कठोपनिषत् – षष्ठी वल्ली

कठोपनिषत्

षष्ठी वल्ली

ऊर्ध्वमूलो अवाक्शाख एषोऽश्वत्थस्सनातनः ।

तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते ।

तस्मिन् लोकाः श्रितास्सर्वे तदु नात्येति कश्चन ।। एतद्वै तत् ।।१।।

षष्ठीवल्लीप्रकाशिका

ऊर्ध्वमूलो अवाक्शाख एषोऽश्वत्थः सनातनः । अयं च मन्त्रखण्डः, ऊर्ध्वमूलम् अधश्शाखम्’ इति गीताव्याख्यानावसरे भगवता भाष्यकृता व्याख्यातः । इत्थं हि तत्र भाष्यम् – ‘यं संसाराख्यम् अश्वत्थम् ऊर्ध्वमूलम् अधश्शाखम् अव्ययं अश्वत्थं प्राहुः श्रुतयः – ‘ऊर्ध्वमूलो अवाक्शाख एषोऽश्वत्थः सनातनः’ (क.उ.६-१),’ऊर्ध्वमूलमवाक्शाखं वृक्षं यो वेद सम्प्रति’ (यजु.आ-१-११-५) इत्याद्याः । सप्तलोकोपरिनिविष्ट चतुर्मुखादित्वेन तस्य ऊर्ध्वमूलत्वम् । पृथिवीनिवासि सकलनरपशुमृगक्रिमिकीटपतङ्गस्थावरान्ततया अधश्शाखत्वम् इति । तद्विलक्षणमेव ब्रह्मेति दर्शयति – तदेव शुक्रं इति । पूर्वमेव व्याकृतोऽयं मन्त्रः ।। १ ।।

यदिदं किञ्च जगत् सर्व प्राण एजति निस्सृतम् ।

महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति ।। २ ।।

य इदं किञ्च जगत् सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम् – अयं च मन्त्रखण्डः ‘कम्पनात्’ (ब्र.सू.१-३-४०) इति सूत्रे भगवता भाष्यकृता व्याख्यातः । तत्र अमुं मन्त्रं प्रस्तुत्य, कृत्स्नस्य जगतः अस्मिन् अङ्गुष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां, सर्वेषां ततो निस्सृतानां, तस्मात् सञ्जातमहाभयनिमित्तम्, एजनम् कम्पनम् श्रूयते । तच्छासनातिवृत्तौ किं भविष्यति इति महतो भयात्, वज्रादिवोद्यतात् कृत्स्नं जगत् कम्पते इत्यर्थः । ‘भयादस्याग्निस्तपति’ इत्यनेनैकार्थ्यात्, महद्भयम् वज्रमुद्यतम् इति ‘पञ्चम्यर्थे प्रथमा’ इति भाषितम् । विवृतं च एतत् श्रुतप्रकाशिकायाम् – प्राण इति सप्तम्यन्तपदसामर्थ्यात्, स्थितानाम् इत्यध्याहारः । कुतो निस्सृतानाम् इत्यपेक्षायां प्रकृतस्यैव अपादानत्वमाह – तत इति । एजनम् – कम्पनम् इति । ‘एजृ कम्पने’ (धा.पा.२३४) इति हि धातुः । प्रत्यवायभयात् स्वस्वकार्येषु प्रवृत्तिः कम्पनम् । उद्यतवज्रादिव परमपुरुषात् सञ्जातेन भयेन, कृत्स्नं जगत् कम्पते इत्यर्थः इति ।

अत्र महद्भयं वज्रमुद्यतम् इति चत्वारि पदानि पञ्चम्यर्थप्रथमान्तानि । आद्यं पञ्चम्यर्थप्रथमान्तपदद्वयम्, भयवाचि । उत्तरं तु पदद्वयम्, तद्धेतुभूतप्राणशब्दितपरब्रह्मपरम् इति द्रष्टव्यम् । केचित्तु, बिभेति अस्मात् इति भयम्। भयानकम् इत्यर्थः । महाभयानकोद्यतवज्रवत् स्वस्मान्निस्सृतं प्राणशब्दितः परमात्मा कम्पयति । एजति इत्यस्य व्यर्थगर्भोद्मऽपि अर्थ इत्यपि अमुमपि अर्थ वर्णयन्ति । य एतद्विदुरमृतास्ते भवन्ति स्पष्टोऽर्थः । अत एव प्राणः’ (ब्र.सू.१-१-९) इत्यधिकरणन्यायात् प्राणशब्दस्य परमात्मपरत्वे न विवाद इति द्रष्टव्यम् ।। २ ।।

भयादस्याग्निस्तपति भयात् तपति सूर्यः ।

भयादिन्द्रश्च वायुश्य मृत्युर्धावति पञ्चमः ।। ३ ।।

भयादस्याग्निः इति । धावति शब्दः इन्द्रादीनां स्वव्यापारप्रवृत्तिपरः । शिष्टं स्पष्टम् ।। ३ ।।

इह चेदशकत् बोद्धुं प्राक्शरीरस्य विस्त्रसः ।

ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते ।। ४ ।।

इह चेत् इति । शरीरस्य विस्रसः – विस्रंसनात् पतनात् प्राक् इह – लोके ब्रह्म बोद्धुम्, अशकश्चेत् अशक्नुवांश्चेत् । विकरणव्यत्ययः छान्दसः । ततः सर्गेषु लोकेषु शरीरत्वाय कल्पते । ततः – तस्मात् ज्ञानाभावात् हेतोः, सृज्यमानसर्वलोकेषु जन्मजरादिमत्वलक्षणशीर्यमाणत्वाय भवति इत्यर्थः । तस्मात् शरीरपातात्प्रागेव आत्मज्ञानाय यतेत इति भावः ।। ४ ।।

यथादर्श तथात्मनि यथा स्वप्ने तथा पितृलोके ।

यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ।। ५ ।।

आत्मनो दुर्बोधत्वमेवाह – यथा इति । यथाऽऽदर्शे चन्द्रिकायाः अभावात् न स्पष्टः प्रतिभासः तथा इह लोके आत्मनि इत्यर्थः । यद्वा – यथा आदर्श – दर्पणे, प्रतीयमानं वस्तु साक्षात् दृष्टवस्तुवत्  प्रत्यङमखत्वादिकल्पितार्थानवरुद्धतया न उपलभ्यते; तथा इह आत्मविषयिणी प्रतीतिः इत्यर्थः । लोकान्तरेऽपि तथा इत्याह – यथा स्वप्ने तथा पितृलोके । यथा स्वप्नदर्शनस्य जाग्रद्दर्शनवत् सम्यक्तया संशयादिविरोधितया पुन: अनुसन्धानयोग्यत्वाभावः, तथा पितृलोक इत्यर्थः । यथा अप्सु परीव ददृशे तथा गन्धर्वलोके । यथा जलान्तःस्थवस्तुनः न इतरवत् स्पष्टप्रकाशः तद्वत् परिददृश इव । न वस्तुतः परितो दृश्यत इत्यर्थः । गन्धर्वलोकेऽपि आपाततः प्रतीतिमात्रम् इत्यर्थः । छायातपयोरिव ब्रह्मलोके – यथा छायातपयोः मिश्रणे शुद्धातपवर्तिपदार्थवत् न उपलम्भः एवं ब्रह्मलोकेऽपि न सम्यक् उपलम्भः । अतो दुरधिगमम् आत्मतत्त्वमिति भावः। यद्वा – ब्रह्मलोके यद्यपि छायातपयोः विविच्य उपलम्भवत् आत्मानात्मस्वरूपयोः विविच्य उपलम्भः सम्भवति; तथापि न अत्रत्यानामात्मतत्त्वं सुलभमिति भावः ।। ५ ।।

इन्द्रियाणां पृथग्भावमुदयास्तमयौ च यत् ।

पृथगुत्पद्यमानानां मत्वा धीरो न शोचति ।। ६ ।।

इन्द्रियाणाम् इति । पृथग्भूतानाम् उत्पद्यमानानाम् इन्द्रियाणाम् । इन्द्रियाणाम् इत्येतत्, देहादीनामपि उपलक्षणम् । उदयास्तमयौ च यत् । यत् इत्यव्ययं यावित्यर्थे । यौ – उत्पादविनाशौ यश्च परस्परवैलक्षण्यलक्षणपृथग्भावश्च तान् सर्वान् इन्द्रियादिगतान् मत्त्वा, धीरो न शोचति इत्यर्थः । परस्परवैलक्षण्योत्पादविनाशाः, ज्ञानैकाकारे आत्मनि न सन्ति इति ज्ञात्वा न शोचति इत्यर्थः ।। ६ ।।

इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमम् ।

सत्त्वादधि महानात्मा महतोऽव्यक्तमुत्तमम् ।। ७ ।।

अव्यक्तात् तु परः पुरुषो व्यापकोऽलिङ्ग एव च ।

यं ज्ञात्वा मुच्यते जन्तुरमृतत्वं च गच्छति ।।८।।

देहविविक्तप्रत्यगात्मयाथात्म्यज्ञानेऽपि भगवच्छरणागतिरेव उपायः इति पूर्वोक्तं शरणवरणमेव प्रतिपादयति – इन्द्रियेभ्य: इत्यादिना मन्त्रद्वयेन । परं…….. इन्द्रियेभ्यः इत्येतत् अर्थानामपि उपलक्षणम् । ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः’ (क.उ.३-२०) इत्यनेन ऐकार्थ्यात् । सत्त्वशब्दो बुद्धिपरः; ‘मनसस्तु परा बुद्धिः’ (क.उ.३-१०) इति पूर्वोक्तेः । अलिङ्गः – लिङ्गागम्य: । परत्वं च वशीकार्यतायां विवक्षितम् । परस्य च वशीकरणं शरणागतिरेव । शिष्टं स्पष्टम् ।। ७,८ ।।

न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम् ।

हृदा मनीषा मनसाभिकॢप्तो य एतद् विदुरमृतास्ते भवन्ति ॥ ९ ॥

न सन्दृशे तिष्ठति इति । अस्य रूपम् – स्वरूपं विग्रहो वा, व्यापकत्वादेव सन्दर्शनविषये अभिमुखतया न तिष्ठति इत्यर्थः । अथवा दृश्यं नीलरूपादिकं नास्ति इत्यर्थः । अत एव ‘न चक्षुषा पश्यति कश्चनैनम्’ इति । स्पष्टोऽर्थः । हृदा मनीषा इत्यादि । अयमंशः, सर्वत्र प्रसिद्ध्यधिकरणे व्यासार्यैः हृदा इति भक्तिरुच्यते मनीषा इति धृतिः । ‘न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनम्’ (महा.भा.१२-२१-६४) इति पूर्वार्धमेकरूपं पठित्वा, ‘भक्तया च धृत्या च समाहितात्मा ज्ञानस्वरूपं परिपश्यतीह’ (महा.भा.१२-२१-६४) इति महाभारते उक्तम् अभिकॢप्त: – ग्राह्यः इति विवृतः । धृत्या समाहितात्मा, भक्तया पुरुषोत्तमं पश्यति, साक्षात्करोति प्राप्नोति इत्यर्थः; ‘भक्तया त्वनन्यया शक्यः’ (भ.गी.११-५४) इत्यनेनैकार्थ्यात् इति वेदार्थसङ्ग्रहे प्रतिपादितम्; य एनं विदुः इति । स्पष्टोऽर्थः ।। ९ ।।

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।

बुद्धिश्च न विचेष्टेत तामाहुः परमां गतिम् ।। १० ।।

यदा पञ्च इति । ज्ञायते अनेन इति व्युत्पत्त्या, ज्ञानानि इन्द्रियाणि इत्यर्थः । ‘सप्त गतेः’ (ब्र.सू. २-४-२) इत्यधिकरणे व्यासार्यैः तथा व्याख्यातत्त्वात् । ‘अध्यवसायोपेतं मन एव बुद्धिशब्देन उच्यते । अत एव तत्र भाष्यम् – ‘अध्यवसायाभिमानचिन्तावृत्तिभेदात् मन एव बुद्ध्यहंकारचित्तशब्दैः व्यपदिश्यते’ इति । ‘शरीरान्तस्सञ्चरणं विहाय मोक्षार्थगमनं परमा गतिः’ इति तत्रैव स्पष्टम् ।। १० ।।

तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।

अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ ।। ११ ।।

तां योगम् इति । ताम् – पूर्वमन्त्रनिर्दिष्टां बाह्याभ्यन्तरकरणधारणां परमां गतिम् ‘योगः’ इति मन्यन्ते । उक्तं च व्यासार्यैः: ‘परमागतिर्योग’ इत्यर्थः इति । अप्रमत्तस्तदा भवति । इन्द्रियाणां निर्व्यापारत्वे एव अवहितचित्तता भवति । चित्तावधानं किमर्थम्? इत्यत्राह – योगो हि प्रभवाप्ययौ इति । योगस्य प्रतिक्षणापायशालितया अवधानम् अपेक्षितमिति भावः । यद्वा – इष्टप्रभवानिष्टाप्ययलक्षणसर्वपुरुषार्थसाधनत्वात् योगस्य, तत्र अप्रमत्ततया भवितव्यम् इति भावः ।। ११ ।।

नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा ।

अस्तीति ब्रुवतोऽन्यत्र कथं तदुपलभ्यते ।। १२ ।।

नैव वाचा इति । स्पष्टोऽर्थः । प्राणपादे – ‘सप्तगतेः विशेषितत्वाञ्च’ (ब्र.सू.२-४-२) इति इन्द्रियाणि सप्तैव; ‘सप्त इमे लोका येषु चरन्ति प्राणा गुहाशया निहिताः सप्त सप्त’ (मुं.उ.२-१-८) इति सप्तानामेव परलोकगतिश्रवणात् । ‘यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह । बुद्धिश्च न विचेष्टेत’ (क.उ.६-१०) इति योगदशायाम् इन्द्रियाणां परिगणितत्वाञ्च सप्तैव इति प्राप्ते उच्यते – ‘हस्तादयस्तु स्थितेऽतो नैवम्’ (ब्र.सू.२-४-६) । शरीरे स्थिते – आदानादिलक्षणकार्योपयोगित्वात् , हस्तादयोऽपि इन्द्रियाण्येव । अतो नैवम्। ‘दशेमे पुरुषे प्राणा: आत्मैकादशः’ आत्मशब्देन मनोऽभिधीयते – ‘इन्द्रियाणि दशैकं च’ (भ.गी.१३-५) ‘एकादशं मनश्चात्र’ (वि.पु.१-२-४६) इति श्रुतिस्मृतिभ्यां इन्द्रियसंख्या निश्चिता । न्यूनसंख्यावादा उपकारविशेषाभिप्रायाः, अधिकसंख्यावादाश्च मनोवृत्तिभेदात् इति स्थितम् । अमुमेवार्थम् उपपादयति – अस्तीति इति । अस्तीति ब्रुवत: शब्दात् अन्यत्र इत्यर्थः । तस्य उपनिषदेकगम्यत्वात् इति भावः ।। १२ ।।

अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन चोभयोः ।

अस्तीत्येवोपलब्धस्य तत्त्वभाव: प्रसीदति ।। १३ ।।

अस्तीत्येव इति । तत्त्वं भावयति इति तत्त्वभावः – अन्तःकरणम् । तेन च परमात्मा अस्ति इत्येव उपलब्धव्यः । वेदान्तवाक्यैः अस्ति इति उपलब्धस्य, मनसाऽपि अस्तीत्येवं मनननिदिध्यासने कर्तव्ये इत्यर्थः । उभयोः – हेत्वोः उभाभ्यां शब्दमनोरूपाभ्याम्, अस्तीत्येवोपलब्धस्य ज्ञातवतः, ‘भुक्ता ब्राह्मणाः’ इतिवत् अयं निर्देशः । तत्त्वभाव: प्रसीदति – मनः प्रसन्नं भवति, निर्दुष्टं भवति इत्यर्थः ।। १३ ।।

यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः ।

अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते ।। १४ ।।

यदा सर्वे प्रमुच्यन्ते इति । कामाः – दुर्विषयविषयकमनोरथाः हृद्गताः यदा शान्ता भवन्ति, तदा अनन्तरमेव अयम् उपासकः, अमृतो भवति विश्लिष्टाश्लिष्ट पूर्वोत्तरदुरितभरो भवति इत्यर्थः । अत्र ब्रह्म समश्नुते – अत्रैव उपासनवेलायां ब्रह्मानुभवति इत्यर्थः । ‘समाना चाऽऽसृत्युपक्रमादमृतत्त्वं च अनुपोष्य’ (ब्र.सू.४-२-७) इत्यत्र भाष्यम् – अनुपोष्य शरीरेन्द्रियादिसम्बन्धमदग्ध्वैव यत् अमृतत्त्वम् उत्तरपूर्वाघयोः अश्लेषविनाशरूपं प्राप्यते, तदुच्यते, ‘यदा सर्वे प्रमुच्यन्ते’ इत्यादिकया श्रुत्या इत्यर्थः । ‘अत्र ब्रह्म समश्नुते’ इति च उपासनवेलायां यो ब्रह्मानुभव: तद्विषयम् इति अभिप्रायः इति ।। १४ ।।

यदा सर्वे प्रभिद्यन्ते । हृदयस्येह ग्रन्थयः ।

अथ मर्त्योऽमृतो भवत्येतावदनुशासनम् ।। १५ ।।

उक्तमेवार्थम् आदरेणाभ्यस्य, उपदेष्टव्यांश: एतावानेव इति उपसंहरति – यदा सर्वे प्रभिद्यन्ते इति । ग्रन्थय: – ग्रन्थिवत् दुर्मोचा: रागद्वेषादयो यदैव प्रमुच्यन्ते इत्यर्थः । एतावदनुशासनम् – अनुशासनीयम् । उपासकस्य कर्तव्यत्वेन उपदेष्टव्यम् एतावदेव । वक्ष्यमाणमूर्धन्यनाडीनिष्क्रमणार्चिरादिगमनादिकं न साधकस्य कृत्यम्, किन्तु उपासनप्रीतभगवत्कृत्यम् इति भावः ।। १५ ।।

शतञ्चैका च हृदयस्य नाड्यस्तासां मूर्धानमभिनिस्सृतैका ।

तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति ।। १६ ।।

“विमुक्तश्च विमुच्यते’ इति पूर्वमुक्तां द्वितीयां परममुक्तिमाह ‘शतं चैका च’ इति हृदयस्य प्रधाननाड्य: ‘शतं चैका च’ सन्ति । तासां मध्ये एका सुषुम्नाख्या ब्रह्मनाडी, मूर्धानम् अभिनिस्सृता तया नाड्या, ऊर्ध्वम् – ब्रह्मलोकं गच्छन्, देशविशेषविशिष्ट ब्रह्मप्राप्तिपूर्वकस्वस्वरूपाविर्भावलक्षणां मुक्तिं प्राप्नोति इत्यर्थः । अन्यास्तु नाड्यः, विष्वङ् उत्क्रमणे – नानाविधसंसारमार्गोत्क्रमणाय उपयुज्यन्ते । विष्वङ् वितताः नाड्यः अन्योत्क्रमण उपयुज्यन्ते इति व्यासार्यैः व्याख्यातम् ।

इदं च वाक्यं भगवता बादरायणेन उत्क्रान्तिपादे चिन्तितम् तथा हि; ‘मूर्धन्यया शताधिकया नाड्या विदुषो गमनम्। अन्याभिः अविदुषः’ इति नियमो नोपपद्यते । नाडीनां भूयस्त्वात् अतिसूक्ष्मत्वाञ्च दूर्विवेचतया पुरुषेण उपादातुम् अशक्यत्वात् । ‘तर्याध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति’ इति यादृच्छिकीमुत्क्रान्तिम् अनुवदति इति युक्तम् इत्येवं प्राप्ते पूर्वपक्षे – ‘तदोकोऽग्रज्वलनं तत्प्रकाशितद्वारो विद्यासामर्थ्यात् तच्छेषगत्यनुस्मृतियोगाञ्च हार्दानुगृहीतश्शताधिकया’ (ब्र.सू.४-२-१६) इति सूत्रेण सिद्धान्तितम् । तस्य च अयमर्थः तदोक; – तस्य जीवस्य स्थानम् हृदयम्, अग्रज्वलनं – अग्रे ज्वलनं प्रकाशनं यस्य तदिदम् अग्रज्वलनम् । तेन अग्रज्वलनेन प्रकाशितद्वारो भवति । तस्य हृदयस्याग्रं प्रद्योतते तेन प्रद्योतेनैष आत्मा निष्क्रामति चक्षुषो वा मूर्ध्नो वा अन्येभ्यो वा शरीरदेशेभ्यः’ (बृ.उ.६-४-२) इति श्रुतेः । एतावत् विद्वदविद्वत्साधारण्यम् । विद्वांस्तु शताधिकया मूर्धन्ययैव नाड्या उत्क्रामति । न च अस्या नाड्या विदुषो दुर्विवेचत्वम् । विद्वान् हि परमपुरुषाराधनभूतात्यर्थप्रियविद्यासामर्थ्यात् विद्याशेषभूततया आत्मनोऽत्यर्थप्रिय गत्यनुस्मरणयोगाच्च प्रसन्नेन हार्देन परमपुरुषेण अनुगृहीतो भवति । ततः तां नाडीं विजानाति इति तया विदुषो गतिरुपपद्यते – इति । प्रकृतमनुसरामः ।। १६ ।।

अङ्गष्ठमात्रः पुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः

तँ स्वाच्छरीरात् प्रवृहेन्मुञ्जादिवेषीकां धैर्येण ।

तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति ।। १७ ।।

अङ्गष्ठमात्रः इति । स्पष्टोऽर्थः । तं स्वाच्छरीरात् इति । यथा देवदत्तः स्वाच्छरीराद्विलक्षण: इत्युक्ते स्वशब्दः समभिव्याहृतदेवदत्तसम्बन्धिपरामर्शः; एवं पूर्वनिर्दिष्टान्तरात्मसम्बन्धिपरामर्शी स्वशब्दः । ततश्च अयमर्थः । तं जनानाम् अन्तरात्मानम्, तच्छरीरभूतात् जनशब्दिताच्चेतनात्, प्रवृहेत् – विविच्य जानीयात् । ‘जुष्टं यदा पश्यत्यन्यमीशम्’ (मुं.उ.३-१) इति श्रुत्युक्तरीत्या, धारकत्वनियन्तृत्वशेषित्वादिना विलक्षणं जानीयात् इत्यर्थः । मुञ्जात् – तृणविशेषात्, इषीकाम् – तन्मध्यवर्तिस्थूलतृण विशेषमिव, धैर्येण – ज्ञानकौशलेन इति पूर्वेण अन्वयः । तं विद्याच्छुक्रममृतं तं विद्याच्छुक्रममृतमिति, उक्तोऽर्थः । द्विर्वचनम् उपदेशसमाप्त्यर्थम् ।। १७ ।।

मृत्युप्रोक्तां नचिकेतोऽथ लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ।

ब्रह्म प्राप्तो विरजोऽभूत् विमृत्युरन्योऽप्येवं यो विदध्यात्ममेव ।। १८ ।।

आख्यायिकार्थम् उपसंहरति – मृत्युप्रोक्ताम् इति । नचिकेता: मृत्युप्रोक्ताम् आत्मविद्याम्, ‘यदा पञ्च’ इत्यादिना उक्तं योगविधिं च, लब्ध्वा – प्राप्य, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते’ (छा.उ.८-३-४) इति श्रुत्युक्तरीत्या ब्रह्म प्राप्य, आविर्भूतगुणाष्टकोऽभूत् इत्यर्थः । अन्योऽप्येवं यो वित् अध्यात्ममेव अध्यात्मविद्यां य: अन्योऽपि वेत्ति, सोऽपि, एवमेव – नचिकेता इव भवति इत्यर्थः ।। १८ ।।

(उत्तरशान्तिः )

ओम् । स ह नाववतु । सह नौ भनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ।।

।।ओं शान्तिः शान्तिः शान्तिः ।।

।। इति कठोपनिषदि षष्ठी वल्ली ।।

।। समाप्ता चेयं कठोपनिषत् ।।

शिष्याचार्ययोः शास्त्रीयनियमातिलङ्घनकृतदोषप्रशमनार्था शान्तिः उच्यते । सह नाववतु । सः – विद्याप्रकाशित: परमात्मा । ह शब्दः प्रसिद्धौ । नौ – शिष्याचार्यौ, अवतु – स्वस्वरूप्रकाशनेन रक्षतु । सह नौ भुनक्तु – विद्याप्रचयद्वारा आवां सहैव परिपालयतु ।

यद्वा – विश्लेषमन्तरेण आवां सहितावेव यथा स्यात्, तथा परिपालयतु इत्यर्थः । सह वीर्यं करवावहै – सनियमकविद्याप्रदानेन विद्यायाः सामर्थ्यं निष्पादयावहै । नियमाभावे विद्या निर्वीर्या भवतीति भावः । तेजस्वि नावधीतमस्तु । नौ – आवयोः यदधीतम्, तत् तेजस्वि अस्तु – वीर्यवत्तरम् भवतु इत्यर्थः । मा विद्विषावहै –

‘यश्चाधर्मेण विब्रूते यश्चाधर्मेण पृच्छति ।

तयोरन्यतरः प्रैति विद्वेषं वाऽधिगच्छति’ ।। (महा.भा.शां. ३३५-५)

इति स्मृत्युक्तरीत्या अधर्माध्ययनाध्यापननिमित्तो द्वेषः आवयोः माभूत् इत्यर्थः । ओं शान्तिः । त्रिर्वचनं सर्वदोषशान्त्यर्थम् ।।

इयञ्च उपनिषत् भगवत्परैव इति भगवता बादरायणेन समन्वयाध्याये त्रिभिः अधिकरणैः निर्णीता । तत्र –

‘यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।

मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ ।।

इति वाक्ये ब्रह्म-क्षत्रयोरोदनत्वनिरूपणेन भोज्यत्वस्य, वा भोग्यत्वस्य वा प्रतीतेः, तत्प्रतिसम्बन्धी, यस्य इति षष्ठयन्तयच्छब्दनिर्दिष्टो भोक्ता जीव एव स्यात्। परमात्मनो भोक्तृत्वासंभवात् इति पूर्वपक्षं कृत्वा ‘अत्ता चराचरग्रहणात्’ (ब्र.सू.१-२-९), प्रकरणाच्च (ब्र.सू.१-२-१०), ‘गुहां प्रविष्टौ आत्मानौ हि तद्दर्शनात्’ (ब्र.सू.१-२-११), ‘विशेषणाञ्च’ (ब्र.सू.१-२-१२) इति चतुर्भिः सूत्रैः सिद्धान्तः कृतः । तेषां च अयमर्थः – ‘उभे भवत ओदनः’ इति ओदनप्रतिसम्बन्धितया प्रतीयमानः अत्ता परमात्मैव; ब्रह्मक्षत्रशब्द गृहीतनिखिलचराचरसंहर्तृत्वस्य अत्र मन्त्रे प्रतिपादनात् । अत्र ब्रह्मक्षत्रशब्दयोः निखिलचराचरलक्षकत्वप्रकार: ओदनशब्दस्य विनाश्यत्वलक्षकत्यप्रकारश्च एतन्मन्त्रव्याख्यानावसरे दर्शितः, तत्रैव अनुसन्धेयः । ‘महान्तं विभुमात्मानम्’ (क.उ. २-२२) इति प्रस्तुतत्वेन तस्य ब्रह्मप्रकरणमध्यगतत्वाञ्च ।

ननु – ‘ऋतं पिबन्तौ’ (क.उ.३-१) इति उत्तरमन्त्रे कर्मफलभोगान्वयिनोरेव प्रतिपादनात्, परमात्मनश्च जीववत् कर्तृत्वेन वा अन्तःकरणवत् करणत्वेन वा अन्वयासम्भवात् परमात्मप्रकरणमध्यगतत्वं नास्ति इत्याशंक्या उक्तम् – ‘गुहां प्रविष्टावात्मानौ हि तद्दर्शनात्’ (ब्र.सू.१-२-११) इति । गुहां प्रविष्टौ, जीवपरमात्मानावेव । तयोरेव अस्मिन् प्रकरणे गुहाप्रवेशदर्शनात् । ‘तं दुर्दशं गूढमनुप्रविष्टं गुहाहितम्’ (क.उ.२-१२) इति परमात्मनो गुहाप्रवेशः श्रूयते । ‘या प्राणेन सम्भवत्यदितिर्देवतामयी । गुहां प्रविश्य तिष्ठन्ती’ (क.उ.४-७) इति जीवस्यापि गुहाप्रवेशो दृश्यते । अतः द्वयोरपि गुहाप्रवेशदर्शनात्, तयोरेव पिबतो: छत्रिन्यायेन ‘तं पिबन्तो’ (क.उ. ३-१) इति निर्देशस्य सम्भवात्, ऋतं पिबन्तौ इति मन्त्रेण, न परमात्मप्रकरणविच्छेदः शक्यशंक: । ‘विशेषणाञ्च’ (ब्र.सू.१-२-१२) अस्मिन् प्रकरणे ‘ब्रह्मजज्ञं देवमीड्यं विदित्वा’ (क.उ. १-१७) इति जीवपरयोः उपास्यत्वउपासकत्वादिना विशेषितत्वात्, तयोरेव उपासनसौकर्याय एकाधिकरणस्थत्व प्रतिपादनार्थत्वात् ‘ऋतं पिबन्तौ’ इति मन्त्रस्य जीवपरप्रतिपादकत्वमेव । अत:, ‘यस्य ब्रह्म च क्षत्रं च’ (क.उ. २-२५) इति मन्त्रः परमात्मपर एव इति निर्णीतम् । तथा –

‘अङ्गुष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति ।

ईशानो भूतभव्यस्य न ततो विजुगुप्सते’ ।।

इति मन्त्रे अङ्गुष्ठमात्रतया निर्दिश्यमानो जीव एव; अङ्गुष्ठमात्रत्वस्य जीवधर्मतया, प्राणाधिपः सञ्चरति स्वकर्मभिः । ‘अङ्गुष्ठमात्रो रवितुल्यरूपः (श्वे.उ.५-८), अङ्गुष्ठमात्रं पुरुषं निश्चकर्ष यमो बलात्’ (महा.भा.व.२८१-१६) इति श्रुतिस्मृतिप्रसिद्धत्वात् इति पूर्वपक्षं कृत्वा – ‘शब्दादेव प्रमितः’ (ब्र.सू.१-३-२३), ‘हद्यपेक्षया तु मनुष्याधिकारत्वात्’ (ब्र.सू.१-३-२४), ‘कम्पनात्’ (ब्र.सू.१-३-४०), ‘ज्योतिर्दर्शनात्’ (ब्र.सू.१-३-४१) इति चतुर्भिः सूत्रैः सिद्धान्तः कृतः । तेषाञ्च अयमर्थः – अङ्गुष्ठप्रमित: परमात्मा; शब्दादेव ईशानो भूतभव्यस्य इति ईश्वरत्ववाचकेशानशब्दादेव ।

ननु कथं तर्हि परमात्मन: अङ्गुष्ठमात्रत्वम् इत्यत्राह – ‘हृद्यपेक्षया तु मनुष्याधिकारत्वात्’ (ब्र.सू.१-३-२४) हृदि – हृदये परमात्मनो वर्तमानत्वात् , तदपेक्षया अङ्गुष्ठमात्रत्वम् उपपद्यते । न च खरतुरगादीनाम् अङ्गुष्ठशून्यानां हृदयस्य अङ्गठप्रमितत्त्वाभावात्  तदन्तर्वर्तिनः परमात्मनः कथम् अङ्गुष्ठमात्रत्वम् इति वाच्यम्; उपासनाविधायिशास्त्रस्य मनुष्याधिकारिकत्वात् तेषां च अङ्गुष्ठसम्भवात् तद्धृदयवर्तिनः परमात्मनः अङ्गुष्ठसमपरिमाण हृदयावच्छेदनिबन्धनाङ्गुष्ठप्रमितत्वे न अनुपपत्ति: ‘कम्पनात्’ (ब्र.सू.१-३-४०) । ‘यदिदं किञ्च जगत्सर्वं प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम्’ (क.उ.६-२) इति समस्तप्राणिकम्पनहेतुभयहेतुत्वस्य अस्मिन् अङ्गुष्ठप्रमिते आम्नानात् तस्य च परमात्मधर्मत्वस्य ‘भीषाऽस्माद्वातः पवते’ (तै.आ.८-१) इत्यादि श्रुतिप्रतिपन्नत्वात् अङ्गष्ठप्रमितः परमात्मा । “ज्योतिर्दर्शनात्’ (ब्र.सू.१-३-४१), ‘न तत्र सूर्यो भाति न चन्द्रतारकम् (क.उ.५-१५) इति अङ्गुष्ठप्रमिते सकलतेजश्छादकज्योतिस्सम्बन्धप्रतिपादनात् तादृशज्योतिस्सम्बन्धस्य आथर्वणे ब्रह्मसम्बन्धितया प्रतिपादितत्वाञ्च अङ्गुष्ठप्रमितः परमात्मा इत्यर्थः ।।

तथा – ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः ।

मनसस्तु परा बुद्धिः बुद्धेरात्मा महान् परः ।।

महतः परमव्यक्तमव्यक्तात् पुरुषः परः ।

पुरुषान्न परं किञ्चित् सा काष्ठा सा परा गतिः’ ।।

इति वाक्ये, सांख्यप्रक्रियाप्रत्यभिज्ञानात्, पञ्चविंशातिरिक्तपुरुषनिषेधाच्च, सांख्याभिमतम् अब्रह्मात्मकं प्रधानमेव अव्यक्तशब्देन अभिधीयते – इति, ‘आनुमानिकमप्येकेषामिति चेत्’ इति सूत्रखण्डेन पूर्वपक्षं कृत्वा, ‘शरीररूपकविन्यस्तगृहीते: दर्शयति च’ (ब्र.सू. १-४-१), ‘सूक्ष्मं तु तदर्हत्वात्’ (ब्र.सू.१-४-२), ‘तदधीनत्वादर्थवत्’ (ब्र.सू.१-४-३), ‘ज्ञेयत्वावचनाच्च’ (ब्र.सू.१-४-४), ‘बदतीति चेन्न प्राज्ञो हि प्रकरणात्’ (ब्र.सू.१-४-५), ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ (ब्र.सू.१-४-६), ‘महद्वच्च’ (ब्र.सू.१-४-७) इति सप्तभिः सूत्रैः सिद्धान्तः कृतः । तेषां च अयमर्थः – आनुमानिकम्, न अव्यक्तशब्दाभिलप्यम् । उपासनोपयोगिवशीकरणाय, ‘आत्मानं रथिनं विद्धि शरीरं रथमेव च’ (क.उ. ३-३) इति वाक्ये रथिरथादिभावेन रूपितेषु आत्म-शरीर-बुद्धि-मन-इन्द्रियविषयेषु रथरूपकात्मना, ‘शरीरं रथमेव च’ इति विन्यस्तस्य शरीरस्यैव अव्यक्तशब्देन ग्रहणसम्भवात् , अस्मिंश्च प्रकरणे, इन्द्रियादिवशीकरणप्रकारस्यैव, ‘यच्छेद्वाङ्मनसी प्राज्ञः’ (क.उ. ३-१३) इत्यादिदर्शनात् तदनुसारेण अव्यक्तशब्देन शरीरमेव गृह्यते ।

ननु – कथम् अव्यक्तशब्देन व्यक्तस्य शरीरस्याभिधानम्? तत्राह – ‘सूक्ष्मं तु तदर्हत्वात्’ (ब्र.सू. १-४-२) भूतसूक्ष्मम् अव्याकृतं हि अवस्थाविशेषमापन्नं शरीरं भवति । ततश्च कारणवाचिना अव्यक्तशब्देन स्थूलं शरीरमेव उपचारात् उच्यते इत्यर्थः ।

ननु अव्यक्तशब्दस्य मुख्य एवार्थोऽस्तु, कुतः स्थूलशरीरे लक्षणा अभ्युपगन्तव्या? इत्यत्राह – तदर्हत्वादिति ।स्थूलशरीरस्यैव कार्यार्हत्वात् तस्यैव वशीकार्यत्वाय प्रतिपादनस्य अपेक्षितत्वात्, अव्यक्तशब्देन कारणवाचिना स्थूलशरीरलक्षणा उचिता इति भावः।

ननु यदि भूतसूक्ष्मम् अव्याकृतम् अभ्युपगम्यते, कापिलतन्त्रसिद्धोपादाने कः प्रद्वेष:? इत्यत्राह – ‘तदधीनत्वादर्थवत्’ । अस्मन्मते अव्यक्तस्य परमात्माधीनतया. तदधिष्ठितत्वेन प्रयोजनवत्त्वम्  अस्ति; सांख्यमते तदनभ्युपगमात् तस्य निष्प्रयोजनत्वम् इति भावः । ‘ज्ञेयत्वावचनाञ्च (ब्र.स.१-४-४) इति तन्त्रसिद्धमेव अविवक्षिष्यत्, तदा अस्य ज्ञेयत्वमविवक्षिष्यत् । व्यक्ताव्यक्तज्ञविज्ञानान्मोक्षं वदद्भिः तान्त्रिकैः तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात् । न च अस्य ज्ञेयत्वम् उच्यते । अतो न तन्त्रसिद्धस्य इह ग्रहणम् । ‘वदति इति चेन्न प्राज्ञो हि प्रकरणात्’ (ब्र.स.१-४-५) । ‘अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते’ (क.उ.३-१५) इत्युक्तस्य ज्ञेयत्वम् अनन्तरमेव श्रुतिर्वदति इति चेन्न; ‘सोऽध्वन: पारमाप्नोति तद्विष्णोः परमं पदम्’ (क.उ.३-९) इति प्राज्ञस्य परमात्मनः प्रकरणात्, स एव अशब्दमस्पर्शम् इति मन्त्रे ज्ञेयत्वेन निर्दिश्यते, न तन्त्रसिद्धम् अव्यक्तम् । ‘त्रयाणामेव चैवमुपन्यासः प्रश्नश्च’ (ब्र.सू.१-४-६) । अस्मिन् प्रकरणे हि उपायोपेयोपेतृणां त्रयाणामेव ज्ञेयत्वोपन्यासः, ‘अन्यत्र धर्मादन्यत्राधर्मात्’ (क.उ.२-१४) इति प्रश्नश्च दृश्यते, न अव्यक्तादेः । ‘महद्वञ्च’ (ब्र.सू.१-४-७) । यथा ‘बुद्धेरात्मा महान् परः’ (क.उ.३-१०) इत्यत्र आत्मशब्दसामानाधिकरण्यात् न तन्त्रसिद्धं महत्तत्त्वं गृह्यते, एवम् अव्यक्तमपि आत्मनः परत्वेन अभिधानात् न कापिलतन्त्रसिद्धं गृह्यते इति स्थितम् ।

अत: इयमुपनिषत् सर्वाऽपि परमात्मपरा इति त्रिभि: अधिकरणैः निर्णीतम् ।।

‘क्षेमाय यः करुणया क्षितिनिर्जराणां भूमावजृम्भयत भाष्यसुधामुदारः ।

वामागमाध्वगवदावदतूलवातो रामानुजः स मुनिराद्रियतां मदुक्तिम्’ ।।

इति षष्ठीवल्लीप्रकाशिका ।।

।। इति श्रीरङ्गरामानुजमुनिविरचितकठोपनिषत्प्रकाशिका समाप्ता ।।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.