श्रीः
श्रीमते रामानुजाय नमः
ईशावास्योपनिषत्
शान्तिपाठः
ओम् पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते | पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ||
ओम् शान्तिः शान्तिः शान्तिः ||
शुक्लयजुर्वेदीयानां एष शान्तिपाठमन्त्रः | परब्रह्मणः समग्रस्वरूपस्यभावप्रतिपादक इति यथासिद्धान्त विपुलविशदं विवरणं अर्हति। तथा हि-पूरी-आप्यायने इत्यस्मात् चौरादिकत्वेनस्वार्थणिजन्तात् धातोः क्तप्रत्यये सति “या दान्त-शान्त-पूर्ण-दस्त-स्पष्ट-छन्न-ज्ञप्ताः” इति (7-2-27) पाणिनिसूत्रेण पूर्णशब्दोऽयं निपात्यते | इडागमाभाव: निपातस्य फलम् | णिलोप:, रात् परत्वात् प्रत्ययतकारस्य नत्वं, तस्य णत्वं चेति पूर्णशब्दसिद्धै प्रक्रिया | क्तप्रत्ययश्च इह कर्तरि कर्मणि येति उभयथापि भाव्यम् | तत्र कर्तरि • ब्रहम स्वरूपेण पूरयतिव्याप्नोति इत्यर्थः| कर्मणि तु – ब्रहम कल्याणगुणैः संभृतमित्यर्थः | असंकुचितवृत्तिनानेन पूर्णशब्देन सर्वत्र सर्वदा सर्वथा च पूर्णत्वं ब्रह्मणः प्रतिपाद्यते ||
(1) तत् यथा – सर्वत्रेति सर्वदेशव्याप्तिविवक्षा । सर्वत्र पूर्णता नाम-सर्वव्याप्तस्य तत्देशावच्छेदेनापि परिसमाप्यवृत्तित्वपर्यवसानम् | तद्वा कथम्? न हि एकत्र पूर्णतया स्थितस्य अन्यत्र वृत्तिसम्भव: | इति शंका निरस्यते सिद्धान्तिभि: विशिष्टाद्वैतिभि व्यक्तिषु परिसमाप्तामपि व्यापिनी तार्किकाणां जातिं निदर्शयदभिरिति भाव्यम् ||
(2) सर्वदा – इति कालानवच्छेदेन व्याप्तिविवक्षा |
(3) सर्वथा • इति व्याप्तिप्रकारविवक्षा च | तत्र स्वरूपतः गुणतश्चेति व्याप्तिप्रकारद्वैविध्यम् | तेन दीपादुत्पन्नप्रदीपन्यायेन परस्वरूपवत् उत्तरेषां व्यूह-विभव-अन्तर्यामि-अर्चावताराणामपि गुणैः पूर्णतासिद्धि:| एतदभिप्रायेणैव मन्त्रपदानि व्याख्येयानि ||- तथा हि – “पूर्णमदः पूर्णमिदं” इति “पूर्णमिदं पूर्णमदः” इति च पाठभेदो दृश्यते | तत्र विप्रकृष्टवाचिना अदः शब्देन नित्यविभूतिवर्तिपरस्वरूपग्रहणम् | सन्निहितवाचिना इदं | शब्देन च हृदयगुहावर्ति-अन्तर्यामिरूपं विवक्षितम् | पूर्णशब्दः गुणपौष्कल्यवचनः | तथाच • परवाासुदेवमूर्तिरिव अन्तर्यामिस्वरूपं च वाङ्गुण्यपुष्कलमिति प्रथमवाक्यार्थः। अथ, पूर्णात् – पूर्वोक्तपरवासदेवसकाशात् आविर्भूतं पूर्णं • व्यूहस्वरूपं उदच्यते – बहुप्रकारं भवति । संकर्षण-प्रद्युम्नानिरुद्धरूपेण द्वि-द्वि-गुणाविष्करणशालि सत् त्रिप्रकारं भवतीति भावः। तत्र व्यूहत्रये प्रतिव्यक्ति गुणद्वयमात्राविष्करणेऽपि स्वतो गुणषट्कपूर्णमेवेति न न्यूनता भावया । इदं चोकतं पांचरात्रानुसारतः श्रीवत्सचिन्हगुरुभिः वरदराजस्तवे • गुणैष्षड्भिस्वेतै: प्रथमतरमूर्तिस्तव बभौ । ततः तिस्र: तेषां त्रियुग। युगलैर्हि त्रिभिः अभुः” इत्यादिना ||
पूर्णस्य पूर्णं – इह षष्ठयन्तपूर्णशब्दः सर्वावतारकन्दभूतं क्षीराब्धिशायि व्यूहरूपं वदति । तत्सम्बन्धि पूर्णं रामकृष्णादिविभवावतारजातम् । तत् (द्वितीयान्तम् ) आदाय -स्वहेतुत्वेन स्वीकृत्य • पूर्णं एव अवशिष्यते – अर्चावतारूपमेव चरमतया वर्तते सर्वसमाश्रयणोपयोगि नित्यसन्निहितं कल्याणगुणपूर्णं च । इति मन्त्रस्य । पदार्थविवरणम् । एतेन परब्रह्मणः सर्वव्याप्तिः सर्वत्र गुणपौष्कल्यं च प्रतिपादितं भवति । अध्ययनारम्भे एवंविधपरिपूर्णब्रह्मस्वरुपध्यानं शान्तिमन्त्रेणानेन विधित्सितमिति बोध्यम् । श्रीवचनभूमणस्य अरुम्पदाख्ये द्रविडभाषामयटिप्पणे समंजसमिदं विवरणं दृश्यम् ||
यद्यपि श्रीरंगरामानुजमुनीन्द्रै: बृहदारण्यके (7-1) अयंमन्त्र प्रकरणात्प्रणवस्तुतिपरतयाव्याख्यात:। तदेवम् “पूर्णमदः पूर्णमिदं” इत्यनेन परोक्षप्रत्यक्षसर्वलोकानां वेदशब्दप्रभवत्यात् तद्वयाप्तत्व प्रोच्य, (कारणेन । कार्यस्य व्याप्तत्वात् • कारणीभूतवेदशब्दव्याप्तता लोकानां – इति । एवं पूर्णात् ( व्याप्तात् लोकात् । पूर्णं पूरणकर्तृ व्याहृतिरूपभूर्भुवरादिशब्दजातम् उदंच्यते – उत्कृष्टं भवतीति च व्याख्याय, पूर्णस्य पूर्णं – व्याप्तलोकस्य पूरकं व्याहृतिरुपशब्दजातम् आदाय – उपसंहूत्य, पूर्णं – तस्यापि व्यापकं औंकांर रूपं वस्तु अवशिष्यते – कार्यसर्वशब्दजाते नष्टेऽपि परिशिष्यते” इति, विवरणं कृतम् । अथ तैरेव अन्ते । इदं च रुच्युत्पादनाय प्रणवस्तुतिमात्रम्।अन्ययानिमित्तकारणस्यव्याहृत्यादे: कार्यव्यापकत्वासंभवात्। उपादानभूतस्य भूतपंचकस्यैव व्यापकत्वसभवात् असामंजस्य स्यात्” इति समापितम् । तथापि एवं स्वेनैव रुच्युत्पादनाय प्रणवस्तुतिपरत्वोक्तया अवास्तवमेवेदप्रणवस्तुतिपरत्वमिति व्यंजनात्, युक्तं प्रणवप्रतिपाद्यस्य ब्रह्मणएव परत्वादिपंचकपरतया व्याख्यानमिति प्रतीमः । वस्तुतः इदं श्रीरंगरामानुजीयं विवरणं वाक्यान्वयाधिकरणगत श्रुतप्रकाशिकावचनविरुद्धमपि। तत्र हि व्यासार्यै: यादवप्रकाशपक्षनिराससन्दर्भ परमात्मपरतयैव मन्त्रोऽयं विवृत:। तत्रेयं तदीयसूक्तिः •”, परमात्मन: पूर्णत्वं च अणुमात्रैऽपि वस्तुनि स्थितस्य निरवधिकषाड्गुण्य विशिष्टतया प्रतिपत्तियोग्यत्यम्” इति ।।
कवितार्किकसिंहसर्वतन्त्रस्वतन्त्र श्रीमद्वेदान्ताचार्यविरचितम्
॥ ईशावास्योपनिषद्भाष्यम् ॥
मंगलम्
श्रीमान्वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥
येनावास्यमिदं सर्वं चेतनाचेतनात्मकम् । विशुद्धसद्गुणौघं तं वासुदेवमुपास्महे ॥ १ ॥
ईशावास्योपनिष्सार:
सर्वेशानस्सहजमहिमा सर्वभूतान्तरात्मा सर्वान् दोषान् स्वयमतिपतन् सर्वविद्यैकवेद्यः ।
कर्माध्यक्षः कलुषशमनः कोऽपि मुक्तोपभोग्यस्सिद्धोपायः स्फुरति पुरुषो वाजिनां संहितान्ते ॥ २ ॥
ईशावास्यमिदं सर्वमित्यादि यदनूच्यते । शिष्यं प्रति गुरोरेतद्ब्रह्मविद्यानुशासनम् ॥ ३ ॥
संहितोदाहृतं सर्वं विनियोगपृथक्त्वतः । विद्यार्थं स्यादिति व्यक्तं निबन्धोऽस्य तदन्ततः ॥ ४ ॥
ईशावास्यमिदँ सर्वं यत्किंच जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १
तत्र प्रथममचिद्विकाराधिष्ठितस्य स्वतन्त्रात्मभ्रमादिपरिजिहीर्षया सर्वस्य परमपुरुषायत्तस्वरूपस्थितिप्रवृत्तिमभिप्रेत्याह – ईशा वास्यमिदं सर्वं यत्किञ्च जगत्यां जगदिति ।
सर्वस्य ईश्वरपरतन्त्रता
इदं – तत्तत्प्रमाणसिद्धमीश्वरव्यतिरिक्तं चिदचिदात्मकम्, ईशा – ज्ञाज्ञौ द्वावजावीशनीशौ (श्वे। उ। १-९) इत्यादिषु जीवादत्यन्तविलक्षणतया प्रख्यातेन सर्वनियन्त्रा पुरुषोत्तमेन, वास्यं – व्याप्यमित्यर्थः । सर्वाधारे स्वस्मिन् स्वेन वसनीयं वा । स्मर्यते हि –
सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः ।
ततस्स वासुदेवेति विद्वद्भिः परिपठ्यते ॥ इति ।(वि.पु.१-२-२२)
जगत्यामिति लोकान्तराणामुपलक्षणम् । जगत् – स्वरूपतो धर्मतो वा अन्यथात्वं गच्छत् भोग्यभोक्तृरूपं वस्तुजातम् । अतदात्मकं किञ्चिदपि नास्तीति द्रढयितुं – यत्किञ्चेति विशेष्यते । इन्द्रियाणि मनो बुद्धिस्सत्त्वं तेजो बलं धृतिः । वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञमेव च॥ इत्युपबृंहितम् ।
ईशशब्दस्य रूद्रपरत्वनिरास:
ननु “रूढिर्योगमपहरतीति” (पू.मी. ६-१-१२) न्यायादीशोऽत्र रुद्रस्स्यात्, सर्वाद्युपपदाभावाच्च । मैवं, कारणविषयाकाशप्राणादि
शब्दवद्रूढेरिह बाधितत्वात्, “ एको ह वै नारायण आसीन्न ब्रह्मा नेशानः” (मु.उ. १-१) “अनपहतपाप्माऽहमस्मि नामानि मे धेहि” (शत.ब्रा.) इत्यादिभिः असर्वकारणत्वेन कर्मवश्यत्वेन च संप्रतिपन्ने रुद्रे सर्वावास्यत्वसर्वाधारत्वात्वादेरसंभवात् । तद्वत्तया प्रसिद्धे
अनवच्छिन्नैश्वर्ये सर्वेश्वरे यौगिकोऽयं शब्दः प्रत्येतव्यः । यद्यपि प्रसिद्धवन्निर्देशाभावादाकाशादिवाक्यवैषम्यम्, तथाप्यैन्द्रीन्यायाद्विरुद्धार्थविषयतयैव रूढिभङ्गोपपत्तिः (पू.मी. ३-२-२) ।
नचात्र “सर्वत्वमाधिकारिकमिति (पू.मी. १-२-१६) न्यायः, सङ्कोचादृष्टेः । प्रवाहेश्वरानेकेश्वरपक्षौ तु त्रैकालिकसर्वनिर्वाहकेश्वरप्रतिष्ठापकैः प्रमाणगणैः प्रत्यूढौ।
नारायणस्यैव सर्वायास्यत्व स्थापनम्
अतः “पतिं विश्वस्यात्मेश्वरम्” (तै.ना. ९२) इत्यादि प्रसिद्धानन्याधीनैश्वर्यम् “योसावसौ पुरुषः” (ई.उ।१६) इत्यनुवदिष्यमाणं
ब्रह्मेशानजनकतया अनन्यथासिद्धवाक्यनिर्धारितम् “एष सर्वभूतान्तरात्मा अपहतपाप्मा दिव्यो देव एको नारायणः” (सुबा.उ.७)
इत्यादिषु सर्वान्तर्यामित्वेन प्रख्यातम् तत एव -“स ब्रह्मा स शिवः”(तै. ना.१०१) इत्यादि विभूतिभूतानां ब्रह्मशिवेन्द्रादीनां “विश्वमेवेदं पुरुषः” (तै.ना.९१) इत्यत्र विश्वस्येय विशेष्यतयोक्तं नारायणमेव सर्वस्यावास्यं ईशम् वक्तुमुचितमेतद्वाक्यम् इत्यलम् अन्यरूढिप्रसङ्गरहित असमस्तपदाध्ययनानभिज्ञाश्रोत्रियचोद्योपालम्भनेन ॥
वैराग्यभूषितवृत्युपदेश:
एवं मुमुक्षो: ईश्वरपारतन्त्र्यबोधमुत्पाद्य वैराग्यभूषितां वृत्तिम् उपदिशति – “तेन त्यक्तेन भुञ्जीथा: मा गृधः
कस्यस्यिद्धनमिति । तेन – जगता भोग्यताभ्रमविषयेण, त्यक्तेन – दोषभूयस्त्वदर्शनात्त् परित्यत्क्तेन उपलक्षितस्सन्
भुञ्जीथाः । अप्रतिषिद्धयोगधर्मोपयुक्तदेहधारणमात्रौपयिकं भोग्यवर्गम् इति अर्थप्रकरणाभ्यां सिध्यति । यद्वा, सर्वावास्त्वेन
प्रकृतं निरतिशयभोग्यं वक्ष्यमाणोपायमुखेन भुञ्जीथाः इति योज्यम् । कस्यापि बन्धोरबन्धोर्वा धनं, मा गृधः –
माभिकाङ्क्षः । आह च यमः किङ्करं प्रति “परमसुहृदि” इत्यारभ्य “शठमतिरुपयाति योऽर्थतृष्णां पुरुषपशुर्न स
वासुदेवभक्तः (वि.पु. ३-७-२९,३०) इति । इदं च धनाशाप्रहाणं परमात्मेतरकृत्स्नविषयवैराग्योपलक्षणम् । स्मर्यते हि “परमात्मनि यो रक्तो विरक्तोऽपरमात्मनि’ (ना.प.उ.३-१८) इति ॥ १।।
द्वितीयो मन्त्र:
कर्मानुष्ठानम्
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतगँ समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २
प्र.दी: एवं विरक्तस्य विदुषः फलसङ्गकर्तृत्वादित्यागयुक्त: ब्रह्मविद्याङ्गभूत: कर्मयोग यावज्जीवम् अनुष्ठेय: इत्याह –
कुर्वन्नेवेहेति। शतं समाः-शतं वत्सरान्, कर्मणि नित्यनैमित्तिकानि, कुर्वन्नेह इह -लोके, जिजीविषेत्-जीवितुमिच्छेत्, त्वयि-ईश्वरपरतन्त्रे सति एवम् -अनुष्ठेयानि इत्यर्थ:।नान्ययेतोऽस्ति-हत:-अनुष्ठानात् अन्यया-अननुष्ठानम् नास्ति इत्यर्थ: न कर्म लिप्यते नरे इति। नरेप्रस्तुतब्रह्मयिदि नरे, विद्यांगतया क्रियमाण: कर्मयोग: न लिप्यते; किन्तु भगवति भक्तियोगम् उत्पादयति इत्यर्थ:
कैश्चित् अयं मन्त्र: अविद्वद्विषयतया व्याख्यात:। स च ‘अविद्या मृत्युं तीत्वां विद्ययाऽमृतमश्नुते’ (ई.उ. ११) इति।वक्ष्यमाणमन्त्रविरोधात् अनुपपन्न:।तस्मात् त्रययन्तनिष्णाता: तद्वचाख्यां न बहुमन्यते।
वेदान्ताचार्यभाष्यम्
अवतारिका
एवं विदुष: फलसंगकतृत्वादित्यागयुक्तं नित्यनैमित्तिकरूपं विद्यांगभूतं कर्मयावज्जीवमनुष्ठेयम्
इत्याह.- कुर्न्नेवेह कर्माणि जिजीविषिच्छेतं समा:-इति। ब्रह्मविदोऽपि यावद्विद्यापूर्ति जीवनमिष्टं भवतीति ज्ञापनाय सम्प्रयोग:।शतम्-इति च प्रायिकविषयम्।शतं समा: जीवन् अधिकारानुगुणानि कर्माणि कुर्वीतैव।न कदाचिदपि विद्याङ्गं कर्म परित्यजेदित्यर्थः । अस्य वाक्यस्य फलसाधनभूतस्वतन्त्रकर्मविषयत्वे विशेषहेत्वभावस्सूत्रितः नाविशेषात् (ब्र.सू. ३-४-१३) इति । अर्थान्तरं च प्रकरणाविरुद्धम् अनन्तरसूत्रोक्तम् स्तुतयेऽनुमतिर्वा (ब्र.सू. ३-४-१४) इति। भाष्यं – “वाशब्दोऽवधारणार्थः”। ईशावास्यमिदं सर्वमिति विद्याप्रकरणाद्विद्यास्तुतये सर्वदा कर्मानुष्ठानानुमतिरियम् । विद्यामाहात्म्यात्सर्वदा कर्म कुर्वन्नपि न लिप्यते कर्मभिरिति हि विद्या स्तुता भवति । वाक्यशेषश्चैतदेव दर्शयति – एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे इति । त्वयि ब्रह्मविद्याधिकारिणि एवमेवानुष्ठेयार्थः, इतोऽन्यथा नास्तीति व्यतिरेकेणोक्तं दृढीकारणार्थम् ।
विदुषा अनुष्ठीयमानकर्मणां अलोपकत्वोक्ति
ननु ब्रह्मविदोऽपि कर्मानुष्ठानभावाद्बन्धस्स्यादित्यत्राह – न कर्म लिप्यते नरे इति । प्रस्तुते ब्रह्मविदि नरे । अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् (ब्र.सू. ४-१-१६) इति 2482 विनियोगपृथक्त्वन्यायेन कर्म न स्वर्गादिफलहेतुर्भवति । विद्यानुप
युक्तकाम्यानां निषिद्धानां च विरक्तेन विवेकिना न बुद्धिपूर्वोपादानसंभवः । संभावितानामपि केषांचित् * नाविरतो दुश्चरितात् (क.उ. 2-24) इत्यादिबलात् स्वानुगुणा निष्कृतिस्स्यात् । तदधिगमाधिकरणे (ब्र. सू. अधि. 4-1-7) तु प्रामादिकानामेवाश्लेषः परविद्यावतामपि
स्थापितः । ज्ञानाग्निदग्धाधिकारो विधिनिषेधानधिकारीति पक्षस्तु न वेदवित्संमतः ॥
तृतीयो मन्त्र:
असुर्या नाम ते लोका अन्धेन तमसावृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये केचाऽऽत्महनो जनाः ॥ ३।।
वेदान्ताचार्यभाष्यम्
आत्मज्ञानविधुराणां प्राप्यं स्थानम्
वक्ष्यमाणविद्यायां शीघ्रं प्रवृत्त्यर्थमुक्तप्रकारब्रह्मवेदनविधुरतया वित्तैषणायोगाच्च अन्यथाभवद्भिर्ज्ञानानुष्ठा
नैरात्मघातिनां निरयपातोऽवश्यम्भावीत्याह – असुर्या.. .जनाः – इति । असुर्याः – असुरस्य स्वम् (पा.सू.४-४-१२३) इति यत्;
आसुरप्रकृतीनामनुभाव्या: इत्यर्थः । नामेति प्रसिद्धौ । ते – नरकसंज्ञिता भीषणतमाः लोकास्सन्ति । पुनस्तान्विशिनष्टि –
अन्धेन तमसाऽऽवृताः – गाढेनान्धकारेण व्याप्ताः । तान् – आलोकप्रसङ्गरहितान्, ते – स्वात्मघातिनः । प्रेत्य –
तदातनदेहादुत्क्रम्य । अभिगच्छन्ति – कार्त्स्न्येन निरन्तरं प्राप्नुवन्ति । ये के च – देवजातीया मनुष्यजातीया वा,
तथा ब्राह्मणक्षत्रियादयो वा । आत्महनः – असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् (तै.आ. ३०) इत्याम्नातामसत्कल्पतां
स्वात्मानं नयन्तः; देहपातमुखेन पातकवर्गोपलक्षणमिदम् । जनाः – जनिमन्तः; संसरन्त इत्यर्थः ॥
चतुर्थ मन्त्र:
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन् पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ।।
वेदान्ताचार्यभाष्यम्
ब्रह्मणि विचित्रशक्तियोगनिरूपणम्
सर्वावासत्वेन प्रस्तुतमीश्वरतत्त्वं विरुद्धवदभिलापव्यञ्जितेन विचित्रशक्तियोगेन विशदयति – अनेजदेकं
मनसो जवीय इति । अनेजत् – अकम्पमानम् । एकं – प्रधानभूतम्, स्वानधीनस्वसमानद्वितीयरहितं वा, मनसो
जवीयः – वेगवत्तरमनसोऽप्यतिशयितजवम् । ननु इदं न जाघटीति निष्कम्पत्वं वेगवत्तरत्वं चेति; मैवं, तात्पर्यवृत्त्या
सुघटितत्वात्, सर्वस्य स्वेन नित्यव्याप्तत्वादनेजत्, सर्वदा मनसो गोचरदेशमतिक्रम्य वृत्तेः मनसो जवीय उपचर्यते ।
एवमुत्तरेष्वपि वाक्येषु भाव्यम् ।
नैनद्देवा आप्नुवन् पूर्वमर्षत् – प्रागेव सर्वान् प्राप्नुवत् देवा: हिरण्यगर्भादयो
नाप्नुवन्- एतावन्तं कालं न लेभिरे । विभुत्वेन नित्यप्राप्तमपि कर्मप्रतिबद्धज्ञानाः क्षेत्रज्ञाः विद्याभिगमात्पूर्वं स्वबुद्ध्या
न प्राप्नुवन्तीति न विरोधः । यथोक्तं छान्दोग्ये तद्यथा हिरण्यनिधिं निहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमास्सर्वाः प्रजाः अहरहर्गच्छन्त्य: एतं ब्रह्मलोकं न विन्दन्त्यनृतेन हि प्रत्यूढाः(छा.उ.८-३-२) इति ।
तद्धावतोऽन्यानत्येति तिष्ठत् – यः पृथिव्यां तिष्ठन् * य आत्मनि तिष्ठन् (बृ. उ. ५-७-७) य आत्मनि तिष्ठन् (बृ.उ.मा.पा. ३-७-३०) इत्यादिक्रमेण तत्सर्वत्र तिष्ठदेव धावतो गरुडादीनप्यत्येति,
यावद्यावद्धावन्ति जविनस्तावतः परस्तादपि वर्तत इत्यर्थः । यथोच्यते –
वर्षायुतशतेनापि पक्षिराडिव संपतन् । नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ॥(आहिर्बु.सं.२-४३) इति ।
अन्येषां क्वचित्तिष्ठतां धावदतिक्रमणं नास्तीति वैचित्री ।
वाय्वादीनां भगवदाहितशक्तिमत्वम्
अन्यदपि किञ्चिदाश्चर्यमित्याह – * तस्मिन्नपो मातरिश्वा दधातीति । तस्मिन्नवस्थितः अप्रतिबन्धानुगुणकाठिन्यादिरहितोऽपि वायुः अपो बिभर्ति । सर्वाधारभूतेन सर्वेश्वरेण विधृतस्स मातरिश्वा तच्छक्त्यैव पाथःपयोधरनक्षत्रग्रहतारकादिकं बिभर्तीत्युक्तं भवति । स्मर्यते हि –
द्यौस्सचन्द्रार्कनक्षत्रं खं दिशो भूर्महोदधिः । वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ (म.भा. अनु. १५६) इति ॥
पंचमो मन्त्र:
तदेजति तदुनैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्याऽस्य बाह्यतः ।। 5 ।।
वेदान्ताचार्यभाष्यम्
भगवतो विचित्रशक्तियोगस्यैव विवरणम्
अनेजदेकं मनसो जवीयः (ई.उ. ४) इत्युक्तमर्थमादरान्मुखान्तरेणानुशास्ति – तदेजति तदु नैजतीति । तत् – व्याप्तं
तत्त्वं पूर्वोक्तप्रकारेण जवीयस्त्वादिना एजति – कम्पते । कम्पत इवेत्यर्थः । तदु नैजति तदेव वस्तुवृत्त्या न कम्पते ।
तद्दूरे तद्वन्तिके तद्दूरेऽन्तिके च वर्तते । मूढप्रतिबुद्धपुरुषभेदापेक्षया विभोरेव दूरान्तिकवर्तित्वव्यपदेशः । यथाह शौनकः –
पराङ्मुखानां गोविन्दे विषयासक्तचेतसाम् । तेषां तत्परमं ब्रह्म दूराद्दूरतरे स्थितम् ॥
तन्मयत्वेन गोविन्दे ये नरा: न्यस्तचेतसः । विषयत्यागिनस्तेषां विज्ञेयं च तदन्तिके ॥ इति ।।(वि.ध्र.९९-१३,१४)
केचित्पदार्थाः कस्यचिदन्तर्भवन्ति न बहिः । केचिद्बहिर्भवन्ति, नान्तः। तदुभयव्यावृत्तिमाह – तदन्तरस्य सर्वस्य
तदु सर्वस्यास्य बाह्यत इति । तत् सर्वव्याप्तमुक्तं परं ब्रह्म । अस्य – विचित्रचिदचिद्रूपेण प्रमाणसिद्धस्य सर्वस्य वस्तुनः
अन्तर्भवति – अप्रतिघातादविभक्तदेशं वर्तत इत्यर्थः॥ तदेव सर्वस्यास्य बहिरपि भवति, परिमितानां पदार्थानां भावदेश
इवाभावदेशेऽपि वर्तत इति यावत् । तदेतद्व्यक्तमुक्तं तैत्तिरीये सर्वपरविद्योपास्यविशेषनिर्धारणार्थे सहस्रशीर्षम् (तै.ना. ९०) इत्यनुवाके –
* यच्च किञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा । अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः इति ॥(तै.ना. ९४)
तदेजति तदु नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥
षष्ठमन्त्र:
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ।। 6 ।।
वेदान्ताचार्यभाष्यम्
सर्वस्य ब्रह्मात्मकत्वानुसन्धाने प्रयोजनम्
एवं सर्वस्य ब्रह्मात्मकत्वमुक्तकम् । अथ तद्विदस्सांप्रतिकं प्रयोजनमाह – यस्तु जुगुप्सत इति ।
ब्रह्मविन्माहात्म्ये विशेषद्योतनाय तु शब्दः । सर्वाणि भूतानि – ब्रह्मादिस्थावरान्तानि । अत्रात्मशब्दस्सङ्कोचकाभावात्प्रकरणादर्थस्वभावाच्च सर्वान्तरात्मविषयः । पृथिव्यादिभिर्ध्रियमाणमपि तन्मुखेन परमात्मन्यवस्थितमित्येवकाराभिप्रायः ।
अनुपश्यति – अनुस्यूतं विशदं निध्यायति । सर्वभूतेषु चात्मानमिति व्याप्तिमात्रपरम्, तस्य तैर्धार्यत्वाभावात् ।
स इति प्रतिनिर्देशोऽध्याहार्यः । ततो न विजुगुप्सते – ब्रह्मताकत्वेनानुदृष्टेपु सर्वेषु स्वात्मविभूतिन्यायात्कुतश्चिदपि न
विजुगुप्सते । क्वचिदपि निन्दां न करोतीत्यर्थः ॥
सप्तमो मन्त्र:
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोकः एकत्वमनुपश्यतः ।। 7 ।।
वेदान्ताचार्यभाष्यम्
पुनरपि सर्वस्य ब्रह्मात्मकत्वं सामानाधिकरण्येन द्रढय(न्) ति तथानुदर्शनस्य सद्यश्शोकनिवर्तकत्वमाह –
यस्मिन् … पश्यत इति ।
जगत: ब्रह्मात्मकत्वेनानुसन्धानस्य फलम्
यस्मिन् – प्रणिधानसमये । विजानतः – स्वतन्त्रपरतन्त्रवस्तुभेदं सम्यगुपदिष्टेन मार्गेण
शास्त्रेण विविच्य जानतः । आत्मैव सर्वाणि भूतानि अभूत् – परमात्मैव सर्वविशिष्टः प्रतीत इत्यर्थः । देवोऽहम्
इत्यादिवल्लोकवेदमर्यादया शरीरात्मभावेन जगद्ब्रह्मसामानाधिकरण्ये संभवति बाधोपचारस्वरूपैक्यादिपक्षा बहिष्कार्याः ।
तत्र – तदा, को मोहः – स्वतन्त्रात्मभ्रमादिलक्षणो मोहो न संभवतीत्यर्थः ।
कश्शोकः – परविभूतिभूते सर्वस्मिन्निर्ममत्वसिद्ध्या पुत्रमरणराज्यहरणादावपि न कश्चिच्छोकस्स्यादित्यर्थः । यथाह –
* अनन्तं बत मे वित्तं यस्य मे नास्ति किञ्चन । मिथिलायां प्रदीप्तायां न मे किञ्चित्प्रदह्यते ॥ (म.भा.शां. १७-२२३)इति ।
एकत्वमनुपश्यतः – सर्वविशिष्टैक्यमनुपश्यतः । न ह्ययमेकशब्दः एकव्यतिरिक्ताभावपरः, ईशावास्यमिदं सर्वम् (ई.उ.१)
इति ईश्वरव्याप्तत्वेन प्रक्रान्तस्य कस्यचित्केनचिदपि बाधाभावात्, सर्वभेदमिथ्यात्ववेदनावेदनयोः कथञ्चिदपि तादृशैक्योप
देशादिप्रवृत्त्ययोगाच्च । न चासौ परस्परविरुद्धानां स्वरूपैक्यप्रतिपादकः, सर्वव्याघातोत्सादने स्वपरमतविवेकादिविप्लवप्रसङ्गात् ।
सिद्धान्ते सामानाधिकरण्योपपत्ति:
विशिष्टैकत्वविवक्षा तु सर्वप्रमाणानुगुण्याद्भाव्यते । ततोऽपि वरमत्र प्रकृतसामानाधिकरण्यनिर्वाहानुगुणसंबन्ध
विवक्षा । प्रयुज्यते हि संबन्धविशेषविवक्षया रामसुग्रीवयोरैक्यम् (रा.सु. ३५-५२) इत्यादिष्वेकशब्दः । एतौ च श्लोकौ यद्यपि मुक्तविषयतया नेतुं शक्यौ, तथापि पूर्वानुगुण्यान्मुमुक्षुप्रशंसार्थत्वमुचितम् ।
दर्शनशब्दार्थविवेथनम्
ततश्च वैशद्यातिशयविवक्षया शास्त्रजन्यज्ञानेन
तन्मूलोपासनात्मकज्ञानेन दर्शनवाचो युक्तिः । समाधिविशेषफलमूतस्त्वद्यतनसाक्षात्कार उपायत्वेनाभिहितत्वान्नात्र
प्रसंजयनीयः । मोक्षोपायोपदेशपरेषु सर्वेषु वाक्येषु दर्शनशब्द उपासनविषय इति शारीरकभाष्ये प्रत्यपादि ॥
अष्टमो मन्त्र:
स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयंभूर्याथातथ्यतोऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ।। 8 ।।
वेदान्ताचार्यभाष्यम्
वेदितव्यब्रह्मस्वरूपकथनम्
पुनरप्येनम् ईशेशितव्यतत्त्ववेदिनं वेदितव्यविशेषबोधनेन च विशिनष्टि स पर्यगात् समाभ्यः इति ।
सः – सर्वभूतान्तरात्मभूतब्रह्मदर्शी, पर्यगात् – प्राप्नुयादित्यर्थः । ब्रह्मविदाप्नोति परम् (तै.आ. २५) इति न्यायात्समाधि
लब्धेनानुभवेन प्राप्तवानिति सिद्धानुवादो वा, अत्र ब्रह्म समश्नुते (क.उ. ६-१४) इतिवत् । शुक्रम् – अदकाशप्रदातृरूपम् ।
अकायं – सर्वशरीरकमपि कर्मकृतशरीररहितम् । अत एव अव्रणम् अस्नाविरञ्च । शुद्धम् – अनाघ्राताज्ञानादिदोषम् ।
अपापविद्धम् – अज्ञानादिकार्यकारणभूतपुण्यापुण्यरूपकर्मानालीढमित्यर्थः । न सुकृतं न दुष्कृतम् (छां.उ. ८-४-१) इत्यारभ्य
सर्वे पाप्मानोऽतो निवर्तन्ते (छां. उ. ८-४-१) इति हि निगम्यते । एवमशेषहेयपत्यनीकः परमात्मा मुमुक्षोः प्राप्यः प्रापकः उपास्यश्च
इत्युक्तं भवति। सः इत्युक्तं ब्रह्मविदं सर्वार्थदर्शित्वादिना विशिनष्टि – कविः – क्रान्तदर्शी । व्यासादिवत्परतत्त्वतद्गुणबोधनानुगुणप्रबन्धनिर्मातेति वाऽर्थः । मनस ईशित्री बुद्धिः मनीषा, तद्वान् – मनीषी । अभ्यासवैराग्याभ्यां निगृहीतान्तःकरण इत्यर्थः । परितो भवतीति परिभूः विद्यान्तरवतः सर्वानतिक्रम्य वर्तते । कामक्रोध
लोभादीन् दुर्जयानरातीन् अभिभवतीति वा । स्वयंभूः – अन्यनिरपेक्षसत्ताकः, नित्यात्मस्वरूपदर्शीति यावत् । याथातथ्यतोऽर्थान् व्यदधात् – परमपुरुषार्थतदुपायतद्विरोधिप्रभृतीन् सर्वान् पदार्थान् यथावद्विविच्य हृदयेन धृतवान् ।
शाश्वतीभ्यस्समाभ्यः – यावद्बह्मप्राप्ति सर्वप्रत्यूहशमनार्थमिति भावः ।
योजनान्तरम्
यद्वा प्रथमान्तं च द्वितीयान्तं च पदजातं क्रमात्परावरात्मविषयतया व्याख्येयम् । तदा शुक्रम् इत्यादिकं सर्वोपाधिविनिर्मुक्तपरिशुद्धजीवपरम् । तमपि च, सः -परमात्मा, पर्यगात् परितो व्याप्य स्थितः । कविः इत्यादिकं सुगमम् । याथातथ्यत इत्यादि । अर्थान् – कार्यपदार्थान्, शाश्वतीभ्यस्समाभ्यः – यावद्विलयमवस्थातुं, याथातथ्यतो व्यदधात्, न पुनरैन्द्रजालिकवत्केवलं प्रकाशितवान् ॥
नवमो मन्त्र:
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायाँ रताः ।। 9 ।।
वेदान्ताचार्यभाष्यम्
एवं विचित्रशक्तिकपरमात्मविषयां कर्माङ्गिकां विद्यामुपदिश्यानन्तरं केवलकर्मावलम्बिनः केवलविद्यावलम्बिनश्च निन्दन् वर्णाश्रमधर्मानुगृहीतया विद्ययैव निश्श्रेयसावाप्तिमाह – अन्धं तमः प्रविशन्ति येऽविद्यामुपासत इत्यादिना ।
केवलकर्मनिष्ठस्य प्राप्तं फलम्
ये – भोगैश्वर्यप्रसक्ताः, अविद्यां – कर्म, ज्ञानविधुरकर्ममात्रम् । अविद्या कर्मसंज्ञाऽन्या तृतीया शक्तिरिष्यते (वि.पु. ६-७-६१) इति हि स्मर्यते । उपासते – एकान्तमनसोऽनुतिष्ठन्तीत्यर्थः । अन्धम् – अतिगाढम् । तमः – अज्ञानं,
त्रिवर्गाभिषङ्गान्नान्तरीयकं नारकं तमो वा । केवलकर्मनिरतानां दुःखानुवृत्तिमधीयते चाथर्वणिकाः ॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म ।
एतच्छ्रेयो येऽभिनन्दन्ति मूढाः जरामृत्यू ते पुनरेवापि यन्ति ॥(मु.उ.१-२-७)इति ।
केवलब्रह्मविद्यानिष्ठस्य प्राप्यं फलम्
ततो भूय इव ते तमो य उ विद्यायाँ रताः – कर्मात्रनिष्ठप्राप्यादन्धतमसादधिकं तमः
स्वाधिकारोचितकर्मपरित्यागेन विद्यामात्रे रताः प्रविशन्ति । इवशब्दस्तमस इयत्ताया दुर्ग्रहत्वं द्योतयति । उकार उत्तरत्रपदेनान्वेतव्यः – विद्यायामेव रताः इति ॥ ९
दशमो मन्त्र:
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ।। 10 ।।
वेदान्ताचार्यभाष्यम्
किं तर्हि मोक्षसाधनमित्यत्राह – अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यायेति । अत्र व्यत्ययानुशासनात्पञ्चम्यर्थे तृतीया; अन्यशब्दानन्वयात्, * अन्यदेवाहुस्संभवात् (ई.उ.१३) इति वक्ष्यमाणसारूप्याच्च । केवलकर्मणः कर्मनिरपेक्षविद्यातश्चान्यन्मोक्षसाधनमित्युक्तं भवति । आहुः – पूर्वाचार्या इति शेषः । औचित्यादुपनिषद इति वा । पूर्वपूर्वसम्प्रदायसिद्धोऽस्माकमयमर्थ इत्याह – इति शुश्रुम धीराणां ये नस्तद्वि चचक्षिरे – ये पूर्वाचार्याः नः प्रणिपातादिभिस्सम्यगुपसन्नानामस्माकम्, तत् – मोक्षसाधनम्, विचचक्षिरे – विविच्योपादिक्षन् । तेषां, धीराणां -परमात्मध्यानपराणां; वचनमित्यध्याहार्यम् । नटस्य शृणोतीतिवद्वा कथञ्चित्पञ्चम्यर्थे षष्ठी । इति शुश्रुम -एवंप्रकारमश्रौष्म । ब्रह्मविद्याया दुरवगाहत्वेन निश्शेषग्रहणाशक्यत्वाभिप्रायोऽत्र लिडुत्तमः ॥
एकादशो मन्त्र:
विद्यां चाविद्यां च यस्तद्वेदोभयँ सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ।। 11 ।।
वेदान्ताचार्यभाष्यम्
कर्मांगकविद्याया: एव मोक्षसाधनत्वम्
अन्यदिति संग्रहेणोक्तं विवृणोति – विद्याञ्चाविद्याञ्च यस्तद्वेदोभयँ सहेति । यः यथावस्थितोपदेशवान् विद्यापरमात्मोपासनरूपाम् अविद्यां तदङ्गभूतकर्मात्मिकां च एतदुभयं परस्परविरोधप्रसङ्गरहितम् । सह वेद – अङ्गाङ्गिनोरनुष्ठेयत्वसाम्यादुभयं सह वेदेति अविशेषेण वेदनीयतोक्तिः, न पुनर्हेयोपादेययोः ज्ञातव्यत्वसाम्यात् । पूर्वमविद्याया निन्दनात्तदौचित्यमिति चेत् तर्हि विद्याया अपि निन्दिताया
हेयद्वयसमुच्चयोक्तिप्रसङ्गः । तथा सत्युत्तरवाक्यमपि विघटते । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते इति । अयमर्थः – अविद्यया-विद्यांगतया चोदितकर्मणा मृत्युं – ज्ञानसङ्कोचरूपं मृत्युहेतुं प्राक्तनकर्म । तीर्त्वा – निरवशेषमुल्लङ्घ्य । विद्यया – पूर्वोक्तपरमात्मानुदर्शनरूपया । अमृतमश्नुते – एतदमृतमभयमेतद्बह्म (छा.उ.४-१५-१) इत्यादिषु सर्वदोषरहितत्वेन प्रतीतं परमात्मानं प्राप्नोतीत्यर्थः । अत्रामृतशब्दस्य मोक्षपरत्वेऽपि न पुनरुक्तिः, मृत्युं तीर्त्वेत्यस्य उपायविरोधितरणपरत्वात्, अमृतमश्नुते इति प्राप्तिविरोधिनिवृत्तिलाभोक्तेः । अत्र अविद्यया मृत्युं प्राप्य स्थिताः इति व्याचक्षाणाः निर्बाधं पदवाक्यस्वारस्यमुपबृंहणं च प्रस्मृत्य स्वाविद्यया स्वयमेव मृत्युं प्राप्य स्थिताः ।
विद्यांगकर्मणोरंगांगिभावे पुराणसम्मति:
एतदेव वाक्यमनुसंहितं वैष्णवे पुराणे –
इयाज सोऽपि सुबहून्यज्ञान् ज्ञानव्यपाश्रयः ।
ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमविद्यया ॥ (वि.पु. ६-६-१२) इति ।
इह त्वविद्याशब्दः प्रकरणादौचित्याच्च विद्याङ्गकर्मविषय इत्यभाषि भाष्यकारैः अत्राविद्याशब्दाभिहितं
वर्णाश्रमविहितं कर्मेति, मृत्युतरणोपायतया प्रतीताऽविद्या विद्येतरद्विहितं कर्मैव – इति च । विद्यां पर्युदस्यन्नयमविद्याशब्दः क्षत्रियादिविषयाब्राह्मणशब्दादिवदासन्नतदनन्तरवृत्तिरङ्गकर्मविषय इति भावः ।
एवं-
तपो विद्या च विप्रस्य निःश्रेयसकरावुभौ । तपसा कल्मषं हन्ति विद्ययाऽमृतमश्नुते ॥(म.स्मृ. १२-१०४)
इत्याद्युपबृंहणान्यपि सुसंगतानि भवेयुः ।
यादवप्रकाशमतम्
ये पुनरिह विद्याकर्माख्यसाधनद्वयसमुच्चयं मृत्युतरणामृतत्वप्राप्ति
रूपसाध्यद्वित्वं च वर्णयन्ति, तेषां कर्मज्ञानयोरङ्गाङ्गिभावं विद्ययैव मृत्युतरणं च व्यक्तं प्रतिपादयद्भिः श्रुतिस्मृतिसूत्रगणैर्यथाभाष्यमुत्तरं देयम् । विषमसमुच्चयवादेऽपि यथाभागं सन्निपत्योपकारकत्वसंभवे गत्यन्तरगमनिका नीतिविद्भिर्न संमन्यते ॥
द्वादशो मन्त्र:
अन्धं तमः प्रविशन्ति येऽसंभूतिमुपासते ।
ततो भूय इव ते तमो य उ संभूत्याँ रताः ।। 12 ।।
वेदान्ताचार्यभाष्यम्
तदेवमुपास्यं परमात्मतत्त्वं साङ्गतदुपासनरूपं च परमहितं परमपुरुषार्थपर्यन्तमुपदिश्यानन्तरं त्रिभिश्श्लोकैः
प्रतिबन्धनिवृत्तिपरब्रह्मानुभवरूपयोः फलपर्वणोस्समुच्चित्यानुसन्धानं विद्याङ्गत्वेनोपादेयमित्युच्यते ।
सम्भूतिविनाशयोरेकैकानुसन्धानस्य निन्दा
तत्र प्रथममेकैकमात्रानु सन्धानं निन्दति – अन्धं तमः … रता इति । एतमितः प्रेत्याभिसंभविताऽस्मि (छां.उ.३-१४-४) धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसंभवामि (छां.उ. ८-१३-१) इत्यादिषु ब्रह्मप्राप्तिरूपा संभूतिरुक्ता । तां पर्युदस्यन्नयमसंभूतिशब्दः तदासन्नप्रतिबन्धविनाशमभिधत्ते । संभूतिं च विनाशं च इत्यपि हि अनन्तरमुच्यते । तेन चात्रासंभूतिशब्देन संभूतेरनुत्पत्तिः विनाशो वा प्रतिपाद्यः । अमृतप्राप्तिहेतुतयोक्तायास्संभूतेः प्रागभावस्य प्रध्वंसस्य वा मृत्युतरणहेतुत्वेन वक्तुमयुक्तत्वात् ।अत्रापि तरतेः प्राप्तिवचनत्वं पूर्ववत्प्रतिक्षेप्यम् ॥
त्रयोदशो मन्त्र:
अन्यदेवाहुः संभवादन्यदाहुरसंभवात् ।
इति शुश्रुम धीराणां ये नस्तद्व्याचचक्षिरे ।। 13 ।।
वेदान्ताचार्यभाष्यम्
अन्यदेव .. तद्व्याचचक्षिरे इति । अत्र तच्छब्दस्समुच्चित्यानुसन्धेयतया वक्ष्यमाणद्वितयं वक्ति ।
चतुर्दशो मन्त्र:
संभूतिं च विनाशं च यस्तद्वेदोभयँ सह ।
विनाशेन मृत्युं तीर्त्वा संभूत्याऽमृतमश्नुते ।। 14 ।।
वेदान्ताचार्यभाष्यम्
अत्रापि अन्यत् इत्युक्तं विवृण्वन्विद्याङ्गमुभयानुसन्धानमाह – संभूतिं … सहेति। तस्यैव फलप्रदर्शनेनावश्यकर्तव्यातां स्थापयति -विनाशेन …. मश्नुते इति । अनुसन्धीयमानेन विनाशेन प्रतिबन्धमपोह्य, संभूत्या अनुसन्धीयमानया ब्रह्म प्राप्नोति । संभूतिविनाशानुसन्धानरूपेऽङ्गे स्तुत्यर्थम् । यथोचितमङ्गिफलनिर्देशः ।
योजनान्तरम्
यद्वा विनाशेन मृत्युं तीर्त्वा इति पूर्वोक्तसरूपशब्दे विरूपार्थपरिहाराय विनाशशब्देन मानदम्भादीनां हिंसास्तेया
दीनां बहिर्मुखेन्द्रियवृत्तीनां च विनाशो विवक्षितः । अतो विरुद्धनिवृत्तिरूपाङ्गसेवनेन समाधिविरोधिपापमपाकृत्य समाधि
निष्पत्तिरूपब्रह्मसंभूत्या तदेवाश्नुते । अत्र संभूतिविनाशशब्दाभ्यां सृष्टिप्रलयादिविवक्षया मृत्युतरणामृतप्राप्तिरूप
फलविभागवचनस्यौचित्यलवोऽपि नोपलभ्यते ॥
पंचदशो मनत्र:
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ।। 15 ।।
वेदान्ताचार्यभाष्यम्
अथैवं फलपर्यन्तसाङ्गब्रह्मविद्यानिष्ठस्यानुसन्धेया मन्त्रा उपदिश्यन्ते । तेषु च पूषादिशब्दास्सर्ववाच्यं परमात्मानमनुसन्दधतां तद्देवताप्रणाड्या साक्षाद्वा तत्पर्यन्ताः । अत्र हि यमसूर्यादिशब्दानामेकविषयत्वं स्वरसावगतं तथा
सत्येवोपपद्यते । तत्र प्रथमेन मन्त्रेण पूषन्शब्दविवक्षितं भगवन्तं प्रति प्रस्तुतां समाधिप्रतिबन्धनिवृतिं प्रार्थयते – * हिरण्मयेन … दृष्टये।
सत्यशब्दोऽत्र जीवपरः, सत्यं चानृतं च सत्यमभवत्, (तै.आन.६-३) अथ नामधेयं सत्यस्य सत्यं
प्राणा वै सत्यं तेषामेष सत्यमित्यादिषु (बृ.उ. ४-३-६) जीवेऽपि तत्प्रयोगात् । तस्य मुखम् – अनेकेन्द्रियावष्टम्भतया मुखवदवस्थितं
मनः, हिरण्मयेन पात्रेण अपिहितं – रागात्मकतया हिरण्मयसदृशेन रजोमयेन पात्रेण परमात्मविषयवृत्तिप्रतिरोधकेन च्छादितम् । हृदि सन्निहिते परमात्मविषये निरुद्धवृत्तिकमित्यर्थः । रजःकथनं तमसोऽप्युपलक्षणम् । हिरण्मयशव्देन
कर्माधीनभोग्यवर्गप्रदर्शनम् । तत् जीवस्य मुखस्थानीयं मनः, पूषन् – आश्रितपोषणस्वभाव, अपावृणु – निरस्तपिधानं
कुरु । कस्य हेतोः ? सत्यधर्माय दृष्टये – सत्यत्य जीवस्य धर्मभूताय पूर्वोक्तब्रह्मानुदर्शनायेत्यर्थः ॥
षोडशो मनत्र:
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजो
यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरूषः सोऽहमस्मि ।। 16 ।।
वेदान्ताचार्यभाष्यम्
पुनरपि तया दृष्ट्या द्रष्टव्यं विशिंषन् दृष्ट्यानुगुणमभ्यर्थयते – पूषन्नेकर्षे … पश्यामि इति ।
एकर्षे -अद्वितीयातीन्द्रियद्रष्टः, यम – सर्वान्तर्यामिन्, सूर्य – स्वभक्तबुद्धीनां सुष्ठु प्रेरक,
प्राजापत्य – प्रजापतिप्रसूतस्य सर्वस्यान्तर्यामिन्, अविवक्षितप्रत्ययार्थो वा प्राजापात्यशव्दः, प्रजानां पते इत्यर्थः ।
व्यूह रश्मीन् समूह तेजः – स्वस्वरूपप्रकाशनौपयिकान् स्वोग्ररश्मीन्, व्यपोह, प्रभात्मकं च तेजस्समूहीकुरु ।
यत् आदित्यवर्णम् (तै.ना. १२) इत्यादि प्रसिद्धं सर्वेभ्यः कल्याणेभ्योऽतिशयितकल्याणं शुभाश्रयभूतं ते दिव्यं रूपं, तत् पश्यामि । अत्र वर्तमानव्यपदेशः उत्तरवाक्यवत्तात्कालिकानुसन्धानानुवादः । प्रार्थनाप्रकरणानुरोधे तु व्यत्ययेन पश्येयमिति लिङर्थोऽत्र ग्राह्य इत्यपुनरुक्तिः ।तदा साधारण्यज्ञापनार्थं सदा प्रश्यामीति वा निरुपाधिकशेषत्वानुगुणोक्तिः।
परगात्मनोऽनुसन्धानप्रकार:
अथान्तरात्मनोऽहंग्रहणेनानुसन्धानमाह – * योऽसावसौ पुरुषस्सोऽहमस्मि इति । वीप्सा -अत्यादरव्यञ्जनार्था ।
यद्वा योऽसावतीन्द्रियग्राह्यस्सूक्ष्मोऽव्यक्तस्सनातनः । सर्वभूतमयोऽचिन्त्यस्स एष स्वयमुद्बभौ ॥ (म.स्मृ.१-७)
इत्यादिवाक्यच्छायया यत्तच्छब्दाभ्यामदश्शब्दौ विभज्यान्वेतव्यौ; सर्वातीन्द्रयप्रमाणसिद्धत्वद्योतनार्थो ।
पुरुषः -पूर्णत्वपूर्वसत्त्वादिगुणकः आदित्यवर्णविग्रहविशिष्टः सर्ववेदपठितानन्यपरपुरुषसूक्तादिप्रसिद्धो महापुरुषः॥
सोऽहमस्मि – अहंशब्दोऽत्र जीवद्वारा तदन्तरात्मपर्यन्तः । अत एवास्मीत्यपि प्रत्यग्रूपस्वविशिष्टे परमात्मनि विश्राम्यति। अस्मद्युत्तमः (पा.सू. १-४-१०७) इत्येतावदेव ह्यनुशिष्टम् । न पुनरस्मच्छब्दस्य प्रत्यगात्मद्वारा परमात्मपर्यन्ततायामुत्तमनिवृत्तिः।
एवं तत्त्वमसि (छा.उ. ६-८-७) इत्यादिषु असिशब्दो निर्वाह्यः । तत्र हि युष्मद्युपपदे समानाधिकरणे स्थानिन्यपि मध्यमः (पा.सू. १-४-१०५) इत्येतावदेव हि स्मर्यते। न तु युष्मच्छब्दस्य स्वाभिमुखचेतनद्वारा तदन्तर्यामिपर्यन्तत्वे मध्यमनिवृत्तिः । लोके हि
अहं त्वमस्मि, त्वमहमसि इत्याद्युपचारेषूद्देश्यानुसरेण मध्यमोत्तमयोर्व्यवस्था । तद्वदत्रापि (त्वं वा अहमस्मि भगवो देवते इत्यादिषु युष्मदस्मदो: सहप्रयोगोऽपि) व्यवस्थोपपद्यते, उद्देश्यविषययोरेवात्र युष्मदस्मच्छब्दयोरुपपदत्वेन सूत्रपदाभिप्रेतत्वात् ।
भाष्ये तु तत्त्वमसिनिरूपणावसरे * नात्र किञ्चिदुद्दिश्य किमपि विधीयते (श्रीभाष्ये-१-१-१) इत्युक्तिरप्राप्तांशनिषेधाभिप्राया व्यक्ता, उपसंहारत्वोपपादनात् ।
शांकरमते मध्यमोत्तमपुरुषानुपपत्ति:
ये पुनः तत्वमसि (छा.उ.६-८-७) सोऽहमस्मि इत्यादिषु कार्यकारणोपाध्याकारविधूननेन निर्विशेषस्वरूपैक्यं वाक्यवेद्यमाहुः ,तेषाम्
असिवदस्मिरपि खण्डकः । श्रोतर्यनुसन्धातरि च युष्मदस्मदी हि परित्यक्ते न ह्यसिना कश्चित्प्रतिबोधनीयः।न च कश्चिदस्मिना विशिष्यानुसन्धेयः।
विधूननीयोपाधिविषयव्युत्पत्तिमच्छब्दसन्निधिमात्रोपजीवनेन कथञ्चिन्मध्यमोत्तमसंपत्तिरिति चेत्
ततो वरमपरित्यक्तप्रवृत्तिनिमित्तमस्माकं निर्वहणमनुसर्तुम् ।
यादवप्रकाशमते मध्यमोत्तमपुरुषानुपपत्ति:
सन्मात्रस्यांशिनोंऽशद्वयविशिष्टताप्रतिपादनं वदतामपि
सन्मात्रविवक्षाया वाक्ये त्वमहंभावायोगात्, त्वंताहंताविशिष्टं सदिति विशिष्टविवक्षायामपि प्रथमपुरुषोपनिपात
प्रसङ्गात् । दृश्ययोश्च युष्मदस्मदर्थयोर्मृत्पिण्डांशे मणिक इव घटशरावाकारयोस्सदंशभूतेश्वराकारेऽपि समन्वययोगात् त्वमहमर्थयोस्सत्ताद्याकारस्य नित्यप्रतिपन्नतया विशेषतोऽनिर्देश्यत्वादननुसन्धेयत्वाच्च न कथञ्चिदपि तत्त्वमसि (छा.उ.६-८-७)
सोऽहमस्मि इत्यादेर्निर्वाहश्शक्यः । दृष्टिविधिस्तु मोक्षार्थविद्यासु वेदान्तवादिना नाङ्गीक्रियते ।
यद्यप्यत्र त्वं राजासि अहं राजास्मि इत्यादिवत्तादधीन्याद्युपचारविवक्षया मध्यमोत्तमयोस्सामञ्जस्यं, तथापि लोकवेदयो
श्चेतनपर्यन्तदेवमनुष्यादिव्यवहारन्यायेन जातिगुणशब्दगतिलाभात्तदुपेक्षा ।
नन्वेवं पुरुषाख्यस्वेतरात्मसामानाधिकरण्य
क्लेशं परित्यज्य * योऽसावसौ पुरुषस्सोऽहमस्मि इति परिशुद्धस्वरूपमात्रानुसन्धानपरमिदं वाक्यमस्तु; मैवं,
तत्त्वमसि (छा.उ.६-८-७) त्वं वा अहमस्मि (वरा. उ. २-३४) इत्यादिषु तदनुपपत्तेः ; अत्रापि तत्समानन्यायतया तथैवानुसन्धानस्यौचित्यात् ।
ब्रह्मात्मकोऽहमस्मि इति परविद्याङ्गभूतस्वात्मानुसन्धानपरत्वेऽपि तच्छब्देन तादधीन्यादिकं लक्षणीयं स्यात् ॥
सप्तदशो मन्त्र:
वायुरनिलममृतमथेदं भस्मान्त्ँशरीरम् ।
ओं क्रतो स्मर कृतँ स्मर क्रतो स्मर कृतँ स्मर ।। 17 ।।
वेदान्ताचार्यभाष्यम्
वायुवादिशब्दानां प्रत्यगात्मपरत्वम्
अनन्तरं तु परिशुद्धात्मस्वरूपमुच्यते – वायुरनिलममृतम् – इति । विद्याकर्मानुसारेण तत्रतत्र गन्तृत्वाद्वायुः । निलयनरहितत्वात् क्वचिदपि व्यवस्थितत्वाभावाच्च अनिलम् । अमृतं – म्रियमाणेऽपि देहसन्ताने स्वयममृतम् । इदं विजरत्वादीनामप्युपलक्षणम्, परिशुद्वजीवविषये प्रजापतिवाक्यं विजरो विमृत्युर्विशोकः (छा.उ. ८-७-१) इत्यादि-सहपाठात् ।
अत्र वायुश्चान्तरिक्षं चैतदमृतम् (बृ.उ. ४-३-३) इत्यादि परामर्शाद्वाय्वादिशब्दानां भूतद्वितीयविषयत्वं न शङ्क
नीयम्, पूर्वापराभ्यामसङ्गतेः । यद्यप्यमीषां परमात्मविषयत्वं विशिष्टवृत्त्या योगतो वा युज्यते, तथापि वरमिह
नश्वरस्य देहस्यानन्तरं वचनात्तद्व्यावृत्तप्रत्यगात्मपरत्वम्; प्राणविषयत्वेऽप्यत्र मन्दं प्रयोजनम् ।
श्वेताश्वतरीयाश्च भोग्यभोक्तृनियन्तॄणां विवेचने भोक्तृशब्दविवक्षितप्रत्यगात्मानममृतशब्देनामनन्ति
क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः (श्वे.उ. १-१०) इति,
क्षरं त्वविद्या ह्यमृतं तु विद्या विद्याविद्ये ईशते यस्तु सोऽन्यः (श्वे.उ. ५-१) इति च ।
क्षरागमृतशब्दवाच्यौ शरीरशरीरिणौ
एवं प्रत्यगात्मस्वरूपस्य न जायते म्रियते वा विपश्चित् (क.उ. २-१८) इत्यादिप्रसिद्धममृतत्वमभिधाय क्षेत्रज्ञशरीरस्य मृतत्वमवश्यं भावी
त्याह – अथेदं भस्मान्तं शरीरमिति ।
प्रकृतादर्थादर्थान्तरविवक्षयाऽत्राथशब्दः । आत्मोत्क्रमणानन्तर्यार्थो वा ।कर्मवश्यतकार्त्स्न्यपरो वा । तथा च स्मर्यते –
गङ्गायां सिकता धारा यथा वर्षति वासवे ।
शक्या गणयितुं लोके न व्यतीताः पितामहाः ॥ (द.स्मृ.)
इति, ब्रह्मादिषु प्रलीनेषु (परा.स्मृ.) इत्यादि च ।
इदमिति विशेषणम् ईश्वरशरीरत्वेन नित्यत्वेन च प्रमाणसिद्धानां व्यवच्छेदार्थम् । भस्मान्तमिति संस्कारमात्रव्यञ्जकम्; कीटान्तत्वादेरन्यत्र प्रसिद्धस्योपलक्षणं वा ।शरीरशब्दे व्युत्पत्तिनिमित्तानुसारे विशरणस्वभावत्वं गम्यते । एवं * भोक्ता भोग्यं प्रेरितारं च मत्वा (श्वे.उ.१-१२) इति क्रमेण चिदचिद्विवेकमुक्त्वा प्रेरितारं प्रकृतं महापुरुषं प्राणवेनोपादत्ते – ओमिति । यथाऽऽमनन्त्याथर्वणाः * यः पुनरेतं
त्रिमात्रेण ओमित्येतेनैवाक्षरेण परमपुरुषमभिध्यायीत (प्र.उ.५-५) इति । उक्तं च योगानुशासने – क्लेशकर्मविपाकाशयैरपरामृष्टः
पुरुषविशेष ईश्वरः स पूर्वेषामपि गुरुः कालेनानवच्छेदात् तस्य वाचकः प्रणवः (पा.यो.सू.१-२४,२६,२७) इति । आह च सर्वज्ञः –
ओमित्येवं सदा विप्राः पठध्वं ध्यात केशवम् (हरिवं. वि. १३३-१०) इति । स्वयं चागायत् ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्
(भ.गी. ८-१३) इति । एवं सर्वत्र द्रष्टव्यम् ।
अथ क्रतुरूपिणं भगवन्तं ज्ञानयज्ञगोचरमभिमुखीकुर्वंस्तदनुग्रहं याचते – क्रतो स्मर कृतं स्मरेति । क्रतो – क्रत्वात्मक । यथाऽऽह -अहं क्रतुरहं यज्ञः (भ.गी. ९-१६) इति । यथाक्रतुरस्मिल्लोके पुरुषो भवति तथेतः प्रेत्य भवति – स क्रतुं कुर्वीत (छा.उ.३-१४-१) एवं क्रतुर्ह (अग्नि.र.१-१०-६) इत्यादिष्विवात्रापि प्रकरणादेव क्रतुशब्द: उपासनपरो वा ।तद्गोचरे तु भगवति तच्छब्द उपचारात् ।
स्मर – सानुग्रहया बुद्ध्या विषयीकुरु, स्नेहपूर्णेन मनसा यन्नः स्मरसि केशव इति वत् । उक्तञ्च भगवता स्थिते मनसि (वरा.च.श्लो.) इत्यारभ्य
ततस्तं म्रियमाणं तु काष्ठपाषाणसन्निभम् ।
अहं स्मरामि मद्भक्तं नयामि परमां गतिम् ॥ (वरा.च.श्लो.)
इति । सर्वदा सर्वं साक्षात्कुर्वतः स्मर्तृत्ववचनमिह पूर्वकृतप्रत्यवेक्षाणाभिप्रायम् ।
कृतं स्मरेत्यत्रापि तथैव विवक्षा । मत्कृतं यत्किञ्चिदनुकूलमनुसन्धाय कृतज्ञस्त्वं मां रक्षेति भावः । एतावदन्तं त्वत्कृतमानुकूल्यं प्रतिसन्धाय त्वमेव शेषपूरणं कुर्विति वा । स्मरन्ति हि जायमानं हि पुरुषम् (म.भा. शां. ३५८) इत्यादि ।स्वयमप्याह – तेषां सततयुक्तानामित्यादि (भ.गी. १०-१०)। क्रतो स्मर कृतं स्मर इत्यावृत्तिरुक्तार्थे त्वरातिशयात् ॥
अष्टादशो मन्त्र:
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम ।। 18 ।।
वेदान्ताचार्यभाष्यम्
पुनरप्यग्निशब्दवाच्यं भगवन्तं स्वापेक्षितं प्रापयेत्याह – अग्ने नय सुपथा राये अस्मान्विश्वानि दव वयुनानि
विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नम उक्तिं विधेम – इति ॥
अग्ने – अग्निशरीरक, यस्याग्निश्शरीरम् (बृ.उ. ५-७-९) इत्यन्तर्यामिब्राह्मणम् । साक्षादप्यविरोधं जैमिनिः (ब्र.सू. १-२-२९) इति न्यायात् अग्रनयनादिगुणयुक्तेति वा । नय -प्रवर्तयेत्यर्थः । सुपथा – शोभनेन मार्गेण । प्रतिषेधस्पर्शरहितेनोपायेनेति यावत् । राये – विद्यार्थशरीरसंरक्षणत्वदर्चनाद्यानुगुणाय धनाय । यद्वा अर्थप्रकरणानुगुण्यात्-
अतस्करकरग्राह्यमराजकवशंवदम् ।
अदायादविभागार्हं धनमार्जय सुस्थिरम् ॥ (या.स्मृ.२-४०)
अनन्तं बत मे वित्तम् (म.भा.शां. १७-२२३) इत्यादिषूक्तमलौकिकं धनमिह विवक्षितम् । एक एव मन्त्रः प्रकरणादिभिर्विशेषित स्तत्तदनुगुणमर्थं विवक्षतीति सम्यङ्न्यायविदः। अस्मान् – त्वदनन्यभावान् अनन्यगतीश्च । विश्वानि देव वयुनानि विद्वान् – देव अस्मदपेक्षितप्रदानानुरूपविचित्रक्रीडायुक्त । * माया वयुनं ज्ञानम् (निघण्टु: ३-९) इति नैघण्टुकाः । अतो ज्ञानमुखेन उपायविशेषा इह वयुनशब्देन विवक्षिताः । सर्वान् – तत्तदधिकारानुगुणान्। चतुर्विधपुरुषार्थोपायान् यथावत् विद्वान् त्वमविदुषोऽस्मान् नेतुमर्हसीति भावः ।
युयोध्यस्मज्जुहुराणं – बन्धनात्मकतया अचिन्त्यप्रकारकौटिल्यवत्तया वा बाधमानमित्यर्थः। एनः – अकृत्यकरणकृत्याकरणादिरूपं त्वदनुभवादिप्रतिबन्धकम्, अस्मत्तो युयोधि- पृथक्कुरु, विनाशयेत्यर्थः।
अभीष्टसाधिकाया: प्रमतेर्विधानम्
भूयिष्ठां ते नम उक्तिं विधेम – अनन्यगतिः इत्यादिगुणैरावृत्तितश्च भूयसीं नम उक्तिं ते विदध्महे । व्यत्ययो हि बहुलमनुशिष्टः । नम उक्तेरनुवृत्तिं वा नाथं प्रति नाथते । नम इत्येव वादिन (म.भा.शां. ३३७-३४०) इति हि मुक्तलक्षणा अपि पुरुषाः मोक्षधर्मे प्रतिपादिताः। मानसकायिकयोर्नमसोरभावेऽपि नमश्शब्दमात्रेण प्रसत्तुमर्हतीत्युक्तिशब्दाभिप्रायः । एवं परतत्त्वतद्विभूतियोगतदुपासनतद्विशेषान् संगृह्य संहितेयं समपूर्यत ॥
व्यक्ताव्यक्ते वाजिनां संहितान्ते व्याख्यामित्थं वाजिवक्त्रप्रसादात् ।
वैश्वामित्रो विश्वमित्रं व्यतानीद्विद्वच्छात्रप्रीतये वेङ्कटेशः ॥
अभेदं भोक्तॄणामथ च भविनामेव परतां तथा भेदाभेदं जिनसुगतनीतिं च जगति ।
असंपाद्यां मुक्तिं भवभयमलीकं च पठतामसावीशेत्यादिर्न कथमनुवाकः प्रतिभटः ॥
इति कवितार्किकसिंहस्य सर्वतन्त्रव्यतन्त्रस्य श्रीमद्वेङ्कटनाथस्य श्रीमद्वेदान्ताचार्यस्य कृतिषु
ईशावास्योपनिषद्भाष्यं समाप्तम् ॥
|| श्रीरस्तु ||
*****
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ।। |
ओम् शान्तिः शान्तिः शान्तिः
*******************