छान्दोग्योपनिषत्
[सामवेदीयोपनिषत्]
शान्तिपाठः
ओम् आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि,
सर्वं ब्रह्मोपनिषदम्, माऽहं ब्रह्म निराकुर्यां, मा मा ब्रह्म निराकरोत् अनिराकरणमस्तु,
अनिराकरणं मेऽस्तु, तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु, ते मयि सन्तु ।।
।। ओं शान्तिः शान्तिः शान्तिः ।।
**
प्रथमः प्रपाठकः
प्रथमः खण्डः
[प्रणवोपासनस्य रसतमत्वकामाप्तिसमृद्धिगुणकत्वादिप्रकारवैशिष्ट्यम् |
हरिः ओम् – ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति ।
तस्योपव्याख्यानम् ।। १ ।।
प्रकाशिका
[श्रीरङ्गरामानुजमुनिविरचिता]
[मङ्गलाचरणम्]
अतसीगुच्छसच्छायमञ्चितोरःस्थलं श्रिया ।
अञ्जनाचलशृङ्गारमञ्जलिर्मम गाहताम् ।। १ ।।
[आचार्यवन्दनम्]
श्रीशैलपूर्णवंशाब्धि कौस्तुभस्य जगद्गुरोः ।
श्रीमतस्तातयार्यस्य चरणौ शरणं वृणे ।। २ ।।
श्रीतातगुरुसेवाप्तवेदान्तयुगलाशयः ।
वात्स्यानन्तगुरुः श्रीमान् श्रेयसे मेऽस्तु भूयसे ।। ३ ।।
यत्सेवावैभवाल्लब्धा मया परमहंसता ।
तमहं शिरसा वन्दे परकालमुनीश्वरम् ।। ४ ।।
व्यासं लक्ष्मणयोगीन्द्रं प्रणम्यान्यान् गुरूनपि ।
छन्दोगोपनिषद्व्याख्यां करवाणि यथामति ।। ५ ।।
ब्रह्मविद्यौपयिकं कर्माङ्गविषयम् आदौ उपासनम् उपदिश्यते । ओमित्येतदक्षर मुद्गीथमुपासीत इति । उद्गीथं‘ – उद्गीथभक्त्यवयवभूतम्’ ‘ओम्’ इत्येतदक्षरम् उपासीत इत्यर्थः । ‘ओम’ इत्यक्षरस्य’ उद्गीथत्वासम्भवेन, सामानाधिकरण्यार्थम् उद्गीथपदस्य वा अक्षरपदस्य वा मुख्यार्थत्यागेन लक्षणायां समाश्रयणीयायाम् , ‘एतस्यैवाक्षरस्य उपव्याख्यानम्’ इत्युपसंहारानुगुण्यात्, उद्गीथशब्दस्य जघन्यतया च, तस्यैव उद्गीथावयवलक्षकत्वं युक्तम् , न तु मुख्यस्य ‘ओम्’ इत्येतदक्षरम् इत्यस्य ओङ्कारावयवयुक्तोद्गीथलक्षकत्वं युक्तमिति द्रष्टव्यम् । स्वयमेव श्रुतिः ओङ्कारस्य उद्गीथशब्दप्रतिपाद्यत्वे हेतुमाह – ओमिति ह्युगायति इति । लोके ‘ओम्’ इति हि आरभ्यैव उद्गायति । अतः उद्गीथावयवत्वात् उद्गीथशब्दप्रतिपाद्यत्वं युक्तमित्यर्थः । तस्योपव्याख्यानं । तस्य – ओमित्यक्षरस्य उपव्याख्यानं‘ – इदमुपासनं एवं ‘विभूतिः’ एवं फलमित्यादिकथनम् क्रियते इति शेषः ।
एषां भूतानां पृथिवी रसः, पृथिव्या आपो रसः, अपामोषधयो रसः,
ओषधीनां पुरुषो रस: । पुरुषस्य वाक् रसः, वाच: ऋक् रसः, ऋचः साम रसः,साम्नः उद्गीथो रसः ।। २ ।।
प्र. – एषां । एषां – स्थावरजङ्गमात्मक भूतानां पृथिवीरसः – परायणम् । भूतानां पृथिव्याधारकत्वात् इति भावः । पृथिव्या आपो रसः । तस्या: ‘जलप्रकृतिकत्वात् इति भावः । अपामोषधयो रसः । तत्परिणामत्वात् इति भावः । ओषधीनां पुरुषो रसः । अन्नपरिणामत्वात् शरीरस्य इति भावः । पुरुषस्य वाग्रसः । वाचोऽत्युपकारकत्वात् इति भावः । वाच ऋग्रसः । ऋचां गम्भीरार्थकत्वात् इति भावः । ऋचः साम रसः । गीतिसारत्वात् साम्नाम् इति भावः । साम्न उद्गीथो रसः । श्राव्यत्वात् सारः इत्यर्थः । अत्र उद्गीथशब्देन उद्गीथावयवः ओङ्कारः उच्यते ।।
[‘ओङ्कारः‘ रसतमः]
स एष रसानाँ रसतमः परमः परार्ध्योऽष्टमो यदुद्गीथः ।। ३ ।।
प्र.- स: एषः……परमः । स एषः ‘ओङ्कारः’ रसतमः परमः – भूतादीनाम् उत्तरोत्तररसानाम् अतिशयितो रसः । इतोऽधिको रसो नास्तीत्यर्थः । परार्ध्यः – परस्य ब्रह्मणः अर्धं – स्थानम् अर्हति इति परार्ध्यः । ‘छन्दसि च’ (पा.सू. ५-१- ६७) इति यत् । ब्रह्मवत् ओङ्कारस्यापि उपास्यत्वात् इति भावः । अष्टम: अयम् उद्गीथः ‘पृथिवी रसः पृथिव्या आपो रस’ इति परिगणनायाम् अष्टमः इत्यर्थः। यदुद्गीथः । यः उद्गीथ इत्यर्थः ।।
[सर्वकामाप्तिगुणक: ओङ्कारः‘]
कतमा कतमर्क् , कतमत् कतमत् साम, । कतमः कतम उद्गीथ इति विमृष्टं भवति ।। ४ ।।
प्र. -‘वाच ऋग्रसः, ऋच: सामरस: साम्न उद्गीथोरसः’ इति ऋक्सामोद्गीथानां प्रस्तुतत्वात् ‘तानि’ विमृशति कतमा इति । कतमा कतमा इति वीप्सा आदरार्था । का ऋग् इत्यर्थः । एवमुत्तरत्रापि कतमत् कतमत् साम इत्यादौ द्रष्टव्यम् । इति विमृष्टं भवति । विमर्शः कृतो भवतीत्यर्थः ।।
[ओङ्कारः ऋक्सामभ्यां मिथुनरूपः]
वागेवर्क् प्राण: साम, ओमित्येतदक्षरमुद्गीथः । तद्वा एतन्मिथुनम् , यद्वाक् च प्राणश्च, ऋक् च साम च ।। ५ ।।
प्र. – विमर्शनिष्पन्नम् अर्थम् आह वागेव – उद्गीथः इति । ऋचो वागिन्द्रियोच्चारणसाध्यत्वात् वागेव ऋक् सामगानस्य प्राणनरूपश्वासधारणसाध्यत्वात् प्राण: एव साम । उद्गीथ भक्त्यवयवत्वात् ओमित्यक्षरमेव उद्गीथः इत्यर्थः । तद्वा……प्राणश्च । स्त्रीलिङ्गशब्दवाच्यतया वाचः स्त्रीत्वं प्राणस्य पुल्लिङ्गशब्दवाच्यतया पुंस्त्वम् इति भावः । ऋक् च साम च । अत्रापि तदेतत् मिथुनमिति अनुषज्यते । उक्तरीत्या वाक्प्राणयोः मिथुनत्वेन तदभिन्नत्वेन ऋक्सामयोः अपि मिथुनत्वं द्रष्टव्यम् ।।
[मिथुनरूपस्य फलम्]
तदेतन्मिथुनम् ओमित्येतस्मिन्नक्षरे सँसृज्यते, यदा वै मिथुनौ समागच्छतः, आपयतो वै तावन्योन्यस्य कामम् ।। ६ ।।
प्र. – तदेतत् – संसृज्यते । ऋक्सामात्मकं तदेतत् मिथुनं ओमिति एतस्मिन् अक्षरे उद्गीथावयवभूते संसृज्यते । उद्गीथस्य ऋगारूढसामभक्तिरूपत्वेन ऋक्सामरूपतया उद्गीथावयवप्रणवस्य ‘ऋक्सामभ्यां’ संसृष्टत्वात् तदात्मकमिथुनेन संसृष्टत्वम् इत्यर्थः । वाक्प्राणात्मकमिथुनाध्यासविशिष्टऋक्सामसंसृष्टतया उद्गीथावयवप्रणवोपासनं कर्तव्यम् इत्यर्थः ।
यदा – कामम् । यदा दम्पती मिथुनीभूतौ ग्राम्यधर्माय संसृज्येयाताम् , तदा अन्योन्यकामप्रापकत्वं प्रसिद्धम् इत्यर्थः । मिथुनौ इति पुंस्त्वद्विवचने छान्दसे। ततश्च : ओङ्कारोऽपि स्वसंसृष्टमिथुनेन कामप्रापकः इति भावः ।।
[उद्गीथोपासनस्य फलम्]
आपयिता ह वै कामानां भवति, य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।। ७ ।।
प्र. -तदुपासकोऽपि उद्गाता स्वोपास्यौङ्कारवत् यजमानकामप्रापकः इत्याह आपयिता उपास्ते । ‘कामाप्त्यादि विशिष्टोद्गीथावयवोपासनस्य यजमानगतकामाप्तिः एव फलमित्यर्थः ।।
तद्वा एतदनुज्ञाक्षरं यद्धि किञ्चानुजानात्योमित्येव तदा हैषो एव समृद्धिर्यदनुज्ञा
समर्द्धयिता ह वै कामानां भवति य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते ।। ८ ।।
प्र. – तद्वा एतदनुज्ञाक्षरम् । ओङ्कारः अनुज्ञाक्षरमित्यर्थः । तदेव उपपादयति यद्धि……तदाह । ‘लोके हि’ अनुज्ञां प्रयच्छन् पुरुषः ओमिति अनुजानाति इत्यर्थः । एषो……ज्ञा । उशब्दः प्रसिद्धौ । लोके समृद्धिमान् हि ‘ओम्’ इति अनुज्ञां प्रयच्छति । अतः अनुज्ञारूपस्य ओङ्कारस्य समृद्धिमूलत्वात् अनुज्ञारूप: ओङ्कारः एव समृद्धिः इत्यर्थः । एवं समृद्धिगुणविशिष्ट – ओङ्कारोपासनस्य फलमाह – समर्द्धयिता……उपास्ते इति । यजमानस्य कामसमृद्धिं करोति इत्यर्थः ।।
[ओङ्कारस्य स्तुतिः]
तेनेयं त्रयी विद्या वर्तते, ओमित्याश्रावयति, ओमिति शँसति, ओमित्युद्गायति एतस्यैवाक्षरस्यापचित्यै महिना रसेन ।। ९ ।।
प्र. उपास्यम् ओङ्कारं प्ररोचनार्थं स्तौति – तेनेयं इत्यादिना । तेन – प्रकृतेन उपास्येन औङ्कारेण त्रयी विद्या‘ – त्रयीविहितं कर्म प्रवर्तते इत्यर्थः । तदेव उपपादयति – ओमिति–उद्गायति । ओङ्कारपूर्वकत्वात् आश्रावणशंसनोद्गानानाम् इत्यर्थः । किमिति ओङ्कारपूर्वकमेव आश्रावणादिकं क्रियते इत्यत्राह – एतस्यैव रसेन । रसेन – सारभूतेन महिमा – माहात्म्येन युक्तस्य एतस्य – ओङ्कारलक्षणस्य अक्षरस्य अपचित्यै – पूजार्थम् इत्यर्थः ।।
[उद्गीथविद्याफलं वीर्यवत्तरत्वम् ]
तेनोभौ कुरुतो यश्चैतदेवं वेद, यश्च न वेद ; नाना तु विद्या चाविद्या च ; यदेव विद्यया करोति श्रद्धयोपनिषदा, तदेव वीर्यवत्तरं भवति ।। इति खल्वेतस्यैवाक्षरस्योपव्याख्यानं भवति ।। १० ।।
।। इति प्रथमः खण्डः ।।
प्र. – ‘ननु अनेवंविद्भिरपि’ कर्मणः अनुष्ठीयमानत्वदर्शनात् विद्यावैयर्थ्यम् इत्याशंक्य, सत्यं, विद्वद्भिः अविद्वद्भिः अपि लोके ओङ्कारेण कर्मानुष्ठीयते तथाऽपि विद्याविद्ये विलक्षणफले ; विद्यया क्रियमाणं हि कर्म वीर्यवत्तरं भवति ; अतादृशं तु न तथा इत्याह – तेनोभो इत्यादिना । नाना तु विलक्षणफले इत्यर्थः । यदेव ; कर्म इत्यर्थः । विद्या – उपासनम् । श्रद्धा – आस्तिक्यबुद्धिः । उपनिषच्छब्देन उपनिषज्जन्यं ब्रह्मात्मकत्वज्ञानमुच्यते । कर्मणः वीर्यवत्तरत्वं नाम प्रबलकर्मान्तरा : प्रतिबद्धफलकत्वम् ।। इति…… भवति । रसतमत्व-कामाप्ति-समृद्धि-गुणकत्वादिभि: उक्तप्रकारैः विशिष्टम् अभिहितम् उपासनं सर्वमेतत् अक्षरविषयकमेव इत्यर्थः । ततश्च उपास्यभेदशङ्का न कार्या इति भावः ।। एतत्खण्डान्तर्गतवाक्यविषयाणि अधिकरणानि उपन्यस्यन्ते अङ्गपादे – ‘स एष रसानां रसतमः परमः परार्ध्योऽष्टमी यदुद्गीथ:’ इत्येवं जातीयकानां वाक्यानाम्’, ‘इयमेव जुहूः, स्वर्गो लोक आहवनीयः’ इत्यादिवाक्यवत् स्तावकत्वमेव, न तु रसतमत्वादिलक्षणोपास्यगुणसमर्पकत्वम् । ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति न उपासनं विधीयते । ‘उद्गीथविधि सिद्धानुष्ठानौपयिकज्ञानसामान्यवाची हि उपासनशब्दः । अतोऽनुवाद एव । ततश्च रसतमत्वादिवाक्ये समभिव्याहृतविध्यभावेन तदेकवाक्यतया स्तावकत्वाभावेन ‘उद्गीथपदो पस्थापि तक्रतु’ प्रकरणगत – उद्गीथविध्येकवाक्यतया एव रसतमादिवाक्यानां स्तावकत्वम् । न च स्तावकवाक्यानां स्तुत्यविधिसमभिव्याहारनियमोऽस्ति । “एतद्ब्राह्मणान्येव पञ्चहवींषि, यद्ब्राह्मणानीतराणि” इति अतिदिष्टार्थवादेषु व्यभिचारात् । अस्तु वा “उद्गीथमुपासीत” इति उपासनविधिः; तदेकवाक्यता च “रसतमत्वा’ दिवाक्यानाम् – तथाऽपि रसतमादिवाक्यानां न उपासनविषयसमर्पकत्वेन एकवाक्यत्वम् , “ओमित्येतदक्षरम्” इत्यनेनैव उपास्यस्य लाभात् । अपितु उपास्योद्गीथस्तावकत्वेनैव ; ‘उपास्योद्गीथमादाय स्तुतिमात्रस्य उपलम्भात् इति ‘स्तुतिमात्रमुपादानादिति चेत्’ (ब्र.सू. ३-४-२१) इति सूत्रखण्डेन पूर्वपक्षं कृत्वा’, ‘नापूर्वत्वात्’ इति सूत्रखण्डेन च, ‘भावशब्दाच्च’ (ब्र.सू.३-४-२२) इति सूत्रेण च सिद्धान्तः कृतः ।
अयमर्थः – उद्गीथे रसतमत्वादीनां मानान्तराप्राप्तत्वेन अनुवादमुखेन स्तुत्यसम्भवात् । ‘इयमेव जुहूः’ इत्यादौ जुहूविधेः सन्निहिततया तदेकवाक्यत्वेन तत्स्तावकत्व सम्भवेऽपि क्रतुप्रकरणगतोद्गीथविधेः असन्निहिततया तदेकवाक्यत्वाभावात् । ‘एतद्ब्राह्मणान्येव पञ्च हवींषि’ इत्यादिवत् तदेकवाक्यताकल्पकवचनान्तराभावात् । ओमित्येतदक्षरमुद्गीथमुपासीत’ इति सन्निहिते विस्पष्ट विधिप्रत्यययुक्ते क्रियावाचिनि भावशब्दे विद्यमाने तदेकवाक्यताम् अनादृत्य क्रतुप्रकरणगतोद्गीथविध्येकवाक्यताकल्पनस्य अन्याय्यत्वात् । ननु सन्निहितोपासनविध्येकवाक्यत्वेऽपि उपास्योद्गीथस्तावकत्वेनैव रसतमादिवाक्यानाम् एकवाक्यताऽस्तु; न तु उपास्यसमर्पकत्वेन इति चेन्न; उपासनविषयसमर्पकतया प्रवृत्तिविशेषकरत्वे सम्भवति व्यर्थप्रायस्तुतित्वकल्पनाया: अयुक्तत्वात्’ । अतः रसतमत्वादिकमपि उपास्यमेव । ततश्च रसतमत्वादिविशिष्टया एव उद्गीथोपासनं कर्तव्यं तत्तत्फलार्थिभिः इति स्थितम् । तथा-ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादौ निर्विशेषसामान्येन व्यवहारासम्भवात् विशेषाकाङ्क्षायां तत्तच्छाखागतानामेव उद्गीथव्यक्तीनां सन्निहितत्वात् तन्मात्रविषयत्वमेव उद्गीथश्रुतेः’ युक्तम् । ततश्च ताण्डिशाखागतरसतमत्व-कामाप्ति- हिरण्मयपुरुष-आकाशादिदृष्टिविशिष्टोपासने ताण्डिशाखागतोद्गीथव्यक्तेरेव क्रतुमध्यप्रयुक्तायाः उपास्यत्वम्, न तु शाखान्तरगतोद्गीथव्यक्तेः । न च सर्वशाखागतोद्गीथानाम् ऐक्यं शंक्यम् – स्वरादिभेदेन उद्गीथव्यक्तीनां भिन्नत्वात् । न च उद्गीथश्रुतेः संकोचलक्षणबाधप्रसङ्ग: इति वाच्यम् – शुक्लपटमानय इत्यादौ पटशब्दस्य व्यक्तिविशेषार्थकत्वेऽपि, “जातिव्यक्ती गृहीत्वेह वयं तु ‘श्रुत’ लक्षिते । “कृष्णादि यदि मुञ्चामः का श्रुतिस्तत्र पीड्यते” ।। (श्लो.वा.३४८) इति न्यायेन श्रुत्यर्थभूतायाः पटत्वजातेः, लक्ष्यायाः व्यक्तेश्च अपरित्यागेन पटश्रुत्यबाध: इत्युक्तरीत्या उद्गीथश्रुतेरपि अबाधात् तत्तच्छाखागतोद्गीथमात्रविषयत्वमेव – इति पूर्वपक्षे प्राप्ते, उच्यते – ‘अङ्गावबद्धास्तु न शाखासु हि प्रतिवेदम्’ (ब्र.सू. ३-३-५३) तु शब्दः पूर्वपक्षव्यावृत्त्यर्थः । उद्गीथाद्यङ्गावबद्धाः उपासनाः तत्तच्छाखागंतोद्गीथव्यक्तिषु एव न व्यवतिष्ठेरन् । अपितु प्रतिशाखं संबध्येरन् । शुक्लं पटमानय इत्यादौ शुक्लपदसमभिव्याहारान्यथानुपपत्त्या विशिष्टैकार्थप्रत्यायनाय अविशेषप्रवृत्तश्रुतेः पीडनेऽपि प्रकृते तादृशबाधकाभावेन अविशेषप्रवृत्तोद्गीथश्रुतेः सन्निधिमात्रेण 1 संकोचाभावात्।।
शाखान्तरगत: क्रतु मध्ये प्रयुज्यमानः उद्गीथः शाखान्तरोक्तोपासनप्रकारेणापि उपास्य इत्यर्थः । ‘मन्त्रादिवद्वाऽविरोधः’ (ब्र.सू. ३-३-५४) । शाखान्तराम्नातानां मन्त्रादीनां शाखान्तराम्नातक्रतुसम्बन्धवत् शाखान्तरगत उपासनानामपि शाखान्तरगतोद्गीथसम्बन्धे विरोधाभावात् इति स्थितम् । तथा गुणोपसंहारपादे ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादिना विहितानाम् अङ्गावबद्धोपासनानाम् अव्यभिचरितक्रतुसम्बन्धिजुहूपस्थापित क्रतुफलनिराकाङ्क्षपर्णतादिवत् अव्यभिचरितक्रतुसम्बन्धि उद्गीथोपस्थापितक्रतुफलेनैव नैराकाङ्क्ष्यात्, ‘तदेव वीर्यवत्तरं भवति’ इति वीर्यवत्तरत्वादिश्रवणानाम् अर्थवादत्वात् व्रीहिप्रोक्षणपर्णतादिवत् अङ्गत्वात् उपासनानि क्रतो नियमेन उपादेयानि इति पूर्वपक्षे प्राप्ते – उच्यते । ‘तन्निर्धारणानियमस्तदृष्टे: पृथग्घ्यप्रतिबन्धः फलम्’ (ब्र.सू. ३-३-४१) । निर्धारणं ‘निश्चयेन मनसोऽवस्थापनम् । ध्यानम् इत्यर्थः। तस्य उपासनस्य अनियमः नियमेन अननुष्ठानम्, ‘तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ इति अनियमदर्शनात्। तस्य उपासनस्य प्रबलकर्माप्रतिबन्धरूप- वीर्यवत्तरत्वलक्षणफलान्तरवत्त्वेन कर्माङ्गत्वाभावात् इत्यर्थः । अयं भावः पर्णतोदुम्बरत्वादिस्थले विधिविभक्त्यश्रवणात् अर्थवादेनैव विधिशक्तिम् उपजनय्य पुनः तेनैव फलसमर्पणे विरम्यव्यापारात् वाक्यं भिद्येत । उपासनायां तु विस्पष्टविधिश्रवणात् न फलविधित्वे वाक्यभेदशंका । अत: पर्णतोदुम्बरतादिविध्यपेक्षया उपासनविधेः वैषम्यात् फलविधित्वं सम्भवतीति । इति स्थितम् । तथा अङ्गपादे – मुक्तिव्यतिरिक्तफलकोपासनानाम् उद्गीथविद्यारहितयज्ञादि कर्मनिष्पाद्यानामपि यज्ञादिरूपसाधननिष्पत्तौ सत्यां विलम्बे हेत्वभावात् इह जन्मन्येव निष्पत्तिरिति पूर्वपक्षे प्राप्ते – उच्यते । ‘ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात्’ (ब्र.सू.३-४-५०) । मुक्तिव्यतिरिक्तफलकम् उपासनं अप्रस्तुतप्रतिबन्धेप्रतिबन्धाभावे ऐहिकंइहैव जन्मनि सम्भवति । सतिप्रतिबन्धे जन्मान्तरे । न च प्रतिबन्धासम्भवः शंकनीयः, ‘यदेव विद्यया करोति श्रद्धया उपनिषदा तदेव वीर्यवत्तरं भवति’ इति उद्गीथविद्यायाः प्रबलकर्मान्तराप्रतिबद्ध- फलत्वावेदनेन प्रबलकर्मान्तरप्रतिबन्धस्य अनुज्ञातत्वात् । न च ‘तमेतं वेदानुवचनेन ब्राह्मणाः विविदिषन्ति’ (बृ.उ.६-४-२२) इति यज्ञादेवेदन साधनत्वश्रवणात् कारीर्यभिचारादिवत् नियतैहिकत्वमेव किं न स्यादिति वाच्यम् – शुष्यच्छालिसम्पत्ति- वैरिविशेषविपत्तिफलकत्वेन विहितानां तेषां नियतैहिकत्वेऽपि विद्यासाधनयज्ञादिकर्मणां तज्जन्मनि विद्योद्देशेन अविहिततया पश्वादिफलकचित्रेष्ट्यादिवत् नियतैहिकत्वाभावात् । पूर्वतन्त्रे चतुर्थाध्याये योगसिद्ध्यधिकरणे तथा निर्णीतत्वात् इति स्थितम् ।। तथा तदुत्तराधिकरणे – ‘यक्षानुरूपो बलिः’ इति न्यायेन बलवत्कर्मसाध्यानां मुक्तिफलकब्रह्मोपासनानां प्रबलकर्मान्तरप्रतिबन्धासम्भवात् नियतैहिकत्वमेव इति पूर्वपक्षे प्राप्ते – उच्यते, ‘एवं मुक्तिफलानियमस्तदवस्थावधृतेस्तदवस्थावधृतेः’ (ब्र.सू.३-४-५१) मुक्तिफलकविद्यानामपि ऐहिकत्वनियमो नास्ति, अप्रस्तुतप्रतिबन्धत्वरूपावस्थायाः विशेषेण तत्रापि अवधृतत्वात् । तत्रापि प्रबलानां ब्रह्मविदपचारादिप्रतिबन्धकानां सम्भवात् । द्विरुक्तिरध्यायपरिसमाप्त्यर्था’ । प्रकृतमनुसरामः ।।
।। इति प्रथमखण्डभाष्यम् ।।
द्वितीयः खण्डः
[उद्गीथावयवे ओङ्कारे मुख्यप्राणदृष्टिः]
देवासुरा ह वै यत्र संयेतिरे उभये प्राजापत्याः । तद्ध देवा उद्गीथमाजहुः, ‘अनेनैनान् अभिभविष्याम‘ इति ।। १ ।।
प्र. उद्गीथावयवे ओङ्कारे मुख्यप्राणदृष्टिं विधातुम् आख्यायिकां प्रस्तौति – देवासुरा…… प्राजापत्या इत्यादिना । द्विविधाः प्रजापतिसुताः देवासुराः यत्र यस्मिन् काले परस्परं संयेतिरे – युद्धं कृतवन्तः इत्यर्थः । प्राजापत्या इति अपत्यार्थे, ‘दित्यदित्यादित्यपत्युत्तरपदाण्ण्यः’ (पा.सू. ४-१-८५) इति ण्यः। तद्ध……इति तत् – तदा-ह – प्रसिद्धं यथा तथा देवाः अनेनैव – उद्गीथावयवेन ओङ्कारेण उपासितेन एनान् – असुरान् अभिभविष्याम: जेष्यामः इत्यभिसन्धाय ‘उद्गीथं प्राणं उपायत्वेन स्वीकृतवन्तः इत्यर्थः ।।
ते ह नासिक्यं प्राणमुद्गीथमुपासाञ्चक्रिरे ; तँ हासुराः पाप्मना विविधुः । तस्मात् तेनोभयं जिघ्रति सुरभि च दुर्गन्धि च ; पाप्मना ह्येष विद्धः ।। २ ।।
प्र. –ते……चक्रिरे । ते – देवा: घ्राणेन्द्रियत्वेन उद्गीथम् उपासितवन्तः इत्यर्थः । नासिकायां भवं नासिक्यम् । ‘शरीरावयवाञ्च’ (पा.सू.४-३-५५) इति यत् । तं……विविधुः । तं – नासिक्यं प्राणम् असुराः – स्वकीयेन पाप्मना विविधुः संयोजितवन्तः । पापहेतुभूतवृत्त्या संयोजितवन्तः इति यावत् । तस्मात्……विद्धः । तस्मात् – पापसंसर्गाद्धेतोः पुरुषः घ्राणेन सुरभि च दुर्गन्धि च उभयं जिघ्रति । तस्मात् नासिक्यः प्राणः पापविद्ध एव इत्यर्थः ।।
अथ ह वाचमुद्गीथमुपासाञ्चक्रिरे, ताँ हासुराः पाप्मना विविधुः। तस्मात् तयोभयं वदति सत्यञ्चानृतञ्च; पाप्मना ह्येषा विद्धा ।। ३ ।।
प्र. – अथ ह वाचम् – इत्यादि । पूर्ववत् ।।
अथ ह चक्षुरुद्गीथमुपासाञ्चक्रिरे, तद्धासुराः पाप्मना विविधुः । तस्मात् तेनोभयं पश्यति दर्शनीयञ्चादर्शनीयञ्च ; पाप्मना ह्येतद् विद्धम् ।। ४ ।।
प्र. – अथ……चक्रिरे इत्यादि । अदर्शनीयम् – अमेध्यादिकम् इत्यर्थः ।।
अथ ह श्रोत्रमुद्गीथमुपासाञ्चक्रिरे ; तद्धासुराः पाप्मना विविधुः । तस्मात् तेनोभयँ शृणोति श्रवणीयञ्चाश्रवणीयञ्च ; पाप्मना ह्येतद् विद्धम् ।। ५ ।।
प्र. – अथ……चक्रिरे इत्यादि । अश्रवणीयं – पापवचनम् इत्यर्थः ।।
अथ ह मन उद्गीथमुपासाञ्चक्रिरे; तद्धासुराः पाप्मना विविधुः; तस्मात् तेनोभयँ सङ्कल्पयते सङ्कल्पनीयञ्चासंकल्पनीयञ्च ; पाप्मना ह्येतद् विद्धम् ।। ६ ।।
प्र. अथ……चक्रिरे इत्यादि । असंकल्पनीयं – पापम् इत्यर्थः ।।
[असुराणां पराभवः]
अथ ह, य एवायं मुख्यः प्राणः, तमुद्गीथमुपासाञ्चक्रिरे ; तँ हासुरा ऋत्वा विदध्वँसुः, यथाऽश्मानमाखणमृत्वा विध्वँसेत, एवम् ।। ७ ।।
प्र. – अथ……चक्रिरे । उद्गीथावयवम् ओङ्कारं मुख्यप्राणत्वेन उपासितवन्तः इत्यर्थः । तं विदध्वंसुः। तं – मुख्यप्राणं पाप्मना वेद्धुं प्रवृत्ताः असुराः तं ऋत्वा-प्राप्य स्वयमेव विदध्वंसुः – विध्वस्ता अभवन् इत्यर्थः । तत्र दृष्टान्तमाह – यथाऽश्मानं एवम् । आखन्यते इति आखणं मृत्पिण्डः । यथा मृत्पिण्डः अश्मानं प्राप्य विध्वस्तो भवति, एवम् इति व्यासार्यै: व्याख्यातम् । आखणमिति छान्दसं णत्वम् ; नपुंसकत्वञ्च ।।
[उद्गीथविद्यायाः फलम्]
यथाऽश्मानमाखणमृत्वा विध्वँसते, एवं हैव स विध्वँसते, य एवंविदि पापं कामयते, यश्चैनमभिदासति; स एषोऽश्माखणः ।। ८ ।।
प्र. एतद्विद्यायाः फलमाह यथा…… कामयते इत्यादि । एवंविदि एतद्विद्यानिष्ठे यः पापं कर्तुं कामयते, यश्चैनं अभिदासति – हिनस्ति, सः अश्मप्राप्तलोष्टवत् ध्वस्तो भवति इत्यर्थः । ‘दाप् लवने’ (धा.पा.१०५९) इत्यतः, ‘दो अवखण्डने’ (धा.पा. ११४८) ‘इत्यतो’ वा लेटि ; ‘सिब्बहुलं लेटि’ (पा.सू.३-१-३४) इति सिपि दासति इति रूपम् ।
स एषोऽश्माखणः । स एषः एतद्विद्यानिष्ठे पापकामः अश्माखण: अश्मप्राप्ताखण इत्यर्थः । एतेन – ‘खनो घ च’ (पा.सू. ३-३-१२५) इति ‘घप्रत्ययस्य, करणाधिकरणयोः’ (पा.सू.३-३-११७) इत्यनुवृत्त्या कर्मण्यभावात् , करणार्थ एव घप्रत्ययो वक्तव्यः । अतः आखणशब्दस्य अश्मविशेषणत्वमेव वक्तव्यम् । खननसाधनतया दृढम् अश्मानं प्राप्य यथा लोष्टादिकं ध्वंसते इति हि तस्यार्थः । अत एव स एषोऽश्माखण इति वाक्यशेषे अश्मविशेषणत्वमेव आखणस्य श्रूयते – इति शंकाऽपास्ता । वाजसनेयके समानप्रकरणे, ‘यथाऽश्मानमृत्वा लोष्टो विध्वँसते’ (बृ.उ.३-३-७) इति श्रवणेन तत्समानार्थत्वस्य वक्तव्यतया आखणशब्दस्य लोष्टवाचित्वस्यैव उचितत्वात् । बहुलग्रहणेन कर्मण्यपि घप्रत्ययस्य उपपत्तेः । इतरथा कर्तृवाचिपदाध्याहारप्रसङ्गात् । स एषोऽश्माखणः इत्यत्र अश्माखणशब्दस्य समस्तस्य अश्मप्राप्ताखणवाचित्वेन, अश्मशब्दसामानाधिकरण्येन आखणशब्दस्य अश्मविशेषणत्वाभावात् । पूर्ववाक्ये नपुंसकलिङ्गनिर्दिष्टस्यापि स एष इति पुल्लिङ्गसामानाधिकरण्येन आखणशब्दस्य पुल्लिङ्गत्वोपपत्तेश्च इति द्रष्टव्यम् ।।
[अपहतपाप्मा मुख्यप्राणः]
नैवैतेन सुरभि न दुर्गन्धि विजानाति ; अपहतपाप्मा ह्येषः । तेन यदश्नाति यत्पिबति तेनेतरान् प्राणानवति; एतमु एवान्ततोऽवित्त्वोत्क्रामति ; व्याददात्येवान्ततः इति ।। ९ ।।
प्र. – इतरप्राणाद्यपेक्षया तस्य वैषम्यमाह – नेव…… विजानाति । एतेन मुख्यप्राणेन इत्यर्थः । पुरुष इति शेषः । तत्र हेतुमाह – अपहतपाप्मा ह्येष इति । स्पष्टोऽर्थः तेन यत् अवति । तेनैव हेतुना तस्य अपहतपाप्मत्वादेव प्राणान्तरवत् आत्मम्भरित्वाभावात् स्वाशितपीतादिना इतरान् प्राणान् रक्षति इत्यर्थः । एतमु……क्रामति । यत एव घ्राणादिप्राणसमुदाय: मुख्यप्राणाशित-पीत-लब्धसत्ताकः । अत एव अन्ततः – मरणकाले मुख्यप्राणाशितादेः अभावेन एतम् अवित्त्वा – अलब्ध्वा उत्क्रामति इत्यर्थः । ‘विद्ल् लाभे’ (धा.पा.१४३३) इति हि धातुः । व्याददात्येवान्तत इति । अन्ततः मरणकाले सर्वप्राणानाम् उत्क्रमणादेव ‘आस्य व्यादानं करोति इत्यर्थः ।।
[प्राणस्य अङ्गिरसस्त्वादि]
तँ हाङ्गिराः उद्गीथमुपासाञ्चक्रे; एतमु एवाङ्गिरसं मन्यन्ते, अङ्गानां यद्रसः ।। १० ।।
प्र. – तं……चक्रे । तं – अध्यस्तप्राणभावम् उद्गीथम् उद्गीथावयवम् ओङ्कारम् अङ्गिराः ऋषिः उपासाञ्चक्रे इत्यर्थः । केचित्तु अङ्गिरसा उपास्यमेव ‘मुख्यप्राणम् अङ्गिरस’ वदन्ति इत्याह – एतमु…… रसः । अङ्गानां प्राणाधीनस्थितित्वेन प्राणस्य अङ्गिरसत्वम् इति भावः । अङ्गरसम् अङ्गिरसं वदन्ति परोक्षप्रियत्वात् देवानाम् इति भावः ।
तेन तँ ह बृहस्पतिरुद्गीथमुपासाञ्चक्रे । एतमु एव बृहस्पतिं मन्यन्ते, वाग्घि बृहती, तस्या एष पतिः ।। ११ ।।
प्र. – तेन…… चक्रे । तेन – अङ्गिरसत्वेन गुणेन बृहस्पतिः उपासितवान् इत्यर्थः । एतमु……पतिः । वागिन्द्रियस्य सर्वार्थप्रकाशकत्वादिना ‘बृहत्वम्’।’तस्य मुख्यप्राणाधीनत्वात् प्राणस्य वाक्पतित्वम् । अत: उपास्यस्यैव बृहस्पतित्वं मन्यन्त इत्यर्थः।
तेन तँ हायास्य उद्गीथमुपासाञ्चक्रे एतमु एवायास्यं मन्यन्ते, आस्याद्यदयते ।। १२ ।।
प्र. – तेन……उपासाञ्चक्रे । तेन – बृहस्पतित्वेन ‘अयास्यः ऋषिः’ उपासितवान् इत्यर्थः । एतमु……यदयते । आस्यात् – मुखात् अयते – निर्गच्छति इत्यर्थः ।।
तेन तँ ह बको दाल्भ्यो विदाञ्चकार । स ह नैमिषीयाणामुद्गाता बभूव ; स ह स्मैभ्य: कामानागायति ।। १३ ।।
प्र. – तेन……विदाञ्चकार । तेन – पूर्वोक्ताङ्गिरसत्व-बृहस्पतित्वायास्यत्वादि-गुणविशिष्टतया दल्भसुतो बको नामा ऋषिः उपासितवान् इत्यर्थः। स ह – बभूव । स्पष्टोऽर्थः । स ह……आगायति । सः दाल्भ्य: बकः एभ्यः नैमिषीयेभ्यः यजमानेभ्यः शत्रुपराभवादीन् कामान् गानेन विद्यामाहात्म्यात् सम्पादितवान् इत्यर्थः । आगायति स्म । ‘लट् स्मे’ (पा.सू.३-२-११८) इति लट् ‘भूतेऽपि ।।
[अङ्गिरत्वादि गुणोपासनस्य फलम्]
आगाता ह वै कामानां भवति, य एतदेवं विद्वानक्षरमुद्गीथमुपास्ते इत्यध्यात्मम् ।। १४ ।।
।। इति द्वितीयः खण्डः ।।
प्र. आगाता……उपास्ते। एवम् उपासको यजमानकामानां गानेन सम्पादयिता भवति इत्यर्थः । इत्यध्यात्मम् । अध्यात्मम् उद्गीथोपासनं समाप्तम् इत्यर्थः । आत्मशब्देन इन्द्रिय-मनःप्राणादि-सङ्घात उच्यते । अध्यात्मम् – आत्मनि इत्यर्थः । आत्मविषयम् इति यावत् ।। एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणं लिख्यते । अङ्गपादे – ऋत्विक्परिक्रयस्य अङ्गानुष्ठानमात्रार्थत्वात् , अङ्गावबद्धोपासनानाञ्च ‘तन्निर्धारणानियमस्तदृष्टे : पृथग्ध्यप्रतिबन्धः फलम्’ (ब्र.सू.३-३-४१) इति सूत्रोक्तन्यायेन अनङ्गत्वात् । ‘शास्रफलं प्रयोक्तरि’ (पू.मी.सू.३-७-१७) इति न्यायेन यजमानगामिफल- साधनभूतोपासनस्य यजमानेनैव कर्तव्यत्वात् , ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इति श्रुतपश्वर्थगोदोहनादेः अनङ्गत्वेऽपि ऋत्विक्कर्तृकप्रणयन ‘निर्वर्तकस्य गोदोहनस्य यजमानेन उपादातुम् अशक्यतया ऋत्विक्कर्तृकत्वेऽपि उद्गातृकर्तृके उद्गीथे यजमानस्य उपासनसम्भवात् उपासनं याजमानमेव । औद्गात्रसमाख्यानं तु ‘शास्त्रफलं प्रयोक्तरि’ इति न्यायेन विरोधात् उपेक्षणीयम् । अतः फलस्य स्वामिगतत्वात् फलस्वामियजमानकर्तृकमेव उपासनम् इति आत्रेयमतमिति, ‘स्वामिनः फलश्रुतेरित्यात्रेयः’ (ब्र.सू. ३-४-४४) इति सूत्रेण पूर्वपक्षं कृत्वा उपासनान्यपि ऋत्विक्कर्माण्येव स्युः । प्रयोगाङ्गस्य ऋत्विजः प्रयोगान्त: पात्युद्गीथाधुपासनेऽपि कर्तृत्वसम्भवात् । ‘तँ ह बको दाल्भ्यो विदाञ्चकार’ । ‘स ह नैमिषीयाणाम् उद्गाता बभूव । स ह स्मैभ्यः कामानागायति’ इति उद्गातृदाल्भ्यगतविद्यायाः यजमानकामसम्पादकत्वदर्शनलिङ्गाच्च ऋत्विक्कर्तृकमेवोपासनम् । न च ऋत्विक्कर्तृकोपासनस्य फलं ऋत्विग्गतमेव स्यादिति ‘शक्यशङ्कम्’ । ऋत्विजां परार्थतया तेषां वचनमन्तरेण फलसम्बन्धानुपपत्तेः । ‘यां वै काञ्चन यज्ञे ऋत्विज आशिषमाशासते, यजमानायैव एतामाशिषमाशासते’ (शत.ब्रा. १-३-१-२६) इति श्रुतेश्च । ‘तस्मादु हैवं विदुद्गाता ब्रूयात् कं ते काममागायानि’ (छां.उ. १-७-८) इति ऋत्विग्गतविज्ञानस्य
यजमानगामिफलक त्वावेदन लिङ्गाच्च न, ‘शास्त्रफलं प्रयोक्तरि’ (पू.मी.सू.३-७-१-७) इति न्यायावतार: । ततश्च परिक्रयविधिबलात् उत्सृष्टस्य ऋत्विक्कर्तृकस्य याजमानसमाख्यापादकाभावात् लिङ्गानुग्रहात् औद्गात्रसमाख्यानाञ्च आर्त्विज्यमेवोपासनमिति, ‘आर्विज्यमित्यौडुलोमिः, तस्मै हि परिक्रीयते’ (ब्र.सू. ३-४-४५) इति सूत्रेण सिद्धान्तितम् । सूत्रस्य चायमर्थः – उपासनमार्त्विज्यम् ऋत्विक्कर्म । तस्मै ‘क्रतुप्रयोगाय’ हि ऋत्विक् परिक्रीयते । अत: अनङ्गभूतमपि उपासनं क्रतुप्रयोगान्तः पातित्वात् ऋत्विजा एवानुष्ठेयमिति स्थितम् । तथा गुणोपसंहारपादे चिन्तितम् । तत्र हि वाजिनां तावत् ‘द्वया ह वै प्राजापत्या देवाश्चासुराश्च’ इत्यारभ्य, ‘ते ह देवा ऊचुः, हन्तासुरान् यज्ञ उद्गीथेनात्ययाम’ (बृ.उ.३-३-१) इति उद्गीथेन असुरविध्वंसनं प्रतिज्ञाय उद्गीथे वागादिमनःपर्यन्तदृष्टौ असुरैः अभिभवमुक्त्वा, ‘अथ हेममासन्यं प्राणमूचुः’ (बृ.उ.३-३-७) इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपरिभवमुक्त्वा, ‘भवत्यात्मना, परास्य द्विषन् भ्रातृव्यो भवति, य एवं वेद’ (बृ.उ.३-३-७) इति शत्रुपराजयफलाय उद्गीथे प्राणदृष्टिविहिता । एवं छन्दोगानामपि – ‘देवासुरा ह वै यत्र संयेतिरे’ इत्यारभ्य, ‘तद्ध देवा उद्गीथमाजहुः । अनेनैनानभिभविष्यामः’ इति, (छां.उ. १-२-१) इति उद्गीथेन असुरपराभवं प्रतिज्ञाय तद्वदेव उद्गीथे वागादिदृष्टौ दोषम् अभिधाय, ‘अथ ह य एवायं मुख्यः प्राणः, तमुद्गीथमुपासाञ्चक्रिरे’ (छां.उ. १-२-७) इत्यादिना उद्गीथे प्राणदृष्ट्या असुरपराभवमुक्त्वा, ‘यथाऽश्मानमाखणमृत्वा विध्वँसते, एवँ हैव स विध्वँसते, य एवंविदि पापं कामयते’ (छां.उ. १-२-८) इति शत्रुपराभवाय उद्गीथे प्राणदृष्टिः विहिता ।। तत्र ‘उभयत्रा ध्यस्तप्राणभावस्य उद्गीथस्यैव उपास्यत्वश्रवणेन रूपाभेदात्, शत्रुपराभवरूपफलसंयोगाविशेषात्, उद्गीथविद्या इति समाख्यैक्याच्च तयोः ऐक्यमिति पूर्व:पक्षः। तत्र राद्धान्तच्छायया परिचोद्य परिहरति – ‘अन्यथात्वं शब्दादिति चेन्नाविशेषात्’ (ब्र.सू.३-३-६) । वाजसनेयके, ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति तथेति तेभ्य एष प्राण उदगायत्’ (बृ.उ. ३-३-७) इत्युद्गानकर्तरि प्राणदृष्टिविधानात् । छान्दोग्ये – ‘अथ ह य एवायं मुख्यः प्राणः तमुद्गीथमुपासाञ्चक्रिरे’ (१-२-७) इति उद्गानकर्मणि प्राणदृष्टिविधानात् शब्दात् उपास्यरूपान्यथात्वप्रतीतेः भेद इति चेन्न । देवासुरसङ्ग्रामोपक्रमादिबहुसारूप्यात्, वाजसनेयकेऽपि ‘हन्तासुरान्यज्ञ उद्गीथेनात्ययामेति’ (बृ.उ. ३-३-१) इति उद्गीथेन उपक्रमात् तदविरोधाय, ‘तेभ्य एष प्राण उदगायत्’ (बृ.उ. ३-३-१) इति उद्गानकर्मरूप एवोद्गीथे पाकादिषु सौकर्यातिशयविवक्षया, ‘पच्यते ओदनः स्वयमेव’ इति ओदने कर्तृत्वोपचारवत् – उद्गानकर्मण्येव कर्तृत्वोपचारोपपत्तेः उद्गीथ एव उभयत्राप्युपास्यः । अतो विद्यैक्यम् – इति प्राप्ते प्रचक्ष्महे – ‘न वा प्रकरणभेदात् परोवरीयस्त्वादिवत्’ (ब्र.सू. ३-३-७) । न वेति पूर्वपक्षं व्यावर्तयति । प्रकरणभेदात् । छान्दोग्ये ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इति प्रकृतोद्रीथावयव-प्रणवविषयकम् उपासनम् । वाजसनेयके प्रणवस्य अप्रकृतत्वात्, उद्गीथेनात्ययाम इति कृत्स्नोद्गीथस्यैव प्रस्तुतत्वात् कृत्स्नोद्गीथविषयकमेव उपासनम् । अतो रूपभेदाद्विद्याभेदः । किञ्च छान्दोग्ये उद्गीथस्य अध्यस्तप्राणभावस्य’ उपास्यत्वम्, वाजिनां तु, ‘अथ हेममासन्यं प्राणमूचुस्त्वं न उद्गायेति, तथेति तेभ्य एष प्राण उदगायत्’ (बृ.उ.३-३-७) इति अध्यस्तप्राणभावस्य उद्गातुरुपास्यत्वम् । न च वाजसनेयके उद्गातुरुपास्यत्वे, उद्गीथेनात्ययाम इति उपक्रमविरोधः शङकनीयः। उद्गातुरुपासने ‘उद्गीथस्यानु प्रविष्टतया उपक्रमावगतस्य उद्गीथस्य अपरित्यागात् । अत्र च वक्तव्यं बृहदारण्यकप्रकाशिकायाम् उक्तं, तत्रैवानुसन्धेयम् । संज्ञातश्चेत्तदुक्तम् अस्ति तु तदपि’ (ब्र,सू. ३-३-८) । ननु उद्गीथविद्येति संज्ञैक्यात् विद्यैक्यमुक्तमिति चेन्न – तत् संज्ञैक्यं विधेयभेदेपि अस्त्येव । यथा अग्निहोत्रसंज्ञा नित्याग्निहोत्रे कुण्डपायिनाम् अयनाग्निहोत्रे च । छान्दोग्यगतप्रथमप्रपाठकोदितासु बह्रीषु विद्यासु उद्गीथविद्या इति संज्ञैक्यस्य दर्शनाच्च तदप्रयोजकमिति भावः । ‘व्याप्तेश्च समञ्जसम्’ (ब्र.सू. ३-३-९)। छान्दोग्ये प्रथमप्रपाठके उत्तरास्वपि विद्यासु ‘ओमित्येतदक्षरमुद्गीथमुपासीत’ इत्यादिषु ‘उद्गीथावयवस्य’ व्याप्तत्वेन तन्मध्यपातित्वात् अस्या अपि विद्याया उद्गीथावयवप्रणवविषयत्वमेव । ततश्च छान्दोग्यवाजसनेयकयोः बह्वर्थवादसारूप्येऽपि छान्दोग्यगतविद्याया अध्यस्तप्राणभावोद्गीथावयवप्रणवविषयत्वात् वाजसनेयकोद्गीथविद्यायाश्च अध्यस्तप्राणभावोद्गानकर्तृविषयत्वात् प्रधानभूतोपास्यभेदे बह्वर्थवादसारूप्यस्य अप्रयोजकत्वात् विद्याभेद इति स्थितम् । प्रकृतमनुसरामः ।।
।। इति द्वितीयखण्डभाष्यम् ।।
तृतीयः खण्डः
[आदित्यदृष्ट्या उद्गीथोपासनम्]
अथाधिदैवतम् – य एवासौ तपति तमुद्गीथमुपासीत । उद्यन्वा एष प्रजाभ्य उद्गायति; उद्यँस्तमोभयमपहन्ति ; अपहन्ता ह वै भयस्य तमसो भवति, य एवं वेद ।। १ ।।
प्र. – अताधिदैवतम् । उद्गीथस्य उपासनम् उच्यते इति शेषः । अधिदैवतम् – देवतायाम् इत्यर्थः । देवताविषयमिति यावत् । य……उपासीत । आदित्यदृष्ट्या उद्गीथमुपासीत इत्यर्थः । कर्माङ्गभूतोद्गीथापेक्षया कर्माराध्यस्य आदित्यस्य उत्कृष्टत्वात्, अपकृष्टे उत्कृष्टदृष्टेरेव न्याय्यत्वात् आदित्यदृष्ट्या उद्गीथस्य उपास्यत्वं द्रष्टव्यम् । अयमर्थः -‘आदित्यादिमतयश्चाङ्ग उपपत्तेः’ (ब्र.सू,४-१-६) इति अधिकरणसिद्धः । तच्चाधिकरणं बृहदारण्यकप्रकाशिकायाम् उपन्यस्त, तत्रैव अनुसन्धेयम् । उद्गीथेऽध्यस्यमानस्य आदित्यस्य उदगीथसाम्यमाह – उद्यन् – गायति । वैशब्दोऽवधारणे । एष:। आदित्यः उद्यन् – उद्गच्छन्नेव प्रजानाम् अर्थप्रकाशनं कुर्वन् उद्गायतीव भवति । उद्गीथोऽपि प्रजानाम् उद्गायतीव भवति इत्यर्थः । उद्यन्……हन्ति । उद्यन्नेव आदित्य: तमोजनितं प्राणिनां भयम् अपहन्ति इत्यर्थः । तमोभयापहन्तृत्वगुणविशिष्टतया उद्रीथे आदित्योपासनस्य फलमाह अपहन्ता……वेद । अन्धकारादिप्रयुक्त भयहन्ता भवति इत्यर्थः ।।
[प्राणादित्ययोः समानत्वम् ]
समान उ एवायञ्चासौ च, उष्णोऽयमुष्णोऽसौ स्वर इतीममाचक्षते, स्वर इति प्रत्यास्वर इत्यमुम् । तस्माद्वा एतमिमममुञ्चोद्गीथमुपासीत ।। २ ।।
प्र. समान……चासौ च । अध्यात्मप्रकरणे उक्तः अयं–प्राणश्च अधिदैवतप्रकरणे उच्यमानः असौ आदित्यश्च समान एव इत्यर्थः । तदेव दर्शयति उष्णोऽयमुष्णोऽसौ । अयं प्राण: उष्णः, उच्छ्वासस्य उष्णतया उपलभ्यमानत्वात् । उष्णोऽसौ – सवितुश्च उष्णत्वं स्पष्टमेवेति भावः । स्वरः……इत्यमुम् । इमं – प्राणं स्वर इत्याचक्षते । स्वरः गन्ता इत्यर्थः । ‘स्वृ – शब्दोपतापयोः’ (धा.पा. ९३२) इत्यस्मात्, धातूनाम् अनेकार्थत्वात्, कर्तरि अचि रूपम् । अमुं – आदित्यं स्वर इति प्रत्यास्वर इति च आचक्षते । उदयास्तमययोः गमनप्रत्यागमनसत्त्वात् । प्राणस्य वायुरूपतया सदागतित्वेन प्रत्यागमनाभावात् न प्रत्यास्वरसंज्ञेति भावः । अत: स्वरसंज्ञावत्वात् औष्ण्याञ्च प्राणादित्यौ परस्परसमानौ इत्यर्थः । तस्मात्…… उपासीत । तस्मात् उभयोरपि समत्वात् इमं – प्राणं वा अमुम् – आदित्यं वा एतम् – एतादृशगुणकम् उद्गीथमुपासीत । उद्गीथेऽध्यस्तम् उपासीत इत्यर्थः ।।
[व्यानात्मना उद्गीथं उपासीत]
अथ खलु व्यानमेवोद्गीथमुपासीत ; यद्वै प्राणिति स प्राणः, यदपानिति सोऽपानः। अथ यः प्राणापानयोः सन्धिः स व्यानः। यो व्यानः सा वाक् । तस्मादप्राणन् अनपानन् वाचमभिव्याहरति ।। ३ ।।
प्र. – प्रकारान्तरेण उद्गीथोपासनमाह – अथ……उपासीत । उद्गीथं व्यानत्वेन उपासीत इत्यर्थः । को व्यानः इत्यत्राह – यद्वै प्राणिति इत्यादिना । पुरुषो मुखनासिकेन यत् प्राणिति-यं वायुं बहिर्निस्सारयति। सः प्राणाख्यो वायोः वृत्तिविशेषः । मुखनासिकेन यं वायुम् अन्तराकर्षति, सोऽपानाख्यवृत्तिविशेषः । तयोः अन्तरालवृत्तिविशेषरूप: सन्धिः व्यानः इत्यर्थः । उद्गीथे व्यानाध्यासहेतुमाह – यो व्यानः सा वाक् । वाच: व्याननिर्वर्यत्वात् वाक् व्यान: एवेत्यर्थः । वाचो व्याननिर्वर्त्यत्वे युक्तिमाह – तस्मात्……व्याहरति । तस्मात् – वाचः व्याननिर्वर्यत्वादेव हेतोः अप्राणन् अनपानन् – श्वासमोक्षाकर्षणलक्षणप्राणापानौ विनैव तत्सन्धिरूपया व्यानवृत्त्या वाचम् अभिव्याहरति इत्यर्थः ।।
या वाक् सर्क् ; तस्मादप्राणन् अनपानन् ऋचमभिव्याहरति । यर्क् तत् साम ; तस्मादप्राणन् अनपानन् साम गायति ; यत् साम स उद्गीथः, तस्मादप्राणन् अनपानन् उद्गायति ।। ४ ।।
प्र. या वाक् इत्यादि । अप्राणता अनपानता पुंसा क्रियमाणत्वादेव व्यानस्य वागृक्सामोद्गीथानाञ्च ऐक्यमित्यर्थः ।।
अतो यान्यन्यानि वीर्यवन्ति कर्माणि, यथा – अग्नेर्मन्थनमाजे: सरणम्, दृढस्य धनुष आयमनम् – अप्राणन् अनपानँस्तानि करोत्येतस्य हेतोर्व्यानमेव उद्गीथमुपासीत ।। ५ ।।
प्र. अत……उपासीत । लोके अग्निमथनमर्यादाधावनदृढधनुरारोपणादि वीर्यवत्कर्माणि व्यानसाध्यान्येव । अतोहेतोः उद्गीथाख्यवीर्यवत्कर्मणोऽपि व्यानसाध्यत्वात् व्यानमेव उद्गीथम् उपासीत इत्यर्थः ।।
अथ खलूद्गीथाक्षराण्युपासीत, उद्गीथ इति । प्राण एव उत् ; प्राणेन ह्युत्तिष्ठति । वाग्गीः, वाचो ह गिर इत्याचक्षते । अन्नं थम् । अन्ने हीदँ सवँ स्थितम् ।। ६ ।।
प्र. अथ……उपासीत इति । उत् गी थ इति त्रीणि उद्गीथनामानुप्रविष्टाक्षराणि एव उपासीत इत्यर्थः । प्राण एव उत् । उत् इति अक्षरे प्राणबुद्धिः कार्या इत्यर्थः । तत्र हेतुमाह – प्राणेन ह्युत्तिष्ठतीति । स्पष्टम् । वाग्गी: । गी: इत्यक्षरे वाग्बुद्धिः कार्या । वाचो गीर्शब्दवाच्यत्वात् गीः इत्यस्य वागध्यासाधिष्ठानत्वम् उपपद्यते इति भावः । अन्नं थम् । थम् इत्यक्षरे अन्नबुद्धिः कर्तव्या इत्यर्थः । तत्र हेतुमाह – अन्ने……स्थितम् । अन्नस्य ‘सर्वस्थानत्वेन’ थकारवत्वसाम्यात् थशब्दे अन्नबुद्धिः युज्यते इति भावः ।।
[उद्गीथनामाक्षरोपासनम्]
द्यौरेव उत् , अन्तरिक्षं गीः, पृथिवी थम्, आदित्य एव उत् ; वायुर्गी:, अग्निः थम् ; सामवेद एव उत् , यजुर्वेदो गी:, ऋग्वेदः थम् ; दुग्धेऽस्मै वाग् दोहम् ; यो वाचो दोहः, अन्नवान् अन्नादो भवति, य एतान्येवं विद्वान् उद्गीथाक्षराणि उपास्ते उद्गीथ इति ।। ७ ।।
प्र. प्रकारान्तरेण ‘उद्गीथाक्षरोपासनमाह – द्यौरेव – थम् इत्यादि उदक्षरे द्युलोकादित्यसामवेददृष्टिः, गीरक्षरे अन्तरिक्षवायुयजुर्वेददृष्टिः, थमक्षरे पृथिवी अग्निऋग्वेददृष्टिश्च कार्या इत्यर्थः । उक्तस्य चतुर्विधस्य उद्गीथनामाक्षरोपासनस्य फलमाह दुग्धेऽस्मै वाग्दोहम् । वाक् अस्मै ‘उपासकाय दोहं दोग्धि इत्यर्थः । कं दोहम् इत्यत्राह – यो वाचो दोहः । वाक्साध्यं फलम् इत्यर्थः । फलान्तरमप्याह – अन्नवान्नादो भवति । प्रभूतान्नः दीप्ताग्निश्च भवति इत्यर्थः । य…… इति । स्पष्टोऽर्थः ।।
[आशीस्समृध्द्यर्थोपसरणानि]
अथ खल्वाशी: समृद्धिरुपसरणानीत्युपासीत – येन साम्ना स्तोष्यन् स्यात् , तत् सामोपधावेत् ।।८।।
प्र. अथ……उपासीत । आशीस्समृद्धिहेतुभूतानि उपासनानि इमानि इति मत्वा उपासीत -उपासनं कुर्यादित्यर्थः । केषाम् उपासनं कार्यम् इत्यत्राह . येन……धावेत् । उपधावेत् – चिन्तयेत् । उपासीत इत्यर्थः । शिष्टं स्पष्टम् ।।
यस्यामृचि, तामृचम् । यदार्षेयम्, तमृषिम् यां देवतामभिष्टोष्यन् स्यात् , तां देवतामुपधावेत् ।। ९ ।।
प्र. यस्मामृचि तामृचम् । यस्यां ऋचि साम्ना स्तोष्यन् स्यात् तामृचं चिन्तयेत् इत्यर्थः । यदार्षेयं तमृषिम् । ‘ऋषिसम्बन्धि आर्षेयम्’ । यस्यार्षेयम् यदार्षेयम् । शिवभागवतवत् समासः । साम यदृषिकम् तमृषिं चिन्तयेत् इत्यर्थः । यां……धावेत् । स्पष्टम् ।।
येनच्छन्दसा स्तोष्यन् स्यात् , तच्छन्द उपधावेत् । येन स्तोमेन स्तोष्यमाणः स्यात्, तँ स्तोममुपधावेत् ।। १० ।।
प्र. – येन….उपधावेत् । छन्दः – गायत्र्यादिकम् इत्यर्थः । येन धावेत् । स्तोमः – त्रिवृत्पञ्चदशादिलक्षण-ऋक्सङ्ख्याविशेषः ।।
यां दिशमभिष्टोष्यन् स्यात् , तां दिशमुपधावेत् ।। ११ ।।
प्र. – यां……धावेत् । यद्दिगभिमुखतया स्तोष्यन् स्यात् तां दिशं च ध्यायेत् इत्यर्थः ।।
आत्मानमन्तत उपसृत्य स्तुवीत कामं ध्यायन् अप्रमत्तः। अभ्याशो ह यदस्मै स कामः समृध्द्येत, यत्कामः स्तुवीतेति यत्कामः स्तुवीतेति ।। १२ ।।
।। इति तृतीयः खण्डः ।।
प्र. – आत्मानं……अप्रमत्तः । उक्तं सर्वं ध्यात्वा अन्ततः – अन्ते आत्मानमपि उपसृत्य – ब्रह्मात्मकं ध्यात्वा कामं – आत्मन इष्टं ध्यायन् अप्रमत्तः अवहितः स्वरवर्णाद्यभ्रेषानुकूलमनोऽवधानयुक्तस्सन् बहिष्पवमानादिस्तोत्रमारभेत इत्यर्थः । अभ्याशो ह स्तुवीतेति । यत्कामनया एवंवित् स्तोत्रं करोति स कामः यस्मात्कारणात् अभ्याश: क्षिप्रं समृध्द्येत – समृद्धिं प्राप्नोति इत्यर्थः । अभ्याङ्पूर्वात् अश्नोते: असुनि अभ्याश इति रूपम् । क्षिप्रफलसिद्धिः उपसरणफलम् इत्यर्थः । द्विरुक्तिः विद्यासमाप्त्यर्था ।।
चतुर्थः खण्डः
[प्रणवप्रशंसा]
ओमित्येतदक्षरमुद्गीथमुपासीत ; ओमिति ह्युद्गायति । तस्योप – व्याख्यानम् ।। १ ।।
प्र. – ओमित्येतत् इत्यादि । पूर्ववदर्थः । अत्र उक्तस्यैव उद्गीथोपासनस्य पुनः परामर्शो मध्ये ‘उद्गीथनामाक्षरोपासनया’ अन्तरितत्वात् इति द्रष्टव्यम् ।।
देवा वै मृत्योर्बिभ्यतस्त्रयीं विद्यां प्राविशन् ; ते छन्दोभिरच्छादयन् । यदेभिरच्छादयन्, तत् छन्दसां छन्दस्त्वम् ।। २ ।।
प्र. – देवाः……प्राविशन् । देवा: मरणभीताः सन्तः त्रयीं विद्या प्राविशन् वैदिकं कर्म प्रारब्धवन्तः इत्यर्थः । ते छन्दोभिरच्छादयन् । छन्दोभिः – कर्मविनियुक्तैः वैदिकैर्मन्त्रैः मृत्युभीताः सन्त आत्मानं छादितवन्तः इत्यर्थः । वैदिकमन्त्रकञ्चुकच्छन्ना इति यावत् । यत्……छन्दस्त्वम् । छादकत्वादेव (वैदिकमन्त्राणां) छन्दस्त्वम् इत्यर्थः ।।
तानु तत्र मृत्युः, यथा मत्स्यमुदके परिपश्येत्, एवं पर्यपश्यदृचि साम्नि यजुषि । ते नु ‘विदित्वो र्ध्वा‘; ऋचः साम्नो यजुषः स्वरमेव प्राविशन् ।। ३ ।।
प्र. तानु……यजुषि । उशब्दो निरर्थकः । तान् – देवान् कर्मपरान् , यथा मत्स्यग्राही उदके मत्स्यं परिपश्यति, एवं मृत्युः त्रयीविहितं, कर्मानुप्रविष्टान् ‘कर्मभ्रेष-समयं प्रतीक्ष्य ग्रहीतुम् ऐच्छत् इत्यर्थः । ते नु……प्राविशन् । ते – देवा: मृत्योः चिकीर्षितं ज्ञात्वा ऋक्सामयजूरूपत्रयीविहितयज्ञादिकर्मभ्यः ऊर्ध्वा: – अधिका:* कर्मनिर्मलीकृतान्त:- करणास्सन्तः स्वरशब्दितम् ओङ्कारं प्राविशन् – उपासितुं प्रवृत्ताः ‘इत्यर्थः ।।
यदा वा ऋचमाप्नोति ओमित्येवातिस्वरति एवँ साम एवं यजुः एष ठ स्वरः यदेतदक्षरमेतदमृतमभयं तत्प्रविश्य देवा अमृता अभया अभवन् ।। ४ ।।
प्र. – कथं पुनः स्वरशब्दवाच्यत्वम् ओङ्कारस्य इत्यत्राह – यदा……यजुः । यदा वा ऋगादिकं आप्नोति’ – आरभते । तदा ‘ओम्’ इति अतिस्वरति‘ – शब्दं करोति इत्यर्थः । एष उ स्वरः । तस्मात् एषः – ओङ्कारस्वरः इत्यर्थः । यत् ……अभयम् । ओङ्कार एव मरणभयादिनिवर्तकः इत्यर्थः ।तत्…..अभवन् ।मरणभयादिनिवर्तकम् ओङ्कारं प्रविश्य देवाः अमृताः अभयाश्च अभवन् इत्यर्थः।।
[अमृताभयगुणोंकारोपासनस्य फलम्]
स य एतदेवं विद्वानक्षरं प्रणौति, एतदेवाक्षरँ स्वरममृतमभयं प्रविशति तत्प्रविश्य यदमृता देवा: तदमृतो भवति ।।५।।
।। इति चतुर्थः खण्डः ।।
प्र. – स य……प्रणौति इत्यादि । य एतदेवाक्षरं स्वरममृतमभयं ‘प्रणौति . उपास्ते इति यावत् । तादृशामृतत्वादिगुणक प्रणवं प्रविश्य देवाः यादृशामृतत्वादियुक्ताः, तादृशः भवति इत्यर्थः ।।
।। इति चतुर्थखण्डभाष्यम् ।।
पञ्चमः खण्डः
[प्रणबोद्गीथयोः एकत्वविज्ञानोपदेशः]
अथ खलु य उद्गीथः सः प्रणवः यः प्रणवः स उद्गीथ इति । असौ वा । आदित्य उद्गीथ एष प्रणवः; ओमिति ह्येष स्वरन्नेति ।। १ ।।
प्र. प्रणवोद्गीथयोः एकत्वविज्ञानम् अनेकपुत्रफलकम् उपदिश्यते। अथ..उद्गीथ इति । उद्गात्रा प्रयुज्यमानो य: उद्गीथः – उद्गीथावयवः ओङ्कारः, स एव होत्रा प्रयुज्यमानः प्रणवः । यच होत्रा प्रयुज्यमानः प्रणवः, स एव उद्गात्रा प्रयुज्यमानः उद्गीथावयवः ओङ्कारः इति इतरेतरैक्याध्यासः कर्तव्यः इत्यर्थः । एवं तयोरैक्यं कृत्वा तत्र आदित्यदृष्टिम् उपदिशति । असौ……प्रणवः इति । कथम् आदित्यस्य प्रणवत्वम् इत्यत्राह – ओमिति……एति इति । एषः – आदित्यः ओमिति स्वरन् – कर्तव्यकर्मणां ओमित्यनुज्ञां कुर्वन्निव उदेति इत्यर्थः । ‘स्व शब्दोपतापयोः’ (धा.पा.९३२) इति हि धातुः । अतः सविता प्रणवः, अत एव उद्गीथश्च इति भावः ।।
एतमु एवाहमभ्यगासिषम् ; तस्मान्मम त्वमेकोऽसि इति ह कौषीतकि: पुत्रमुवाच – रश्मीँ स्त्वं पर्यावर्तयात् , बहवो वै ते भविष्यन्ति ; इत्यधिदैवतम् ।।२।।
प्र. –एतमु……उवाच । एतम् आदित्यमेव उद्गीथम् अहं गीतवान् अस्मि । न तु बहुरश्मिगुणविशिष्टतया उपासितवान् अस्मि । तेन दोषेण मम त्वमेक एव पुत्रोऽभूः इति कौषीतकिः स्वपुत्रम् उवाच इत्यर्थः । रश्मीन्……भविष्यन्ति इति । तस्मात् त्वं बहुरश्मिविशिष्टादित्य विज्ञानावृत्ति कुरु । तव रश्मिबहुत्वविज्ञानमहिम्ना बहवः पुत्रा भविष्यन्ति इत्यपि उवाच इति पूर्वेण सम्बन्धः । पर्यावर्तयात् इति पुरुषव्यत्ययः छान्दस: । लेटि, ‘लेटोऽडाटौ’ (पा.सू. ३-४-९४) इत्याडागमः । इत्यधिदैवतम् । उपदिष्टम् इति शेषः ।।
[मुख्यप्राणदृष्ट्या उद्गीथोपासनम्]
अथाध्यात्मम् – य एवायं मुख्यः प्राणः, तमुद्गीथमुपासीत ; ओमिति ह्येष स्वरन्नेति ।। ३ ।।
प्र. –अथाध्यात्मम् । उपदिश्यते इति शेषः । य……..उपासीत । स्पष्टोऽर्थः । ओमिति……एति । एषः प्राणः वागादि प्राणवृत्यर्थं ओमित्यनुज्ञां कुर्वन्निव सञ्चरति । तस्मात् प्राणः एव प्रणवः, उद्गीथश्च इत्यर्थः ।।
एतमु एवाहमभ्यगासिषम् ; तस्मान्मम त्वमेकोऽसि इति ह कौषीतकिः पुत्रमुवाच – प्राणाँस्त्वं भूमानमभिगायतात् , बहवो मे भविष्यन्तीति ।। ४ ।।
प्र. एतमु……उवाच इत्यादि । पूर्ववदर्थः । प्राणान् – भविष्यन्तीति । मे बहवः पुत्राः भविष्यन्तीति अभिसन्धाय मुख्यं प्राणम् उपासीनः त्वं भूमानं . बहुत्वमाश्रितान् वागादीन् प्राणांश्च मुख्यप्राणेन सहाभिसन्धाय अभिगायतात् – उद्गानं कुरु इत्यर्थः ।।
[प्रणवोद्गीथयोरेकत्वोपासनस्य फलम्]
अथ खलु – य उद्गीथः स प्रणवः, यः प्रणवः स उद्गीथ इति होतृषदनाद्धैवापि दुरुद्गीथमनुसमाहरतीति अनुसमाहरतीति ।। ५ ।।
।। इति पञ्चमः खण्डः ।।
प्र. – उक्तप्रणवोद्गीथैकत्वविज्ञानफलमाह – अथ……समाहरति इति । अपि दुरुद्गीथम् – वेदनहीनमपि उद्गीथमित्यर्थः । होतृषदनात्‘ – होतृकर्तृकोद्गीथप्रणवैक्यज्ञानात् इत्यर्थः । होतृषदनात् – इत्यत्र, ‘पूर्वपदात् ‘(पा.सू.८-३-१०६) इति षत्वम् । अयं भावः – उद्गीथप्रणवैकत्वविज्ञानं होत्रापि कर्तव्यम् ; उद्गात्रापि कर्तव्यम् । प्रणवे होतुः, उद्गीथे उद्गातुश्च कर्तृत्वात् । तत्र उद्गातुः एतादृशैकत्वविज्ञानाभावेन दोषयुक्तमपि उद्गात्रा प्रयुज्यमानम् उद्गीथं होता स्वीयोद्गीथप्रणवैकत्वविज्ञानमाहात्म्यात् अनुसमाहरति । समादधाति – अदुष्टं करोति इति । अनुसमाहरतीति द्विरुक्तिः विद्यासमाप्त्यर्था ।। एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् उपन्यस्यते । गुणोपसंहारपादे – ‘अङ्गेषु यथाश्रयभावः’ (ब्र.सू.३-३-५९), अङ्गेषु, आश्रितानाम् उपासनानां क्रतोः बहि:प्रयोगासम्भवेन आश्रयतन्त्रत्वस्य वक्तव्यतया प्रयोगवचनेन आश्रयाणाम् उद्गीथादीनां समुच्चयनियमेन आश्रितानामपि समुच्चयनियमो युक्तः। इतरथा ‘तदाश्रितत्वानुपपत्तेरित्यर्थः’ । ‘शिष्टेश्च’ (ब्र.सू. ३-३-६०), ‘गोदोहनेन पशुकामस्य प्रणयेत्’ इतिवत् अधिकारान्तराश्रवणेन ‘उद्गीथम् उपासीत इति उद्गीथाङ्गतया’ उपासनविधानाञ्च नियमेन उपासना उपादेया । न च वीर्यवत्तरत्वरूपफलार्थत्वस्य, ‘तन्निर्धारणानियमः’ (ब्र.सू. ३-३-४१) इत्यत्र उक्तत्वात् कथं तस्य उद्गीथाङ्गत्वम् इति वाच्यम् । ‘उद्गीथमुपासीत’ इति वाक्येन उपासनस्य उद्गीथरूपाश्रयसंबन्धे वीर्यवत्तरत्वरूपफलसम्बन्धे च बोध्यमाने वाक्यभेदप्रसङ्गात् । न च वाक्यभेदभीत्या तस्य फलविधित्वासम्भवेऽपि तस्य फलाकाङ्क्षायां रात्रिसत्रन्यायेन वीर्यवत्तरत्वस्यैव आर्थवादिकस्य फलत्वकल्पनं सम्भवतीति वाच्यम् । पर्णतादावपि तथा ‘प्रसङ्गात्’ । ‘समाहारात्'(ब्र.सू. ३-३-६१), ‘होतृषदनाद्धैवापि दुरुद्गीथम् अनुसमाहरति’ इति उपासनस्य समाहारनियमो दृश्यते । उद्गातृकृतवेदनहानिप्रयुक्तोद्गीथ वैगुण्यस्य होतृकर्तृकप्रणवोद्गीथैकत्वविज्ञानेन समाधानोक्त्या उपासनस्य आवश्यकत्वप्रतीतेः इत्यर्थः । ‘गुणसाधारण्यश्रुतेश्च’ (ब्र.सू.३-३-६२) । उपासनगुणस्य उपास्यस्य प्रणवस्य, ‘तेनेयं त्रयी विद्या वर्तते ओमित्याश्रावयति ओमिति शंसति ओमित्युद्गायति’ इति साधारण्यश्रुतेश्च उपासनावश्यकता गम्यते । प्रकृतपरामर्शिना तेनेति शब्देन उपास्यस्य प्रणवस्यैव प्रतीते: । अत: उपासननियमो अस्तीति प्राप्ते उच्यते – ‘न वा तत्सहभावाश्रुतेः’ (ब्र.सू.३-३-६३), न वा क्रतुषु उपादाननियमः उद्गीथोपासनादेः । कुतः ? तत्सहभावाश्रुतेः-उद्गीथाङ्गभावाश्रुतेः इत्यर्थः ।
वीर्यवत्तरत्वरूपफलार्थतया गोदोहनतुल्यत्वेन क्रत्वर्थत्वाभावात् इति भावः । न च पर्णतादेरपि पुरुषार्थत्वप्रसङ्गः । पर्णतायाः जुहू सम्बन्धेऽपि अव्यापाररूपतया फलनिष्पादकत्वाभावेन फलाकाङ्क्षायाः एवाभावात् फलकल्पनायाः अप्रसक्तेः। अतः फलाकाङ्क्षासिद्ध्यर्थं क्रतूपरागेण व्यापाररूपतां सम्पादयितुं जुहूलिङ्गेन क्रतुम् उपस्थाप्य तत्सम्बन्धबोधकशब्दो वा कल्प्यः, जुहूशब्दस्य जुहूसम्बन्धिक्रतुलक्षकत्वं कल्प्यम् । ततश्च क्रतुफलेनैव नैराकाङ्क्ष्यात् रात्रिसत्रन्यायेन आर्थवादिकफलकल्पना न समुन्मिषति । इह उपासनायाः स्वयं व्यापाररूपायाः क्रतूपरागमन्तरेणैव फलाकाङ्क्षा सम्भवति । सत्याञ्च फलाकाङ्क्षायां वाक्यशेषस्यैव फलसमर्पकतया परिणामसम्भवे फलवत्कर्मान्तरबोधकवाक्यकल्पनाद्यनपेक्षणात् । तस्मात् वाक्यशेषश्रुताय तस्मै तस्मै फलाय उद्गीथाद्याश्रयविशिष्टोपासनविधिः इत्येवम् युक्तम् । न च उपासनानाम् आश्रयतन्त्रत्वात् सति आश्रये तत्तन्त्राणाम् उपासनानामपि आवश्यकत्वम् इति वाच्यम् । इदमेव उपासनानाम् अश्रयतन्त्रत्वम् यत् आश्रये सत्येव वृत्तिः, नान्यदाऽस्ति । न तु यावदाश्रयसत्वं वृत्तिरिति । ततश्च कामोपबद्धत्वात् उपासनानाम्, कामनानाञ्चा नित्यत्वात् तदवबद्धानामपि उपासनानाम् अनित्यत्वमेव । ‘दर्शनाच्च‘, (ब्र.सू. ३-३-६४) ‘एवं विद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चर्त्विजोऽभिरक्षति’ (छां.उ. ४-१७-१०) इति ब्रह्मणो वेदनेनैव सर्वेषां रक्षणं ब्रुवती श्रुतिः उद्गातृप्रभृतीनां वेदनस्य अनियमं दर्शयति इति स्थितम् ।।
केचित्तु – उद्गीथविद्यायाः क्रत्वर्थत्वाभावे, ‘अन्यथात्वं शब्दादिति चेत्’ (ब्र.सू.३-३-६) इत्यधिकरणे, ‘उद्गीथविद्यायाः क्रत्वर्थत्वेन क़तुसाद्गुण्यफलकत्वेऽपि आर्थवादिकमपि फलं तदविरुद्धं ग्राह्यम् इति देवताधिकरणे प्रतिपादितम्’ इति भाष्यं विरुध्येत । तथा पुरुषार्थाधिकरणे, ‘यदेव विद्यया करोति’ (छां.उ.१-१-१०) इति विद्यायाः तृतीयाश्रुत्या कर्माङ्गत्वप्रतिपादनात् न विद्यातः पुरुषार्थः इति, ‘तच्छ्रुतेः’ (ब्र.सू.३-४-४) इति सूत्रेण पूर्वपक्षे कृते, तत्र विद्याशब्दस्य प्रकृतोद्गीथविद्याविषयत्वेन उद्गीथविद्यामात्रस्य कर्माङ्गत्वेऽपि न ब्रह्मविद्यायाः कर्माङ्गत्वम् अस्तीति एतदर्थप्रतिपादकयोः, ‘असार्वत्रिकी’ (ब्र.सू.३-४-१०) इति सूत्रतद्भाष्ययोः विरोधश्च स्यात् । अतश्च अस्त्येव क्रत्वर्थत्वम् । न च ‘तन्निर्धारणानियमः’ (ब्र.सू. ३-३-४१), ‘अङ्गेषु यथाश्रयभावः’ (ब्र.सू. ३-३-५९) इत्यधिकरणद्वयविरोधः ; तयोः नियतक्रत्वर्थत्वप्रतिक्षेपमात्रपरत्वात् । न च क्रत्वर्थत्वेऽपि आर्थवादिकफलस्वीकारे पर्णताया अपि अपापश्लोकश्रवणफलकत्वप्रसङ्ग इति शंक्यम् । प्रस्तरप्रहरणस्य क्रत्वर्थस्यापि सूक्तवाकमन्त्रप्रतिपाद्यफलार्थत्ववत् , उपकोसलविद्याङ्गभूतायाः अग्निविद्यायाः, ‘नास्यावरपुरुषाः क्षीयन्ते’ (छां.उ.४-११-२) इति प्रतिपन्नब्रह्मविद्याऽविरोधि तदुपयोगिफलार्थत्ववञ्च क्रत्वर्थायाः अपि पर्णताया अर्थवादप्रतिपन्नक्रत्वविरुद्धफलार्थत्वे न दोषः इति भाष्यकाराशयः इति वदन्ति । अन्ये तु ; ‘अन्यथात्वं शब्दात्'(ब्र.सू.३-३-६) इत्यत्र भाष्यस्य अन्वारुह्योक्तित्वात् क्रत्वर्थत्वं न भाष्यकृदभिमतम् इति वदन्ति । प्रकृतमनुसरामः ।।
।। इति पञ्चमखण्डभाष्यम् ।।
षष्ठः खण्डः
इयमेवर्क् । अग्निस्साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढ़ँ साम गीयते । इयमेव सा; अग्निरमः, तत् साम ।। १ ।।
प्र. प्रकारान्तरेण उद्गीथोपासनं प्रस्तूयते – इयमेव……साम । ऋचि इयम् इत्युक्तपृथिवीदृष्टिः, साम्नि अग्निदृष्टिश्च कर्तव्या इत्यर्थः । तदेतत्…….साम । तदेतत् अग्न्याख्यं साम एतस्यां – पृथिवीरूपायाम् ऋचि अध्यूढम् – उपरिस्थितम् इत्यर्थः । अत एवाद्यापि ऋगारूढमेव साम गीयते इत्याह – तस्मात्……गीयते इति । एवं ऋक्सामयोः पृथिव्यग्निदृष्टिं विधाय ‘सामनामावयवभूतयोः साशब्द-अमशब्दयोः पृथिव्यग्निदृष्टिः कर्तव्या इत्याह – इयमेव……अम इति । उक्तोऽर्थः । तत्साम । तत् – तत एव परस्परसंसृष्टपृथिव्यग्निरूपसाशब्दामशब्दमेलनेन सामव्यवहारो लोके प्रवर्तते इत्यर्थः ।।
अन्तरिक्षमेवर्क्, वायुस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते । अन्तरिक्षमेव सा, वायुरमः, तत् साम ।। २ ।।
द्यौरेवर्क्, आदित्यस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते, द्यौरेव सा, आदित्योऽमः, तत् साम ।। ३ ।।
नक्षत्राण्येवर्क् चन्द्रमास्साम, तदेतदेतस्यामृच्यध्यूढँ साम; तस्मादृच्यध्यूढँ साम गीयते, नक्षत्राण्येव सा, चन्द्रमा अमः, तत् साम ।। ४ ।।
प्र. –अन्तरिक्षमेवर्ग्वायुस्साम इत्यादेः पूर्ववदर्थः ।।
अथ यदेतदादित्यस्य शुक्लं भाः सैवर्क्, अथ यन्नीलं पर:कृष्णम् तत् साम; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; अथ यदेवैतदादित्यस्य शुक्लं भाः सैव सा ; अथ यन्नीलं पर:कृष्णम् तदमः, तत् साम ।। ५ ।।
प्र. अथ……ऋक् । शुक्लं भाः शुक्ला दीप्तिः इत्यर्थः । शुक्लम् इति लिङ्गव्यत्ययश्छान्दसः । अथ साम । परः कृष्णम् – अतिशयेन कार्ष्ण्यरूपम् । पर:कृष्णमिति प्रसिद्धं यन्नीलं, तत् साम इत्यर्थः । आदित्ये कार्ष्ण्यस्य समाहितदृष्टिभिः ईक्ष्यमाणत्वात् तदस्तीति द्रष्टव्यम् । ‘अत्र’ परशब्दः सान्तः द्रष्टव्यः । तत् साम । शिष्टं स्पष्टम् ।।
[आदित्यान्तर्गतपुरुषदृष्ट्या उपासनम्]
अथ य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः ।। ६ ।।
प्र. एवमृचि पृथिव्यन्तरिक्षधुनक्षत्रादित्यगतशुक्लभारूपत्वदृष्टिम्, साम्नि अग्निवाय्वादित्यचन्द्रादित्यगतनीलभारूपत्वदृष्टिञ्च विधायाह अथ दृश्यते । अन्तरादित्ये – आदित्यमण्डलस्यान्तः हिरण्मयः – रमणीयः यः योगिभिः दृश्यते इत्यर्थः । ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’ (क.उ.१-३-१२) इति श्रुत्यैकार्थ्यात् । ‘हिरण्मय’ इति रूपसामान्यात्, ‘चन्द्रमुखवत्’ इति वाक्यकारः । ततश्च हिरण्मयशब्दस्य न मुख्याथों ग्राह्य इति वाक्यकाराभिप्रायः । ततश्च हिरण्मयत्वम् उज्ज्वलत्वम् इत्यर्थः । ततश्च नीलतोयदाभस्यापि हिरण्मयत्वे नानुपपत्तिः । यद्वा ‘कञ्चिन्न तत् हेमसमानवर्णं तस्याननम्’ (रा. सुं.३६-२८) इति श्रीरामायणप्रयोगात्, ‘पश्यते रुक्मवर्णम्’ (मुं.उ.३-१-३) इति श्रुतेश्च नीलतोयदाभस्यापि रुक्मवर्णत्वं सम्भवति । तत्र हेतुश्च सम्प्रदायगम्यः । एतत्सर्व ‘वेदार्थसङ्ग्रहश्रुतप्रकाशिकायां’ स्पष्टं, तत एव अवगन्तव्यम् ।। अत्र केचित् – ‘कप्यासं पुण्डरीकम्’ इति वाक्ये कप्यासशब्देन आदित्यमण्डलम् उच्यते । पुण्डरीकम् इत्यनेन हृदयपुण्डरीकम् उच्यते । अतश्च यथा सूर्यमण्डल हदयपुण्डरीकञ्च उपासनस्थानम् ; एवम् उपासकस्य अक्षिणी अपि परमात्मनः उपासनस्थानम् इति परोक्त-व्याख्यानदूषणावसरे व्यासार्यः, आदित्यमण्डलरूपस्थानावरुद्धे अक्ष्णो: स्थानतया विधानं न सम्भवति’ इत्युक्तेः आदित्यमण्डलस्थानम् उत्पत्तिशिष्टम् इति प्रतीयते । ततश्च ‘य एषोऽन्तरादित्य’ इति वाक्यम् उपासनोत्पत्तिपरम् । ततश्च पुरुषो दृश्यते इत्यत्र द्रष्टव्यः इत्यर्थ इति व्यासार्याभिप्रायः । न च आदित्यमण्डलस्य उत्पत्तिशिष्टत्वे उत्पत्तिशिष्टस्थानावरुद्धे भाष्यकृदभिमतपुण्डरीकदलामलायताक्षत्वादेः कथं विधानमिति वाच्यम् । पुण्डरीकाक्षत्वादे : उत्पत्तिशिष्टादित्यमण्डलस्थानाविरुद्धत्वात् उत्पत्तिशिष्टाविरुद्धगुणानां विधानसम्भवात् । नन्वेवं, ‘सर्वत्र प्रसिद्धोपदेशात्’ (ब्र.सू.१-२-१) इत्यत्र, ‘सर्वं खल्विदं ब्रह्म तज्जलानिति शान्त उपासीत’ (छां.उ.३-१४-१) इत्युत्पत्तिशिष्टसार्वात्म्यावरुद्धे, मनोमयत्वादीनां विधानं न सम्भवति’ इत्याक्षिप्य ‘सर्वं खलु’ इति वाक्यस्य उपासीत इत्यनेन एकवाक्यत्वाभावेन सार्वात्म्यस्य नोत्पत्तिशिष्टत्वम्’ इति व्यासायैः समर्थनम् अयुक्तं स्यात् । ‘मनोमयत्वादीनाम् उत्पत्तिशिष्टसार्वात्म्यविरोधात्’ इत्येव परिहारसम्भवेन वाक्यभेदमाश्रित्य सार्वात्म्यस्य उत्पत्तिशिष्टत्वाभावसमर्थनं मुधा इति चेत् – उपायान्तरस्योपायान्तरादूषकत्वात् – इति वदन्ति । अन्ये तु – ‘आदित्यमण्डलस्थानावरुद्धे’ इति नोत्पत्तिशिष्टस्थानावरुद्धत्वम् अभिप्रेतम् । अपितु युगपत् अनुपसंहरणीयादित्यमण्डलरूपाक्षिरूपस्थानद्वयविधाने अष्टदोषदुष्टविकल्पप्रसङ्गात् इत्येव तात्पर्यम् इत्याहुः । ‘यदा पश्यः पश्यते रुक्मवर्णम् ‘ (मुं.उ. ३-१-३) इति प्रकरणे ‘मनसा तु विशुद्धेन’ इति रुक्मवर्णविग्रहविशिष्टस्य विशुद्धमनोग्राह्यतोक्तेः, आरोपिताकारस्य विशुद्धमनोग्राह्यत्वाभावात् अनारोपितत्वं सिद्धम् । ‘ईक्षति कर्मव्यपदेशात्सः’ (ब्र.सू.१-३-१३) इत्यत्र ईक्षणस्य परमात्मविषयत्वं वक्तव्यम् इति परैरपि अङ्गीकृतत्वाञ्च । ‘आदित्यवर्णं तमसः परस्तात्'(श्वे.उ.३-८) इति तम:पारवर्तिनः आदित्यवर्णविग्रहविशिष्टत्वाभिधानेन कल्पितत्वाप्रसक्तेः । न हि कल्पितस्य तमःपारवर्तित्वं सम्भवति । हिरण्यश्मश्रुः इत्यादि – रमणीयश्मश्रुकेशः रमणीयसर्वावयवः इत्यर्थः ।।
तस्य यथा कप्यासं पुण्डरीकामेवमक्षिणी ; तस्योदिति नाम ; स एष सर्वेभ्यः पाप्मभ्य उदितः; उदेति ह वै सर्वेभ्यः पाप्मभ्यः, य एवं वेद ।। ७ ।।
प्र. – तस्य……अक्षिणी । कं पिबतीति कपिः आदित्यः । तेन अस्यते क्षिप्यते विकास्यते इति कप्यासम् । तथा आह ‘वाक्यकार:-आदित्यक्षिप्तं वा श्रीमत्त्वात्’ इति । यद्वा कँ पिबतीति कपिः – नालम्; तस्मिन् आस्ते इति कप्यासम् । अपचितादपि पङ्कजात् नालस्थस्य पुण्डरीकस्य शोभातिशयशालित्वात् तादृशम् इह विवक्षितम् । यद्वा कं– जलम् । ‘आस – उपवेशने’ (धा.पा. १०२१) इति धातुः अपिपूर्वकः। ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः’ इति वचनात् अकारलोपः । के जलेऽपि आस्ते इति कप्यासं – सलिलस्थम् इत्यर्थः । एवम् अस्यार्थत्रयस्य उपपन्नतया वाक्यकारेण सिद्धान्तितत्वम् अभिप्रेत्य भगवता भाष्यकारेण वेदार्थसङ्ग्रहे – ‘गम्भीराम्भस्समुद्भूतसुमृष्ट- नालरविकरविकसितपुण्डरीकदलामलायतेक्षणः’ इति अभिहितम् । मर्कटजघनसदृश- पुण्डरीकसादृश्यादि अर्थान्तरं तु अश्लीलत्वादिदोषदुष्टतया वाक्यकृदनादृतत्वात् भाष्यकारेणापि अनादृतम् ।। यद्यपि अमरकोशे ‘पुण्डरीकं सिताम्भोजम्'(अ.को. १-१०-४१) इत्यनुशिष्टम् , तथापि शबरस्वामिना नवमाध्याये, ‘मौद्गं चरुं निर्वपेच्छ्रियै श्रीकामः’ इति विहितायामिष्टौ, ‘पौण्डरीकाणि बर्हीषि भवन्ति’ इति स्तरणार्थत्वेन विहितेषु पुण्डरीकेषु अतिदेशप्राप्तस्य, ‘दर्भस्तृणीतहरितै:’ इति मन्त्रस्य दर्भपदस्थाने पुण्डरीकपदं हरितपदस्थाने रक्तपदम् ऊहितव्यम् छान्दोग्योपोषण इत्युक्तत्वात् रक्ताम्भोजमेव पुण्डरीकम् इति द्रष्टव्यम् ।
तस्योदिति नाम । स्पष्टोऽर्थः । तस्य उन्नामकत्ये हेतुमाह – स एष सर्वेभ्य: पाप्मभ्य: उदितः । सर्वपापोद्गतत्वात् ‘उन्नामक’ इत्यर्थः । नीडात् शकुन्तस्य उद्गमनवत् पापपञ्जरात् उद्गमनरूपमुख्यार्थस्य कुत्राप्यभावात् उद्गमनेन तत्सम्बन्धराहित्यं लक्ष्यते । ‘नैनं सेतुमहोरात्रे तरतः, न जरा न मृत्युः न शोको न सुकृतं न दुष्कृतम्'(छा,उ.८-४-१) इति परमात्मन: ‘सुकृत सम्बन्धाभावो हि प्रतिपाद्यते । तरते: प्राप्तिवाचित्वात् । पापशब्दच पुण्यपापरूपोभयविधकर्मपरः । परमात्मप्रकरणेषु, ‘नैनं सेतुमहोरात्रे तरतो न जरा न मृत्युः न शोकः न सुकृतं न दुष्कृतं सर्वे पाप्मानोऽतो निवर्तन्ते'(छा.उ.८-४-१) इति सुकृतेऽपि पापशब्दप्रयोगात् ।। ‘पाप्मानः कालजरामृत्युशोकादयः संख्यातत्वात्’ इति वाक्यकारवचनात् , अलौकिकत्वे सति अनिष्टफलसाधनत्वरूपप्रवृत्तिनिमित्तियोगात् पुण्यस्यापि पापशब्दाभिधेयत्वोपपत्तेः । मुमुक्ष्वपेक्षया स्वर्गादीनामपि अनिष्टत्वात् । ‘एते वै निरयास्तात ! स्थानस्य परमात्मनः।’ (महा.भा.शा.१९६-६) ‘क्व नाकपृष्ठगमनं पुनरावृत्तिलक्षणम् । क्व जपो वासुदेवेति मुक्तिबीजमनुत्तमम्’।। (वि.पु.२-६-४४) इति स्मरणात् । सर्वपापोदितत्वं नाम कर्मवश्यतागन्धराहित्यम् इति फलितोऽर्थः । कृतानामपि कर्मणां फलजननशक्तिप्रतिभटत्वलक्षणः कश्चिदेश्वरस्वभावविशेषः अपहतपाप्मत्वाख्यः सर्वपापोदितशब्दार्थः इति द्रष्टव्यम् । एवं नाम शिष्टज्ञानस्य फलमाह उदेति……वेद इति । स्पष्टोऽर्थः ।।
तस्य ऋक् च साम च गेष्णौ तस्मादुद्गीथः तस्मात्त्वेवोद्गाता एतस्य हि गाता । स एष ये चामुष्मात् पराञ्चो लोकाः तेषां च ईष्टे देवकामानां च इत्यधिदैवतम् ।। ८ ।।
प्र. – तस्यर्क् च साम च गेष्णौ । पृथिव्यग्न्यादिदृष्टिविशिष्टतया प्राक् प्रस्तुते ऋक्सामे एतस्य गेष्णौ – गानरूपे । यद्यपि ऋचो गानाश्रयत्वेऽपि न गानरूपत्वम् – तथापि अभेदोपचारेण गेष्णत्वोक्ति: द्रष्टव्या । अव्युत्पन्नो गेष्णशब्दः । व्यत्ययेन पुंस्त्वम् । अनीन्द्रादिप्रतिपादकऋक्सामगेयत्वोक्त्या सर्वात्मकत्वम् उक्तं भवति । तस्मादुद्गीथः….गाता । यस्मादुन्नामकत्वं परमात्मनः, अत एव तद्गानरूपत्वात् द्वितीयभक्तेः उद्गीथसंज्ञत्वम्, तद्गातुरुद्गातृसंज्ञावत्वं च इत्यर्थः । यद्वा परमात्मनः उन्नामकत्वात् ऋक्सामगेष्णत्वाञ्च उद्गष्णस्य परमात्मनः उद्गीथत्वम् उपपद्यते । ततः उद्गीथे परमात्मदृष्टिः युक्ता इत्यर्थः । स……कामानाञ्च । स एषः हिरण्मयः पुरुषः आदित्यमण्डलोर्ध्ववर्ति लोकानां देवभोग्यभोगोपकरणभोगस्थानानाञ्च नियन्ता इत्यर्थः । इत्यधिदैवतम् । उपासनम् उपदिष्टम् इति शेषः ।।
।। इति षष्ठखण्डभाष्यम् ।।
सप्तमः खण्डः
[अध्यात्मस्वरूपम्]
अथाध्यात्मम् – वागेवर्क्, प्राणस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; वागेव सा, प्राणोऽमः, तत् साम ।। १ ।।
चक्षुरेवर्क्, आत्मा साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; चक्षुरेव सा, आत्माऽमः, तत् साम।।२।।
श्रोत्रमेवर्क्, मनस्साम ; तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; श्रोत्रमेव सा ; मनोऽमः तत् साम ।। ३ ।।
अथ यदेतदक्ष्णः शुक्लं भाः सैवर्क्, अथ यन्नीलं परः कृष्णम् तत् साम, तदेतदेतस्यामृच्यध्यूढँ साम ; तस्मादृच्यध्यूढँ साम गीयते ; अथ यदेवैतदक्ष्णः शुक्लं भाः सैव सा, अथ यन्नीलं परः कृष्णम् तदमः ; तत् साम ।। ४ ।।
प्र. अथाध्यात्मम् । उपदिश्यते इति शेषः । वागेवर्क्……तत् साम । सर्वं पूर्ववत् ।। (१-४ )
[उद्गीथे अक्षिपुरुषदृष्ट्युपयुक्तनयनपूर्वकतदृष्टिविधानम्]
अथ य एषोऽन्तरक्षिणि पुरुषो दृश्यते, सैवर्क् ; तत् साम, तदुक्थम् । तद्यजुः तद्ब्रह्म । तस्यैतस्य तदेव रूपम् , यदमुष्य रूपम् यावमुष्य गेष्णौ तौ गेष्णौ, यन्नाम तन्नाम ।। ५ ।।
प्र. – एवमृचि वाक्चक्षुःश्रोत्राक्षिगतशुक्लभारूपत्वदृष्टिम्, साग्निप्राणच्छायात्ममनः अक्षिगतपरः कृष्णरूपत्वदृष्टिञ्च विधायाह – अथ…..ब्रह्म । चक्षुषि यः पुरुषो योगिभिः दृश्यते ; स एव ऋग्यजुस्सामात्मा, उक्थादिशस्त्रात्मा ब्रह्म च इत्यर्थः । अत्रोक्थस्य त्रय्यपेक्षया पृथक्परिगणनं गोबलीवर्दन्यायेन द्रष्टव्यम् । तस्य….नामः । तस्यैतस्य अक्ष्यन्तर्वर्तिनः परमपुरुषस्य, आदित्यान्तर्वतिनो यत् हिरण्मयत्वादिरूपम् उदिति नाम, ऋक्सामरूपगेष्णौ च, तानि सर्वाणि भवन्ति इत्यर्थः ।।
स एष ये चैतस्मादर्वाञ्चो लोकाः तेषां च ईष्टे मनुष्यकामानां चेति तद्य इमे वीणायां गायन्ति एतं ते गायन्ति तस्मात्ते धनसनयः ।। ६ ।।
प्र. – स…..कामानां चेति । एतस्मात् – अक्षिस्थानात् अधोवर्तिनां लोकानां मनुष्यभोग्यादीनां च एषः नियन्ता इत्यर्थः ।तत्……गायन्ति । यस्मात् अयम् ईश्वरः, तस्माद्धेतोः वीणागायकाः सर्वेऽपि इममेव गायन्ति इत्यर्थः । तस्य सर्वात्मकत्वेन देवमनुष्यादिकर्मकगानस्यापि परमात्मविषयत्वात् इति भावः । तस्मात्ते धनसनयः । सनिः – लाभः धनानां सनिः येषां ते धनसनयः ईश्वरगायकत्वादेव वीणागायकानां धनलाभवत्त्वम् । न हि अनीश्वरगातृत्वे धनप्रसक्तिः अस्तीति भावः ।।
[आदित्याक्षिपुरुषोपासनस्य फलम् ]
अथ य एतदेवं विद्वान् सामगायत्युभौ स गायति । सोऽमुनैव स एष ये चामुष्मात्पराञ्चो लोकास्ताँश्चाप्नोति देवकामाँश्च ।। ७ ।।
प्र. –अथ……गायति । अध्यात्माधिदैवतभिन्न विद्यायुक्तस्सन् उद्गिथं यो गायति, स चाक्षुषम् आदित्यस्थं च गायति इत्यर्थः । उनीथस्य चाक्षुषेण परमात्मना, आदित्यान्तर्वतिना च परमात्मना, ऐक्याध्यासविशिष्टतया तादृशोद्रीयगायकस्यैव परमात्मगायकत्वात् इति भावः । तस्यैवं विदः फलम् उच्यते । सोऽमुनैव कामांश्च । सः – विद्वान् अमुनैव आदित्यान्तर्वर्तिना उपासितेन स एषः – तदुपासनाविशिष्टः एतस्मात् ऊर्ध्वलोकान् देवकामांश्च आप्नोति इत्यर्थः ।।
अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्ताँश्चाप्नोति मनुष्यकामाँश्च तस्मादु हैवंविदुद्गाता ब्रूयात् ।। ८ ।।
प्र. – अथानेनैव……कामांश्च । अनेन – अक्ष्यन्तर्वतिना उपासितेन मनुष्यलोकात् अधस्तनलोकान् मनुष्यकामांश्च आप्नोति इत्यर्थः । चक्षुरादित्यस्थानवर्तिपरमात्मोपासनया सर्वलोकावाप्तिः भवतीत्यर्थः, तस्मादु ब्रूयात् । एवंवित् – एतादृशविद्यायुक्त: उद्गाता यजमानं प्रति ब्रूयात् ।।
कं ते काममागायानीति । एष ह्येव कामागानस्येष्टे, य एतदेवं विद्वान् साम गायति, साम गायति ।। ९ ।।
।। इति सप्तमः खण्डः ।।
प्र. किमिति इत्यत्राह – कं ते काममागायानि इति । हे यजमान ! ते कं – देवकामं मनुष्यकामं वा आगायानि – गानेन सम्पादयानि इति प्रब्रूयात् इत्यर्थः । ननु एतादृशोक्तौ उद्गातुः कथं सामर्थ्यम् इत्यत्राह – एष….गायति । एवं विदुषः सामगस्य कामसम्पादकगानसामर्थ्यम् अस्तीत्यर्थः । द्विरुक्ति: विद्यासमाप्त्यर्था ।। एतत्खण्डान्तर्गतवाक्यविषयकम् अधिकरणम् ‘उपन्यस्यते समन्वयाध्याये प्रथमपादे – अन्तरादित्ये अन्तरक्षिणि च वर्तमानत्वेन श्रुतः पुरुषो जीव एव । ‘हिरण्यश्मश्रुः हिरण्यकेशः आप्रणखात् सर्व एव सुवर्णः’ इति शरीरसम्बन्धश्रवणात्। शरीरत्वस्यैव कर्मजन्यतावच्छेदकत्वेन कर्माजन्यशरीरासम्भवात् प्रक्रमश्रुतेन शरीरित्वलिङ्गेन जीवत्वे निश्चिते औपसंहारिकं सर्वपापोदितत्वम् आपेक्षिकं नेतव्यम् इति पूर्वपक्षे प्राप्ते – उच्यते – ‘अन्तस्तद्धर्मोपदेशात्’ (ब्र.सू. १-१-२१) । आदित्याक्ष्यन्तर्वर्ति पुरुषः परमात्मैव, परमात्मधर्मोपदेशात् । कर्मवश्यतागन्धराहित्यलक्षणं नित्याविर्भूतं सर्वपापोदितत्वं न परमात्मनो अन्यत्र सम्भवति । तञ्च चरमश्रुतमपि ‘उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेद’ इति फलरूपतात्पर्यलिङ्गात् प्रबलम् । तथा ऋक्सामगेयत्वाक्षिप्तं, ‘सैवर्क् तत्साम’ इति वाक्यश्रुतञ्च सार्वात्म्यं परमात्मधर्मः । तथा अक्ष्यादित्यवर्त्येकपुरुषगतोर्ध्वाधोवर्तिलोक- कामेश्वरत्वरूपं निरंकुशं सर्वकामेश्वरत्वमपि, “सोऽमुनैव स एष ये चामुष्मात् पराञ्चो लोकाः तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मात् अर्वाञ्चो लोकाः ताँश्चाप्नोति मनुष्यकामांश्च” इति वाक्यशेषप्रतिपन्नफलरूपतात्पर्यलिङ्गानुगृहीतत्वात् प्रबलम् । अतः प्रबलै: परमात्मलिङ्गैः परमात्मत्वे निर्णीते, ‘अजायमानो बहुधा विजायते’ (तै.आर. ३-१३-३), ‘अजोऽपि सन्नव्ययात्मा भूतानाम् ईश्वरोपि सन् । प्रकृति स्वामधिष्ठाय सम्भवाम्यात्ममायया ।। परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ।।” (भ.गी.४-६,८) ‘इच्छागृहीताभिमतोरुदेहः’ (वि.पु. ६-५-८४) इति श्रुतिस्मृत्यनुसारेण अजहत्स्वस्वभावस्यैव परमात्मनो मायाशब्दितसंकल्पमात्रेण उपासकपरित्राणाय अप्राकृतदिव्यविग्रहपरिग्रहोपपत्तेः । एतेन नित्यसर्वज्ञस्य सर्वशक्तेः ज्ञानार्थं प्रवृत्त्यर्थं वा करणानपेक्षणात् आत्मानन्दतृप्तस्य विग्रहे स्पृहासम्भवाञ्च विग्रहो न सम्भवतीति शङ्का प्रत्युक्ता । करणानपेक्षज्ञानक्रियस्यापि परमात्मनः उपासकानुग्रहार्थं भोगार्थञ्च विग्रहस्वीकारोपपत्तेः । प्रभूतानन्दानामपि आनन्दान्तरापेक्षादर्शनेन निरतिशयानन्दस्वरूपस्यापि ब्रह्मणः प्रीतिविशेषापेक्षायाः सम्भवात् । न च विग्रहस्य भोग्यत्वे स्वरूपभोग्यत्ववैकल्यं शंक्यम् – स्वसम्बन्धिभोग्यत्वस्य स्वभोग्यत्वातिशयावहत्वेन ‘तद्वैकल्यावहत्वा भावात् । तत्र च, ‘समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः । तद्विश्वरूपवैरूप्यं रूपमन्यद्धरेर्महत् ।। (वि.पु.६-७-७०) समस्तशक्तिरूपाणि तत्करोति जनेश्वर ! । देवतिर्यङ्मनुष्याख्या चेष्टावन्ति स्वलीलया।।” (वि.पु.६-७-७१) ‘नित्याऽलिङ्गास्वभावसंसिद्धिरिन्द्रियाकाराङ्गप्रत्यङ्गव्यञ्जनवती’ ‘उज्जहारात्मनः केशौ’ सितकृष्णौ’ (वि.पु.५-१-६०) ‘अंशाशेनावतीर्योर्व्याम्'(वि.पु.५-१-३) इत्यादिप्रमाणात् नित्यस्य विग्रहस्य अशिथिलसंस्थानस्यैव अप्राकृतानन्तावतारहेतुत्वम् उपपद्यते । चतुर्मुखदेहस्य संस्थानाशैथिल्येऽपि अनेकदेहोत्पादकत्वदर्शनात् । ततश्च उपासकानुग्रहार्थं स्वेच्छासृष्टाप्राकृतशरीरसम्बन्धस्य प्रमाणसिद्धस्य परमात्मनि सत्वात् ‘हिरण्मय- विग्रहसम्बन्धानुपपत्तिः’ परमात्मनः । अतः अक्ष्यादित्यान्तर्वर्ती परमात्मा ।। ननु आदित्यपुरुषात् अन्यः परमात्मैव नास्ति इत्यत्राह ‘भेदव्यपदेशाञ्चान्यः’ (ब्र.सू.१-१-२२) ‘य आदित्ये तिष्ठन् आदित्यादन्तरो यमादित्यो न वेद’ (बृ.उ.५-७-९) इति आदित्यपुरुषावेद्यस्य तन्नियन्तुः परमात्मनो अन्यस्य प्रमाणसिद्धत्वात् तद्व्यतिरिक्तो नास्तीति न शंक्यम् । न च नित्यमुक्तव्यतिरिक्तः परमात्मा नास्ति इत्यपि शक्यं वक्तुम् । य आत्मनि तिष्ठन्निति पर्याये परिशुद्धमुक्तात्मभ्योऽपि भेदप्रतिपादनात् । अतः अन्तरादित्ये अन्तरक्षिणि च विद्यमान: परमात्मेति स्थितम् । प्रकृतमनुसरामः ।।
।। इति सप्तमखण्डभाष्यम् ।।
अष्टमः खण्डः
[उद्गीथाक्षरस्य परोवरीयस्त्वोपासनम्]
त्रयो होद्गीथे कुशला बभूवुः शिलकः शालावत्यः, चैकितायनो दालभ्यः, प्रवाहणो जैबलिरिति, ते होचुः – उद्गीथे वै कुशलाः स्मः, हन्तोद्गीथे कथां वदाम इति ।। १ ।।
प्र. – प्रकारान्तरेण उपासनं विधातुम् आख्यायिकामाह – त्रयो…… जैबलिरिति शालावत्सुतः शिलकनामा, दल्भगोत्रः चिकितायनसुतः, जीबलसुत: प्रवाहणनामा त्रयो एते’ उद्गीथविज्ञाने निपुणा बभूवुः इत्यर्थः । शालावत्यः शालावच्छब्दात् अपत्यार्थे अणि तदन्तात् स्वार्थे ‘अभिजिद्विदभृच्छालावत्’ (पा.सू.५-३-११८) इत्यादिना यञ् प्रत्यय: । दाल्भ्य: दलभ्यशब्दात् गोत्रापत्ये गर्गादित्वात् यञ् । चिकितायनशब्दात् अपत्यार्थे ऋषित्वात् अणि चैकितायन: । जीबलशब्दात् ‘अत इञि’ जैबलिः । ते…वदामः इति वयम् उद्गीथविज्ञाने कुशलाः भवामः । अतो विद्यावेशद्याय वादकथां परस्परं प्रवर्तयामः इत्यूचुः इत्यर्थः ।।
तथेति ह समुपविविशुः । स ह प्रवाहणो जैबलिरुवाच भगवन्तावग्रे वदताम् । ब्राह्मणयोर्वदतोर्वाचँ श्रोष्यामीति ।। २ ।।
प्र. –तथेति ह समुपविविशुः । ‘तथा कुर्मः इत्यन्योन्यम् उक्त्वा’ एकत्र उपविष्टवन्तः इत्यर्थः ।। स…. उवाच । प्रवाहणः क्षत्रियः तो ब्राह्मणौ प्रागल्भ्यात् उवाच इत्यर्थः । उक्तिमेवाह – भगवन्तो….श्रोष्यामि इति । भगवन्तौ – पूजावन्तो ब्राह्मणौ अग्रेवदतां – वादकथा: कुरुताम् । तत्प्रकारं श्रोष्यामीति ।
स ह शिलकश्शालावत्यश्चैकितायनं दालभ्यमुवाच – हन्त त्वा पृच्छानीति । पृच्छेति होवाच ।। ३ ।।
प्र. स….. पृच्छानीति । स्पष्टोऽर्थः । तत्र दालभ्यस्य प्रत्युक्तिमाह – पृच्छेति होवाच इति । स्पष्टम् ।।
का साम्नो गतिरिति । स्वर इति होवाच । स्वरस्य का गतिरिति प्राण इति होवाच । प्राणस्य का गतिरिति । अन्नमिति होवाच । अन्नस्य का गतिरिति । आप इति होवाच ।। ४ ।।
प्र. – शिलकः पृच्छति । का साम्नो गतिरिति । गति: – अयनं प्राप्यम् इत्यर्थः ।
सः दाल्भ्यः स्वर इति ह उवाच – प्रत्युवाच । स्वरात्मकत्वात् साम्नः इति भावः । शिलकः पृच्छति । स्वरस्य का गतिरिति । दालभ्यः उत्तरमाह । प्राण इति होवाच । प्राणनिर्वय॑त्वात् स्वरस्य इति भावः । एवम् उत्तरत्रापि औचित्यम् अनुसन्धेयम् ।।
अपां का गतिरिति । असौ लोक इति होवाच । अमुष्य लोकस्य का गतिरिति । न स्वर्गं लोकमतिनयेदिति होवाच – स्वर्गं वयं लोकँ सामाभिसँस्थापयामः ; स्वर्गसँस्तावँ हि सामेति ।। ५ ।।
प्र.-अपां का गतिः इति पृष्टो दाल्भ्यः, असौ लोकः इति होवाच । द्युलोकादेव वृष्टिप्रभवात् इति भावः । अमुष्य लोकस्य का गतिरिति पृष्टो दालभ्यः आह । न…….होवाच । स्वर्गलोकमतीत्य परमाश्रयान्तरं साम न नयेत् । स्वर्गलोकव्यतिरिक्तम् आश्रयान्तरं साम न प्रापयेत् इत्यर्थः । न वदेत् इति यावत् । स्वर्गं……सामेति । अतो वयमपि साम अभि – साम प्रति आश्रयत्वेन स्वर्गं लोकं सम्यक् स्थापयामः । हि- यस्मात् साम स्वर्गसंस्तावम् – स्वर्गो वै लोक: सामवेदः इति श्रुत्या स्वर्गत्वेन साम्नः स्तूयमानत्वात् इत्यर्थः ।।
तँ ह शिलकश्शालावत्यश्चैकितायनं दालभ्यमुवाच – अप्रतिष्ठितं वै किल ते दालभ्य ! साम ; यस्त्वेतर्हि ब्रूयात्, मूर्धा ते विपतिष्यतीति, मूर्धा ते विपतेदिति ।। ६ ॥
प्र.-तँ ह विपतेदिति । हे दाल्भ्य ! अप्रतिष्ठितं स्वर्गलोकं सामगतिपरम्परा-विश्रान्तिभूमिं वदतः तव मते साम अप्रतिष्ठितमेव स्यात् । एतस्मिन् समये यः कश्चित् आगत्य वादकथायाम् अयुक्तमर्थ प्रतिजानानस्य ते मूर्धा विपतिष्यति इति यदि ब्रूयात् – तदा विपतेदेव ते मूर्धा । न संशयः । मया तु सौहार्दात् तथा नोक्तम् । अतो जीवसि इति शिलक उक्तवान् इत्यर्थः ।।
हन्ताहमेतद् भगवत्तो वेदानीति । विद्धीति होवाच । अमुष्य लोकस्य का गतिरिति । अयं लोक इति होवाच । अस्य लोकस्य का गतिरिति । न प्रतिष्ठां लोकमतिनयेदिति होवाच ; प्रतिष्ठां वयं लोकं सामाभिसँस्थापयामः । प्रतिष्ठासँस्तावँ हि सामेति ।। ७ ॥
प्र.-हन्त विद्धीति होवाच । तर्हि अहं सामगतिपरम्पराविश्रान्तिभूमिं त्वत्तः जानीयाम् इति दाल्भ्येन प्रार्थितः शिलक: तथा इत्युक्तवान् इत्यर्थः । अनुमतो दाल्भ्यः पृच्छति । अमुष्य……इति । शिलकः उत्तरमाह – अयं–होवाच । यागदानहोमादिभिः भूलोकस्य स्वर्गोपजीव्यत्वात् इति भावः । अस्य लोकस्य इत्यादि । पृथिवीलोकस्य का गतिः इति दालभ्येन पृष्टः शिलकः प्रतिष्ठां – पृथिवीलोकमतिक्रम्य सामगतिपरम्पराविश्रान्ति- भूमिम् अन्यं न कश्चिदपि वदेत् । अतः वयमपि तथैव वदामः । ‘इयं वै रथन्तरं’ (तां.बा.१८-६-११) इति श्रुत्या साम्नः प्रतिष्ठालोकत्वेन स्तूयमानत्वात् । स्वर्गस्य ज्योतिश्चक्रलग्नतया बम्भ्रम्यमाणत्वेन प्रतिष्ठात्वाभावेपि पृथिव्यास्तु, स्थिरत्वात् प्रतिष्ठात्वम् इत्युक्तवान् इत्यर्थः ।।
तँ ह प्रवाहणो जैबलिरुवाच अन्तवद्वे किल ते शालावत्य ! साम : यस्त्वेतर्हि ब्रूयात्, मूर्धा ते विपतिष्यतीति, मूर्धा ते विपतेदिति ।। हन्ताहमेतद्भगवतो वेदानीति । विद्धीति होवाच ।।
।। इति अष्टमः खण्डः ।।
प्र. – तं ह – प्रवाहणो जैबलिरुवाच – उक्तवान् किमिति । अन्तवद्वे किल ते शालावत्य साम । अन्तवर्ती पृथिवीं सामगतिपरम्पराविश्रान्तिभूमितया प्रतिजानानस्य ते मते साम अन्तवदेव स्यात् इत्यर्थः । यस्त्वेतर्हि……होवाच इति । पूर्ववदर्थः । हन्ताहमेतत् इत्यादि शिलक आह – विद्धीति राजा उवाच इत्यर्थः ।।
।। इति अष्टमखण्डभाष्यम् ।।
नवमः खण्डः
अस्य लोकस्य का गतिरिति, “आकाश” इति होवाच, “सर्वाणि” ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ; आकाशं प्रत्यस्तं यन्ति आकाशो ह्येवैभ्यो ज्यायान् आकाश: परायणम् ।। १ ।।
प्र. – एवम् अनुमत: शिलक: राजानं पृच्छति । अस्य लोकस्य का गतिरिति । अस्य – पृथिवीलोकस्य । का गतिरिति इत्यर्थः । शालावत्येन पृष्टः प्रवाहण: आकाश इति होवाच । आकाश’ इत्युक्तवान् इत्यर्थः । । अत्र’ आकाशते प्रकाशते, आकाशयतीति वा व्युत्पत्या आकाशशब्दो ब्रह्मपरः । ‘आकाशो ह वै नामरूपयो: निर्वहिता’ (छां.उ.८-१४-१) इत्यादी आकाशशब्दस्य ब्रह्मण्यपि प्रसिद्धत्वात् ; न तु भूताकाशपरः इति द्रष्टव्यम् । तदेव गतित्वं प्रपञ्चयति । सर्वाणि ह………यन्ति । चिदचिदात्मकप्रपञ्चः आकाशादेव उत्पद्यते तत्रैव लीयते इत्यर्थः । आकाशो ज्यायान् । ज्यायस्त्वं नाम –सर्वै: कल्याणगुणैः सर्वेभ्यो निरतिशयनिरुपाधिकोत्कर्षः आकाश: परायणम् । परायणत्वं – परमगतित्वम् । परमप्राप्यत्वम् इति यावत् ।।
[उद्गीथः परोवरीयः]
स एष परोवरीयानुद्गीथ:, स एषोऽनन्तः । परोवरीयो हास्य भवति ; परोवरीयसो ह लोकाञ्जयति : य एतदेवं विद्वान् परोवरीयाँसमुद्गीथमुपास्ते ॥ २ ॥
प्र. स एष परोवरीयानुद्गीथ: । परः उत्कृष्टः, वरीयन् उत्कृष्टतरः । वरीयसामपि परः इत्यर्थः । अत्र परःशब्दः सकारान्तो द्रष्टव्यः । एवं रूपः आकाश उद्गीथः । परमात्मदृष्टिविशिष्टः उद्गीथ इत्यर्थः । उद्गीथे एतादृशाकाशदृष्टिः कर्तव्या इति यावत् । स एषोऽनन्तः । उद्गीथ अध्यस्यमानः अयमाकाशः अनन्तः अपरिच्छित्रः इत्यर्थः । ततश्च अनन्तस्य आकाशशब्दितस्य परमात्मन एव सामगतिपरम्पराविश्रान्ति- भूमित्वात् मत्यक्षे ‘अन्तवद्वै किल ते साम’ इत्युक्तः अन्तवत्त्वदोषो न प्रसरति इति भावः । परोवरीयो….जयति इत्यादि । यः – परोवरीयांसम् एतम् आकाशशब्दितं परमात्मानं विद्वान् आकाशत्वेन उद्गीथम् उपास्ते, तस्य परोवरीयस्त्वगुणकं जीवनं भवति । परोवरीयस्त्वगुणकसकललोकावाप्तिश्च भवति ।।
[विद्याफलश्रुतिविषये शौनकवाक्योद्धरणम्]
तँ हैतमतिधन्वा शौनक उदरशाण्डिल्यायोक्त्वोवाच, यावन्त एनं प्रजायामुद्गीथं वेदिष्यन्ते, परोवरीयो हैभ्यस्तावदस्मिन् लोके जीवनं भविष्यति ।। ३ ।।
प्र. – प्रवाहणः स्वोक्तार्थं संवादयति – तं……उवाच । अतिधन्वनामा शुनकसुतः उदरशाण्डिल्याय ऋषये, उदरशब्देन सन्ततिर्लक्ष्यते । सन्ततिशाली शाण्डिल्य: इत्यर्थः । तस्मै एनम् उद्गीथम् उक्त्वा अन्यदप्युवाचेत्यर्थः । किं तत् इत्यत्राह – यावन्त….भविष्यतीति । बेदिष्यन्त इत्येतद् व्यत्ययेन आत्मनेपदम् प्रजायां – त्वत्सन्ततौ यावन्तःपुरुषाः एनं उद्गीथं उपासिष्यन्ते, तेषाम् उत्कृष्टमिह लोके जीवनं भविष्यति इत्यर्थः ।।
तथाऽमुष्मिन् लोके लोक इति । स य एतमेवं विद्वान् उपास्ते, परोवरीय एव हास्यास्मिन् लोके जीवनं भवति, तथाऽमुष्मिन् लोके लोक इति, लोके लोक इति ।। ४ ।।
।। इति नवमः खण्डः ।।
प्र. तथाऽमुष्मिन् लोके लोक इति । तथा अमुष्मिन्नपि परलोके भविष्यति इत्यर्थः । परोवरीयो जीवनमित्यनुषङ्गः । लोके लोके इति वीप्सायां द्विर्वचनम् । इति अतिधन्वा उवाच इति पूर्वेणान्वयः । अतः इदानीन्तनानामपि तद्विदां तत् फलमस्ति इत्याह – स य लोके इति । स्पष्टोऽर्थः । लोके लोके इति । लोके लोके इतीति द्विरुक्तिः विद्यासमाप्त्यर्था । एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते – समन्वयाध्याये प्रथमपादे उद्गीथे अध्यस्योपास्यमानाकाशो भूताकाशः एव । आकाशशब्दस्य भूताकाशे रूढत्वेन रूढाकाशशब्दाभ्यासात् इति पूर्वपक्षे प्राप्ते उच्यते – ‘आकाशस्तल्लिङ्गात् ‘ (ब्र.सू.१-१-२३) आकाशशब्दाभिधेयः परमात्मा । निखिलजगदेककारणत्व-सर्वज्यायस्त्व-परायणत्वादीनां परमात्मलिङ्गानां भूताकाशे असम्भवात् । भूताकाशस्य अचेतनवर्ग प्रति कारणत्वसम्भवेऽपि चिदचिद्वर्गकारणत्वासम्भवात् सर्वै: कल्याणगुणै: सर्वोत्कृष्टत्वलक्षण- ज्यायस्त्वस्यापि असम्भवात् अचेतनस्य स्वरूपभिन्नत्वेन मोक्षविरोधितया ‘हेय’ शब्दादिनिषिद्धविषयप्रावण्यजनकतया च सकलपुरुषार्थविरोधिनः अचेतनस्य परायणत्वलक्षणप्राप्यत्वस्य चासम्भवात् तस्य ‘का साम्रो गतिः,’ ‘अस्य लोकस्य का गतिः,’ इत्युपक्रमलक्षणतात्पर्यलिङ्गेन प्रतिपिपादयिषितत्वावगमात् । प्रतिपिपादयिषितपरायणत्वानन्तत्वपरोवरीयस्त्वादिलिङ्गविरोधे अभ्यस्ताया अपि श्रुतेर्दुर्बलत्वाञ्च आकाशशब्दच आकाशते आकाशयतीति वा योगवशेन परमात्मपर एव । ननु ‘सर्वाणि ह वा इमानि भूतानि’ (छां.उ.१-९-१) इति श्रुत्यैव आकाशस्य जगत्कारणत्वावेदनात् यथाश्रुताकाशस्यैव जगत्कारणत्वम् अभ्युपेतव्यमिति चेन्न ‘सदेव सोम्येदमग्र आसीत्,’ (छां.उ. ६-२-१), ‘आत्मा वा इदमेक एवाग्र आसीत्’ (ऐ.उ.१-१) ‘एको ह वै नारायण आसीत्’ (महो.१-१) इत्यादियोग्यार्थाननुवादरूपबहुवाक्यविरोधे एकस्यानुवादरूपस्य अयोग्यार्थस्यास्य वाक्यस्य दुर्बलत्वेन स्वार्थप्रतिपादनसामर्थ्याभावात् । अत: आकाशशब्द: यौगिक्या वृत्या ब्रह्मपर एव । यत्तु अत्र व्यासार्यै:, “अर्थाविरोध एव रूढिप्राबल्यमित्यपशूद्राधिकरणनयोपजीवनेन अवयवशक्त्या निर्वाहो भाष्ये उक्तः”। रूढ्यपरित्यागेन ‘अपर्यवसानवृत्त्या आकाशशब्दस्य आकाशशरीरकपरमात्मपरतया निर्वाहोऽपि अभिमतः इत्युक्तम् – तत् उपायान्तरसम्भव-प्रदर्शनमात्रपरम्; न तु प्रकृताभिप्रायम् । अनन्यथासिद्धभूताकाशलिङ्गसत्त्व एव, ‘जीवमुख्यप्राणलिङ्गात्’ (ब्र.सू.१-४-१७) इति सूत्रोक्तन्यायावतारात्, “परविद्यासु जीवोक्ति: निरुक्त्यादेः पराश्रया । तल्लिङ्गानन्यथासिद्धौ तद्विशिष्टावलम्बिनी ।।” (न्या.सि.ईश्वरपरिच्छेदे) इत्याचार्योक्तेः । भूताकाशशरीरकब्रह्मप्रतिपादकत्वा सम्भवाच्चेति द्रष्टव्यमिति स्थितम् । प्रकृतमनुसरामः ।।
।। इति नवमखण्डभाष्यम् ।।
दशमः खण्डः
[प्रस्तावोद्गीथप्रतिहारभक्तित्रयोपासनम्]
मटचीहतेषु ‘कुरुष्वाटक्या‘ सह जायया उपस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक‘ उवास ।। १ ।।
प्र. –प्रस्तावोद्गीथप्रतिहारभक्तित्रयविषयकोपासनानि विधातुम् आख्यायिकामाह मटची…..उवास । चक्रस्य सुतः उषस्तिनामा कश्चन ऋषिः मटचीहतेषु – अश्मवृष्टि- कृतदुर्भिक्षदूषितेषु कुरुदेशेषु आटक्या अनुपजातपयोधरादिव्यञ्जनया भार्यया सह इभ्यानां – गजारोहाणां ग्रामे प्रद्राणकः – अनशनेन कुत्सितां गतिमापन्नः ब्रह्मविद्यायाः निष्पत्तये प्राणानामनवसादं काङ्क्षन् उवास । ‘द्रा कुत्सायां गतौ’ (धा.पा. १०५४) इति हि धातुः । चक्रस्य गोत्रापत्यम् इत्यर्थे अश्वादित्वात् फञि चाक्रायण इति रूपम् ।
[उषस्ते: भिक्षायाचनम्]
स हेभ्यं कुल्माषान् खादन्तं बिभिक्षे । तँ होवाच – नेतोऽन्ये विद्यन्ते, यच्चये मे इमे उपनिहिता इति ।। २ ।।
प्र.-स…. बिभिक्षे । सः अन्नार्थी अटन् कुल्माषान् – कुत्सितान् माषान् खादन्तं इभ्यम् याचितवान्’ । ‘कुल्माषादञ्’ (पा.सू. ५-२-८३) इति निर्देशात् कुत्सितमाषार्थे कुल्माषशब्दस्य साधुत्वम् । तं……निहिताः इति । इतः मया भक्ष्यमाणात् उच्छिष्टराशेः कुल्माषा अन्ये न विद्यन्ते । यत् – यस्माद्धेतोः इमे – कुल्माषा: मे चये । मे – मया भक्ष्यमाणे चये – उच्छिष्टराशौ उपनिहिता: – प्रक्षिप्ताः । अतः किं करोमि इति उषस्तिम् इभ्य उवाच इत्यर्थः ।।
एतेषां मे देहीति होवाच, तानस्मै प्रददौ, हन्तानुपानमित्युच्छिष्टं वै मे पीतँ स्यादिति होवाच ।। ३ ।।
प्र. –एतेषां……होवाच । उच्छिष्टानामपि मध्ये मे – मह्यमपि किञ्चित् देहीति इभ्यम् ऋषिः प्रार्थितवान् इत्यर्थः । तानस्मै प्रददौ । तान् – कुल्माषान् उषस्तये इभ्य: दत्तवान् इत्यर्थः । हन्त….. उवाच । अथ समीपस्थम् उदकं गृहीत्या गृहाणानुपानमिति इभ्येनोक्तः स ऋषिः ‘तदुदकपाने उच्छिष्टोदकपानं मे स्यादिति प्रत्युवाच इत्यर्थः ।।
न स्विदेतेऽप्युच्छिष्टा इति । न वा अजीविष्यमिमानखादन् इति होवाच, कामो मे उदपानमिति ।। ४ ।।
प्र.-न……होवाच इत्यादि । किमेते इदानीं त्वया मत्तो गृहीताः कुल्माषा अनुच्छिष्टाः इति इभ्येन पर्यनुयुक्त ऋषिः कुल्माषाखादने स्वस्य जीवनहानिर्भवति । तावन्मात्रखादनेन धृतप्राणस्य स्वस्य उच्छिष्टोदकपानं कामः कामकारितं निषिद्धं स्यात् इत्युवाच इत्यर्थः ।।
स ह खादित्वाऽतिशेषान् जायाया आजहार । साऽग्र एव सुभिक्षा बभूव तान् प्रतिगृह्य निदधौ ।।५।।
प्र. स…..आजहार । सः – उषस्तिः तान् स्वयं किञ्चिद्धक्षयित्वा अतिशिष्टान् अवशिष्टान् जायायै दत्तवान् इत्यर्थः । सा…… निदधौ । सा जाया अग्रे – प्रागेव सुभिक्षा – लब्धान्ना बभूव । तथापि स्त्रीस्वभावात् अनवज्ञाय तान् कुल्माषान् पत्युः हस्तात् प्रतिगृह्य निक्षिप्तवती ।।
स ह प्रातः संजिहान उवाच, यद्वतान्नस्य लभेमहि, लभेमहि धनमात्राँ; राजाऽसौ यक्ष्यते, स मा सर्वेरार्त्विज्यैषणीतेति ।। ६ ।।
प्र.– स ह……धनमात्राँ । स ह उषस्तिः प्रातः संजिहानः शयनं परित्यजन्नेव पत्न्यां शृण्वन्त्याम् इदम् उवाच । किं तत् ? यदन्नस्य स्तोकमपि लभेमहि तेन प्राणान् धृत्वा धनमात्रां अल्पधनं लभेमहि इत्यर्थः । कथं धनमात्रा लभ्यत इत्यत्राह । राजाऽसौ वृणीतेति । राजाऽसौ नातिदूरे यजते, स मां दृष्ट्वा सर्वाणि आर्त्विज्यानि त्वया कारयितव्यानि इति मा ‘प्रार्थयेत’ – इति उवाच इत्यर्थः ।।
तं जायोवाच, हन्त पते इम एव कुल्माषा इति । तान् खादित्वाऽमुं यज्ञं विततमेयाय ।। ७ ।।
प्र. – तं…… कुल्माषा इति । हे पते, ; ये मद्धस्तनिक्षिप्ताः कुल्माषाः, ते इम एव, एतान् गृहाणेति जाया प्रत्युक्तवती इत्यर्थः । तान्……विततमेयाय । तानेव पर्युषितोच्छिष्टान् कुल्माषान् भक्षयित्वा विततं – विस्तीर्णं यज्ञं गतवान् इत्यर्थः ।।
तत्रोद्गातृनास्तावे स्तोष्यमाणानुपोपविवेश । स ह प्रस्तोतारमुवाच ।। ८ ।।
प्र. तत्र…… उपविवेश । आस्तुवन्ति अस्मिन् इति आस्तावः स्तोत्रस्थानम् । सदसि स्तोतुं प्रवृत्तानां उद्गातृ-प्रस्तोतृ-प्रतिहर्तृणां समीपे उपविष्टवान् इत्यर्थः । स ह प्रस्तोतारमुवाच । सः – उषस्तिः प्रस्तोतारं प्रति इत्थम् उवाच इत्यर्थः ।।
प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता ताञ्चेदविद्वान् प्रस्तोष्यसि, मूर्धा ते विपतिष्यतीति ।। ९ ।।
प्र. – उक्तिमेवाह – प्रस्तोतर्या…..विपतिष्यतीति । हे प्रस्तोतः; प्रस्तावमन्वायत्ता प्रस्तावभक्तौ अध्यस्य या देवता उपास्या, ताम् अविदित्वा यदि विदुषो मम समीपे प्रस्तोष्यसि मूर्धा ते विपतिष्यति इत्यर्थः । ‘यद्यपि तेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेद’ (छां.उ. १-१-१०) इति अविदुषोऽपि आविज्याधिकारोऽस्ति । तथापि विद्वत्सन्निधौ अविदुषः कर्माधिकारो नास्तीति भावः ।।
एवमेवोद्गातारमुवाच, उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्गास्यसि, मूर्धा ते विपतिष्यतीति ।। १० ।।
।। इति दशमः खण्डः ।।
प्र. – एवमेव ……उवाच इत्यादि । पूर्ववदर्थः ।।
एवमेव प्रतिहर्तारमुवाच, प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता ताञ्चेदविद्वान्
प्रतिहरिष्यसि, मूर्द्धा ते विपतिष्यतीति । ते ह समारतास्तूष्णीमासाञ्चक्रिरे ।। ११ ।।
प्र. – एवमेव……उवाच इत्यादि । स्पष्टोऽर्थः । ते ह……चक्रिरे । ते ह – प्रस्तोत्रादयः समारताः उपरतास्सन्तः मूर्धपातभयात् तूष्णीमेव स्थिताः इत्यर्थः ।।
।। इति दशमखण्डभाष्यम् ।।
एकादशः खण्डः
[प्रस्तावप्रतिहारयोः उपासना]
अथ हैनं यजमान उवाच, भगवन्तं वा अहं विविदिषाणीति । उपस्तिरस्मि चाक्रायण इति होवाच ।। १ ।।
प्र.-अथ……विविदिषाणीति । को भवानिति भवन्तं ज्ञातुम् इच्छामि इति उषस्तिं यजमानः उक्तवान् इत्यर्थः । उपस्तिरस्मि……उवाच । स ऋषिः इति शेषः । स्पष्टोऽर्थः ।।
स होवाच, भगवन्तं वा अहमेभिः सर्वेरार्त्विज्यैः पर्येषिषम् ; भगवतो वा अहम ‘विद्या‘ऽन्यानवृषि ।। २ ।।
प्र.-स……अवृषि । तम् ऋषिं यजमानः उवाच । किमिति । भगवन्तं । सर्वगुणोपेतं श्रुत्वा सर्वाणि आर्त्विज्यानि भगवदधीनानि कर्तुं पर्यषिषम् – भगवतोऽन्वेषणं कृतवान् अस्मि । भगवतः अविद्या – विदिः लाभः । न विदिः अविदि: ‘इक् कृष्यादिभ्यः’ (वा. २२३२) इति इक् । सा न भवति इति अविदिः । तया अविद्या . अलाभेन इमान् ऋत्विजः अवृषि – वृतवानस्मि इत्यर्थः ।।
भगवाँस्त्वेव मे सर्वैरार्त्विज्यैः इति । तथेति । अथ तर्हि एत एव समतिसृष्टाः स्तुवताम्। यावत्त्वेभ्यो धनं दद्या: तावन्मम दद्या: इति । तथेति ह यजमान उवाच ।।३।।
प्र.-भगवाँस्त्वेव……आर्त्विज्यैरिति । इतः परमपि भगवानेव सर्वै: आर्त्विज्यैः ऋत्विक्कर्मभिः वृतः इति उवाच इत्यर्थः । सर्वार्त्विज्यार्थं वृतः इति यावत् । तथेति स्तुवताम् इत्यादि । अथ उषस्तिः तथा इत्यभ्युपगम्य त्वया पूर्वं वृताः एते एव मया समतिसृष्ठाः – सम्यक्प्रसन्नेन अनुज्ञाताः उपदिष्टदेवताः सन्तः स्तुवतां – स्तुवन्तु किन्तु एभ्यो यावद्धनं प्रयच्छसि तावन्मम दद्याः इति उक्तवान् इत्यर्थः । तथेति ह यजमान उवाच । स्पष्टोऽर्थः ।।
अथ हैनं प्रस्तोतोपससाद प्रस्तोतर्या देवता प्रस्तावमन्वायत्ता, ताञ्चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् ; कतमा सा देवतेति ।। ४ ।।
प्र.-अथ हैनं प्रस्तोतोपससाद । उषस्तिवचनं श्रुत्वा प्रस्तोता विनयेन तत्समीपम् आगतवान् इत्यर्थः । प्रस्तोतर्या अन्वायत्ता इत्यादि । भगवान् मां प्रति प्रस्तोतर्या देवता इत्यादिना यां देवताम् अवोचत् – उक्तवान् , सा देवता का इति प्रस्तोता तम् ऋषिं पप्रच्छ इत्यर्थः ।।
[प्राण एव प्रस्तावदेवता]
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता तां चेदविद्वान् प्रास्तोष्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।। ५ ।।
प्र.-प्राण इति होवाच । प्राण एव प्रस्तावमन्वायत्ता देवता इति उषस्ति: उवाच इत्यर्थः । अत्र प्राणयितृत्वगुणयोगात् प्राणशब्देन परमात्मा उच्यते । प्राणशब्दस्य मुख्यप्राणपरत्वं व्यावर्तयति । सर्वाणि……अन्वायत्ता । प्राणमभिलक्ष्य संविशन्ति – समित्येकीकारे ऐक्येन विशन्ति । लीयन्त इत्यर्थः । प्राणमभ्युज्जिहते प्राणादेव उद्गच्छन्ति इत्यर्थः सर्वभूतलयोत्पत्तिस्थानत्वेन वेदान्तेषु प्रसिद्धा प्राणरूपा देवता प्रस्तावभक्त्यनुगता प्रस्तावभक्तो अध्यस्य उपास्येत्यर्थः । तां……मयेति । “ताञ्चेदविद्वान् प्रस्तोष्यसि मूर्धा ते विपतिष्यतीति मदुक्त्यनन्तरमपि मदुक्तिम् अनादृत्य तद्देवताम् अनभिज्ञाय यदि प्रास्तोष्यः, तदा मूर्धा ते व्यपतिष्यदेव । अतः साधु कृतं त्वया मत्समीपमागत्य विनयेन पृच्छतेति भावः । अत्र मूर्धा ते व्यपतिष्यत् तथोक्तस्य मया इत्युक्त्या विदुषा एवम् उक्तस्य अविदुषः तदनादरेण कर्मकरणे प्रत्यवायः, न तु विदुषा अनुमतस्यापि अविदुष इति भावः । व्यासार्यैस्तु मूर्धा ते व्यपतिष्येत् इत्यस्य “आत्मसत्ता न लभ्येत” इत्यर्थः इति आत्मसत्ताहानिपर्यन्तः प्रत्यवायो वर्णितः ।।
अथ हैनमुद्गातोपससाद उद्गातर्या देवतोद्गीथमन्वायत्ता तां चेदविद्वानुद्दास्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् । कतमा सा देवतेति ।। ६ ।।
प्र.-अथ हैनमुद्गातोपससाद इत्यादि । पूर्ववदर्थः ।।
[आदित्यः उद्गीथदेवता]
आदित्य इति होवाच, सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति । सैषा देवतोद्गीथमन्वायत्ता । तां चेदविद्वानुदगास्यो मूर्धा ते व्यपतिष्यत्तथोक्तस्य मयेति ।। ७ ।।
प्र.-आदित्य इति होवाच इति । उद्गीथेऽध्यस्योपास्यः आदित्य इत्यर्थः । सर्वाणि……गायन्ति इति । उच्चैस्सन्तं – उच्चैः स्थितं अधःस्थितानि भूतानि गायन्ति इत्यर्थः । प्रस्तावप्राणयोः प्रशब्दवत्त्वेन साम्यवदुद्गीथोच्चैः स्थितादित्ययोः उच्छब्दवत्त्वेन साम्यमिति भावः । शिष्टं पूर्ववत् ।।
अथ हैनं प्रतिहर्तोपससाद प्रतिहर्तर्या देवता प्रतिहारमन्वायत्ता तां चेदविद्वान् प्रतिहरिष्यसि मूर्धा ते विपतिष्यतीति मा भगवानवोचत् कतमा सा देवतेति ।। ८ ।।
प्र.-अथ हैनं प्रतिहर्तोपससाद इत्यादि । पूर्ववत् ।।
[प्रतिहारदेवता अन्नम्]
अन्नमिति होवाच, सर्वाणि ह वा इमानि भूतान्यन्नमेव प्रतिहरमाणानि जीवन्ति । सैषा देवता प्रतिहारमन्वायत्ता । तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति । तथोक्तस्य मयेति ।। ९ ।।
प्र. अन्नमिति होवाच। प्रतिहारभक्तौ अन्नमध्यस्य उपास्यम् इत्यर्थः । सर्वाणि जीवन्ति इति । प्रतिहरमाणानि भक्षयन्ति इत्यर्थः । सन्ति इति शेषः । अत्र प्रतिहरमाणानि इति प्रतिशब्दवत्त्वेन अन्नप्रतिहारयोः साम्यात् प्रतिहारे अन्नाभिमानिदेवताध्यासः । ततश्च प्रस्तावोद्गीथप्रतिहारभक्तिषु क्रमेण प्राणादित्यान्नदृष्टिः कर्तव्या इत्यर्थः । तथोक्तस्य मयेति तथोक्तस्य मयेति इति द्विरुक्ति: विद्यासमाप्त्यर्था । शिष्टं पूर्ववत् ।।
एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणम् उपन्यस्यते – समन्वयाध्याये प्रथमपादे प्राणस्य निखिलभूतजातप्रवृत्तिहेतुत्वसम्भवात् प्राणशब्देन मुख्यप्राणः एव अभिधीयताम् इति पूर्वपक्षे प्राप्ते – शिलाकाष्ठाद्यचेतनस्वरूपस्य, शुद्धस्य जीवस्वरूपस्य च मुख्यप्राणाधीन स्थितिकत्वाभावात्’ प्रसिद्धवन्निर्दिष्टसकलचेतनोत्पत्तिलयहेतुत्वस्य परमात्मव्यतिरिक्ते असम्भवात् चेतनवाचिदेवताशब्दस्यापि अचेतने मुख्यप्राणे असम्भवाच्च परमात्मैव प्राणयितृत्वादियोगवशेन अभिधीयते इति । अत एव प्राणः’ (ब्र.सू.१-१-२४) इति सूत्रेण सिद्धान्तितम् ।
[प्रतिहारदेवता अन्नम्]
अन्नमिति होवाच, सर्वाणि ह वा इमानि भूतान्यत्रमेव प्रतिहरमाणानि जीवन्ति । सैषा देवता प्रतिहारमन्वायत्ता । तां चेदविद्वान् प्रत्यहरिष्यो मूर्धा ते व्यपतिष्यत् तथोक्तस्य मयेति । तथोक्तस्य मयेति ।। ९ ।।
प्र.-अन्नमिति होवाच। प्रतिहारभक्तौ अन्नमध्यस्य उपास्यमित्यर्थः । सर्वाणि जीवन्ति इति । प्रतिहरमाणानि – भक्षयन्तीत्यर्थः । सन्तीति शेषः । अत्र प्रतिहरमाणानीति प्रतिशब्दवत्वेन अन्नप्रतिहारयोः साम्यात् प्रतिहारे अन्नाभिमानिदेवताध्यासः । ततश्च प्रस्तावोद्गीथप्रतिहारभक्तिषु क्रमेण प्राणादित्यान्नदृष्टिः कर्तव्या इत्यर्थः । तथोक्तस्य मयेति तथोक्तस्य मयेति इति द्विरुक्तिविद्यासमाप्त्यर्था । शिष्टं पूर्ववत् ।। एतत्खण्डान्तर्गतवाक्यविषयकमधिकरणमुपन्यस्यते – समन्वयाध्याये प्रथमपादे प्राणस्य निखिलभूतजातप्रवृत्तिहेतुत्वसम्भवात् प्राणशब्देन मुख्यप्राण एव अभिधीयताम् इति पूर्वपक्षे प्राप्ते – शिलाकाष्ठाद्यचेतनस्वरूपस्य, शुद्धस्य जीवस्वरूपस्य च, मुख्यप्राणाधीन स्थितिकत्वाभावात् प्रसिद्धवनिर्दिष्टसकलचेतनोत्पत्तिलयहेतुत्वस्य परमात्मव्यतिरिक्ते असम्भवात् चेतनवाचिदेवताशब्दस्यापि अचेतने मुख्यप्राणे असम्भवाच्च परमात्मैव प्राणयितृत्वादियोगवशेन अभिधीयते इति । ‘अत एव प्राणः’ (ब्र.सू.१-१-२४) इति सूत्रेण सिद्धान्तितम् । ननु प्रस्तावोद्गीथप्रतिहारभक्त्यनुगतत्वेन देवतात्वेन च निर्दिष्टेषु प्राणादित्यान्नेषु प्राणस्यैव परमात्मत्वम् आदित्यानयोस्तु न तथात्वम् इत्यत्र किं विनिगमकम् । चेतनवाचिदेवताशब्दः त्रिष्वपि समानः । प्राणवाक्यशेषे प्रसिद्धप्राणासम्भावितासंकुचितसर्व भूतसंवेशनोद्गमनाधारत्वश्रवणवत् आदित्यान्नवाक्यशेषयोरपि असंकुचित- सर्वभूतगेयत्व सर्वभूतोपजीव्यत्वयोः प्रसिद्धादित्यानासम्भावितयोः श्रवणाविशेषात् । यदि च आदित्यवाक्ये सर्वभूतशब्दः आदित्यगानयोग्यचेतनविशेषपरतया अन्नवाक्यशेषे अन्नोपजीवनयोग्य चेतनविशेषपरतया च संकोच्यते । देवताशब्दश्च ‘अभिमानिव्यपदेशस्तु विशेषानुगतिभ्याम्’ (ब्र.सू.२-१-५) इति सूत्रोक्तन्यायेन अभिमानिदेवतापरतया योज्यते । तर्हि प्राणेऽपि तथाऽस्तु विशेषाभावात् इति चेत् उच्यते प्राणशब्दस्य ‘प्राणस्य प्राणं’ (बृ.उ.६-४-१८) ‘यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम्’ (क.उ.६-२) इत्यादिषु परमात्मन्यपि निरूढत्वात् । ‘सर्वाणि ह वा इमानि भूतानि’ इत्यादिवाक्यशेषस्वारस्याच्च परमात्मपरत्वमाश्रितम् । अन्नादित्यशब्दयो: अतथात्वात् चेतनवाचिदे वताशब्दस्य केवलादित्यमण्डलान्नयोः अभावात् तदभिमानिदेवतापरत्वम् । अन्नाभिमानिदेवतायाश्च ‘भूतभक्ष्यत्वं तदधिष्ठेयात् न अभेदारोपेण उपपद्यते । ‘सर्वाणि ह वा इमानि भूतानि आदित्यमुच्चैस्सन्तं गायन्तीति’ प्रतिपादितं सर्वभूतगेयत्वं परमात्मनोऽपि न सम्भवति । भूतशब्दो हि प्राणिनिकाये महाभूतेषु च रूढः । महाभूतस्य गातृत्वप्रसक्तेरेवाभावात् प्राणिनिकायपरत्वं वक्तव्यम् । तदपि न सम्भवति । न हि सर्वेऽपि प्राणिनः परमात्मानं गायन्ति ; स्थावरेषु पश्वादिषु चाभावात् । तस्मात् गानयोग्यप्राणिविशेषपरत्वेन संकोचः परमात्मपरत्वेऽपि आवश्यक इति आदित्य शब्दस्य लोकव्युत्पत्तिविरुद्धं परमात्मपरत्वं नाश्रयणीयम् । एवमन्नवाक्यशेषेऽपि ‘प्रतिहरमाणानि’ इति भक्ष्यमाणत्वं न परमात्मनि मुख्यम् । अतः आदित्यान्नशब्दयोः ब्रह्मपरत्वाभावेऽपि प्राणशब्दस्य ब्रह्मपरत्वं सिद्धमिति द्रष्टव्यम् । प्रकृतमनुसरामः ।।
।। इति एकादशखण्डभाष्यम् ।।
द्वादशः खण्डः
[श्वदृष्टोद्गीथस्तुत्यर्थ दाल्भ्यस्य आख्यायिका]
अथात: शौव उद्गीथः । तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः स्वाध्यायमुद्वव्राज ।। १ ।।
प्र.-अतीतखण्डे अन्नाप्राप्तिनिमित्ता उच्छिष्टपर्युषितभक्षणलक्षणा कष्टावस्था उक्ता । अनन्तरमन्नलाभाय श्वदृष्टः उद्गीथः प्रस्तूयते । अथातः शौव उद्गीथः । शौव: श्वदृष्टः उद्गीथः । प्रस्तूयते इति शेषः । शौव इति टिलोपश्छान्दसः । तद्ध……वव्राज । अत्र वाशब्दः चार्थे । बकग्लावनामद्वययुक्तो दल्भसुतो मित्रासुतश्च स्वाध्यायं कर्तुं उद्वव्राज–ग्रामात् निर्गतवान् इत्यर्थः ।।
तस्मै श्वा श्वेतः प्रादुर्बभूव । तमन्ये श्वान उपसमेत्योचुः अन्नं नो भगवानागायतु; अशनायाम वौ इति ।। २ ।।
प्र. – तस्मै……बभूव । तत्स्वाध्यायेन तोषितः कश्चन ऋषिः श्वेतशुनकरूपतया प्रादुर्बभूव इत्यर्थः । तं……ऊचुः । तं–श्वेतं श्वानं क्षुल्लका: श्वान: उपसमेत्य उक्तवन्तः । उक्तिमेवाह- अन्नं इति । वैशब्दोऽवधारणे । वयं अशनायाम बुभुक्षिताः स्मः । अस्माकं, गानेनान्नं भगवान् सम्पादयतु इत्यूचुरित्यर्थः ।।
तान् होवाच, इहैव मा प्रातरुपसमीयातेति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः प्रतिपालयाञ्चकार ।। ३ ।।
प्र. – तान्…….समीयातेति । श्वः प्रातःकाले अस्मिन्नेव देशे मा – मामुपगच्छतेति तान् – क्षुल्लकान् शुनः श्वेतः श्वा उवाच इत्यर्थः । तद्ध…चकार । बकग्लावनामा ऋषिः तत्संवादं श्रुत्वा श्वेतश्चाद्यागमनं प्रतीक्ष्य स्थितवानित्यर्थः ।।
ते ह यथैवेदं बहिष्पवमानेन स्तोष्यमाणाः संरब्धाः सर्पन्तीत्येवमाससृपुः तेह समुपविश्य हिञ्चक्रुः ।। ४ ।।
प्र. ते……ससृषु । ते – श्वेतश्वादयः तत्रैव प्रातरागत्य, बहिष्पवमानेन स्रोत्रेण स्तोष्यमाणाः उद्गातृपुरुषाः अन्योन्यस्पृष्टा गच्छन्तीत्येतद्यथा, तथैव अन्योन्यस्य पुच्छं ‘मुखेन’ गृहीत्वा आससृपुः – उपसर्पणं कृतवन्तः । ते……ह हिञ्चक्रुः । अथ ते, उपविश्य हिञ्चक्रुः – हिङ्कारं कृतवन्तः इत्यर्थः ।।
ओ३मदा३मों ३ पिबा ३ मों ३ देवो वरुणः प्रजापतिः सविता ३ ऽन्न–मिहा२हरदनपते २ ऽन्नमिहाहरा २ हरो ३ मिति ।। ५ ।।
।। इति द्वादशः खण्डः ।।
प्र. – हिङ्कारमेवाह – ओमदार्मो……आहरत् । ओमिति गानोपक्रमे । अदाम . भक्षयेम’, पिबाम च । द्योतमानत्वात् देवः । व्रियमाणत्वात् वरुणः । प्रजानां पालनात् – प्रजापतिः । एवम्भूतः सविता अन्नमाहरतु इत्यर्थः । अन्नपते……ओमिति । अन्नपते इति आदित्यस्य सम्बोधनम् । आहराहर इति द्विरुक्तिः प्रार्थनायाम् । इति गीतवन्तः इत्यर्थः अन्नपत इति मन्त्रकरणकादित्याध्यासविशिष्टोद्गीथोपासनमन्त्रफलकमिति भावः ।।
।। इति द्वादशखण्डभाष्यम् ।।
त्रयोदशः खण्डः
अयं वाव लोको हाउकारो वायुर्हा इकारश्चन्द्रमा अथकार आत्मेह कारोऽग्निरीकारः ।।१।।
प्र.-सामावयवान्तर्गतस्तोभाक्षरविषयाणि उपासनान्तराण्युपदिश्यन्ते । अयं……हाउकारः । हाउ इत्येवंलक्षणो यः सामसु स्तोभः सः अयं लोकः एतल्लोकत्वेनोपास्यः इत्यर्थः । एवमुत्तरत्रापि स्तोभशब्दोऽध्याहर्तव्यः । अयं स्तोभो रथन्तरसाम्नि प्रसिद्धः । वायुर्हा इकारः हा इ–इति स्तोभः वामदेव्यसाम्नि प्रसिद्धः । एवमग्रेऽपि । शिड्राष्टं स्पष्टम् ।।
आदित्य ऊकारो निहव एकारो विश्वेदेवा औहोइकारः प्रजापतिहिङ्कारः प्राणः स्वरोऽन्नं या वाग्विराट् ।। २ ।।
प्र. – आदित्य ऊकार: इत्यादि । निहव एकारः । निहवः – आह्वानम् इत्यर्थः । ‘ह्वस्सम्प्रसारणं च न्यभ्युपविषु’ (पा.सू.३-३-७२) इति भावे ह्वङ: अप्सम्प्रसारणयोः निहव इति रूपम् । प्राणः स्वरः स्वर इति स्तोभः प्राण इत्यर्थः । अन्नं या । या इति स्तोभाः अन्नमित्यर्थः । वाग्विराट् । वागिति स्तोभो विराट् अन्नमित्यर्थः । विराट्पुरुषो वा ।।
अनिरुक्तस्त्रयोदशस्तोभः सञ्चरो हुङ्कारः ।। ३ ।।
प्र.-अनिरुक्तः……हुङ्कारः । हाउकारादिभ्यो द्वादशभ्यः पूर्वोक्तेभ्यः अधिक: हुमिति त्रयोदशो यः स्तोभः, सः इदमिति निर्वक्तुमशक्यतया अनिरुक्तत्वात् सञ्चर: डोलायितः सन्देहरूप इत्यर्थः । ततश्च तत्र सञ्चरत्वदृष्टि: कार्या इत्यर्थः । ततश्च हाउकारादिषु त्रयोदशसु उक्तपृथिवीलोकादिदृष्टिः कर्तव्या इति स्थितम् ।।
दुग्धेऽस्मै वाग्दोहं यो वाचो दोहः; अन्नवानन्नादो भवति, य एतामेवं सानामुपनिषदं वेदोपनिषदं वेद इति ।। ४ ।।
।। इति त्रयोदशः खण्डः ।।
।। इति प्रथमः प्रपाठकः समाप्तः ।।
प्र.-तस्य फलमाह – दुग्धे……भवति । उक्तोऽर्थः । यः……वेद । सामावयव स्तोभाक्षरोपासनां यो वेद इत्यर्थः । द्विरुक्तिरध्यायसमाप्त्यर्था ।।
।। इति प्रथमप्रपाठकप्रकाशिका ।।