छान्दोग्योपनिषत्
तृतीयः प्रपाठकः
प्रथमः खण्डः
[आदित्ये मधुदृष्टिः]
असौ वा आदित्यो देवमधु । तस्य द्यौरेव तिरश्चीनक्शोऽन्तरिक्षमपूपो मरीचयः पुत्राः ।। १ ।।
प्र.-मधुविद्या प्रस्तूयते – असौ वा आदित्यो देवमधु । असौ आदित्यो वस्वादीनां देवानां ‘मोदहेतुत्वात्’ मधु । अत्र मधुत्वदृष्टिः कर्तव्या इत्यर्थः । मधुत्वोपयोगीनि सम्पादयति। तस्य द्यौरेव तिरश्चीनवंशः । तस्य – आदित्याख्यमधुनः धुलोकः एव आधारभूतः तिर्यक्प्रसारितो वंशः इत्यर्थः । अन्तरिक्षमपूपः – अन्तरिक्षं मध्वपूपः । मध्वाश्रयः अपूपो हि तिरश्चीनवंशलग्नस्सन् लम्बते । एवम् अन्तरिक्षमपि द्युलोकलग्नं लम्बते इव भाति इति अत: मध्वपूपत्वम् । मरीचयः पुत्राः । मरीचिशब्देन मरीचिस्थाः सवित्राकृष्टाः भौम्य आप उच्यन्ते । ताः पुत्राः इव पुत्राः’भ्रमरबीजभूताः मध्वपूपच्छिद्रस्थाः सूक्ष्मकीटा इत्यर्थः ।।
तस्य ये प्राञ्चो रश्मयः, ता एवास्य प्राच्यो मधुनाड्यः च एव मधुकृतः, ऋग्वेद एव पुष्पम्, ता अमृता: आपः ।। २ ।।
प्र. – तस्य ये प्राज्ञो रश्मयः । तस्य -आदित्यस्य ये प्राञ्चो रश्मयः । ता एवास्य प्राच्यो मधुनाड्यः, ता एव प्राग्दिगवच्छिन्नाः मधुनाड्य: – मधुच्छिद्राणि । ऋच एव मधुकृतः । ऋङ्मन्त्राः एव भ्रमराः । ऋग्वेद एव पुष्पम् । ऋग्वेदविहितं कर्म पुष्पस्थानीयम् । अस्मिन् पुष्पस्थानीये ऋग्वेदविहिते कर्मणि मधुकरस्थानीयैः ऋङ्मन्त्रैः आकृष्य मधुत्वेन निर्वर्त्यमानो रसः कः? इत्यत्राहता अमृता आप: । ता: – कर्मणि प्रयुक्तसोमाज्यपयोरूपाः आपः अग्नौ प्रक्षिप्ताः ‘पाकाभि’निर्वृत्ता: अमृताः अत्यन्तरसवत्यः भवन्ति इत्यर्थः ।।
ता वा एता ऋच एतमृग्वेदमभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ।। ३ ।।
प्र. –ता वा एता ऋच एतमृग्वेदमभ्यतपन् । ता वा एता ऋचः – ऋङ्मन्त्राः भ्रमरस्थानीयाः पुष्पेभ्य: रसम् आददानाः भ्रमराः इव एतत् ऋग्वेदविहितं कर्म पुष्पस्थानीयम् । अभ्यतपन् – अभितापं कृतवत्य: इव । तस्य……अजायत । यशस्तेज इन्द्रियवीर्यान्नाद्यलक्षणो रसः अजायत इत्यर्थः । ऋग्भिर्मन्त्रैः स्तोत्रशस्त्राद्यङ्गभावम् उपगतैः क्रियमाणं कर्म मधुनिर्वर्तकं सोमाज्यादिरसं मुञ्चति पुष्पमिव भ्रमरैः आचोष्यमाणं’ । तेन च यशस्तेज-इन्द्रियपाटववीर्यादिलक्षणं फलम् उत्पन्नं भवति इत्यर्थः ।।
तद् व्यक्षरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतत् यदेतदादित्यस्य रोहितँ रूपम् ।। ४ ।।
।। इति प्रथमः खण्डः ।।
प्र.-तद् व्यक्षरत् । तत्–यश आदिलक्षणं फलं व्यक्षरत् – विशेषेण अगमत् । तदादित्यमभितोऽश्रयत् । गत्वा च आदित्यमभितः ‘आश्रितवदित्यर्थः । तद्…. रूपम् । आदित्ये प्रत्यक्षतः परिदृश्यमानं यद् रोहितरूपम्, तत् कर्मनिवर्त्ययशस्तेजआदिलक्षणफलरूपम् इत्यर्थः । रोहितरूपे तद्बुद्धिः कर्तव्या इति यावत् ।।
।। इति प्रथमखण्डभाष्यम् ।।
द्वितीयः खण्डः
[दक्षिणदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]
अथ येऽस्य दक्षिणा रश्मयः, ता एवास्य दक्षिणा मधुनाड्यः । यजूँष्येव मधुकृतः, यजुर्वेद एव पुष्पम् । ता अमृता आपः ।। १ ।।
तानि वा एतानि यजूँषि एतं यजुर्वेदमभ्यतपत् ; तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यँ रसोऽजायत ।। २ ।।
तद् व्यक्षरत् । तदादित्यमभितोऽश्रयत् । तद्वा एतत् । यदेतदादित्यस्य शुक्लँ रूपम् ।।३।।
।। इति द्वितीयः खण्डः।।
प्र. – अथ येऽस्य दक्षिणा रश्मयः इत्यादि । सर्वं पूर्ववत्रेयम् ।
॥ इति द्वितीयखण्डभाष्यम् ।।
तृतीयः खण्डः
[पश्चिमदिक्स्थरश्म्यादी मधुनाड्यादिदृष्टिः]
अथ येऽस्य प्रत्यञ्चो रश्मयः, ता एवास्य प्रतीच्यो मधुनाड्यः ; सामान्येव मधुकृतः, सामवेद एव पुष्पम् ; ता अमृता आपः ।। १ ।।
तानि वा एतानि सामानि एतँ सामवेदमभ्यतपन्; तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत ।। २ ।।
तद् व्यक्षरत् । तदादित्यमभितोऽश्रयत् ; तद्वा एतत्, यदेतदादित्यस्य कृष्णं रूपम् ।। ३ ।।
॥ इति तृतीयः खण्डः ।।
प्र. – अथ येऽस्य प्रत्यञ्चो रश्मयः इत्यादि । पूर्ववदेव ।।
।। इति तृतीयखण्डभाष्यम् ।।
चतुर्थः खण्डः
[उत्तरदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]
अथ येऽस्योदञ्चो रश्मयः, ता एवास्योदीच्यो मधुनाड्यः, अथर्वाङ्गिरस एव मधुकृतः, इतिहासपुराणं पुष्पम् । ता अमृता आपः ।। १ ।।
ते वा एतेऽथर्वाङिगरस एतदितिहासपुराणमभ्यतपन्, तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्त्राद्यं रसोऽजायत ।। २ ।।
तद् व्यक्षरत्, तदादित्यमभितोऽश्रयत् ,तद्वा एतत्, यदेतदादित्यस्य पर: कृष्णं रूपम् ।। ३ ।।
।। इति चतुर्थः खण्डः ।।
प्र. – अथ येऽस्योदञ्चो रश्मयः इत्यादि । अथर्वाङ्गिरस एव मधुकृतः । अथर्वणा अङ्गिरसा च दृष्टा मन्त्राः अथर्वाङ्गिरसः । इतिहासपुराणं पुष्पम् । इतिहासपुराणविहितकर्मसु अथर्वाङ्गिरसां मन्त्राणां विनियोगात् ऋग्वेदादिवत् पुष्पत्वोक्तिः इति द्रष्टव्यम् । तद् व्यक्षरत्…..पर:कृष्णं रूपम् । पर:कृष्णं रूपम् – अतिशयितं कृष्णरूपम् इत्यर्थः। अन्यत्सर्वं पूर्ववत् नेयम् ।।
।। इति चतुर्थखण्डभाष्यम् ।।
पञ्चमः खण्डः
[ऊर्ध्वदिक्स्थरश्म्यादौ मधुनाड्यादिदृष्टिः]
अथ येऽस्योर्ध्वा रश्मयः, ता एवास्योर्ध्वा मधुनाड्यः, गुह्या एवादेशा मधुकृतः ब्रह्मैव पुष्पं, ता अमृता आपः ।। १ ।।
ते वा एते गुह्या आदेशा एतद्ब्रह्माभ्यतपन् । तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्त्राद्यं रसोऽजायत ।। २।।
तद् व्यक्षरत् तदादित्यमभितोऽश्रयत् तद्वा एतद् यदेतदादित्यस्य मध्ये क्षोभत इव ।। ३ ।।
ते वा एते रसानां रसाः । वेदा हि रसाः, तेषामेते रसाः, तानि वा. एतान्यमृतानाममृतानि, वेदा ह्यमृताः, तेषामेतान्यमृतानि ।। ४ ।।
।। इति पञ्चमः खण्डः ।।
प्र.–अथ येऽस्योर्ध्वा रश्मय: इत्यादि । गुह्या एवादेशा मधुकृतः । ब्रह्मविषयकोपनिषद्रहस्योपदेशाः इत्यर्थः । तद्वा……क्षोभत इव । समाहितदृष्टिभिः वीक्ष्यमाणम् आदित्यमण्डलमध्ये चलतीव स्फुरति इत्यर्थः । ते वा एते रसानां रसाः इत्यादि । लोकसारभूत ऋग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यत्वात् रोहितादिरूपाणाम् अतिरसत्वम् । तथा वेदेभ्योपि इष्टतत्साधनप्रतिपादकतया भोग्यभूततया अमृतेभ्यः रोहितादिरूपाणां तत्प्रतिपाद्यकर्मनिष्पाद्यानाम् अतिभोग्यत्वात् अमृतादपि अमृतत्वम् इत्यर्थः । अयमत्र निर्गलितार्थः । प्रागाधूर्ध्वदेशान्तरस्थितरश्मिनाडीत: तत्तद्वेदोक्तकर्मकुसुमेभ्यः तत्तद्वैदिकमन्त्रमधुकरैः आदित्यमण्डलम् आनीतानि सोमाज्यपयःप्रभृतिद्रव्यनिष्पन्नानि यशस्तेजोवीर्यमिन्द्रियम् इत्येवमात्मकानि रोहितं शुक्लं कृष्णं पर:कृष्णं मध्ये क्षोभते इव इत्युक्तानि रोहितादीनि पञ्चामृतानि आदित्यमध्वाश्रितानि इति ।।
।। इति पञ्चमखण्डभाष्यम् ।।
षष्ठः खण्डः
[प्रथमामृतस्य वसूनाम् उपजीव्यत्वम्]
तद् यत् प्रथमममृतम्, तद् वसव उपजीवन्त्यग्निना मुखेन, न वै देवा अश्नन्ति, न पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ।। १ ।।
प्र. – एषां पञ्चानाम् अमृतानां वसुरुद्रादित्यमरुत्साध्यगणभोग्यत्वं तदुपासीनानां वसुत्वादिप्राप्तिपूर्वकब्रह्मप्राप्तिं च प्रतिपादयति – तद्यत्…..मुखेन । अग्रिमुखाः वसवः रोहितरूपलक्षणं प्रथमम् अमृतम् उपजीवन्ति इत्यर्थः । उपजीवनं भक्षणमिति शंकां प्रतिषेधति । न वै देवा अश्नन्ति न पिबन्ति इति । चन्द्रमिव इति भावः । पुनः कथम् उपजीवनम् इत्यत्राह – एतदेवामृतं दृष्ट्वा तृप्यन्ति । यशस्तेजआदिलक्षणं रोहितं रूपं सर्वैः ‘करणैः उपलभ्य तृप्यन्ति इत्यर्थः ।।
त एतदेव रूपमभिसंविशन्ति । एतस्माद्रूपादुद्यन्ति ।। २ ।।
प्र. – त एतदेव रूपमभिसंविशन्ति । एतदेव रूपमभिलक्ष्य – अनुभूय इति यावत् । संविशन्ति – भोगानन्तरम् उदासीनाः भवन्ति इत्यर्थः । एतस्माद्रूपादुद्यन्ति । प्राप्ते भोगकाले इति शेषः । एतस्माद्रूपात् इति ल्यब्लोपे पञ्चमी । एतद्रूपानुभवमुद्दिश्य उद्यन्ति – ‘सोत्साहाः भवन्ति इत्यर्थः ।।
[अमृतोपासकस्य फलम्]
स य एतदेवममृतं वेद, वसूनामेवैको भूत्वाऽग्निनैव मुखेन एतदेवामृतं दृष्ट्वा तृप्यति, स एतदेव रूपमभिसंविशन्ति, एतस्माद्रूपादुदेति ।। ३ ।।
प्र. – स य एतदेवममृतं वेद । एवम् – अनेन प्रकारेण वसुतृप्त्याधायकदर्शन- गोचरत्वलक्षणवसूपजीव्यत्वादिना रोहितामृतं यो वेद इत्यर्थः । वसूनामेव….मुखेन इत्यादि तत्क्रतुन्यायेन सः – तदुपासीनोऽपि वसुत्वं प्राप्य तथैव भवति इत्यर्थः ।
स यावदादित्यः पुरस्तादुदेता पक्षादस्तमेता, वसूनामेव तावदाधिपत्यं स्वाराज्यं पर्येता ।। ४ ।।
॥ इति षष्ठ: खण्डः ।।
प्र. – कियन्तं कालमित्यत्राह – स यावत्……अस्तमेता इत्यादि । आदित्यस्य प्राच्यां दिशि उदयः, प्रतीच्यां अस्तमयश्च यावन्तं कालम् अनुवर्तते, तावन्तं कालं वसूनां यदाधिपत्यं यदप्रतिहतसंकल्पत्वलक्षणं स्वाराज्यं च तत् पर्येता – परितो गन्ता इत्यर्थः ।।
॥ इति षष्ठखण्डभाष्यम् ॥
सप्तमः खण्डः
[दितीयामृतस्य रुद्रस्य उपजीव्यत्वम् ]
अथ यद् द्वितीयममृतम् , तद्रुद्रा उपजीवन्तीन्द्रेण मुखेन । न वै देवा अश्नन्ति, न पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ।।१।।
त एतदेव रूपमभिसंविशन्ति; एतस्माद्रूपादुद्यन्ति ।। २ ।।
स य एतदेवममृतं वेद, रुद्राणामेवैको भूत्वा इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति, स एतदेव रूपमभिसंविशति; एतस्माद्रूपादुदेति ।। ३।।
स यावदादित्यः पुरस्तादुदेता, पश्चादस्तमेता, द्विस्तावत् , दक्षिणत उदेतोत्तरतोऽस्तमेता, रुद्राणामेव तावदाधिपत्यँ, स्वाराज्यं पर्येता ।। ४ ।।
।। इति सप्तमः खण्डः ।।
प्र. – अथ यद्वितीयममृतं तद्रुद्रा उपजीवन्ति इत्यादि । सर्वं पूर्ववद्रष्टव्यम् । स यावदादित्यः पुरस्तात् इत्यादि । पुरस्तादुदयपश्चादस्तमयापेक्षया द्विगुण कालं दक्षिणत: उदयम् उत्तरतः अस्तमयं च कल्पयित्वा श्रुतिः ‘ब्रवीति इति नात्र कथन्ता कार्या । शिष्टं स्पष्टम् ।।
॥ इति सप्तमखण्डभाष्यम्॥
अष्टमः खण्डः
[तृतीयामृतोपासनेन आदित्यानां तृप्तिः]
अथ यत् तृतीयममृतम् , तदादित्या उपजीवन्ति वरुणेन मुखेन । न वै देवा अश्नन्ति, न पिबन्ति । एतदेवामृतं दृष्ट्वा तृप्यन्ति ॥१॥
त एतदेव रूपमभिसंविशन्ति, एतस्मादूपादुद्यन्ति ॥२॥
स य एतदेवममृतं वेद, आदित्यानामेवैको भूत्वा वरुणेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति, स एतदेव रूपमभिसंविशति, एतस्मादूपादुदेति ।। ३ ।।
स यावदादित्यो दक्षिणत उदेता उत्तरतोऽस्तमेता द्विस्तावत् ,पश्चादुदेता पुरस्तादस्तमेता आदित्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।। ४ ।।
प्र. – अथ यत्तृतीयममृतं तदादित्या उपजीवन्ति इत्यादि । सर्वं स्पष्टम् ।।
।। इति अष्टमखण्डभाष्यम् ।।
नवमः खण्डः
[मरुदुपजीवनभूतचतुर्थामृतोपासने मरुत्वप्राप्तिपूर्वकब्रह्मप्राप्तिः]
अथ यच्चतुर्थममृतम् , तन्मरुत उपजीवन्ति सोमेन मुखेन, न वै देवा अश्नन्ति, न पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति ।। १ ।।
त एतदेव रूपमभिसंविशन्ति, एतस्माद्रूपादुद्यन्ति ।। २ ।।
स य एतदेवममृतं वेद, मरुतामेवैको भूत्वा सोमेनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति । स एतदेव रूपमभिसंविशति, एतस्माद्रूपादुदेति ।। ३ ।।
स यावदादित्यः पश्चादुदेता पुरस्तादस्तमेता, द्विस्तावत् , उत्तरत उदेता दक्षिणतोऽस्तमेता, मरुतामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।। ४ ।।
।। इति नवमः खण्डः ।।
प्र. –अथ यच्चतुर्थममृतम् इत्यादि । पूर्ववत् ।।
।।इति नवमखण्डभाष्यम्।।
दशमः खण्डः
(पञ्चमामृतं साध्योपजीवनभूतं यत्तदुपासनम्)
अथ यत् पञ्चमममृतम् , तत् साध्या उपजीवन्ति ब्रह्मणा मुखेन, न वै देवा अश्नन्ति, न पिबन्ति ; एतदेवामृतं दृष्ट्वा तृप्यन्ति ।। १ ।।
त एतदेव रूपमभिसंविशन्ति ; एतस्माद्रूपादुद्यन्ति ।। २ ।।
स य एतदेवममृतं वेद, साध्यानामेवैको भूत्वा ब्रह्मणैव मुखेनैतदेवामृतं दृष्ट्वा तृष्यति। स एतदेव रूपमभिसंविशति । एतस्माद्रूपादुदेति ।। ३ ।।
स यावदादित्य उत्तरत उदेता दक्षिणतोऽस्तमेता, द्विस्तावत्, ऊर्ध्वं उदेताऽर्वागस्तमेता, साध्यानामेव तावदाधिपत्यँ स्वाराज्यं पर्येता ।। ४ ।।
।। इति दशमः खण्डः।।
प्र. – अथ यत्पञ्चममृतम् इत्यादि । सबै समानम् ।।
।। इति दशमखण्डभाष्यम् ।।
एकादशः खण्डः
[नामरूपकृत्यादिरहितकार्यावस्थादित्यजीवशरीरकब्रह्मोपासनम्]
अथ तत ऊर्ध्वं उदेत्य नैवोदेता नास्तमेता, एकल एव मध्ये स्थाता । तदेष श्लोकः ।। १ ।।
प्र. – एवं वसुरुद्रादित्यमरुत्साध्यगणभोग्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रय-देवमधुत्वरूपितज्योतिर्मण्डलाख्यरूपयुक्तस्य उदयास्तमयादि कृत्य विशिष्टस्य आदित्य- नामकस्य आदित्यशरीरककार्यावस्थब्रह्मणः उपासनम् उपदिश्य, नामरूपकृत्यादि रहिताकार्यावस्थादित्यजीवशरीरकब्रह्मोपासनं दर्शयति । अथ तत ऊर्ध्व उदेत्य नेवोदेता नास्तमेता । अथ – ब्रह्मदिवसरूपस्य कल्पस्य समाप्त्यनन्तरं तत ऊर्ध्वं उदेत्य उदयास्तमयाभ्यां प्राण्यनुग्रहात् ऊर्ध्वं उदेत्य, उदयास्तमयकृत्यप्रयुक्तप्राण्यनुग्रहरहितः इत्यर्थः । नैवोदेता नास्तमेता, एकल एव मध्ये स्थाता । उदयास्तमयशून्यः एकस्वभावः एव उदासीनतया वर्तते इत्यर्थः। अत्र हि भाष्ये, (भाष्ये, अत्र हि?) ‘कार्यकारणावस्थब्रह्मोपासनं विधीयते । ‘असौ वा आदित्यो देवमधु’ इत्यारभ्य, ‘अथ तत ऊर्ध्व उदेत्य’ इत्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं ब्रह्म उपास्यम् उपदिश्यते । ‘अथ तत ऊर्ध्व उदेत्य’ इत्यादिना आदित्यान्तरात्मतया अवस्थितं कारणावस्थमेव ब्रह्म उपदिश्यते’ इत्युक्तम् । तत्र ‘अथ तत ऊर्ध्वं उदेत्य’ इत्यस्य मुक्तावस्थादित्यान्तर्यामिब्रह्मोपासनपरत्वे अथशब्दादिस्वारस्यात् कारणावस्थम् इति भाष्यस्य अकार्यावस्थं – मुक्त्यवस्थम् इत्यर्थः एव उचितः । न तु आदित्यभावप्राप्तिपूर्वावस्था । व्यासार्यस्तु – भाष्यस्वारस्यं अवलम्ब्य आदित्यनामरूपभाक्त्वावस्थापूर्वभाव्यवस्थेव ‘अथ तत ऊर्ध्व उदेत्य’ इत्यादिसंदर्भेण प्रतिपाद्यते इति वर्णितम् । तेषाम् अयम् आशयः अथशब्दो न निर्दिष्टानन्तर्यार्थः। अपि तु ‘अर्थान्तर’ प्रस्तावार्थः । ‘अथ तत ऊर्ध्वं उदेत्य नैवोदे ता नास्तमेता एकल एव मध्ये स्थाता’ इत्यस्यापि उदयास्तमयतत्कार्यशून्यत्वमर्थः । तथा आदित्यभावपूर्वावस्थायां कल्पादौ सम्भवतीति । तदेष श्लोकः । तत् – तस्मिन् विषये देवान् प्रति केनचित् योगिना गीत: श्लोकः । उच्यते इति शेषः ।।
न वै तत्र स निम्लोच: नोदियाय कदाचन । देवास्तेनाहँ सत्येन मा ‘विराधिषि ब्रह्मणा ।। इति ।। २ ।।
प्र.–नवै……ब्रह्मणा इति । हे देवाः ! तत्र – तस्मिन् आदित्यभावमुक्तिकाले सः – मुक्तादित्यान्तर्यामी परमात्मा न निम्लोच: – नास्तमितः । नोदियाय – नोदितश्च । ‘तेन‘ सत्येन ‘वचनेन’ ब्रह्मणा अहं मा विरोधिषि – विरोधं न *गच्छामीति यावत् ।।
न ह वा अस्मा उदेति न निम्लोचति । सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद ।। ३ ।।
प्र.–न ह वा अस्मा उदेति न निम्लोचति इत्यादि । यः एताम् । मधुविद्यारूपां ब्रह्मोपनिषदं – ब्रह्मविद्यां वेद – अनुतिष्ठति अस्मै – ब्रह्मविदे आदित्यो न उदेति, नास्तमेति, ‘आदित्योदयाप्रकाशाभ्यां न किञ्चित् तस्य प्रयोजनम् इत्यर्थः । कुत इत्यत आह – सकृद्दिवा है वास्मै भवति इति । अस्मै – ब्रह्मविदे सकृद्दिवैव भवति – सकृदुदितम् अहरेव भवति । सदैव अहः भवति इत्यर्थः । सन्ततं सर्वविषयकसाक्षात्कारः अस्य भवति इत्यर्थः ।।
[मधुविद्यासम्प्रदायः]
तद्धैतद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुः प्रजाभ्यः । स्तद्धैतदुद्दालकायाऽऽरुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच ।। ४ ।।
प्र–मधुविद्यासम्प्रदायमाह – तद्धैतद्ब्रह्मा……प्रजाभ्यः । तद्धैतत् । मधुविज्ञानम् इत्यर्थः । ब्रह्मा – चतुर्मुखः प्रजापतये – दक्षाय मनवे – स्वायम्भुवाय । तद्धैतदुद्दालकाय……प्रोवाच। तद्धैतत् ब्रह्म उद्दालकाय पिता प्रोक्तवान् इत्यर्थः ।।
इदं वाव तज्ज्येष्ठाय पुत्राय पिता ब्रह्म प्रब्रूयात् , प्रणाय्याय वाऽन्तेवासिने ।। ५ ।।
प्र. – इदं वाव…. प्रब्रूयात् इत्यादि । तस्माद्धेतोः इदं – ब्रह्मविज्ञानं ज्येष्ठाय पुत्राय वा प्रब्रूयात् । प्रणाय्याय – योग्याय शिष्याय वा प्रब्रूयात् इत्यर्थः । प्रणाय्योऽसंमतो’ (पा.सू.३-१-१२८) इति निष्कामार्थे प्रणाय्यशब्दस्य निपातितत्वात् ।।
नान्यस्मै कस्मैचन, यद्यप्यस्मा इमामद्भिः परिगृहीतां धनस्य पूर्णा दद्यात्, एतदेव ततो भूय इति एतदेव ततो भूय इति ।। ६ ।।
।। इति एकादशः खण्डः ।।
प्र–नान्यस्मै कस्मैचन – उक्तपुत्रशिष्यव्यतिरिक्ताय कस्मैचिदपि न ब्रूयादिति अन्वयः। यद्यपि….इति । अद्भिः परिगृहीतां – समुद्रावृतां धनस्य पूर्णांभोगोपकरणैः पूर्णाम् इमां पृथिवीं यद्यपि अस्मै – आचार्याय दद्यात् । तदपेक्षयाऽपि एतद्विज्ञानमेव अधिकम् । नेतस्य अनुरूपो निष्क्रयोऽस्ति इत्यर्थः। एतदेव….. इति द्विरुक्तिः ‘विद्यासमाप्त्यर्था । एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते समन्वयाध्याये मधुविद्यायाः वस्वादिगणभोग्यरोहितरूपादिपञ्चामृताश्रयादित्योपासनारूपतया अस्यां विद्यायां वस्वादीनां नाधिकारः सम्भवति, उपास्योपासकभावस्य एकस्मिन् असम्भवात् । न हि एकस्यैव प्रीणनीयत्वं प्रीणयितृत्वं च सम्भवति । वसूनामेव एको भूत्वा इत्यादिना वसुत्वादिप्राप्तेः एव मधुविद्याफलत्वेन वस्वादीनामेव सतां वस्वादित्यप्राप्तिकामनाया असम्भवाञ्च अर्थित्वाद्यसम्भवात् । ‘तं देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम्’ इति परब्रह्मव्यतिरिक्तस्य देवोपास्यत्वनिषेधेन ज्योतिश्शब्दिते ब्रह्मण्येव उपासनसम्भवावगमाच्च मधुविद्यादिषु नाधिकार इति ‘मध्वादिष्वसम्भवादनधिकारं जैमिनिः,’ (ब्र.सू.१-३-३०) ‘ज्योतिषि भावाच्च‘ (ब्र.सू.१-३-३२) इति सूत्राभ्यां पूर्वपक्षं कृत्वा भावं तु बादरायणोऽस्ति हि’ (ब्र.सू.१-३-३२) इति सूत्रेण सिद्धान्तः कृतः। अस्यायमर्थः – अधिकारस्य सद्भावं बादरायण: आचार्यों मन्यते, अस्ति हि तेषामपि अर्थित्वादिसम्भवः इति । अयमाशयः न हि इयं विद्या वस्वादित्यादि- मात्रपर्यवसिता अपि तु तच्छरीरकपरमात्मपर्यन्ता । वस्वादीनामेव सतां स्वान्तर्यामि-परमात्मोपासनं ‘सम्भवत्येव। न चोपास्यप्रतिपादकवस्वादिशब्दानां ब्रह्मपर्यन्तत्वे प्रमाणाभावः, उपसंहारे, ‘ब्रह्मोपनिषदं वेद’ (छां.उ.३-१२-३) इति श्रवणात् । वस्वादीनामेव सतां कल्पान्तरे वसुत्वादिप्राप्ति पूर्वकब्रह्म प्राप्तेः उद्देश्यत्वसम्भवाच्च। लोके पुत्रिणामेव सतां जन्मान्तरेऽपि पुत्रित्वेप्साया:’ दर्शनात्। ननु वस्वादिपञ्चगणोपजीव्यरोहितादिपञ्चरूपात्मकपञ्चामृताश्रयादित्यमधूपासनत्वात् मधुविद्यायाः, तस्याञ्च विद्यायाम् आदित्यस्य एव उपास्यतया आदित्यस्य तद्विद्याधिकारासम्भवेऽपि वस्वादीनां कथमनधिकारशङ्का । न हि अस्यां विद्यायां वस्वादीनाम् उपास्यत्वम्, अपि तु तद्भोग्यादित्यस्यैव । भाष्यकृता मधुविद्यायाम् ऋग्वेदादिप्रतिपाद्य- कर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्य आश्रयतया ‘लब्ध’मधुव्यपदेशस्य आदित्यस्य अंशानां वस्वादिभिः भुज्यमानानाम् उपास्यत्वम्’ इति पूर्वपक्षे वस्वादिभोग्यभूतादित्यांशस्य विधीयमानम् उपासनं तदवस्थस्य एव ब्रह्मणः इत्यवगम्यते इति सिद्धान्ते चोक्तत्वात् । न हि स्वोपासनवत् स्वोपजीव्यत्वेन अन्यस्य उपासनं विरुद्धम् ; तथा सति उपासनमात्रोच्छेद- प्रसङ्गात् । सर्वेष्वपि उपासनेषु उपास्यगतस्वोपजीव्यत्वस्वसेव्यत्व ‘स्वाधारत्व:- स्वान्तर्यामित्वादीनाम् अनुसन्धेयत्वात् । ततश्च वसूनामेव सतां स्वोपजीव्य-पञ्चामृताश्रयादित्यविषयमधुविद्यानुष्ठानसम्भवात् कुतोऽनधिकारशङ्का इति चेत् -उच्यते ‘वसूनामेवैको भूत्वे’त्यादिना वसुत्वादिप्राप्तेः फलत्वादिकीर्तनेन मधुविद्यायां तत्क्रतुन्यायेन वस्वादीनाम् उपास्यत्वस्यापि अभ्युपगन्तव्यत्वात् । अथ तत ऊर्ध्वं उदेत्य इत्यतः प्राक् आदित्यवस्वादिकार्यविशेषावस्थं ब्रह्म उपास्यम् उपदिश्यते । अथ तत ऊर्ध्वं उदेत्य इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थं ब्रह्म उपास्यम् उपदिश्यत इति कार्यावस्थोपासनदशायाम् आदित्यवत् वस्वादीनां च तुल्यत्वस्य भाषितत्वाञ्च । मधुविद्याया आदित्योपासनत्वपञ्चामृतोपासनत्ववस्वाद्युपासनत्व- रूपाकारत्रयवत्वात् न पूर्वपक्षोत्थित्यनुपपत्तिरिति द्रष्टव्यम् । ननु वस्ववस्थस्य ब्रह्मण उपास्यत्वसम्भवेऽपि ‘तद्वसव उपजीवन्तीति निर्दिष्टम् उपजीवितृत्वलक्षणं भोक्तृत्वं न ब्रह्मणः सम्भवतीति चेन्न । उपजीवितृत्वस्यापि सद्वारकतया तत्र सम्भवात् । नन्वेवं, तद्वसव उपजीवन्ति इत्यत्र वसुशब्दस्य तदन्तर्यामिपरत्वे ‘वसूनामेव एको भत्वा इत्यत्रापि वसुशब्दस्य ब्रह्मपरत्वं स्यात् । न च तद्युक्तम् न ‘ह्युपासकस्य जीवस्य कल्पान्तरे वसुत्वप्राप्तिलक्षणसंसारदशायां वस्ववस्थब्रह्मभावोक्तिः सङ्गच्छते इति चेन्न ‘वसूनामेवैको भूत्वा’ इत्यत्र यथाश्रुते बाधकाभावेन, ब्रह्मपरत्वे बाधकसम्भवेन, यथाश्रुतार्थस्य एव उपपन्नत्वात् इत्यलम् अतिचर्चया । ननु ‘वसूनामेवैको भूत्वा सकृद्दिवा हैवास्मै भवति’ इति वाक्यद्वयानुसारेण अनया विद्यया कल्पान्तरे कञ्चित्कालं वसुभावं प्राप्य पश्चात् ब्रह्म प्राप्नोति इत्यभ्युपगमो न युक्तः । तथा सति इदानीं मधुविद्योपासकानां प्रायणानन्तरं फलप्राप्तिर्न स्यात् । कल्पान्तरभावित्वात् वसुत्वस्य । न च स विलम्बः सोढव्यः एवेति वाच्यम् । कल्पान्तरेऽपि वस्वादिभावप्रापकमधुविद्यानिष्ठानां तत्प्रापककर्मान्तरनिष्ठानां च अनन्तानां सम्भवेन सर्वेषां च युगपत् वस्वादिभावे वसुगताष्टत्वसङ्घयाविरोधप्रसंगेन वसुत्वप्रापककर्मनिष्ठानाम् अनन्तानां मध्ये विपाकानुसारेण केषाञ्चित् त्रिचतुरकल्पमध्ये वसुत्वादिप्राप्तिः भवति । केषाञ्चित् अनुष्ठितमधुविद्यानामपि सहस्रकल्पप्रतीक्षणमपि अस्ति इति अभ्युपगन्तव्यम् । न हीदृशः कश्चित् मुमुक्षुः भवति । सहस्रकल्पपर्यन्तविलम्बम् अभ्युपगच्छतः कथं मुमुक्षुता ? हैरण्यगर्भान्तसकलभोगविरक्तिपूर्वकब्रह्मानन्दप्रेप्सा- लक्षणमुमुक्षाशाली हि ब्रह्मविद्यायाम् अधिकरोति ततश्च वस्वादिपदाभिलाषिणः कथं मुमुक्षुता, कथं वा ब्रह्मविद्याधिकारः इति चेत् – सत्यम् – ब्रह्मानन्दैकप्रेप्सुरेव मुमुक्षुः । अथापि यथा देहावसानकाले ब्रह्मानन्देकप्रेप्सा मुमुक्षा, एवम्, वसुत्वावसाने ब्रह्मैव प्राप्नुवानि इति प्रेप्साऽपि ब्रह्मानन्दैकप्रेप्सा भवत्येव । शास्त्रबलाञ्च’ ईदृशविलम्बसहिष्णवोऽपि अधिकारिणः सन्तीति अभ्युपगन्तव्यम् । तन्न च प्रारब्धवैचित्र्यमेव नियामकम् ।
अत एव
“याथातथ्यं स्वपरनियतं यञ्च दिव्यं पदं तत् ।
काराकल्पं वपुरपि विदन् कस्तितिक्षेत बन्धम् ।।”
इत्युक्तरीत्या विवेकिनः कथं विलम्बसहिष्णुता इत्यपि अपास्तम् । प्रारब्धमहिम्ना सर्वस्यापि उपपत्तेः। वस्तुतस्तु भ्रातॄणां मध्ये त्वमेकः इति लौकिकोक्तेः भ्रातृभोगसाम्याभिप्रायत्ववत् । ‘वसूनामेव एको भूत्वा’ इत्यस्य च वाक्यस्य किञ्चित्कालम् आनुषङ्गिकवस्वादिभोगसाम्यम्
अनुभूय तेन ‘पथा’ परं ज्योतिरुपसम्पद्यत इत्यभिप्रायत्वात् तादृशभोगसाम्यस्य च देहवियोगानन्तरमेव सम्भवात् नानुपपत्तिः इत्यप्याहुः । ननु वस्वादिदेवतानां विग्रहाभावेन उपासनसामर्थ्यासम्भवात् कथम् उपासनाधिकारः? न हि देवादीनां शरीरवत्त्वे प्रमाणम् उपलभ्यते । न तावत् प्रत्यक्षानुमाने; तस्य तदगोचरत्वात् । नापि ‘वज्रहस्त: पुरन्दरः’, ‘तेनेन्द्रो वज्रमुद्यच्छत्’ इत्यादीनां प्रामाण्यम् ; मन्त्रार्थवादानाम् अनुष्ठेय स्मृतिस्तुति प्रयोजनकतया विग्रहादौ तात्पर्याभावेन तात्पर्याविषयशब्दस्य अप्रमाण्यात् । अन्यथा श्वेतवर्णरजककर्तृकवस्त्र-शोधनतात्पर्येण प्रयुक्तस्य श्वेतो धावति ‘इत्यस्य’ शुनकसमीपगमनप्रतीत्युत्पादकत्वसम्भवमात्रेण तत्रापि प्रामाण्यप्रसङ्गात् ।
ननु रेवत्याधारवारवन्तीयसामसाध्याग्निष्टोमस्तोत्रविशिष्टक्रतुविधायके ‘रेवतीषु वारवन्तीयमग्निष्टोमसाम कृत्वा पशुकामो ह्येतेन यजेत’ इति वाक्ये’ रेवतीषु वारवन्तीयम् इत्यंशस्य रेवतीर्नः सधमाद’ इति ऋकत्रयाधारवारवन्तीयसामरूपे अग्निष्टोमस्तोत्रविशेषणे तात्पर्याभावेऽपि प्रामाण्यं दृष्टम् । न हि तद्विशेषणं ‘सोमेन यजेत’ इत्यादिविशिष्टविधिषु सोमलतादिविशेषणवत् लोकसिद्धम्, नापि विधिसिद्धम्: ‘रेवतीषु रथन्तरं गायेत्’ इतिवत् रेवतीषु वारवन्तीयं गायेत् इति विध्यदर्शनात् । न चास्यैव विशिष्टगोचरस्य विधेः विशेषणविधौ अपि तात्पर्यं वक्तुं शक्यम् । विध्यावृत्तिप्रसङ्गात् । न च आक्षेपात् विशेषणप्रसिद्धिः, अन्योन्याश्रयात् विशेषणप्रसिद्धौ सत्यां विशिष्टविधिः, विशिष्टविधिनैव विशेषणस्य आक्षेपः इति परस्पराश्रयापत्तेः । तस्मात् विशिष्टविधेः विशेषणस्वरूपे तात्पर्याभावेऽपि, ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारस्यैव प्रामाण्यम् अभ्युपगन्तव्यम् इति चेत् –
मैवं – ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारलभ्यां’ रेवत्याधारवार-वन्तीयप्रतीतिम् उपजीव्य प्रवृत्तेन विशिष्टविधिना आक्षिप्तस्य ‘रेवतीषु वारवन्तीयं कुर्यात्’ इति विशेषणविधेः एव तत्र प्रमाणत्वेन रेवतीषु वारवन्तीयम् इति पदद्वयसमभिव्याहारस्य अप्रमाणत्वात् । इयांस्तु विशेषः – ‘सोमलतादि विशेषणं मानान्तरसिद्धं सोमपदात् प्रतीयते । इह तु मानान्तरासिद्धमेव पदसमभिव्याहारात् प्रतीयते’ इति । प्रतीयमानेऽपि विशेषणे विशिष्टविधेः प्रामाण्याभावः उभयत्रापि अविशिष्टः । ततश्च यथा सोमप्रत्यायकं सोमपदं न सोमस्वरूपे प्रमाणम् , एवं ‘रेवतीषु वारवन्तीयम्’ इति पदद्वयसमभिव्याहारो रेवतीवारवन्तीयरूपविशेषणरूपार्थप्रत्यायकोऽपि न तत्र प्रमाणम् । अयं च अपरो विशेषः सोमलताद्रव्यस्य लोकसिद्धत्वात् तत्र यागसम्बन्धित्वेनैव विधिः कल्प्यः । इह तु विशेषणस्वरूपस्यापि मानान्तरासिद्धत्वात् । प्रतीयमानेऽपि तस्मिन् विशिष्टविधे: प्राणाण्याभावाञ्च तत्सिद्ध्यर्थं स्वरूपे स्तोत्रविशेषसम्बन्धित्वे च विधिद्वयं कल्प्यमिति । तस्मात् मन्त्रार्थवादानां स्वार्थे तात्पर्याभावात् न तेभ्यो देवताविग्रहसिद्धिः । ननु मन्त्रार्थवादानां विध्येकवाक्यतापन्नानां स्वार्थेऽपि अवान्तरतात्पर्यं सम्भवत्येव; दर्शपूर्णमासादिप्रधानविध्येकतापन्नप्रयाजादिविधिवत् इति चेत् सत्यम् । मानान्तराविरोधे प्रतीयमानार्थे तात्पर्य सम्भवति । न तु तद्विरुद्धे । अन्यथा ‘यजमानः प्रस्तरः’ इत्यत्रापि प्रतीयामानभेदे तात्पर्यप्रसङ्गात् । अस्ति च मन्त्रार्थवादवशेन देवताविग्रहाभ्युपगमे मानान्तरविरोधः । देवताविग्रहाभ्युपगमे हि न्यायतौल्येन नानायाग’देशे युगपदाहूतानाम् आगमनस्य, अग्निप्रक्षिप्तभस्मी-भूतहविःस्वीकारादेः अपि अभ्युपगमात् प्रत्यक्षोपपत्तिविरोधः । अतो न देवताविग्रहे तात्पर्यं सम्भवति । अतो विग्रहाभावात् उपासनासु अनधिकारः इति पूर्वपक्षे प्राप्ते, .
उच्यते
‘तदुपर्यपि बादरायणस्सम्भवात्’ (ब्र.सू.१-३-२४) तत् – ब्रह्मोपासनम् उपरि मनुष्याणाम् उपरि देवादिषु अपि सम्भवतीति भगवान् बादरायणो मन्यते । तेषामति अर्थित्वसामर्थ्ययोः सम्भवात् । अर्थित्वं तावत् आध्यात्मिकादिदुर्विषहदुःखाभितापात् परस्मिन् ब्रह्मणि च निरस्तनिखिलदोषगन्धे अनवधिकातिशयासंख्येयकल्याणगुणगणे निरतिशयभोग्यत्वादिज्ञानाञ्च सम्भवति । सामर्थ्यमपि पटुतरदेहेन्द्रियादिमत्तया सम्भवति । देहेन्द्रियादिमत्त्वं च सर्वेषु सृष्टिवाक्येषु देवतिर्यङ्मनुष्यस्थावरात्मना चतुर्विधसृष्ट्याम्नानात् सिद्धम् । देवादिभेदंश्च तत्तत्कर्मानुगुणब्रह्मलोकप्रभृतिचतुर्दश लोकस्थभोगयोग्यदेहेन्द्रियादि योगायत्तः । तथा, ‘देवत्वं गच्छन्ति य एता उपयन्ति’ इति विध्यन्यथानुपपत्त्या देशान्तरदेहान्तरभोग्य-ऐहिकसुखलक्षणस्वर्गशब्दोक्तसुखरूपतत्फलभोक्तृ कर्मदेवसिद्धेः अभ्युपगतत्वात् , देवतासायुज्यसालोक्यादिफलकर्मविध्यन्यथानुपपत्त्या देवताविग्रहाणां तद्भोग्यभोगोपकरणानाम् अभ्युपगन्तव्यत्वाञ्च । ‘विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात्’ (ब्र.सू.१-३-२६) ननु एवं मन्त्रार्थवादादिभिः देवतायाः विग्रहाभ्युपगमे कर्मणि विरोधः प्रसज्यते । बहुषु यागेषु युगपत् एकस्य इन्द्रस्य विग्रहवतः, ‘अग्निमग्न आवह, इन्द्र ‘आगच्छ” इत्यादिना आहूतस्य सन्निधानानुपपत्तेः विरोधः प्रसज्यते इति चेत् , तन्न – अनेकप्रतिपत्तेः दर्शनात् । दृश्यते हि सौभरिप्रभृतीनां शक्तिमतां युगपत् अनेकशरीरप्रतिपत्तिः । ‘शब्द इति चेन्नातः प्रभवात् प्रत्यक्षानुमानाभ्याम्’ (ब्र.सू.१-३-२७) मा भूत् कर्मणि विरोधः । वैदिके तु शब्दे विरोधः प्रसज्यते । देवताविग्रहाभ्युपगमे हि विग्रहस्य सावयवत्वेन अनित्यत्वात्, इन्द्रादेः अर्थस्य विनाशात् ऊर्ध्वं प्राक् उत्पत्तेश्च तदर्थवाचिवैदिकशब्दानां सत्त्वे, शब्दस्य अर्थेन औत्पत्तिकः सम्बन्धो न स्यात्। शब्दस्वरूपस्यापि नाशे अनित्यत्वं स्यात् । ततश्च औत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ (पू.मी.सू.१-१-५) इति सूत्रप्रतिपादितं शब्दार्थसम्बन्धानां नित्यत्वं विरुध्येत इति चेत् न । ‘वेदेन नामरूपे व्यकरोत् सतासती प्रजापतिः’ (तै.बा.२-६-२८) – “नामरूपं च भूतानां कृत्यानां च प्रपञ्चनम् । वेदशब्देभ्य एवादौ देवादीनां चकार सः” ।। (वि.पु.१-५-६३) इति प्रत्यक्षानुमानशब्दाभ्यां श्रुतिस्मृतिभ्याम् इन्द्राद्यर्थानां वेदप्रभवत्वावेदनात् यथा शिल्पिना शिल्पशास्रोदितनामरूपाद्यनुसन्धानपूर्वकं निर्मितं देवताप्रतिमादिकं पूर्वपूर्वसमानरूपम् एवम् इन्द्राद्यर्थोऽपि वेदोक्तनामरूपानुसन्धानशालिना प्रजापतिना निर्मीयमाणः पूर्वपूर्वसमानरूपः एव भवति । ततः समानरूपाभिव्यङ्ग्याकृतिवाचित्वात् इन्द्रादिशब्दानां व्यक्तीनाम् अनित्यत्वेऽपि जातिवाचिगवादिशब्दवत् इन्द्रादिशब्दानामपि जातिवाचितया न अनित्यार्थसंयोगकृतो विरोध: इत्यर्थः । ननु ‘मन्त्रकृतो वृणीते’ संहिताकारपदकारसूत्रकार ब्राह्मणकाराणां, ‘विश्वामित्रस्य सूक्तं भवति’ इति मन्त्रादीनां कार्यत्वश्रवणात् न वेदनित्यत्वम् इत्यत्राह – ‘अत एव च नित्यत्वम्’ (ब्र.सू.१-३-२८) “अनादिनिधना ह्येषा वागुत्सृष्टा स्वयंभुवा । आदौ वेदमयी दिव्या यतः सर्वाः प्रसूतयः” ।। (म.भा.शां.२२२-५५) इति मन्त्रकृत्वेन प्रसिद्धानामपि वसिष्ठविश्वामित्रादीनां वेदजन्यत्वाम्नानात् मन्त्रकृत्वं मन्त्रद्रष्ट्त्वमेव, न तु ‘मन्त्रकरत्वम्’ इति अवसीयते। अत: वेदनित्यत्वस्य न अनुपपत्तिः । ननु एवमपि प्राकृतप्रलये शब्दस्य तदुपादानभूताहङ्कारादेश्च नष्टत्वात् कथं वेदनित्यत्वम् ? कथं वा सर्वेषां वेदशब्दप्रभवत्वं ? तत्राह – ‘समाननामरूपत्वाञ्चा- वृत्तावपि अविरोधो दर्शनात् स्मृतेश्च’ (ब्र.सू.१-३-२९) कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तौ अपि पूर्वोक्तसमाननामरूपत्वस्य तदवस्थत्वादेव न शब्दानित्यत्वम् । ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ (ऋ.सं.१०-१९०-३), “यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु” ।। (महा.भा.शां.८५-५०) इति श्रुतिस्मृतिभ्यां तथैव प्रतिपादनात् एतस्य नित्यत्वम् अपौरुषेयत्वं च । इदमेव हि वेदस्य अपौरुषेयत्वं यत्पूर्वपूर्वोच्चारणक्रमानुसन्धानसापेक्षोच्चारणक्रमत्त्वं तत् इदानीन्तनवेदे सर्गाद्यवेदेऽपि समानम् । इयांस्तु विशेषः – भगवद्व्यतिरिक्ताः सर्वेऽपि पूर्वपूर्ववेदानुपूर्व्यनुभव- जनितसंस्कारवशेन पूर्वानुपूर्वीं स्मृत्वा तयैव आनुपूर्व्या वेदम् उच्चारयन्ति । भगवांस्तु संस्कारनिरपेक्षमेव पूर्वानुपूर्वीम् अनुसन्धाय तयैव आनुपूर्व्या वेदम् उच्चारयति इति । इदमेव हि पौरुषेयप्रबन्धापेक्षया वेदस्य वैलक्षण्यं नित्यत्वं च । ननु चतुर्मुखकर्तृक अवान्तरकल्पसृष्टिविषयतयाऽपि ‘धाता यथा पूर्वमकल्पयत्’ इत्यादि प्रमाणानाम् उपपत्तौ स्वतन्त्रपरमात्मकर्तृकब्रह्मकल्पाद्यसमयप्रवृत्तवेदचतुर्मुखादिसृष्टेः समानानुपूर्वीकत्वसमाननामरूपकृत्यत्वादौ किं प्रमाणम् इति चेत् उच्यते – चतुर्मुखादेः नामरूपकृत्यादीनि इतिहासपुराणादिभ्यो अवगत्य एतादृशनामरूपकृत्य-विशिष्टचतुर्मुखो भवानि’ इत्येवं संकल्पपूर्वकं भगवन्तम् आराध्य तत्तत्पदं प्राप्नुवन्ति इति हि शास्त्रप्रसिद्धिः । यदि हि कल्पान्तरे उत्पद्यमानः चतुर्मुखो विलक्षणनामरूपकृत्यः स्यात् , – तदा तस्य भगवदाराधकस्य वाञ्छितार्थसिद्ध्यभावात् तदिष्टसाधनत्वावेदकशास्त्रस्य अप्रामाण्यमेव स्यात् । तत्तत्पदाभिलाषिणः प्रवृत्तिश्च कस्यापि न स्यात् । अतः प्राकृतसृष्ट्या वृत्तावपि यथापूर्वमेव सृष्टिः इति देवताधिकरणे स्थितम् इति । ननु अग्निलोकात् ऊर्ध्वलोकवर्तिनाम् अचिराधनतिवाह्यानाम् अचिराद्यातिवाहिक-चिन्तनरूपाङ्गासम्भवात् , तदङ्गत्वस्य, ‘तच्छेषगत्यनुस्मृतियोगाच्च, (ब्र.सू.४-२-१७) ‘योगिनः प्रतिस्मर्येते स्मार्ते चैते’ (ब्र.सू.४-२-२१) इत्यादिषु आविष्कृतत्वात् , तदङ्गहीनानां ‘देवानां’ कथम् अङ्गिभूतब्रह्मविद्यायाम् अधिकारः इति चेन्न । आतिवाहिकचिन्तनस्य दृष्टार्थतया तत्तल्लोकवर्तिनां तदूर्ध्वलोकवर्त्यातिवाहिकचिन्तनेन एव साद्गुण्योपपत्तेः । मृतयजमानेष्टिकर्मणि सूक्तवाके यजमानस्य आयुराशासनाद्यभावात् , अनपेक्षितम् , ‘आयुराशास्ते’ इत्यादिकम् अंशं विहाय अपेक्षितांशपाठस्य अङ्गीकृतत्वात् । तद्वत् इहापि अनपेक्षितातिवाहिकांशत्यागेन अपेक्षित-स्वस्वलोकोर्ध्ववर्त्यातिवाहिकानामेव चिन्तनीयत्वोपपत्तेः । ननु ‘तदुपर्यपि बादरायणः सम्भवात्’, (ब्र.सू.१-३-२५) ‘मध्वादिष्वसम्भवात्’ (ब्र.सू.१-३-३०) इति अधिकरणद्वयेन किं प्रयोजनम् ? देवतानां देवताविशेषाणां च अर्थित्वसामर्थ्यनिर्णयस्य मनुष्याणां प्रवृत्तिविशेषानौपयिकत्वात् । न च देवानाम् अनेन अधिकरणद्वयेन किञ्चिदस्ति प्रयोजनम्। तेषां स्वकीयपटुतरदेहादिमत्त्वे अर्थित्वसम्भव-निर्णये च अधिकरणन्यायानपेक्षणात् इति चेत्, उच्यते – परं बह्म देवानां वस्वादिदेवताविशेषाणां च उपास्यं फलप्रदं च इति ईदृशमहिमविशिष्टतया उपासनकाले अनुसन्धेयत्वसिद्धि -लक्षणप्रयोजनसद्भावात् । देवताविग्रहासिद्धौ मधुविद्यायाः देवतापदप्राप्तिः फलम् इत्यपि न भवेत् । गत्यनुस्मृतौ अचेतनानाम् अर्चिरादीनाम् एव मार्गपर्वत्वेन चिन्तनीयता स्यात्, न आतिवाहिकदेवतानाम् । तथा ‘भाक्तं वाऽनात्मवित्त्वात्’ (ब्र.सू.३-१-७) इति सूत्रोक्तन्यायेन ज्योतिष्टोमादिकर्मफलं भुञ्जानानां, ‘तं देवाः भक्षयन्ति’ इति निरन्तराजानदेवकर्मकरभावावगत्या वैराग्यं न सिध्द्येत् । प्राप्तिविरोधयोः असतो: मन्त्रार्थवादानां प्रतीयमानार्थे प्रामाण्यम् अस्तीति न्यायव्युत्पादनेन, ‘प्लवा ह्येते अदृढा यज्ञरूपाः’ (मु.उ.१-२-७) ‘एतत् तृतीयं स्थानम्’ इत्यादिमन्त्रार्थवादैः वैराग्यसंसिद्धिः इत्यादीनि प्रयोजनानि द्रष्टव्यानि । प्रकृतमनुसरामः ।।
।। इति तृतीयप्रपाठके एकादशः खण्डः ।।
द्वादशः खण्डः
[ब्रह्मणि गायत्रीसादृश्यानुसन्धानम्]
गायत्री वा इदँ सर्वं भूतं यदिदं किञ्च । वाग्वै गायत्री । वाग्वा इदँ सर्वं भूतं गायति च त्रायते च ।। १ ।।
प्र. –चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणः गायत्रीसादृश्यानुसन्धानरूपा विद्या प्रस्तूयते – गायत्री वा इत्यादिना । ‘इन्द्रश्शचीपतिः वलेन पीडितः । दुश्च्यवनो वृषा समित्सु सासहिः‘ ।। ‘इति’ गायत्री चतुष्पदा, एकैकस्य पादस्य षडक्षरात्मकतया षडक्षरपादवत्त्वेन षड्विधा च । एवं ब्रह्मणोऽपि सर्वभूत शब्दितात्मवर्ग: एकः पादः। कर्मार्जितभोगस्थानरूप: पृथिवीलोकः एकः पादः । भोगोपकरणं शरीरम् एकः पादः । आत्मस्थित्यनुगुणप्रदेशविशेषरूपं हृदयम् एकः पादः इति भूतपृथिवीशरीरहृदयानि चत्वारः पादाः । तत्र सर्वभूतलक्षणपादस्य ब्रह्मात्मकवाक्कर्तृकगानकर्मत्वत्राणकर्मत्वलक्षणं विधाद्वयम् । पृथिवीलक्षणस्य पादस्य सर्वभूतप्रतिष्ठात्वसर्वभूतानतिवर्त्यलक्षणं विधाद्वयम् । शरीरहदयलक्षणयोः पादयोः प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वलक्षणं विधाद्वयमेव । द्वयोः अपि विधाद्वययोः अपि भेदाभावात् । ततश्च ‘परब्रह्मरूपा गायत्री भूतपृथिवीशरीरहृदयरूपपादचतुष्टयवत्तया चतुष्पादा । गानकर्मत्व-त्राणकर्मत्व-सर्वभूतप्रतिष्ठात्व-सर्वभूतानतिवर्त्यत्व सर्वप्राणिप्राणप्रतिष्ठात्व-सर्वप्राणानतिवर्त्यत्व-लक्षणविधाषट्कयुक्ततया षड्विधा च । अतः चतुष्पात्त्वषाड्विध्याभ्यां ब्रह्मणि गायत्रीसादृश्यानुसन्धानं कर्तव्यम् इति प्रतिपादयति – गायत्री वा इदं सर्वं भूतं यदिदं किञ्च। अत्र गायत्रीशब्देन न प्रसिद्धा गायत्री अभिधीयते । तस्याः भूतादिपादचतुष्टयसम्बन्धाभावात् । एतावानस्य महिमा’ इति पुंसूक्तमन्त्रप्रतिपाद्यत्वाभावाञ्च। अपि तु परमात्मा। यथा कुण्डपायिनाम् अयने ‘मासमग्निहोत्रं जुहोति’ इत्यग्निहोत्रशब्दः प्रयुज्यमानः तत्सादृश्य विशिष्टानुष्ठानार्थः । तथा गायत्रीशब्दः ब्रह्मणि प्रयुज्यमानः तत्सादृश्यानुसन्धानार्थः। ततश्च गायत्रीशब्देन ब्रह्मैव अभिधीयते । वैशब्दो अवधारणार्थः । ब्रह्मैव परिदृश्यमानसर्वभूतात्मकम् इत्यर्थः। ततश्च ब्रह्मणि भूतलक्षणपादवत्त्वम् उक्तम् । अथ गायत्रीशब्दप्रवृत्तिनिमित्तमपि ब्रह्मणि उपपादयन् विधाद्वयमाह – वाग्वै गायत्री गायत्रीशब्दितं गायत्रीसदृशं ब्रह्मैव वाग्रूपविशिष्टं भवति इत्यर्थः। “शब्दमूर्तिधरस्यैतद्रूपं विष्णोर्महात्मनः’ । (वि.पु.१-२२-८५) इति पराशरस्मृत्याद्यनुरोधेन ब्रह्मणः एव शब्दरूपत्वमिति भावः । ततश्च किम् ? इत्यत्राह वाग्वा इदँ सर्वं भूतं गायति च त्रायते च । वाग्रूपमेव ब्रह्म सर्वाणि भूतानि अभिधत्ते। हिताहितविधिनिषेधमुखेन त्रायते च। अतश्च ब्रह्मणो वाग्रूपस्य सर्वभूतगानत्राणकर्तृत्वाभ्यां गायत्रीशब्दवाच्यत्वम्। भूतात्मकपादवतः ब्रह्मणः वाक्कर्तृ’कगानत्राणकर्मत्वाभ्यां द्वैविध्यं च उक्तं भवति ।।
[पृथिव्यात्मिका गायत्री]
या वै सा गायत्री इयं वाव सा येयं पृथिवी । अस्याँ ही सर्वं भूतं प्रतिष्ठितमेतामेव नातिशीयते ।। २ ।।
प्र.–उक्तार्थानुवादपूर्वकं द्वितीयं पादं सामानाधिकरण्येन आह या वै सा गायत्री इयं वाव सा येयं पृथीवी । उक्तरूपविशिष्ट प्रकृतधर्मिपरो यच्छब्दः । या – सर्वभूतरूपा एकपादयुता गायत्री – गायत्र्याख्यं ब्रह्म, तदेव प्रसिद्धा पृथिवी इत्यर्थः । कथं पृथिव्याः ब्रह्मात्मकत्वम् ? इत्यत्राह अस्यां हीदं सर्वं भूतं प्रतिष्ठितम् । ब्रह्मात्मकत्वादेव हि सर्वभूतप्रतिष्ठात्वम् । नहि केवलपृथिव्याः सर्वभूतधारणशक्तिः अस्ति इत्यर्थः । प्रतिष्ठात्वं च नियतम् इत्याह – एतामेव नातिशीयते । पृथिवीं ‘भूतानि’ नातिवर्तन्ते । कर्मवश्यात्मनां हि प्रतिष्ठात्वादेव पृथिवी नियमेन अशक्यातिक्रमणा इत्यर्थः । पृथिवीमयब्रह्माण्डोदरे हि भोक्तृवर्ग: परिवर्तते, न ततोऽन्यत्रेति भावः । एवं द्वितीयः पादः, भूत-प्रतिष्ठात्वतदनतिवर्त्यत्वरूपं विधाद्वयं च उक्तम् ।।
[गायत्री ब्रह्मशरीरात्मकम्]
या वै सा पृथिवी इयं वाव सा यदिदमस्मिन् पुरुषे शरीरम् । अस्मिन् हीमे प्राणाः प्रतिष्ठिताः एतदेव नातिशीयन्ते ।।३।।
प्र.–अथ तृतीयं पादमाह या वै सा……..शरीरम् । अत्र पुरुषशब्दः शरीर विशिष्टजीवपरः। पृथिवी – पृथिवीरूपपादविशिष्टा या गायत्री, गायत्र्याख्यं ब्रह्म सा शरीरं – शरीराख्यपादविशिष्टा इत्यर्थः । भूतपृथिव्यो : गायत्रीसामानाधिकरण्येन निर्दिष्टतया ‘भूतपृथिवीशब्दयोः’ ब्रह्मपर्यन्तत्वेन तदुपस्थापनक्षमत्वात् अग्र्यप्रायन्यायेन अत्र शरीरलक्षणपादान्तरनिर्देशकस्य’ शरीरशब्दस्य निष्कर्षकशब्दत्वेऽपि सामानाधिकरण्येन निर्देशो युक्तः । शरीरस्य ब्रह्मात्मकत्वं प्राणप्रतिष्ठात्वतदनतिवर्त्यत्वाभ्याम् उपपादयति । अस्मिन् हि इमे प्राणाः प्रतिष्ठिता एतदेव नातिशीयन्ते । नातिशीयन्ते – नातिवर्तन्ते इत्यर्थः ।।
[हृदयात्मकं गायत्रीब्रह्म]
यद्वै तत् पुरुषे शरीरमिदं वाव तद् यदिदमस्मिन्नन्तः पुरुषे हृदयम् । अस्मिन् हीमे प्राणा: प्रतिष्ठिताः एतदेव नातिशीयन्ते ।। ४ ।।
प्र. – चतुर्थं पादमाह – यद्वै तत्…..हृदयम् । पुरुषे शरीरं – पुरुषशब्दित शरीरविशिष्टजीवनिष्ठशरीराख्यपादविशिष्टं यत् गायत्र्याख्यं ब्रह्म, तदेव हृदयं हृदयशरीरकम् हृदयलक्षणपादकमित्यर्थः । हृदयस्य ब्रह्मात्मकत्वमुपपादयति अस्मिन्……नातिशीयन्ते। प्राणशब्देन प्राणापानादयः इन्द्रियाणि वा कथ्यन्ते । तेषां हृदयसम्बन्धिनाडीद्वारा हृदयप्रतिष्ठितत्वम् । एवं तृतीयचतुर्थपादौ प्राणप्रतिष्ठात्व-तदनतिवर्त्यत्वरूपं विधाद्वयं च उक्तम् ।।
[गायत्री चतुष्पदा षड्विधा च]
सैषा चतुष्पदा षड्विधा गायत्री । तदेतदृचाऽभ्यनूक्तम् ।।५।।
प्र. – एवमुक्तं चतुष्पात्त्वं षाड्विध्यं च निगमयति – सैषा चतुष्पदा षड्विधा गायत्री इति । नन्वेवं चतुष्पात्त्वे ब्रह्मणः परिच्छिन्नत्वं स्यादिति शङ्कायाम् उक्तस्य महिम्नः एतावत्त्वप्रतिषेधिकाम् ऋचम् उदाहरति तदेतदृचाऽभ्यनूक्तम् । तदेतत् – गायत्र्याख्यं ब्रह्म अभिमुखीकृत्य ऋचापि उक्तम् इत्यर्थः ।।
[गायत्रीब्रह्मणः महिमा]
तावानस्य महिमा ततो ज्यायाँश्च पुरुषः । पादोऽस्य सर्वा भूतानि त्रिपादस्यामृतं दिवि । इति ।। ६ ।।
.
प्र. – तामृचं पठति तावानस्य महिमा । पूर्वोक्तः सर्वोऽपि एतस्य महिमा नियाम्यवर्गः । ततो ज्यायांश्च पुरुषः । पूर्वोक्तमहिमापेक्षया पुरुषो ज्यायान् परमात्मा ज्यायान् । ततो अधिकमहिमाशालीत्यर्थः । पादोऽस्य सर्वा भूतानि । अत्र सर्वा भूतानि इति कार्यजगदन्तर्गता अचित्संसृष्टाः चेतना: उच्यन्ते । ते सर्वे पाद: अंशमात्रम् इत्यर्थः । सर्वशब्दात्परस्य शेः ‘सुपां सुलुक्’ (पा.सू.७-१-३९) इति लुङि नलोपे रूपम् । त्रिपादस्यामृतं दिवि । अत्र घुशब्दः समष्टिव्यष्टितत्त्वबहिर्भूताप्राकृतस्थानविशेषपरः इति ।। पुरुषसूक्ते श्रूयते -“एतावानस्य महिमा अतो ज्यायाँश्च पुरुषः । पादोऽस्य विश्वाभूतानि त्रिपादस्यामृतं दिवि “।। इति । अप्राकृते स्थानविशेषे अस्य – परमात्मनः अमृतं पादत्रयमित्यर्थः । त्रिपात्त्वं च अप्राकृतेः भोग्यभोगस्थानभोगोपकरणविशेषैः वा ‘भूषणास्त्रादि’रूपेण जगदन्तर्गतवस्त्वभिमानिभिः नित्यैः भगवदनुभवमात्रपरैः नित्यसिद्धैश्च मुक्तैश्च आत्मभिः वा सम्भवति ।।
[हृदये गायत्र्याख्यं ब्रह्म उपासनम्]
यद्वै तद् ब्रह्मेति इदं वाव तत् योऽयं बहिर्धा पुरुषादाकाशः । यो वै स बहिर्धा पुरुषादाकाशः ।। ७ ।।
अयं वाव स योऽयमन्तः पुरुष आकाशः । यो वै सोऽन्तः पुरुष आकाशः ।।८।।
अयं वाव स योऽयमन्तर्हृदय आकाशः । यो ह वै सोऽन्तर्हृदय आकाशः । तदेतत् पूर्णमप्रवर्ति पूर्णामप्रवर्तिनीँ श्रियं लभते, य एवं वेद ।। ९ ।।
।। इति द्वादशः खण्डः ।।
प्र.–अथ चतुर्थपादत्वेन उक्तस्य उपास्यतया वक्ष्यमाणस्य हृदयस्य स्तुत्यर्थं हृदयाकाशस्य बाह्याकाशाभेदेन महत्वं वक्तुं बाह्याकाशस्य ब्रह्यतुल्यत्वं सामानाधिकरण्येनाह – यद्वै तत् ब्रह्मेति इदं वाव तत् योऽयं बहिर्धा पुरुषादाकाशः यो वै स बहिर्धा पुरुषादाकाश: – स्वकार्यव्याप्तत्वामूर्तत्वाचलत्वादिभिः ब्रह्मतुल्यो बाह्याकाशो यो वर्तते इत्यर्थः ।। ७ ।।
अयं वाव स योऽयमन्तः पुरुष आकाश इति । तादृशबाह्याकाशाभिन्नः पुरुषशब्दिते शरीरे अन्त: वर्तमानः आकाशः इत्यर्थः । बाह्यान्तराकाशयोः भेदसत्त्वेऽपि धर्म्यैक्याभिप्रायेण अभेदनिर्देशः । यो वै सोऽन्तः पुरुष आकाश इति । एवं ब्रह्म तुल्यबाह्याकाशाभिन्नः शरीरान्तराकाशो य: इत्यर्थः ।। ८ ।।
अयं वाव स योऽयमन्तर्हृदय आकाशः । तादृशशरीरान्तःस्थाकाशाभिन्नः हृदयावच्छिन्नाकाशः इत्यर्थः । पूर्ववत् धर्म्यैक्यात् इति भावः । एवं ब्रह्मतुल्यबाह्याकाशा – भिन्नपुरुषान्तर्गताकाशाभेदं हृदयाकाशस्य उक्त्वा एतादृशमहिमशाली हृदयाकाशः इति स्तौति। यो वै सोऽन्तर्हृदय आकाशः । अन्तर्हृदये वर्तमान: य: आकाशः अयं सः तादृशमहिमशालीत्यर्थः । अनया च हृदयाकाशस्तुत्या चतुर्थपादत्वेन उक्तं हृदयं स्तुतं भवति । एवं चतुष्पादषड्विधस्य ब्रह्मणः प्रपञ्चान्तर्भावेन परिच्छिन्नत्वास्थिरत्वशङ्काव्यावृत्यर्थं पूर्णत्वाप्रवर्तित्वगुणकतया उपासनं मोक्षफलं विदधाति । तदेतत्पूर्णमप्रवर्ति । पूर्णत्वं – अपरिच्छिन्नत्वं अप्रवर्तित्वं – अचलत्वं, स्थिरत्वम् । पूर्णामप्रवर्तिनीं श्रियं लभते, य एवं वेद । अनन्तस्थिरा श्रीः मुक्तैश्वर्यमेव । तदुपासीन: मुक्तिं भजते इत्यर्थः ।।
।। इति द्वादशखण्डभाष्यम् ।।
छान्दोग्योपनिषत्
त्रयोदशः खण्डः
[द्वारपुरुषोपासनम्]
तस्य ह वा एतस्य हृदयस्य पञ्च देवसुषयः । स योऽस्य प्राङ्सुषिः, स प्राणः, तच्चक्षुः, स आदित्यः । तदेतत् तेजोऽन्नाद्यमित्युपासीत । तेजस्व्यन्नादो भवति, य एवं वेद ।। १ ।।
प्र.–अथ उक्तब्रह्मोपासनाङ्गत्वेन द्वारपोपासनं विधीयते – तस्य हवा एतस्य हृदयस्य पञ्च देवसुषयः । तस्यैतस्य – चतुर्थपादत्वेन निर्दिष्टस्य प्रकृतस्य हृदयस्य देवताधिष्ठानभूतानि पञ्च द्वारच्छिद्राणि इत्यर्थः । स योऽस्य प्राङ्सुषिः, स प्राणस्तच्चक्षुः, स आदित्य इत्यादि । प्राणवृत्तिविशेषाप्यायितचक्षुरनुग्राहकादित्यस्य हृदयप्राक्सुषिरद्वारपालस्य तेजोऽन्नाद्यतया उपासने उपासकः स्वयमपि तेजस्वी अन्नादो भवति इत्यर्थः । तदेतत् इति आदित्यस्य तेजोऽन्नाद्यपेक्षया नपुंसकलिङ्गनिर्देशः । तेजस्वित्वं – लावण्यम् । एवमुत्तरत्रापि ।।
[दक्षिणद्वारपालोपासनम् तस्य फलञ्च]
अथ योऽस्य दक्षिण: सुषिः, स व्यानः, तच्छ्रोत्रँ, सः चन्द्रमाः । तदेतच्छ्रीश्च यशश्चेत्युपासीत । श्रीमान् यशस्वी भवति, य एवं वेद ।। २ ।।
प्र.–अथ योऽस्य दक्षिण: सुषिः सः व्यान: तच्छ्रोत्रं स: चन्द्रमा: इत्यादि । श्रीमान् – सम्पत्तिमान् ।।
[पश्चिमद्वारपालोपासनम्, तत्फलञ्च]
अथ योऽस्य प्रत्यङ्सुषिः, सोऽपानः, सा वाक्, सोऽग्निः । तदेतत् ब्रह्मवर्चसमन्नाद्यमित्युपासीत । ब्रह्मवर्चस्व्यन्नादो भवति, य एवं वेद ।। ३ ।।
प्र. – अथ योऽस्य प्रत्यङ्सुषिः, सोऽपानः, सा वाक्, सोऽग्निः इत्यादि । ब्रह्मवर्चसं – वृत्ताध्ययनजं तेजः ।।
[उत्तरद्वारपालस्य उपासनम् तत्फलञ्च]
अथ योऽस्योदङ् सुषिः, स समानः, तन्मनः, स पर्जन्यः । तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत। कीर्तिमान् व्युष्टिमान् भवति । य एवं वेद ।। ४ ।।
प्र.–अथ योऽस्योदङ्सुषिः, स समानः तन्मनः स पर्जन्यः इत्यादि । पर्जन्यः – देवतावेशेषः, व्युष्टिः – देहकान्तिः ।।
[ऊर्ध्वद्वारपालस्योपासनं, तत्फलञ्च]
अथ योऽस्योर्ध्वः सुषिः, स उदानः, स वायुः, स आकाशः । तदेतदोजश्च महश्चेत्युपासीत । ओजस्वी महस्वान् भवति, य एवं वेद ।। ५ ।।
प्र.–अथ योऽस्योर्ध्वस्सुषिः स उदानः, स वायुः, स आकाशः इत्यादि । ओजः – बलम्, महत्त्वं महः आकाशश्च । देवताविशेषः ।।
ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः । स य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ; अस्य कुले वीरो जायते । प्रतिपद्यते स्वर्ग लोकम् , य एतानेवं पञ्च ब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेद ।। ६ ।।
प्र.–ते वा एते पञ्च ब्रह्मपुरुषाः स्वर्गस्य लोकस्य द्वारपाः । ते एते – उक्तगुणविशिष्टाः आदित्यचन्द्रमाऽग्निपर्जन्याकाशाख्याः ब्रह्मपुरुषाः–ब्रह्मसम्बन्धिनः पुरुषाः स्वर्गस्य लोकस्य – भगवल्लोकस्य हृदयाकाशाख्यस्य द्वारपालकाः । यद्वा भगवल्लोकस्य द्वारपाः–आतिवाहिका: । स य एतानेवं पञ्च ब्रह्मपुरुषान् इत्यादि । अस्य कुले वीरो जायते । वीरः पुत्रो जायते । विद्यावीर्यसम्पन्नो जायते इत्यर्थः । आनुषङ्गिकं फलम् उक्त्वा प्रधानफलमाह – प्रतिपद्यते स्वर्गं लोकं य एतानेवम् इत्यादि । भगवल्लोकद्वारपालकोपासनया अनिवारितस्सन् भगवल्लोकं प्रतिपद्यते इत्यर्थः । शिष्टं स्पष्टम् ।।
[ज्योतिर्ब्रह्मोपासनम्]
अथ यदतः परो दिवो ज्योतिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्ठेष्वनुत्तमेषूत्तमेषु लोकेषु, इदं वाव तद् यदिदमस्मिन् अन्तःपुरुषे ज्योतिः । तस्यैषा दृष्टिः ।। ७ ।।
प्र.-एवं गायत्रीविद्याप्रकृतस्य द्युसम्बन्धिनः सकलफलप्रदस्य परस्य ब्रह्मणः आभिरूप्यकीर्तिमत्त्वरूपफलविशेषार्थं कौक्षेयज्योतीरूपत्वेन उपासनाविधानाय आह अथ यदतः……लोकेषु । ‘तथाक्षरात् सम्भवतीह विश्वम्’ (मुं.उ.१-१-७) इत्यत्र जगदन्तर्वर्तिव्यष्टिजाते विश्वशब्दप्रयोगात् विश्वशब्दो व्यष्टिपरः । सर्वशब्दः परिशेषात् समष्टितत्त्वपरः । ततश्च अतः परो दिवः अप्राकृतस्थानविशेषस्य उपरिष्टात् समष्टिव्यष्टिबहिर्भूतेषु अनुत्तमेषु स्वावधिकोत्तमरहितेषु, उत्तमस्थानविशेषेषु ‘तस्य भासा सर्वमिदं विभाति’ (मुं.उ.२-२-१०) इत्यवभासकतया ज्योतिश्शब्दित: परमात्मा यो दीप्यते इत्यर्थः । अत्र यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शितया प्रकृतं त्रिपाद् ब्रह्म परामृश्यते । इदं वाव तद् यदिदमस्मिन् अन्तःपुरुषे ज्योतिः, तत् दिव: परस्तात् दीप्यमानं त्रिपाद्ब्रह्म, यदिदमस्मिन्नन्तःपुरुषे – शरीरस्यान्त: ज्योतिः । इदं वाव कौक्षेयज्योतिरेव कौक्षेयज्योतिःशरीरकमेव इत्यर्थः ।।
“अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः ।
प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम्” ।। (भ.गी.१५-२४)
इति स्मरणात् । ततश्च तदात्मकत्वानुसन्धानं कर्तव्यम् इत्यर्थः । तस्यैषा दृष्टिः । तस्य – परमात्मशरीरभूतस्य जाठराग्नेः एषा दृष्टिः – इदं दर्शनम् इत्यर्थः ।।
यत्रैतदस्मिन् शरीरे सँस्पर्शेनोष्णिमानं विजानाति । तस्यैषा श्रुतिः, यत्रैतत् कर्णावपिगृह्य, निनदमिव नदथुरिव, अग्नेरिव ज्वलत उपशृणोति । तदेतत् दृष्टश्च श्रुतञ्चेत्युपासीत । चक्षुष्यः श्रुतो भवति । य एवं वेद य एवं वेद ।। ८ ।।
।। इति त्रयोदशः खण्डः ।।
प्र.–यत्र यदा अस्मिन् शरीरे हस्तस्पर्शेन – उष्णिमानं विजानाति इति यत् – यदौष्ण्योपलम्भनम् इत्यर्थः । उपलभ्यमानस्य उष्णस्पर्शस्य जाठराग्निसम्बन्धित्वात् तत्स्पर्शसाक्षात्कार एव तत्साक्षात्कार इत्यर्थः । तस्यैषा……उपशृणोति । यत्र यदा पुरुषः स्वकर्णी अङ्गुलीभ्याम् अपिधाय निनदमिव – रथघोषमिव, नदथुरिव – नदथुमिव ऋषभकूजितमिव । बहिर्ज्वलतः अग्ने: शब्दमिव च शृणोति । इति यत् , ‘तदेव’ जाठराग्निश्रवणम् । आन्तरस्य शब्दस्य जाठराग्निसम्बन्धित्वात् तच्छब्दश्रवणमेव तच्छ्रवणमित्यर्थः ।
तदेतद् दृष्टं च श्रुतं चेत्युपासीत । तदेतत् – परमात्मशरीरभूतं कौक्षेयज्योतिः उक्तरीत्या दृष्टत्वश्रुतत्वाभ्यां गुणाभ्याम् उपासीत इत्यर्थः । तस्य फलमाह – चक्षुष्यः श्रुतो भवति । य एवं वेद य एवं वेद । चक्षुष्यत्वम् आभिरूप्यम् । चक्षुषे हितम् इत्यर्थे ‘शरीरावयवाञ्च’ (पा.सू.४-३-५५) इति यत् । श्रुतत्वं – कीर्तिमत्त्वम् । द्विरुक्तिर्विद्यासमाप्त्यर्था । उक्तः श्रुत्यर्थः सर्वोऽपि ज्योतिरधिकरणे श्रुतप्रकाशिकायां स्पष्टः । एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् उपन्यस्यते अथ ‘यदतः परो दिवो ज्योति’रिति ज्योतिः शब्दितं प्रसिद्धम् अग्नयादिज्योतिरेव कौक्षेयज्योतिषा ऐक्याध्यासस्य भौतिकज्योतिषि एव उपपत्तेः। दीप्तेः रूपवद्विषयत्वेन नीरूपे परमात्मनि दीप्तेरसम्भवात् । ‘दिवः परः’ इति द्युमर्यादत्वस्यापि निर्मयदि परमात्मनि असम्भावात् । लेकेषु इति आधारबहुत्वस्यापि निराधारेऽसम्भवात् । चक्षुष्यत्व श्रुतत्वरूपाल्पफलश्रवणाञ्च । रूपवद्विषयदीप्तिद्युमर्यादत्व-आधारबहुत्व कौक्षेयज्योतिरध्यास-चक्षुष्यत्व-श्रुतत्व-रूपाल्पफलोपासनोपास्यत्वरूपवाक्यशेष-श्रुतलिङ्गानु-गृहीतज्योतिश्श्रुत्या प्रसिद्धम् अग्नयादिज्योतिरेव इह उपदिश्यते इति पूर्वपक्षे प्राप्ते उच्यते -‘ज्योतिश्चरणाभिधानात्’ (ब्र.सू.१-१-२४) । धुसम्बन्धितया निर्दिष्टं निरतिशयदीप्तियुक्तं ज्योति: परमपुरुष: एव । ‘पादोऽस्य सर्वाभूतानि’ इति मन्त्रे धुसम्बन्धिनः सर्वभूतचरणत्वाभिधानात् । तस्यैव धुसम्बन्धिनः इहापि धुसम्बन्धित्वेन प्रत्यभिज्ञानात् , यच्छब्दस्य सर्वनामत्वेन प्रकृतपरामर्शित्वस्य एव युक्ततया धुसम्बन्धित्वेन प्रकृतत्रिपाद्ब्रह्मपरामर्शस्य एव युक्तत्वात् । फलार्थतया परमात्मनि एव कौक्षेयज्योतिश्शरीरकत्वानुसन्धानस्य उपपत्तेः, रूपवद्विषयदीप्तिधु -मर्यादत्वलोकाधारत्वादीनाम् अन्तरादित्यविद्यान्यायेन विग्रहविशिष्टस्य एवोपपत्तेः, भासकत्व -प्रवृत्तिनिमित्तकज्योतिश्शब्दस्यापि तत्र वृत्तिसम्भवात् ज्योतिश्शब्दित: परमपुरुष एव । ‘छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगमात्तथा हि दर्शनम्’ (ब्र.सू.१-१-२५)। पूर्वत्र, ‘गायत्री वा इदं सर्वम्’ इति गायत्र्याख्यच्छन्दसः एव प्रकृतत्वात् तस्यैव, ‘पादोऽस्य सर्वा भूतानि’ इति सर्वभूतचरणत्वाभिधानात् परब्रह्मणः प्रकृतत्वं, येन यच्छब्दश्रुत्या तत्परामर्श: स्यादिति चेत् न । तत्र गायत्रीशब्देन न छन्दः परामृश्यते । अपि तु ब्रह्मण एव गायत्रीचेतोऽर्पणम् इह निगम्यते । ब्रह्मणि गायत्रीसादृश्यानुसन्धानं फलाय उपदिश्यते इत्यर्थः । चतुष्पदश्च ब्रह्मणः चतुष्पदया गायत्र्या सादृश्यसम्भवात् । तथा अन्यत्रापि सादृश्यात् छन्दोभिधायी शब्दः अर्थान्तरे प्रयुज्यमानो दृश्यते – ‘यथा संवर्गविद्यायाम् अग्निसूर्यजलचन्द्रवायु-वाक्चक्षुश्श्रोत्रमनःप्राणरूपेषु दशसु दशत्वसंख्यासाम्यात् , ‘सैषा विराडन्नादि’ इति छन्दोवाचिनो विराट्छब्दस्य प्रयोगो दृष्टः । ‘भूतादिपादव्यपदेशोप -पत्तेश्चैवम्'(ब्र.सू.१-१-२७) । भूतपृथिवीशरीरहृदयलक्षणपाद’चतुष्टयस्य’, ‘सैषा चतुष्पदा इति प्रतिपादितस्य छन्दोरूपायां गायत्र्याम् असम्भवात् गायत्रीशब्देन ब्रह्मैव अभिधीयते । अत: गायत्री शब्दित त्रिपाद्ब्रह्मैव ज्योतिर्वाक्येऽपि यच्छब्दश्रुत्या पूर्वप्रत्यभिज्ञापकद्युसम्बन्धित्व- लिङ्गानुगृहीतया प्रतिपाद्यते । ‘उपदेशभेदान्नेति चेन्नोभयस्मिन्नप्यविरोधात्’ । (ब्र.सू.१-१-२८) पूर्ववाक्ये त्रिपादस्यामृतं दिवि’ इति दिवोऽधिकरणत्वेन निर्देशात्, ज्योतिर्वाक्ये, दिवः परः इति अवधित्वेन निर्देशात् न प्रत्यभिज्ञासम्भवः इति चेत् न – वृक्षाग्रे वर्तमाने श्येने, ‘वृक्षाग्रात् श्येनः’, ‘वृक्षाग्रे श्येनः’ इति पञ्चमीसप्तम्योः प्रयोगदर्शनवत् इहापि उपपत्तेः इति भावः इति स्थितम् । प्रकृतमनुसरामः ।।
।। इति त्रयोदशखण्डभाष्यम् ।।
चतुर्दशः खण्डः
शाण्डिल्यविद्या
[मनोमयत्वादिगुणकब्रह्मोपासनम् ]
सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । अथ खलु क्रतुमयः पुरुषः । यथाक्रतुरस्मिन् लोके पुरुषो भवति तथेतः प्रेत्य भवति । स क्रतुं कुर्वीत ।। १ ।।
प्र.–शाण्डिल्यविद्या प्रस्तूयते – सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत । जायते इति जम् । लीयते इति लम् । जलशब्दो डप्रत्ययान्तौ । अनिति इति अन् । अनिति – जीवति इत्यर्थः । क्विबन्तो विजन्तो वाऽयं शब्दः । तस्य जलान् तज्जलान् । इति: हेत्वर्थः । सर्वशब्दः सर्वशरीरकपरः। इदम् इत्येतत् ब्रह्मणः,सर्वस्य वा विशेषणम् अतश्च तज्जत्वात् तल्लत्वात्, तदनत्वात् सर्वात्मकं ब्रह्म इति शान्तस्सन् उपासीत इत्यर्थः । अत्र तज्जत्वतल्लत्वे स्थूलचिदचिच्छरीरकब्रह्मगते तदनुरूपे । तन्नियाम्यत्वं तु न ब्रह्मगतम् । ब्रह्मणः तदसम्भवात् । अपितु चिदचिन्मात्रगतम् इति द्रष्टव्यम् । भगवता भाष्यकृता, “सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत” इति सर्वोत्पत्तिस्थितिप्रलयकारणत्वेन सर्वस्य आत्मतया, अनुप्रवेशकृतजीवयितृत्वेन च सर्वात्मकं ब्रह्म उपासीत इति उपासनं विधाय” इति भाषितम् । व्यासार्यैश्च, “ब्रह्मात्मकत्वं सर्वस्य शास्त्रात् अवगम्य, “सर्वभूतात्मके तात! जगन्नाथे जगन्मये । परमात्मनि गोविन्दे मित्रामित्रकथा कुतः” ।। (वि.पु.१-१९-३७) इत्युक्तरीत्या रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्म उपासीत इत्यर्थः” इत्युक्तम् । ‘वक्ष्यमाणगुणकं ब्रह्म’ इति वदतां व्यासार्याणाम् अयम् आशयः । सर्वं खलु इति वाक्योक्तं सार्वात्म्यं तु न उपास्यगुणः । उत्पत्तिशिष्ट सार्वात्म्यगुणावरुद्धे मनोमयत्वादिवक्ष्यमाणगुणविधानानुपपत्तिप्रसङ्गात् । न च उपासनोत्पत्तिवाक्यश्रुतस्य सार्वात्म्यस्य अविवक्षा कथम् अभ्युपगन्तव्या इति वाच्यम् । ‘सर्वं खल्विदं ब्रह्म तज्जलान्’ इत्यन्तस्य वाक्यस्य खलुशब्दकृतेन प्रसिद्धवन्निर्देशेन एकवाक्यत्वस्य निवारितत्वात् । न हि उपासीत खलु इति वचनव्यक्ति: घटते । अत: सार्वात्म्यस्य उपासनोत्पत्तिवाक्यश्रुतत्वाभावेन शान्तः उपासीत इति वाक्ये उपास्याकाङ्क्षायां पूर्ववाक्यप्रतिपन्नस्य ब्रह्मरूपमिमात्रस्य एव उपास्यतया अन्वयः, न तु सार्वात्म्यविशिष्टस्य । ततश्च उत्पत्तिशिष्टसार्वात्म्यानवरोधात् न वक्ष्यमाणमनोमयत्वादिगुणानन्वयशङ्का । ‘सर्वात्मकं ब्रह्म उपासीत’ इति तदर्थनिर्देशकभाष्येऽपि सर्वात्मकत्वं न उपास्यगुणतया निर्दिष्टम् । अपितु उपास्यब्रह्मणः स्वरूपकथनमात्रपरम् इति । एतच्च सर्वमपि तैः कण्ठतः एव वर्णितं च ।
ननु ‘ब्रह्मात्मकत्वं सर्वस्य शास्त्रादवगम्य रागद्वेषादिरहितः सन् वक्ष्यमाणगुणकं ब्रह्म उपासीत इत्यर्थः’ इति व्यासार्यै:‘ एव उक्तत्वात् , तदेकवाक्यत्वसम्भवे, ‘तज्जलानिति’ इत्यन्तस्य पृथग्वाक्यत्वकल्पनायोगात्, सार्वात्म्यस्य उत्पत्तिवाक्यविहितत्वेऽपि मनोमयत्वादीनाम् उत्पत्तिशिष्टगुणाविरोधिनाम् अन्वये दोषाभावाच्च वाक्यभेदकल्पनं वा, शाण्डिल्यविद्यायां सार्वात्म्यस्य अनुपास्यत्वकल्पनं, वा व्यर्थम् इति चेत् न उपासीत इत्यनेन वाक्यैकवाक्यत्वाभ्युपगमेऽपि पदैक्यवाक्यत्वनिराकरणे दोषाभावात् । शान्तिहेतुतया अन्वितस्य सार्वात्म्यस्य उपास्यत्वे प्रमाणाभावात् इति व्यासायभिप्रायात् । ननु ब्रह्मणः सर्वात्मकत्वात् यत्र क्वचित् क्रियमाणस्यापि द्वेषादेः आत्मद्वेषपर्यवसन्नत्वेन अयुक्तत्वात् शान्तस्सन् उपासीत इत्युक्ते ब्रह्म उपासीत इति कथम् अवगम्यते ? सर्वं खल्विदं ब्रह्म इत्यस्य शमविध्यर्थवादभूतस्य उपास्यसमर्पकत्वाभावात् इति चेत् – सत्यम् – शमविध्यर्थतया निर्दिष्टस्यापि ब्रह्मणः उपास्याकाङ्क्षापूरकत्वस्यपि सम्भवात् , अन्यार्थतया अपि स्ववाक्यनिर्दिष्टं ब्रह्म विहाय उपास्यान्तरकल्पनस्य अनुचितत्वात् । ‘मूलत: शाखां परिवास्य उपवेषं करोति’ इत्यत्र मूलतः इत्यस्य शाखापरिवासने अपादानतया अन्वितस्यापि आकाङ्क्षावशेन, ‘उपवेषं करोति’ इत्यनेनापि अन्वयाभ्युपगमात् इति द्रष्टव्यम् । विहितम् उपासनं स्तौति-अथ खलु क्रतुमयः पुरुषः । यथा क्रतुरस्मिन् लोके पुरुषो भवति तथेत: प्रेत्य भवति इति । ‘तं यथा यथोपासते तथैव भवति’ (मुद्ग.उ.३) इति श्रुत्यन्तरात् इह लोके पुरुषः, यथाक्रतुः – यथोपासनः, तथैव इतः प्रेत्य अमुष्मिन् लोके भवति । ततोः हेतोः पुरुषः क्रतुमयः – क्रतुप्रधानः, उपासनप्रधान: इत्यर्थः । ततश्च उपासनस्य एव हिततमत्वात् सर्वथा अनुष्ठेयम् इत्यर्थः ।
एवं विहितं ब्रह्मोपासनं मनोमयत्वादिगुणान्तरविधानाय अनुवदति-स क्रतुं कुर्वीत । सः उपासकः क्रतुं – ब्रह्मणः उपासनं कुर्वीत इत्यर्थः ।।
[ब्रह्मण: मनोमयत्वादिगुणाः]
मनोमयः प्राणशरीरो भारूप: सत्यसङ्गल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः ।। २ ।।
प्र. – गुणानेवाह – मनोमय: – परिशुद्धमनोमात्रग्राह्यः । विवेकादिसाधनसप्तकानु – गृहीतपरमात्मोपासननिर्मलीकृतमनोमात्रग्राह्यः इत्यर्थः । प्राणशरीरः – जगति सर्वेषां प्राणानां धारकः । प्राणो यस्य शरीरम् – आधेयं विधेयं शेषभूतं च स प्राणशरीर: आधेयत्व-विधेयत्व-शेषत्वानामेव शरीरशब्दप्रवृत्तिनिमित्तत्वात् । भारूप:-भास्वररूपः ‘आदित्यवर्णं तमसः परस्तात्’, (श्वे.उ.३-८) ‘पश्यते रुक्मवर्णम्’ (मुं.उ.३-१-३) इत्यादि वाक्यप्रतिपन्नाप्राकृतस्वासाधारणनिरतिशयकल्याणगुणगणनिरतिशयदीप्तियुक्तविग्रहशाली इत्यर्थः ।
सत्यसङ्कल्पः – अप्रतिहतसङ्कल्पः । आकाशात्मा–आकाशवत् सूक्ष्मस्वच्छस्वरूपः । सकलेतरकारणभूतस्य अव्याकृताकाशस्य आत्मभूतः इति वा आकाशात्मा । स्वयं च प्रकाशते, अन्यांश्च प्रकाशयति इति वा आकाशात्मा । सर्वकर्मा – क्रियते इति कर्म । सर्वं जगत् यस्य कर्म असौ सर्वकर्मा । सर्वा वा क्रिया यस्य आराधनम् असौ सर्वकर्मा ।
सर्वकामः – काम्यन्ते इति कामाः । भोग्यभोगोपकरणादयः। ते परिशुद्धाः तस्य सन्ति इत्यर्थः । सर्वगन्धस्सर्वरसः ‘अशब्दमस्पर्शम्’ इत्यादिना (क.उ.३-२५) प्राकृतगन्धरसादिनिषेधात् अप्राकृताः स्वासाधारणाः निरवद्याः निरतिशया: कल्याणाः स्वभोग्यभूताः सर्वविधाः गन्धरसाः तस्य सन्ति इत्यर्थः । सर्वमिदमभ्यात्तः उक्तं सर्वमिदं कल्याणगुणजातं अभ्यात्तः – स्वीकृतवान् । ‘भुक्ताः ब्राह्मणाः’ इतिवत् कर्तरि क्तप्रत्ययः । अर्श आद्यजन्तो वा । अवाकी – वाकः उक्तिः, सोऽस्य नास्तीति अवाकी । कुतः इत्यत्राह अनादरः अवाप्तसमस्तकामत्वेन आदर्तव्याभावात् , आदररहितः। अत एव अवाकी । परिपूर्णैश्वर्यत्वात् ब्रह्मादिस्तम्बपर्यन्तं निखिलं जगत् तृणीकृत्य जोषम् आसीन: इत्यर्थः ।।
[ब्रह्मोपासनारीतिः]
एष म आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वा श्यामाकतण्डुलाद्वा । एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षात् ज्यायान् दिवो ज्यायानेभ्यो लोकेभ्यः ।। ३ ।।
प्र.–एष म आत्मा अन्तर्हृदयेऽणीयान् व्रीहेर्वा यवाद्वा इत्यादि । मदीये हृदये व्रीह्याद्यपेक्षया अणुत्वेन’ एषः – परमात्मा उपासनार्थम् अवस्थितः इत्यर्थः । तथा अनुसन्धानं कर्तव्यम् इति भावः । अन्तर्हृदये अवस्थितस्य उपास्यमानस्य प्राप्याकारम् अनुसन्धेयं निर्दिशति । एष म आत्माऽन्तर्हृदये ज्यायान् पृथिव्या इत्यादि । अन्तर्हृदये विद्यमानोऽपि स्वरूपतो निरतिशयपरिमाणः इत्यर्थः ।।
[सगुणोपासनम्]
सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादर एष म आत्मान्तर्हृदय एतद् ब्रह्म ।। ३ ।।
एतमितः प्रेत्याभिसम्भवितास्मीति यस्य स्यादद्धा न विचिकित्साऽस्तीति ह स्माह शाण्डिल्यः शाण्डिल्यः ।। ४ ।।
।। इति चतुर्दशः खण्डः ।।
प्र. – सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः इत्यादि । उक्तोऽर्थः । एवम्भूतं परं ब्रह्म परमकारुण्येन अस्मदुज्जिजीवयिषया अस्मद्हृदये सन्निहितम् इति अनुसन्धातव्यम् इत्याह – एष म आत्मान्तर्हृदय एतद्ब्रह्मेति । यथोपासनम् ईदृशं परमात्मानं ‘अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेण अभिनिष्पद्यते (छां.उ.८-३-४) इत्युक्तरीया देशविशेषविशिष्ट प्राप्तः अस्मीति निश्चयरूपम् अनुसन्धानं कर्तव्यम् इत्याह – एतमितः प्रेत्याभिसम्भवितास्मीति । अत्र ‘इति’ इत्यस्य ‘स क्रतुं कुर्वीत’ इत्यनेन अन्वयः ।
‘मनोमयः प्राणशरीरः’ इत्यारभ्य ‘एतमितः प्रेत्याभिसम्भवितास्मीति’ एतत्पर्यन्तो अनुसन्धानप्रकारः । अत्र च इतिशब्दनिर्दिष्टो मनोमयत्वादिगुणगतः क्रमविशेषः एकः एव विधीयते । मनोमयत्वाद्युपास्यगुणानां तु आक्षेपतो विधानम्, पृष्ठगतसर्वताविधानादिव पृष्ठानाम् । ततश्च प्राप्तानुवादेन मनोमयत्वाद्यनेकगुणविधाने वाक्यभेदः इति शङ्का प्रत्युक्ता । यद्वा विधेयानां बहुत्वेऽपि क्रतुरूपविधेयतावच्छेदकैक्यात् न वाक्यभेदः । ‘यदग्नये च प्रजापतये’ च इति वाक्ये देवतात्वरूपविधेयतावच्छेदकैक्येन वाक्यभेदस्य तान्त्रिकैः परिहतत्वात् । केचित्तु प्राप्तोपासनानुवादेन अभ्युदयेष्टिवाक्यवत् प्रयोगविधित्वसम्भवात् न वाक्यभेदः इति वदन्ति ।
एवंविधप्राप्यप्राप्तिनिश्चयोपेतस्य उपासकस्य प्राप्तौ न संशयः अस्तीति उपसंहरति यस्य स्यादद्धा न विचिकित्साऽस्ति । अत्र इतिशब्द: अध्याहर्तव्यः । अभिसम्भवितास्मीति इतीतिशब्दस्य काकाक्षिन्यायेन वा अन्वयः । इति – उक्तप्रकारेण यस्य उपासकस्य अद्धा – निश्चयोऽस्ति, तस्य प्राप्तौ विचिकित्सा – संशयो नास्ति इत्यर्थः । उक्तस्य श्रद्धेयत्वसिद्ध्यै वक्तुराप्तिं दर्शयति – इति ह स्माह शाण्डिल्य: शाण्डिल्य: इति । द्विरुक्ति: विद्यासमाप्त्यर्था । अयमर्थः सर्वोऽपि भाष्यश्रुतप्रकाशिकयोः स्पष्टः । एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् ‘उपन्यस्यते’ इयञ्च विद्या समन्वयाध्याये द्वितीयपादे चिन्तिता । तत्र हि – ‘सर्वं खल्विदं ब्रह्म’ इत्यत्र ब्रह्मशब्देन प्रत्यगात्मा एव निर्दिश्यते । तस्यैव सर्वपदसामानाधिकरण्यनिर्देशोपपत्तेः । सर्वशब्दनिर्दिष्टं हि ब्रह्मादिस्तम्बपर्यन्तं कृत्स्नं जगत् । ब्रह्मादिस्तम्बपर्यन्तभावश्च प्रत्यगात्मनः एव अनाद्यविद्यामूलकर्मविशेषोपाधिकः उपपद्यते । परमात्मनः निरस्तसमस्तावद्यस्य समस्तहेयाकरसर्वभावो न उपपद्यते । प्रत्यगात्मनि अपि ब्रह्मशब्दः क्वचित् क्वचित् प्रयुज्यते, ‘इदं ब्रह्मायाति’ इत्यादौ । अत एव परमात्मा, ‘परं ब्रह्म’ इति परमेश्वरस्य क्वचित् सविशेषणो निर्देशः। प्रत्यगात्मनश्च निर्मुक्तोपाधेः ब्रह्मत्वं च विद्यते । ‘स चानन्त्याय कल्पते’ (श्वे.उ.५-९) इति श्रुतेः । अविदुषः तस्यैव कर्मनिमित्तत्वात् जगज्जन्मस्थितिलयानां एव अत्र सन्दर्भे प्रतिपाद्यते इति पूर्वपक्षे उच्यते – ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) ।
सर्वत्र सर्वस्मिन् जगति ‘सर्वं खल्विदं ब्रह्म’ इति तदात्मतया विधीयमानं परं ब्रह्मैव । कुतः ? प्रसिद्धोपदेशात् । तज्जत्वतल्लत्वादिना ‘सर्वं खल्विदं ब्रह्म’ इति प्रसिद्धवत् उपदेशात् यस्मात् जगज्जन्मस्थितिलया: वेदान्तेषु प्रसिद्धाः । तदेव अत्र ब्रह्मेति प्रतीयते । वेदान्तप्रसिद्धत्वं च परब्रह्मणः एव । ‘यतो वा इमानि भूतानि जायन्ते’ (तै.आन.१) इत्यादि वेदान्तेषु परब्रह्मणः एव प्रसिद्धेः । तस्य ब्रह्मादिस्तम्बभावेऽपि प्रकारभूतशरीरगतानां दोषाणां ‘प्रकारिणि आत्मनि असंस्पर्शात् निरस्तसमस्तावद्यत्वस्य न अनुपपत्तिः । जीवानां च प्रतिशरीरं
भिन्नानां अन्योन्यतादात्म्यासम्भवेन सार्वात्म्यस्य असम्भावितत्वात् । अतः सर्वजगत्कारणत्व प्रयुक्तसर्वात्मकत्वस्य परब्रह्मण्येव सम्भवात् परमेव ब्रह्म इह वाक्ये प्रतिपाद्यते । ‘विवक्षितगुणोपपत्तेश्चे (ब्र.सू.१-२-२) । विवक्षितानां मनोमयत्वसत्यसङ्कल्पत्वादीनां गुणानां परमात्मन्येव उपपत्तेश्च । विवक्षितत्वं – तात्पर्यविषयत्वम् । मनोमयत्वादीनां च ‘यथा क्रतुरस्मिंल्लोके पुरुषो भवति’ इति वाक्येन मनोमयत्वादिगुणकोपासनेन तद्गुणकब्रह्मप्राप्तेः फलत्वावेदनेन फलरूपतात्पर्यालिङ्ग सम्भवात् मनोमयत्वादीनां तात्पर्यविषयत्वलक्षणं विवक्षितत्वम् अवसीयते । ‘अनुपपत्तेस्तु न शरीर:’ (ब्र.सू.१-२-३) विवक्षितानां गुणानां शारीरेऽनुपपन्नत्वात् न शारीरपरग्रहशङ्का कार्या इत्यर्थः । ‘कर्मकर्तृव्यपदेशाञ्च’ (ब्र.सू.१-२-४) । एतम् इतः प्रत्यभिसम्भवितास्मि’ इति प्राप्यतया परं ब्रह्म व्यपदिश्यते प्राप्तृतया च जीवः । अतः प्राप्ता जीवोपासकः । प्राप्यं परं ब्रह्म उपास्यम् इति । ‘शब्दविशेषात्’ (ब्र.सू.१-२-५) । ‘एष म आत्माऽन्तर्हृदयः’ इति शारीरः षष्ठ्या निर्दिष्टः, उपास्यस्तु प्रथमया । अतो न उपासकस्य जीवस्य उपास्यत्वम् । ‘स्मृतेश्च’ (ब्र.सू.१-२-६) । “सर्वस्य चाहं हृदि सन्निविष्टः मत्तः स्मृतिर्ज्ञानमपोहनं च” (भ.गी.१५-५) इति स्मृतिश्च उपास्यं हृदयगतम् उपासकात् भिन्नं परमात्मानं दर्शयति ।
‘अर्भकौकस्त्वात्तव्द्यपदेशाच्च नेति चेन्न निचाय्यत्वादेवं व्योमवच्च‘ (ब्र.सू.१-२-७) । अल्पायतनत्वं, – अर्भकौकस्त्वं, तव्द्यपदेशः – अल्पत्वव्यपदेशः । एष म आत्मान्तर्हृदयः इति अणीयसि हृदयायतने स्थितत्वात् ‘अणीयान् व्रीहेर्वा यवाद्वा’ इत्यादिना स्वरूपेण अणीयस्त्वव्यपदेशाच्च नायं परमात्मा, अपि तु जीवः एव । परमात्मनः अल्पायतनत्वाल्पत्वयोः सम्भवात् इति चेत् न – एवं निचाय्यत्वात् अल्पायतनत्वाल्पत्वाभ्यां तस्यैव उपास्यत्वसम्भवात् । व्योमवञ्च इदं ब्रह्म व्यपदिश्यते ‘ज्यायान् पृथिव्या’ इत्यादिना । अतश्च ज्यायस्त्वे उपाध्यश्रवणात् जायस्त्वं स्वाभाविकम् , अणीयस्त्वे उपाधिश्रवणात् अणीयस्त्वम् औपाधिकम् इत्यवसीयते । ‘सम्भोगप्राप्तिरिति चेन वैशेष्यात्’ (ब्र.सू.१-२-८) । परब्रह्मणः शरीरान्तर्वर्तित्वे तन्निमित्तसुखदुःखोपभोगप्रसक्ति: जीववत् स्यादिति चेत् न – तयोः अपहतपाप्मत्वानपहतपाप्मत्व-कृतविशेषसंभवात् , न जीववत् भोगप्रसक्तिः इति स्थितम् । प्रकृतमनुसरामः ।।
।। इति चतुर्दशखण्डभाष्यम् ।।
पञ्चदशः खण्डः
[वीरपुत्रस्य दीर्घायुष्ट्वसिद्ध्यै कोशविज्ञानम् ]
अन्तरिक्षोदर: कोशो भूमिबुध्नो न जीर्यति ।
दिशो ह्यस्य स्रक्तयो द्यौरस्योत्तरं बिलम् ।।
स एष कोशो वसुधानस्तस्मिन् विश्वमिदँ श्रितम् ।। १ ।।
प्र. – पुत्रदीर्घायुष्यफलकं त्रैलोक्यात्मककोशविज्ञानमारभ्यते’ अन्तरिक्षोदरः कोशो भूमिबुध्नो न जीर्यति । अन्तरिक्षम् उदरं यस्य सः तथोक्त: । मध्यवर्तित्वात् अन्तरिक्षस्य उदरत्वम् । कोश: इव कोशः । कोशसादृश्यात् कोशः । भूमि: बुध्न: मूलं यस्य सः भूमिबुघ्नः । न जीर्यति न विनश्यति । ‘स्थिरकालत्वादिति भावः । दिशो ह्यस्य स्रक्तय: – स्रक्तयः कोणा: इत्यर्थः । द्यौरस्योत्तरं बिलम् । उत्तरं बिलं – ऊर्ध्वं मुखम् उत्यर्थः । स एष कोशो वसुधान: – कर्मफलाख्यं वसु धीयते अस्मिन् इति वसुधानः । तस्मिन् विश्वमिदं श्रितम् । कर्मकर्तृफलात्मकं परिदृश्यमानं कृत्स्रम् अस्मिन् कोशे श्रितम् इत्यर्थः ।।
[कोशदिग्वत्सविज्ञानं, तस्य फलञ्च]
तस्य प्राची दिग् जुहूर्नाम, सहमाना नाम दक्षिणा, राज्ञी नाम प्रतीची, सुभूता नामोदीची । तासां वायुर्वत्सः । स य एतमेवं वायुं दिशां वत्सं वेद, न पुत्ररोदँ, रोदिति । सोऽहमेतमेवं वायुं दिशां वत्सं वेद ; मा पुत्ररोदँ, रुदम् ।। २ ।।
प्र. – तस्य……नाम दक्षिणा इत्यादि । तस्य – उक्तत्रैलोक्यकोशस्य या प्राची दिक् सा जुहूनाम्ना ध्यातव्या इत्यर्थः । एवमेव अवशिष्टस्य स्पष्टोऽर्थः । तासां वायुर्वत्सः वायोः दिक्प्रसूतत्वात् वत्सत्वम् । स एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोदं रोदिति । दिग्वत्सत्वेन वायूपासकः पुत्रनाशननिमित्तं रोदं – रोदनं न करोति । पाकं पचति इतिवत् अयं पुत्ररोदनं रोदिति इति निर्देशः । रोदमिति णमुलन्तो वा । सोऽहमेतमेवं वायुं दिशां वत्सं वेद मा पुत्ररोदं रुदम् । सः – एतदुपदेष्टा अहमेवम् एतदुपासनम् अनुष्ठाय पुत्ररोदनाभावं फलं प्राप्तवान् अस्मि इत्यर्थः ।।
अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना ; प्राणं प्रपद्येऽमुनाऽमुनाऽमुना ; भूः प्रपद्येऽमुनाऽमुनाऽमुना ; भूवः प्रपद्येऽमुनाऽमुनाऽमुना ; स्वा: प्रपद्येऽमुनाऽमुनाऽमुना ।। ३ ।।
प्र.–अथ कोशविज्ञानाङ्गभूतान् प्रपदनमन्त्रानाह-अरिष्टं कोशं प्रपद्येऽमुनाऽमुनाऽमुना । अरिष्टं–अविनाशं कोशं प्रपद्ये । अमुनाऽमुनाऽमुना इति त्रिः पुत्रस्य नाम गृह्णाति । अमुना पुत्रेण हेतुना अरिष्टं कोशं प्रपद्ये इत्यर्थः । एवम् उत्तरत्रापि प्राणं प्रपद्येऽमुनाऽमुनाऽमुना इत्यादि ।। स यदवोचम् – प्राणं प्रपद्य इति, प्राणो वा इदं सर्वं भूतम् , यदिदं किञ्च, तमेव तत् प्रापत्सि ।। ४ ।।
अथ यदवोचम् – भूः प्रपद्य इति, पृथिवीं प्रपद्ये, अन्तरिक्षं प्रपद्ये, दिवं प्रपद्ये इत्येव तदवोचम् ।। ५ ।।
अथ यदवोचम् – भुवः प्रपद्य इति, अग्निं प्रपद्ये, वायुं प्रपद्ये, आदित्यं प्रपद्ये, इत्येव तदवोचम् ।। ६ ।।
अथ यदवोचम् – स्वः प्रपद्य इति, ऋग्वेदं प्रपद्ये, यजुर्वेदं प्रपद्ये, सामवेदं प्रपद्ये इत्येव तदवोचम् , तदवोचम् ।। ७ ।।
।। इति पञ्चदशः खण्डः ।।
प्र. – प्राणं प्रपद्ये इत्यादि स्वोक्तमन्त्रान् स्वयमेव व्याचष्टे । तत्र प्रथममन्त्रस्य कोशविषयस्य पूर्वमेव व्याख्यातत्वात् द्वितीयादीन् व्याचष्टे – स यदवोचं प्राणं प्रपद्ये इति प्राणो वा इदं सर्वं भूतं यदिदं किञ्च इत्यादि । सोऽहं प्राणं प्रपद्ये इति यद्वचनम् अवोचम् – तेन वचनेन प्राणात्मकं सर्वं जगत् प्रापत्सि – प्रपन्नो अभवम् इत्यर्थः । अथ यदवोचम् – भूः प्रपद्ये इति पृथीवीं प्रपद्ये इत्यादि । भूः प्रपद्ये इत्यस्य मन्त्रस्य त्रीन् लोकान् प्रपद्ये इत्यर्थः ।
अथ यदवोचं भुवः प्रपद्ये इति अग्निं प्रपद्ये इत्यादि । स्पष्टम् । तदवोचं तदवोचम् इति । द्विरुक्ति: विद्यासमाप्त्यर्था ।।
।। इति पञ्चदशखण्डभाष्यम् ।।
षोडशः खण्डः
[दीर्घायुष्ट्वफलकपुरुषविद्या]
पुरुषो वाव यज्ञः । तस्य यानि चतुर्विंशतिवर्षाणि, तत् प्रातस्सवनम् ।
चतुर्विंशत्यक्षरा गायत्री ; ‘गायत्रं प्रातस्सवनम् । तदस्य वसवोऽन्वायत्ताः ।
प्राणा वाव वसवः । एते हीदँ सर्वं वासयन्ति ।। १ ।।
प्र. – दीर्घायुष्ट्वफलकपुरुषविद्या प्रस्तूयते – पुरुषो वाव यज्ञः इति । पुरुषः स्वस्मिन् यज्ञदृष्टिं कुर्यात् इत्यर्थः । पुरुषस्य यज्ञसादृश्यमेव आह-तस्य यानि चतुर्विंशति वर्षाणि, तत्प्रातस्सवनं – षोडशोत्तरवर्षशतमिते पुरुषायुषि आद्यानि चतुर्विंशतिवर्षाणि प्रातस्सवनम् इत्यर्थः । तत्र तदृष्टिः कर्तव्या इति यावत् । तत्र हेतुमाह – चतुर्विंशत्यक्षरा गायत्री, गायत्रं प्रातस्सवनं – प्रातस्सवनस्य गायत्रीछन्दस्कत्वात् गायत्रीछन्दसः चतुर्विंशत्यक्षरात्मकत्वात्, चतुर्विंशतिवर्षे प्रातस्सवनत्वाध्यासो युज्यते इति भावः ।
तदस्य वसवोऽन्वायत्ताः । अस्य – उपासकस्य तत् – प्रातस्सवनं वसवः – स्वामित्वेन अनुगताः । प्रसिद्धयज्ञे प्रातस्सवनस्य वसुस्वामिकत्वात् इति ‘भावः । प्रसिद्धान् वसून व्यावर्तयति – प्राणा वाव वसवः – वाव शब्दो अवधारणे । प्राणानां वसुत्वे युक्तिमाह – एते हीदं सर्व वासयन्ति । शरीराणाम् अशैथिल्यलक्षणवासस्य प्राणाधीनत्वात् इति भावः ।।
तं चेदेतस्मिन् वयसि किश्चिदुपतपेत् , स ब्रूयात् प्राणा वसवः । इदं मे प्रातस्सवनं । माध्यन्दिनँ सवनमनु सन्तनुतेति । माऽहं प्राणानां वसूनां मध्ये यज्ञो विलिप्सीयेति । उद्धैव तत एति, अगदो ह भवति ।। २ ।।
प्र. –तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् । तं – पुरुषविद्यानिष्ठम् एतस्मिन् वयसि – चतुर्विंशतिवर्षात्मके वयसि किञ्चित् – रोगादिकम् उपतपेत् । बाधेत चेत् इत्यर्थः । स ब्रूयात् प्राणा: वसवः । इदं मे प्रातस्सवनं । माध्यन्दिनँ सवनमनु सन्तनुतेति इत्यादि । तदा इमं मन्त्रं सः – उपासकः ब्रूयात् – जपेत् । हे प्राणा वसवः ! यज्ञरूपस्य मम अधुना प्रातस्सवनं प्रवर्तते । इदं – प्रवर्तमानं प्रातस्सवनं माध्यन्दिनसवनेन अविच्छिन्नं कुरुत । प्रातस्सवनेशानां प्राणानां वसूनां मध्ये यज्ञोऽहं – यज्ञरूपोऽहं मा विलोप्सीय – लुप्तो मा भूवम् । छान्दसो माङि लुङभावः । मा शब्दो वा । इति मन्त्रं जपेत् इत्यर्थः । उद्धैव तत एति अगदो ह भवति । ततः -उपतापात् उदेति – उद्गच्छति । अगदो भवति – अरोगो भवति इत्यर्थः । एवम् उत्तरत्रापि ।।
[माध्यन्दिनसवनम् ]
अथ यानि चतुश्चत्वारिंशद्वर्षाणि, तन्माध्यन्दिनँ सवनम् । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यन्दिनँ सवनम् । तदस्य रुद्रा अन्वायत्ताः । प्राणा वाव रुद्राः । एते हीदँ सर्वं रोदयन्ति ।। ३ ।।
प्र. – अथ यानि चतुश्चत्वारिंशद्वर्षाणि इत्यादि । प्राणा वाव रुद्राः । एते हीदं सर्वं रोदयन्ति । यौवने इन्द्रियाणाम् अत्यन्त विषयप्रावण्यजनकतया पुरुषान् रोदयन्ति इति रुद्रत्वम् उपपन्नम् इत्यर्थः ।।
तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत्, स ब्रूयात् प्राणाः रुद्राः इदं मे माध्यन्दिनँ सवनं तृतीयसवनमनु सन्तनुतेति । माऽहं प्राणानाँ रुद्राणां मध्ये यज्ञो विलोप्सीयेति । उद्धैव तत एति ; अगदो ह भवति ।। ४ ।।
प्र. – तं चेदेतस्मिन् वयसि किञ्चिदुपतपेत् । एतस्मिन् वयसि – चतुर्विंशतिवर्षात् ऊर्ध्वम् अष्टषष्टिवर्षमध्ये इत्यर्थः । प्राणानां रुद्राणां मध्ये – माध्यन्दिनसवनेशानां भवतां मध्ये इत्यर्थः ।।
अथ यान्यष्टाचत्वारिँशद्वर्षाणि, तत् तृतीयसवनम् अष्टाचत्वारिँशदक्षरा जगती । जागतं तृतीयसवनं । तदस्यादित्या अन्वायत्ताः । प्राणा वाव आदित्याः । एते हीदंँ सर्वमाददते ।। ५ ।।
प्र. – अथ यान्यष्टाचत्वारिंशद्वर्षाणि इत्यादि । प्राणा वाव आदित्या एते हीदं सर्वमाददते । सर्वस्य विषयजातस्य आदानात् प्राणानाम् आदित्यत्वम् इत्यर्थः ।।
[तृतीयसवनम्]
तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत्, स ब्रूयात्, ‘प्राणा आदित्या: इदं मे तृतीयसवनम् आयुरनु सन्तनुते‘ति । ‘माऽहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सीये‘ति । उद्धैव तत एति ; अगदो हैव भवति ।। ६ ।।
–
प्र.–तं चेत् एतस्मिन् वयसि किञ्चिदुपतपेत् इत्यादि । एतस्मिन् वयसि अष्टषष्टिवर्षात् ऊर्ध्वं षोडशोत्तरशतवर्षमध्ये इत्यर्थः । तृतीयसवनम् आयुरनुसन्तनुतेति । तृतीयसवनात्मकम् आयुः आसमाप्ति अविच्छिन्नं कुरुत इत्यर्थः । प्राणानामादित्यानां मध्ये । तृतीयसवनस्वामिनां भवतां मध्ये इत्यर्थः ।।
[पुरुषविद्यायाः फलम्]
एतद्ध स्म वैतद् विद्वानाह महिदास ऐतरेयः, ‘स किं म एतदुपतपसि, योऽहमनेन न ‘प्रैष्यामी‘ति । स ह षोडशं वर्षशतमजीवत् । प्रह षोडशं वर्षशतं जीवति, य एवं वेद ।। ७ ।।
।। इति षोडशः खण्डः ।।
प्र. – एतद्ध स्म वै तत् विद्वानाह महिदास ऐतरेयः इत्यादि । हे रोग ! सः त्वं मे मां किं – कस्मात् एतत् – एवं प्रकारेण उपतपसि, योऽहं पुरुषविद्यानिष्ठः त्वत्कृतेन अनेन उपतापेन न प्रैष्यामि – न मरिष्यामि । अतः तव श्रमः वृथा एव इति, एतत् – पुरुषविज्ञानस्वरूपं विद्वान् इतरपुत्रो महिदासनामा, आह स्म इत्यर्थः । ऐतरेयः । शुभ्रादित्वात् इतरशब्दात् अपत्यार्थे ठक् । स ह षोडशं वर्षशतमजीवत् । सः महीदासः षोडशं वर्षशतं – षोडशाधिकं वर्षशतम् अजीवत् इत्यर्थः । तदस्मिन्नधिकमिति दशान्ताड्ड:‘ (पा.सू.५-२-४५) इति षोडशशब्दात् डप्रत्ययः ।अतो विद्यायां फलप्रापकत्वनिश्चयवतोऽवश्यं फलप्राप्तिः भवति इति भावः । अन्योऽपि एवंवित् षोडशं वर्षशतं जीवति इत्याह – प्र ह षोडशं वर्षशतं जीवति, य एवं वेद । स्पष्टोऽर्थः ।।
।। इति षोडशखण्डभाष्यम् ।।
सप्तदशः खण्डः
[पुरुषस्य यज्ञसादृश्यनिरूपणम्]
स यदशिशिषति, यत्पिपासति, यन्न रमते, ता अस्य दीक्षाः ।। १ ।।
प्र. –तथा पुरुषस्य यज्ञसादृश्यमेव निरूपयति । स……दीक्षाः । अशनाया-पिपासा-रत्यभावानां दुःखात्मकत्वेन दीक्षात्वं कल्प्यम् इत्यर्थः ।।
अथ यदश्नाति, यत्पिबति, यद्रमते तदुपसदैरेति ।। २ ।।
प्र. – अथ यदश्नाति, यत्पिबति, यद्रमते तदुपसदैरेति । अशनपानरतीनां पयोव्रतादियुक्तोपसद्वत् सुखरूपत्वात् उपसद्रूपत्वम् । तदुपसदैरेति – उपसद्भि: साम्यम् एति । उपसदृष्टिः तासु कर्तव्या इत्यर्थः ।।
[यज्ञस्य स्तुतशस्त्राणि]
अथ यद्धसति, यज्जक्षति, यन्मैथुनं चरति, स्तुतशस्रैरेव तदेति ।। ३ ।।
प्र. –यद्धसति, यज्जक्षति, यन्मैथुनं चरति, स्तुतशस्रैरेव तदेति । हास-भक्षण-मैथुनादीनां शब्दवत्वसाम्यात् स्तुतशस्त्रैः साम्यम् एति इत्यर्थः ।।
अथ यत् तपो दानमार्जवहिँसा सत्यवचनमिति, ता अस्य दक्षिणाः ।। ४ ।।
प्र. – अथ यत्तपोदानमार्जवहिँसा सत्यवचनमिति । ता अस्य दक्षिणाः . दक्षिणादृष्टिः तेषु कर्तव्या इत्यर्थः। ‘धर्मपुष्टि करत्वसाम्यात् इति भावः ।।
[पुरुषयज्ञस्य सवनावभृथौ]
तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य तन्मरणमेवावभृथः ।। ५ ।।
प्र. – तस्मादाहुः सोष्यत्यसोष्टेति पुनरुत्पादनमेवास्य। यतो हेतोः पुरुषस्य एव यज्ञरूपत्वं अत एव यथा यज्ञं करिष्यमाणे पुरुषे देवदत्तः सोमं सोष्यति इति प्रयुञ्जते तथा यदा माता तं पुरुष जनयिष्यति – तदा पुरुषस्य उत्पादनं प्रतीक्ष्य – पुरुषं सोष्यति इति प्रयुञ्जते लोकाः । यागानन्तरम् असोष्ट सोमं यज्ञदत्त इतिवत् असोष्ट माता पुरुषमिति उत्पत्तेः पश्चात् प्रयुञ्जते । ततश्च पुरुषस्य उत्पादनमेव सोष्यति असोष्टेति शब्दसम्बन्धित्वसामान्यात् यज्ञानुष्ठानलक्षणम् उत्पादनम् इत्यर्थः । तन्मरणमेवावभृथः । समाप्तित्वसाम्यात् मरणे अवभृथत्वं पश्येत् इति भावः ।।
[विद्यास्तुतिः]
तद्धैतत् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच, अपिपास एव स बभूव, सोऽन्तवेलायामेतत् त्रयँ प्रतिपद्येत, ‘अक्षितमसि‘, ‘अच्युतमसि‘, ‘प्राणसँशितमसी‘ति । तत्रैते द्वे ऋचौ भवतः ।। ६ ।।
प्र. – तद्धैतत् घोर आङ्गिरसः कृष्णाय देवकीपुत्रायोक्त्वोवाच,। घोरनामा अङ्गिरोगोत्रः कश्चित् ऋषिः तदेतत् – पुरुषयज्ञदर्शनं देवकीपुत्राय, कृष्णाय – इति शब्द: अध्याहर्तव्यः । कृष्णशेषभूतम् , तत्प्रीत्यर्थम् इति उक्त्वा – इति अनुसन्धाय उवाच अनुष्ठितवान् इत्यर्थः । वचे: लक्षणया अनुष्ठानार्थत्वम् । अपिपास एव स बभूव । सः घोरनामा भगवच्छेषत्वानुसन्धानपूर्वकपुरुषयज्ञोपासनानुष्ठानेन ब्रह्मविद्यां प्राप्य अपिपास: इदम् उपलक्षणम् अपहतपाप्मत्वादिगुणाष्टकस्य ; मुक्तः बभूव इत्यर्थः। ततश्च षोडशाधिकवर्षशतजीवनफलकस्यापि पुरुषयज्ञदर्शनस्य भगवच्छेषत्वानुसन्धानपूर्वकम् अनुष्ठितस्य ब्रह्मविद्योपयोगित्वमपि अस्ति इति भावः । सोऽन्तवेलायामेतत् त्रयँ प्रतिपद्येत । सः–भगवच्छेषत्वानुसन्धानपूर्वकपुरुषविद्यासाधितचिरायुष्ट्वानु-गृहीतब्रह्मविद्यानिष्ठः पुरुषः अक्षितमसि, अच्युतमसि, प्राणसंशितमसि इत्येतत् मन्त्रत्रयं मरणकाले जपेत् इत्यर्थः । अक्षितमसि क्षयशून्यमसि । अच्युतमसि स्वरूपस्वभावप्रच्युतिशून्यमसि । प्राणसंशितमसि – जगत्प्राणयितृत्वे सति संशितं -सूक्ष्मतत्त्वमसि इति ब्रह्मसम्बोधनं । ‘शो – तनूकरणे’ (धा.पा.११४५) इति हि धातुः । तत्रैते द्वे ऋचौ भवतः । तत्र – परब्रह्मविषये एते ऋचौ – ‘मन्त्रौ’ भवतः इत्यर्थः ।।
आदित् प्रत्नस्य रेतसः। उद्वयं तमसस्परि ज्योति: पश्यन्त उत्तरम् स्वः पश्यन्त उत्तरम् । देवं देवत्रा सूर्यमगन्मज्योतिरुत्तमम् । इति, ज्योतिरुत्तममिति ।। ७ ।।
।। इति सप्तदशः खण्डः ।।
प्र. –आदित्प्रत्नस्य रेतसः इति । तयोः ऋचोः अयम् आद्यो मन्त्रः प्रतीकेन गृहीतः । सोऽयं मन्त्रः ‘आदित्प्रत्नस्य रेतसः ज्योति: पश्यन्ति वासरम् । परो यदिध्यते दिवि” (ऋ.सं.८-२-६-३०) इति । अयमर्थः – प्रत्नस्य – पुरातनस्य रेतसः – जगद्बीजभूतस्य अव्यक्तस्य आदित् – आदिभूतम्, संसारसन्तमसनिवारकतया ज्योतिश्शब्दितं परं ब्रह्म ‘सदा पश्यन्ति सूरयः’ इत्युक्तरीत्या नित्यसूरय: वासरं नित्यप्रकाशरूपं सर्वकालं पश्यन्ति इत्यर्थः । यत् – ज्योति: ‘अथ यदत: परो दिवो ज्योतिर्दीप्यते’ इत्युक्तरीत्या दिवि भगवल्लोके परत्वेन इध्यते – निरतिशयदीप्तियुक्तविग्रहयुक्तम् इत्यर्थः । उद्वयं तमसस्परि ज्योतिः पश्यन्त उत्तरं स्वः पश्यन्त उत्तरम् इत्यादि । तमसः–प्रकृतेः परस्तात् उत्तरं ज्योति: परब्रह्म परिपश्यन्तः, उत्तरं – सर्वलोकोर्ध्वं स्व: भगवल्लोकं परिपश्यन्तः अत्र परिपश्यन्तः इति उभयत्र हेत्वर्थे शतृप्रत्ययः । भगवल्लोकस्य तद्गतपरमात्मनश्च दर्शनाय इति यावत् देवत्रा देवेषु ‘देवमनुष्य’……(पा.सू.५-४-५६) इत्यादिना ‘सप्तम्याः त्राप्रत्ययः । देवं – द्योतमानं उत्तमम् – अर्चिरादिपर्वभूतम् सूर्यरूपं ज्योतिः वयम् – उदगन्म उद्गत्य प्राप्ताः स्म इत्यर्थः । द्विरभ्यासो यज्ञकल्पनासमाप्त्यर्थः ।
एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणं लिख्यते – गुणोपसंहारपादे -तैत्तिरीयके – ‘तस्येवं विदुषो यज्ञस्यात्मा यजमानः श्रद्धा पत्नी” (ते.आर.६-६४) इति श्रुतायाः पुरुषविद्यायाः, पुरुषो वाव यज्ञः’ इति छान्दोग्याम्नाता पुरुषविद्या न भिन्ना । पुरुषविद्या इति समाख्येक्यात् । पुरुषसम्बन्धिषु यज्ञावयवत्वकल्पनासाम्यात् । मरणावभृथत्वसाम्याच्च इति पूर्वपक्षे प्राप्ते उच्यते – ‘पुरुषविद्यायामपि चेतरेषामनाम्नानात्’ (ब्र.सू.३-३-२४) उभयत्र आम्नातयोः पुरुषविद्यात्वेऽपि विद्याभेदः अस्त्येव । कुतः ? इतरेषाम् अनाम्नानात् । ‘यत् सायं प्रातर्मध्यन्दिनञ्च तानि सवनानि’ (ते.आर.६-६४) इत्यादीनां तैत्तिरीयकाम्नातानां छान्दोग्येऽनाम्नानात् । त्रेधा विभक्तपुरुषायुषस्य एव छान्दोग्ये सवनत्वाम्नानात् ।’ छान्दोग्यश्रुताशिशिषादिदीक्षादित्वपरिकल्पनस्य तैत्तिरीयके अदर्शनात् । यजमानपत्न्यादिपरिकल्पनानां च भिन्नभिन्नत्वात् ।
छान्दोग्ये – ‘पुरुषो वाव यज्ञः’ इति श्रुतस्य पुरुषे यज्ञत्व’कल्पनस्य’ तैत्तिरीयके अदर्शनाच्च विद्याभेदः एव । न च ‘तस्यैवं विदुषो यज्ञस्य’ इत्यत्र षष्ठ्यन्तयोः सामानाधिकरण्याश्रयणेन पुरुषे यज्ञत्वकल्पनं तैत्तिरीयकेऽपि अस्तीति वाच्यम् । पुरुषस्यैव, यज्ञत्वे तस्यैव यजमानत्वं विरुद्धम् । यज्ञत्वयजमानत्वयोः एकस्मिन् विरोधात् । किञ्च पुरुषे यज्ञत्वकल्पने हि, विद्वान् यज्ञ: आत्मा यजमान इत्येव वक्तव्यं स्यात् । न तु एकवाक्यतया, ‘विदुषो यज्ञस्यात्मा यजमानः’ इति । अतो विदुषो यज्ञस्य इति व्यधिकरणे षष्ठ्यौ । विद्वत्संबन्धि यज्ञस्य इत्यर्थः । ततश्च ‘प्रणवे एव विस्वरः’ इति न्यायेन पुरुषस्य यज्ञत्वकल्पनैकरूप्याभावात् विद्याभेदःएव । किञ्च छान्दोग्याम्नातायाः, पुरुषविद्यायाः ‘प्र ह षोडशं वर्षशतं जीवति’ इति षोडशाधिकवर्षशतजीवनं फलत्वेन आम्नातम् । तैत्तिरीयके तु श्रुतायाः पुरुषविद्यायाः ‘ब्रह्मणे त्वामहस ओमित्यात्मानं युञ्जीत’ (तै.आर.६-६३) इति पूर्वानुवाकविहितायाः ब्रह्मविद्यायाः ‘ब्रह्मणो महिमानमाप्नोति’ (तै.आर.६-६३) इति ब्रह्मप्राप्तिफलिकायाः सन्निधौ पठितत्वात् ब्रह्मविद्याङ्गतया ब्रह्मप्राप्तिफलकत्वमेव । अत: फलसंयोगभेदाच्च पुरुषविद्ययोः भेदः इति सिद्धान्तितम् । प्रकृतमनुसरामः ।।
1 इति सप्तदशखण्डभाष्यम् ।।
अष्टादशः खण्डः
[अध्यात्म मनसि अधिदेवतमाकाशे च ब्रह्मदृष्टिः]
मनो ब्रह्मेत्युपासीतेत्यध्यात्मम् । अथाधिदेवतम् । आकाशो ब्रह्मेति । उभयमादिष्टं भवति अध्यात्मञ्चाधिदैवतञ्च ।। १ ।।
प्र.–अध्यात्मं मनसि, अधिदैवतम् आकाशे च ब्रह्मदृष्टिः उपदिश्यते . मनो ब्रह्मेत्युपासीत इत्यादिना । आदिष्टं भवति – उपदिष्टं भवति इत्यर्थः । शिष्टं
स्पष्टम् ।।
[ब्रह्मणः चतुष्पात्त्वम्]
तदेतञ्चतुष्पाद् ब्रह्म । वाक् पादः, प्राणः पादः, चक्षुः पादः,श्रोत्रं पाद इत्यध्यात्मम् । अथाधिदैवतम् – अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इति । उभयमेवादिष्टं भवति अध्यात्मञ्चैवाधिदैवतञ्च ।। २ ।।
प्र. – तदेतञ्चतुष्पाद् ब्रह्म । तदेतत् – मन आख्यं ब्रह्म चतुष्पात् इत्यर्थः । कथं मनोरूपस्य ब्रह्मणः चतुष्पात्त्वम् इत्यत्राह । वाक्पादः प्राणः पादः चक्षुः पादः श्रोत्रं पाद इत्यध्यात्मम् । वागादीनां चतुर्णां मनोनियाम्यत्वात् मनःपादत्वाध्यासो युक्तः इति भावः । इति अध्यात्मम् उक्तमिति शेषः । अथाधिदेवतम् । उच्यते इति शेषः । अग्निः पादो वायुः पाद आदित्यः पादो दिशः पाद इति । अग्न्यादयः चत्वारो ब्रह्मरूपाकाशस्य उदरलग्नाः पादाः इव भवन्ति इत्यर्थः । इत्युभयमेवादिष्टं भवति अध्यात्मञ्चैवाधिदैवतञ्च इति । स्पष्टोऽर्थः ।।
वागेव ब्रह्मणश्चतुर्थः पादः । सोऽग्निना ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ।। ३ ।।
प्र.–वागेव ब्रह्मणश्चतुर्थः पादः । सोऽग्निना ज्योतिषा भाति च तपत्ति च । अध्यात्मं ब्रह्मरूपस्य मनसो वागेव चतुर्थः पादः । सोऽधिदैवतं ब्रह्मरूपाकाशपादतया तत्सम्बन्धिना अग्निना ज्योतिषा – प्रकाशकेन भाति – प्रकाशते । तपति – स्वकार्योत्साही भवति इत्यर्थः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ.उ.२-४) इति अग्निदेवतायाः एव वागधिष्ठातृत्वेन तदधीनप्रकाशप्रवृत्तिकत्वात् इति भावः । एवम् उत्तरत्रापि द्रष्टव्यम् । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद । वितरणविक्रमरूपहेतुभेदात् कीर्तियशसोः भेदः । ब्रह्मवर्चसं वृत्ताध्ययनसमृद्धिः । शिष्टं स्पष्टम् ।।
प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ।। ४ ।।
प्र.–प्राण एव इत्यादि । प्राण एव ब्रह्मणश्चतुर्थः पादः । स वायुना इत्यादि । वायुप्राणयोः ‘एकतत्त्वत्वादिति भावः ।।
चक्षुरेव ब्रह्मणश्चतुर्थः पादः । स आदित्येन ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ।। ५ ।।
प्र. – चक्षुरेव ब्रह्मणश्चतुर्थः पादः । स आदित्येन इत्यादि । ‘आदित्यस्य चक्षुरधिष्ठातृत्वात् इति भावः ।।
श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः । स दिग्भिर्ज्योतिषा भाति च तपति च । भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन, य एवं वेद ।। ६ ।।
।। इति अष्टादशः खण्डः ।।
प्र.–श्रोत्रमेव ब्रह्मणश्चतुर्थः पादः स दिग्भिः इत्यादि । दिशश्श्रोत्रं भूत्वा कर्णां प्राविशन्’ (ऐ.उ.२-४) इति दिग्देवतानां श्रोत्राधिष्ठातृत्वात् इति भावः । अवशिष्टस्य उक्तोऽर्थः । य एवं वेद य एवं वेद इति । द्विरुक्तिः विद्यासमाप्त्यर्था ।।
।। इति अष्टादशखण्डभाष्यम् ।।
एकोनविंशः खण्डः
[आदित्ये ब्रह्मदृष्टिः]
आदित्यो ब्रह्मेत्यादेशः । तस्योपव्याख्यानम् – असदेवेदमग्र आसीत् । तत् सदासीत् । तत् समभवत् । तदाण्डं निरवर्तत । तत् संवत्सरस्य मात्रामशयत । तन्निरभिद्यत । ते आण्डकपाले रजतञ्च सुवर्णञ्चाभवताम् ।।१।।
प्र–पूर्व आदित्यः ब्रह्मणः पादः उक्तः । अथ तस्मिन् सकलब्रह्मदृष्ट्यर्थम् इदम् आरभ्यते आदित्यो ब्रह्मेत्यादेशः । आदित्यः ब्रह्म इत्युपदेशः क्रियते इत्यर्थः । तस्योपव्याख्यानम् । क्रियते इति शेषः । असदेवेदमग्र आसीत् । इदं – जगत् अग्रे असत् – अव्याकृतनामरूपम् आसीत् । तत् सदासीत् । तत् – अव्याकृतनामरूपं जगत् सदासीत् – ईषन्नामरूपकार्याभिमुखम् आसीत् । तत् समभवत् । अल्पतरनामरूपव्याकरणेन, अङ्कुरीभूतमिव बीजं क्रमेण स्थूलम् अभवत् इत्यर्थः । तदाण्डं निरवर्तत । अण्डं संवृत्तम् इत्यर्थः । आण्डमिति छान्दसः दीर्घः । तत्संवत्सरस्य मात्रामशयत । संवत्सरस्य – कालस्य मात्रां परिमाणम् एकरूपतया अशयत – स्थितं बभूव इत्यर्थः । तन्निरभिद्यत । संवत्सरकालात् ऊर्ध्वं तदण्डं निर्भिन्नम् अभवत् । ते आण्डकपाले इत्यादि । ते आण्डकपाले – अण्डकपाले रजतञ्च सुवर्णश्च एकैकम् अभवताम् इत्यर्थः ।।
तद् यद्रजतँ सेयं पृथिवी । यत् सुवर्णं सा द्यौः । यज्जरायु ते पर्वताः । यदुल्बँ
स मेघो नीहारः । या धमनयस्ता नद्यः । यद्वास्तेयमुदकँ स समुद्रः ।। २ ।।
प्र. –तद्यद्रजतं सेयं पृथिवी । यद्रजतमयं कपालं, तत्पृथिव्याधुपलक्षितम् अधोऽण्डकपालम् इत्यर्थः । यत्सुवर्णं सा द्यौः । सुवर्णमयं कपालं धुलोकोपलक्षितम् ऊर्ध्व’कपालम् । यज्जरायु ते पर्वताः । जरायु – गर्भपरिवेष्टनम्, अण्डस्य शकलीभावदशायां याः स्थूलगर्भपरिवेष्टनसिराः – ते पर्वता बभूवुः इत्यर्थः । यदुल्बं स मेघो नीहारः । यदुल्बम् – सूक्ष्मं गर्भपरिवेष्टनं । तत् मेघसहितं हिमम् । या धमनयस्ता नद्यः धमनयः सिराः इत्यर्थः । यद्वास्तेयमुदकं स समुद्रः । वस्तौ भवं वास्तेयम् ।।
अथ यत्तदजायत, सोऽसावादित्यः । तं जायमानं घोषा उलुलवोऽनू दतिष्ठन् ; सर्वाणि च भूतानिः, सर्वे च कामाः । तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति घोषा उलूलवोऽनुत्तिष्ठन्ति, सर्वाणि च भूतानि, ‘सर्वे चैव‘कामाः ॥३॥
प्र.-अथ यत्तदजायत, सोऽसावादित्यः । तस्मिन् अण्डे गर्भरूपं यदजायत स आदित्यः इत्यर्थः । तं जायमानं घोषा उलूलवोऽनूदतिष्ठन् सर्वाणि च भूतानि सर्वे च कामाः । तं – आदित्यं जायमानम् अनु उलूलव:‘ – उरूरवः उरूरवा: विस्तीर्णरवाः महाध्वनियुक्ताः । उलूलव इति छान्दसंं रूपम् । घोषाः-शब्दा: स्थावरजङ्गमानि भूतानि च, तेषां कामा: काम्यमानाः स्त्रीवस्त्रादयश्च उदतिष्ठन् – उत्थितवन्तः इत्यर्थः । सर्वस्य आदित्योदयानन्तरभावित्वात् इति भावः । तस्मात् तस्योदयं प्रति प्रत्यायनं प्रति इत्यादि । तस्मात् अद्यत्वेऽपि आदित्यस्य उदयं प्रति प्रत्यायनम् -अस्तमयञ्च प्रति, उरूरवाः शब्दाश्च, भूतानि च, कामाश्च उत्पद्यन्ते इत्यर्थ: ‘उदयास्तमयवेलायां पक्षिघोषादीनां दर्शनात् इति भावः ।।
[आदित्यब्रह्मोपासनस्य फलम् ]
स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते, अभ्याशो ह यदेनँ साधवो घोषा आ च गच्छेयुः, उप च निम्रेडेरन्, निम्रेडेरन् ।। ४ ।।
।। इति एकोनविंशः खण्डः ।।
।। इति तृतीयः प्रपाठकः समाप्तः ।।
प्र. – स य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्ते इत्यादि । हशब्दः प्रसिद्धौ । एतम् – आदित्यब्रह्मोपासकम्, अभ्याश: क्षिप्रम् । यत् ये इत्यर्थः । ये साधवः शोभनाः घोषाः ते उप – समीपे आगच्छेयुश्च । निम्रेडेरन् – सुखं च कुर्युः इत्यर्थः । ‘मृड सुखे च’ (धा.पा.१५-१७) इति हि धातुः; अन्तर्भावितण्यर्थः । निम्रेडेरन् निम्रेडेरन् इति द्विरुक्तिः अध्यायपरिसमाप्त्यर्था ।।
।। इति तृतीयप्रपाठकप्रकाशिका ।।
।। इति तृतीयप्रपाठकभाष्यम् ।।