिः । ते हि – जाठराग्निना पच्यमानानां भुक्तपीताहाहौषधरसद्रव्यरूपाणामतयवानां प्रतिक्षणमुपचयापचयावैषम्यात् अवयवि शरीरमपि प्रतिक्षणमुपचयापचयवदन्यदन्यद्रवति । यद्यपि शरीरस्य प्रतिकलमुप-चयापयदर्शनं नास्ति – तथापि वर्षदारानिपातै: तटाकजलस्येव, घटीयन्क्षेपणैः कूपजलस्येव चान्ते तद्दर्शनात् यौक्तिकं प्रतिक्षणं किञ्चित् किञ्चिदुपचयापचयवत्त्वज्ञानमस्त्येव । चन्द्रतारकादीनां मुहूर्तादिकालव्यवधानेन बहुदेशान्तरप्राप्तिदर्शनात् प्रतिक्षणं स्वल्पदेशान्तरप्राप्तिज्ञानवत् इत्यभ्युपगच्छन्ति । एवं प्रतिक्षणमवष्टम्भाविभिः खननपूरणादिभिः भूगोळकस्य, नदीजलसंसर्गशीकरोत्पतनैः समुद्रस्य चोपचयापचयवतः क्षणिकत्वमरयुपगच्छन्ति । अतस्ते अर्धवैनाशिकाः । बोद्धास्तु सर्वस्य प्रपञ्चस्य च क्षणिकत्वमभ्युपगच्छन्तः सर्ववैनाशिका इति हि वैदिकानां व्यवहारः । अतो वैनाशिकत्व परमाणुकारणवादित्वसाम्यादेव काणादमत-प्रतिक्षेपानन्तरं बौद्धमतमपि प्रतिक्षिप्तं तत्पादे – समुदाय उभयहेतुकेऽपि तदप्राप्तिः (ब्र.सू.२-२-१७) इत्यादिना ।
तत्र हि स्वरस्नेहोष्णेरण स्वभावैः परमाणुभिः पृथिव्यादिभूतलक्षण: संघात उत्पद्यते । पृथिव्यादिभिश्च भूतैः शरीरेन्द्रियविषयसंघातलक्षणः समुदाय उत्पद्यते इति हि तेषां प्रक्रिया । तत्राणुहेतुके पृथिव्यादिभूतात्मकसमुदाये, भूतहेतुके च शरीरेन्द्रियविषय-लक्षणभौतिकसमुदाये च सति जगदात्मकसमुदयोत्पत्तिर्नोपपद्यते । सर्वेषां क्षेमकत्वाभ्युपगमे यावत्संघातभावापत्ति अवस्थानासम्भवात् । इतरेतरप्रत्ययत्वादुपपन्नमिति चेन्न संघातभावानिमित्तत्वात् (ब्र.सू.२-२-१८)।
यद्यपि सर्वे पदार्याः क्षणिकाः तथापि अविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा । ते च अविद्यादयः अविद्या, संस्कारः, विज्ञानम्, नामरूपम्, षडायतनम्, स्पर्शः, वेदना तृष्णा, उपादानम्, भव: जातिः, जरा, मरणम्, शोकः, परिवेदना, दुःखम्, दौर्मनस्यम्, इत्येवञ्जातीयकाः इतरेतरहेतुका: सुगतसमये अभ्युपगम्यन्ते । अविद्या क्षणिककार्यदुःखशून्येषु स्थायिनित्यसुखवस्तु बुद्धिः । ततो रागद्वेषमोहधर्मा धर्मासंस्काराः । संस्कार वशाज्जीवस्य गर्भाशयद्रव्ये वृत्तिलाभोविज्ञानम् । विज्ञानसंसर्गात् गर्भ द्रव्यस्य कललपेश्याद्याकारेणाभिव्यक्ति: नामरूपम् । तदभिव्यक्तिक्रमेण षडिन्द्रियायतनशरीरनिवृत्ति: षडायतनम् । निवृत्तशरीरेन्द्रियस्य गर्भगतविषयेन्द्रियसंसर्गजं ज्ञानं स्पर्शः । तन्निमित्ते सुखदुःखेवेदना । सुखदुःखप्राप्तिपरिहारार्था विषयोपादानेच्छा तृष्णा । तया विषयेषु प्रवृत्तिरुपादानम् । ततः क्रमेण गर्भात् निष्क्रमणं भवः । निर्गतस्य मनुष्यत्वादिजात्यभिमानो जातिः । क्रमभाविनी जरामरणे प्रसिद्धे । म्रियमाणस्य पुत्रकळत्राद्यभिषङ्गादन्तर्दाहः शोकः । तदुत्थः प्रलापः परिदेवना । मरणक्लेशो दुःखम् । मानसदुःखं दौर्मनस्यम्, एतेषामितरेतरहेतुत्वस्यानुभवसिद्धत्वादुपपद्यते लोकयात्रा इति चेन्न – संघातभावानिमित्तत्वात् अस्थिरेषु स्थिरत्वबुद्धिरूपाविद्याश्रयस्य कस्यचित् स्थिरस्य चेतनस्य अभावेनाविद्यया भूतो रागोत्पत्तेरसम्भवेन संघातहेत्वभावस्तदवस्थ एव ।
उत्तरोत्पादे च पूर्वनिरोधात् (ब्र.सू.२-२-१९) बौद्धमते वस्तुत: कालो नास्ति । उदयन्नेव स्वरसभङ्गुरो घटादिः क्षणपरिकल्पनामात्रनिमित्तं भवति । स च घटादिः स्वोदयविनाशपरिकल्पितक्षणवत्त्वात् क्षणिकोऽपि भवति । वस्तुतः स्वव्यतिरिक्तक्षणाभावात् स्वयमेव क्षणो भवतीति हि तेषां प्रक्रिया । ततश्च पूर्वघटक्षणस्योत्तरघटक्षणोत्पत्तिकालेऽसतः तद्धेतुत्वं न सम्भवति । असतोऽपि हेतुत्वे अतिप्रसङ्गात् ।।
असति प्रतिज्ञोपरोधघो यौगपद्यमन्यथा (ब्र.सू.२-२-२०) असत्यपि कारणे कार्यस्योत्पत्तौ अधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययश्चत्वारः चित्तचैत्तोत्पत्ति हेतवः इति बौद्धानां प्रतिज्ञाया उपरोधप्रसङ्गः । अधिपतिः इन्द्रियम् । तद्धि ज्ञानस्य रूपादिषु पञ्चसु एकैक मात्रविषयत्वनियामकम् । नियामकश्च लोकोऽधिपतिरुच्यते । सहकारि आलोकादिकम् । आलम्बनं घटादिविषयः । समनन्तर प्रत्ययः पूर्वज्ञानम् । एतैः चतुर्विधैर्हेतुभिःचित्तशब्दितस्य ज्ञानस्य चैत्तशब्दितानां चित्ताभिन्नसुखादीनाञ्च उत्पत्तिरिति हि तेषां प्रतिज्ञा । सा प्रतिज्ञा हीयेत, यदि पूर्वोत्तरक्षणवर्तित्वं न स्यात् । तत्र यदि पूर्वक्षणवर्तित्वं न स्यात्, तदा कारणत्वं हीयेत । उत्तरक्षणवर्तित्वाभावे च वर्तमानत्वग्राहिप्रत्यक्षविषयत्वं न स्यात् । अतः क्षणद्वयवर्तित्वमभ्युपेतव्यमिति क्षणिकत्वविरोधः । यद्येतद्दोषपरिजिहीर्षया कारणघटक्षणस्यापि कार्यघटक्षणोत्पत्तिदशायां सत्त्वमभ्युपगम्यते, तदा घटक्षणद्वय योगपद्यप्रसङ्ग इत्यर्थः ।
प्रतिसंख्या प्रतिसङ्ख्यानिरोधाप्राप्तिरविच्छेदात् (ब्र.सू.२-२-२१) बौद्धाः सर्वस्य वस्तुनो निरन्वयो विनाश इति वदन्ति । स च द्विविधः; स्थूलः सूक्ष्मश्च । मुद्गरपाताद्यनन्तरं सर्वारूपलभ्यमानो घटादीनां विनाशः स्थूलः । सः प्रति सङ्ख्यानिरोध इत्युच्यते । प्रतिसंख्या – विषयसत्त्वप्रतिकूला तदसत्त्वग्राहिणी लौकिकानां बुद्धिः; तद्विषयो, निरोध इत्यवयवार्थान्वयात् । तद्विपरीतोनिरोधः अप्रति सङ्ख्यानिरोधः । स च सूक्ष्मो लौकिकबुद्ध्ययोग्यो बौद्धै: युक्त्या साध्यमानः प्रतिक्षणविनाशः । तयोरुभयोरप्राप्तिः असम्भवः । कुतः? अविच्छेदात् । पिण्डघटकपालादिरूपेण स्थितस्य द्रव्यस्य स्वरूपविच्छेदाभावात् । न च द्रव्यानुवृत्तौ विनष्टो घट इत्यादिप्रतीतेः निर्विषयत्वापत्तिः, अवस्थान्तरापत्ति-विषयत्वसम्भवात् ।
उभयथा च दोषात् (ब्र.सू.२-२-२२) बौद्धाः किल एवं वर्णयन्ति । पृतिसङ्ख्यानिरोधः अप्रतिसंख्यानिरोधः; आकाशं च इत्येत त्रितयं वस्तुनिरुपाख्यं तुच्छम् । अन्यन्तु क्षणिकत्वमुत्पाद्यमिति मन्यन्ते । तत्र पूर्वोत्पन्नस्य घटक्षणस्य तदानीमेव निरुद्धत्वप्राप्त्या तुच्छात् निरोधादेवकार्यघटक्षणस्य उत्पत्तिरिति यदभ्युपगम्यते, तत्र तुच्छात् उत्पत्त्यसम्भवः तावदेको दोषः । तुच्छादुत्पत्त्यभ्युपगमे हि तुच्छस्य निर्विशेषत्वेन कारणविशेषकृतः कार्यविशेष इति व्यवस्थाया अभावात् घटक्षणानन्तरं सर्वजगत उत्पत्तिः स्यात् । तथा तुच्छादुत्पद्यमानं कार्यमपि तुच्छमेवोत्पद्येत; न तु सद्रूपम्; कारणानुसारित्वात् कार्यस्य इत्यपरो दोष इत्यर्थः ।
आकाशे चाविशेषात् (ब्र.सू.२-२-२३) घटोऽयम् पटोऽयम् इति प्रत्यक्षप्रतीतिवत् ; कूपोऽ सौ, रन्ध्रमेतत्, खग इह पतति इत्यादि प्रत्यक्षस्याविशेषेण, आकाशं निरुपाख्यतुच्छम्, घटादिकं क्षणिकतुच्छमित्यत्र प्रमाणाभावात् । न च, इह श्येनः पतति इत्यादिप्रतीतेरालोक एव विषयोऽस्त्विति वाच्यम् – इहालोकः, इहान्धकार इत्यालोकान्धकाराधारत्वेन प्रतीतस्य आलोकरूपत्वाभावात् ।
अनुस्मृतेश्च (ब्र.सू.२-२-२४) तदेवेदमिति प्रत्यभिज्ञावशात् स्थिरत्वस्यैवाभ्युप-गन्तव्यत्वेन क्षणिकत्वासंभवादित्यर्थः ।
नासतोऽदृष्टत्वात् (ब्र.सू.२-२-२५) यदुच्यते सौत्रान्तिकैः ज्ञानगतैर्नीलाद्याकारैः बाह्यार्थगता: तेऽनुमीयन्ते । अतो ज्ञानकाले विषयस्य क्षणिकतया असत्त्वेपि न दोषः । यद्यपि नीलादिज्ञानमपरोक्षतया अनुभूयते; इन्द्रियव्यापारान्वयव्यतिरेकानुविधायि च भवति; तथापि यदिन्द्रियसन्निकृष्टेन येनार्येन यत् ज्ञानं जायते; न तत् ज्ञानं तद्विषयकम्। किन्तु स्वयमप्यर्थवत् नीलाद्याकारं भवतीति तत् ज्ञानं स्वप्रकाशकतया स्वात्मानं विषयीकुर्वत् स्वगतं नीलाद्याकारमपि विषयीकरोति । अतो न नीलादिज्ञानस्य आपरोक्ष्यानुभवविरोधः; न वा इन्द्रियव्यापारानुविधानविरोधः । नीलाद्यर्थिनो बहिः प्रवृत्तिस्तु नापरोक्षज्ञानात् । किन्तु तदनन्तरभाविनः आनुमानिकज्ञानात् । यथा वायुनिषेवणार्थिनां शाखाचलनं दृष्ट्वा वृक्षमूले प्रवृत्तिः । न चैवमर्थस्य क्षणिकतया ज्ञानकालेऽनवस्थानात् ज्ञानाविषयत्वं स्यादिति वाच्यम् – ज्ञानोत्पत्तिहेतुत्वमेव हि ज्ञानाविषयत्वम्; न ज्ञानकालेऽवस्थानम् । न चैतावता चक्षुरादेः ज्ञानविषयत्वप्रसङ्गः । स्वाकारसमर्पणेन ज्ञानहेतोरेव ज्ञानविषयत्वाभ्युगमात् । ज्ञाने स्वाकारं समर्प्य नष्टोऽप्यर्थो ज्ञानगतेन नीलाद्याकारेण अनुमीयते । न च पूर्वपूर्वज्ञानेनोत्तरोत्तरज्ञानाकारसिद्धिः । नीलज्ञानसन्ततौ पीतज्ञानानुत्पत्तिप्रसङ्गात् । अतोऽर्थकृतमेव ज्ञानवैचित्र्यमिति । तत्रोच्यत – नासतः । योऽयं विज्ञाने नीलाद्याकार: उपलभ्यते, स विनष्टस्य असतोऽर्थस्याकारो भवितुं नार्हति । कुतः? अदृष्टत्वात् । न खलु धर्मिणि विनष्टे धर्मस्य आकारान्तरे सङ्क्रमणं दृष्टम् । प्रतिबिम्बादिकमपि स्थिरस्यैव भवति । तत्रापि न धर्ममात्रस्य । अतो अर्थ वैचित्र्य कृतं ज्ञानवैचित्र्यमर्थस्य ज्ञानकालेऽवस्थानादेव भवति । जपाकुसुमादेः स्फटिकादौ स्वाकारार्पणहेतुत्वेऽपि असतः तदर्शने न असतो विषयस्य ज्ञाने स्वाकारार्पणाक्षमत्वात् ।
उदासीनानामपि चैवं सिद्धिः (ब्र.सू.२-२-२०) तत्काले असत एवोत्पादकत्वे उदासीनानाम् – अनुद्युञ्जानानां पुरुषाणाम् उद्युञ्जानपुरुषवत् सर्वकार्यसिद्धिः स्यात् । उद्युञ्जानानुद्युञ्जानयोस्तत्कालासत्त्वाविशेषादिति स्थितम् । एतत्पक्षोक्तदोषः अर्धवैनाशिक-मतेऽपि समान इति तन्मनं सर्वथा नादर्तव्यमेवेति स्थितम् । तथा सर्वज्ञपशुपतिप्रणीतत्वात् पाशुपतं मतम् आदरणीयमिति पूर्वपक्षे प्राप्ते उच्यते पत्युरसामञ्जस्यात् (ब्र.सू.२-२-३५) पत्युः पशुपतेः मतमनादरणीयम् । वेदविरुद्धमुद्रिकाषट्कधारणसुराकुम्भस्थापन-शवभस्मस्नानादिधर्माणां निमित्तमात्रेश्वरस्य चाभ्युपगमेन तन्मतस्यासमंजसत्वात् । अधिष्ठानानुपपत्तेश्च (ब्र.सू.२-२-३६) अवैदिकस्य तदभिमताशरीरेश्वरस्य प्रधानाधधिष्ठानृत्वानुपपत्तेश्च । करणवच्चेन्न भोगादिभ्यः (ब्र.सू.२-२-३७) यथा जीवस्य करणकलेबरान्तरनरपेक्ष्यम्; एवं प्रधानाधधिष्ठानेऽपि शरीरनैरपेक्ष्यमस्त्विति चेन्न – भोगादिभ्यः पुण्यपापरूपकर्मफलभोगार्थं पुण्यपापरूपादृष्टकारितं हि तदधिष्ठानम् । तद्वत् पशुपतेरपि पुण्यपापरूपादृष्टतत्फलभोगादि सर्व प्रसज्येत । ततो नाधिष्ठानसम्भवः । अन्तवत्त्वमसर्वज्ञता वा (ब्र.सू.२-२-३०) वा शब्दश्चार्थे । पशुपतेः पुण्यपापरूपादृष्टवत्त्वे जीववत् अन्तवत्त्वं सृष्टिसंहाराद्यास्पदत्वमसर्वज्ञता च स्यादित्यनादरणीयमेवेदं मतमिति स्थितम् । [एतत्पक्षोक्तदूषणाना मप्यानुमाविकेश्वरवादि-नामर्धवेनाशिकानो मतेऽपि समानत्वात् तन्मतं सर्वथा नादर्तव्यमिति स्थितम् ।] तथा, एतेन योग: प्रत्युक्तः (ब्र.सू.२-१-३) इत्यधिकरणे केवलनिमित्तेश्वरवादि-हैरण्यगर्भमतमपि कपिलमतवदेव वेदविरुद्धत्वात् अप्रामाणिकमिति वदता सूत्रकारेण भगवता बादरायणेन सकलजगदाधारभूतस्य सकलजगदेककारणस्य परब्रह्मणो नारायणस्य पुरुषोन्तमस्यौपनिषदत्वमेव स्थिरीक्तम् ।।
तं ह न मेने शाकल्यः । तम् – एतं तर्कागोचरं प्रमाणान्तरागग्यमौपनिषदात्मानं शाकल्यो नाज्ञासीत् इत्यर्थः । तस्य ह मूर्धाविपपात । विविध शीर्णः पतितः । अपिहास्य – – –मन्यमानाः । एवं शापवशात् मूर्धनि पतिते तस्य कोपोग्निना शरीरञ्च दग्धमभवत् । संस्कारार्थं शिष्यैर्गृहान्नीयमानानि अस्थीन्यपि, अन्यत् धनं मन्यमानाः परिमोषिणः – तस्कराः अपजहुः – अपहृतवन्तः । यद्वा – परिमोषिमः । मुषितशरीरस्य नष्टशरीरस्येति यावत्, तस्य – शाकल्यस्यास्थीन्येव अन्यन्मन्यमानाः शरीरं मन्यमानाः और्ध्वदैहिकक्रियार्थं तत्पुत्राद्याल अपहुतवन्त इत्यर्थः ।। २६ ।।
[याज्ञवल्क्येन सर्वान् प्रति प्रश्नारम्भः]
अथ होवाच ब्राह्मणाः भगवन्तो यो वः कामयते स मा पृच्छतु। सर्वे वा मा पृच्छतुः यो वः कामयते तं वः पृच्छामिः सर्वान् वा वः पृच्छामीति । ते ह ब्राह्मणा न दधृषुः ।। २७ ।।
प्र.-अथ होवाच – – –पृच्छाम् इति । अथ – शाकल्यमरणानन्तरं याज्ञवल्क्यो ब्राह्मणान् प्रत्याह किमिति? हे पुजावन्तो ब्राह्मणाः! युष्माकं मध्ये यः प्रष्टुकामः स मां स्वाभीष्टं पृच्छतु । सर्वे वा मिळित्वा मां पृच्छत । अथवा व: युष्माकं मध्ये यः प्रत्युत्तरं दित्सति, तमहं प्रश्नं पृच्छामि । यदि सर्वेषां समूह्य प्रत्युत्तरदित्सा, तर्हि मिळितान् वा सर्वान् युष्मान् पृच्छामीति याज्ञवल्क्य उक्तवानित्यर्थः । ते ब्राह्मणा न दधृषुः । ते ब्राह्मणाः याज्ञवल्क्येन सह जल्पकथायां न प्रगल्भा बभूवुः ।। २७ ।।
[दृष्टान्तमुखेन पुनः प्रश्नकथनम्]
तान् है तैः श्लोकैः पप्रच्छ–
यथा वृक्षो वनस्पतिस्तथैव पुरुषोऽमृषा । तस्य लोमानि पर्णानि त्वगस्योत्पाटिका बहिः ।। त्वच एवास्य रुधिरं प्रस्यन्दि त्वच उत्पटः । तस्मात्तदातृण्णात् प्रैति रसो वृक्षादिवाहतात् ।। मांगं सान्यस्य शराणि किनाटँ स्राव तत् स्थिरम् । अस्थीन्यन्तरतो दारूणि मज्जा मज्जोपमा कृता । यद्वृक्षो वृक्णो रोहति मूलान्नवतरः पुनः । मर्त्यः स्विन्मृत्युना वृकण: कस्मान्मूलात् प्ररोहति ।।
रेतस इति मां वोचत जीवतस्तत् प्रजायते । धानारुह इव वै वृक्षोऽञ्जसा प्रेत्यसम्भवः ।। यत् समूलमावृहेयुर्वृक्षं न पुनराभवेत् । मर्त्यस्स्विन्मृत्युना वृक्ण: कस्मान्मूलात् प्ररोहति जात एव न जायते को न्वेनं जनयेत् पुनः । विज्ञानमानन्दं ब्रह्म रातिर्दातुः परायणम् ।। तिष्ठमानस्य तद्विद इति ।। २८ ।।
।। इति पञ्चमाध्याये नवमं ब्राह्मणम् ।।
समाप्तश्च पञ्चमोऽध्यायः
प्र– तान् है तै: श्लोकै: प्रपच्छ । याज्ञवल्क्य इति शेषः । ब्राह्मणान् । श्लोकानेव पठति । यथा वनस्पति:- फल्युष्पोपेतो वृक्षः : तादृश एव पुरुषः । अमृषा–सत्यम् इत्यर्थः । वानस्पत्य: फलै पुष्पै: (अ.को.२-४-६) इति हि निघण्टुः । तत्साधर्म्यमेवाह तस्य– – – बहिः । तस्य– पुरुषाख्यवृक्षस्य लोमान्येव पर्णानि । अस्य पुरुषस्य या त्वक् सा बहिर्भूता उत्पादिका । वृक्षानुपमर्देनैव उत्पाट्यत इति उत्पाटिका विञ्चादेरिव बहिस्त्वक् । रुधिरावारकाच्चर्मणो वा बहिर्भूता सा बहिस्त्वक् । त्वच – – उत्पट: इत्यादि । उत्क्रम्य पटति गछातीत्युत्पटः क्षीरादिसारः । अस्य–पुरुषवृक्षस्य त्वच एव हि रुधिरं प्रस्यन्दि भवति । वृक्षस्य च त्वच एव क्षीरादिसारः स्यन्दि भवति । अतः साधर्म्यमित्यर्थः । तस्मात् — –आहतात् । तत् वृक्षसाधर्म्यादेव हेतोः आतृण्णात् –तृदिर् हिंसायाम् (धा.पा.१४४७) । छिन्नात्, तस्मात् पुरुषरूपात् वृक्षात्: वृक्षादाहतात् रस इव, रुधिरं निर्गच्छतीत्यर्थः । मांसान्यस्य शकराणि । अस्य -पुरुषस्य मासानि वृक्षस्य शकराणीव – शकलानीव इत्यर्थः । किनाटंस्राव तस्थिरम् । स्रावेत्येतत् नान्तं नपुंसकम् । सिरेति यावत् । तदेव बृक्षस्य स्थिरं किनाटम् । किनाटं नाम दार्वस्थि भागादुद्गतवल्कः । वृक्षस्य तत् स्थिरं वल्कलान्तर्गतस्थिरांशः । अस्थीन्यन्तरतो दारूणि । अस्य पुरुषस्य अस्थीन्येव अन्तरतो दारूणि – अन्तःस्थदावंश इत्यर्थः, मज्जा मज्जोपमा कृता । दारुणि या मज्जा सा अस्य पुरुषस्य मज्जोपमा कृता भवति ।
तथा च वृक्ष मज्जास्थाने पुरुषस्य प्रसिद्धमज्जा भवतीत्यर्थः । यद्वृक्षो – – प्ररोहति । एवं वृक्षस्य शरीरस्य च साम्ये सत्यपि वृक्षो वृक्णस्सन् छिन्नस्सन् मूलान्नवतरः अत्यन्तं नवस्सन् पुनः प्ररोहति । मर्त्यस्तु मृत्युना वृक्णस्सन्, कस्मान्मूलात् प्ररोहति इति प्रश्नः । रेतस इति– – –प्रजायते । रेतस एव मूलात् पुनर्मर्त्यः प्ररोहतीति मा वोचत । कुतः? जीवत एव हि तत् – रेतः प्रजायते ।
अयं तु मृत इति नात्र रेतो मूलं वक्तुं शक्यम् । न हि वृक्षस्य भिन्नावशिष्टमूलमिवास्य रेतोमयं स्वकं मूलमवशिष्यते; यतः पुनः प्ररोहतीति कल्प्येत । धानारुह – – –सम्भवः । किञ्च वृक्षे । धानारुहो भवति । धाना – बीजम् । धानाभ्यो रोहतीति तथोक्तः । बीजरुहोऽपि वृक्षो भवति; न केवलं काण्डरुह एव । इवशब्दोऽप्यर्थः । वृक्षः अञ्जसा – साक्षात् प्रेत्य – मृत्वा धानतोऽपि सम्भवेत् । यत्समूलमावृहेयुः वृक्षं न पुनराभवत् । यत् – यदि समूलं मूलेन धानया वा सह आवृहेयुः – उत्पाटयेयुः, तदा स वृक्षो न पुनरागत्य भवेत् । अतो मूलं बीजञ्च वृक्षस्य रोहे कारणं दृष्टमित्यर्थः ।
मर्त्यस्वित् – – – – प्ररोहति । अत हेतोः पृच्छामि, वृक्ष सधर्मा अयं मर्त्यो वृक्णः कस्मात् प्ररोहति मूलादिति । ननु यस्तु मृत्युहतः स हत एव; अन्य एव तु कश्चिज्जायते, अतो वृक्णस्य मर्त्यस्य पुनः जनिहेतुप्रश्नोऽनुपपन्न इत्यत्राह – जात एव न – – पुन:। यदि नष्टस्य पुनर्जननं न स्यात् । तर्हि कृतहानाकृताभ्यागमप्रसङ्गः । अतो मृतस्य पुनर्जननं सिद्धम् । अतो वः पृच्छामि को न्वेनं पुनर्जनयेदितीत्यर्थः । तथा च जगतो मूलं किमिति प्रश्नार्थः ।।
यतो जगतो मूलं तैर्जनकसभ्यैर्ब्राह्मणैः न ज्ञातम्; अतो याज्ञवल्क्येन ब्राह्मणाः जिताः । समाप्ता आख्यायिका । यत् जगतो मूलं याज्ञवल्कयेन पृष्टम्, तत् श्रुतिः स्वयमेवाह – विज्ञानमानन्दं – – – तद्विदः । रातिः – रातेः । षष्ट्यर्थे प्रथमा । धनस्य इत्यर्थः । रातेः – धनस्य दातुः कर्मकृतो यजमानस्य इति यावत् परायणं -परमागतिः । तत्तत्कर्मानुगुणफलप्रदम् इत्यर्थः । तिष्ठमानस्य – ब्रह्म संस्थस्य तद्विदः ब्रह्मविदः परायणम् – परमप्राप्यं विज्ञानानन्दरूपं ब्रह्मैव याज्ञवल्क्येन पृष्टं जगन्मूलम् इत्यर्थः ।। २८ ।।
।। इति पञ्चमाध्याय नवमब्राह्मण प्रकाशिका ।।
समाप्तश्च पञ्चमोऽध्यायः