छान्दोग्योपनिषत्
द्वितीयः प्रपाठकः
प्रथमः खण्डः
[समस्तसामोपासनम्]
ओम् , समस्तस्य खलु साम्न उपासनम् , साधु । यत् खलु साथ, तत्
सामेत्याचक्षते । यदसाधु, तदसामेति ।। १ ।।
प्र. –सामावयवोपासन प्राङ्निर्दिश्य समस्तस्य साम्न: उपासनं प्रस्तौति समस्तस्य……साधु । समस्तस्य – पाञ्चविध्ययुक्तस्य साप्तविध्ययुक्तस्य वा समस्तस्य साम्न: साधुत्वेन उपासनं कार्यम् इत्यर्थः । तत्रोपपत्तिमाह – यत्……असामेति साध्वसाधुकर्मणी सामासामत्वेन व्यवहरन्ति इत्यर्थः ।।
तदुताप्याहुः, साम्नैनमुपागादिति, साधुनैनमुपागादित्येव तदाहुः । असाम्नैनमुपागादिति, असाधुनैनमुपागादित्येव तदाहुः ।। २ ।।
प्र. – तदुताप्याहुः । तत् – तस्मिन्वषये अन्यदप्याहुः । किं तदित्यत्राह – साम्ना तदाहुः इत्यादि । सामासामोपायाभ्यामागतं प्रत्यर्थिनं साध्वसाधुभ्यामागतं व्यवहरन्ति इत्यर्थः ।।
अथोताप्याहुः, साम नो बतेति, यत्साधु भवति । साधु बतेत्येव तदाहुः असाम नो बतेति, यदसाधु भवति असाधु बतेत्येव तदाहुः ।। ३ ।।
प्र. –अथोताप्याहुः । अस्मिन्नेवार्थे जनाः अन्यदप्याहुः इत्यर्थः । साम……भवति। यत्कर्म साधु भवति, तत् नः अस्माकं साम बतेति सानुमोदाः ‘प्रवदन्ति लोका: । साधु…. तदाहुः । साम नो बत इत्युक्त एवंविषये, साधु बतेति लोकाः प्रवदन्ति । ततः सामसाधुशब्दौ एकत्र प्रयुज्यमानौ दृश्येते इत्यर्थः । एवमुत्तरत्रापि । अतः सामसाधुशब्दयोः एकार्थप्रयोगात् समस्तस्य साम्नः साधुत्वेन उपासनं कर्तव्यम् इत्यर्थः ।।
[समस्तसामोपसनस्य फलम्]
स य एतदेवं विद्वान् साधु सामेत्युपास्ते, अभ्याशो ह यदेनँ साधवो धर्माः आगच्छेयुः, उप च नमेयुः ।। ४ ।।
।। इति प्रथमः खण्डः ।।
प्र. – स य…… नमेयुः । एवं साधुत्वेन समस्तसामोपासकं ह – प्रसिद्धं अभ्याशः क्षिप्रं साधुधर्माः सर्वे आगच्छेयुश्च, भोग्यत्वेन उपनताश्च भवेयुः इत्यर्थः ‘रमणीयचरणा अभ्याशो ह’ (छां.उ.५-१०-७) इत्यत्र अभ्याशः अभ्यागन्तारः इति व्यासार्यै: व्याख्यातत्वात् इहापि अभ्याश: – आगन्तारः साधवो धर्माः अभ्यागमनयोग्याः साधवः धर्माः अभ्यागच्छेयुः इति वार्थ: । उपनमेयुश्च – भोग्यतां भजेयुः इत्यर्थः ।।
।।इति प्रथमखण्डभाष्यम्।।
द्वितीयः खण्डः
[पञ्चविधसाम्नि लोकादिदृष्टिप्रकाराः]
लोकेषु पञ्चविधँ सामोपासीत । पृथिवी हिङ्कारः । अग्निः प्रस्तावोऽन्तरिक्षमुद्गीथः आदित्यः प्रतिहारो, द्यौर्निधनमित्यूर्ध्वेषु ।। १ ।।
प्र. लोकेषु पञ्चविधं सामोपासीत । हिङ्कार प्रस्तावोद्गीथप्रतिहारनिधन-लक्षणपाञ्चविध्ययुक्तं क्रत्वङ्गभूतं सामोपासीत । पञ्चविधसामकर्मकमुपासनं लोकेषु लोकविषयकं कुर्यात् इत्यर्थः । ‘आदित्यादिमतयश्चाङ्ग उपपत्तेः’ (ब्र.सू.४-१-६) इत्यधिकरणे अङ्गानङ्गसमभिव्याहारयुक्तोपासनेषु अङ्गेषु अनङ्गदृष्टिरूपत्वस्य समर्थितत्वात् अङ्गभूते साम्नि अनङ्गलोकदृष्टिः कर्तव्या इत्यर्थः । तत्प्रकारमेव दर्शयति । पृथिवी…… इत्यूर्ध्वेषु । हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनेषु क्रमेण पृथिव्यग्र्यन्तरिक्षादित्य धुलोकदृष्टिरूर्ध्वक्रमेण कर्तव्या ‘इत्यर्थः ।।
अथावृत्तेषु – ध्यौहिङ्कारः, आदित्यः प्रस्तावः, अन्तरिक्षमुद्गीथः, अग्नि: प्रतिहारः, पृथिवी निधनम् ।। २ ।।
प्र. – तथा, अथावृत्तेषु……निधनम् । आवृत्तक्रमेण तेष्वेव द्युलोका-दित्यान्तरिक्षाग्निपृथिवीदृष्टिः कर्तव्या इत्यर्थः ।।
कल्पन्ते हास्मै लोका ऊर्ध्वाश्चा वृत्ताश्च, य एतदेवंविद्वाँल्लोकेषु पञ्चविधँ सामोपास्ते ।। ३ ।।
।। इति द्वितीयः खण्डः ।।
प्र. – तत्फलमाह – कल्पन्ते हास्मै इत्यादि । अस्मै – अस्य लोकाः कल्पन्ते । उपासकभोगनिष्पादनसमर्थाः भवन्ति इत्यर्थः । एतादृशोपासनस्य फलमाह कल्पन्ते इत्यादि । अतिरोहितार्थमिदं प्रकरणम् ।।
।। इति द्वितीयखण्डभाष्यम् ।।
तृतीयः खण्डः
[वृष्टिदृष्ट्या सामोपासनम्]
वृष्टौ पञ्चविधँ सामोपासीत – पुरोवातो हिंकारो मेघो जायते स प्रस्तावो वर्षति स उद्गीथो विद्योतते स्तनयति स प्रतिहारः उद्गृह्णाति तन्निधनम् ।। १ ।।
प्र. – वृष्टौ……उपासीत । पूर्ववदेव अत्र पञ्चविधे साम्नि वृष्टिदृष्टिः कर्तव्या इत्यर्थः । पुरोवातः……तन्निधनम् । उद्ग्रहणम् – जलस्य उद्ग्रहणं, वर्षसमाप्तिः । शिष्टं स्पष्टम् ।।
[तस्य फलम्]
वर्षति हास्मै, वर्षयति ह, य एतदेवं विद्वान् वृष्टौ पञ्चविधँ सामोपास्तै ।।२।।
।। इति तृतीयः खण्डः ।।
प्र. – वर्षति हास्मै । इच्छतः इति शेषः । अस्य इच्छायां सत्यां वर्षतीति यावत् । वर्षयति……उपास्ते । अद्यापि यः एवमुपास्ते, स इच्छायां सत्यां वर्षयति – वर्ष कारयति इत्यर्थः ।।
॥ इति तृतीयखण्डभाष्यम् ।।
चतुर्थः खण्डः
[अप्सु पञ्चविधसामोपासनम्]
सर्वास्वप्सु पञ्चविधँ सामोपासीत – मेघो यत्संप्लवते स हिंकारो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीथो याः प्रतीच्यः स प्रतिहारः समुद्रो निधनम् ।।१।।
प्र. – सर्वासु……उपासीत । पूर्ववदर्थः । मेघो हिंकारः । सम्प्लवनं – सञ्चारः । या:…..उद्गीथः । स्यन्दन्ते, आप इति शेषः । याः प्रतीच्यः स प्रतिहारः । प्रतीच्यः स्यन्दन्ते, आप इति शेषः । शिष्टं स्पष्टम् ।।
[तस्य फलम्]
न हाप्सु प्रैति । अप्सुमान् भवति, य एतदेवं विद्वान् सर्वास्वप्सु पञ्चविधँ सामोपास्ते ।। २ ।।
।। इति चतुर्थः खण्डः ।।
प्र. – न हाप्सु प्रैति । न प्रैति न म्रियते इत्यर्थः । अप्सुमान् भवति प्रभूतोदकसम्पन्नो भवति इत्यर्थः । ‘अपो योनियन्मतुषु’ (वा.३८७६) इत्यलुक् । शिष्टं स्पष्टम् ।।
।। इति चतुर्थखण्डभाष्यम् ।।
पञ्चमः खण्डः
[ऋतुषु पञ्चविधसामोपासनम्]
ऋतुषु पञ्चविधँ सामोपासीत । वसन्तो हिङ्कारो, ग्रीष्मः प्रस्तावो, वर्षा उद्गीथः, शरत् प्रतिहारो, हेमन्तो निधनम् ।। १ ।।
प्र.-ऋतुषु पञ्चविधँ सामोपासीत इत्यादि । स्पष्टम् ।।
[तस्य फलम्]
कल्पन्ते हास्मा ऋतवः, ऋतुमान् भवति, य एतदेवं विद्वान् ऋतुषु पञ्चविधँ सामोपास्ते ।। २ ।।
।। इति पञ्चमः खण्डः ।।
प्र. – कल्पन्ते हास्मा ऋतवः । कल्पन्ते – उपासकस्य भोग्यनिष्पादनसमर्थाः भवन्ति इत्यर्थः । ऋतुमान् भवति । वसन्तादिऋतुफलभोगशाली भवति इत्यर्थः । शिष्टं स्पष्टम् ।।
।। इति पञ्चमखण्डभाष्यम् ।।
षष्ठः खण्डः
[पशुषु पञ्चविधसामोपासनम्]
पशुषु पञ्चविधँ सामोपासीत – अजा हिङ्कारः‘, अवयः प्रस्तावः, गावः उद्गीथः, अश्वाः प्रतिहारः, पुरुषो निधनम् ।। १ ।।
प्र.-पशुषु पञ्चविधँ सामोपासीत इत्यादि । स्पष्टम् ।।
[तस्य फलम्]
भवन्ति हास्य पशवः, पशुमान् भवति, य एतदेवं विद्वान् पशुषु पञ्चविधँ सामोपास्ते ।। २ ।।
।। इति षष्ठः खण्डः ।।
प्र. –भवन्ति हास्य पशवः । अस्योपासकस्य भोगसम्पादनक्षमाः भवन्ति इत्यर्थः । पशुमान् भवति प्रभूतपशुमान् भवति इत्यर्थः । अयम् उपासकः इति शेषः । शिष्टं स्पष्टम् ।।
।। इति षष्ठखण्डभाष्यम् ।।
सप्तमः खण्ड:
[प्राणेषु पञ्चविधसामोपासनम्]
प्राणेषु पञ्चविधँ परोवरीयः सामोपासीत । प्राणो‘ हिङ्कारो, वाक्प्रस्ताव: चक्षरुद्गीथः श्रोत्रं प्रतिहारो, मनो निधनं, परोवरीयांसि वा एतानि ।। १ ।।
प्र. –प्राणेषु……उपासीत । वरीयस्त्वं – ज्येष्ठत्वम् परस्त्वम् – श्रेष्ठत्वम् । परस्त्वे सति वरीयस्त्वं परोवरीयस्त्वम् । परश्शब्दः सान्तः । परोवरीयस्त्वगुणकप्राणदृष्ट्या पञ्चविधसामोपासनं कर्तव्यम् इत्यर्थः । तदेवाह – प्राणो……एतानि । एतानि प्राणादीनि परोवरीयांसि – परोवरीयस्त्वगुणकानि इत्यर्थः ।।
|तस्य फलम्]
परोवरीयो हास्य भवति । परोवरीयसो ह लोकाञ्जयति, य एतदेवं–विद्वान्प्राणेषु पञ्चविधं परोवरीयः सामोपास्ते । इति तु पञ्चविधस्य ।। २ ।।
।। इति सप्तमः खण्डः ।।
प्र. – परोवरीयो हास्य भवति– उपासकस्यास्य जीवनं श्रेष्ठं भवति इत्यर्थः । इति तु पञ्चविधस्य साम्न: उपासनमुक्तं भवति इत्यर्थः । शिष्टं स्पष्टम् ।।
।। इति सप्तमखण्डभाष्यम् ।।
अष्टमः खण्डः
[वाचि सप्तविधसामोपासनम्]
अथ सप्तविधस्य – वाचि सप्तविधँ सामोपासीत – यत्किञ्च वाचो हिमिति स हिङ्कारो, यत्प्रेति स प्रस्तावो, यदेति स आदिः ।। १ ।।
प्र. – अथ सप्तविधस्य । सप्तविधस्य साम्नः उपासनं प्रस्तूयते इत्यर्थः । वाचि…..उपासीत । वाचि हिङ्कारप्रस्तावोङ्कारोद्गीथप्रतिहारोपद्रवनिधनाख्यसप्तविधायुक्ते साम्नि वक्ष्यमाणप्रकारेण वाक्छब्दितशब्ददृष्टिः कर्तव्या इत्यर्थः । यत्किञ्च हिङ्कारः । वाचः . शब्दस्य अवयवभूतः हिमिति यः शब्दः, स हिङ्कारः । हिङ्कारस्य हिंशब्दवत्त्वसादृश्यात् । ततश्च हिङ्कारे, लोके हिंशब्दा यावन्तः तद्बुद्धिः कर्तव्या इत्यर्थः । एवमुत्तरत्रापि । यत्प्रेति……..आदिः । प्रस्तावे’सर्व’ प्रशब्दत्वबुद्धिः, कर्तव्या । उद्गीथस्य आद्यवयवभूते ओङ्कारे ‘अ’ इति शब्दबुद्धिः कर्तव्या इत्यर्थः ।।
यदुदिति स उद्गीथो, यत् प्रतीति स प्रतिहारो, यदुपेति स उपद्रवो, यन्नीति तन्निधनम् ।। २ ।।
प्र. – यदुदिति स उद्गीथः इत्यादि । स्पष्टम् ।।
[उपासनाफलम्]
दुग्धेऽस्मै वाग् दोहं यो वाचो दोहः, अन्नवानन्नादो भवति, य एतदेवं विद्वान् वाचि सप्तविधँ सामोपास्ते ।। ३ ।।
।। इति अष्टमः खण्डः ।।
प्र. – उपासनाफलमाह दुग्धे……भवति । वाक्सम्बन्धी यो दोहोऽस्ति, वाक्साध्यं यत्फलम् इत्यर्थः । तत्फलं उपास्यमाना वाक् अस्मै उपासकाय दुग्धे प्रयच्छति इत्यर्थः । शिष्टं स्पष्टम् ।।
।। इति अष्टमखण्डभाष्यम् ।।
नवमः खण्डः
[सप्तविधे साम्नि आदित्यदृष्टिः]
अथ खल्वमुमादित्यँ सप्तविधं सामोपासीत – सर्वदा समः, तेन साम, मां प्रति मां प्रतीति सर्वेण समः, तेन साम ।। १ ।।
प्र. –अथ……उपासीत । सप्तविधे साम्नि आदित्यबुद्धिः कर्तव्या इत्यर्थः । सामादित्ययोः ऐक्याध्यासहेतुमाह – सर्वदा सम: तेन साम । आदित्यस्य सर्वदा समपरिमाणत्वेन समत्वात् सामत्वम् इत्यर्थः । मां……साम । लोके हि, ‘आदित्यो मां प्रति सम: अभिमुखः, मां प्रति समः’ इतिः प्रतीयते । पुरुषविशेषं प्रति आभिमुख्यस्य पुरुषविशेषं प्रति अनाभिमुख्यस्य वा अभावात् । अतः सर्वं प्रति समत्वादपि सामत्वम् इत्यर्थः ।।
तस्मिन्निमानि सर्वाणि भूतान्यन्वायत्ताानीति विद्यात् । तस्य यत्पुरोदयात् स हिङ्कारः । तदस्य पशवोऽन्वायत्ताः । तस्मात्ते हिङ् कुर्वन्ति ; हिङ्कारभाजिनो ह्येतस्य साम्नः ।। २ ।।
प्र. – तस्मिन्…..विद्यात् । तस्मिन् – आदित्ये । सर्वभूतोपजीव्यतया आदित्यम् उपासीत इत्यर्थः । भूतानाम् उपजीवनप्रकारं कालभेदेन दर्शयति । तस्य….साम्नः । तस्य–आदित्यस्य उदयात् पुरा – पूर्वं यद्रूपं, स हिङ्कारः । हिङ्कारे तद्रूपदृष्टिः कर्तव्या इत्यर्थः । एवमग्रेऽपि । अस्य आदित्यस्य हिङ्काराख्यं तत् रूपं पशवः अन्वायत्ता: – उपजीवन्ति । हि – यतः एव ते एतस्य साम्नः–सामरूपस्य आदित्यस्य सम्बन्धिहिंकारलक्षणरूपोपजीविनः । तस्मात्ते हिङ् कुर्वन्ति । अत एव पशवो हिमिति शब्दं कुवन्ति इत्यर्थः ।।
[प्रस्तावलक्षणम्]
अथ यत् प्रथमोदिते स प्रस्तावः । तदस्य मनुष्या अन्वायत्ताः, तस्मात्ते प्रस्तुतिकामाः प्रशँसाकामाः; प्रस्तावभाजिनो ह्येतस्य साम्नः ।। ३ ।।
प्र– अथ यत् प्रथमोदिते इत्यादि । प्रथमोदिते -प्रथमोदयकाले प्रथमोदयकालावच्छिन्नः आदित्यः प्रस्तावः । अस्य तथाविधं रूपं मनुष्याः उपजीवन्ति यतस्ते प्रस्तावाख्यप्रथमोदितादित्यरूपोपजीविनः, अत एव मनुष्याः प्रस्तुतिकामा: भवन्ति । प्रस्तुतिकामाः इत्यस्य विवरणं प्रशंसाकामाः इति ।।
[आदित्यसाम्न: आदिः]
अथ यत् सङ्गववेलायाँ स आदिः । तदस्य वयाँस्यन्वायत्तानि । तस्मात् तान्यन्तरिक्षेऽनारम्बणान्यादायात्मानं परिपतन्ति ; आदिभाजीनि ह्येतस्य साम्न: ।। ४ ।।
प्र. –अथ यत् सङ्गववेलायाम् इत्यादि । तानि वयांसि पक्षिणः अनारम्बणानि – आलम्बनान्तरशून्यान्येव आत्मानमेव आलम्बनत्वेन आदाय आकाशे परिपतन्ति । सङ्गवकालादित्यसम्बन्ध्यादिशब्दितोङ्काररूपोपजीवित्वादेव आदाय ‘परिपतनं पक्षिणाम् इत्यर्थः । आदिशब्दादायशब्दयोः आकारदकारवत्त्वसाम्यम् इहाभिप्रेतम् ।।
[आदित्यसाम–उद्गीथः]
अथ यत् सम्प्रति मध्यन्दिने स उद्गीथः । तदस्य देवा अन्वायत्ताः । तस्मात्ते सत्तमाः प्राजापत्यानाम् । उद्गीथभाजिनो ह्येतस्य साम्नः ।। ५ ।।
प्र. – अथ यत् सम्प्रति मध्यन्दिने स उद्गीथः इत्यादि । सम्प्रति मध्यन्दिने ऋजुमध्यन्दिने इत्यर्थः । प्राजापत्यानां – ‘देवासुराणां मध्ये ते सत्तमा – उत्तमाः इत्यर्थः । उद्गीथसत्तमशब्दयोः संयुक्ततकारश्रुतिमत्त्वसाम्यात् उपजीव्योपजीवकभावोक्तिः द्रष्टव्या ।।
(प्रतिहारलाणम्।
अथ यदुर्ध्वं मध्यन्धिनात् प्रागपराह्णात् । स प्रतिहार । तपस्य गर्भा अन्वायत्ता: । तस्मात्ते प्रतिहृता नावपद्यन्ते, प्रतिहारभाजिनो ह्येतस्य साम्न: ।।
प्र–अथ यदुर्ध्वं मध्यन्धिनात् प्रागपराह्णात् । स प्रतिहार: इत्यादि । सवितुः प्रतिहारभक्तिरूपोपजीवित्वादेव ऊर्ध्वं प्रतिहताः सन्तः गर्भाः नावपद्यन्ते–द्वारे सत्यपि नाध: पतन्ति इत्यर्थः ।।
[उपद्रवलक्षणम्।
अथ यदूर्ध्वमपराह्णात् प्रागस्तमयात् , स उपद्रवः । तदस्यारण्याः अन्वायत्ताः । तस्मात्ते पुरुष दृष्ट्वा कक्षँ श्वभ्रमित्युपद्रवन्ति । उपद्रवभाजिनो ह्येतस्य साम्न: ।। ७ ।।
प्र.-अथ उपद्रवः इत्यादि । आदित्यसम्बन्ध्युपद्रवभक्त्युपजीवित्वात् एव पुरुषदर्शनभीतानां आरण्यानां कक्षश्वभ्रादिषु उपद्रवणम् इत्यर्थः ।।
[निधनलक्षणम्]
अथ यत्प्रथमास्तमिते, तन्निधनम् । तदस्य पितरोऽन्वायत्ताः । तस्मात्तान्निदधति ; निधनभाजिनः ह्येतस्य साम्नः । एवं खल्वमुमादित्यँ सप्तविधँ सामोपास्ते ।। ८ ।।
।। इति नवमः खण्डः ।।
प्र–अथ……साम्नः । श्राद्धकर्तारो हि दर्भेषु पितॄन् निक्षिपन्ति, तदर्थान् पिण्डान् वा इत्यर्थः । निधनभाजिनः हि – निधनोपजीवित्वात् पितॄणां दर्भेषु निधनं प्राप्तवन्तः । उक्तमुपासनम् उपसंहरति ह्येवं……उपास्ते ।।
॥ इति नवमखण्डभाष्यम् ।।
दशमः खण्डः
[सप्तविधे साम्नि आत्मसंमितत्वातिमृत्युत्वोपासनम् ]
अथ खल्वात्मसंमितमतिमृत्यु सप्तविधँ सामोपासीत, हिङ्कार इति त्र्यक्षरं प्रस्ताव इति त्र्यक्षरं तत् समम् ।।१।।
प्र. – अथ……उपासीत । अथ – अध्यस्तादित्यभावसप्तविधसामोपासनोपदेशानन्तरम् अतिक्रान्तादित्यसप्तविधसामोपासनम् उपदिश्यते इत्यर्थः । अत्र मृत्युशब्देन आदित्यः अभिधीयते । आदित्यस्य अहोरात्रकालावर्तनेन जगन्नाशहेतुत्वात् मृत्युत्वम् । आत्मसंमितम् – आत्मनां स्वेषाम् एषामेव त्र्यक्षरत्वेन परस्परसंमितत्वकथनात् आत्मसंमितत्वम् । द्वाविंशत्यक्षरात्मकस्य सप्तविधसामभक्तिविशेषस्य एकविंशति लक्षणादित्यसंख्यातिरेकित्वात् अतिमृत्युत्वम् । आत्मसम्मितत्वात् अतिमृत्युत्वप्रकारमेव दर्शयति । हिङ्कार इति……समम् । अतश्च एतयोः उभयोः समत्वादेव आवापोद्वापौ न कर्तव्यौ इत्यर्थः ।।
आदिरिति व्द्यक्षरं प्रतिहार इति चतुरक्षरं तत इहेकं तत् समम् ।। २ ।।
प्र. – आदिरिति……तत्समम् । चतुरक्षरात् एकमक्षरं गृहीत्वा व्द्ययक्षरे निवेशिते समं भवति इत्यर्थः ।।
उद्गीथ इति त्र्यक्षरम् उपद्रव इति चतुरक्षरं त्रिभिस्त्रिभिः समं भवति, अक्षरमतिशिष्यते । त्र्यक्षरं तत्समम् ।। ३ ।।
प्र.-उद्गीथ इति……समम् । उपद्रवः इति चतुरक्षरे एकस्मिन् अक्षरे पृथक्कृते सति अवशिष्टं त्र्यक्षरं सममेव भवति इत्यर्थः ।।
निधनमिति त्र्यक्षरं तत्सममेव भवति । तानि ह वा एतानि द्वाविंशतिः अक्षराणि ।। ४ ।।
प्र.-निधनमिति त्र्यक्षरं तत्सममेव भवति । उपसंहरति । तानि अक्षराणि ।
स्पष्टोऽर्थः ।।
एकविंशत्यादित्यमाप्नोति एकविंशो वा इतोऽसावादित्यः । द्वाविंशेन परमादित्याज्जयति । तन्नाकं तद्विशोकम् ।। ५ ।।
प्र.-एकविंशत्या……आदित्यः । ‘द्वादशमासाः पञ्चर्तवः त्रय इमे लोकाः असावादित्य एकविंशः’ (ऐ.ब्रा.४-५, तां.ब्रा.१०-१-१०) इति श्रुतेः यतः आदित्यस्य एकविंशत्वं, अतः सप्तविधभक्तिनामाक्षरगतैकविंशतिसंख्यया एकविंशतिसंख्याकम् आदित्यं प्राप्नोति । आदित्यसालोक्यं प्राप्नोति इत्यर्थः । द्वाविंशेन……तद्विशोकम् । अवशिष्टेन द्वाविंशेन अक्षरेण आदित्यात् परं दुःखासम्भिन्नं लोकं प्राप्नाति इत्यर्थः ।।
आप्नोतीहादित्यस्य जयम् ; परो हास्यादित्यजयाज्जयो भवति । य एतदेवं विद्वान् आत्मसंमितमतिमृत्यु सप्तविधँ सामोपास्ते सामोपास्ते ।। ६ ।।
॥ इति दशमः खण्डः ।।
प्र.आप्नोतीहादित्यस्य जयम् इति । इह – लोके आदित्यजयं प्राप्नोति इत्यर्थः । परो हास्य विद्वान् इत्यादि । य एवमुपास्ते तस्य आदित्यजयात् सर्वोत्कर्षो भवति इत्यर्थः ।।
।। इति दशमखण्डभाष्यम् ।।
एकादशः खण्डः
[प्राणेषु गायत्रसामोपासनम्]
मनो हिङ्कारो, बाक् प्रस्तावः, चक्षुरुद्गीथः, श्रोत्रं प्रतिहारः, प्राणो निधनम् । एतद् गायत्रं प्राणेषु प्रोतम् ।। १ ।।
प्र–अथ गायत्ररथन्तरादिसामोपासनं प्रस्तूयते – मनो……निधनम् इति गायत्राख्यस्य साम्न: हिङ्कारप्रस्तावोद्गीथप्रतिहारनिधनाख्यपञ्चविधभक्तिषु मनो वाक्चक्षुश्श्रोत्रप्राणदृष्टिः कर्तव्या इत्यर्थः । एतद्गायत्रं प्राणेषु प्रोतम् । अनेन आकारेण गायत्राख्यस्य साम्रः मन आदि प्राणानां च अध्यासाधिष्ठानभावलक्षणसम्बन्धेन परस्परसम्बद्धम् इत्यर्थः ।।
[तस्य फलम्]
स य एवमेतद्गायत्रं प्राणेषु प्रोतं वेद, प्राणी भवति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान्कीर्त्या । महामनाः स्यात् , तद्व्रतम् ॥ २ ॥
।। इति एकादशः खण्डः ।।
प्र.-तत्फलमाह स य……..वेद इत्यादि । प्राणी भवति – अविकलेन्द्रियो भवति इत्यर्थः । ज्योक् – उज्वलः, व्याध्यादिभिः अनुपहतः इत्यर्थः । महामनाः स्यात् – वदान्यमनस्को भवेत् इत्यर्थः तद्व्रतम् – महामनस्कत्वम् एतदुपासनाङ्गम् इत्यर्थः । एवमग्रेऽपि नेयम् । शिष्टं स्पष्टम् ।।
।। इति एकादशखण्डभाष्यम् ।।
द्वादशः खण्डः
[रथन्तरसामः उपासनम्]
अभिमन्थति स हिङ्कारः धूमो जायते स प्रस्तावः, ज्वलति स उद्गीथः, अङ्गारा भवन्ति स प्रतिहारः, उपशाम्यति तन्निधनँ सँशाम्यति तन्निधनम् । तद्रथन्तरमग्नौ प्रोतम् ।। १ ।।
प्र.-अभिमन्थति इत्यादि । उपशम: – सावशेषः शमः । निःशेषोपशमः संशमः । एतद्रथन्तरं व्रतम् । अग्नेः अभिमुखो नाचामेत् न भक्षयेत् । न निष्ठीवेत् श्लेष्मादिनिरसनं च न कुर्यात् इत्यर्थः ।
स, य एतदेवं रथन्तरमग्नौ प्रोतं वेद, ब्रह्मवर्चस्यन्नादो भवति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान्कीर्त्या । न प्रत्यङ्डग्निमाचामेन्न निष्ठीवेत् । तद्व्रतम् ।। २ ।।
।। इति द्वादशः खण्डः ।।
प्र. – स य वेद इत्यादि । अग्नेरभिमुखो’ नाचामेत् – न भक्षयेत् । न निष्ठीवेत् – श्लेष्मादिनिरसनञ्च न कुर्यादित्यर्थः ।।
।। इति द्वादशखण्डभाष्यम् ।।
त्रयोदशः खण्डः
[मिथुने वामदेव्योपासनम्]
उपमन्त्रयते स हिङ्कारः, ज्ञपयते स प्रस्तावः, स्त्रिया सह शेते स उद्गीथः, प्रतिर्स्त्री सह शेते स प्रतिहारः, कालं गच्छति तन्निधनम् , पारं गच्छति तन्निधनम् । एतद्वामदेव्यं मिथुने प्रोतम् ।। १ ।।
प्र. –उपमन्त्रयते स हिङ्कारः । उपमन्त्रणं – संकेतकरणम् । ज्ञपयते स प्रस्तावः । ज्ञपनं – तोषणम् । मरणतोषणानिशामनेषु मित्वात् ज्ञा धातोर्हस्वः । स्त्रिया सह शेते स उद्गीथः । एकपर्यङ्कोपवेशनं सहशयनम् । प्रतिस्त्री सह शेते स प्रतिहारः । स्त्रिया आभिमुख्येन शयनम् इत्यर्थः । कालं……निधनम् । मैथुननिवृत्तिः इत्यर्थः ।।
[वामदेव्योपासनस्य फलम्]
स य एवमेतद् वामदेव्यं मिथुने प्रोतं वेद, मिथुनीभवति, मिथुनात् मिथुनात् प्रजायते, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । न काञ्चन परिहरेत् , तद्व्रतम् ।। २ ।।
।। इति त्रयोदशः खण्डः ।।
प्र. फलमाह….स य……वेद इत्यादि । मिथुनी भवति । सर्वदा स्त्रिया अवियुक्तो भवति इत्यर्थः । मिथुनान्मिथुनात्प्रजायते । अमोघरेताः भवति इत्यर्थः । न काञ्चन परिहरेत् तद्व्रतम् । काञ्चन स्त्रियं प्रार्थयमानाम् इति शेषः । प्रार्थयमानसर्वयोषिद्गमनस्य वामदेव्योपासनाङ्गत्वेन विधानात् परदारगमनप्रतिषेधकवचनानि तदतिरिक्तविषयाणि द्रष्टव्यानि ।।
चतुर्दशः खण्डः
[आदित्ये बृहत्सामोपासनम्]
उद्यन् हिङ्कारः, उदितः प्रस्ताव: मध्यन्दिन उद्गीथः, अपराह्णः प्रतिहारः, अस्तं यन्निधनम् । एतद्वृहदादित्ये प्रोतम् ।। १ ।।
–
प्र–उद्यन् हिङ्कारः उदितः प्रस्तावः इत्यादि । आदित्य इति शेषः । मध्यन्दिन उद्गीथः । मध्यन्दिनकालावच्छिन्नः आदित्यः उद्गीथः इत्यर्थः । अपराह्णः प्रतिहारः । अपराहकालावच्छिन्नः आदित्यः प्रतिहारः इत्यर्थः । अस्तं यन्निधनम् । यन् – गच्छम् इत्यर्थः ।।
स य एवमेतद्वृहदादित्ये प्रोतं वेद, तेजस्व्यन्नादो भवति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या, तपन्तं न निन्देत् । तद्व्रतम् ।। २ ।।
।। इति चतुर्दशः खण्डः ।।
प्र–स य एवमेतद्वृहदादित्ये प्रोतं वेद इत्यादि । तपन्तं न निन्देत् तद्व्रतम् । तपन्तम् आदित्यं न निन्देत् इत्यर्थः ।।
।। इति चतुर्दशखण्डभाष्यम् ।।
पञ्चदशः खण्डः
[पर्जन्येवैरूप्यसामोपासनम्]
अभ्राणि संप्लवन्ते स हिङ्कारः, मेघो जायते स प्रस्तावः, वर्षति स उद्गीथः, विद्योतते स्तनयति स प्रतिहारः, उद्गृह्णाति तन्निधनम् । एतद् वैरूपं पर्जन्ये प्रोतम् ।। १ ।।
प्र. – अभ्राणि सम्प्लवन्ते स हिङ्कारः । अभ्राणि – जलधारकत्वमात्रावस्थापन्नानि। संप्लवः-सञ्चारः । मेघो जायते । मेघः सेचकत्वावस्थापन्नः । उद्गृह्णाति उद्ग्रहणम् वर्षसमाप्तिः । एतद् वैरूपं पर्जन्ये प्रोतं । वैरूपं-वैरूपाख्यं साम इत्यर्थः ।
[तस्य फलम्]
स, य एवमेतद् वैरूप्यं पर्जन्ये प्रोतं वेद, विरूपाँश्च सुरूपाँश्च पशूनवरुन्धे, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । वर्षन्तं न निन्देत् । तद्व्रतम् ।। २ ।।
।। इति पञ्चदशः खण्डः ।।
प्र.-स य अवरुन्धे । विरूपान् – ‘विविधरूपान्’ सुरूपान् – शोभनरूपान् अवरुन्धे – प्राप्नोति इत्यर्थः । वर्षन्तं न निन्देत् तद्व्रतम् । वर्षन्तं – पर्जन्यम् इत्यर्थः ।।
।। इति पञ्चर्दशखण्डभाष्यम् ।।
षोडशः खण्डः
[वैराजसाम्नः उपासनम्]
वसन्तो हिङ्कारः, ग्रीष्मः प्रस्तावः, वर्षा उद्गीथः, शरत् प्रतिहारः, हेमन्तो निधनम् । एतद् वैराजमृतुषु प्रोतम् ।।१।।
स य एवमेतद् वैराजमृतुषु प्रोतं वेद, विराजति प्रजया पशुभिर्ब्रह्मवर्चसेन, सर्वमायुरेति, ज्योग्जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या ऋतून् न निन्देत् , तत् व्रतम् ।। २ ।।
।। इति षोडशः खण्डः ।।
प्र. – वसन्तो हिङ्कारः इत्यादि । स्पष्टम् । वैराजं – वैराजाख्यं साम इत्यर्थः ।।
।। इति षोडशखण्डभाष्यम् ।।
सप्तदशः खण्डः
[शक्करीसाम्न: उपासनम्]
पृथिवी हिङ्कारः, अन्तरिक्षं प्रस्तावः, द्यौरुद्गीथः, दिशः प्रतिहारः, समुद्रो निधनम् । एताः शक्कर्यो लोकेषु प्रोताः ।। १ ।।
प्र. – पृथिवी हिङ्कारः इत्यादि । स्पष्टम् । शक्कर्यः – शक्कर्याख्यं साम इत्यर्थः । ‘नित्य बहुवचनम् ।।
[शक्करीसाम्नः फलम्]
स य एवमेताः शक्वर्यो लोकेषु प्रोता वेद लोकीभवति, सर्वमायुरेति, ज्योग् जीवति महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । लोकान् निन्देत् , तद् व्रतम् ।। २ ।।
।। इति सप्तदशः खण्डः ।।
प्र–स य एवमेताः इत्यादि । लोकीभवति – उत्तमलोकप्राप्तो भवति इत्यर्थः । शिष्टं स्पष्टम् ।।
।। इति सप्तदशखण्डभाष्यम् ।।
अष्टादशः खण्डः
[पशुदृष्ट्या रेवतीसामोपासनम्]
अजा हिङ्कारः, अवयः प्रस्तावो गाव उद्गीथः, अश्वाः प्रतिहारः, पुरुषो निधनम् । एतारेवत्यः पशुषु प्रोता: ।। १ ।।
स, य एवमेता रेवत्यः पशुषु प्रोता वेद, पशुमान् भवति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । पशून् न निन्देत् । तद् व्रतम् ।। २ ।।
।। इति अष्टादशः खण्डः ।।
प्र.– अजा……पशुषु प्रोता: । रेवत्य: इत्यपि शक्कर्यः इतिवत् नित्यबहुवचनं, सामविशेषनाम ।।
।। इति अष्टादशखण्डभाष्यम् ।।
एकोनविंशः खण्डः
[अङ्गदृष्ट्या यज्ञायज्ञीयसामोपासनम्]
लोम हिङ्कारः, त्वक् प्रस्तावो, माँसमुद्गीथः, अस्थि प्रतिहारः, मज्जा निधनम् । एतद् यज्ञायज्ञीयमङ्गेषु प्रोतम् ।। १ ।।
स य एवमेतद् यज्ञायज्ञीयमङ्गेषु प्रोतं वेद, अङ्गीभवति । नाङ्गेन विहूर्च्छति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । संवत्सरं मज्जो नाश्नीयात् । तद् व्रतं, मज्जो नाश्नीयादिति वा ।। २ ।।
।। इति एकोनविशः खण्डः ।।
प्र.-लोमहिङ्कारस्त्वक्प्रस्ताव: इत्यादि । स्पष्टम् ।। स य एवमेतद्यज्ञायज्ञीयम् इत्यादि । अङ्गीभवति – समग्राङ्गयुक्तो भवति इत्यर्थः । नाङ्गेन विहूर्च्छति । अङ्गेन – हस्तपादादिना न विहूर्च्छति कुटिलो न भवति इत्यर्थः । ‘हुर्छा कौटिल्ये’ (धा.पा.२११) इति हि धातुः। संवत्सरं मज्जो नाश्नीयात् तद्वतम् । मज्ज:-मज्जाख्यं मांसविशेषान् इत्यर्थः । मज्जो नाश्नीयादिति वा । व्रतं । सर्वदा इति शेषः ।।
।। इति एकोनविंशखण्डभाष्यम् ।।
विंशः खण्डः
[राजनसामोपासनम्]
अग्निर्हिङ्कारो, वायुः प्रस्तावः, आदित्य उद्गीथः, नक्षत्राणि प्रतिहारः, चन्द्रमा निधनम् , एतद् राजनं देवतासु प्रोतम् ।। १ ।।
प्र. – अगिर्हिङ्कारः इत्यादि । स्पष्टम् । राजनं – राजनाख्यं साम इत्यर्थः ।।
[तस्य फलम्]
स, य एवमेतद् राजनं देवतासु प्रोतं वेद, एतासामेव देवतानाँ सलोकताँ सार्ष्टिताँ सायुज्यं गच्छति, सर्वमायुरेति, ज्योग् जीवति, महान् प्रजया पशुभिर्भवति, महान् कीर्त्या । ब्राह्मणान्न निन्देत् , तद् व्रतम् ।। २ ।।
।। इति विंशः खण्डः ।।
प्र.-स य एवमेतद्राजनम् इत्यादि । सार्ष्टिता – समानऋद्धित्वम् । सायुज्यं – समानभोग्यत्वम् । ब्राह्मणान् न निन्देत् तद्व्रतम् । एते वै देवाः प्रत्यक्षं यद्ब्राह्मणाः’ । इति श्रुतेः । ब्राह्मणनिन्दैव देवतानिन्दा इति भावः ।।
।। इति विंशखण्डभाष्यम् ।।
एकविंशः खण्डः
[त्रयीविद्यादिदृष्ट्या सामोपासनम् ]
त्रयी विद्या हिङ्कारस्त्रय इमे लोकास्स प्रस्तावोऽग्निर्वायुरादित्यस्स उद्गीथो नक्षत्राणि वयाँसि मरीचयस्स प्रतिहारः, सर्पा गन्धर्वाः, पितरस्तत्रिधनम् । एतत् साम सर्वस्मिन् प्रोतम् ।। १ ।।
प्र.-त्रयी विद्या हिङ्कारस्त्रय इमे लोकास्स: इत्यादि । स्पष्टम् । एतत् साम सर्वस्मिन् प्रोतम् । अत्र सामनामविशेषानिर्देशात् सामशब्दः सामसामान्यपरः ।।
[तस्य फलम्]
स य एवमेतत् साम सर्वस्मिन् प्रोतं वेद, सर्वँ ह भवति ।। २ ।।
प्र. – स य एवमेतत् साम सर्वस्मिन् प्रोतं वेद । तस्य सर्वं हि भवति । काम्यमानं सर्वम् आप्नोति इत्यर्थः ।।
[त्रयीविद्यादिस्तुतिः]
तदेष श्लोकः । यानि पञ्चधा त्रीणि त्रीणि तेभ्यो न ज्याय: परमन्यदस्ति ।।३।।
प्र.-तदेष श्लोकः । तत् – उक्ते सर्वात्मकसामोपासने एषः वक्ष्यमाणमन्त्रोऽप्यस्ति इत्यर्थः । तमेवाह – यानि……परमन्यदस्ति । त्रीणि त्रीणि – त्रयी विद्या हिङ्कारस्रय इमे लोका ‘इत्यादिना उक्तानि [त्रयीविद्या, लोकत्रयं, अग्निवाय्वादित्याः, नक्षत्रवयोमरीचयः, सर्पगन्धर्वपितरश्चेत्येतानि यानि त्रीणि हिङ्कारादिरूपेण पञ्चधा भवन्ति । अतः परं – उत्कृष्टं अन्यत् श्रेयः किमपि नास्ति इत्यर्थः ।।
यस्तद् वेद स वेद सर्वं सर्वा दिशो बलिमस्मै हरन्ति ।।
सर्वमस्मीत्युपासीत, तद् व्रतं तद् व्रतम् ।। ४ ।।
।। इति एकविंशः खण्डः ।।
प्र. – यस्तद्वेद स वेद सर्वं । एतदुपासकः सर्वज्ञो भवति इत्यर्थः । सर्वा……हरन्ति । सर्वदिग्वर्तिनोपि वशीकृताः अस्मै–उपासकाय उपहारान् समर्पयन्ति इत्यर्थः । सर्वमस्मीत्युपासीत । सामसामान्ये उक्तरीत्या ‘सर्वत्वाश्रयत्वेन स्वाभिन्नत्वेन च उपासना कर्तव्या इत्यर्थः । तद् व्रतं तद् व्रतम् । तस्य तदेव व्रतम् , नान्यद् ।व्रतमस्ति इत्यर्थः । द्विरुक्तिः सामोपासनसमाप्त्यर्था ।।
।। इति एकविंशखण्डभाष्यम् ।।
द्वाविंशः खण्डः
[गानविशेषोपदेशः]
विनर्दि साम्नो वृणे पशव्यमित्यग्नेरुद्गीथोऽनिरुक्तः प्रजापते: निरुक्तस्सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं बलवदिन्द्रस्य क्रौञ्चं बृहस्पतेरपध्वान्तं वरुणस्य तान् सर्वानेवोपसेवेत, वारुणं त्वेव वर्जयेत् ।। १ ।।
प्र– एवं सामोपासनं समाप्य गानविशेषान् उद्गातुरुपदिशति – विनर्दिसाम्नो वृणे पशव्यम् इति । विशिष्टो नर्दः स्वरविशेषः, ऋषभकूजितसमः सः अस्य अस्तीति विनर्दि । गानमिति वाक्यशेषः । साम्नः – सामसम्बन्धि । पशव्यं – पशुहितम् । ‘उगवादिभ्यो यत्’ (पा.सू.५-१-२) इति यत् । सामसम्बन्दिविनर्दिगानं वृणे–प्रार्थयेत पुरुषव्यत्ययश्छान्दसः । अग्नेरुद्गीथोऽनिरुक्तः । अग्निदेवत्यम् उद्गानं अनिरुक्तः . अस्पष्टं भवति । अस्पष्टो गानविशेषोऽग्निप्रीतिहेतुः भवति इत्यर्थः । प्रजापतेर्निरुक्तः । निरुक्तः – स्पष्टो गानविशेषः प्रजापतिदैवत्यः । प्रजापतिप्रीतिहेतुः इत्यर्थः । सोमस्य मृदु श्लक्ष्णं वायोः श्लक्ष्णं । स्पष्टम् । बलवदिन्द्रस्य । बलवत् – बलवत्प्रयत्रोपेतम् इत्यर्थः । क्रौञ्चं बृहस्पतेः । क्रौञ्चपक्षिनादसमं बार्हस्पत्यं गानम् इत्यर्थः । अपध्वान्तं वरुणस्य भिन्नकांस्यसमं वारुणगानमित्यर्थः तान् वर्जयेत् । अपध्वान्तगानव्यतिरिक्तान् सर्वान् उद्गीथान् उपसेवेत इत्यर्थः ।।
अमृतत्वं देवेभ्य आगायानीत्यागायेत् । स्वधां पितृभ्य आशां मनुष्येभ्यस्तृणोदकं पशुभ्यः, स्वर्गं लोकं यजमानाय, अन्नमात्मन आगायानीति । एतानि मनसा ध्यायन् अप्रमत्तः स्तुवीत ।। २ ।।
प्र. – अमृतत्वं……आगायेत् । अमृतत्वप्राप्तिम् आगायानि – गानेन साधयानि इति आगायेत् – गानं कुर्यात् इत्यर्थः । यथाप्रार्थनं फलं भवति इति भावः । स्वधां पितृभ्यः । आगायानि इति सर्वत्र सम्बन्धः । आशां मनुष्येभ्यः, तृणोदकं पशुभ्यः, स्वर्ग लोकं यजमानाय, अन्नमात्मने आगायानि इति आगायेत् इत्यर्थः । एतानि……स्तुवीत । एतानि – देवामृतत्वादीनि फलानि मनसा ध्यायन् स्वरादिषु अप्रमत्तस्सन् स्तोत्रं कुर्यात् इत्यर्थः ।।
सर्वे स्वरा इन्द्रस्यात्मानः, सर्व ऊष्माणः प्रजापतेरात्मानः, सर्वे स्पर्शा: मृत्योरात्मानः । तं यदि स्वरेषूपालभेत, इन्द्रं शरणं प्रपन्नोऽभूवम् । स त्वा प्रतिवक्ष्यतीत्येनं ब्रूयात् ।। ३ ।।
प्र.-सर्वे……आत्मनः । अच: स्वराः । आत्मानः–‘अवयवसदृशाः इत्यर्थः । श-ष-स-हाः ऊष्माणः । कादयो मावसानाः स्पर्शाः । तं यदि स्वरेषूपालभेत । एवंविधम् उद्गातारं यदि कश्चित् आगत्य ‘त्वया दुष्टः स्वरः प्रयुक्तः’ इत्युपालम्भं कुर्यात् इत्यर्थः । इन्द्रं ब्रूयात् । इन्द्रमहं शरणं गतः । तस्मात् इन्द्रः एव तव प्रत्युत्तरं दास्यति इति तदा तम् आक्षेप्तारं प्रति ब्रूयात् इत्यर्थः ।।
अथ यद्येनमूष्मसूपालभेत, प्रजापति शरणं प्रपन्नोऽभूवं, स त्वा प्रतिपेक्ष्यतीत्येनं ब्रूयात् । अथ यद्येनँ स्पर्शेषूपालभेत, मृत्युं शरणं प्रपन्नोऽभूवं, स त्वा प्रतिधक्ष्यतीत्येनं ब्रूयात् ।। ४ ।।
प्र– अथ यद्येनमूष्मसूपालभेत इत्यादि । पूर्ववत् उक्तार्थम् । स त्वा प्रति पेक्ष्यतीत्येनं ब्रूयात् । त्वा प्रति – त्वां प्रति पेक्ष्यति – चूर्णयिष्यति इत्यर्थः । ‘पिष्ल् सञ्चूर्णने’ (धा.पा.१४५६) इति हि धातुः । स त्वा प्रति धक्ष्यतीत्येनं ब्रूयात् । वक्ष्यति भस्मीकरिष्यति इत्यर्थः । ‘दह भस्मीकरणे’ (धा.पा.९९१) इति हि धातुः ।।
सर्वे स्वरा घोषवन्तो बलवन्तो वक्तव्याः, इन्द्रे बलं दधानीति । सर्वे ऊष्माणोऽग्रस्ता अनिरस्ता विवृता वक्तव्याः, प्रजापतेरात्मानं परिददानीति । सर्वे स्पर्शा लेशेनानभिनिहिता वक्तव्याः, मृत्योरात्मानं परिहराणीति ।। ५ ।।
।। इति द्वाविंशः खण्डः ।।
प्र. – सर्वे……दधानीति । घोषवत्तया बलवत्तया उच्चारणम् इन्द्रस्य बलाधायकम् इत्यर्थः । सर्वे……वक्तव्याः । अग्रस्ताः–अन्तरप्रवेशिताः । अनिरस्ता: – बहिरक्षिप्ताः। ‘लुमवर्णपदं ग्रस्तं निरस्तं त्वरितोदितम्’ (अ.को. १-६-२०) इत्यमरः । विवृताः– विवृतप्रयत्नोपेताः। प्रजापतेरात्मानं परिददानीति । ऊष्मणां प्रजापत्यात्मकत्वात् अग्रस्तत्वादियुक्त ऊष्मोच्चारणे प्रजापतेः आत्मलाभः भवति इत्यर्थः । सर्वे स्पर्शा:……वक्तव्याः । लेशेन अल्पश: अनभिनिहिताः – अनभिक्षिप्ताः, अद्रुतोच्चारिता इति यावत् । मृत्योरात्मानं परिहराणीति । सर्वेषां स्पर्शानां मृत्य्वात्मकत्वात् स्पर्शानां तेषां दोषेभ्यः परिहृत्य उच्चारणे मृत्योः आत्मैव दोषेभ्यः परिहतो भवति इति भावः ।।
[इति द्वाविंशखण्डभाष्यम्]
त्रयोविंशः खण्डः
[ओङ्कारब्रह्मोपासनविधिः]
त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति प्रथमः, तप एव द्वितीयः, ब्रह्मचार्याचार्यकुलवासी तृतीयोऽत्यन्तमात्मानमाचार्यकुलेऽवसादयन् । सर्व एते पुण्यलोका भवन्ति; ब्रह्मसँस्थोऽमृतत्वमेति ।।१।।
प्र.– ओङ्कारेण ब्रह्मोपासनं विधातुं प्रस्तौति – त्रयो धर्मस्कन्धाः इत्यादि । धर्मस्कन्धाः – धर्मसाधकमार्गाः । आश्रमरूपमार्गाः त्रयः इत्यर्थः । यज्ञो…. प्रथमः । यज्ञाध्ययनदानशब्दैः गृहस्थाश्रमः उच्यते । अध्ययनशब्दः वेदाभ्यासपरः । तप एव द्वितीयः । तपश्शब्देन वैखानसपारिव्राज्ययोः ग्रहणम् । उभयोः तपःप्रधानत्वात् । तपश्शब्दो हि कायक्लेशे रूढः । स च द्वयोरपि समानः । ब्रह्मचारी……अवसादयन् । अत्यन्तम् आचार्यकुले नियमैः देहं क्षपयन् तृतीयाश्रमे इत्यर्थः । सर्वे एते……एति । एवं त्रित्वेन सङ् गृहीतानां चतुर्णाम् आश्रमाणां मध्ये यः ब्रह्मसंस्थः ब्रह्मनिष्ठः स मुक्तिभाग् भवति । ब्रह्मनिष्ठाविकला: केवलाश्रमिणः पुण्यलोकभाजः भवन्ति इत्यर्थः । एवमेव हि ‘अनुष्ठेयं बादरायणस्साम्यश्रुतेः’ (ब्र.सू.३-४-१९) इत्यत्र भाषितम् । न च अत्र ब्रह्मसंस्थशब्दात् संन्यासाश्रमप्रतिपत्तिः इति शङ्क्यम् । ब्रह्मसंस्थशब्दस्य प्रोक्षिणीन्यायेन योगेन एव वृत्त्युपपत्तौ संन्यासे रूढेः अनभ्युपगन्तव्यत्वात् । योगमात्रस्य च आश्रमान्तरसाधारणत्वात् न ब्रह्मसंस्थशब्देन संन्यासाश्रमग्रहणे प्रमाणं पश्यामः । न च सम्पूर्वस्य तिष्ठते: समाप्तिवाचकत्वात् , अनन्यव्यापारत्वलक्षणाया ब्रह्मणि समाप्तेः ‘संन्यासिष्विव’ अग्निहोत्रादिकर्मान्तरव्यग्राश्रमान्तरेषु असम्भवात्, ब्रह्मसंस्थशब्देन परिव्राडेव उच्यते इति वाच्यम् । स्वाश्रमोचित धर्म व्यग्रतायाः संन्यासिषु अपि अविशिष्टत्वात् । तदतिरिक्तव्यापारराहित्यस्य सर्वाश्रमेषु अपि सम्भवात् न ब्रह्मसंस्थशब्देन चतुर्थाश्रमपरामर्शे हेतुं पश्यामः ।।
[ओङ्कारस्तुतिः]
प्रजापतिर्लोकानभ्यतपत् । तेभ्योऽभितप्तेभ्यस्त्रयीविद्या संप्रास्रवत् तामभ्यतपत् । तस्या अभितप्ताया एतान्यक्षराणि संप्रास्रवन्त, भूर्भुवस्सुवः इति ।। २ ।।
प्र. – एवं ‘ब्रह्मसंस्थ: अमृतत्वमेति’ इति अमृतत्वसाधनं ब्रह्मोपासनम् उक्त्वा तत्प्रणवाङ्गकमिति वक्तुं प्रणवं स्तौति – प्रजापतिर्लोकानभ्यतपत् इत्यादिना । अभ्यतपत् – सारनिष्कर्षाय लोकान् पर्यालोचयत् इत्यर्थः । तेभ्यो…. संप्रास्रवत् । त्रयीविद्या संप्रास्रवत् – सारत्वेन निष्पन्ना अभवत् इत्यर्थः । एवम् उत्तरत्रापि द्रष्टव्यम् ।।
तान्यभ्यतपत् । तेभ्योऽभितप्तेभ्य ओङ्कारः संप्रास्रवत् । तद् यथा शङ् कुना सर्वाणि पर्णानि संतृण्णानि एवमोंकारेण सर्वा वाक् संतृण्णा । ओङ्कार एवेदँ सर्वम् , ओङ्कार एवेदँ सर्वम् ।। ३ ।।
।। इति त्रयोविंशः खण्डः ।।
प्र– तान्यभ्यतपत् इत्यादि । तद्यथा……सर्वम् । यथा सर्वाणि पत्रजातानि शंकुना – पर्णनालेन संतृण्णानि – व्याप्तानि भवन्ति, एवम्, ‘ओङ्कारो वै सर्वा वाक्’ – इति श्रुतेः ओङ्कारेण सर्वा वाक् व्याप्ता अतः ओङ्कारः एव सर्वं वाङ्मयम् । अतः ओङ्कारेण ब्रह्मोपासनं कर्तव्यम् इति पर्यवसितोऽर्थः । द्विरुक्तिः विद्यासमाप्त्यर्था ।।
।। इति त्रयोविंशखण्डभाष्यम् ।।
चतुर्विंशः खण्डः
[प्रातस्सवनादि कर्माङ्गाणि]
ब्रह्मवादिनो वदन्ति – यद्वसूनां प्रातस्सवनँ रुद्राणां माध्यन्दिनँ . –सवनमादित्यानाञ्च विश्वेषाञ्च देवानां तृतीयसवनम् ।। १ ।।
प्र. – प्रसङ्गात् कर्माङ्गानि कानिचित् विधातुं प्रस्तौति – ब्रह्मवादिनः वदन्ति इत्यादिना । ब्रह्मवादिनः – वेदवेत्तारः इत्यर्थः । ते किं वदन्ति इत्यत्राह – यद्वसूनां प्रातस्सवनम् इत्यादि । प्रातस्सवन-माध्यन्दिनसवन-तृतीयसवनेश्वरैः वसुरुद्रादित्यविश्वेदेवै: तत्सवनफलभूताः पृथिव्यन्तरिक्षस्वर्लोकाः वशीकृताः इत्यर्थः ।।
क्व तर्हि यजमानस्य लोक इति । स यस्तन्न विद्यात् कथं कुर्यात् अथ विद्वान् कुर्यात् ।। २ ।।
प्र. – क्व तर्हि यजमानस्य लोकः इति । एवं तै: लोकानां वशीकृततया अवशिष्टस्य लोकस्य यजमानप्राप्यस्य अभावात् यजमानस्य लोकः क्व अस्तीति वेदितव्यम् इत्यर्थः । स यस्तन्न विद्यात् कथं कुर्यात् । यस्य यजमानप्राप्यलोकस्थानज्ञानं नास्ति सोऽज्ञः कथं कर्म कुर्यात् । अथ विद्वान् कुर्यात् । तस्मात् लोकस्वीकरणोपायभूतं वक्ष्यमाणं सामगान-होम-मन्त्रोत्थानलक्षणं ज्ञात्वैव कुर्यात् इत्यर्थः ।।
[प्रातस्सवनप्राप्युपायः]
मी पुरा प्रातरनुवाकस्योपाकरणात्, जघनेन गार्हपत्यस्योदङ्मुख उपविश्य स वासर्वं सामाभिगायति ।। ३ ।।
प्र. – तदेवाह – पुरा प्रातरनुवाकस्योपाकरणात् इत्यादि । प्रातरनुवाकस्योपाकरणात् पुरा – प्रातरनुवाकारम्भात् प्राक् गार्हपत्यस्य जघनेन – पश्चात् उदङ्मुख उपविश्य वासवं – वसुदैवत्यं साम सः विद्वान् गायेत् इत्यर्थः ।।
लोकद्वारमपावार्णू २–३–३ पश्येम त्वा वयँ रा ३–३–३–३.७३ हुं ३ आ २–३–३ जा ३ यो ३ आ १–२–४–५ इति ।। ४ ।।
प्र.-तदेव साम आह – लोकद्वारमपावृणु पश्येम त्वा वयं राज्याय इति । हे अग्ने! पृथिवीलोकप्राप्तये द्वारम् अपावृणु । तेन अपावृतेन द्वारेण त्वां राज्याय पृथिवीलोकप्राप्तिफलाय पश्येम इत्यर्थः ।।
अथ जुहोति, नमोऽग्नये पृथिवीक्षिते लोकक्षिते । ‘लोकं मे यजमानाय विन्द‘ एष वे यजमानस्य लोकः । एतास्मि ।। ५ ।।
अत्र यजमानः परस्तादायुषः । स्वाहा । अपजहि परिघम् इत्युक्त्वोत्तिष्ठति । तस्मै वसवः प्रातस्सवनँ संप्रयच्छन्ति ।। ६ ।।
प्र.-अथ जुहोति । अथ – अनन्तरम् अनेन वक्ष्यमाणेन मन्त्रेण जुहोति इत्यर्थः । होममन्त्रमेव आह – नमोऽग्नये…. लोकक्षिते इत्यादि । पृथिवीक्षिते – पृथिवीनिवासाय लोकक्षिते – लोकनिवासाय अग्नये नमः । मे – मह्यं यजमानाय लोकं विन्द – ‘लम्भयस्व । एष वै मम यजमानस्य लोकः । यजमानोऽहमत्र अस्मिन् लोके आयुषः परस्तात् – मरणात् ऊर्ध्व एतास्मि – आगन्तास्मि । स्वाहेति – जुहोति इत्यर्थः । अपजहि……उत्तिष्ठति । एवं हुत्वा अनन्तरं परिघं – लोकद्वारार्गलम् अपजहि अपनय इति एतं मन्त्रम् उक्त्वा उत्तिष्ठति इत्यर्थः । तस्मै सम्प्रयच्छन्ति । एवं सामगानहोममन्त्रोत्थानकृते यजमानाय वसवः प्रातस्सवनसम्बन्धिलोकं पृथिवीलोकं प्रयच्छन्ति इत्यर्थः । एवम् अग्रेपि द्रष्टव्यम् ।।
[माध्यन्दिनसवनप्रात्युपायः]
पुरा माध्यन्दिनस्य सवनस्योपाकरणात् , जघनेनाग्नीध्रीयस्य उदङ्मुखः उपविश्य स रौद्रं सामाभिगायति ।। ७ ।।
लोकद्वारमपावार्णू २ ३ ३ पश्येम त्वा वयं विरा ३ ३ ३ ३ हुं आ ३३ जायो आ ३३३ ४ ५ इति ।। ८ ।।
प्र.-पुरा माध्यन्दिनस्य इत्यादि । आग्नीध्रीयस्य – अग्नेः इत्यर्थः । रौद्रं . रुद्रदेवताकम् इत्यर्थः । लोकद्वारम् इत्यादि । वैराज्याय – अन्तरिक्षलोकफलप्राप्तये इत्यर्थः ।।
अथ जुहोति, ‘नमो वायवेऽन्तरिक्षक्षिते लोकक्षिते‘ लोकं मे यजमानाय विन्द । एष वै यजमानस्य लोकः एतास्मि ।। ९ ।।
अत्र यजमान: परस्तादायुषः स्वाहा । अपजहि परिघम् इत्युक्त्वा उत्तिष्ठति । तस्मैरुद्रा माध्यन्दिनँ सवनँ संप्रयच्छन्ति ।। १० ।।
पुरा तृतीयसवनस्योपाकरणात् जघनेनाहवनीयस्योदङ्मुख उपविश्य स आदित्यँ स वैश्वदेवँ सामाभिगायति ।। ११ ।।
लोकद्वारमपावार्णू २३३ पश्येम त्वा वयँ स्वरा ३३३३ हुं आ २ ३ ३ जा ३ यो ३ आ ३ ४ ५ इत्यादित्यम् ।। १२ ।।
अथ वैश्वदेवम् – ‘लोकद्वारमपावार्णू २ ३ ३ पश्येम त्वा वयँ साम्ना ३ ३ ३ ३ हुम् ३ आ २ ३ ३ जायो ३ आ ३ १११ इति‘ ।। १३ ।।
अथ, जुहोति, नम आदित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो दिविक्षभ्द्यो लोकक्षिभ्द्यः । लोकं मे यजमानाय विन्दत ।। १४ ।।
एष वै यजमानस्य लोकः । एतास्म्यत्र यजमानः परस्तादायुषः । स्वाहा । अपहत परिघम् इत्युक्त्वोत्तिष्ठति ।। १५ ।।
तस्मा आदित्याश्च विश्वे च देवास्तृतीयसवनँ सम्प्रयच्छन्ति । एष ह वै यज्ञस्य मात्रां वेद, य एवं वेद य एवं वेद ।। १६ ।।
।। इति चतुर्विशः खण्डः ।।
।। इति द्वितीयः प्रपाठकः समाप्तः ।।
प्र.-अथ नमो वायवे इति मन्त्रेण जुहोति इत्यर्थः । अन्तरिक्षक्षिते अन्तरिक्षनिवासाय इत्यादि पूर्ववन्नेयम् ।। माध्यन्दिनं सवनम् – माध्यन्दिनसवनसम्बन्धिलोकम् । पुरा तृतीयसवनस्योपाकरणात् इत्यादि । आहवनीयस्य – अग्नेः इत्यर्थः । आदित्यं – आदित्यदैवत्यम् । वैश्वदेवं – विश्वेदेवदैवत्यम् इत्यर्थः । तत्रादित्यं सामाह लोकद्वारम् इत्यादि । स्वाराज्याय – स्वर्गलोकाय इत्यर्थः । इत्यादित्यं सामोक्तम् इति शेषः ।
अथ वैश्वदेवम् – सामोच्यते इति शेषः । साम्राज्याय – उत्तमस्वर्गफलाय इत्यर्थः । अथ जुहोति इत्यादि । सर्वं पूर्ववत् द्रष्टव्यम् । आदित्यानां विश्वेदेवानां च बहुत्वात् विन्दत अपहत इति बहुवचनम् । तृतीयसवनम् – तत्फलं स्वर्गमित्यर्थः ।। एष ह वै यज्ञस्य मात्रां वेद । मात्रां – परिमाणं याथात्म्यम् इत्यर्थः । य एवं वेद य एवं वेद– य एवं कर्तुं वेद इत्यर्थः । द्विरुक्ति: अध्यायपरिसमाप्त्यर्था ।।
।। इति द्वितीयप्रपाठकप्रकाशिका समाप्ता ।।
।। समाप्तं च द्वितीयप्रपाठकभाष्यम् ।।