[highlight_content]

छान्दोग्योपनिषत् पञ्चमः प्रपाठकः

छान्दोग्योपनिषत्

पञ्चमः प्रपाठकः

 

प्रथमः खण्डः

 

[ज्यैष्ठ्यश्रेष्ठ्यगुणकमुख्यप्राणोपासनम् ]

 

यो वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च वै श्रेष्ठश्च भवति प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च ।। ।।

प्र. – प्राणविद्या प्रस्तूयतेयो ……भवति । ज्येष्ठत्वश्रेष्ठत्वगुणकं प्राणं यो वेद, स तत्क्रतुन्यायेन स्वयमपि ज्येष्ठश्च श्रेष्ठश्च भवति इत्यर्थः । ज्येष्ठत्वं – ‘वृद्धत्वम् । ‘वृद्धस्य च’ (पा.सू.५-३-६२) इति वृद्धशब्दस्य ज्यादेशविधानात् । श्रेष्ठत्वं प्रशस्ततमत्वं ‘प्रशस्यस्य श्रः’ (पा.सू.५-३-६०) इति प्रशस्यशब्दस्य श्रादेशविधानात् । एवं फलप्रदर्शनेन पुरुषमभिमुखीकृत्याह प्राणो वाव ज्येष्ठश्च श्रेष्ठश्च वाव शब्दोऽवधारणार्थः गर्भस्थपुरुषे प्राणव्यापारप्रवृत्यनन्तरभावित्वात् इन्द्रियप्रवृत्तेः प्राणस्य इन्द्रियापेक्षया ज्येष्ठ्यम् । इन्द्रियव्यापाराणां सर्वथा एतदधीनत्वात् श्रेष्ठ्यञ्च ।।

[वाच: वसिष्ठत्वम्]

 

यो वै वसिष्ठं वेद वसिष्ठो स्वानां भवति वाग्वाव वसिष्ठः ।। ।।

 

प्र. – यो……भवति स्वानां – ज्ञातीनां मध्ये वसिष्ठो भवति इत्यर्थः । को वसिष्ठ इत्यत्राह वाग्वाव वसिष्ठः । अतिशयेन वसुमान् वसिष्ठः । वाग्मी हि लोके अतिशयेन वसुमान् भवति । अतश्च वसुमत्तासम्पादकसद्यवहारजनकत्वं वाचः वसिष्ठत्वमिति भावः ।।

[चक्षुषः प्रतिष्ठात्वम्]

 

यो वै प्रतिष्ठां वेद, प्रति तिष्ठत्यस्मिँश्च लोकेऽमुष्मिँश्च, चक्षुर्वाव प्रतिष्ठा ।। ।।

प्र.यो……अमुष्मिंश्च । ह शब्दः प्रसिद्धौ । अत्र च अमुत्रप्रतितिष्ठति -प्रतिष्ठावान् भवति इत्यर्थः । का तर्हि प्रतिष्ठा इत्यत्राह – चक्षुर्वाव प्रतिष्ठा । ‘चक्षुषा हि समे दुर्गे च प्रतितिष्ठति’ (बृ.उ.८-१-३) इति बृहदारण्यके ‘श्रवणात्’ प्रतिष्ठासम्पादक-समविषमभूतलप्रदर्शकत्वमेव चक्षुषः प्रतिष्ठात्वम् ।।

[श्रोत्रस्य सम्पत्त्वम्]

 

यो वै संपदं वेद, सँ हास्मै कामाः पद्यन्ते दैवाश्च मानुषाश्च श्रोत्रं वाव सम्पत् ।। ।।

 

प्र. –यो……मानुषाश्च अस्मै – उपासकाय कामाः सम्पद्यन्ते इत्यन्वयः । का तर्हि सम्पत् इत्यत्राह श्रोत्रं वाव सम्पत् । ‘श्रोत्रे हीमे सर्वे वेदा अभिसम्पन्नाः’ (बृ.उ.८-१-४) इति बृहदारण्यके समानप्रकरणे श्रवणात् सम्पद्धेतुभूतवेदशास्र-तदर्थश्रवणादिसम्पादकत्वमेव श्रोत्रस्य सम्पत्त्वम् ।

[मनसः आयतनत्वम्]

 

यो वा आयतनं वेद, आयतनँ स्वानां भवति मनो वा आयतनम् ।। ।।

 

प्र. –यो. आयतनम् । स्रक्चन्दनादिविषयज्ञानरूपभोगायतनत्वमेव मनसः आयतनत्वम् ।।

 

[मुख्यप्राणश्रैष्ठ्यप्रतिपादिकाख्यायिका]

 

अथ प्राणा अहँश्रेयसि व्यूदिरेऽहँ श्रेयानस्म्यहँ श्रेयानस्मीति ते ह प्राणाः प्रजापतिं पितरमेत्योचुः, भगवन् ! को नः श्रेष्ठः इति ।। ।।

प्र. -मुख्यप्राणस्य श्रेष्ट्यसम्पादनाय आख्यायिकामाह अथ ……अस्मीति अथ आख्यायिकोपक्रमे’ । अहं श्रेयसि – स्वश्रेयसि निमित्ते विषये वा । व्यूदिरे – अहं श्रेयानस्मि, अहं श्रेयानस्मि इति विवादं चक्रुः इत्यर्थः । ते श्रेष्ठ इति । स्पष्टोऽर्थः ।।

 

तान् होवाच, यस्मिन् उत्क्रान्ते शरीरं पापिष्ठतरमिव दृश्येत, वः श्रेष्ठः इति ।। ।।

 

प्र. – तान्……श्रेष्ठ इति । वः – युष्माकं मध्ये यस्मिन् उत्क्रान्ते शरीरम् अतिशयेन पापिष्ठं अतिहेयमिव दृश्येत, स वः श्रेष्ठः इत्युवाच इत्यर्थः ।।

[वाचः पराजयः]

 

सा वागुच्चक्राम सा संवत्सरं प्रोष्य पर्येत्योवाच कथमशकत ऋते मज्जीवितुमिति यथा कला अवदन्तः, प्राणन्तः प्राणेन, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेण, ध्यायन्तो मनसैवमिति प्रविवेश वाक् ।। ।।

 

प्र. – सा वागुच्चक्राम सा – प्रसिद्धा वाक् स्वश्रैष्ठ्यपरीक्षणाय शरीरात् उत्क्रान्तवती इत्यर्थः । सा संवत्सरं……जीवीतुमिति सा – वाक् एकं संवत्सरं प्रोष्य -प्रवासं कृत्वा पुनरागत्य मदृते – मां विना जीवितुं यूयं कथमशकत – कथं शक्ता इति इतरान् प्राणान् उक्तवती । इतरे प्राणाः प्रत्यूचुः यथा कला:…..एवमिति यथा कला: – मूकाः वागिन्द्रियव्यापाररहिता अपि इतरैः प्राणैः तत्कार्यं कुर्वन्त: जीवन्ति, एवं वयमपि अजीविष्म इति प्रत्यूचुः इत्यर्थः । प्रविवेश वाक् । एवमुक्ता वाक् स्वस्य श्रेष्ठ्यं नास्ति इति निश्चित्य देहं प्रविष्टवती इत्यर्थः ।।

 

चक्षुर्होच्चक्राम तत् संवत्सरं प्रोष्य पर्येत्योवाचकथमशकत ऋते मज्जीवितुमिति यथा अन्धा अपश्यन्तः, प्राणन्तः प्राणेन, वदन्तो वाचाशृण्वन्तः श्रोत्रेण, ध्यायन्तो मनसाएवमिति प्रविवेश चक्षुः ।। ।।

 

श्रोत्रं होच्चक्राम तत् संवत्सरं प्रोष्य पर्येत्योवाच, ‘कथमशकत ऋते मज्जीवितुमिति यथा बधिरा अशृण्वन्तः प्राणन्तः प्राणेन, वदन्तो वाचापश्यन्तश्चक्षुषा, ध्यायन्तो मनसैवमिति प्रविवेश श्रोत्रम् ।। १० ।।

 

प्र.चक्षुर्होच्चक्राम । चक्षुरुत्क्रान्तम् । एवमुत्तरत्रापि द्रष्टव्यम् ।।

मनो होच्चक्राम तत्संवत्सरं प्रोष्य पर्येत्योवाचकथमशकत ऋते मज्जीवितुमिति । यथा बाला अमनसः, प्राणन्तः प्राणेन, वदन्तो वाचा, पश्यन्तश्चक्षुषा, शृण्वन्तः श्रोत्रेणैवमिति प्रविवेश मनः ।। ११ ।।

प्र. –मनो होच्चक्राम इत्यादि । अमनसः अप्रौढमनसः ।।

 

[प्राणस्य ज्येष्ठत्वश्रेष्ठत्वकथनम्]

 

अथ प्राण च्चिक्रमिष्यन् , यथा सुहयः पड्वीशशङ्कून् संखिदेत्एवमितरान् प्राणान् समखिदत् तँ हाभिसमेत्योचुः, ‘भगवन् ! एधि त्वं नः श्रेष्ठोऽसि, मोत्क्रमीरिति ।। १२ ।।

 

प्र.अथ ……समखिदत् सः मुख्यः प्राणः च्चिक्रमिष्यन् । उत्क्रमितुम् इच्छन्, यथा शोभन: अश्वः परीक्षार्थम् अश्वारूढेन ताडित: पड्वीशशङ्कून् -पादबन्धनकीलकान् संखिदेत् – उत्पाटयेत् एवमितरान् प्राणान् स्वस्वस्थानेभ्यः उत्पाटितवान् इत्यर्थः । तं ……मोत्क्रमी: इति । हे भगवन् ! – पूजार्ह ! त्वमेधि स्वामीति शेषः । अस्ते: लोटि मध्यमपुरुषैकवचनम् । भव इत्यर्थः । नः – अस्माकं मध्ये त्वमेव श्रेष्ठोऽसि । त्वमुत्क्रमणं माकार्षीः इति इतरे प्राणाः तम् आगत्य ऊचुः इत्यर्थः ।।

 

अथ ैनं वागुवाचयदहं वसिष्ठाऽस्मि, त्वं तद्वसिष्ठोऽसीति अय हैनं चक्षुरुवाच, यदहं प्रतिष्ठास्मि त्वं तत्प्रतिष्ठोऽसीति ।। १३ ।।

 

अथ हैनँ श्रोत्रमुवाच, यदहँ सम्पदस्मि, त्वं तत्सम्पदसीति अब ैनं मन उवाच यदहमायतनमस्मि, त्वं तदायतनमसीति ।। १४ ।।

प्र. – अथेतरे’ प्राणाः विश: करानिव राज्ञे, मुख्यप्राणाय स्वस्वगुणान् अर्पितवन्त इत्याह – अथ ैनं वसिष्ठोऽसीति यत् – येन वाग्मिनो वसुमत्तासम्पादकत्वलक्षणेन गुणेन अहं वसिष्ठाऽस्मि, त्वं तत् तेन गुणेन वसिष्ठोऽसि इत्यर्थः । मदीयगुणस्य त्वदधीनत्वात् त्वदीयः एव स गुणः इति भावः । उक्तञ्च व्यासार्यै: ‘अहं यत्स्वकार्यकरणसमर्थाऽस्मि, तस्य त्वदधीनत्वात् तवैव तत्कार्यसामर्थ्यमित्यर्थः’ इति । एवमुत्तरत्रापि द्रष्टव्यम् ॥

 

वै वाचो, क्षूँषि, श्रोत्राणि, मनाँसीत्याचक्षते प्राणा इत्येवाचक्षते । प्राणो ह्येवैतानि सर्वाणि भवन्ति ।। १५ ।।

 

।। इति प्रथमः खण्डः ।।

प्र. – वै……सर्वाणि भवन्ति । लौकिकाः वा आगमज्ञाः वा वागादीनि इन्द्रियाणि सर्वाणि वागादिशब्दैः न व्यवहरन्ति; अपि तु प्राणशब्देनैव व्यवहरन्ति । तत् कस्य हेतोः ? प्राणाधीनसत्ताकत्वात् इतरेषाम् । ‘यदधीना यस्य सत्ता तत्तदित्येव भण्यते’ इत्युक्तेः । प्राणाधीनसत्ताकत्वात् इतरेषाम् इन्द्रियाणां सर्वाणि इन्द्रियाणि प्राणा एव भवन्ति इत्यर्थः । एतत्खण्डान्तर्गत’वाक्यविषयकम् अधिकरणम् उपन्यस्यते । गुणोपसंहारपादे छान्दोग्यवाजसनेयकयोः कौषीतकिनामुपनिषदि च दशमेऽध्याये ‘यो ह वै ज्येष्ठञ्च श्रेष्ठञ्च वेद, ज्येष्ठश्च ह वै श्रेष्ठश्च स्वानां भवति’ इत्यारभ्य प्राणविद्या पठ्यते । तत्र सर्वत्र प्राणस्य ज्यैष्ठ्यौष्ठ्यगुणकत्वं वाक्चक्षुश्श्रोत्रमनसां वसुमत्तासम्पादकत्व-समविषमभूतलादिप्रदर्शकत्व-सम्पद्धेतुभूतवेदशास्त्रतदर्थश्रवणादिसम्पादकत्व-स्रक्चन्दनादि .विषयज्ञानरूपभोगायतनत्वलक्षणवसिष्ठत्वप्रतिष्ठात्वसम्पत्त्वायतनत्वरूपगुणवत्त्वम् , वागादीनाञ्च श्रेष्ठ्यविषयपरस्परविवादेन ब्रह्मसभोपसर्पणम्, ‘यस्मिन् व उत्क्रान्ते शरीरानवस्थितिः सः वः श्रेष्ठः’ इति ब्रह्मवचनम्, तत्परिचिक्षिषया वागादीनाम् एकैकस्य शरीरात् उत्क्रम्य पर्यटनम् , तस्मिन् शरीरस्य इन्द्रियाणाञ्च यथापूर्वम् अवस्थानम् , प्राणस्य उत्क्रमणप्रवृत्तौ तेषां विशरणम्, ततो भीतानां वागादीनां ‘मा उत्क्रमीः, त्वं नः श्रेष्ठः’ इति मुख्यप्राणं प्रति प्रार्थनम् इत्येतत् सर्वं क्रमेण वर्णितम् । कौषीतकीशाखायां तु छान्दोग्यवाजसनेयकवत्, ‘यदहं वसिष्ठाऽस्मि त्वं तद् वसिष्ठोऽसि’ इत्यनेन प्रकारेण प्राणे वागादिगतवसिष्ठत्वादिसमर्पणं नोक्तम् । अतो वागादि गतवसिष्ठ त्वादेः प्राणाधीनत्वाप्रतीत्या वागादीनां स्वातन्त्र्यप्रतीते: छान्दोग्यवाजसनेयकाम्नातप्राणविद्यातः कौषीतक्याम्नातप्राणविद्यायाः भेदप्रतिभोद्गम: तथा तस्यामेव उपनिषदि चतुर्थेऽध्याये, ‘अथातो निश्रेयसादानं, सर्वा वै देवता अहंश्रेयसे विवदमाना अस्माच्छरीरादुच्चक्रमुः । तद्दारुभूतं शिश्ये । अथैनं वाक् प्रविवेश । तद्वाचाऽवदत् शिश्य एव । अथैनच्चक्षुः प्रविवेश । तद्वावाचाऽवदत् चक्षुषा पश्यत् । शिश्य एव । अथैनत् श्रोत्रं प्रविवेश । तद्वाचाऽवदत् चक्षुषा पश्यत् श्रोत्रेण शृण्वन् शिश्य एव । अथैनं मनः प्रविवेश । तद्वाचाऽवदच्चक्षुषा पश्यच्छ्रोत्रेणशृण्वन् मनसा ध्यायत् शिश्य एव । अथैनत्प्राणः प्रविवेश तत्तत एव समुत्तस्थौ । तद्देवाः प्राणे निःश्रेयसं विजित्य प्राणमेव प्रज्ञात्मानमभिसम्भूय’ (कौ.उ.२-१४) इति प्राणराहित्यदशायामपि वागादीनां स्वकार्यकरत्वप्रदर्शनेन छान्दोग्यैक्याप्रतीतेः इति पूर्वपक्षं कृत्वा – बहुसारूप्यप्रतीतौ किञ्चिद्वैरूप्यस्य प्रत्यभिज्ञाविरोधित्वाभावात् विद्यैक्यमिति ‘सर्वाभेदादन्यत्रेमे’ (ब्र.सू.३-३-१०) इति सूत्रेण सिद्धान्तितम् । सर्वाभेदात् । प्रतिज्ञातप्राणज्यैष्ठ्यश्रेष्ठ्योपपादनप्रकारस्य तिसृषु अपि शाखासु अभेदात् शाखान्तरविद्यायां शाखान्तरविद्यागतगुणोपसंहारः कर्तव्यः इति सूत्रार्थः । प्रकृतमनुसरामः ।।

 

द्वितीयः खण्डः

 

[मुख्यप्राणस्य अन्नत्वचिन्तनम्]

 

होवाचकिं मेऽन्नं भविष्यतीति यत् किञ्चिदिदमाश्वभ्यः आशकुनिभ्यइति होचुः तद् वा एतदनस्यान्नम् अनो वै नाम प्रत्यक्षम् ।  वा एवंविदि किञ्चनानन्नं भवतीति ।। ।।

प्र. – ……भविष्यति इति । ‘वागादीन् कि मेऽनं भविष्यति ? इति मुख्यप्राणः पप्रच्छ इत्यर्थः । यत्होचुः ।  श्वशकुनिपर्यन्तसर्वप्राणिनां यदन्नजातम्, तत् तव अन्नजातमिति वागादयः प्रत्यूचुः । श्रुतिः स्वेन रूपेणाह- तद्वा एतदनस्यान्नम् । यत्किञ्चित् लोके प्राणिभिः अद्यते तदेतत् अनस्य – प्राणस्य अन्नम् । प्राणेनैव तदद्यते इत्यर्थः । अनो वै नाम प्रत्यक्षम् । अदनादिविविध चेष्टायुक्तत्वात् प्राणस्य अनः इति प्रत्यक्षं नाम’ । देवानां परोक्षप्रियत्वात् प्रत्यक्षं अनः इति नाम परित्यज्य प्राणः इति परोक्षेण नाम्ना व्यवहारः । ततश्च अदनचेष्टायाः अपि तदीयत्वात् सर्वप्राणिजातेन अद्यमानम् अन्नं सर्वं तेनैव अद्यते इति प्राणस्य सर्वम् अत्रम् इत्यर्थः । यद्वा – अनः इत्यस्य नकारान्तरयुक्तस्य अन्नत्वेन अन्नस्य अनसम्बन्धित्वात् अनः इत्यस्य प्राणनामत्वस्य प्रत्यक्षत्वात् अन्नं तत्सम्बन्धि इत्यर्थः । अत्र प्राणविद्यानिष्ठेन सर्वप्राण्यन्नादनस्य कर्तुम् अशक्यत्वात् नास्य वाक्यस्य सर्वप्राण्यन्नादनकर्तव्यत्वम् अर्थः । अपि तु सर्वप्राणिजातान्ने प्राणान्नत्वचिन्तनं कर्तव्यम् इत्यर्थः । सर्वप्राणिजातान्ने प्राणान्नत्वचिन्तनं स्तौति – भवतीति । प्राणविद्यानिष्ठस्य अभक्ष्यभक्षणदोष: नास्ति इत्यर्थः ।।

[प्राणस्य वासस्त्वचिन्तनम् ]

 

होवाच, किं मे वासो भविष्यतीति आपइति होचुः तस्माद्वा एतदशिष्यन्तः पुरस्ताञ्चोपरिष्टाच्चाद्भिः परिदधति लम्भुको वासो भवतिअनग्नो भवति ।। ।।

 

प्र. – …..होचुः । ‘किं मे वस्रं भविष्यति’ इति मुख्यप्राणेन इतरे पृष्टाः प्राणाः; ‘आपस्ते वस्त्रं भविष्यन्ति’ इत्यूचुः । ‘आपो वासत्वेन चिन्तनीयाः’ इति होचुः इत्यर्थः । तस्मात्……भवति तस्मात् – अपां वासस्त्वादेव एतत् – एतस्मिन्नपि काले अशिष्यन्तः – भोक्ष्यमाणाः पुरस्ताच्च उपरिष्टाच्च भोजनात् प्राक् पश्चाच्च आचमनीयाभिः अद्भिः वासोभिः परिहितं प्राणम् अनग्नं कुर्वन्ति । आचमनीयासु अप्सु वासस्त्वचिन्तनेन, वासोभूताभिः अद्भिः प्राणस्य परिहितत्वात् अननत्वचिन्तनं कुर्वन्ति इत्यर्थः । एवं चिन्तकः तेन चिन्तनेन च स्वयमपि वासो लम्भुको भवति – वासोलब्धा भवति, अनग्नश्च भवति, तत्क्रतुन्यायेन इति भावः ।।

[प्राणस्तुत्यर्थफलम्]

 

द्धैतत् सत्यकामो जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाचयद्यप्येनच्छुष्काय स्थाणवे ब्रूयात् , जायेरन्नेवास्मिन् शाखाः, प्ररोहेयुः पलाशानि इति

प्र. – तद्ध……उवाच । व्याघ्रपत्पुत्राय नाम्रा गोश्रुतये जबालापुत्रः सत्यकामनामा इदं प्राणदर्शनम् उक्त्वा अन्यदपि उवाच इत्यर्थः । किं तत् इत्यत्राह – यदि…….पलाशानि इति । एनत् – प्राणदर्शनं शुष्काय वृक्षायापि यदि ब्रूयात् अस्य वृक्षस्य शाखाः अपि उत्पद्येरन् पत्राणि च प्ररोहेयुः इत्यर्थः ।।

 

[महत्वफलकमन्थाख्यकर्म]

 

अथ यदि महज्जिगमिषेत् अमावास्यायां दीक्षित्वा पौर्णमास्यां रात्र सर्वोषधस्य मन्थं दधिमधुनोरुपमध्य, ज्येष्ठाय श्रेष्ठाय स्वाहा इत्यग्नावाज्यस्य हुत्वा मन्थे संपातमवनयेत् ।। ।।

 

प्र.मन्थाख्यं कर्मारभ्यते – अथ……जिगमिषेत् महत् महत्त्वं ज्यैष्ठ्यश्रैष्ठ्यादिलक्षणं यदि प्राप्तुम् इच्छेत् इत्यर्थः । अमावास्यायां……अवनयेत् । उक्तकाले सर्वोषधस्य – ग्राम्यारण्यैषधानां मन्थं – पिष्टम् औदुम्बरे कंसाकारे चमसाकारे वा पात्रे दधिमधुनोः प्रक्षिप्य उपमथ्य अग्रतः स्थापयित्वा, ज्येष्ठाय श्रेष्ठाय स्वाहा इति अग्न आज्येन हुत्वा मन्थे सम्पातं – हुतशेषं निनयेत् इत्यर्थः ।।

 

वसिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् प्रतिष्ठाय स्वाहेत्यग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् संपदे स्वाहेत्याग्नावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् आयतनाय स्वाहेत्यनावाज्यस्य हुत्वा मन्थे सम्पातमवनयेत् ।। ।।

 

प्र. –वसिष्ठाय स्वाहा इत्यादि । सर्व स्पष्टम् ।।

 

[मन्थजपमन्त्रः]

 

अथ प्रतिसृप्याजल मन्थमाधाय जपति, ‘अमो नामास्यमा हि ते सर्वमिद हि ज्येष्ठः श्रेष्ठो राजाऽधिपतिः मा ज्यैष्ठ्यँ श्रैष्ठ्यँ राज्यमाधिपत्यं गमयत्वहमेवेदं सर्वमसानीति ।। ।।

प्र. – अथ प्रतिसृप्य……जपति प्रतिसृप्य – अभिगम्य, प्रदक्षिणं कृत्वा इति वाऽर्थः । अञ्जलौ मन्थं निधाय वक्ष्यमाणं मन्त्रं जपेत् इत्यर्थः । मन्त्रमेवाह – अमो नामासि । अमा इति नाम यस्य सः अमोनामा । सोऽसीत्यर्थः । ननु अमा इति हि प्राणनाम । कथम् अप्राणस्य मन्थस्य अमोनामत्वम् इत्यत्राह – अमा हि इति । त्वमिति शेषः । त्वं प्राणोऽसि हि इत्यर्थः । मन्थस्य प्राणत्वम् उपपादयति । ते सर्वमिदम् इदं जगत् सर्वं ते – त्वदधीनम् । मन्थलक्षणान्नाधीनत्वात् जगतः इति भावः । सर्वमसानि इति । स हि मन्थभूतः प्राणः इत्यर्थः । राजा – दीप्तिमान् । अधिपति: – शेषी इत्यर्थः । मा -मां गमयतु – प्रापयतु । इदं सर्वमहमेव असानि – भवानि । सर्वनियन्तृतया भवानि इत्यर्थः । शिष्टं स्पष्टम् ।।

 

[न्थभक्षणप्रकारः]

अथ खल्वेतयर्चा पच्छ आचामति तत् सवितुर्वृणीमहे इत्याचामतिवयं देवस्य भोजनम् इत्याचामति, श्रेष्ठ सर्वधातमम् इत्याचामति तुरं भगस्य धीमहि इति सर्वं पिबति ।। ।।

 

प्र. – अथ खल्येतयर्चा पच्छ आचामति एतया – वक्ष्यमाणया ऋचा पच्छ: पादशः मन्थं भक्षयतीत्यर्थः । मन्त्रस्य एकैकपादेन एकैकग्रासं भक्षयेत् इत्यर्थ: । ‘तत् सवितुर्वृणीमहे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भगस्य धीमहि’ (ऋ.सं.५-६-८२१) अस्याश्च ऋचोऽयमर्थः । वयं श्रेष्ठं सर्वधातमं – सर्वधारकं तत् -श्रेष्ठं भोजनं सवितुः देवस्य सवितुर्देवात् वृणीमहे – प्रार्थयामहे । अत्र प्राणस्य सवितुश्च अभेदेन सवितुः इत्युक्तिः । अथ तद्दत्तेन भोजनेन सन्तुष्टास्सन्तः तुरं – तूर्णं, शीघ्रं भगस्य – सूर्यस्य देवस्य धीमहि – ध्यायेम इत्यर्थः । स्वरूपम् इत्यध्याहारः । अथवा सम्बन्धसामान्ये षष्ठी । सवितारं ध्यायेम इत्यर्थः ।। तत्सवितुःपिबति । स्पष्टोऽर्थः ।।

 

निर्णिज्य ँसं चमसं वा पश्चादग्नेः संविशति चर्मणि वा स्थण्डिले वा वाचंयमोऽप्रसाहः यदि स्त्रियं पश्येत्, समृद्धं कर्मेति विद्यात् ।। ।।

 

प्र.निर्णिज्य……स्थण्डिले वा । कंसाकारं चमसाकारं वा औदुम्बरं पात्रं प्रक्षाल्य अग्नेः पश्चात् अजिने वा केवलभूम्यां वा प्राक्छिराः शयीत इत्यर्थः । शयाने नियममाह – वाचंयमोऽप्रसाहः वाचंयमः – वाग्यतस्सन्, अप्रसाहः – न प्रसह्यते इत्यप्रसाहः । अनिष्टस्वप्नदर्शनेन यथा नाभिप्लुतो भवति तथा संयतचित्तस्सन् इत्यर्थः । स यदि……विद्यात् । स्पष्टोऽर्थः ।।

 

[स्वप्ने स्त्रीदर्शनेन काम्यकर्मसमृद्धि:]

 

तदेष ्लोक: –

यदा कर्मसु काम्येषु स्त्रियँ स्वप्नेषु पश्यति । समृद्धिं तन्न  जानीयात् तस्मिन् स्वप्ननिदर्शने, तस्मिन् स्वप्ननिदर्शने।। ।।

 

।। इति द्वितीयः खण्डः ।।

प्र. – तदेष श्लोक: तत् – तस्मिन् स्वप्नविषये एष श्लोको भवति इत्यर्थः । श्लोकमेवाह – यदा……पश्यति इत्यादि । तस्मिन् स्वप्ननिदर्शने । अत्र सतीति शेषः । समृद्धिं – कर्मनिष्पत्तिम् इत्यर्थः । तस्मिन् स्वप्रनिदर्शने इति द्विरुक्ति विद्यासमाप्त्यर्था । एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् उपन्यस्यते । ‘सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्’ (ब्र.सू.३-४-२८) इत्यत्र ‘न ह वा एवं विदि किञ्चनाननं भवतीति’ छान्दोग्ये, ‘नास्यानन्नं जग्धं भवतीति’ (बृ.उ.८-१-१४) वाजसनेयके च श्रवणात्, वामदेव्योपासनानिष्ठस्य प्रार्थयमानसर्वयोषिदपरिहारानुमतिवत् सर्वान्नानुमतिः प्राणविद्यानिष्ठस्य सर्वदा क्रियते इति पूर्वपक्षे प्राप्ते – उच्यते । ‘सर्वान्नानुमतिश्च प्राणात्यये तद्दर्शनात्’ (ब्र.सू.३-४-२८) प्राणात्यये एव प्राणविदः सर्वान्नानुज्ञानम् , न सर्वदा । ब्रह्मविदोऽपि उषरते: प्राणात्यये एव इभ्योच्छिष्टाशनस्य दर्शनेन प्राणविदः सर्वान्नानुमतेः आपद्विषयत्वस्य किंपुनर्न्यायसिद्धत्वात् । ‘अबाधाच्च‘ । (ब्र.सू.३-४-२९) ‘आहारशुद्धौ सत्वशुद्धिः’ (छा.उ.७-२६-२) इति शास्त्राबाधार्थमपि एवमेव न्याय्यम् । इतरथा तस्य बाध: स्यात् । ‘अपि स्मर्यते’ (ब्र.सू.३-४-३०) ।

“‘प्राणसंशयमापन्नो योऽन्नमत्ति यतस्ततः ।

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा” ।। (म.स्मृ.१०-१०४)

इति स्मरणाच्च सर्वान्नीनत्वम् आपद्विषयम् । ‘शब्दश्चातोऽकामकारे’ । (ब्र.सू.३-४-३१) ‘तस्मात् ब्राह्मणः सुरां न पिबति पाप्मना नोत्सृजा’ (कठ.सं.१२-३४) इति ‘संहितायां’ कामकारप्रतिषेधकशब्ददर्शनात् पाप्मना संसृष्टो न भवानि इति मत्वा ब्राह्मणः सुरां न पिबतीति हि तस्याः श्रुतेरर्थः । ननु ब्रह्मविद उषस्तेः प्राणात्यये सर्वान्नीनत्वदर्शनात् प्राणविदः सर्वान्नीनत्वस्य आपद्विषयत्वं कैमुत्यन्यायेन सिद्ध्यति इति अनुपपन्नम् । वामदेव्योपासननिष्ठस्य सर्वयोषिदपरिहारवत् प्राणविद्यानिष्ठस्य वचनबलात् सर्वान्नीनत्वम् इति वदन्तं प्रति एतस्य अनुत्तरत्वादिति चेत्, न – वामदेव्योपासनस्य ‘न काञ्चन परिहरेत् तव्रतम्’ (छां.उ.२-१३-२) इति सर्वयोषिदपरिहारेऽपि स्पष्टविधिश्रवणात् । ‘प्रकृते च, न ह वा एवंविदि किञ्चनानन्नं भवति’ इत्यत्र सर्वान्नभक्षणविधेः कल्प्यत्वात्, प्रत्यक्षनिषेधविरोधे च विधिकल्पनानुदयेनार्थवादत्वस्यैव युक्तत्वात् सर्वप्राण्यन्ने, यत् किञ्चिदिदम् ‘आश्वभ्य: आशकुनिभ्यः’ इति विहितस्य प्राणान्नत्वचिन्तनस्य स्तुतिमात्रं क्रियते। न ह वा एवंविदि किञ्चनानन्नं भवतीति ।

न चैवं सति निषेधशास्त्रविरोधात्, ‘एवंविदि पापं कर्म न श्लिष्यते’ इत्यादेरपि स्तुतिमात्रत्वप्रसङ्गः इति वाच्यम् । पाप्मनाम् अश्लेषाभावे अनिर्मोक्षप्रसङ्गेन सकलपापाश्लेषस्य मोक्षविधिशास्त्रापेक्षितत्वेन फलविधित्वस्य वक्तव्यत्वात् । प्राणविद्यायाश्च ज्येष्ठत्वश्रेष्ठत्वादि फलकत्वेन फलाकाङ्क्षाया अभावादिति स्थितम् । तथा गुणोपसंहारपादे ‘लम्भुको ह वासो भवति’ इत्यर्थवादोपबृंहितात् किं मे वासो भविष्यतीति । आप इति होचुः । तस्माद्वा एतदशिष्यन्तः पुरस्ताच्चोपरिष्टाच्चद्भिः परिदधतीति छान्दोग्ये श्रवणात् वासस्त्वचिन्तनमिति प्रतीयते । बृहदारण्यके काण्वशाखायाम् ‘तद्विद्वांसश्श्रोत्रिया अशिष्यन्त आचामन्ति अशित्वा चाचामन्ति एतमेव तदनमनग्रं कुर्वन्तो मन्यन्ते’ (बृ.उ.८-१-४) इति वाक्ये, अनग्नं कुर्वन्त इति श्रवणात् बासरत्यचिन्तनमपि प्रतीयते । आचामन्ति इत्याचमनविधिरपि प्रतीयते । माध्यन्दिनशाखार्या तस्मादेवंविदशिष्यन् आचामेत्, अशित्वाचाचामेत् एतमेव तदनमनग्रं कुरुते (बृ.उ.मा.पा.८-१-१४) इति अनग्नत्वचिन्तनात् वासस्त्वचिन्तनविधिरपि प्रतीयते । आचामति इति आचमने स्पष्टविधिप्रत्ययश्रवणात् आचमनविधिः स्पष्ट प्रतीयते । तत्र द्वयोरपि विधेयत्वे गौरवात् एकस्यैव विधेयत्वे वक्तव्ये, आचामेत् इति आचमने विधिप्रत्ययश्रवणात् स्मृत्याचारप्राप्ताचमनातिरिक्तम् आचमनान्तरं प्रतीयते । वासरत्वादिश्रवणं तु कथंचित् स्तुतिरूपतया नेतव्यमिति पूर्वपक्षे प्राप्ते – अभिधीयते – ‘कार्याख्यानादपूर्वम्’ (ब्र.सू.३-३-१८) । कार्याख्यानात् विधेः अप्राप्तविधानस्वाभाव्यात्, आचमनस्य च स्मृत्याचाराभ्यामेव प्राप्तत्वात् अचमनान्तरविधाने विनिगमकानुपलाभात् अप्राप्तम् आचमनीयासु अप्सु वासस्त्वानुचिन्तनं विधीयते । छान्दोग्ये आचमनस्यैव अप्रतीतेः शाखान्तरेऽपि वासस्त्वानुसन्धानस्य अनुगतत्वात् तदेव विधीयते इति स्थितम् । ननु कथं वागादीनाम् अचेतनानाम् उक्तिप्रत्युक्तिपरम्परा इति चेत् न – बागादिशब्दानाम् , अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम् (ब्र.सू.२-१-५) इति सूत्रोक्तन्यायेन तदभिमानिदेवतापरत्वात् । तत्र हि न विलक्षणत्वादस्य तथात्वं च शब्दात् (ब्र.सू.२-१-४) । ब्रह्मणो जगद्विलक्षणत्वेन उपादानत्वं न सम्भवति । घटरुचकादिषु हि सलक्षणानामेव मृत्सुवर्णादीनामुपादानत्वं दृष्टम् । प्रकृते च ब्रह्मजगतोः विलक्षणत्वं, ‘विज्ञानं चाविज्ञानश्च’ (तै.आन.६-१) इति ब्रह्मजगतोः विज्ञानत्वाविज्ञानत्वप्रतिपादकशब्दादेव अवगम्यते । ननु जगतोऽचेतनत्वे ‘मृदब्रवीत्’ (शत.बा.६-१-३-२) इत्यचेतनायाः मृदो वक्तृत्वं नोपपद्यते । तत्राह – ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ (ब्र.सू.२-१-५) । मृदादिशब्दः तत्तदभिमानिदेवता: व्यपदिश्यन्ते । हन्ताहमिमास्तिस्रो देवताः (छां.उ.६-३-२) इति तेजोऽबन्नानां देवताशब्देन विशेषणात् अचेतनानाञ्च देवतात्वासम्भवात् तदभिमानिनी देवता तेजोऽबन्नादिशब्दे: व्यपदिश्यते इति अध्यवस्यामः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ.उ.१-२-४) इति अग्नेवाचि अनुप्रवेशरूपानुगतिश्रवणात् वागादिशब्दै: तदनुप्रविष्टतदभि – मान्यग्न्याद्यभिधानात् न अनुपपत्तिः । अत: चेतनस्य ब्रह्मणोऽचेतनजगदुपादानत्वं न सम्भवति । इति पूर्वपक्षे प्राप्ते उच्यते ।

‘दृश्यते तु’ (ब्र.सू.२-१-६) । तुशब्दः चोद्यव्यावृत्त्यर्थम् । विलक्षणेभ्योऽपि गोमयादिभ्यो वृश्चिकादेः उत्पत्तिदर्शनात् , विलक्षणात् ब्रह्मणो विलक्षणजगदुत्पत्तिः उपपद्यते । असदिति चेन्न प्रतिषेधमात्रत्वात्’ (ब्र.सू.२-१-७) । विलक्षणात् पादानात् विलक्षणोत्पत्त्यङ्गीकारे उपादेयस्य उत्पत्तेः प्राक् विलक्षणोपोदानात्मनि अवस्थानस्य वक्तुम् अशक्यत्वेन असत्कार्यवादप्रसङ्गः इति चेन्न – उपादानोपादेययोः सालक्षण्यनियमप्रतिषेधमात्रे एव अस्माकं संरम्भः । सूक्ष्मचिदचिद्विशिष्टं ब्रह्म स्वस्मात्  ‘विलक्षणजगदाकारेण’ परिणमते इत्येतत्तु न त्यक्तम् । अत्र चोदयति – ‘अपीतौ तद्वत्प्रसङ्गादसमञ्जसम्’ (ब्र.सू.२-१-८) । ब्रह्मणः एव जगद्रूपेण परिणामे तयोः ऐक्यात् अप्ययादिषु सर्वदशासु अचेतनगता दोषाः ब्रह्मणः स्युः । ततश्च ब्रह्मणो निरनिष्टत्वनिरवद्यत्वप्रतिपादकश्रुत्यसामञ्जस्यं भवति । अत्र सिद्धान्तमाह – ‘न तु दृष्टान्तभावात्’ (ब्र.सू.२-१-९) । न त्वेवं सम्भवति । यथा बालस्य युवानं प्रति उपादानत्वेऽपि बालयुवादिशब्दैः आत्मनोऽभिधानेऽपि बालत्वयुवत्वादिभिनात्मा दूष्यते । एवमेव चेतनाचेतनगत: दोषः आत्मा दूष्यते । ‘स्वपक्षदोषाञ्च’ (ब्र.सू.२-१-१०) । निर्विकारस्य चिन्मात्रैकरसस्य पुरुषस्य प्रकृतिसंनिधानेन प्रकृतिधर्माध्यासनिबन्धना जगत्प्रवृत्तिः इति सांख्यपक्षोऽपि दुष्टः एव । ‘तर्काप्रतिष्ठानादपि’ (ब्र.सू.२-१-११) । तर्काणाम् अन्योन्यव्याघातेन अप्रतिष्ठितत्वादपि तन्मूलप्रधानकारणवादः त्याज्यः एव । अन्यथाऽनुमेयमिति- चेदेवमप्यनिर्मोक्षप्रसङ्गः’ (ब्र.सू.२-१-१२) । यथा प्रतिकूलतर्कपराहतिः न भवति तथा सत्तर्कै: प्रधानकारणत्वम् अनुमीयते इति चेत्, एवमपि कालान्तरे त्वत्तोऽतिशयितानां तर्ककुशलानां सम्भवेन प्रतिकूलतर्कपराहतिदोषानिस्तारात् । तस्मात् ब्रह्मणो जगदुपादानत्वं न दुष्यति इत्युक्तम् । अतो वागादीनां वक्तृत्वे न अनुपपत्तिः इति स्थितम् । प्रकृतमनुसरामः ।।

।। इति द्वितीयखण्डभाष्यम् ।।

 

तृतीय: खण्ड:

 

[पञ्चाग्निविद्या]

 

[श्वेतकेतुजैवल्यो: संवाद:]

 

श्वेतकेतुर्हारुणेयः पञ्चालानाँ समितिमेयाय तँ प्रवाहण जैवलिरुवाकुमारानु त्वाऽशिषत् पितेति अनु हि भगव इति ।। ।।

प्र-प्रकृतिविविक्तजीवयाथात्मविषयाँ पञ्चाग्निविद्यां संसृतिवैराग्याय प्रस्तौति । श्वेतकेतु: – एयाय । अरुणण्यापत्यमाणिः । तस्यापत्यम् आरुणेय, श्वेतकेतुनामा पञ्चालानां जनपदानां सभाम् आगाम । तँउवाच । जीवलण्यापत्यं जैवलिः, भामत: प्रवाहणः तं श्वेतकेतुमुक्तवान् । कुमारानु स्वाशियत् पितेति । है कुमार । त्वा – त्वां तव पिता अन्वशिषत् किम् – अनुशिष्टवान् किम् ? सत्यपृच्छत् इत्यर्थः । इतर आह – अनु हि भगव इति । है भगवः पूजाई । अनुशिष्टोऽस्मि हीति ।।

 

[प्रवाहणस्य प्रश्नाः]

 

वेत्थ यदितोऽधि प्रजा: प्रयन्तीति भगव इति वेत्थ यथा पुनरावर्तन्ता३ इति भगव इति वेत्थ पथोर्देवयानस्य पितृयाणस्य व्यावर्तना३ इति न भगव इति ।।।।

 

प्र.एवम् उक्तो जैलि: पप्रच्छ – वेत्थ……प्रयन्तीति प्रजाः इतोऽधि इतः ऊर्ध्वं यत्प्रयन्ति, तत् वेत्थ – जानीषे किम् ? कर्मिणां गन्तव्यो देशः कः ? इत्यर्थः । इतर आह भगव इति । जाने इति शेषः । राजा पुनः पृच्छति वेत्थ आवर्तन्ता इति । कर्मिणां पुनरावृत्तिप्रकारः कः इत्यर्थः । इतरः आह भगव इति । पुनः पृच्छति वेत्थ व्यावर्तना इति । देवयानपितृयाणयोः व्यावर्तने भेदके रूपे किं वेत्थ इत्यर्थः । केन प्रकारेण तयोः भेदः इत्यर्थः । इतरः आह भगव इति ।।

 

वेत्थ यथाऽसौ लोको सम्पूर्यता इति भगव इति वेत्थ यथा पञ्चम्यामाहुतावाप: पुरुषवचसो भवन्तीति नैव भगव इति ।।

प्र.• पुनः पृच्छति – वेत्थ……संपूर्यता इति । अस्माल्लोकात् अनवरतं गच्छद्भिः पुरुषै: कस्मात् हेतोः धुलोको न सम्पूर्यते इति । वाजसनेयके समानप्रकरणे, ‘वेत्थ यथाऽसौ लोक एवं बहुभिः पुनःपुनः प्रयद्भिः न सम्पूर्यत३ इति’ (बृ.उ.८-२-२) श्रवणात् अमुष्य लोकस्य अप्राप्ताः के इति प्रश्नस्य फलितार्थः । इतरः आह भग इति । पुनः पृच्छति वेत्थ……भवन्तीतिआपः इति भूतान्तराणामपि उपलक्षणम् । भूतसूक्ष्माणि पञ्चम्याम् आहुतौ यथा – येन प्रकारेण पुरुषवचसः – पुरुषः इति वचो यासां ताः पुरुषवचसः । पुरुषशब्दाभिलप्याः इत्यर्थः । कस्य पञ्चम्याम् आहुतौ इत्यपेक्षायां पुरुषवचस्त्वभवनकर्तृतया निर्दिष्टा आप एव हूयमानतया सम्बध्यन्ते । असंनिहितार्थान्तरकल्पने गौरवात् । ततश्च अपां पञ्चम्यामाहुतौ आपः पुरुषवचसः भवन्ति इत्यर्थः । ततश्च अपामेव पञ्चस्वपि आहुतिषु हूयमानत्वमिति सिद्धयति इति द्रष्टव्यम् । इतरः आह नैव भगब इति । अत्र रंहत्यधिकरणे (ब्र.सू.अधि.३-१-१) भगवता भाष्यकृता ‘कर्मिणां गन्तव्यदेशम् पुनरावृत्तिप्रकारं देवयानपितृयाणपथव्यावर्तने, अमुष्यलोकस्य अप्राप्तारं च वेत्थ इति पृष्ट्वा वेत्थ यथा पञ्चम्याम् आहुतावापः पुरुषवचसः भवन्ति इति पप्रच्छ’ इति भाषितम् ।।

 

अथनु किमनुशिष्टोऽवोचथाः यो हीमानि विद्यात्, कर्थं सोऽनुशिष्टो ब्रुवीतेति हाऽऽयस्तः पितुरर्धमेयाय, तँ होवाच, अननुशिष्य वाव किल मा भगवानब्रवीत् अनु त्वाऽशिषमिति ।। ।।

प्र-एवं  उक्तवन्तं श्वेतकेतुं राजा प्रत्याह – अथानु,…ब्रुवीतेति किं कस्मात् अनुशिष्टोऽस्मि इत्युक्तवानसि । यो हि इमनि अर्थजातानि न  जानीयात, स कथं अनुशिष्टोऽस्मि इति वदेत् इत्पर्थ:, यद्वा – किमनुशिष्ट: किमर्थं अनुशिष्ट: इत्यर्थ:  हाऽऽयस्तः पितुरर्धमेयाय : – श्वेतकेतु: राज्ञा जबीलिना आयस्त:-आयसितस्सन् पितुरर्धं – स्थानम् एवाय • आजगाम । तं…त्वाशिषमिति गत्वा च तं – पितरम् इत्थम् उवाच – मां अननुशिष्य – समावर्तनकाले अनुशासनीयानि सर्वाणि अननुशिष्यैव त्वाम् अन्वशिषम् इति भावान् मा प्रति अब्रवीत् इत्यर्थः ।।

 

ञ्च मा राजन्यबन्धु: प्रश्नानप्राक्षीत् तेषां नैकञ्चनाशकं विवक्तुमिति ।  होवाचयथा मा त्वं तदैतानवदो यथाऽहमेषां नैकञ्चन वेद, यद्यहमिमानवेदिष्यंकथं ते नावक्ष्यम्इति ।। ।।

प्र. – तत् कथम् इत्यत्राह – पञ्च……विवक्तुमितिराजन्यबन्धु – राजापशदः मां पञ्च प्रश्रान् अप्राक्षीत् । तेषां मध्ये एकञ्चन – एकमपि प्रश्नं विवक्तुं – विशिष्य वक्तुं  नाशकम्- न शक्तोऽस्मीति’ पितरम् उवाच इत्यर्थः । त्वया सम्यगनुशिष्टस्य कथम् झ्याम् अशक्तिः स्यादिति भावः । राजन्याः बन्धवः यस्य सः राजन्यबन्धुः । राजन्यानां बन्धुरिति वा । स्वयमराजन्यः इत्यर्थः । राजन्याभासः इति यावत् । :…….नावक्ष्यमिति सः – पिता पुत्रं वक्ष्यमाणम् उवाच । त्वं मां प्रति तदा – आगमनकाले एतान् प्रश्रानां यथावदः -तेषां नैकञ्चन अशकं विवक्तुम् इति यथा उक्तवानसि, तथा अहमपि तेषां प्रश्रानां मध्ये एकञ्चन – एकमपि यथा – यथावत् सत्यम् इत्यर्थः वेद – नाज्ञासिषम् । यदि आज्ञासिषम् तर्हि ते प्रियाय पुत्राय समावर्तनकाले कुत: नावक्ष्यम् इत्युवाच इत्यर्थः ।।

 

[गौतमेन राज्ञः समीपगमनम् ]

 

गौतमो राज्ञोऽर्धमेयाय तस्मै प्राप्तायार्हाँ चकार प्रातः सभाग उदेयाय तँ होवाच मानुषस्य भगवन् गौतम ! वित्तस्य वरं वृणीथाइति होवाच, तवैव राजन् ! मानुषं वित्तम् यामेव कुमारस्यान्ते वाचमभाषथाःतामेव मे ्रूहीति ।। ।।

प्र. राज्ञोऽर्धमेयाय ! एवम् उक्त्वा स गोत्रतो गौतमः – आरुणिः राज्ञः स्थानम् आजगाम । तस्म……चकार । प्राप्ताय तस्मै – गौतमाय राजा अर्हाँ – पूजां चकार इत्यर्थः । उदेयाय । तदा सः प्रात:काले राज्ञि सभागे – सभागते सति उदेयाय । गौतमः आजगाम इत्यर्थः । यद्वा सभाग: ‘भागः, पूजा । तेन युक्तः अर्ध्यादिभिः पूज्यमानः सः गौतमः समागतः इत्यर्थः । तं होवाच । राजा गौतमं वक्ष्यमाणम् उक्तवान् इत्यर्थः । मानुषस्य……वृणीथाः इति । हे भगवन् गौतम । मनुष्यसम्बन्धिवित्तसम्बन्धि वरं वृणीष्व इत्युवाच इत्यर्थः । होवाचसः – गौतमः प्रत्युवाच इत्यर्थः । तदेवाह – तवैव……्रूहीति । हे राजन् ! मानुषं वित्तं तवैव तिष्ठतु । तेन मम न किञ्चित् प्रयोजनम् । किन्तु मत्पुत्रस्य समीपे पञ्चप्रश्नलक्षणां यां वाचं उक्तवानसि तामेव मे ब्रूहि इति ।।

 

कृच्छ्री बभूव चिरं वसेत्याज्ञापयाञ्चकार होवाच, ‘यथा मा त्वं गौतमावदो यथेयं प्राक् त्वत्तः पुरा विद्या ब्राह्मणान् गच्छति, तस्मादु सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूत्इति ।। तस्मै होवाच ।। ।।

 

।। इति तृतीयखण्डः ।।

प्र ……चकार । एवम् उक्तो राजा गौतमस्य अप्रत्याख्येयतां ज्ञात्वा कृच्छ्री – दुःखितो बभूव । तञ्च गौतमं विद्यार्थ, चिरं वस इत्याज्ञप्तवान् । तं होवाच । एवम् आज्ञाप्य राजा तं – गौतमं पुनः उवाच । किमिति । यथा.अभूत् इति ।हे गौतम ! त्वं मां यथा अवदः, तथा करिष्यामि इति शेषः । इयं – वक्ष्यमाणा विद्या पुरा विद्यमानापि यथा – येन प्रकारेण यस्माद्धेतोरिति यावत् । त्वत्तः प्राक् ब्राह्मणान् न गच्छति – न प्राप्तवती । तस्मात् सर्वेषु लोकेषु क्षत्रस्यैव प्रशासनमभूत् – क्षत्रियजातेरेव एतद्विद्योपदेष्टृत्वम् । अतो ब्राह्मणेषु एतद्विद्यायाः अभावात् ब्राह्मणानामेव समीपं गमिष्यामि इति बुद्धिः ना कार्या । चिरवासाज्ञापनमपि सोढव्यम् इति भावः । तस्मै होवाच । अथ चिरकालम् उषितवते तस्मै गौतमाय राजा विद्याम् उपदिदेश इत्यर्थः ।।

 

।। इति तृतीयखण्डभाष्यम् ।।

 

चतुर्थः खण्डः

 

[राज्ञा गौतमाय पञ्चाग्निविद्योपदेशःद्युलोकाग्निः]

 

अस वाव लोको गौतमाग्निः तस्यादित्य एव समित् रश्मयो धूमोऽहरर्चिचन्द्रमा अङ्गारा नक्षत्राणि विस्फुलिङ्गाः ।। ।।

प्र.-तत्र, ‘वेत्थ यथा पञ्चम्यामाहुतावापः’ इति पञ्चमप्रश्नप्रतिवचनस्य इतरप्रतिवचनानुकूलत्वात् प्रथमतः तदेवाह – असौ वाव लोको गौतमाग्निः हे गौतम अस लोकः – स्वर्गलोकः एवाग्निः । तस्यादित्य एव समित् । आदित्येन हि द्युलोको दीप्यते । रश्मयो धूमः । धूमस्य समित्प्रभवत्वात् आदित्यरश्मीनां धूमत्वम् । अहरर्चिः । प्रकाशकत्वात् चन्द्रमा अङ्गाराः । अर्चिः प्रशमकालप्रभवत्वाच्च चन्द्रमसोऽङ्गारत्वम् । नक्षत्राणि विस्फुलिङ्गाः । चन्द्रावयववदुपलभ्यमानत्वात् विस्फुलिङ्गत्वम् ।।

 

[सोमराजोत्पत्तिः]

 

तस्मिन्नेतस्मिन्नग्न देवाः श्रद्धां जुह्वति तस्या आहुतेः सोमो राजा सम्भवति ।। ।।

 

।। इति चतुर्थः खण्डः ।।

प्र. – तस्मिन्………जुह्वति । आदित्यादिलक्षणसमिदाद्युपेते द्युलोकलक्षणाग्नौ देवाः – इन्द्रियाणि श्रद्धां – ‘श्रद्धा वा आपः’ (तै.बा.३-२-४) इति श्रुतेः श्रद्धाशब्दिते अपः जुह्वति । आत्मधर्मभूतबुद्धिविशेषलक्षणश्रद्धायाः ‘होतव्यत्वासम्भवात्’ श्रद्धाशब्देन आप एव उच्यन्ते इति द्रष्टव्यम् । न च इन्द्रियाणां द्युलोकाग्नौ भूतसूक्ष्मरूपाहुतिप्रक्षेपकर्तृत्वं कथमिति वाच्यम् – इन्द्रियाणाम् अभावे भूतसूक्ष्माणां जीवं परिष्वज्य द्युलोकगमनासम्भवात् इन्द्रियाणाम् होतृत्वम् उपपद्यते इति द्रष्टव्यम् । द्युलोकादिप्रापककर्मणाम् इन्द्रियाधीनत्वात् वा तथोक्तिः इति द्रष्टव्यम् । तस्या आहुतेः सोमो राजा सम्भवति । एवं स्वकर्मभिः द्युलोकं गतो जीवः स्वर्गभोगयोग्यदिव्यदेहयुक्तो भवति इत्यर्थः । न च अप्छब्दितानां भूतसूक्ष्माणां सोमराजभावे कथिते कथं जीवस्य सोमराजभावः उच्यते इति वाच्यम् । उत्तरत्र पितृयाणे, एष सोमो राजा इति चन्द्रमसं प्राप्तस्य जीवस्य सोमराजभावश्रवणात् अत्र निर्दिश्यमानसोमराजभावस्यापि भूतसूक्ष्मपरिष्वक्तजीवविषयत्वात् ।।

 

।। इति चतुर्थखण्डभाष्यम् ।।

 

पञ्चमः खण्डः

 

[पर्जन्याग्निः]

 

पर्जन्यो वाव गौतमाग्निः, तस्य वायुरेव समित् अभ्रं धूमो विद्युदर्चिः अशनिरङ्गाराः ह्रादुनयो विस्फुलिङ्गाः ।। ।।

 

प्र. – पर्जन्यो……विस्फुलिङ्गाः पर्जन्यः – वृष्टिप्रवर्तक: देवः । ह्रादुनयः मेघगर्जितानि । शिष्टं स्पष्टम् । अत्र वाय्वादीनां समिदादिकल्पनानिमित्तं यथायोग्यम् अन्वेषणीयम् ।

[होमेन वृष्ट्युत्पत्तिः]

 

तस्मिन्नेतस्मिन्नग्नौ देवाः सोमँ राजानं जुह्वति तस्या आहुतेर्वर्षं सम्भवति ।। ।।

 

।। इति पञ्चमः खण्डः ।।

 

प्र. – तस्मिन्……सम्भवति । द्युलोकभोगनिमित्तकर्मावसाने सोमराजशब्दित: स: देहः द्रवीभूय सह जीवेन मेघमण्डले पतति इत्यर्थः ।।

।। इति पञ्चमखण्डभाष्यम् ।।

 

षष्ठः खण्डः

 

[पृथिव्यग्निः]

 

पृथिवी वाव गौतमाग्निः, तस्याः संवत्सर एव समित् आकाशो धूमो रात्रिरर्चिः दिशोऽङ्गारा अवान्तरदिशो विस्फुलिङ्गाः ।। ।।

 

प्र. – पृथिवी……विस्फुलिङ्गाः तस्या संवत्सर एव समित् । संवत्सरेण कालेन समिद्धा हि पृथिवी सस्यादिनिष्पत्तये भवति । रात्रिरर्चिः । नीलरूपाश्रय-पृथिव्यग्नेः अनुरूपत्वात् रात्रेः अर्चिष्ट्वम् ।।

[अन्नोत्पत्तिः]

तस्मिन्नेतस्मिन्नग्नौ देवा वर्षं जुह्वति तस्या आहुतेरन्नँ सम्भवति ।।।।

 

।। इति षष्ठः खण्डः ।।

 

प्र. – तस्मिन्……सम्भवति । श्रद्धाशब्दवाच्यानि भूतसूक्ष्माणि इन्द्रियसंयुक्तानि स्वर्गभोगयोग्यदेहाकारेण परिणतानि सुकृतक्षये द्रवीभूतानि सन्ति पर्जन्यम् अवाप्य वर्षरूपाणि भूत्वा पृथिवीं प्राप्य व्रीहियवाद्यन्नानि भवन्ति इत्यर्थः ।।

 

।। इति षष्ठखण्डभाष्यम्

 

सप्तमः खण्डः

 

[पुरुषाग्नि:]

 

पुरुषो वाव गौतमाग्रिः, तस्य वागेव समित् प्राणी धूमो, जिह्वार्चिः चक्षुरङ्गाराः श्रोत्रं विस्फुलिङ्गाः ।। ।।

 

प्र. – पुरुषो……विस्फुलिङ्गाः तस्य वार्गव समित् । वाचा हि समिध्यते पुरुषः । न अवाग्मी । अतो वाक् समित् । एवम् अन्यत् द्रष्टव्यम् ।।

[रेतसः उत्पत्तिः]

 

तस्मिन्नेतस्मिनग्नौ देवा अन्नं जुह्वति तस्या आहुते रेतः सम्भवति ।। ।।

 

।। इति सप्तमः खण्डः ।।

प्र. – तस्मिन्……सम्भवति । एवं व्रीह्याद्यन्नरूपाणि भूतसूक्ष्माणि जीवसंश्लिष्टानि पुरुषेण अद्यमानानि पुरुषे रेतोरूपेण परिणमन्ते इत्यर्थः ।।

 

।। इति सप्तमखण्डभाष्यम् ।।

 

अष्टमः खण्डः

 

[योषाग्निः]

 

योषा वाव गौतमाग्निः, तस्या उपस्थ एव समित् उपमन्त्रयते धूमो योनिरर्चिः, यदन्तः करोति तेऽङ्गारा: अभिनन्दा विस्फुलिङ्गाः ।। ।।

प्र. – योषा……विस्फुलिङ्गाः । उपमन्त्रणं – सङ्केतकरणम् । लोहितत्वात् योनेः अर्चिष्ट्वम् । अन्तःकरणम् – मिथुनीकरणम् । अभिनन्दाः – तज्जन्यसुखलवाः ।।

 

[गर्भोत्पत्तिः]

 

तस्मिन्नेतस्मिन्नग्नौ देवा रेतो जुह्वति तस्या आहुते: गर्भः सम्भवति ।। ।।

 

।। इति अष्टमः खण्डः ।।

 

प्र.तस्मिन्……सम्भवति । रेतोरूपाणि तानि योनिद्वारा स्त्रियं प्रविश्य गर्भत्वेन परिणमन्ते इत्यर्थः ।।

 

।। इति अष्टमखण्डभाष्यम् ।।

 

नवमः खण्डः

 

[अपां पञ्चमाहुत पुरुषवचस्त्वनिगमनम् ]

 

इति तु पञ्चम्यामाहुतावापः पुरुषवचसो भवन्तीति उल्बावृतो गर्भो दश वा मासान् अन्तः शयित्वा यावद्वाऽथ जायते ।। ।।

 

प्र.इति तु……भवन्तीति । उक्तप्रकारेण श्रद्धासोमवृष्टयन्नरेतोरूपाहुतीनां मध्ये रेतोरूपायाम् पञ्चम्याम् आहुतौ अप्छब्दितानि भूतसूक्ष्माणि पुरुषशब्दाभिलपनीयानि भवन्ति इत्यर्थः । इतिशब्द: पञ्चमप्रश्नप्रतिवचनसमाप्तिद्योतनार्थः ।  उल्बावृते……जायते सः – गर्भः उल्बेन – जरायुणा वेष्टनेन वेष्टितस्सन् दश वा मासान् अन्तः – मातृकुक्षौ शयित्वा यावद्वा नव वा एकादश वा द्वादश वा मातुः कुक्षौ शयित्वा अथ – अनन्तरं जायते इत्यर्थः ।।

 

[अन्त्यगमनम् (अन्त्येष्टिः)]

 

जातो यावदायुषं जीवति तं प्रेतं दिष्टमितोऽग्नय एव हरन्ति यत एवेतो यतः सम्भूतो भवति ।। ।।

 

।। इति नवमः खण्डः ।।

 

प्र. जातो……भवति सः गर्भो जातश्च यावदायुः जीवति । आयुःक्षयसमय एव तं प्रेतं पुरुषं दिष्टं परलोकाय निर्दिष्टम् । अथ वा दिष्टं कर्मानुसृत्य यतः धुलोकपर्जन्याद्यग्नेः इतःइहागत: यतश्च – योषिद्रूपाग्नेः सम्भूतः उत्पन्नः – तस्मात् अग्नय एव देवा हरन्ति । ततश्च द्युपर्जन्यपृथिवीपुरुषयोषित्सु पुनरपि सम्भ्रमति इत्यर्थः । अयञ्च उपन्यासः वैराग्यहेतोः । कष्टं हि मातुः कुक्षौ मूत्रपुरीषवातपित्तश्लेष्मादिपूर्णे तदनुलिप्तस्य गर्भस्य उल्बाशुचि पूया’ वृतस्य शुक्लशोणितबीजस्य मातुः अशितपीत-रसानुप्रवेशेन विवर्धमानस्य निरुद्धवीर्यबलशक्तितेजःप्रज्ञाचेष्टस्य बहुकालं शयनम् , ततो योनिद्वारेण पीड्यमानस्य कष्टतरा निःसृतिः, कर्मणोपात्तं यावत् आयुः तावदेव जीवनम् । पुनरपि घटीयन्त्रकुण्डिकान्यायेन आरोहणावरोहणलक्षणं भ्रमणं हि श्रूयमाणं वैराग्यम् आपादयति। अत एतदुपन्यस्तम् इति द्रष्टव्यम् ।।

 

।। इति नवमखण्डभाष्यम् ।।

दशमः खण्डः

 

[देवयानमार्गेण गमनागमननिरूपणम् ]

 

तद्य इत्थं विदुः, ये चेमेऽरण्ये श्रद्धा तप इत्युपासते तेऽर्चिषमभिसम्भवन्ति, अर्चिषोऽहः, अह्नः आपूर्यमाणपक्षम्, आपूर्यमाणपक्षात् यान् षडुदङ्ङेति मासाँस्तान् ।। ।।

 

प्र.अथ ‘वेत्थ पथोर्देवयानस्य पितृयाणस्य च व्यावर्तने’ इति तृतीयं प्रश्नं प्रतिवक्ति – तद्य……अभिसम्भवन्ति । प्राक् प्रस्तुतस्य संसरत: जीवस्य स्वरूपं तदित्यनेन परामृश्यते । तत् – प्रत्यगात्मस्वरूपं ये इत्थं – उक्तप्रकारेण द्युपर्जन्य पृथिवीपुरुषयोषित्सु श्रद्धासोमवृष्ट्यन्नरेतश्शरीरकतया देहादिलक्षणप्रकृतिविविक्ततया च ये विदुः इत्यर्थः । अत्र ब्रह्मात्मकतया च इत्यपि योजनीयम् । भाष्यकृता ‘अप्रतीकालम्बनान् ‘(ब्र.सू.४-३-१४) इति सूत्रे ‘पञ्चाग्निविदोऽप्यर्चिरादिना गतिश्रवणात् अचिरादिना गतस्य ब्रह्मप्राप्त्यपुनरावृत्तिश्रवणाच्च । अत एव ‘तत्क्रतुन्यायेन प्रकृतिविनिर्मुक्तब्रह्मात्मकात्मानुसन्धानं सिद्धम्’ इति हि भाषितम् । अरण्ये स्थित्वा श्रद्धां पुरस्कृत्य तपश्शब्दितं ब्रह्म उपासते इत्यर्थः । वाजसनेयके समानप्रकरणे ‘श्रद्धां सत्यमुपासते’ (बृ.उ.६-२-१५) इति श्रवणात्, सत्यशब्दस्य ब्रह्मपरत्वात् तपश्शब्दोऽपि ब्रह्मपरः । ‘अनियम: सर्वेषाम्’ (ब्र.सू.३-३-३१) इत्यधिकरणे भगवता भाष्यकृता ‘तद्य इत्थं विदुः, य एवमेतद्विदुः’ (बृ.उ.८-२-१५) इति पञ्चाग्निविद्यानिष्ठान् ‘ये चेमे’ इत्यादिना श्रद्धापूर्वकं ब्रह्मोपासीनांश्च उद्दिश्य अर्चिरादिका गति: उपदिश्यते । ‘सत्यं ज्ञानमनन्तं ब्रह्म’ (ते.उ.आन.१-१) ‘सत्यं त्वेव विजिज्ञासितव्यम्’ (छां.उ.७-१६-१) इति सत्यशब्दस्य ब्रह्मणि प्रसिद्धेः, तपश्शब्दस्यापि तेन एकार्थ्यात्, सत्यतपश्शब्दाभ्यां ब्रह्मैव अभिधीयते । श्रद्धापूर्वकं ब्रह्मोपासनं च अन्यत्र श्रुतम् ‘सत्यं त्वेव विजिज्ञासितव्यम्’ इत्युपक्रम्य ‘श्रद्धा त्वेव विजिज्ञासितव्या’ (छां.उ.७-१९-१) इति श्रुतेः इति हि भाषितम् । उक्तं च व्यासार्यै: ‘परमं यो महत्तपः’ इत्यादिषु तपश्शब्दस्य ब्रह्मपरत्वम् इति । अत्र वाजसनेयके ‘श्रद्धां सत्यम्’ इति श्रद्धाशब्दस्य द्वितीयान्तत्वश्रवणात् इहापि श्रद्धाशब्दो द्वितीयान्तः । छान्दसत्वात् ‘सुपां सुलुक्’ (पा.सू.७-१-३९) इति सुपः लुक् । ततश्च पुरस्कृत्य इत्यध्याहारः । श्रद्धां पुरस्कृत्य ब्रह्मोपासते इत्यर्थः । ‘इतिस्तु’ अविवक्षितः । अथवा एवकारोऽत्र अध्याहर्तव्यः । ब्रह्म इत्येव ये उपासते इत्यर्थः । ततश्च अब्रह्मोपासनव्यावृत्तिफलकोऽयम् इति शब्दो द्रष्टव्यः । यद्वा श्रद्धातपश्शब्दयोः प्रसिद्धः एवार्थः । श्रद्धातपःपरायणानाञ्च ब्रह्मविद्यानिष्ठत्वम् अर्थसिद्धम् । ततश्च ब्रह्मविद्यानिष्ठः इत्यर्थः फलति । अयमप्यर्थः, ‘तदप्यविरुद्धम्, आर्थत्वादपि शाब्दत्वं सम्भवति युक्तम्’ इति वदतां व्यासार्याणामनुमतः एव । तेऽर्चिषमभिसम्भवन्ति । अर्चिर्देवताम् आतिवाहिकतया प्राप्नोति इत्यर्थः । अर्चिषोऽहः अह्नः इत्यादि । सर्वं स्पष्टम् ।।

मासेभ्यः संवत्सरँ, संवत्सरादादित्यम्, आदित्याच्चन्द्रमसम्, चन्द्रमसो विद्युतम् । तत्पुरुषोऽमानवः एनान् ब्रह्म गमयति एष देवयानः पन्था इति ।। ।।

 

प्र.-अत्र अर्चिरादिशब्दाः तत्तदभिमानिदेवतापराः । तत्पुरुषो……गमयति । तत्पुरुषः – वैद्युतः पुरुषः अमानवः असंसारी; ब्रह्मलोंकादागत्य एनान् । पूर्वोक्तद्विविधोपासकान् ब्रह्मलोकं प्रापयति इत्यर्थः । अमानवः सः ‘एत्य ब्रह्मलोकान् गमयति’ (बृ.उ.८-२-१५) इति श्रुत्यन्तरे श्रवणात् । एष देवयान पन्था इति । स्पष्टोऽर्थः ।।

 

[इष्टापूर्तकर्मिणां धूमादिमार्गः]

 

अथ इमे ग्रामे इष्टापूर्ते दत्तमित्युपासते, ते धूममभिसम्भवन्तिधूमाद्रात्रिं, रात्रेरपरपक्षम्, अपरपक्षाद्यान् षड्दक्षिणैति मासाँ स्तान् नैते संवत्सरमभिप्राप्नुवन्ति ।। ।।

प्र. – अथ……प्राप्नुवन्ति ये – पुरुषाः ग्रामे एव स्थित्वा इष्टं – यागादि, पूर्तं ‘खातादि’ । दत्तं – दानम् । इति शब्दः तज्जातीयोपवासादिकर्मान्तरपरः । यागदानहोमादीनि कर्माणि येऽनुतिष्ठन्ति इत्यर्थः । उक्तप्रकारेण अनुतिष्टन्ति इत्यर्थः इति व्यासार्यवचनस्थापि अयमेवार्थः । श्रुतौ पूर्वम् अनुष्ठानप्रकाराननुवृत्तेः । ते धूममभिसम्भवन्ति । धूमदेवता प्रतिपद्यन्ते आतिवाहिकत्वेन इत्यर्थः । अत्रापि धूमादिशब्दाः तत्तदभिमानिदेवतापराः । दक्षिणैति दक्षिणां दिशम् आदित्यः एति इत्यर्थः । ‘दक्षिणादाच्’ (पा.सू.५-३-३६) इति आजन्तोऽयं शब्दः । दक्षिणायनमासाभिमानीः देवताः प्रतिपद्यन्ते इत्यर्थः । ैते संवत्सरमभिप्राप्नुवन्ति एते इष्टादिकेवलकर्मकारिणः दक्षिणायनमासान् प्राप्यापि विद्वांसः इव न संवत्सरदेवतां प्राप्नुवन्ति इत्यर्थः ।।

मासेभ्यः पितृलोकम्, पितृलोकादाकाशम्, आकाशाञ्चन्द्रमसम् एष सोमो राजा, तद्देवानामन्नम्। तं देवा भक्षयन्ति ।। ।।

प्र. – पुनः किं प्राप्नुवन्ति इत्यत्राह – मासेभ्यः…..चन्द्रमसम् । स्पष्टोऽर्थः । एतेन ‘वेत्थ यदितोधिऽप्रजाः प्रयन्ति’ इति प्रथमच प्रश्नः प्रत्युक्तो भवति । एष सोमो राजा । अत्र एषः – इत्यनेन न अभिसम्भाव्यः चन्द्रमाः परामृश्यते । चन्द्रमसः – सोमराजभावोपदेशस्य व्यर्थत्वात् । अपितु इष्टादिकारी अभिसम्भविता परामृश्यते । तस्या आहुतेः सोमोराजा सम्भवति’ इति न्यायेन ‘स्वर्ग’ भोगयोग्यदिव्यदेहयुक्तो भवति इत्यर्थः । तद्देवानामन्नम् । अन्नवत् स देवानाम् उपकरणभूतो भवति इत्यर्थः । तं देवा भक्षयन्ति । तं – इष्टादिकारिणं देवभागम् उपगतं आजानसिद्धाः देवाः भक्षयन्ति – स्वकैङ्कर्येषु पशूनिव विनियुञ्जते इत्यर्थः । सूत्रितं च ‘भाक्तं वाऽनात्मवित्त्वात्’ (ब्र.सू.३-२-७) इति ।।

 

[इष्टादिकारिणां पुनरागमनमार्गः]

 

तस्मिन् यावत्सम्पातमुषित्वा अथैतमेवाध्वानं पुनर्निवर्तन्ते, यथेतमाकाशम्आकाशाद्वायुम् वायुर्भूत्वा धूमो भवति, धूमो भूत्वाऽभ्रं भवति ।। ।।

 

प्र. – तस्मिन् यावत्सम्पातमुषित्वा । सम्पतति अनेन इति सम्पात: कर्मशेषः । यावत् कर्मशेषम् उषित्वा इत्यर्थः । यावच्छब्दः साकल्यार्थः । साकल्यञ्च फलप्रदानप्रवृत्त कर्मविशेषविषयम्; न तु सर्वकर्मविषयं द्रष्टव्यम् । ‘वेत्थ यथा पुनरावर्तन्त’ इति द्वितीयप्रश्नं प्रतिवक्ति थैत……यथेतम्अथ – अनन्तरं एतमेवाध्वानं – धूमादिमार्गं यथेतं – यथागतं पुनर्निवर्तन्ते इत्यर्थः । धूमरात्र्यपरपक्षदक्षिणायनषण्मासपितृलोकाकाशक्रमेण आरोहणात् तेनैव विपरीतक्रमेण अवरोहणे प्राप्ते अत्र विशेषमाह – आकाशम् आकाशाद्वायुम् । यथा आरोहणे आकाशात् चन्द्रमस अभिसम्भवन्ति एवम् अवरोहणे चन्द्रमस: आकाशम् अभिसम्भवन्ति । आरोहणावरोहणयोः आकाशाभिसम्भवस्तु अविशिष्ट इति भावः । आकाशाद्वायुम् । अभिसम्भवन्ति इति शेषः । अत्र ‘वायुर्भूत्वा धूमो भवति’ इति उत्तरत्र श्रवणात् अत्रापि अवरोहन्तः आकाशो भवन्ति । वायुर्भवन्ति इत्येवार्थः । अवरोहतां च आकाशादिभवनं न तच्छरीरकत्वम् । सर्गाद्यकालम् आरभ्य आप्रलयम् आकाशाद्यभिमानि-देवतानाम् अन्यासां कॢप्तानां सत्त्वेन प्रतिक्षणम् अवरोहतां आकाशाद्यभिमानिदेवतात्वानुपपत्तेः । अतः तत्सादृश्यमेवार्थः । या आपः चन्द्रमण्डले दिव्यशरीरम् आरब्धवत्यः, तासां कर्मक्षये द्रवीभूतानाम् आकाशगतानां भेदकाकारप्रहाणेन आकाशसादृश्ये तदुपश्लिष्टा: जीवाः अपि आकाशसमाः उच्यन्ते । ताश्च आप: इतश्च अमुतश्च वायुना नीयमाना वायुसमाना भवन्ति । ततश्च तत्संश्लिष्टो जीवोऽपि वायुःभवति इत्युच्यते । एवमुत्तरत्रापि द्रष्टव्यम् । वायु……भवति । अपो बिभर्ति इत्यभ्रम् । मूलविभुजादित्वात् कः । ततश्च अभ्रशब्देन जलधारणावस्था उच्यते ।।

 

अभ्रं भूत्वा मेघो भवति, मेघो भूत्वा प्रवर्षति इह व्रीहियवा ओषधिवनस्पतयस्तिलमाषा इति जायन्ते अतो वै खलु दुनिष्प्रपतरं, यो यो ह्यन्नमत्ति यो रेत: सिञ्चति, तद्भूय एव भवति ।। ।।

 

प्र.अभ्रं भूत्वा मेघो भवति । ‘मिह – सेचने’ (धा.पा.९९२) इति धातोः पचाद्यच्प्रत्यये न्यङ्क्वादित्वात् कुत्वे मेघ इति रूपम् । ततश्च मेघशब्देन वर्षोन्मुखावस्था उच्यते । एवमेव अभ्रमेघयोः भेदः व्यासार्यः उक्तः । मेघो भूत्वा प्रवर्षति । मेघसंश्लिष्टो भूत्वा वर्षधारारूपेण भूमौ पतति इति फलितार्थः । इह……जायन्ते ते -वर्षसंश्लिष्टभूतसूक्ष्मपरिष्वक्ता जीवाः इह – भूमौ पतित्वा व्रीहियवादिरूपेण जायन्ते इत्यर्थः । अत्र तेन रूपेण जननं नाम – न स्थावरभावप्रतिपत्तिः । स्थावरत्वप्राप्तिहेतु-भूतकर्मणाम् इह अकीर्तनात् । किन्तु जीवान्तराधिष्ठितेषु व्रीह्यादिषु संश्लेषमात्रम् । सूत्रितं च ‘अन्याधिष्ठिते पूर्ववदभिलापात्’ (ब्र.सू.३-२-४) इति । अतो वे खलु दुर्निष्प्रपतरम् अतः – स्थावरादिभावात् अतिचिरेण निर्गमनं भवति इत्यर्थः । अत्र खलन्तात् दुनिष्प्रपतशब्दात् आतिशायनिके तरप् प्रत्यये, छान्दसे तशब्दलोपे, दुनिष्प्रपतरमिति रूपम् । ततश्च अतिशयस्य  प्रतियोग्याकाङ्क्षायां प्रागनुक्रान्ताकाशादीनां बुद्धौ सन्निधानात् तेषामेव प्रतियोगित्वेन अन्वयः स्यात् । ततश्च व्रीह्यादिषु आकाशाद्यपेक्षया चिरावस्थानोक्त्या आकाशादिषु अवस्थानस्य तदपेक्षय अल्पकालत्वं पर्यवस्यति । उक्तं च भगवता भाष्यकृता – ‘छान्दसस्तशब्दलोपः । दुनिष्प्रपतरमिति । दुःखनिष्क्रमणतरम् इत्यर्थः’ इति। न च ‘तयोरेव कृत्यक्तखलर्था:’ (पा.सू.३-४-७०) इति खलो भावकर्ममात्रविषयत्वात् , पतेश्च अकर्मकत्वेन भावार्थस्यैव परिशिष्टत्वात् तत्र च भावार्थस्य प्रकर्षाभावात् तरपो दौर्लभ्यमिति शंक्यम् – शिश्येतराम् इत्यादिप्रयोगात् भावार्थेऽपि प्रकर्षसम्भवात् । कर्त्रर्थपचाद्यजन्तात् तरपः सम्भवाञ्च भाष्यस्य न अनुपपत्तिः । यद्वा – ‘आतो युच्’ (पा.सू.३-३-१२८) ‘छन्दसि गत्यर्थेभ्यः’ (पा.सू.३-३-१२९) इति छन्दसि विशेषविहितखलर्थयुजन्तः एवायं शब्दः । रेफरूपवर्णविकारश्छान्दसः । ननु अस्य तरप्प्रत्ययत्वाभावे पूर्वनिर्दिष्टाकाशादिभ्योऽतिशयः, तेषु अचिरावस्थानं वा कथं सिद्ध्येत् इति वाच्यम् – वैशब्दस्य अवधारणार्थतया अतश्शब्दितात् व्रीह्यादिभावादेव चिरं निष्क्रमणे कथिते ततः पूर्वनिर्दिष्टेभ्य: आकाशादिभ्यः अचिरात् निष्क्रमणं सिद्ध्यति । तशब्दलोपश्छान्दसः इति भाष्यस्यापि वर्णलोपेन वा वर्णविकारेण वा यथाकथञ्चित् साधुत्वं समर्थनीयम् इत्यत्र तात्पर्यम् । व्रीह्यादयो हि गिरितटात् उदकस्रोतसा उह्यमानाः नीं प्राप्नुवन्ति । ततः समुद्रम् । ततो मकरादिभिः भक्ष्यन्ते । तेऽपि अन्यैः । तत्रैव च मकरेण सह समुद्रे विलीनाः समुद्राम्भोभिः सह जलधरैः आकृष्टाः पुनः वर्षधाराभिः मरुदेशे शिलातले वा हर्म्ये वा पतिताः ‘तिष्ठन्ति’ । कदाचित् व्यालमृगादिपीताः, ते भक्षिताश्च अन्यैः तेऽपि अन्यैः इत्येवंप्रकाराः परिचलेरन् । कदाचित् अभक्ष्येषु स्थावरेषु जाताः तत्रैव शुष्पेरन् । भक्ष्येष्वपि स्थावरेषु जातानां रेसस्सिग्देहसम्बन्धो दुर्लभ एव, बहुत्वात् स्थावराणाम् इत्यतो दुनिष्क्रमणत्वम् । योयो….. भवति । अत्र स इत्यध्याहारः । यो नोह्यादि संश्लिष्टोऽवरोहति जीवः । सः यो वोऽन्नमत्ति यो रेतः सिञ्चति, भूयः पश्चात् तत्भवति – रेतस्सिग्भावं प्राप्नोति । आकाशादिभाववत् रेतस्सिग्भावोऽपि औपचारिकः । रेतस्सिग्योगी भवति इत्यर्थः । एवमेव व्यासार्यै: उक्तम् ॥

 

[इष्टापूर्तकारिणां स्वस्वकर्मानुगुणं जन्म]

 

तद्य इह रमणीयचरणा अभ्याशो यत्ते रमणीयां योनिमाद्येरन्ब्राह्मणयोनिं वा क्षत्रिययोनिं वा वैश्ययोनि वा अथ इह कपूयचरणा अभ्याशो यत्ते कपूयां योनिमापद्येरन् श्वयोनिं वा सूकरयोनिं वा चण्डालयोनिं वा ।। ।।

 

प्र. – द्ये……योनिं वा तत् तेषु – ये अभ्याशः – अभ्यागन्तारः अभ्याङ्पूर्वात् अशेर्धातोः क्विबन्तात् बहुवचनान्तोऽयं शब्दः । परलोकात् इह लोकं प्रति अवतरन्तः इत्यर्थः । इति प्रसिद्धौ । यत् – यदा रमणीयचरणाः चर्यते इति चरणं कर्म । रमणीयकर्माणः – भुक्तशिष्टपरिपक्वसुकृतकर्मयुक्ताः भवन्ति इत्यर्थः । अत्र यदा शब्दानुरोधात्’ तदा इत्यपि अध्याहर्तव्यम् । तदा ते रमणीयां ब्राह्मणादियोनिम् आप्नुवन्ति इत्यर्थः । कपूयचरणाः कुत्सितकर्माणः इत्यर्थः । भुक्तशिष्टकर्मानुसारिजन्म प्राप्नुवन्ति इत्यर्थः । शिष्टं स्पष्टम् ।।

[मार्गद्वयभ्रष्टानां तृतीयागतिः]

 

थैतयोः पथोर्न कतरेण तानीमानि क्षुद्राण्यसकृदावर्तीनि भूतानि भवन्ति जायस्व म्रियस्वेतिएतत् तृतीयं स्थानम् तेनासौ लोको सम्पूर्यते । तस्माज्जगुप्सेत तदेष श्लोकः ।। ।।

 

प्र. – वेत्थ यथाऽसौ लोको न सम्पूर्यता (३)’ इति चतुर्थप्रश्नं प्रतिवक्ति – थैतयोः ……सम्पूर्यते अथ शब्दः प्रतिवचनान्तरोपक्रमे । यानि भूतानि उक्तयोः एतयोः देवयानपितृयाणयोः पथोः मध्ये कतरेण केनापि मार्गेण न गच्छन्ति मार्गद्वयप्राप्तिहेतुभूतविद्याकर्मरहिताः इत्यर्थः । तानीमानि भूतानि क्षूद्राणि -दंशमशककीटादीनि असकृदावर्तीनि सन्ति, जायस्व, म्रियस्वेति भवन्ति । पुनः पुनः जायन्ते म्रियन्ते इत्यर्थः । ‘सक्तून् पिब धानाः खादे इत्ययमभ्यवहरतीत्यस्य’ पुनः पुनः पिबति पुनः पुनः खादति इति हि अयमर्थः तद्वत् । ‘क्रियासमभिहारे लोट् लोटो हि स्वो वा च तध्वमोः’ (पा.सू.३-४-२) इति ‘पौनःपुन्ये’ क्रियासमभिहारे लोटस्तध्वमोर्हिस्वादेशविधानात् जायस्व म्रियस्व इति रूपम् । ‘यथाविध्यनुप्रयोगः पूर्वस्मिन्’ (पा.सू.३-४-४) ‘समुच्चये सामान्यवचनस्य’ (पा.सू.३-४-५) इति भवन्ति इति सामान्यशब्दस्य अनुप्रयोगः । उक्तं च व्यासार्यै: ‘पुरीमवस्कन्द लूनीहि नन्दनम्’ (शि.व.१-५१) इतिवत् इति । एतत्तृतीयं स्थानम् । अत्र एतच्छब्देन जायस्व म्रियस्वेति भूतानि भवन्तिति प्रथमान्तशब्देन प्रधानतया निर्दिष्टाः पापकर्माणः परामृश्यन्ते, सर्वनाम्नां पूर्वनिर्दिष्टप्रधानपरामर्शित्वात् । स्थानशब्दाभिप्रायेण एकवचनम् । पूर्वनिर्दिष्टद्युलोक-ब्रह्मलोकापेक्षया क्षुद्रजन्तुभवनादिलक्षणस्थानस्य तृतीयत्वात् तत्स्थानसम्बन्धात् पापकर्माणः तृतीयं स्थानम् इत्युच्यन्ते । तेनास लोको सम्पूर्यते तेन – तृतीयस्थानशब्दितैः पापकर्मभिः अस – द्युलोकः सम्पूर्यते – न प्राप्यते इत्यर्थः । अत्र एतत् तृतीयं स्थानम् इति एतच्छब्देन पूर्वनिर्दिष्टः पौनःपुन्येन जननमरणादिभवनलक्षणः धात्वर्थ एव परामृश्यते । तस्यैव तृतीयस्थानत्वम् । ततश्च एतस्य तृतीयस्थानस्य सद्भावात् अत्रैव स्थाने जीवानां प्रायेण प्रचारात् द्युलोकगन्तॄणाम् अल्पत्वात् द्युलोको न सम्पूर्यते इत्युक्तावपि भाष्यस्य न विरोधः । अत एव ‘द्युलोकारोहावरोहाभावेन द्युलोकासम्पूर्तिवचनात्’ इति भाषितमिति द्रष्टव्यम् ।

तस्माजगुप्सेत । यस्मात् संसारिणां गतिः उक्तरीत्या कष्टतरा, तस्मात् संसारात् जुगुप्सेत । मा भूत् मे एवंविधसंसारमहोदधौ घोरे पातः इति निन्देत् इत्यर्थः मुक्तिफलकपञ्चाग्निविद्या स्वरूप’ज्ञानस्य फलान्तरं वक्तुमाह – तदेषश्लोकः । तच्छब्दः प्रसिद्धिपरः । एषःवक्ष्यमाण: श्लोकः प्रसिद्धः इत्यर्थः ।।

 

स्तेनो हिरण्यस्य सुरां पिबँश्च गुरोस्तल्पमावसन्ब्रह्महा एते पतन्ति चत्वारः पञ्चमश्चाचरँस्तेइति ।। ।।

 

प्र.-मन्त्रमेवाह – स्तेनो……तैरिति तैराचरन् – स्तेनादिभिः चतुभिः विद्यायोनिसम्बन्धम् आचरन् इत्यर्थः । शिष्टं स्पष्टम् ।।

 

[पञ्चाग्निविद्यास्तुतिः]

 

अथ एतानेवं पञ्चाग्नीन् वेद, सह तैरप्याचरन् पाप्मना लिप्यते । शुद्धः पूतः पुण्यलोको भवति, एवं वेद एवं वेद ।। १० ।।

 

।। इति दशमः खण्डः ।।

प्र.अथ……वेद । स्तेनादिभिः उक्तमहापातकिभिः अपि सह ‘संसर्गम्’ आचरन् पाप्मना न लिप्यते । पूर्वोत्तराघशून्यः भवति इत्यर्थः । एवं वेद । समस्तप्रश्नप्रतिवचन-समाप्तिद्योतिका द्विरुक्तिः । सिष्टं स्पष्टम् ।। एतत्खण्डान्तर्गतवाक्यविषयकाणि अधिकरणानि उपन्यस्यन्ते – अधिरादिपादे ‘कार्य बादरिरस्य गत्युपपत्तेः’ (ब्र.सू.४-३-६) । कार्य – हिरण्यगर्भमुपासीनानेव अर्चिरादिर्गणः नयति इति बादरिराचार्यों मन्यते । परिच्छिन्नप्राप्त्यर्थं हि गतिः उपपद्यते, न अपरिच्छिन्नपरब्रह्मप्राप्तये । न ह्याकाशं प्रेप्सता देशविशेषो गन्तव्यो भवति । ‘विशेषितत्वाच्च (ब्र.सू.४-३-७) । ‘पुरुषो मानस एत्य ब्रह्मलोकान् गमयति ते तेषु ब्रह्मलोकेषु पराः परोवतो वसन्ति’ (बृ.उ.६-२-१५)। इति गन्तव्यस्य बहुवचनान्तलोकशब्देन विशेषितत्वात् परब्रह्मण एकत्वेन बहुत्वासम्भवात्, लोकशब्दस्य देशविशेष एव मुख्यत्वाञ्च न परब्रह्मणः अर्चिरादिप्राप्यत्वम् । ननु स ‘एनान् ब्रह्म गमयति’ इति नपुंसकलिङ्गब्रह्मशब्देन चतुर्मुखस्य कथं निर्देश इत्यत्राह ‘सामीप्यात्तु तद्व्यपदेशः’ (ब्र.सू.४-३-८) । ‘यो ब्रह्माणं विदधाति पूर्वम्’ (श्वे.उ.६-१८) इति हिरण्यगर्भस्य प्रथमजत्वेन ब्रह्मसामीप्यात् ब्रह्मशब्देन अमुख्यया वृत्त्या चतुर्मुखस्य निर्देश उपपद्यते इति भावः । ननु हिरण्यगर्भस्य द्विपरार्धावसाने नाशात् तं प्राप्तस्य पुनरावृत्तेः अवर्जनीयत्वात् ‘एतेन प्रतिपद्यमाना इमं मानवमावर्त नावर्तन्ते’ (छां.उ.४-१५-५) इति अनावृत्तिप्रतिपादक- श्रुतिविरोधः । तत्राह – ‘कार्यात्यये तदध्यक्षेण सहात: परमभिधानात्’ (ब्र.सू.४-३-९) । ‘ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे’ (मुं.उ.३-२-६) इत्यभिधानात् कार्यस्य ब्रह्मलोकस्यात्यये तदध्यक्षेण ब्रह्मणा सह अत: ब्रह्मलोकात् परं ब्रह्म प्राप्नोति । अतश्च अनावृत्तिश्रुतिरुपपद्यते इति भावः । ‘स्मृतेश्च’ (ब्र.सू.४-३-१०) । “ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम्” ।। (कू.पु.१२-२७६) इति स्मृतेश्च अयमर्थः अवसीयते । ‘परं जैमिनिर्मुख्यत्वात् ‘ (ब्र.सू.४-३-११) । नपुंसकलिङ्गब्रह्मशब्दस्य परस्मिन् ब्रह्मण्येव मुख्यत्वात् परमेव ब्रह्म अर्चिरादिः प्रापयति इति जैमिनिराचार्यो मन्यते । तस्य परिपूर्णत्वेऽपि ‘परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छां.उ.८-३-४) इति श्रुत्यनुसारेण निःशेषाविद्यानिवृत्तेः देशविशेषविशिष्टब्रह्मप्राप्तिसापेक्षत्वात् देशविशेषविशिष्टब्रह्मप्राप्तये गतिः उपपद्यते । लोक्यते इति व्युत्पत्त्या लोकशब्दोऽपि ब्रह्मणि उपपन्नः । बहुवचनमपि एकस्मिन् उपचारात् प्रयुज्यते । ‘दर्शनाच्च’ (ब्र.सू.४-३-१२) । दर्शयति च श्रुतिः ब्रह्मप्राप्तेर्गतिसापेक्षत्वम् एष सम्प्रसादो अस्माच्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा.उ.८-३-४) इति। ननु; ‘प्रजापतेः सभां वेश्म प्रपद्ये’ (छां.उ.८-१४-१) इति अर्चिरादिना गतस्य कार्यप्रजापतिविषयाभिसन्धिः दृश्यते । तत्राह – ‘न च कार्ये प्रत्यभिसन्धिः’ (ब्र.सू.४-३-२३) । नायं प्रत्यभिसन्धिः कार्यहिरण्यगर्भविषयः, अपितु परब्रह्मविषयः । तस्यैव प्रजापतिशब्दमुख्यवाच्यत्वात् । उत्तरत्र, ‘यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशाम्’ (छां.उ.८-१४-१) इति सर्वाविद्याविमोकपूर्वकसर्वात्मभावाभिसन्धानात् , ‘अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य’ । ‘धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानि’ (छां.उ.८-१६-१) इति ब्रह्मलोकस्य अकृतत्वेन विशेषितत्वाच्च परमेव ब्रह्म अर्चिरादिः नयतीति जैमिनिः आचार्यों मन्यते । ‘अप्रतीकालम्बनान्नयतीति बादरायण उभयथा च दोषात् तत्क्रतुश्च’ (ब्र.सू.४-३-१४)। अब्रह्मभूतं नामादिकं ये ब्रह्मत्वेन उपासते – ते प्रतीकालम्बनाः । तद्भिन्नान् – प्रकृतिवियुक्तं प्रत्यगात्मानं ब्रह्मात्मकत्वेन ये पञ्चाग्निविदः उपासते, ये च केवलं परं ब्रह्मोपासते उभयविधानपि तान् नयतीति च बादरायणः आचार्य: मन्यते । केवलं परमेव उपासीनान नयतीति पक्षे, कार्यम् उपासीनान् नयतीति पक्षे च, ‘तद्य इत्थं विदुर्य चेमेऽरण्ये’ इति श्रुतिविरोधप्रसङ्गात् । ननु पञ्चाग्निविद्यायाः ब्रह्मात्मक प्रत्यगात्मविद्यात्वे किं प्रमाणम् ? तत्राह – तत्क्रतुश्चेति । पञ्चाग्निविद्यायाः ब्रह्मविद्यात्वाभावे अर्चिरादिगतिर्वा तया गत्या ब्रह्मप्राप्तिर्वा न स्यात् । तत्क्रतुन्यायविरोधप्रसङ्गात् । ब्रह्मविद्यात्वे तु तत्क्रतुन्यायोऽपि अनुगृहीतो भवति । इयांस्तु विशेषः – पञ्चाग्निविद्या ब्रह्मात्मकस्वात्मविद्या । ‘परविद्यास्तु प्रत्यगात्मशरीरकपरमात्मविद्याः विशेष्यविशेषणभावे परं व्यत्यासः । अयं तु भगवतः बादरायणस्य सिद्धान्तः इति स्थितम् । तथा लोके ग्रामादिगन्तृृणाम् इमं वृक्षं गत्वा इमां नदीं गत्वा स: ग्रामः गन्तव्यः इति तत्तद्देशिकोपदेशस्वरूपत्वादस्यापि वाक्यस्य अर्चिरादयः मार्गचिह्नभूताः । अथवा, ‘अग्निलोकमागच्छति स वायुलोकम्’ (कौ.उ.१-३) इति लोकशब्दश्रवणात् अर्चिराद्याः भोगभूमयः इत्येवं पूर्वपक्षे प्राप्ते – उच्यते ‘आतिवाहिकास्तल्लिङ्गात्’ (ब्र.सू.४-३-४) । विदुषाम् अतिवाहे परमपुरुषेण नियुक्ताः देवताविशेषाः आतिवाहिकाः । गन्तॄणां गमयितारः इति यावत् । तल्लिङ्गात् । ‘तत्पुरुषोऽमानवः स एनान् ब्रह्म गमयति’ इति वैद्युतपुरुषस्य गमयितृत्वसिद्धवत्कारेण ब्रह्मगमयितृत्वमात्रविशेषप्रतिपादनपरेण वाक्येन इतरेऽपि गमयितारः इति प्रतीतेः । अर्चिरादिशब्दानां च, ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ (ब्र.सू.२-१-५) इति सूत्रेण तदभिमानिदेवतापरत्वसम्भवात् ।  ननु, वैद्युतपुरुषस्यैव ब्रह्मगमयितृत्वे ‘ऊर्ध्वं’ कौषीतकीवाक्यानुसारेण निवेशितानां वरुणेन्द्रप्रजापतीनां कथं सम्बन्धः ? तत्राह – ‘वैद्युतेनैव ततस्तच्छ्रुतेः’ (ब्र.सू.४-३-५) । ततः विद्युतः उपरि वैद्युतेनैव ब्रह्मप्राप्त्यतिवाहनम् । ‘स एनान् ब्रह्म गमयति’ इति श्रुतेः । वरुणादयोऽपि तदनुग्राहकाः भवन्ति इति द्रष्टव्यमिति स्थितम् । तथा वैराग्यपादे लोकान्तरं गच्छतो जीवस्य देहारम्भकभूतसूक्ष्माणां तत्रैव सुलभतया न भूतसूक्ष्मपरिष्वक्ततया गमनमिति पूर्वपक्षे प्राप्ते, – उच्यते – ‘तदन्तरप्रतिपत्तौ रंहति सम्परिष्वक्तः प्रश्ननिरूपणाभ्याम्’ (ब्र.सू.३-१-१)। पूर्वत्र ‘संज्ञामूर्तिकॢप्तिः’ (ब्र.सू.२-४-१७) इति सूत्रे मूर्तिशब्देन निर्दिष्टो देहः तच्छब्देन परामृश्यते । तदन्तरप्रतिपत्तौ – देहान्तरप्रतिपत्यर्थं जीवो भूतसूक्ष्मैः परिष्वक्तः एव रंहति – गच्छति इत्यर्थः । पञ्चाग्निविद्यायां – ‘वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति’ इति पञ्चस्वपि आहुतिषु अप्छब्दितानां भूतसूक्ष्माणां हूयमानतया सम्बन्धं सिद्धवत्कृत्यैव, अपां पञ्चम्यामाहुतौ आपः पुरुषवचसो भवन्तीति कथं वेत्थेति प्रश्नात्, धुपर्जन्यपृथिवीपुरुषयोषिद्रूपेषु अग्निषु आपः श्रद्धासोमवृष्ट्यन्नरेतोरूपेण हूयमानाः सत्यः पञ्चम्यां रेत: आहुतौ पुरुषाकारेण परिणमन्ति इति प्रतिवचनदर्शनाच्च अप्छब्दितभूतसूक्ष्मपरिष्वक्तः एव आरोहावरोहयोः सञ्चरन्ति इति भावः । ननु ‘आपः पुरुषवचसो भवन्ति’ इति अपामेव पुरुषवचस्त्वं प्रतिपाद्यते । न भूतान्तराणाम् इति भावः । तत्राह – ‘त्र्यात्मकत्वात्तु भूयस्त्वात्’ (ब्र.सू.३-१-२)। तुशब्दः चोद्यव्यावृत्त्यर्थः । केवलानाम् अपां देहारम्भकत्वासम्भवेन त्र्यात्मकत्वात् अप्छब्दो भूतान्तरस्यापि उपलक्षकः । तर्हि कुतो अप्छब्देन निर्देशः इत्यत्राह – भूयस्त्वात् । तेजोऽबन्नलक्षणभूतत्रयमध्ये देहस्य लोहितप्रचुरतया अपां भूयस्त्वात् अप्छब्देन निर्देशः इति भावः । ‘प्राणगतेश्च’ (ब्र.सू.३-१-४) । ‘तमुत्क्रामन्तं प्राणोऽनूत्क्रामति । प्राणमनूत्क्रामन्तं सर्वे प्राणा अनूत्क्रामन्ति’ इति इन्द्रियाणामपि सहगतिश्रवणात्, भूतसूक्ष्मपरिष्वक्ततया जीवगमनाभावे निराश्रयाणाम् इन्द्रियाणां गमनासम्भवात् , भूतसूक्ष्मपरिष्वक्तस्यैव गमनम् अभ्युपगन्तव्यम् । ‘स्मयते च’ (ब्र.सू.४-२-१३) । ‘गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात्’ (भ.गी.१५-८) इति इन्द्रियाणाञ्च नयनस्य स्मरणात् तेषाञ्च आश्रयतया भूतसूक्ष्माणां गतिः अभ्युपगन्तव्या । ‘अग्न्यादिगतिश्रुतेरिति चेन्न भाक्तत्वात्’ (ब्र.सू.३-१-४) । ‘यत्रास्य पुरुषस्य मृतस्याग्निं वागप्येति वातं प्राणश्चक्षुरादित्यम्’ (बृ.उ.३-२-१३) इत्यादिना प्राणानाम् , मरणकाले अग्न्यादिषु अप्ययश्रवणात् न प्राणानां जीवेन सह गतिस्सम्भवतीति चेत् न अग्न्यादिषु अप्ययश्रवणस्य भाक्तत्वात् । ओषधीर्लामानि वनस्पतीन् केशाः’ (बृ.उ.३-१-१३) इति लोमकेशानामपि ओषधिवनस्पतिषु अप्ययश्रवणात् तस्य च प्रत्यक्षबाधितत्वेन ओषधिवनस्पतिषु लोमकेशाप्ययस्य भाक्तत्वस्य अभ्युपगन्तव्यत्वात् ‘तत्सहपठितानामग्न्यादिषु’ वागाद्यप्ययानामपि भाक्तत्वमेव । ततश्च, अग्निं वागप्येति इत्यस्यायमर्थः । ‘अग्निर्वाग्भूत्वा मुखं प्राविशत्’ (ऐ.उ.२-४) इति अग्नेः वागधिष्ठातृतया मुखप्रवेशप्रतिपादनात् मरणकाले अग्निर्म्रियमाण-पुरुषवागधिष्ठातृतां परित्यज्य अनधिष्ठातृरूपेण वर्तते इति ।

‘प्रथमेऽश्रवणादिति चेन्न ता एव ह्युपपत्तेः’ (ब्र.सू.३-१-५) । यदुक्तम् – प्रश्नप्रतिवचनाभ्यां द्युपर्जन्यादिषु भूतसूक्ष्मपरिष्वक्तस्यैव जीवस्य गमनमिति, तत् न उपपद्यते । प्रणवे एव विस्वरः इति न्यायेन प्रथमाहुतावेव, ‘तस्मिन्नेतस्मिन्नग्नौ देवाः श्रद्धां जुह्वति’ इति प्रथमपर्याये श्रद्धायाः एव होम्यत्वश्रवणेन अप्छब्दितभूतसूक्ष्माणां होम्यत्वाश्रवणात् इति चेत् न यदि प्रथमे पर्याये अप्छब्दितव्यतिरिक्तायाः श्रद्धायाः होम्यत्वम्, तर्हि प्रश्नप्रतिवचनयोः अपां पञ्चम्यामाहुताविति निर्देशो न उपपद्यते । अपां पञ्चमाहुतिसम्बन्धो हि तदितराहुतिचतुष्टयसम्बन्ध एव उपपद्यते । बुद्धिविशेषलक्षणश्रद्धाया आत्मतो निष्कृष्य होम्यत्वा’नुपपत्तेश्च श्रद्धाशब्देन आप एव उच्यन्ते । ‘श्रद्धा वा आपः’ (तै.ब्रा.३-२-४) इति श्रुतेः ।

‘अश्रुतत्वादिति चेन्न इष्टादिकारिणां प्रतीतेः’ (ब्र.सू.३-१-६)। द्युपर्जन्यादिषु प्रश्नप्रतिवचनवशात् भूतसूक्ष्माणां गमनसम्भवेऽपि न तत्परिष्वक्तस्य जीवस्य गमनम् , अश्रुतत्वादिति चेत् न – उत्तरत्र पितृयाणवाक्ये, ‘मासेभ्यः पितृलोकं पितृलोकादाकाशं आकाशाच्चन्द्रमसमेष सोमो राजा’ इति द्युलोकं प्राप्तस्य इष्टादिकारिणो जीवस्य सोमराजभावश्रवणात्, अत्रापि तस्याः आहुतेः सोमो राजा सम्भवति इति द्युलोकं प्रविष्टानां भूतसूक्ष्माणां सोमराजभावश्रवणात् अत्रापि आपः पुरुषवचसो भवन्ति इत्यप्छब्देन न केवलभूतसूक्ष्ममात्रम् उच्यते ; अपितु तत्परिष्वक्त: जीवः । पुरुषशब्दाभिलपनीयत्वमपि तत्परिष्वक्तः जीवस्यैव । ततश्च, ‘आपः पुरुषवचसो भवन्ति’ इत्यत्र अबादिशब्दानां तत्परिष्वक्तजीवपरत्वात् भूतसूक्ष्मपरिष्वक्तस्यैव जीवस्य गमनं सिद्धम् । ननु ‘तं देवा भक्षयन्ति’ इति सोमराजभावं प्राप्तस्य भक्ष्यमाणत्वश्रवणात्, जीवस्य अनदनीयत्वात्, पितृयाणमार्गे सोमराजशब्दनिर्दिष्टो न जीव इत्यत्राह – ‘भाक्तं  ‘वाऽनात्मवित्त्वात् तथा हि दर्शयति’ (ब्र.सू.३-१-७) । देवभक्ष्यमाणत्ववचनं भाक्तम्, केवलेष्टादिकारिणाम् अनात्मवित्त्वात् । अनात्मविदाञ्च, ‘यथा पशुरेवं स देवानाम्’ (बृ.उ.१-४-१०) इति श्रुतिदर्शनेन पशुवत् भोगोपकरणत्वात् ‘तं देवाः भक्षयन्ति’ इत्युक्तिरुपपद्यते । अत: भूतसूक्ष्मपरिष्वक्तः एव जीवः गच्छति इति स्थितम् । समनन्तराधिकरणे’ – ‘यावत्सम्पातमुषित्वा’ इति संपातशब्दितसर्वकर्मफलस्य तत्रैव उपभोक्तव्यत्वश्रवणात् । “प्राप्यान्तं कर्मणस्तस्य यत्किञ्चेह करोत्ययम् । तस्माल्लोकात्पुनरेत्यस्मै लोकाय कर्मणे” ।। (बृ.उ.६-४-६) इति बृहदारण्यके श्रवणात् सर्वं कर्मफलं भुक्त्वा निरनुशय एव अवरोहति जीवः । अनुशयः भुक्तशिष्टं कर्म । एवं ‘प्राप्ते’ उच्यते – ‘कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यां यथेतमनेवञ्च (ब्र.सू.३-१-८) । कृतस्य – कर्मणः अत्यये – अवसाने अनुशयवानेव प्रत्यवरोहति जीवः ; दृष्टस्मृतिभ्यां – श्रुतिस्मृतिभ्याम् इत्यर्थः । ‘तद्य इह रमणीयचरणा अभ्याशो ह यत्’ इति श्रुतेः । ‘वर्णा आश्रमाश्च स्वकर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततश्शेषेण विशिष्टदेशजातिकुलरूपायुश्श्रुतवृत्तवित्तसुखमेधसो जन्म प्रतिपद्यन्ते । विष्वञ्चो विपरीता विनश्यन्ति’ (गौ.ध.सू.२-२-२९,३०) इति स्मरणाच्च । अतः सानुशयः एवावरोहति । ‘यावत्सम्पातमुषित्वा’ इत्यादिकं तु फलदान प्रवृत्त कर्मविशेषविषयम् । तत्र च ‘अथैतमेवाध्वानं पुनर्निवर्तन्ते यथेतमाकाशम्’ इति श्रवणात् यथागमनं प्रत्यागमनम् । ‘आकाशाद्वायुं वायुर्भूत्वा धूमो भवति’ इति श्रवणात् अनेवं च । येन प्रकारेण गतं – तदन्येन प्रकारेण अवरोहन्ति इत्यर्थः । ‘चरणादिति चेन्न तदुपलक्षणार्थेति कार्ष्णाजिनिः’ (ब्र.सू.३-१-९) । ननु ‘रमणीयचरणाः अभ्याशो ह यत् ते रमणीयां योनिमापद्येरन्’ इत्यादिना सदसच्चरणयोरेव सदसद्योनिप्राप्तिहेतुत्वं श्रूयते । चरणं – आचारः, शीलं, वृत्तमिति पर्यायाः । ततश्च रमणीयचरणाः इति श्रुतिवशादवरोहतां सदसद्योनिजन्महेतुभूतचरणशब्दिताचारानुवृत्तावपि न कर्मशेषानुवृत्तौ प्रमाणत् अस्तीति चेत् न – चरणश्रुतिः कर्मोपलक्षणार्थेति कार्ष्णाजिनिः’ आचार्यों मन्यते । केवलाच्चरणशब्दितात् आचारात्सुखदुःखहेतुभूतयोनिप्राप्त्यसम्भवात् । ‘आनर्थक्यमिति चेन्न तदपेक्षत्वात्’ (ब्र.सू.३-१-१०) । ननु सन्ध्यावन्दनाद्याचारस्य सुखदुःखहेतुत्वाभावे आनर्थक्यं स्यादिति चेन्न तदपेक्षत्वात् अग्निहोत्रादिपुण्यकर्मणः । ‘सन्ध्याहीनोऽशुचिर्नित्यमनर्हः सर्वकर्मसु’ (द.स्मृ.२-२७) इति श्रवणात् सन्ध्यावन्दनाद्याचारवत एव वैदिककर्मणि अधिकारात् । ‘सुकृतदुष्कृते एवेति तु बादरिः’ (ब्र.सू.३-१-११) । ‘पुण्यं कर्माचरति, पापं कर्माचरति’ इति सुकृतदुष्कृतकर्मसु चरतिशब्दप्रयोगात् चर्यते इति चरणमिति व्युत्पत्त्या सुकृतदुष्कृते एव चरणशब्दाभिधेये । ‘यान्यनवद्यानि कर्माणि तानि सेवितव्यानि । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि’ (तै.उ.शिक्षा.११-२) इति कर्माचारयोः पृथङ्निर्देशस्तु गोबलीवर्वन्यायात् उपपद्यते । वैतानिकानि तु कर्माणि कर्माणि इत्युच्यन्ते । इतराणि तु आचारशब्देन अभिलप्यन्ते । अत: चरणशब्देन सुकृतदुष्कृतयोः एव अभिलापः इति बादरिराचार्यों मन्यते इति स्थितम् । तथा, ‘यथेतमाकाशमाकाशाद्वायुं वायुर्भूत्वा धूमो भवति’ इत्यादी आकाशार्दिभावोऽपि देवमनुष्यादिभाववत् तत्तच्छरीरकत्वलक्षण एव अस्तु इति पूर्वपक्षे प्राप्ते – उच्यत – ‘तत्स्वाभाव्यापत्तिः उपपत्तेः’ (ब्र.सू.३-१-२२) । तत्स्वाभाव्यापत्तिः आकाशादिसादृश्यापत्तिः इत्यर्थः । स्वभाव एव स्वाभाव्यम् । ‘वर्तमानसामीप्ये’ इत्यादिवत् स्वार्थिकः ष्यञ् । अतः तत्स्वाभाव्यापत्ति: तत्सादृश्यापत्तिः इत्यर्थः । चन्द्रमण्डले शरीरारम्भकाणां भूतसूक्ष्माणां कर्मक्षये द्रवीभूतानाम् आकाशगतानां भेदकाकारप्रहाणेन आकाशादिसादृश्ये तदुपश्लिष्टानुशयिनोऽपि आकाशसमाः भवन्ति इत्यर्थः । कुतः ? उपपत्तेः सुखदुःखोपभोगाय हि तच्छरीरसंसर्गः । न हि अनुशयिनं प्रति आकाशादेः जीवान्तरशरीरभूतस्य तद्भोगाश्रयत्वम् अस्ति । युगपद् भोक्तृद्वयसमावेशे तयोः परस्परविरुद्धभोगार्थतया शरीरोन्मथनप्रसङ्गात् । ‘न च’ अवरोहन्तो जीवाः एव तत्तदभिमानिदेवताः भवन्तु इति चेत् न – सर्गाद्यकालमारभ्य आप्रलयम् आकाशाद्यभिमानिदेवतानां अनुशयिभ्योऽन्यासां कॢप्तानां सत्त्वेन अनुक्षणम् अवरोहताम् अनुशयिनाम् आकाशाद्यभिमानिदेवतात्वानुपपत्तेः इति स्थितम् । – तदुत्तराधिकरणे’ – आकाशप्राप्तिप्रभृति यावदब्रीह्यादिप्राप्तिः किं तत्र तत्र नातिचिरं तिष्ठति, उत अनियमः इति विशये, नियमहेत्वभावादनियमः इति प्राप्ते – उच्यते, ‘नातिचिरेण विशेषात्’ (ब्र.सू.३-१-२३) । आकाशदितो नातिचिरेण निष्क्रमणम् कुतः ? विशेषात् । उत्तरत्र व्रीह्यादिप्राप्तौ, ‘अतो वै खलु दुर्निष्प्रपतरम्’ इति विशिष्य कृच्छ्रनिष्क्रमणाभिधानात् स्थितम् ।

तदुत्तराधिकरणे – ‘व्रीहियवा ओषधिवनस्पतयः तिलमाषा इति जायन्ते’ इत्यनेन अनुशयिनां व्रीह्यादिभावः उच्यते । तत्र, देवो जायते, मनुष्यो जायते इतिवत् इह ; तिलमाषा इति जायन्ते’ इति श्रवणात् व्रीह्यादिशरीरकाः एवानुशयिनो भवन्ति इति प्राप्ते – उच्यते – ‘अन्याधिष्ठिते पूर्ववदभिलापात्’ (ब्र.सू.३-१-२४) । अवरोहतां ‘जीवान्तराधिष्ठिते’ व्रीह्यादौ संश्लेषमात्रम् । कुतः ? पूर्ववदभिलापात् । ‘आकाशाद्वायुं वायुर्भूत्वा धूमो भवति’ इत्यादौ आकाशादिभावे हेतुभूतकर्मकीर्तनाभावात् यथा आकाशादिषु संश्लेषमात्रम्, एवं व्रीह्यादिस्थावरभावहेतुभूतकर्मकीर्तनाभावात् , उत्तरत्रैव ‘रमणीयचरणा अभ्याशो ह यत्’ इति ब्राह्मणादिभाव एव हेतुभूतस्य कर्मणः कीर्तनात् व्रीह्यादौ जीवान्तराधिष्ठिते संश्लेषमात्रमेव । ‘अशुद्धमितिचेन्न शब्दात्’ (ब्र.सू.३-१-२५) । इष्टादिकर्मणां पशुहिंसामिश्रुत्वात् हिंसायाश्च । ‘न हिंस्यात्’ इति निषिद्धत्वेन अनिष्टसाधनत्वेन पापतया, तन्मिश्रतयां सुकृतकर्मणाम् अशुद्धत्वात् सुकृतांशस्य फलं स्वर्गेऽनुभूयहिंसांशस्य स्थावरादिभावलक्षणं फलम् अवरोहन् अनुभवतु । ननु न हिंस्यात् इति निषेधः विहितक्रत्वर्थहिंसाव्यतिरिक्तविषयोऽस्त्विति चेत् न- पुष्ट्यादिरूप इष्टसाधनघृतपानादौ मोहादिरूपानिष्टसाधनत्वस्य च दर्शनेन उसर्गापवादन्यायस्य अत्र अनवतारात् । अतः यागाद्यनुप्रविष्टहिंसाफलत्वेन स्थावरभावोऽनुभोक्तव्य इति चेन्न । प्रवर्तनानिवर्तनारूपविधिनिषेधयोः अविरोधस्य वक्तुम् अशक्यतया सति च विरोधे सामान्यविशेषन्यायेन निषेधस्य विहितहिंसाव्यतिरिक्तविषयत्वात् । वस्तुतस्तु यागीयपशुहिंसायाः हिंसात्वस्यैव अभावात् । ‘न वा उ एतन्म्रियसे न रिष्यसि’ इति मन्त्रवर्णात् हिंसात्वाभावस्यैव प्रतिपादनात् । न रिष्यसि – न हिंस्यसे इति हि तस्यार्थः ।

ननु ‘न रिष्यसीति मन्त्रवर्णात् हिंसात्वाभावाभ्युपगमे न म्रियसे इति मन्त्रवर्णात् तन्मरणस्य मरणत्वमपि न स्यात् । ततश्च न म्रियसे इतिवत्, ‘न रिष्यसि’ इत्युक्तिः अपि औपचारिकी इत्येव आश्रयणीयम् । मरणोद्देश्यकमरणानुकूलव्यापारत्वस्यैव हिंसात्वरूपत्वात् इति चेत् – न मरणोद्देश्यकमरणानुकूलव्यापारत्वं हिंसात्वम् । कशाताडन-तप्तसन्दंशिनीपाटन – क्रकचदारणादीनां मरणोद्देश्यकमरणानुकूलव्यापारत्वाभावेन हिंसात्वाभावप्रसङ्गात् । अतः तीव्रदुःखजननौपयिकव्यापारत्वस्यैव हिंसापदप्रवृत्तिनिमित्तत्वे वक्तव्ये, व्रणादिचिकित्सके तादात्विकतीव्रवेदनोत्पादके हिंसकत्वव्यपदेशाभावेन बलवत्तद्धिताजनकत्वे सति तद्वेदनाजनकव्यापारत्वम् – तद्धिंसात्वम् इत्याश्रयणीम् । ततश्च व्रणचिकित्सया जायमानस्य आरोग्यरूपहितस्य तादात्विकवेदनापेक्षया बलवत्त्वात् न हिंसात्वम् इति स्थिते पशुमरणानुकूलव्यापारस्य पशुवेदनाजनकत्वेऽपि स्वर्गप्राप्त्यादिलक्षणस्य पशुहितस्य बलवत्त्वात् न हिंसात्वम् ।

‘अत: ‘न हिंस्यादिति निषेधाविषयत्वात् क्रत्वर्थपशुहिंसाया न पापजनकत्वमिति तद्वशेनावरोहतोऽनुशयिनो न व्रीह्यादिभावापत्तिरिति । ‘रेतःसिग्योऽथ’ (ब्र.सू.३-१-२६)। इतश्च औपचारिकं व्रीह्यादि जन्मवचनम् व्रीह्यादिभाववचनानन्तरं ‘यो यो ह्यन्नमत्ति यो यो रेतः सिञ्चति तद्भूय एव भवति’ (छां.उ.५-२०-६) इति रेतःसिग्भावोऽनुशयिना श्रूयमाणो यथा न मुख्यः, एवं व्रीह्यादिभावोऽपि इत्यर्थः । योनेश्शरीरम् (ब्र.सू.३-१-२७) । योनिप्राप्तेः पश्चादेव अनुशयिनां ब्राह्मणादिशरीरप्राप्तिश्रवणात् ततः प्राक् न शरीरपरिग्रहः किन्तु संश्लेषमात्रम् । यत्र पुण्यापुण्यकर्मणी तत्रैव सुखदुःखे । यत्र सुखदुःखे तत्रैव तद्धेतुभूतं शरीरम् । ततश्च आकाशादिषु कर्मकीर्तनाभावेन तत्फलभूतसुखाद्यनुभवाभावात् न तद्धेतुभूतं शरीरंम् इति न योनिप्राप्तेः प्राक्छरीरपरिग्रहः इति स्थितम् ।। प्रकृतमनुसरामः ।।

 

एकादशः खण्डः

 

[वैश्वानरविद्या]

 

[प्राचीनशालादिऋषीणां मध्ये ब्रह्मविचारकचर्चा]

 

प्राचीनशाल औपमन्यवः सत्ययज्ञः पौलुषिरिन्द्रद्युम्नो भाल्लवेयो जनश्शार्कराक्ष्यो बुडिल आश्वतराश्विः ते हैते महाशाला महाश्रोत्रियाः समेत्य मीमांसाञ्चक्रुःको आत्मा किं ब्रह्मेति ।। ।।

प्र. – वैश्वानरविद्या प्रस्तूयते – प्राचीनशाल……किं ब्रह्मेति । उपमन्युसुतः प्राचीनशालनामा, पुलुषसुतः सत्ययज्ञनामा, भाल्लविसुतः इन्द्रद्युम्ननामा, शर्कराक्ष्यसुतः जननामा, अश्वतराश्वसुतः बुडिलनामा, ते एते पञ्चापि महाशालाः महागृहस्थतया विस्तीर्णशालासम्पन्ना: – प्रसिद्धा इति यावत् महाश्रोत्रियाः अतीवश्रुताध्ययनसम्पन्नाश्च एकत्र सम्भूय अस्माकम् अन्तर्यामितया आत्मभूतं ब्रह्म किमिति मीमांसाञ्चक्रुविचारं कृतवन्तः इत्यर्थः ।।

 

[पञ्चर्षिभिः उद्दालकसमीपगमनम्]

 

ते सम्पादयाञ्चक्रुः, उद्दालको वै भगवन्तोऽयमारुणिः सम्प्रतीममात्मानं वैश्वानरमध्येति, तँ हन्ताभ्यागच्छामेति तँ हाभ्याजग्मुः

प्र.ते सम्पादयाञ्चक्रुः ते – एवं मीमांसित्वा निश्चयम् अलभमाना:-आत्मभूतब्रह्मोपदेष्टारं कञ्चित् सम्पादितवन्तः । निश्चितवन्तः इत्यर्थः । किमिति । तत्राह –उद्दालको……अभ्यागच्छामेति । हे भगवन्तः ! अरुणसुतः उद्दालकनामा इदानीं वैश्वानरम् आत्मानं अध्येति – ‘इक् स्मरणे’ । (धा.पा.१०४७) उपास्ते इत्यर्थः । यद्वा. ‘इण् गतौ’ (धा.पा.१०४५) इति गत्यर्थानां ज्ञानार्थत्वात् अवगच्छति इत्यर्थः । तं .उद्दालकम् अभ्यागच्छाम इति निश्चित्य तं हाभ्याजग्मुः तमभ्यागतवन्तः इत्यर्थः ।।

 

सम्पादयाञ्चकार, प्रक्ष्यन्ति मामिमे महाशाला महाश्रोत्रियाः । तेभ्यो सर्वमिव प्रतिपत्स्ये हन्ताहमन्यमभ्यनुशासानीति ।। ।।

प्र. …… अभ्यनुशासानीति उद्दालकः तान् आगतान् दृष्ट्वा एते महाशाला: महाश्रोत्रिया: मां वैश्वानरम् आत्मानं प्रक्ष्यन्ति । नाहं तत् सर्वं प्रतिपद्ये तेभ्यो वक्तुं शक्नोमि । अतः अन्यं तदभिज्ञं कश्चित् अनुशासानि – उपदिशानि इत्येवं सम्पादितवान् – निश्चितवान् इत्यर्थः ।।

 

[पञ्चर्षीणां उद्दालकेन सहाश्वपतिराजगमनम् ]

 

तान् होवाच, अश्वपतिर्वै भगवन्तोऽयं कैकयः सम्प्रतीममात्मानं वैश्वानरमध्येति, तँ हन्ताभ्यागच्छाम इति तँ हाभ्याजग्मुः ।। ।।

 

प्र. –तान् होवाच – स उद्दालक: औपमन्यवादीन् प्रति आह । किमिति । अश्वपतिः……गच्छामेति । केकयस्यापत्यं कैकयः । शिष्टं स्पष्टम् ।। तं हाभ्याजग्मुः । तं – अश्वपतिम् उद्दालकषष्ठाः ते अभ्यागतवन्तः इत्यर्थः ।।

 

तेभ्यो प्राप्तेभ्यः पृथगर्हाणि कारयाञ्चकार प्रातः संजिहान 

उवाच,

मे स्तेनो जनपदे कदर्यो मद्यपः । नानाहिताग्निर्ना विद्वान् स्वैरी, स्वैरिणी कुत्तः।।

यक्ष्यमाणो वै भगवन्तोऽहमस्मि यावदेकैकस्मा ऋत्विजे धनं दास्यामितावद्भगवभ्द्यो दास्यामि वसन्तु भगवन्तः इति ।। ।।

प्र. – तेभ्यो ……चकार । प्राप्तेभ्यः तेभ्य: महर्षिभ्यः केकयः पृथक् पृथक अर्हाणि – अर्हणानि पूजाः भृत्यैः पुरोहितादिभिश्च कारितवान् इत्यर्थः । ……उवाच । सःह राजा अन्येद्यु:  प्रातःकाले स्वभवनं संजिहानः त्यजन स्वभवनात् निर्गत्य तत्समीपमेत्य इति यावत् – तान् महर्षीन् उवाच इत्यर्थः । किमिति ? तत्राह न मे……भगवन्तः इति । हे भगवन्तः ! पूजार्हाः ! मदधिष्ठिते जनपदे स्तेन: चोरः वा कदर्यः – दानशून्यो वा, मद्यपायी वा, सत्यां योग्यतायाम् अनाहिताग्निर्वा, अविद्वान् – वेदाध्ययनादिशून्यः त्रैवर्णिको वा, स्वैरी – परदारगन्ता वा न सन्ति । स्वैरिणी पुंश्चली तु कुतः स्यात् इत्यर्थः । एवमाद्याः दुष्टाः मज्जनपदे न सन्ति – नहि तैः दत्तं धनम् उपजीवामि । अतो मम प्रतिग्रहयोग्यताम् अस्तीति भावः । अहम् अचिरेणैव कालेन यागं करिष्यामि । तत्र यागे एकैकस्मै ऋत्विजे यावत् धनं दास्यामि, तावत् भगवभ्द्य: प्रत्येकं दास्यामि । तावत्कालमत्रैव वसन्तु; यागञ्च पश्यन्तु इति प्रार्थितवान् इत्यर्थः । भगवता च भाष्यकृता, “न मे स्तेनः’ इत्यादिना, ‘यक्ष्यमाणो वै भगवन्तोऽहमस्मि’ इत्यन्तेन आत्मनो व्रतस्थतया प्रतिग्रहयोग्यतां ज्ञापयन्नेव ब्रह्मविद्भिरपि प्रतिषिद्धस्य परिहरणीयता विहितस्य कर्तव्यतां च प्रतिज्ञाप्य, यावदेकैकस्मै ऋत्विजे धनं दास्यामि, तावत् भगवद्भ्यः दास्यामि । वसन्तु भगवन्तः इत्यवोचत् इति भाषितम् ।।

 

ते होचुः, ‘येन हैवार्थेन पुरुषश्चरेत् तँ हैव वदेत् आत्मानमेवेमं वैश्वानरँ सम्प्रत्यध्येषि, तमेव नो ब्रूहीति ।। ।।

प्रते होचुः ते ऋषयः राजानं प्रति ऊचुः । किमिति ? तदाह येन……ब्रूहीति येन अर्थेन – प्रयोजनेन, यत् प्रयोजनमुद्दिश्य पुरुषः चरेत् – आगच्छति, तं हैव – तमेव पुरुषार्थं तस्य वदेत् – कुर्यामिति वदेत् । कुर्यादिति यावत् । समीहितं हि कर्तव्यं भवति । अस्माकं च वैश्वानरः आत्मा जिज्ञासितः । त्वञ्च तम् आत्मानम् अधुना अध्येषि – उपास्से । न च ते तद्ज्ञानम् अपलापार्हम् । अतः तमेव नः उपदिश । न प्रयोजनान्तरम् इत्यर्थः । विश्वान् नरान् नयतीति, विश्वे एनं नरा: नयन्तीति वा विश्वानरः । विश्वानर एव वैश्वानरः; ‘वय एव वायसः’ इतिवत् ।।

 

तान् होवाच, ‘प्रातर्व:  प्रतिवक्तास्मीति ते समित्पाणयः पूर्वाह्ने प्रतिचक्रमिरे । तान् हानुपनीयैवैतदुवाच

 

।। इति एकादशः खण्डः ।।

प्र.तान्…….प्रतिवक्तास्मीति । तेषाम् अभिमानं परिशोध्य, श्वः प्रतिवचनं दास्यामि इति मत्वा प्रात: प्रश्नस्य प्रतिवचनकर्तास्मि इत्युवाच इत्यर्थः । ते……प्रतिचक्रमिरे । ते च राज्ञः अभिप्रायज्ञाः समिद्भारहस्ताः’ अपरेद्यु: पूर्वाह्ने राजानं, शिष्याः भवेम इत्युपगतवन्तः । तान्……उवाच । राजा तु तान् समित्याणीन् उपयाम इति वदत: त्यक्तस्वजात्यभिमानान् उद्वीक्ष्य तेषाम् उपदेशयोग्यतां ज्ञात्वा ‘अब्राह्मणेन न ब्राह्मण उपनेतव्यः’ इति शास्त्रार्थ ज्ञात्वा तैः समर्पितं समिदाद्युपायनम् अस्वीकृत्य एव मैत्र्या एव एतत् वक्ष्यमाणम् उवाच इत्यर्थः । यत एवं महाशाला: महाश्रोत्रिया ब्राह्मणास्सन्त: महाशालत्वाद्यभिमानं हित्वा समिद्भारहस्ताः जातितो हीनं राजानं विद्यार्थितया उपजग्मुः । तस्मात् तथा अन्यै: विद्योपादित्सुभिः भवितव्यम् इति आख्यायिकया सूच्यते ।।

 

।। इति एकादशखण्डभाष्यम् ।।

 

द्वादशः खण्डः

 

[द्युलोकः वैश्वानरस्य मूर्धा]

 

औपमन्यव ! कं त्वमात्मानमुपास्सेइति दिवमेव भगवो राजन्निति होवाच एष वै सुतेजा आत्मा वैश्वानर: यं त्वमात्मानमुपास्से तस्मात्तव सुतं प्रसुतमासुतं कुले दृश्यते ।। ।।

प्र.-अथ कैकयः तेभ्यः वैश्वानरात्मानम् उपदिदिक्षुः विशेषप्रश्नान्यथाऽनुपपत्त्या वैश्वानरात्मनि एतैः किञ्चित् ज्ञातम्, किञ्चित् अज्ञातमिति विज्ञाय ज्ञातांशबुभुत्सया तान् एकैकशः प्रष्टुम् उपक्रमते । तत्र औपमन्यवं पृच्छति – औपमन्यव कं त्वमात्मानमुपास्से इति । स्पष्टोऽर्थः । दिवमेव भगवो राजन्निति होवाच हे भगवः ! द्युलोकशरीरकं वैश्वानरम् अहमुपास्से इति औपमन्यवः प्रत्युवाच इत्यर्थः । कैकयः आह एष……….नागमिष्यः इति यं – द्युलोकावच्छिन्नं वैश्वानरम् आत्मानं त्वमुपास्से एषः वैश्वानरः आत्मा सुतेजाः – शोभनं तेजो यस्य सः सुतेजाः । द्युलोको हि सूर्यचन्द्रतेजोयुक्ततया सुतेजा भवति । यतश्च द्युलोकावच्छिन्नो वैश्वानर आत्मा त्वया उपास्यमानः सुतेजस्त्वगुणयोगेन सुतेजोनामा वैश्वानरः । तस्मात्तव……दृश्यते । अत्र सुतप्रसुतासुतशब्दाः एकाहाहीनसत्र’-कर्मगताभिषवणपराः । सुतशब्दवत्त्वसाम्यात् सुतेजस्त्वोपासनायाः सुतादिफलकत्वोपपत्तिः इति भावः ।।

 

अत्स्यन्नं, पश्यसि प्रियम् अत्त्यन्नं, पश्यति प्रियम् , भवत्यस्य ब्रह्मवर्चसं कुले, एतमेवमात्मानं वैश्वानरमुपास्ते मूर्धा त्वेष आत्मन इति होवाचमूर्धा ते व्यपतिष्यत्, यन्मां नागमिष्यःइति ।। ।।

 

।। इति द्वादशः खण्डः ।।

प्र.अत्स्यन्नं पश्यसि प्रियम् । तदुपासनावैभवेन अन्नं लौकिकं भोग्यम् अनुभवसि । प्रियं – पुत्रादिकं च पश्यसि इत्यर्थः । एवमन्योऽपि यः त्वमिव, त्वदुपास्यं वैश्वानरमुपास्ते, सोऽपि त्वमिव अन्नादनप्रियदर्शनब्रह्मवर्चसशाली सन्तानवांश्च भवति इत्याह अत्त्यन्नं……उपास्ते । उक्तोऽर्थः । एवं तदुक्तम् अर्थमङ्गीकुर्वन्निव फलप्रदर्शनेन तमभिमुखीकृत्य तत्र वक्तव्यमंशम् उपदिशति । मूर्धात्वेष……नागमिष्य इति । त्वया वैश्वानरबुद्ध्या उपास्यमानः एषः – द्युलोकः परिच्छिन्नः आत्मन: वैश्वानरस्य आत्मनः मूर्धावयवभूतः । न तु स एव वैश्वानरात्मा । एतदर्थनिर्णयार्थ तव मत्समीपानागमने तत्र वैश्वानरात्ममूर्धरूपावयवभूते द्युलोके कृत्स्नवैश्वानरबुद्धिं कुर्वत: तव मूर्धा व्यपतिष्यत् -विपरीतविद्यावशात् अनर्थ: स्यात् । अतः साधु अकार्षीः – यत्त्वं माम् आगतोऽसि इत्यभिप्रायः ।।

 

इति द्वादशखण्डभाष्यम् ।।

 

त्रयोदशः खण्डः

 

[आदित्यः वैश्वानरात्मनः चक्षुः इति पोलघेरुतिः]

 

अथ होवाच सत्ययज्ञं पौलुषिं, ‘प्राचीनयोग्य ! कं त्वमात्मानमुपास्से इति आदित्यमेव भगवो राजन्इति होवाच, ‘एष वै विश्वरूप आत्मा वैश्वानरःयं त्वमात्मानमुपास्से तस्मात्तव बहु विश्वरूपं कुले दृश्यते

प्रअथ होवाच……उपास्स इति इत्यादि । प्राचीनयोग्यः इति सत्ययज्ञस्य नामान्तरम् । आदित्य……विश्वरूप आत्मा वैश्वानरः – रूप्यते इति रूपम् । विश्वं रूपं प्रकाश्यं यस्य सः विश्वरूपः । आदित्यस्य विश्वप्रकाशकत्वात् विश्वरूपत्वम् । तस्मात्……दृश्यते । एतदुपासनात् तव कुले बहु विश्वरूपं – विश्वप्रकाशकं पुत्ररत्नादिकं दृश्यते इत्यर्थः ।।

 

प्रवृत्तोऽश्वतरीरथो दासीनिष्कः, अत्स्यन्नम् पश्यसि प्रियम् अत्त्यन्नम् । पश्यति प्रियम्, भवत्यस्य ब्रह्मवर्चसं कुले, एतमेवमात्मानं वैश्वानरमुपास्ते । चक्षुष्ट्वेतदात्मनःइति होवाचअन्धोऽभविष्यत् , यन्मां नागमिष्यःइति ।। ।।

 

।। इति त्रयोदशः खण्डः ।।

 

प्र.प्रवृत्तो……नागमिष्य इति । अश्वतरीभिः युक्तो रथः अश्वतरीरथः त्वाम् अनुप्रवृत्तः दासीभिः युक्तो निष्कः हारः दासीनिष्कः त्वाम् अनुप्रवृत्तः इत्यर्थः । शिष्टं सर्वं पूर्ववत् ।।

 

।। इति त्रयोदशखण्डभाष्यम् ।।

 

चतुर्दशः खण्डः

 

[वायुः वैश्वानरस्य प्राणः इति भाल्लवेयः]

 

अथ होवाचेन्द्रद्युम्नं भाल्लवेयं, ‘वैयाघ्रपद्य! कं त्वमात्मानमुपास्सेइति वायुमेव भगवो राजन्इति होवाच एष वै पृथग्वर्त्मा  वैश्वानरः, यं त्वमात्मानमुपास्से । तस्मात् त्वां पृथग्बलय आययन्ति पृथग्रथश्रेणयोऽनुयन्ति ।। ।।

 

प्र.अथ होवाच……उपास्स इति । व्याघ्रपद्यस्यापत्यं वैयाघ्रपद्यः । भाल्लवेरेव व्याघ्रपद्य इति नामान्तरम् । एष पृथग्वर्त्मा वैश्वानर इति । वायोः विविधगतिस्वभावत्वात् पृथग्वर्त्मत्वम्तस्मात्त्वां अनुयन्ति पृथक् – नानादिक्स्थाः वस्त्रान्नादिलक्षणा: बलय: आययन्ति – आगच्छन्ति । रथपङ्कयोऽपि त्वामनुयान्ति इत्यर्थः । शिष्टं स्पष्टम् ।।

‘अत्स्यन्नं, पश्यसि प्रियम् । अत्यन्नं, पश्यति प्रियं, भवत्यस्य ब्रह्मवर्चसं कुले, य एतमेवमात्मानं वैश्वानरमुपास्ते । प्राणस्त्वेष आत्मन’ इति, होवाच ‘प्राणस्त उदक्रमिष्यत्, यन्मां नागमिष्यः’ इति ।। २ ।।

।। इति चतुर्दशः खण्डः ।।

प्र. –अत्स्यन्नं पश्यसि प्रियम् इत्यादि । सर्वं पूर्ववत् ।।

 

।। इति चतुर्दशखण्डभाष्यम् ।।

 

पञ्चदशः खण्डः

 

[आकाश: वैश्वानरस्य मध्यकाय:]

 

अथ होवाच जनँ शार्कराक्ष्यम्, ‘शार्कराक्ष्य, कं त्वमात्मानमुपास्सेइति । आकाशमेव भगवो राजन्इति ौवाच एष वै बहुल आत्मा वैश्वानरः, यं त्वमात्मानमुपास्से तस्मात् त्वं बहुलोऽसि प्रजया धनेन ।। ।।

 

अत्स्यन्त्रम्, पश्यसि प्रियम्, अत्त्यन्नम्, पश्यति प्रियम्, भवत्यस्य ब्रह्मवर्चसं कुले, एतमेवमात्मानं वैश्वानरमुपास्ते सन्देहस्त्वेष आत्मनः‘ इति होवाच – ‘सन्देहस्ते व्यशीर्यत् ; यन्मां नागमिष्यःइति ।। ।।

 

।। इति पञ्चदशः खण्डः ।।

 

प्र.अथ……त्वमात्मनम् इत्यादि । एष वै बहुल आत्मा । भूतान्तरेभ्यः आकाशस्य महत्त्वात् बहुलत्वम् । शिष्टं स्पष्टम् । अत्स्यन्नम् इत्यादि । सन्देहस्त्वेष आत्मन इति होवाच सन्देहः। मध्यकायः, मध्यकायो हि उत्तरापरकाययोः क्व अनुप्रविष्टः इति सन्दिह्यमानत्वात् सन्देहः इत्युच्यते । व्यशीर्यत् – विशीर्णोऽभविष्यत् । शिष्टं स्पष्टम् ।।

 

।। इति पञ्चदशखण्डभाष्यम् ।।

 

षोडशः खण्डः

 

[आपः वैश्वानरस्य वस्तिः]

 

अथ होवाच बुडिलमाश्वतराश्विवैयाघ्रपद्य ! कं त्वमात्मानमुपास्से इतिअप एव भगवो राजन् इति होवाचएष वै रयिरात्मा वैश्वानरः, यं त्वमात्मानमुपास्से तस्मात्त्व रयिमान् पुष्टिमानसि ।।।।

 

अत्स्यन्नं पश्यसि प्रियम् अत्यन्नं, पश्यति प्रियं, भवत्यस्य ब्रह्मवर्चसं कुले, एतमेवमात्मानं वैश्वानरमुपास्ते वस्तिस्त्वेष आत्मनइति होवाच वस्तिस्ते व्यभेत्स्यत्, यन्मां नागमिष्यःइति ।। ।।

 

।। इति षोडशः खण्डः ।।

 

प्र.- अथ…..पुष्टिमानसि वैयाघ्रपद्य – व्याघ्रपद्गोत्रापत्य इत्यर्थः । एष  रयिरात्मा । अपां वेगवत्त्वात् रयित्वम् । विसर्गः छान्दसः । धनप्राप्तिहेतुत्वाद्वा रयित्वम् । रयिमान् धनवान् इत्यर्थः । अत्स्यन्नम् इत्यादि । वस्तिः – मूत्रस्थानम् । शिष्टं स्पष्टम् ।।

 

।। इति षोडशखण्डभाष्यम् ।।

 

सप्तदशः खण्डः

 

[पृथिवी वैश्वानरस्य पादौ]

 

अथ होवाच उद्दालकमारुणिं, ‘गौतम कं त्वमात्मानमुपास्सेइति । पृथिवीमेव भगवो राजन्इति होवाच एष वै प्रतिष्ठात्मा वैश्वानरः, यं त्वमात्मानमुपास्से, तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया पशुभिश्च।।।।

 

अत्स्यन्नम, पश्यसि प्रियम् अत्यन्नम्, पश्यति प्रियम् भवत्यस्य ब्रह्मवर्चसं कुले, एतमेवमात्मानं वैश्वानरमुपास्ते पादौ त्वेतावात्मनःइति हौवाच, ‘पादौ ते व्यम्लास्येतां, यन्मां नागमिष्यःइति ।। ।।

 

प्र.अथ……पशुभिश्च । प्राण्याधारत्वात् पृथिव्याः प्रतिष्ठात्वम् । अत्स्यन्नम् इत्यादि । व्यम्लास्येतां – ग्लानौ, श्लथौ अभविष्यताम् इत्यर्थः । शिष्टं स्पष्टम् ।।

।। इति सप्तदशखण्डभाष्यम् ।।

 

अष्टादशः खण्डः

 

[समस्तवैश्वानरात्मोपदेशः]

 

तान् होवाच, ‘एते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वाँसोऽनमत्थ । यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु अन्नमत्ति ।। ।।

 

प्र. – तान् होवाच । अथ राजा तान् ऋषीन् पुनरुवाच इत्यर्थः । एते वै……अत्थ । एतादृशा हि यूयम् इमं वैश्वानरम् आत्मानं पृथगिव विद्वांसः – भिन्नभिन्नतया उपासीनाः  तदानुरूप्येण अन्नमत्थलौकिकं भोगम् अनुभवथ इत्यर्थः । पूर्वत्र अत्स्यन्नम् इति प्रतिपुरुषमुक्तस्य अत्र अत्थ इति बहुवचनेन निर्देशः । अत्र अनमत्थ इत्येतत् प्रियं पश्यथ इत्यस्यापि उपलक्षणम् । यस्तु……अत्ति अभिविमानं – सर्वाभिव्याप्ततया विगतमानं वैश्वानरं – विश्वेषां नराणां नेतारं एतमात्मानं प्रादेश मात्रं – द्युलोकादिप्रदेशसम्बन्धिनी प्रादेशी । प्रादेशी मात्रा यस्य तं प्रादेशमात्रं – द्युप्रभृतिप्रदेशपरिच्छिन्नं यः उपास्ते, स सर्वलोकसर्वभूतसर्वात्मवर्तिब्रह्मरूपम् अन्नं अत्ति अनुभवति इत्यर्थः ।

अनेन वैश्वानरोपासनस्य ब्रह्मप्राप्तिफलकत्वम् उक्तं भवति । भगवता हि भाष्यकृता, ‘सर्वेषु भूतेषु सर्वेष्वात्मसु च वर्तमानं यत् अन्नं भोग्यम् , तदत्ति । सर्वत्र वर्तमानं ‘स्वतः एव’ अनवधिकातिशयानन्दं ब्रह्म अनुभवति । यत्तु सर्वः कर्मवश्यः आत्मभिः प्रत्येकम् अनन्यसाधारणम् अन्नं भुज्यते, तत् मुमुक्षुभिः त्याज्यत्वात् इह ‘न गृह्यते इति भाषितम् ।

[प्रादेशमात्रशब्दार्थविचारः]

अत्र ‘प्रादेशमात्रमिव ह वै देवाः सुविदिताः अभिसम्पन्नाः । तथा तु वा एनान् वक्ष्यामि यथा प्रादेशमात्रम् अभिसम्पादयिष्यामि इति । स होवाच मूर्धानम् उपदिशन् , ‘एष वा प्रतिष्ठा वैश्वानरः’ इति ; चक्षुषी उपदिशन्नुवाच, ‘एष वै सुतेजा वैश्वानरः’ इति नासिके उपदिशन्नुवाच एष वै पृथग्वर्त्मा वैश्वानरः इति । मुख्यमाकाशम् उपदिशन्नुवाच, ‘एष वै बहुलो वैश्वानरः’ इति । मुख्याः अपः उपदिशन्नुवाच, ‘एष वै रयिवैश्वानरः’ इति ; चुबुकम् उपदिशन् उवाच ; ‘एष वै प्रतिष्ठा वैश्वानरः’ इति ।। (शत.बा.१०-६-१-१०,११) इति वाजसनेयकोक्तमूर्धचुबुकान्तरालप्रतिष्ठितत्वलभ्यं प्रादेशमात्रत्वं नोपजीव्यम् । द्युप्रभृतिप्रदेशसंबन्धित्वमात्रस्य यौगिकार्थस्य प्रकरणतः प्रतीतेः । उक्तञ्च ‘व्यासार्यै: सर्ववेदान्तप्रत्ययाधिकरणे, ‘यस्त्वेतमिति न वाजसनेयकोक्तानुवादः । स्वशाखावाक्ये एव पूर्वप्रतिपादितस्य अनुवादेन फलसमर्पकत्वोपपत्तेः’ इति । न च अपरिच्छिन्नस्य परस्य ब्रह्मणः द्युप्रभृतिपृथिव्यन्तप्रदेशसम्बन्धिन्या मात्रया कथं परिच्छिन्नत्वम् इति चोदनीयम् । परिच्छिन्नत्वे बुद्धिसौकर्यलक्षणाभिव्यक्तेः सम्भवात् । सूत्रितं च ‘अभिव्यक्तेरित्याश्मरथ्यः’ इति (ब्र.सू.१-२-३०) बुद्धिसौकर्यलक्षणाभिव्यक्ते: हेतोः अभिविमानस्यापि ब्रह्मणः प्रादेशमात्रत्वम् उपदिश्यते इति आश्मरथ्यः आचार्यों मन्यते इति सूत्रार्थः ।। अभिव्यक्त्यर्थं परिच्छिन्नत्वोपदेशेऽपि मूर्धप्रभृत्यवयवविशेषैः पुरुषविधत्वं परस्य ब्रह्मणः किमर्थमिति न चोदनीयम् – तथा उपासनार्थत्वात् । सूत्रितं च ‘अनुस्मृतेर्बादरिः’ (ब्र.सू.१-२-३१) इति । अनुस्मृतिः – उपासनम् । अनुस्मृतेः हेतोः पुरुषविधत्वनिरूपणम् इति बादरिः आचार्यो मन्यते इति सूत्रार्थः ।।

 

[मूर्धादय: वैश्वानरात्मनः अवयवाः]

 

तस्य वा एतस्यात्मनो वैश्वानरस्यमूर्धेव सुतेजाः, चक्षुर्विश्वरूपःप्राणः पृथग्वर्त्मा, सन्देहो वहुलो, वस्तिरेव रयिः, पृथिव्येव पादौ उर एव वेदिर्लोमानि बर्हिः हृदयं गार्हपत्यो मनोऽन्वाहार्यपचन आस्यमाहवनीयः ।। ।।

प्र. – अथ प्राणाहुत्याधारत्व-त्रिविधाग्नित्व-परिकल्पितजाठराग्निशरीरकधुमूर्धत्वादि विशिष्टात्मभाविते स्वशरीरे क्रियमाणप्राणाद्याहुतिभिः वैश्वानरविद्यानिष्ठेन परमात्मा समाराधनीयः इति प्रतिपादयति – तस्य इत्यादि । एतस्यात्मनः ‘उपास्ते’ इति अव्यवहितप्रकृतस्य उपासकस्य आत्मनः मूर्धा एव तस्य वैश्वानरस्य – ‘मूर्धा त्वेष आत्मनः’ इति वैश्वानरात्ममूर्धत्वेन निर्दिष्टः सुतेजाः इत्यर्थः । न चात्र तस्य वा एतस्य इति पदयोः परमात्मपरतया सामानाधिकरण्यमेवास्तु, न त्वेतस्येति शब्दस्य उपासकपरामर्शित्वमिति शङ्कयम् – उर एव वेदिः‘ इत्यादी उपासकोर:परामर्शस्य अवश्यम्भावात्, मूर्धेव इत्यत्रापि उपासकस्य मूर्धेव परामृश्यते । तस्मात् एतस्य इति शब्दस्य उपासकपरत्वमेव सिद्धम् । इह हि भगवता भाष्यकृता ‘आमनन्ति च’ (ब्र.सू.१-२-३३) इति सूत्रव्याख्याने -‘एनं पुरुषं द्युमूर्धत्वादिविशिष्टं वैश्वानरम् अस्मिन् उपासकशरीरे प्राणाहुत्याधारत्वाय आमनन्ति च, ‘तस्य ह वा एतस्यात्मनो वैश्वानरस्य मूर्धेव सुतेजाः’ इत्यादिना । अयमर्थः – ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इति ‘त्रैलोक्यशरीरस्य परमात्मनः वैश्वानरस्य उपासनं विधाय, ‘सर्वेषु लोकेषु’ इत्यादिना ब्रह्मप्राप्तिफलम् उपदिश्य, अस्यैव उपासनस्य अङ्गभूतं प्राणाग्निहोत्रं, ‘तस्य ह वा एतस्य’ इत्यादिना उपदिशति । यः पूर्वम् उपास्यतया उपदिष्टो वैश्वानरः तस्य अवयवभूतान् द्व्यादित्यादीन् सुतेजोविश्वरूपादिनामधेयान् उपासकशरीरे मूर्धादिपादान्तेषु सम्पादयति । मूर्धेव सुतेजाः उपासकस्य मूर्धा एव परमात्ममूर्धभूता द्यौः इत्यर्थः । चक्षुर्विश्वरूप: – आदित्यः इत्यर्थः । प्राणः पृथग्वर्त्मा वायुः इत्यर्थः । सन्देहो बहुल: उपासकस्य मध्यकायः एव परमात्ममध्यकायभूताकाशः इत्यर्थः । वस्तिरेव रयि: अस्य वस्तिरेव तदवयवभूताः आपः इत्यर्थः । पृथिव्येव पादौ – अस्य पादावेव तत्पादभूता पृथिवी इत्यर्थः । एवमुपासकस्य शरीरे परमात्मानं त्रैलोक्यशरीरं वैश्वानरं संनिहितम् अनुसन्धाय स्वकीयानि उरोलोमहृदयमन आस्यानि प्राणाहुत्याधारस्य परमात्मनो वैश्वानरस्य वेदिबर्हिर्गार्हिपत्यान्वाहार्यपचनाहवनीयान् अग्निहोत्रोपकरणभूतान् परिकल्प्य प्राणाहुतेश्च अग्निहोत्रत्वं परिकल्प्य एवंविधेन प्राणाग्निहोत्रेण परमात्मानं वैश्वानरम् आराधयेत् इति  ‘उर एव बादलामान बहिह्रदयं गार्हपत्यः’ इत्यादिना उपदिश्यते इति भाषितम् । उरःप्रभृतीनां वेद्यादित्वोपदेशश्च प्राणाहुतेः अगिहोत्रत्वसंपत्त्यर्थः इति, ‘सम्पत्तेरिति जैमिनिस्तथा हि दर्शयति’ (ब्र.सू.१-२-३२) इति सूत्रितम् । स य इदमविद्वानग्निहोत्रं जुहोति’ (छां.उ.३-५-२४-१) इति दर्शिताग्निहोत्रत्वसम्पत्तेः हेतो: वेद्यादित्वोपदेशः इति जैमिनि: मन्यते इति सूत्रार्थः । हृदयं गार्हपत्यः हृदयकमलावच्छिन्नजाठराग्निः गार्हपत्यः । मनोऽन्वाहार्यपचनः । मनइन्द्रियावच्छिन्नजाठराग्निः दक्षिणाग्निः । आस्यमाहवनीयआस्यावच्छिन्नजाठरः आहवनीयः इत्यर्थः । गार्हपत्यान्वाहार्यपचनादिपरिकल्पनस्य सजातीयजाठर एव उचितत्वात् ‘वैश्वानरस्य ‘हृदयादिस्थस्य’ अग्नित्रयकल्पनं क्रियते’ इति भाषितत्वाच्च उक्तः एवार्थः । अत्र च हृदयादिशब्दाः तत्तदवच्छिन्नजाठराग्नि-शरीरकपरमात्मपर्यन्ताः इति द्रष्टव्यम् ।।

 

इति अष्टादशवण्डभाष्यम्

 

एकोनविंशः खण्डः

 

[प्राणाग्रिहोत्रस्य प्रथमाहुतिः]

 

तद्यद्भक्तं प्रथममागच्छेत् , तद्धोमीयम् यां प्रथमामाहुतिं जुहुयात तां जुहुयात् प्राणाय स्वाहेति प्राणस्तृप्यति ।।।।

 

प्रतद्……होमीयम् तत् – तस्य पुंस. यद्भक्तं यत् अन्नं भोजनकाले प्रथमतः आगच्छेत् उपनयेत, तत् होमीयं होमसाधनम् । तेन होतव्यम् इत्यर्थः ।  यां……प्राणस्तृष्यति । ‘प्राणाय स्वाहा इति प्रथमायाम् आहुतौ हुतायां प्राणः तृप्यति इत्यर्थः ।।

[प्राणाहुतिजनिततृप्तिः]

 

प्राणे तृप्यति चक्षुस्तृप्यति चक्षुषि तृप्यत्यादित्यस्तृप्यति आदित्ये तृप्यति द्यौस्तृप्यति दिवि तृप्यन्त्यां यत्किञ्च द्योश्चादित्यश्चाधितिष्ठतस्तत्तृप्यति । तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरनाद्येन तेजसा ब्रह्मवर्चसेनेति ।। ।।

 

प्र.प्राणे……तत् तृप्यति । एवं प्राणे तृप्ते सति क्रमात् चक्षुः, आदित्यः, द्यौश्च तृप्यन्ति । ततश्चद्य्वादित्याभ्याम् अधिष्ठितं वस्तुजातञ्च तृप्यति इत्यर्थः । तस्यानुतृप्तिम् इत्यादि । तस्मिन् सर्वस्मिन् तृप्ते तस्य तृप्तिमनु – तृप्तेः पश्चात् प्रजापश्वादिभिः होताऽपि तृप्यति इत्यर्थः । अत्र प्राणचक्षुरादिश्ब्दाः तत्तदभिमानिदेवतापराः; अचेतनानां तृप्तेः असम्भवादिति ।।

 

।। इति एकोनविंशखण्डभाष्यम् ।।

 

विंशएकविंशद्वाविंशत्रयोविंशखण्डा:

 

[द्वितीयाहुति: तज्जनिततृप्तिश्च]

 

अथ यां द्वितीयां जुहुयात्, तां जुहुयात् व्यानाय स्वाहेति व्यानस्तृप्यति ।। ।।

 

व्याने तृप्यति श्रोत्रं तृप्यति श्रोत्रे तृप्यति चन्द्रमास्तृप्यति चन्द्रमसि तप्यति दिशस्तृप्यन्ति दिक्षु तृप्यन्तीषु यत्किञ्च दिशश्चन्द्रमाश्चाधितिष्ठन्ति तत् तृप्यति । तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।। ।।

 

[तृतीयाहुतिः तजनिततृप्तिश्च]

 

अथ यां तृतीयां जुहुयात्, तां जुहुयात् अपानाय स्वाहेति अपानतृप्यति ।। ।।

 

अपाने तृप्यति वाक् तृप्यति वाचि तृप्यन्त्यामग्निस्तृप्यति अग्नौ तृप्यति पृथिवी तृप्यति। पृथिव्यां तृप्यन्त्यां यत्किञ्च पृथिवी चाग्निश्चाधितिष्ठतः तत् तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।। ।।

 

[चतुर्थाहुतिः तजनिततृप्तिश्च]

 

अथ यां चतुर्थी जुहुयात्, तां जुहुयात् समानाय स्वाहेति समानः तृप्यति ।। ।।

 

प्र. – ब्रह्मवर्चसेन तेजसा – वृत्ताध्ययननिमित्ततेजसा इत्यर्थः । शिष्टं स्पष्टम् ।। एवमुत्तरत्रापि दृष्टव्यम् ।।

 

समाने तृप्यति मनस्तृप्यति मनसि तृप्यति पर्जन्यस्तृप्यति पर्जन्ये तृप्यति विद्युत् तृप्यति विद्युति तृप्यन्त्यां यत्किञ्च विद्युञ्च पर्जन्यश्चाधितिष्ठतः तत् तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरनाद्येन तेजसा ब्रह्मवर्चसेनेति ।। ।।

 

[पञ्चम्याहुतिः तजनिततृप्तिश्चः]

अथ यां पञ्चमीं जुहुयात् , तां जुहुयात् उदानाय स्वाहेति उदानस्तृप्यति ।। ।।

 

उदाने तृप्यतिवायुस्तृप्यति वायौ तृप्यति आकाशस्तृप्यति आकाशे तृप्यति यत्किञ्च वायुश्चाकाशाश्चाधितिष्ठतः तत् तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेनेति ।। ।।

।। इति विंशएकविंशद्वाविंशप्रयोविंशखण्डभाष्यम् ।।

 

चतुर्विशः खण्डः

 

[वैश्वानराग्रिहोत्रस्य महिमा]

 

इदमविद्वानग्निहोत्रं जुहोति, यथाङ्गारानपोह्य भस्मनि जुहुयात् तादृक् तत् स्यात् ।। ।।

 

प्र. – ……जुहोति । उर:प्रभृतीनाम् अग्रिहोत्रोपकरणवेद्यादिताम् अजानन् यः प्राणाग्निहोत्रम् अनुतिष्ठति इत्यर्थः । यथा……स्यात् । तदनुष्ठानं भस्माहुतिसमानं स्यात् इत्यर्थः । निष्फलमिति यावत् ।।

 

अथ एतदेवं विद्वानग्रिहोत्रं जुहोति, तस्य सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेष्वात्मसु हुतं भवति ।। ।।

 

प्र.अथ …….भवति । सर्वेषु लोकेषु इत्यादिना सर्वात्मकभगवदाराधनेन सर्वम् आराधितं भवति इति हुतप्रकर्षोक्तिः ।।

[सर्वपाप्मप्रदाहरूपं फलम् ]

 

तद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते, य एतदेवं विद्वानग्निहोत्रं जुहोति ।। ।।

 

प्र. तद्यथा………प्रदूयन्ते । यथा इषीकाया: मुञ्जान्तर्वर्तितृणविशेषस्य तूलम् अग्रौ प्रक्षिप्तं सद्यो दह्यते, एवं सर्वाणि पापानि एतादृशविद्यापूर्वकप्राणाग्निहोत्रानुष्ठानेन दग्धानि भवन्ति इत्यर्थः । ब्रह्मोपासनफलस्य सर्वपापप्रदाहस्य प्राणाग्निहोत्रे कीर्तनम् अङ्गिफलेन अङ्गस्य स्तुत्यर्थम् । ततश्च अनेनापि प्राणाग्निहोत्रस्य वैश्वानरविद्याङ्गत्वं ज्ञापितं भवति ।।

तस्माद हैवंवित् यद्यपि चण्डालायोच्छिष्टं प्रयच्छेत्, आत्मनि हैवास्य तद्वैश्वानरे हुतँ स्यादिति तदेष श्लोकः ।। ।।

 

प्रवैश्वानरविद्यां स्तौति – तस्मादु……स्यादिति । उच्छिष्टप्रदानायोग्याय चण्डालाय उच्छिष्टप्रदानमपि वैश्वानरे सर्वभूतात्मनि अन्नं जुहोमि इति बुद्ध्या अनुष्ठितत्वात् नाधर्माय भवति इत्यर्थः । तदेष श्लोकः तत् – उक्तप्राणाग्निहोत्रविषये एषः श्लोकः श्रूयते इत्यर्थः ।।

 

यथेह क्षुधिता बाला मातरं पर्युपासते एवं सर्वाणि भूतान्यग्निहोत्रमुपासत इत्यग्निहोत्रमुपासत इति ।। ।।

 

।। इति चतुर्विशः खण्डः ।।

 

।। इति पञ्चमः प्रपाठकः समाप्तः ।।

प्र. – यथेह……उपासते यथा बुभुक्षिताः बालाः, कदा माता अन्नं प्रयच्छति इति मातरं परित: उपासते, एवं सर्वाणि भूतानि एवंविदः प्राणाग्निहोत्रमुपासते इति विदुषः प्राणाग्निहोत्रस्तुत्यर्थः अयं श्लोकः इत्यर्थः । द्विरुक्तिः अध्यायपरिसमाप्त्यर्था । एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते समन्वयाध्याये -‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते’ इत्यत्र श्रुतस्य वैश्वानरशब्दस्य नार्थो निर्णेतुं शक्यः । ‘अयमग्निर्वैश्वानरो येनेदमन्नं पच्यते’ (बृ.उ.७-९-१) इति वैश्वानरशब्दस्य जाठरे अग्नावपि प्रयोगदर्शनात् ; ‘विश्वस्मा अग्निं भुवनाय देवाः, वैश्वानरं केतुमह्नामकृण्वन्’ (ऋ.सं.१०-८८-१२) इति भूततृतीयेऽपि प्रयोगदर्शनात् ‘वैश्वानरस्य सुमतौ स्याम राजा हि किं भुवनानामभिश्रीः’ (ऋ.सं.१-९८-१) इति देवतायामपि प्रयोगदर्शनात् ‘तदात्मन्येव ‘अग्नौ वैश्वानरे प्रास्यति स एष वैश्वानरो विश्वरूपः प्राणोऽग्निरुदयते’ (प्र.उ.१-७) इति परमात्मन्यपि प्रयोगदर्शनात् । अत: नार्थो निर्णेतुं शक्य इति पूर्वपक्षे प्राप्ते – उच्यते – ‘वैश्वानरः साधारणशब्दविशेषात्’ (ब्र.सू.१-२-२५) वैश्वानरः परमात्मा । साधारणस्य वैश्वानरशब्दस्य परब्रह्मासाधारणैः ‘को न आत्मा किं ब्रह्म’ (छां.उ.५-११-१) ‘सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु आत्मसु अन्नमत्ति’ (छां.उ.५-१८-१) ‘तद्यथा इषीकतूलमग्नौ प्रोतं प्रदूयेत, एवं हास्य सर्वे पाप्मानः प्रदूयन्ते’ इति वाक्यश्रुतात्मत्वब्रह्मत्वब्रह्मप्राप्तिफलकोपासन-विषयत्वसर्वपापप्रदाहकत्वादिधर्मः विशेष्यमाणत्वात् ।

‘स्मर्यमाणमनुमानं स्यादिति’ (ब्र.सू.१-२-२६) । ‘अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यो दिशः श्रोत्रे वाग्विवृताश्च वेदाः । वायुः प्राणो हृदयं विश्वमस्य पभ्द्यां पृथिवी ह्येष सर्वभूतान्तरात्मा’ (मुं.उ.२-१-४) इति आथर्वणादिषु परमात्मसम्बन्धितया निर्दिष्टं रूपम् अस्यां विद्यायां तदिदमिति स्मर्यमाणं प्रत्यभिज्ञायमानं वैश्वानरस्य परमात्मत्वेऽनुमानं ज्ञापकं स्यादित्यर्थः । अग्निरिह द्युलोकः । ‘असो वाव लोको गौतमाग्निः’ (छां.उ.५-४-१) इत्यादिश्रुतेः ।

‘शब्दादिभ्योऽन्तःप्रतिष्ठानाञ्च नेति चेन्न तथा दृष्टयुपदेशादसम्भवात् पुरुषमपि चैनमधीयते’ (ब्र.सू.१-२-२७) । अग्निरहस्ये वैश्वानरविद्याप्रकरणे ‘स एषोऽगिर्वैश्वानरो यत्पुरुषः’ (शत.ब्रा.१०-६-१-११) इति वैश्वानरशब्दसमानाधिकरणाग्निशब्दश्रवणात् अग्नित्रयपरिकल्पनप्राणाहुत्याधारत्वरूपजाठराग्निलिङ्गाञ्च । वाजसनेयके ‘स यो हवैतमेवमग्निं वैश्वानरं पुरुषविधं पुरुषेऽन्तः प्रतिष्ठितं वेद’ (शत.ब्रा.१०-६-१-११) इति पुरुषान्तः प्रतिष्ठितत्वश्रवणाञ्च जाठरः एव भवितुमर्हतीति चेत् – न । परमात्मलिङ्गानामिह सत्वेन अग्निशब्दलिङ्गानां तच्छरीरकपरमात्मोपासनपरतयाऽपि उपपत्तेः । तथा दृष्ट्व्युपदेशात् । तथोपासनस्य उपदिष्टत्वात् इत्यर्थः । त्रैलोक्यशरीरकत्वादीनां च परमात्मधर्माणां  जाठरेऽसम्भवात् । वाजसनेयके ‘स एषोऽग्निर्वैश्वानरो यत्पुरुषः (शत.बा.१०-६-१-११) इति पुरुषशब्दश्रवणात् ।

“भगवानिति शब्दोऽयं तथा पुरुष इत्यपि । निरुपाधी च वर्तेते वासुदेवे सनातने ।।” (पाद्मोत्तर.६-२५४-६६)

इति निरुपाधिकपुरुषत्वस्य अन्यत्र असम्भवात् अचेतने जाठराग्नौ सर्वात्मना ‘असम्भवात्’ न जाठराग्निः ।

‘अत एव न देवता भूतं च’ (ब्र.सू.१-२-२८) । उक्तैरेव हेतुभिः भूततृतीयदेवता-विशेषयोरपि न प्रसक्तिः इत्यर्थः ।

एवं सूत्रकारः अनित्रयपरिकल्पनादिजाठराग्न्याद्यनन्यथासिद्धलिङ्गै : ‘प्राणस्तथानुगमात्’ (ब्र.सू.१-१-२९) इत्यधिकरणोक्तन्यायेन जाठराग्निविशिष्टः प्ररमात्मैव इह उपास्य इति तथा दृष्ट्युपदेशात्’ इति सूत्रखण्डेन सिद्धान्तम् आविष्कृत्य लिङ्गान्यथासिद्धिं सम्भावयतः जैमिनेः अग्निशब्दनिर्वाहप्रकारं – दर्शयति ‘साक्षादप्यविरोधं जैमिनिः’ (ब्र.सू.१-२-२९) । ‘मामुपास्व’, प्राणोऽस्मि प्रज्ञात्मा’ इत्यादिशब्दवत् अग्निशब्दस्य अपर्यवसानवृत्त्या न तच्छरीरकपरमात्मपरत्वम् आश्रयणीयम्, अग्नं नयतीति अग्निः इति योगव्युत्पत्या अग्निशब्दस्य अग्निव्यवधानमन्तरेण साक्षादेव परमात्मपरत्वसम्भवं जैमिनिराचार्यो मन्यते । अत्र व्यासार्यै: अग्निलिङ्गे विद्यमाने अग्निशब्दस्य अपर्यवसानवृत्त्या’ अग्निशरीरकपरमात्म परत्वमेव उचितम् । तादृशानन्यथासिद्धलिङ्गराहित्यस्थले अयमपि न्यायः अस्तीति व्युत्पादनार्थमिह एतत् उपन्यस्तम् । न तु प्रकृतोपयुक्ततया इत्युक्तम् । ‘अभिव्यक्तरित्याश्मरथ्यः’ (ब्र.सू.१-२-३०), ‘अनुस्मृतेर्बादरिः’ (ब्र.सू.१-२-३१), ‘सम्पत्तेरिति जैमिनिस्तथाहि दर्शयति’ (ब्र.सू.१-२-३२), ‘आमनन्ति चैनमस्मिन्’ (ब्र.सू.१-२-३३) इति चत्वार्यपि सूत्राणि पूर्वत्र व्याख्यातानि । अत: वैश्वानरः परमात्मा इति स्थितम् । तथा गुणोपसंहारपादे – द्युमूर्धादिव्यस्तोपासनेषु औपमन्यवादिभिः उक्तेषु, अत्त्यन्नं, पश्यति प्रियं, भवत्यस्य ब्रह्मवर्चसं कुले, य एतमेवमात्मानं वैश्वानरमुपास्ते’ इति व्यस्तोपासनेषु फलश्रवणात् व्यस्तोपासनमेव प्रामाणिकम् । ‘यस्त्वेतमेवं प्रादेशमात्रमभिविमानमात्मानं वैश्वानरमुपास्ते, ‘स सर्वेषु लोकेषु सर्वेषु भूतेषु सर्वेषु आत्मसु अन्नमत्ति’ इति व्यस्तोपासनसमुदायानुवाद्र: एव । न तु समस्तोपासनविधिः । अथवा अनेन वाक्येन समस्तोपासनमपि विधीयते । अत: द्वयमपि प्रामाणिकम् । अल्पफलार्थिभिः व्यस्तोपासनं ‘कर्तव्यम्’ इति पूर्वपक्षे प्राप्ते – उच्यते – ‘भूम्नः क्रतुवज्यायस्त्वं तथा हि दर्शयति’ (ब्र.सू.३-३-५५)। भूम्नः सामस्त्यस्य ज्यायस्त्वं प्रामाणिकत्वम् । तथा हि दर्शयति श्रुतिः व्यस्तोपासने अनर्थे ब्रुवती, ‘मूर्धा ते व्यपतिष्यद्यन्मां नागमिष्यः’ इत्यादिना । न चेदं न हि निन्दान्यायेन’ समस्तोपासनप्रशंसार्थमेव किं न स्यादिति वाच्यम् । अग्निहोत्रं प्रकृत्या श्रुतेन, ‘जर्तिलयवाग्वा वा जुहुयात्, गवधुकयवाग्वा वा जुहुयात्, न ग्राम्यान् पशून् हिनस्ति नारण्यान्’ इति वाक्येन जर्तिलगवेधुकशब्द-वाच्यारण्यतिलारण्यगोधूमकृतयवाग्वोः विकल्पेन अग्निहोत्राहुतौ द्रव्यत्वविधाने विस्पष्टलिङ्गप्रत्ययेन ग्राम्यारण्यपशुहिंसारहिततया तयोः स्तवने च प्रतीयमानेऽपि ‘अथो खल्वाहुः अनाहुतिर्वै जर्तिलाश्च गवेधुकाश्च, पयसाऽग्निहोत्रं जुहुयात्’ इति तदनन्तरं जर्तिलादिप्रतिक्षेपेण पयोविधिदर्शनात् तदेकवाक्यतया ‘जर्तिलयवाग्वा जुहुयात्’ इत्यादेः ग्राम्यारण्यपशुहिंसारहित्येन प्रशस्ततया होमार्हाः अपि जर्तिलागवेधुकाश्च यदपेक्षया दुष्टाः, तत् पयः एव प्रशस्तम् इति पयःस्तुत्यर्थत्वं एकवाक्यतानुरोधादिति, ‘नचेदन्यं प्रकल्पयेत् प्रकॢप्तावर्थवादः स्यात्’ (पू.मी.सू.१०-८-४-७) इति पूर्वतन्त्राधिकरणे किञ्चिद्विधिपूर्वकं तन्निन्दायां विध्यन्तरश्रवणे सति तदेकवाक्यतानुरोधात् पूर्वप्रवृत्तयो: विधिनिन्दयोः तदर्थवादत्वम् इति समर्थितम् । तद्वदेव इहापि युक्तम् । ननु जर्तिलगवेधुकयोः पयसा सह सम्बन्धाभावात् जर्तिलगवेधुकयवागूविधानयोः अर्थवादतयैव विध्येकवाक्यता समर्थनीया इति तत्र तथास्तु नाम । इह तु – भूमविद्यायां नामादीनां सत्येन ब्रह्मणा सह भूयस्त्वावधित्वेन सम्बद्धानां प्रासङ्गिकतदुपासनाविधिवत् समस्तोपासनविषयेण वैश्वानरात्मना व्द्यादित्यादीनां तदवयवत्वेन सम्बद्धानां प्रासङ्गिकोपासनविधिः किं न स्यादिति चेत् – मैवम् । व्यस्तोपासननिन्दनेन, ‘मूर्धात्वेष आत्मन इति होवाच’ इत्यादिवाक्येषु तुशब्दकृतेन व्द्यादित्यादीनां स्वतन्त्रोपास्यत्वव्यवच्छेदेन, ‘तान् होवाचैते वै खलु यूयं पृथगिवेममात्मानं वैश्वानरं विद्वांसोऽन्नमत्थ’ इति व्यस्तोपासनानां भ्रममूलत्वोद्धाटनेन भूमविद्यावैषम्यस्य बहुविधस्य सत्त्वेन जर्तिलयवागून्यायस्यैव आत्र प्रत्यौचित्यात् क्रतुवत् । यथा ‘वैश्वानरं द्वादशकपालं निर्वपेत्पुत्र जाते’ इति विहितस्य क्रतो: ‘यदष्टाकपालो भवति’ इत्यादिः अर्थवादः, न तु अष्टाकपालादिद्रव्यविधायकः, एवम् अत्यन्नं पश्यति प्रियम् इत्यादिश्रवणमपि अर्थवादः एवैति स्थितम् । प्रकृतमनुसरामः ।।

 

।। इति पञ्चमप्रपाठकप्रकाशिका

 

।। इति पञ्चमप्रपाठकभाष्यम् समाप्तम् ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.