कठोपनिषत् – चतुर्थी वल्ली

कठोपनिषत्

 चतुर्थी वल्ली

पराञ्चि खानि व्यतृणत् स्वयंभूः तस्मात् पराङ्पश्यन्ति नान्तरात्मन् ।

कश्चिद्धीरः प्रत्यगात्मानमैक्षदावृत्तचक्षुरमृतत्वमिच्छन् ।। १ ।।

चतुर्थीवल्लीप्रकाशिका

‘उत्तिष्ठत जाग्रत’ इति प्रोत्साहनेऽपि आत्मस्वरूपविमुखान् पश्यन् शोचति पराञ्चि इति । खानि – इन्द्रियाणि, पराञ्चि परान् अञ्चतीति पराञ्चि, परप्रकाशकानि, न तु आत्मप्रकाशकानि । तत्र हेतुं वदन् शोचति व्यतृणत्स्वयंभूः – स्वतन्त्र ईश्वरः इमानि खानि हिंसितवान् । ‘तृह्  हिंसायाम् (धा.पा.१४४७) इति धातुः । यद्वा धातूनाम् अनेकार्थत्वात् परार्थप्रकाशकानि इन्द्रियाणि सृष्टवान् इत्यर्थः । तस्मात् पराङ्पश्यन्ति नान्तरात्मन् – पराङ् पराचा इति यावत् । पराग्रूपान् अनात्मभूतान् पश्यन्ति – उपलभन्ते । अन्तरात्मानं न इत्यर्थः । यद्वा – पराङ्भूतानि भूत्वा विषयानेव पश्यन्ति इत्यर्थः । पराङ् पश्यति इति पाठे लोकाभिप्रायम् एकवचनम् । ईदृशेऽपि लोकस्वभावे नद्याः प्रतिस्रोतः प्रवृत्त इव कश्चित् पुरुषधौरेयः प्रत्यगात्मप्रवणोऽपि अस्तीत्याह – कश्चिद्धीरः इति । प्रत्यञ्चमात्मानं पश्यतीत्यर्थः । छान्दसं परस्मैपदम् । अत एव वर्तमानार्थे लङ् उपपत्तिश्च । चक्षुश्शब्दः इन्द्रियमात्रपरः । स्वस्वविषयव्यावृत्तेन्द्रियो मुमुक्षुः इत्यर्थः ।। १ ।।

पराच: कामान् अनुयन्ति बालास्ते मृत्योर्यन्ति विततस्य पाशम् ।

अथ धीरा अमृतत्त्वं विदित्वा ध्रवमध्रवेष्विह न प्रार्थयन्ते ।। २ ।।

पराचः इति । बाला: – अल्पप्रज्ञा: बाह्यान् काम्यमानान् विषयानेव अवगच्छन्ति । ते – विस्तीर्णस्य बन्धनं यान्तीत्यर्थः । यद्वा – विततस्य – सर्वत्र अप्रतिहताज्ञस्य मृत्योः मम पाशं यान्ति इत्यर्थः । अथ धीराः इति । अथशब्दः प्रकृतविषयार्थान्तरपरिग्रहे । धीमन्तः प्रत्यगात्मन्येव ध्रुवम् – अमृतत्वं विदित्वा, इह – संसारमण्डले, अध्रुवेषु पदार्थेषु, कमपि न प्रार्थयन्ते । प्रत्यक्तत्त्वज्ञस्य सर्वं जिज्ञासितव्यम् इति भावः । परमात्मनः सर्वजीवगताहन्तास्पदत्वेन मुख्याहमर्थत्वात्, प्रत्यक्त्वमस्तीति द्रष्टव्यम् ।। २ ।।

येन रूपं रसं गन्धं शब्दान् स्पर्शाश्च मैथुनान् ।

एतेनैव विजानाति किमत्र परिशिष्यते ।। एतद्वै तत् ।।३।।

येन इति । मैथुनान् – मिथुननिमित्तकसुखविशेषान् इत्यर्थः । निश्शेषं येन – एतेनैव साधनेन जानाति इत्यर्थः । ‘तं देवा ज्योतिषां ज्योति:’ (बृ.उ.६-४-१६) इति रूपादिप्रकाशकानाम् इन्द्रियाणां तदनुगृहीतानामेव कार्यारम्भकत्वात् इति भावः । किमत्र परिशिष्यते – किं तत् अप्रकाश्यम् ? इति भावः । एतद्वै तत् – पूर्वं प्राप्यतया निर्दिष्टं तत्परमं पदं, एतद्वै – एतदेव, एतन्मन्त्रप्रतिपाद्यात्मस्वरूपमेव इत्यर्थः ।। ३ ।।

स्वप्रान्तं जागरितान्तं चोभौ येनानुपश्यति ।

महान्तं विभुमात्मानं मत्वा धीरो न शोचति ।। ४ ।।

स्वप्नान्तम् इति । सकलं स्वाप्नप्रपञ्चं जाग्रत्प्रपञ्चं च, मन आदि इन्द्रियभावमापन्नेन येन परमात्मना, लोकः पश्यति इत्यर्थः । महान्तम् इत्यत्र तम् इति शेषः । उक्तोऽर्थः ।। ४ ।।

य इदं मध्वदं वेद आत्मानं जीवमन्तिकात् ।

ईशानं भूतभव्यस्य न ततो विजुगुप्सते ।। एतद्वै तत् ।। ५ ।।

य इदं मध्वदम् इति । इदम् इति लिङ्गव्यत्ययः छान्दसः । इमं मध्वदम् – ‘ऋतं पिबन्तौ’ (क.उ.३-१) इति निर्दिष्टम्, कर्मफलभोक्तारं जीवात्मानम्, ‘गुहां प्रविष्टौ’ (ब्र.सू. १-२-११)  इत्युक्तरीत्या तस्यान्तिके कालत्रयवर्तिचिदचिदीश्वरं च यो वेद, तं दुष्कृतकारिणमपि न निन्देदित्यर्थः । ‘गुप्तिज्किभ्द्यस्सन् ‘ (पा.सू.३-१-५) इत्यत्र जुगुप्साशब्द: निन्दार्थकः उक्तः । ‘जुगुप्साविरामप्रमादार्थानाम्’ (वा.१०७९) इति पञ्चमी । एतद्वै तत् इति पूर्ववत् ।। ५ ।।

यः पूर्वं तपसो जातमभ्द्य: पूर्वमजायत ।

गुहां प्रविश्य तिष्ठन्तं यो भूतेभिर्व्यपश्यत ।। एतद्वै तत् ।। ६ ।।

यः पूर्वं तपसो जातम् इति । ‘अप एव ससर्जादौ तासु वीर्यमपासृजत् । तदण्डमभवद्धैमं सहस्रांशु समप्रभम् । तस्मिन् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः’। (म.स्मृ.१-८,९) इति स्मृत्युक्तरीत्या अभ्द्य:  अपादानेभ्य: व्यष्टिसृष्टे: पूर्वं य: अजायत, तं तपसः – संकल्पमात्रादेव, पूर्वं जातम् – ‘यो देवानां प्रथमं पुरस्ताद्विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भ पश्यत जायमानम्’ (महा.ना.८४) इति श्रुत्युक्तरीत्या प्रथमं जातम्, गुहां प्रविश्य तिष्ठन्तम् – हृदयगुहां प्रविश्य वर्तमानम्, भूतेभि:- भूतैः देहेन्द्रियान्तःकरणादिभिः उपेतं चतुर्मुखम्, अयं सकलजगत्स्रष्टा स्यात् इति कटाक्षेण ऐक्षत इत्यर्थः । एतद्वै तत् – उक्तोऽर्थः ।। ६ ।।

या प्राणेन सम्भवत्यदितिर्देवतामयी ।

गुहां प्रविश्य तिष्ठन्ती या भूतेभिर्व्यजायत । एतद्वै तत् ।। ७ ।।

या प्राणेन इति । अयं च मन्त्रः, ‘गुहां प्रविष्टौ’ (ब्र.सू. १-२-११) इति सूत्रे, भगवता भाष्यकृता व्याख्यातः । इत्थं हि भाष्यकृता ‘कर्मफलानि अत्तीति अदिति: जीव उच्यते । प्राणेन सम्भवति – प्राणेन सह वर्तते देवतामयी- इन्द्रियाधीनभोगा । गुहां प्रविश्य तिष्ठन्ति = हदयपुण्डरीककुहरवर्तिनी-भूतेभिर्व्यजायत – पृथिव्यादिभिः भूतैः सहिता देवादिरूपेण विविधा जायते’ – इति भाषितम् । एतद्वै तत् । तत् – तदात्मकम् इत्यर्थः । अत्रैव प्रकरणे – ‘ब्रह्मजज्ञं देवमीड्यं विदित्वा’ (क.उ.१-१७) इत्यत्र देवम् इत्यस्य परमात्मात्मकम् इति व्याख्यातत्वात् , ‘क्षेत्रज्ञं चापि मां विद्धि’ (भ.गी. १३-२) इति । एतदुपबृंहणगीतावचनेऽपि ‘मां मदात्मकम्’ इति भाष्यकृतैव व्याख्यातत्वात्, अपृथक्सिद्धविशेषणवाचिशब्दस्य विशेष्ये इव, अपृथक्सिद्धविशेष्यवाचिशब्दस्यापि विशेषणे निरूढत्वात्, तत् तदात्मकम् इत्यर्थो युक्त इति द्रष्टव्यम् ।। ७ ।।

अरण्योनिहितो जातवेदा गर्भ इवेत् सुभृतो गर्भिणीभिः ।

दिवेदिवे ईड्यो जागृवद्भिर्हविष्मद्भिर्मनुष्येभिरग्निः ।। एतद्वै तत् ।।८।।

अरण्योर्निहितो जातवेदाः इति । अरण्यो: – अधरोत्तरारण्योः, स्थिताऽग्निः । गर्भिणीभिः – पानभोजनादिना सुभृतः गर्भ इव । निहितः इति पूर्वेणान्वयः । इत् इत्यवधारणे । दिवेदिवे – अहन्यहनि, जागृवद्भिः – जागरणशीलैः अप्रमत्तैः, हविष्मद्भिः आज्यादिहविःप्रदानप्रवृत्तैः ऋत्विग्भिः, स्तुत्यः, अग्निः – अग्ननेता ‘अरण्योर्निहितः’ इति योजना । एतद्वै तत् – एतत् – अग्निस्वरूपम्, तत् – पूर्वोक्तब्रह्मात्मकम् इत्यर्थः ।। ८ ।।

यतश्चोदेति सूर्यो अस्तं यत्र च गच्छति ।

तं देवास्सर्वे अर्पितास्तदु नात्येति कश्चन ।। एतद्वै तत् ।। ९ ।।

यतश्चोदेति इति । यस्मात् ब्रह्मण: सकाशात् सूर्यः उदेति, यत्र च लयमेति । तं देवाः सर्वे अर्पिता: – देवाः सर्वे, तस्मिन् आत्मनि प्रतिष्ठिताः इत्यर्थः । तदु नात्येति कश्चन – तत् – सर्वात्मकं ब्रह्म, कोऽपि न अतिक्रमेत । छायावत् अन्तर्यामिण: दुर्लङ्घत्वात् इति भावः । एतद्वै तत् – उक्तोऽर्थः ।। ९ ।।

यदेवेह तदमुत्र यदमुत्र तदन्विह ।

मृत्योस्स मृत्युमाप्नोति च इह नानेव पश्यति ।। १० ।।

ननु – परमात्मनः सर्वात्मत्वं न सम्भवति; ‘अहम्’ इति अहन्ताश्रयत्वेन अनुसन्धीयमानो हि आत्मा । स च, ‘अहमिहैवास्मि’ इति देशान्तरव्यावृत्ततया अनुसन्धीयते । तस्य सर्वदेशकालवर्तिसर्वपदार्थात्मभूतत्वं कथम् ? इत्याशंक्याऽऽह – यदेवेह तदमुत्र यदमुत्र तदन्चिह । यदेव परमात्मतत्त्वम्, इह – अत्रलोके; अहम् इति अनुसन्धीयमानतया आत्मभूतम्, तदेव – लोकान्तरस्थानामपि आत्मभूतम् इत्यर्थः । ततश्च आत्मभेदो नास्ति इत्यर्थः । अयमभिप्रायः किं परमात्मतत्त्वविदाम्  ‘अहमिहैव’ इति प्रतीतिः, सर्वदेशकालवर्तिपदार्थात्मत्वबाधकतया उपन्यस्यते? उत तद्रहितानाम्? नाद्यः; तेषाम् ‘अहमिहैव’ इत्यादिप्रतीतेरेव अभावात् । प्रत्युत ‘अहं मनुरभवं सूर्यश्च’ (ऋ.सं.४-२६-१) इति सर्ववस्तुवर्तितयैव अनुभवात् ।

न द्वितीयः; अतत्त्वविदाम् अहं प्रतीतेः जीवमात्रविषयत्वेन तत्र देशान्तर व्यावृत्तत्वप्रतीतेः, तदानीम् अप्रतीतपरमात्मनि सर्वदेशवर्ति पदार्थात्मत्वविरोधित्वाभावात् इति । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति । इह – परमात्मनि भेदमिव, यः पश्यति, स तु संसारात्  संसारं प्राप्नोति इत्यर्थः ।। १० ।।

मनसैवेदमाप्तव्यं नेह नानाऽस्ति किञ्चन ।

मृत्योस्स मृत्युं गच्छति य इह नानेव पश्यति ।। ११ ।।

ननु – अस्माकं सर्वात्मभूतं परमात्मतत्वं कुतो नोपलभ्यते इत्यत्राह – मनसैवेदमाप्तव्यम् इति । इदम् – आत्मस्वरूपं विशुद्धमनोग्राह्यम् इत्यर्थः । उक्तमेवार्थं दृढीकरणाय अभ्यस्यति – नेह नानाऽस्ति इत्यादि । स्पष्टोऽर्थः ।। ११ ।।

अङ्गुष्ठमात्र: पुरुषो मध्य आत्मनि तिष्ठति ।

ईशानो भूतभव्यस्य न ततो विजुगुप्सते ।। एतद्वै तत् ।। १२ ।।

अङ्गुष्ठमात्रस्येति । ईशानो भूतभव्यस्य । कालत्रयवर्तिनिखिलचेतनाचेतनेश्वरः पुरुषः, मध्य आत्मनि – उपासकशरीरमध्ये, अङ्गुष्ठपरिमाणस्सन् आस्ते । न ततो विजुगुप्सते – ततः – भूतभव्येश्वरत्वादेव, वात्सल्यातिशयात् देहगतानपि दोषान् भोग्यतया पश्यतीत्यर्थः ।

ननु – ‘प्राणाधिपस्संञ्चरति स्वकर्मभिरङ्गष्ठमात्रो रवितुल्यरूप:’ (श्वे.उ.५-१८), ‘अङ्गुष्ठमात्रं पुरुषं निश्चकर्षं यमो बलात्’ (महा.भा.व.२६) इत्यादि श्रुतिस्मृतिषु अङ्गुष्ठमात्रत्वेन प्रतिपादितस्य जीवस्यैव अस्मिन मन्त्रे प्रतिपादनं किं न स्यान् ? न च – न तस्य भूतभव्येशानत्वादीति वाच्यम्;  प्रथमश्रतजीवलिङ्गानुरोधेन चरमश्रुतभूत भव्येशानत्वस्य आपेक्षिकतया योजयितुं शक्यत्वादिति चेत्।

न- ‘शब्दादेव प्रमित:’ (ब्र.सू.१-३-२४) इत्यधिकरणे, एकमेव पूर्वपक्षं कृत्वा, ‘हृदयावच्छेदनिबन्धनाङ्गष्ठपरिमाणस्य परमात्मन्यपि सम्भवात्,’ ‘अङ्गुष्ठमात्रः पुरुषाऽङ्गुष्ठं च समाश्रितः (महा.ना.१६-५) इति तैत्तिरीयके ‘अष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः’ (श्वे.उ.३-१३) इति श्वेताश्वतरे च, अङ्गष्ठमात्रत्वस्य परमात्मन्यपि श्रवणात् , असङकुचितभूतभव्येशितृत्वस्य अनन्यथासिद्धब्रह्मलिङ्गत्वादयं मन्त्रः परमात्मपर एव इति सिद्धान्तितत्वात् ।

यत्त्वत्र कैश्चिदुच्यते – अङ्गुष्ठमात्रत्वजीवलिङ्गमेव । अथापि ‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति’ इति पूर्वार्धेन जीवमनूद्य, ईशानो भूतभव्यस्य’ इत्यनेन परमात्मभावो विधीयते – इति । तदसमञ्जसम् । तथा हि सति परमात्मनि अङ्गष्ठमात्रत्वसंभावनाप्रदर्शकस्य, ‘हृद्यपेक्षया तु मनुष्याधिकारित्वात्’ (ब्र.सू.१-३-२५) इति सूत्रस्य असङ्गतिप्रसङ्गात् ।

ननु – ‘न अस्मिन्मन्त्रे जीवानुवादेन ब्रह्मभावो विधीयते; आराग्रमात्रतया प्रतिपन्नस्य जीवस्य अङ्गुष्ठमात्रत्वे प्रमाणाभावात्’ – इति तटस्थशङ्का परिहारार्थं, जीवस्य अङ्गुष्ठमात्रत्वसाधनाय प्रवृत्तमिदं सूत्रम् इति चेत्, तथाऽऽश्रयणस्य क्लिष्टत्वात् ।

ननु – ‘ईश्वरश्शर्व ईशानः’ (अ.को.१-१-३०) इति निघण्टुपाठेन ईशानशब्दस्य देवताविशेषे रूढत्वात् , ‘शब्दादेव प्रमितः’ (ब्र.सू.१-३-२४) इति सूत्रे ईशानो भूतभव्यस्य इति ‘शब्दादेव’, ‘न तु भूतभव्यस्य सर्वस्योशितृत्वं कर्मवश्यस्य जीवस्योपपद्यते इति भाष्यं व्याकुर्वद्भि: व्यासार्यै:; ‘ईशानशब्दस्यैव शब्दशब्देन विवक्षितत्वात् । नात्र लिङ्गात् निर्णयः । किन्तु ईश्वरवाचिशब्दादेव इति एवकाराभिप्रायः’ इति व्याख्यातत्वात् ईशानशब्दस्य श्रुतित्वाभ्युपगमात् , तयैव च ईशानशब्दश्रुत्या जीवव्यावृत्तिवदेव, नारायणस्यापि व्यावर्तितत्वेन, रुद्रपरत्वमेव स्यादिति चेत् ।

न – योगरूढिमत: पदस्य सन्निधौ, अवयवार्थविशेषकपदान्तरसन्निधाने रूढ्यनुन्मेषस्य, पद्मानि यस्याग्रसरोरुहाणि प्रबोधयत्यूर्ध्वमुखैर्मयूखैः’ (कु.सं.१-१६) इत्यादिषु  दर्शनात् । तत्र हि सरोरुहपदावयवार्थसरोविशेषकाग्रपदोपादानेन सरोरुहपदरूढिभङ्गस्य दर्शनात् । इतरथा ‘पद्मानि’ इति पदानुपादानापत्तेः । अत ईशानशब्दस्य न श्रुतित्वम् । एतदस्वरसादेव व्यासार्यैरपि यथाश्रुतभाष्यानुगुण्येन, यद्वा इति पक्षान्तरस्य आश्रितत्त्वात् इत्यलम् अतिचर्चया । प्रकृतमनुसरामः । एतद्वै तत् – उक्तोऽर्थः ।। १२ ।।

अङ्गुष्ठमात्र: पुरुषो ज्योतिरिवाधूमकः ।

ईशानो भूतभव्यस्य स एवाद्य स उ श्वः ।। एतद्वै तत् ।। १३ ।।

अङ्गष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः इति । शुष्केन्धनानलवत् प्रकाशमान: इत्यर्थः । स एवाद्य स उ श्वः – अद्यतनपदार्थजातं श्वस्तनपदार्थजातं कालत्रयवर्तिपदार्थ जातमपि तदात्मकमित्यर्थः एतद्वै तत् – पूर्ववत्।।१३ ।।

यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति ।

एवं धर्मान् पृथक्पश्यँस्तानेवानु विधावति ।। १४ ।।

यथोदकम् इति । पर्वतमूर्ध्नि वृष्टम् – प्रत्यन्तपर्वतेषु नानाभूततया पतित्वा पतित्वा धावति । एवं परमात्मगतदेवान्तर्यामित्वमनुष्यान्तर्यामित्वादिधर्मान् पृथगधिकरण निष्ठान् पश्यन्, पर्वतनिर्झरपातम् अनुकृत्य, संसारकुहरे पतति इत्यर्थः ।। १४ ।।

यथोदकं शुद्ध शुद्धमासिक्तं तादृगेव भवति ।

एवं मुनेर्विजानत आत्मा भवति गौतम ! ।। १५ ।।

।। इति कठोपनिषदि चतुर्थी बल्ली ।।

सर्वत्रैकात्मकत्वज्ञानस्य फलमाह – यथोदकम् इति । यथा शुद्धजले शुद्धजलं योजितं तत्सदृशमेव भवति,न कथञ्चिदपि विसदृशम् । एवम् – इत्थं विजानतः, मननशीलस्य, आत्माऽपि परमात्मज्ञानेन विशुद्धस्सन् , विशुद्धेन परमात्मना समानो भवतीत्यर्थः । गौतम ! इति प्राप्यवैभवं सूचयन् सहर्ष सम्बोधयति ।। १५ ।।

।। इति चतुर्थीवल्लीप्रकाशिका ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.